०५ नारद-शापः

॥ ६.५.१ ॥

श्री-शुक उवाच—

तस्यां स पाञ्चजन्यां वै विष्णु-मायोपबृंहितः ।

हर्यश्व-संज्ञान् अयुतं पुत्रान् अजनयद् विभुः ॥

**श्रीधरः : **

पञ्चमे नारदेनाथ वाचः-कूटैस् तु नाशितान् ।

सुतान् आकर्ण्य दक्षोऽमुं शशापेति निरूप्यते ॥१॥

**क्रम-सन्दर्भः : **उवाच चेति चतुष्कम् । पञ्च गुणिताः पञ्च आश्रयि-रूपा यत्र तद्-गृहम् आश्रय-रूपम् अद्भुतम् ॥१॥

**विश्वनाथः : **

वाचः-कूटेन हर्यश्वान् नयांश् चाकृत वैष्णवान् ।

पञ्चमे नारदः शप्तः स दक्षेनेति वर्ण्यते ॥१॥

—ओ)०(ओ—

॥ ६.५.२ ॥

अपृथग्-धर्म-शीलास् ते सर्वे दाक्षायणा नृप ।

पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीं प्रययुर् दिशम् ॥

**श्रीधरः : **अपृथग् धर्म-शीला एकाचार-स्वभावाः ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.३ ॥

तत्र नारायण-सरस् तीर्थं सिन्धु-समुद्रयोः ।

सङ्गमो यत्र सुमहन् मुनि-सिद्ध-निषेवितम् ॥

**श्रीधरः : **तत्र प्रतीच्यां दिशि सिन्धोर् नद्याः समुद्रस्य च यत्र सङ्गमस् तत्र-स्थं नारायण-सरो नाम तीर्थं प्रययुर् इत्य् अन्वयः । सु-महद् अति-विस्तीर्णम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्र दिशि नारायण-सरस्-तीर्थं महद् वर्तते, यत्र सिन्धोर् नद्याः समुद्रस्य च सङ्गमः ॥३॥

—ओ)०(ओ—

॥ ६.५.४ ॥

तद्-उपस्पर्शनाद् एव विनिर्धूत-मलाशयाः ।

धर्मे पारमहंस्ये च प्रोत्पन्न-मतयोऽप्य् उत ॥

**श्रीधरः : **विनिर्धूतो मलो रागादिर् यस्मात् स आशयो येषाम् ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.५ ॥

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।

प्रजा-विवृद्धये यत्तान् देवर्षिस् तान् ददर्श ह ॥

**श्रीधरः : **तान् शुद्ध-सत्त्वान् अपि पित्रादेश-जाड्येन प्रजा-विवृद्धये यत्तान् उद्युक्तान् ददर्श ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यत्तान् उद्यतान् ॥५॥

—ओ)०(ओ—

॥ ६.५.६ ॥

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।

अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः1** ॥**

**श्रीधरः : **अहो कष्टं मोक्ष-मार्गाधिकारिणः सन्त एते प्रवृत्ति-निष्ठैः कर्मभिर् नश्येरन्न् इति कृपया तान् निगूढार्थैर् वाक्यैर् उपदिशति स्म । तद् आह—उवाचेति चतुर्भिः । पालकाः सन्तोऽपि बालिशा अज्ञा यूयं कथं प्रजाः स्रक्ष्यथ ? बतेति खेदे । बालका इति पाठे बालिशत्वे हेतुः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

शुद्धान्तःकरणा एते मोक्ष-धर्माधिकारिणः ।

अनुरोधात् पितुः कस्माद् अत्र मज्जन्ति कर्मणि ॥

तद् इमान् मोचये तत्त्वम् उपदिश्यैव गूढ-वाक् ।

इति कारुणिको वाचः कूटांस् तान् आह नारदः ॥

हे हर्यश्वाः ! भूवोऽन्तम् अदृष्ट्वा प्रजाः कथं स्रक्ष्यथ ? व्याख्यात्व् एषां स्वयम् एवाग्रे करिष्यत इति न व्याख्यायते । तस्मात् यूयं बालिशा मूर्खा एव, यतो बालकाः । पालका इति पाठे प्रजानां पालका अपि यूयं बालिशाः एव । बतेति विस्मये ॥६॥

—ओ)०(ओ—

॥ ६.५.७ ॥

तथैक-पुरुषं राष्ट्रं बिलं चादृष्ट-निर्गमम् ।

बहु-रूपां स्त्रियं चापि पुमांसं पुंश्चली-पतिम् ॥

**श्रीधरः : **एक एव पुरुषो यस्मिंस् तद् राष्ट्रम् अदृष्ट्वेत्य् अनुषङ्गः । बिलं चेत्य्-आदि-द्वितीयान्तानाम् अविज्ञाय कथं सर्गं करिष्यथेति तृतीयेनान्वयः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एक एव पुरुषो यत्र तद् राष्ट्रम् इत्य्-आदि द्वितीयान्तानाम् अविज्ञाय कथं सर्गं करिष्यथेति तृतीयेनान्वयः ॥७॥

—ओ)०(ओ—

॥ ६.५.८ ॥

नदीम् उभयतो वाहां पञ्च-पञ्चाद्भुतं गृहम् ।

क्वचिद् धंसं चित्र-कथं क्षौर-पव्यं स्वयं भ्रमि ॥

**श्रीधरः : **पञ्च-पञ्चानां पञ्च-विंशतेर् अद्भूतं गृहम् । क्षौर-पव्यं क्षुरैः पविभिर् वज्रैश् च निर्मितम् इवाति-तीक्ष्णं दृढं चेत्य् अर्थः । स्वयं स्वतन्त्रम् । भ्रमिं भ्रमण-स्वभावम् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उभयतो बाह्यम् उभय-दिक् प्रवाहतीं पञ्च-पञ्चानां पञ्च-विंशति-तत्त्वानाम् अद्भुतं गृहं विष्णुं परम-साद्गुण्य-प्रदत्वात् भक्तानां तानि तत्रैव स्थातुम् अर्हन्तीति भावः । क्षुरैः पविभिर् वज्रैश् च निर्मितम् अतितीक्ष्णं किम् अपि वस्तु ॥८॥

