०४ हंस-गुह्य-स्तवः

॥ ६.४.१ ॥

श्री-राजोवाच—

देवासुर-नृणां सर्गो नागानां मृग-पक्षिणाम् ।
सामासिकस् त्वया प्रोक्तो यस् तु स्वायम्भुवेऽन्तरे ॥**

**श्रीधरः : **

चतुर्थादि-त्रिभिर् विश्व- रूप-जन्म-विवक्षया ।

प्रचेतःसु तद् अक्षस्य वंशस् तावत् प्रतन्यते ॥

चतुर्थे तु प्रजा-सृष्ट्यै दक्षेणाराधनं हरेः ।

तपसा हंस-गुह्याख्य स्तोत्रेण च निरूप्यते ॥

प्रसक्तानुप्रसक्तेन स्वायं-भुव-सुतान्वये ।

नाम-प्रभावम् अकर्ण्य वंश-व्यासं बुभुत्सते ॥

देवासुरेति द्वाभ्याम् । सामासिकः सङ्क्षिप्तो यः प्रोक्तस् तृतीय-स्कन्धे ॥१॥

चैतन्य-मत-मञ्जुषा : केवलं ३१-तम-श्लोकः व्याख्यातः।

**क्रम-सन्दर्भः : **सामासिकः षष्ठादि-मन्वन्तर-जात-विस्ताराकथनात् ॥१॥

**विश्वनाथः : **

पुनश् च पोषणं वाच्यम् इन्द्रस्याचार्य-घातिनः ।

स चात्मा विश्वरूपो दक्ष-कन्या-सुतोद्भवः ॥

दक्षस्यातश् चतुर्थान्ते संक्षेपेणोक्त-जन्मनः ।

कथाध्याय-त्रयेणेह स्कन्धे वाच्या स-विस्तरम् ॥

राजापि सृष्टेः प्रस्तावे स्वायम्भुव-सुतान्वयौ ।

स प्रसङ्गौ समाकर्ण्य भूयः पप्रच्छ तत् पुनः ॥

चतुर्थे तु प्रचेतोभ्यः जातो दक्षः प्रजाः सृजन् ।

हंसगुह्य-स्तवेनेशं तुष्टावेति निरूप्यते ॥

देवासुरेति द्वाभ्याम् । सामासिकः सङ्क्षिप्तो यः प्रोक्तस् तृतीय-स्कन्धे ॥१॥

—ओ)०(ओ—

॥ ६.४.२ ॥

तस्यैव व्यासम् इच्छामि ज्ञातुं ते भगवन् यथा ।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥**

**श्रीधरः : **व्यासं विस्तारम् । ते त्वत्तः यया शक्त्या यथा ससर्ज तां शक्तिं तत् प्रकारं च ज्ञातुम् इच्छामि । अनुसर्गम् अनुवृत्तं सर्गम् ॥२॥

**क्रम-सन्दर्भः : **व्यासं तन्-मन्वन्तर-जात-दक्षानन्तर-शाखोपशाखा-रूपम् । पूर्व-सर्गस्य केनचित् कारणेन नष्ट-प्रायत्वाद् अनुसर्गम् ॥२॥

**विश्वनाथः : **व्यासं विस्तारम् । ते त्वत्तः । अनुसर्गम् अनुवृत्तं सर्गम् । यया शक्त्या यथा ससर्ज तां शक्तिम् । तं प्रकारं च, परो ब्रह्मा ॥२॥

—ओ)०(ओ—

॥ ६.४.३ ॥

श्री-सूत उवाच—

इति सम्प्रश्नम् आकर्ण्य राजर्षेर् बादरायणिः ।
प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.४ ॥

श्री-शुक उवाच—

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।
अन्तः-समुद्राद् उन्मग्ना ददृशुर् गां द्रुमैर् वृताम् ॥**

**श्रीधरः : **दक्षादि-रूपेण ससर्जेति वक्तुं दक्ष-जन्म-प्रकारम् आह—यदेति । प्राचीनबर्हिषः पुत्रा यदा समुद्र-मध्याद् उन्मग्ना निर्गतास् तदा गां पृथ्वीं द्रुमैर् वृतां ददृशुः । नारदोपदेशतः प्राचीनबर्हिषो निवृत्त्या अराजके सति कृष्य्-आद्य्-अभावात् ॥४॥

**क्रम-सन्दर्भः : **यदेति । उत्तानपाद-वंशान्तम् आरभ्य कथनं तस्यैवान्तिम-राज्यत्वात् ॥४॥

**विश्वनाथः : **दक्षादि-रूपेण ससर्जेति वक्तुं रुद्रापराधाच्छाग-मुखस्य दक्षस्य अवमान-दुःखेन् अ देहं त्यक्तवतः पुनर्-जन्म-प्रकारम् आह—यदेति । गां पृथ्वीं द्रुमैर् वृतां ददृशुः । नारदोपदेशतः प्राचीनबर्हिषि विरज्य वनं गते सत्यराजकाद् एव कृष्य्-आद्य्-अभावात् ॥४॥

—ओ)०(ओ—

॥ ६.४.५ ॥

द्रुमेभ्यः क्रुध्यमानास् ते तपो-दीपित-मन्यवः ।
मुखतो वायुम् अग्निं च ससृजुस् तद्-दिधक्षया ॥**

**श्रीधरः : **तपसा दीपितो मन्युर् येषां ते तेषां द्रुमाणां दग्धुम् इच्छया ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तपो-दीपितेति तपसः कोपाधिष्ठानत्वात् ॥५॥

—ओ)०(ओ—

॥ ६.४.६ ॥

ताभ्यां निर्दह्यमानांस् तान् उपलभ्य कुरूद्वह ।
राजोवाच महान् सोमो मन्युं प्रशमयन्न् इव ॥**

**श्रीधरः : **ताभ्यां वाय्व्-अग्निभ्यां दह्यमानांस् तान् द्रुमान् । वनस्पतीनां राजा सोम उवाच । मा द्रुमेभ्य इति नवभिः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सोमो वृक्षाधिष्ठाता स एव वृक्षाणां राजा प्रशमयन्न् इवेति प्रथमं साम्नोपायेन मन्योर् अपगमासम