—ओ)०(ओ—

॥ ६.५.९ ॥

कथं स्व-पितुर् आदेशम् अविद्वांसो विपश्चितः ।

अनुरूपम् अविज्ञाय अहो सर्गं करिष्यथ ॥

**श्रीधरः : **विपश्चितः सर्व-ज्ञस्य स्व-पितुर् आदेशम् आत्मनोऽनुरूपम् अविद्वांसोऽजानन्तः पूर्वोक्तं चैक-पुरुषं राष्ट्रम् इत्य्-आद्य्-अविज्ञायाहो कथं सर्गं करिष्यथेत्य् अन्वयः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विपश्चितः सर्वज्ञस्य ॥९॥

—ओ)०(ओ—

॥ ६.५.१० ॥

श्री-शुक उवाच—

तन् निशम्याथ हर्यश्वा औत्पत्तिक-मनीषया ।

वाचः-कूटं तु देवर्षेः स्वयं विममृशुर् धिया ॥

**श्रीधरः : **वाचः-कूटं परोक्ष-वादेनार्थान्तरम् इव प्रतीयमानं वचनम् । औत्पत्तिकी सहजा मनिषा विचार-शक्तिर् यस्याः, तया धिया स्वयम् एव विममृशुर् विचारितवन्तः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वाचः-कूटं परोक्ष-वादेनार्थान्तरम् इव प्रतीयमानं वचनम् ॥१०॥

—ओ)०(ओ—

॥ ६.५.११ ॥

भूः क्षेत्रं जीव-संज्ञं यद् अनादि निज-बन्धनम् ।

अदृष्ट्वा तस्य निर्वाणं किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **नारदोक्त-दश-वाक्यानां तैर् विमृश्य निर्णीतानर्थान् आह दशभिः । अदृष्ट्वाऽन्तं भुवः [भा।पु। ६.५.६] इत्य् अत्र भू-शब्दार्थम् आह—भूर् इति क्षेत्रम् । तच् चात्र जीव-संज्ञं लिङ्ग-शरीरम् । यन् निज-बन्धनम् आत्मनो बन्ध-कारणम् । अन्त-शब्दार्थम् आह—निर्वाणं नाशम् । असद्भिर् मोक्षानुपयोगिभिः कर्मभिः किं भवेत् ? न किम् अपि॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नारदोक्तानि दश-वाक्यानि सुख-बोधार्थं स्वयम् एव व्याचष्टे दशभिः । तत्र अदृष्ट्वाऽन्तं भुवः [भा।पु। ६.५.६] इति व्याचष्टे—भूर् इति क्षेत्रम् । तच् चात्र जीव-संज्ञं लिङ्ग-शरीरम् । अनादि आदि-शून्यं निजस्य जीवात्मनो -बन्धनं यतस् तत् तस्य निर्वाणम् । अन्तं ज्ञानेन नाशम् इत्य् अर्थः । असत्-कर्मभिर् अवान्तरैः कर्म-मार्गैस् तेन कर्म-निर्वाणार्थम् एव प्रत्युत यतध्वम् इति भावः ॥११॥

—ओ)०(ओ—

॥ ६.५.१२ ॥

एक एवेश्वरस् तुर्यो भगवान् स्वाश्रयः परः ।

तम् अदृष्ट्वाभवं पुंसः किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **एक-पुरुषं [भा।पु। ६.५.७] इत्य् अस्यार्थम् आह—एक एवेति । तुर्यः सर्व-साक्षी । स्वाश्रयः स्वाधारः । अभवं नित्य-मुक्तम् । असद्भिर् ईश्वरासमर्पितैः कर्मभिः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तथा, एक-पुरुषं राष्ट्रं[भा।पु। ६.५.७]इत्य् एतद् व्याचष्टे—एक इति । तुर्यः विश्व-तैजस-प्राज्ञेभ्यो भिन्नश् चतुर्थः । राष्टं जगद् इति ज्ञेयम् । अभवत् न विद्यते भवः संसारो भक्तानां यतन्तं “अदृष्ट्वा भजनैर् अप्रत्यक्षीकृता तेन तम् एव भजतेति भावः ॥१२॥

—ओ)०(ओ—

॥ ६.५.१३ ॥

पुमान् नैवैति यद् गत्वा बिल-स्वर्गं गतो यथा ।

प्रत्यग्-धामाविद इह किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **बिलं चादृष्ट-निर्गमं [भा।पु। ६.५.७] इत्य् अस्यार्थम् आह—पुमान् यद् गत्वा प्राप्य बिल-स्वर्गं पातालं गत इव नैवैति नावर्तते तत् प्रत्यग् धाम ज्योती-रूपं ब्रह्म । अविदोऽविदुषः असद्भिर् नश्वर-स्वर्गादि-साधनैः कर्मभिः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **बिलं चादृष्ट-निर्गमं [भा।पु। ६.५.७] इति व्याचष्टे—पुमान् इति । यत् प्रत्यग्-धाम प्रतीचो भगवतो धाम वैकुण्ठं गत्वा प्राप्य न पुनर् एति न पुनर् आवर्तते । बिल-स्वर्गं पातालं गतो यथा तत्रैवासज्य तिष्ठतीत्य् अर्थः । अविदः अविदुषो जनस्य तेन वैकुण्ठ-प्राप्तये यतध्वम् इति भावः ॥१३॥

—ओ)०(ओ—

॥ ६.५.१४ ॥

नाना-रूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता ।

तन्-निष्ठाम् अगतस्येह किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **बहु-रूपां स्त्रियं [भा।पु। ६.५.७] इत्य् अस्यार्थम् आह—नाना-रूपेति । स्वैरिणीव पुंश्चलीव विमोहकै रज-आदि-गुणैर् अन्विता । तन् निष्ठां तस्या अवसानं विवेकम् अगतस्याप्राप्तस्य । असद्भिर् अशान्तैः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **बहु-रूपां स्त्रियं [भा।पु। ६.५.७] इत्य् एतद् व्याचष्टे—नानेति । स्वैरिणीव कुविषयोन्मुखी गुणाः सौन्दर्य-वैदग्ध्यादयः । पाण्डित्यादयश् च तैर् अन्विता । तस्या निष्ठां भद्राभद्र-प्रवृत्तिम् अगतस्य अजानतः अविचारयत इत्य् अर्थः । अतो विवेकेन बुद्धिं कृष्णोन्मुखीं कुरुतेति भावः ॥१४॥

—ओ)०(ओ—

॥ ६.५.१५ ॥

तत्-सङ्ग-भ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।

तद्-गतीर् अबुधस्येह किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **पुमांसं पुंश्चली-पतिं [भा।पु। ६.५.७] इत्य् अस्यार्थम् आह । तस्याः सङ्गेन भ्रंशितम् ऐश्वर्यं स्वातन्त्र्यं यस्य । कुत्सिता भार्या यस्य तद्वत् । तस्या गतीः सुख-दुःख-लक्षणाः । संसरन्तं गच्छन्तं जीवम् अबुधस्याजानतः । असद्भिर् बुद्ध्य्-अविवेक-प्राप्तैः ॥१५॥

**क्रम-सन्दर्भः : **तस्याः पुंश्चली-रूपाया मायायाः सङ्गेन भ्रंशितम् ऐश्वर्यं किञ्चित् स्वीय-ज्ञानादि-सामर्थ्यं यस्य तम् । तस्या गतीः संसरन्तं गच्छन्तं जीवम् स्व-स्वरूपम् अबुधस्याजानत इत्य् अर्थः2 । तत्-सङ्ग-भ्रंशितैश्वर्यम् इति । जीवस्य स्व-ज्ञानादि-रूपं स्वरूप-सामर्थ्यं किञ्चिद् दर्शितम् इति ज्ञेयम् ॥१५॥3

**विश्वनाथः : **पुमांसं पुंश्चली-पतिं [भा।पु। ६.५.७] इति व्याचष्टे—तद् इति । कुत्सित-भार्यं गृहस्थम् इव संसरन्तं जीवम् अबुधस्य अजानतः—षष्ठ्य्-अभाव आर्षः । तस्य गतीः स्वर्ग-नरकाद्या अप्य् अजानतः तेनात्मानम् आत्मनैवोद्धरथेति भावः ॥१५॥

—ओ)०(ओ—

॥ ६.५.१६ ॥

सृष्ट्य्-अप्यय-करीं मायां वेला-कूलान्त-वेगिताम्4** ।**

मत्तस्य ताम् अविज्ञस्य किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **नदीम् उभयतो वाहां [भा।पु। ६.५.८] इत्य् अस्यार्थम् आह । सृष्ट्य्-अप्ययौ करोतीत्य् उभयतः प्रवाहो दर्शितः । वेला कूलं प्रवाह-पतितानां निर्गम-स्थानं तपो-विद्यादि तस्यान्ते समीपे वेगितां निर्गम-प्रतिबन्धाय क्रोधाहङ्कारादिभिः कृत-वेगाम् । मत्तस्य तद् वेगेन विवशस्य । अत एव तां तथाभूताम् अविज्ञस्याविचारयतः । असद्भिर् मायिकैः । यद् वा, वेला-कूलं समुद्रस्य व्यवहार-स्थानं तस्य समीपे समुद्र-वृद्धि-ह्रासाभ्यां यथोभयतोऽन्तर्-बहिः कृत-वेगा नदी भवत्य् एवं समुद्र-तुल्यस्यात्मनो व्यवहार-स्थाने व्यवहार-स्थाने देहे जन्म-मरणादिभिः कृत-वेगाम् इत्य् अर्थः । वेगिनीम् इति पाठे वेगवतीम् ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नदीम् उभयतो वाहां [भा।पु। ६.५.८] इति व्याचष्टे—सृष्टाप्ययौ करोतीति तां सृष्टि-काले पूर्व-पूर्वतस् तत्त्वानि निःसरन्ति अप्यय-काले उत्तरोत्तरतः पूर्वं पूर्वं प्रविशन्तीत्य् उभयतः प्रवाहो दर्शितः । वेला-कुलस्यान्तं समीपं, वेला स्यात् तीर-नीरयोः इत्य् अभिधानात् । संसार-प्रवाह-पतितानां निर्गम-स्थानं तपो-विद्यादि, तत्रैव वेगिनीं निर्गम-प्रतिबन्धाय तपो-विद्यादिमत् सुदृष्टैः क्रोधाहङ्कारादिभिः कृत-वेगां, वेगिताम् इति च पाठः । मत्तस्य तत्-तद्-वेगेन विवशस्य, अत एव तां तथा-भूताम् अविज्ञस्य अविचारयतः तेन लौकिक-प्रतिष्ठादिकम् अपि परित्यज्य पारं व्रजथेति भावः ॥१६॥

—ओ)०(ओ—

॥ ६.५.१७ ॥

पञ्च-विंशति-तत्त्वानां पुरुषोऽद्भुत-दर्पणः ।

अध्यात्मम् अबुधस्येह किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **पञ्च-पञ्च[भा।पु। ६.५.८] इत्य् अस्यार्थम् आह । पञ्च-विंशति-तत्त्वानां पुरुषोऽन्तर्यामी । अद्भुत-दर्पणम् आश्चर्य-रूप आश्रयः । अध्यात्मं कार्य-कारण-सङ्घाताधिष्ठातारम् । तम् अबुधस्य । असद्भिर् मिथ्यास्वातन्त्र्य-कृतैः ॥१७॥

**क्रम-सन्दर्भः : **लोहानाम् इव पञ्चविंशति-तत्त्वानां सङ्घात-रूपः पुरुषोऽद्भुतो दर्पणः, आत्मनः आभास आश्रयो मुखादेर् इव । ऐश्वरं भगवल्-लीलात्मकम् । चित्र-कथम् इत्य् उक्तत्वात् । विविक्तानि पदानि सर्वेऽप्य् अर्था यस्मात् ॥१७॥

**विश्वनाथः : **पञ्च-पञ्चाद्भुत-गृहं [भा।पु। ६.५.८] इत्य् एतद् व्याचष्टे—पञ्चेति । पुरुषो विष्णुर् अद्भुत-दर्पण इति भक्ता हि स्व-चिन्तादीनि पञ्च-विंशति-तत्त्वानि विष्णोर् एवार्पयन्ति तानि च विष्णु-गतानि भूत्वा निर्मलान्य् अप्राकृतानि नित्यानि प्रतिबिम्बितां परित्यज्य विष्णु-रूप-दर्पण-धर्माण्य् एव भवन्तीति विष्णु-रूप-दर्पणस्याद्भुतत्वम् । अन्य-दर्पण-गतं मुखादिकं तु यथा-स्थित-रूपं यत् तत् प्रतिबिम्बम् एव भवेन् न तु दर्पण-गत-नैर्मल्य-ग्राहीत्य् अर्थः । तं पुरुषं विष्णुम् अध्यात्मम् आत्मन्य् एव वर्तमानम् अबुधस्य सेव्यत्वेनाजानतः । तस्माद् देहात्मानौ हरये समर्पयथेति भावः ॥१७॥

—ओ)०(ओ—

॥ ६.५.१८ ॥

ऐश्वरं शास्त्रम् उत्सृज्य बन्ध-मोक्षानुदर्शनम् ।

विविक्त-पदम् अज्ञाय किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **क्वचिद् धंसं [भा।पु। ६.५.८] इत्य् अस्यार्थम् आह । ऐश्वरम् ईश्वर-प्रतिपादकम् । विविक्तं पदं चिज्-जड-रूपं वस्तु येनेति हंस-पद-व्याख्यानम् । बन्ध-मोक्षाव् अनुदर्शयतीति तथा । अनेन चित्राः कथा यस्येति व्याख्यातम् । तद् उत्सृज्यान् अभ्यस्य अज्ञायाविदुषः । असद्भिर् बहिर्-मुखैः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **क्वचिद् धंसं चित्र-कथं [भा।पु। ६.५.८] इति व्याचष्टे—ऐश्वरम् ईश्वर-प्रतिपादकम् । बन्ध-मोक्षौ विचित्राभिः कथाभिर् अनुदर्शयतीति चित्र-कथम् इति व्याख्यातम् । क्षीर-नीरम् इव विविक्तम् आत्मात्म-वस्तु येनेति हंस-पदं व्याख्यातम् । विविक्तानि विचार-युक्तान्य् एव पदानि सुप्-तिङ्-अन्तानि यत्रेति तत्रैवान्तिक्यम् उचितम् अतो मोक्षार्थम् ईश्वरं भजतेति भावः ॥१८॥

—ओ)०(ओ—

॥ ६.५.१९ ॥

काल-चक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् ।

स्वतन्त्रम् अबुधस्येह किम् असत्-कर्मभिर् भवेत् ॥

**श्रीधरः : **क्षौर-पव्यं [भा।पु। ६.५.८] इत्य् अस्यार्थम् आह—काल-चक्रम् इति । भ्रमिर् भ्रमणात्मकम् । तीक्ष्णम् इति निष्कर्षयद् इति च क्षौरपव्य-पदं व्याख्यातम् । तद् अबुधस्यात एव फलस्य नित्य-बुद्ध्या काम्य-कर्मानुष्ठाने वैगुण्य-बाहुल्याद् असद्भिः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **क्षौर-पव्यं स्वयं भ्रमि[भा।पु। ६.५.८] इति व्याचष्टे—काल-चक्रम् इति । क्षुर-पविभ्याम् इव निवृत्तम् इति भय-प्रदत्वात् क्षौर-पव्यं भ्रमणात्मकत्वाद् भ्रमिः । तीक्ष्णत्वात् तीक्ष्णं निष्कर्षयत् विनाशयत् । तेन श्वः परश्वो वा मरिष्यथ किम् इति हरिं न भजथेति भावः ॥१९॥

—ओ)०(ओ—

॥ ६.५.२० ॥

शास्त्रस्य पितुर् आदेशं यो न वेद निवर्तकम्

कथं तद्-अनुरूपाय गुण-विस्रम्भ्य् उपक्रमेत् ॥

**श्रीधरः : **स्व-पितुर् आदेशं [भा।पु। ६.५.९] इत्य् अस्यार्थम् आह । शास्त्रस्य स्व-पितुर् द्वितीय-जन्म-हेतोः । तद्-अनुरूपाय निवृत्त्य्-अनुरूपाय । निवर्तकम् आदेशं यो न वेद स कथं गुण-विश्रम्भी गुण-मय-प्रवृत्ति-मार्ग-विश्वासवान् सन्न् उपक्रमेत् सृष्ट्य्-आदौ प्रवर्तेत ।

मोक्षेश-ब्रह्म-बुद्धीनां जीव-मायान्तर्-आत्मनाम् ।
शास्त्र-कालोपदेशानाम् अज्ञाने किम् उ कर्मभिः ॥ इति वाचः-कूट-सङ्ग्रह-श्लोकः ॥२०॥

**क्रम-सन्दर्भः : **तद्-अनुरूपाय निवृत्त्य्-अनुरूपाय ज्ञानाय । तद्-अवेदने तत्रैव वध्येतेति भावः ॥२०॥

**विश्वनाथः : **कथं स्व-पितुर् आदेशम् अविद्वांसः[भा।पु। ६.५.९] इति व्याचष्टे—शास्त्रस्येति । न ह्य् आधान-कर्तैव पिता । किन्तु शास्त्रम् एव तस्य पितुर् आदेशोऽपि निवर्तक एव, न तु प्रवर्तकः । अतो यस्यादेशं निवर्तकं न वेद, तदा तद्-अनुरूपाय आदेशानुरूपं कर्तुं कथम् उपक्रमेत् । यतोऽयं गुणे प्रवृत्ति-मार्गे एव विस्रम्भी अयम् एवादेश इति विश्वासवान्, अतः शास्त्रस्य शास्त्रानुसारिणः पितुश् च निवृत्ति-धर्मे या आज्ञा सेवा वास्तवी, ताम् एव पालयेद् इति ध्वनिः । अतः शास्त्र-तात्पर्य-प्रतिकूलम् आदेष्टुर् दक्षस्य पितृत्वाभावात् तद्-आज्ञाया अपालने वो नास्ति प्रत्यवाय इत्य् अनुध्वनिः । तस्मान् मत्त एव विष्णोर् मन्त्रं गृहीत्वा क्वचिद् एकान्त उपविश्य तं विष्णुम् एव भजतेति सर्वानुध्वनिः ॥२०॥

—ओ)०(ओ—

॥ ६.५.२१ ॥

इति व्यवसिता राजन् हर्यश्वा एक-चेतसः ।

प्रययुस् तं परिक्रम्य पन्थानम् अनिवर्तनम् ॥

**श्रीधरः : **इति व्यवसिता एवं निश्चितवन्तः । एक-चेतस ऐकमत्य-युक्ताः । तं नारदं प्रदक्षिणी-कृत्यापुनर्-आवृत्ति-मार्गं प्रययुः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इति विशेषेण अवसितं निश्चितं यैस् ते, एक-चेतसः ऐक्यमत्यवन्तः, परिक्रम्येति गुरु-करण-चरणामृत-ग्रहण-दण्डवत्-प्रणमनादयोऽप्य् उपलक्ष्यन्ते ॥२१॥

—ओ)०(ओ—

॥ ६.५.२२ ॥

स्वर-ब्रह्मणि निर्भात- हृषीकेश-पदाम्बुजे ।

अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥

**श्रीधरः : **निर्भातः साक्षात् कृतो यो हृषीकेशस् तस्य पदाम्बुजे । अनुचरत् अन्वचरद् इत्य् अर्थः ॥२२॥

**क्रम-सन्दर्भः : **नारदस्य च चेष्टेयं सर्वं तद् उन्मुखी-करणेच्छा-मयेन श्री-भगद्-अनुरागेणैवेत्य् आह—स्वर-ब्रह्मणीति । उत्तम-स्वर-जाति-स्वभावोऽयम् । यः सामान्यतः स्व-स्वोत्कण्ठा-विषयं स्मारयति विशेषतो भक्तानां भगवन्तम् इत्य् अनुभवः ॥२२॥

**विश्वनाथः : **हन्त हन्त एतावन्तो जीवा नरकाद् उद्धृतास् तत्-प्रभोर् यश उपरीणयामीति नारदस्यानन्द-समुद्रे निमज्जनम् आह—स्वराः षड्जादय एव ब्रह्म, तत्र निर्भातस्य लीला-गानेन साक्षात्-कृतस्य हृषीकेशस्य सर्वेन्द्रियाकर्षकस्य कृष्णस्य चरण-कमले ॥२२॥

—ओ)०(ओ—

॥ ६.५.२३ ॥

नाशं निशम्य पुत्राणां नारदाच् छील-शालिनाम् ।

अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् ॥

**श्रीधरः : **नाशम् अदर्शनं स्व-धर्म-भ्रंशं वा । शीलेन शालन्ते शोभन्त इति तथा तेषाम् । को दक्षः ? सुप्रजस्त्वं सत्-पुत्रवत्त्वम् । शुचां शोकानां स्थानम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नाशं वैष्णवत्वम् एव गृहस्थानां मते नाशस्तम् । को दक्षः ? अन्वतप्यत । हन्त हन्त तादृशा मे पुत्रा नारदेन भ्रंशिता इति विषसाद । सुप्रजस्त्वं सत्-पुत्रवत्त्वम् । शुचां पदं शोकानां स्थानं शोक-दुःखादृष्टवन्त एव लोकाः सुप्रजसो भवन्तीति विललाप ॥२३॥

—ओ)०(ओ—

॥ ६.५.२४ ॥

स भूयः पाञ्चजन्यायाम् अजेन परिसान्त्वितः ।

पुत्रान् अजनयद् दक्षः सवलाश्वान् सहस्रिणः ॥

**श्रीधरः : **अजेन ब्रह्मणा । सहस्रशः सहस्र-सङ्ख्यान् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सवलाश्वान् सवलाश्व-संज्ञान् सहस्रिणः सहस्र-साङ्ख्यातान् ॥२४॥

—ओ)०(ओ—

॥ ६.५.२५ ॥

ते च पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः ।

नारायण-सरो जग्मुर् यत्र सिद्धाः स्व-पूर्वजाः ॥

**श्रीधरः : **परमं ब्रह्म प्रणवं वक्ष्यमाण-मन्त्रं वा ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.२६ ॥

तद्-उपस्पर्शनाद् एव विनिर्धूत-मलाशयाः ।

जपन्तो ब्रह्म परमं तेपुस् तत्र महत् तपः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ब्रह्म परमं वक्ष्यमाणं मन्त्रम् ॥२६॥

—ओ)०(ओ—

॥ ६.५.२७ ॥

अब्-भक्षाः कतिचिन् मासान् कतिचिद् वायु-भोजनाः ।

आराधयन् मन्त्रम् इमम् अभ्यस्यन्त इडस्पतिम् ॥

**श्रीधरः : **इडस्पतिं वाचां मन्त्राणां पतिं विष्णुम् आराधयामासुः ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.२८ ॥

ॐ नमो नारायणाय पुरुषाय महात्मने ।

विशुद्ध-सत्त्व-धिष्ण्याय महा-हंसाय धीमहि ॥

**श्रीधरः : **विशुद्ध-सत्त्वाश्रयाय परम-हंसाय नमो धीमहि ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.२९ ॥

इति तान् अपि राजेन्द्र प्रजा-सर्ग-धियो मुनिः

उपेत्य नारदः प्राह वाचः-कूटानि पूर्ववत् ॥

**श्रीधरः : **प्रति-सर्गे धीर् येषां तान् । वाचः-कूटानि अदृष्ट्वाऽन्तं भुवः[भा।पु। ६.५.६] इत्य्-आदीनि पूर्वोक्तानि प्राह ॥२९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.३० ॥

दाक्षायणाः संशृणुत गदतो निगमं मम

अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृ-वत्सलाः ॥

**श्रीधरः : **हे दाक्षायणाः, संशृणुतेत्य्-आदि-पुनर्-अन्यद् अपि प्राह । निगमम् उपदेशम् । अन्विच्छतावलोकयत ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **निगमम् उपदेशम् ॥३०॥

—ओ)०(ओ—

॥ ६.५.३१ ॥

भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।

स पुण्य-बन्धुः पुरुषो मरुद्भिः सह मोदते ॥

**श्रीधरः : **प्रायणं प्रकृष्टं गमनम् । पुण्यम् एव बन्धुर् यस्य मरुद्भिर् भ्रातृ-वत्सलैर् देवैः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रायणं प्रव्रज्यं मरुद्भिर् भ्रातृ-वत्सलैर् देवैः । अयं दृष्टान्त एवोक्तः—यूयं तु वैकुण्ठ-गामिभिर् अग्रजैः सह मोदिष्यध्वे इति भावः ॥३१॥

—ओ)०(ओ—

॥ ६.५.३२ ॥

एतावद् उक्त्वा प्रययौ नारदोऽमोघ-दर्शनः ।

तेऽपि चान्वगमन् मार्गं भ्रातॄणाम् एव मारिष ॥

**श्रीधरः : **अमोघं दर्शनं यस्य । हे मारिष आर्य ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मारिष हे आर्य ॥३२॥

—ओ)०(ओ—

॥ ६.५.३३ ॥

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।

नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीर् इव ॥

**श्रीधरः : **सध्रीचीनं समीचीनम् । प्रतीचीनं प्रत्यग्-वृत्ति-लभ्यम् । अनुपथम् अनुगुण-पन्थानम् । पश्चिमा यामिनीर् गता रात्रय इव ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सध्रीचीनं समीचीनम् । प्रतीचीनं प्रत्यग्-वृत्ति-लभ्यं परस्य परमेश्वरस्य अनुकूलं भक्ति-मार्गं पश्चिमा यामिनीर् गता रात्रय इव ॥३३॥

—ओ)०(ओ—

॥ ६.५.३४ ॥

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः ।

पूर्ववन् नारद-कृतं पुत्र-नाशम् उपाशृणोत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.५.३५ ॥

चुक्रोध नारदायासौ पुत्र-शोक-विमूर्च्छितः ।

देवर्षिम् उपलभ्याह रोषाद् विस्फुरिताधरः ॥

**श्रीधरः : **पुत्राणां पारमहंस्य-निष्ठाम् उपश्रुत्य दक्षोऽपि प्रायशो विरक्तः स्याद् इति तद्-अनुग्रहार्थं देवर्षिस् तत्-पार्श्वं गतः । तदा तम् उपलभ्य दक्ष आह ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **देवर्षिम् उपलभ्येति स्वायम्भुवस्य मनोर् वंशाः प्रियव्रतोत्तानपाद-ध्रुवादयः सर्वे मद्-द्वारैव भगवता आत्म-सात्कृताः, महा-कर्म-जडः प्राचीनबर्हिर् अप्य् उद्धृतः । तस्य पुत्रा दश प्रचेतसः पौत्रा दश-सहस्राणि हर्यश्वाः सहस्रं सवलाश्वाश् चोत्तीर्णाः ।कथम् ? एकस् तन्-मध्य-वर्ती दक्ष एव गृहान्ध-कूपे खेलतीति तम् अप्य् उद्दिधीर्षामीति विमृश्य साम्प्रतं च पुत्राणां पारमहंस्य-निष्ठां श्रुत्वा स्वयम् एव शोचन् दक्षः प्रायो गृहे निर्विण्ण एव वर्तते । तत् तम् अनुगृहीतुम् अयम् एव समयः साधुः । यद्यपि साम्प्रतम् अपि स मां नान्विष्यति, तद् अप्य् अहम् एव तस्य गृहं यामीति विचार्य तत्रागतवन्तं नारदम् उपलभ्याह ॥३५॥

—ओ)०(ओ—

॥ ६.५.३६ ॥

श्री-दक्ष उवाच—

अहो असाधो साधूनां साधु-लिङ्गेन नस् त्वया ।

असाध्व् अकार्य् अर्भकाणां भिक्षोर् मार्गः प्रदर्शितः ॥

**श्रीधरः : **साधोर् इव लिङ्गं वेषो यस्य तेन त्वया नोऽस्मदीयानाम् अर्भकाणाम् असाध्व्-अकारि कृतम् । तद् एवाह—साधूनां स्व-धर्मे प्रवृत्तानां भिक्षोर् यो मार्गः स प्रदर्शितः ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **साधोर् इव लिङ्गं वेशो यस्य तेन त्वया महा-दाम्भिकेनेत्य् अर्थः । साधूनाम् अस्माकम् इति गौरवेण बहु-वचनम् । मम साधोस् तव वैरं स्वप्नेऽप्य् अकुर्वतस् त्वया असाधु अभद्रम् अकारीत्य् एतावता कालेन तव महद्-अपराधो जात इति भावः।

ननु किम् असाध्व् अकारि ? इति तत्राह—अर्भकाणां मद्-बालकानां गार्हस्थ्य-सुख-भोगम् असहमानेन मत्सरेण त्वया भिक्षोर् भिक्षुक-लोकस्य । अर्भकाणाम् इत्य् अर्भकत्वाद् एव ते सरलास् तव कपटिनोऽप्य् उपदेशं जगृहुर् इति भावः । अत्र, न विद्यते साधुर् यतः,हे तथा-भूत, साधु-लिङ्गेन साधूनि लिङ्गानि चिह्नान्य् अपि यस्य तेन न विद्यते साधुर् यतस् तथा-भूतं यथा स्यात् तथा दर्शितः, इति सरस्वत्य्-अभिप्रेतोप्य् अर्थो ज्ञेयः । एवम् अग्रिमेषु शोकेष्व् अपि । किं च, विस्तर-भयाय विवृतः ॥३६॥

—ओ)०(ओ—

॥ ६.५.३७ ॥

ऋणैस् त्रिभिर् अमुक्तानाम् अमीमांसित-कर्मणाम् ।

विघातः श्रेयसः पाप लोकयोर् उभयोः कृतः ॥

**श्रीधरः : **ननु सन्न्यासिनो मार्गः साधुर् एव, मोक्ष-हेतुत्वात् । सत्यम्, ऋण-त्रयापाकरणं विना तु महान् अनर्थ एवेत्य् आह—ऋणैर् इति । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाञ् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी-वासीति श्रुतेः । ऋणैर् अमुक्तानाम् । न मीमांसितानि विचारितानि कर्माणि यैः । तेषां तावद् ऋण-विमोको नास्ति । तद्-उत्तर-काल-भावित्वाच् च पुत्रोत्पादन-यज्ञानुष्ठानयोर् अभावेन पितृ-देवर्षि-कृणाद् विमुक्तिश् च नास्ति । अतो हे पाप ! विषय-भोग-त्यागाद् इह लोके श्रेयसो विघातः कृतः । मोक्षानधिकारित्वाच् च पर-लोकेऽपि श्रेयसो विघातः कृत इत्य् अर्थः । तथा च मनुः,

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥[मनु। ६.३५] इति ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु भिक्षा-मार्ग एव संसार-तारण-क्षमो, न तु गृहस्थानां युष्माकम् इति चेत्, तत्राह—ऋणैर् इति । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाञ् जायते । ब्रह्मचर्येण ऋषिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्ञकृत् ब्रह्मचारी वापि इत्य्-आदि-श्रुतेः । ऋणैर् अमुक्तानां न मीमांसितानि न विचारितानि कर्माणि यैः, तेषां तावद् ऋषि-ऋण-विमोक्षो नास्ति । तद्-उत्तर-काल-भावित्वाच् च पुत्रोत्पादन-यज्ञानुष्ठानयोर् अभावेन पितृ-देव-र्ण-विमुक्तिश् च नास्ति । अतो हे पाप ! विश्वस्त-घातिन् ! विषय-भोग-त्याजनाद् इह लोके श्रेयसो विघातः । मोक्षानधिकारेऽपि वैराग्य-प्रवर्तनात् पर-लोकेऽपि श्रेयसो विघातः कृत इत्य् अर्थः । तथा च मनुः,

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥[मनु। ६.३५] इति ॥३७॥

—ओ)०(ओ—

॥ ६.५.३८ ॥

एवं त्वं निरनुक्रोशो बालानां मति-भिद् धरेः ।

पार्षद-मध्ये चरसि यशो-हा निरपत्रपः ॥

**श्रीधरः : **बालानां मतिं पुत्रादि-विषयां भिनत्तीति तथा । एवं निरनुक्रोशो निर्घृणः । हरेर् यशो-नाशकः सन् तत् पार्षदानां मध्ये कथं चरसि ? ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्वां दुष्टं किं ब्रवीमि ? त्वया सेवकेन भगवतोऽपि दुर्यशोऽजनिष्टेत्य् आह—एवम् इति । निरनुक्रोशो निर्दयः । मतिं शास्त्र-विहित-कर्म-निष्ठां बुद्धिं भिनत्तीति सः । हरेर् यशोहा त्वम् अभूस् तेन हराव् अपि तवापराधः । पार्षद-मध्ये इति वैष्णवेष्व् अपीत्य् एवम् अस्मद्-विधेषु महत्सु भगवति भागवतेषु च तवापराधो जातो दुर्वार एव—विश्वस्त-घातीत्य्-आदीनां दुष्कृतानां तु वार्ता दूरे एवेति भावः ॥३८॥

—ओ)०(ओ—

॥ ६.५.३९ ॥

ननु भागवता नित्यं भूतानुग्रह-कातराः ।

ऋते त्वां सौहृद-घ्नं वै वैरङ्-करम् अवैरिणाम् ॥

**श्रीधरः : **निर्लज्जत्वम् एवाह—नन्व् इति । ननु त्व् आमृते भागवताः सर्वे भूतानुग्रह-पर-वशास्त्वं तु भूत-विप्रियं कुर्वन् कथं न लज्जसे ? इति भावः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किं च, मत्-सम्मुखम् आयातस् त्वं कीदृशं मुखं दर्शयितुम् अतो धिक् त्वां निर्लज्जम् इत्य् आह—नन्व् इति । ऋते त्वाम् इति त्वं तु भूत-मात्र-द्रोहीति भावः । सौहृदघ्नम् इति सौहृद-कारिणम् अप्य् अस्माकम् इति भावः । वैरङ्करम् इत्य् अस्माकं प्रकटम् एव वैरं कृत्वापि पुनः केन मुखेन प्रत्यक्षीभवसीति सत्यं निरपत्रप एवासि । कति पुनर् अहं त्वां लज्जयामीति भावः ॥३९॥

—ओ)०(ओ—

॥ ६.५.४० ॥

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा ।

मन्यसे यद्य् उपशमं स्नेह-पाश-निकृन्तनम् ॥

**श्रीधरः : **ननु वैराग्याद् उपशम् उपशमाच् च भूत-स्नेह-पाश-च्छेदनं भवति, न च विरक्तस्य ऋण-त्रयापाकरणम् आवश्यकम्, यद् अहर् एव विरजेत्, तद् अहर् एव प्रव्रजेत्, यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् इत्य्-आदि-श्रुतेः । अतो वैराग्योपदेशेन तेषां मयानुग्रह एव कृत इति चेत् तत्राह—नेति । यद्य् अपि त्वम् एवं मन्यसे, तथापि मृषा केवलिना ज्ञानं विनाऽवधूत-वेषेण त्वयेत्थं मति-चालने कृतेऽपि पुंसां विरागो वैव स्यात् । न च विरागं विनोपशमः, न च तेन विना स्नेह-पाश-निकृन्तनम् इत्य् अर्थः ॥४०॥

**क्रम-सन्दर्भः : **श्री-नारदे दक्षापराधोऽयं प्राचीन-शिवापराध-दुःसंस्कारेण ॥४०॥

**विश्वनाथः : **ननु मत्-प्रवर्तिताद् वैराग्याद् एव तेषाम् उपशमस् तस्माच् च स्नेह-पाश-निकृन्तनं वृत्तम् एव । अद्यापि तव पितुर् अपि पार्श्वानागमनाद् एवानुमितं तत् कथं तेषां मोक्षेऽनधिकारः, न च विरक्तस्य ऋण-त्रयाप्य् अकरणम् एवावश्यकम्—यद् अहर् एव विरज्येत्, तद् अहर् एवप्रव्रजेत्, यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् इत्य्-आदि-श्रुतेः । अतो वैराग्योपदेशेन तेषां मयानुग्रहः कृत एवेति चेत् ? नेति । सत्यं, महा-पुरुषाणां कृपया विरागः स्याद् एव, त्वया तु मृषा केवलिना ज्ञान-शून्यावधूतेन अनन्य-वैष्णवं-मन्येन वा इत्थं मति-चालने कृतेऽपि सप्ताष्ट-वासरान् विरागो भवन्न् अपि नीतितो वास्तवो विरागः स्यात् । यद्यपि त्वम् उपशमं मन्यसे, तद् अपि नैव स्यात्, तव महा-पुरुषत्वाभावाद् इति भावः ॥४०॥

—ओ)०(ओ—

॥ ६.५.४१ ॥

नानुभूय न जानाति पुमान् विषय-तीक्ष्णताम् ।

निर्विद्यते स्वयं तस्मान् न तथा भिन्न-धीः परैः ॥

**श्रीधरः : **इत्थं विरागो न स्याद् इत्य् अत्र हेतुम् आह—नानुभूय अननुभूय विषयाणां तीक्ष्णतां दुःख-हेतुत्वं न जानाति । तस्माद् विषयानुभवेन तीक्ष्णत्व-ज्ञानात् ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्मात् त्वम् अनभिज्ञो राज-मार्गं मत्तः शृण्व् इत्य् आह—नेति । विषयाणां तीक्ष्णतां दुःख-प्रदत्वम् अननुभूय न जानाति । अतस् तस्माद् विषय-भोगोत्थाद् एव तदीय-तीक्ष्णत्व-ज्ञानात् स्वयम् एव निर्विद्येत यथा, न तथा परैस् त्वादृशैर् भिन्न-धीः विदीर्ण-मतिः ॥४१॥

—ओ)०(ओ—

॥ ६.५.४२ ॥

यन् नस् त्वं कर्म-सन्धानां साधूनां गृहमेधिनाम् ।

कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् ॥

**श्रीधरः : **अतस् त्वयास्माकम् अप्रियम् एव कृतं तथापि वयं न कुर्म इत्य् आह—यद् इति । कर्म-सन्धानां कर्म-मर्यादानाम् । कर्तुम् अन्धानाम् इति पाठे विप्रियं कर्तुम् अजानताम् इत्य् अर्थः । दुःसहं यत् त्वं कृतवान् असि तन् मर्षितं सोढम् ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं त्वया यथा मम निर्हेतुकं वैरं कृतं, तस्य प्रतिफलम् अहम् अपि तच् चतुर्गुणितं स्वयम् एव दातुं शक्नोम्य् एव, तथापि न ददामीति पश्य गृहस्थानाम् अप्य् अस्माकं तितिक्षाम् इत्य् आह—यद् इति । कर्ते कर्म-मार्गे एव सन्धा मर्यादा येषां तेषां, कर्तुम् अन्धानाम् इति पाठे परेषां विप्रियं कर्तुम् अज्ञानताम् इत्य् अर्थः । दुर्मर्षं दुःसहम् अपराधं तव ज्ञान-भक्ति-मर्यादा-भ्रष्टस्य परं विप्रियं कर्तुं चक्षुष्मतः असाधोः परमहंसाश्रमिणः मर्षितं क्षान्तम् ॥४२॥

—ओ)०(ओ—

॥ ६.५.४३ ॥

तन्तु-कृन्तन यन् नस् त्वम् अभद्रम् अचरः पुनः

तस्माल् लोकेषु ते मूढ न भवेद् भ्रमतः पदम् ॥

**श्रीधरः : **तथापि तवाभद्रं भविष्यत्य् एवेत्य् आह । तन्तु-कृन्तन सन्तान-च्छेदक । यद्यस्माद् अभद्रं पुत्राणां स्थान-भ्रंशम् अचरस् तत् तस्मात् तव लोकेषु भ्रमतः पदं स्थानं न भवेद् इति मृदु-च्छलेन शापः ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तथापि तवाभद्रं तु भविष्यत्य् एवेत्य् आह—हे तन्तु-कृतेन, सन्तान-च्छेदक, अभद्रं मत्-पुत्राणां स्थान-भ्रंशम् अचरः अकरोः, पदं स्थानम् ॥४३॥

—ओ)०(ओ—

॥ ६.५.४४ ॥

श्री-शुक उवाच—

प्रतिजग्राह तद् बाढं नारदः साधु-सम्मतः

एतावान् साधु-वादो हि तितिक्षेतेश्वरः स्वयम् ॥

**श्रीधरः : **बाढं तथेति स्वी-कृतवान् । ईश्वरोऽपि प्रतिशप्तुं समर्थोऽपि । तितिक्षेत सहेतेति यद् एतावान् एव ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रतिजग्राह बाढं तथेति स्वीचकार । साधूनां सम्मतः इति साधव एवम् एव सहन्त इत्य् अर्थः । प्रसिद्धस्य साधु-वाद-शब्दस्याप्य् एषैव निरुक्तिर् इत्य् आह—एतावान् इति । ईश्वरः प्रतिशप्तुं समर्थोऽपि ।

ननु दक्षम् अनुगृहीतुम् आगतो नारदो दक्षेण बहुशस् तिरस्कृतः । तत्र तांस् तिरस्कारान् श्रुत्वा नारदेन तत्-समीपात् कथं नापसृतम् ? उच्यते—नारदस्यायम् अभिप्रायः । क्रोध-वशोऽयं बहुशस् तिरस्कारान् अपि करोतु, शापं च ददातु । ततश् च क्रोधस्यैतत् फलोदयाद् इत्य् उक्तेर् यदा क्रोधः शाम्येत्, मां च प्रति तिरस्कारादिकम् अकुर्वाणं सर्वम् एव सहमानम् आलोक्य, हन्त हन्त भगवद्-भक्तोऽयं तिरस्कृतः शप्तश् चेति वैकुण्ठागतानां सनकादीनाम् इवानुतापश् च यदा भविष्यति तदा भक्ति-बीज-वपन-योग्य-क्षेत्रीभूतेऽस्मिन् शुद्ध-भक्ति-बीजम् उप्त्वा यामीति बुद्ध्या तावत्-क्षण-पर्यन्तम् अपि स्थितम् । दक्षस्य तु तत् तद् दृष्ट्वा अहो चन्द्रार्ध-मौलेर् अपराध-विशेष-प्राबल्यम् इति स्मृत्वा ततोऽपसृतम् ॥४४॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
नारद-शापो नाम
पञ्चमोऽध्यायः ।

॥ ६.५ ॥

(६.६)


  1. बालकाः इति पाठान्तरं विश्वनाथ-गृहीतं। ↩︎

  2. इत्य् उत्तरेणान्वयः इति परमात्म-सन्दर्भ-पाठः। ↩︎

  3. तत्-सङ्ग-भ्रंशितैश्वर्यम् इति । जीवस्य स्व-ज्ञानादि-रूपं दर्शितम् ॥१५॥ इति पाठान्तरम्। ↩︎

  4. वेगिनीम् इति पाठान्तरं विश्वनाथाभिमतं। ↩︎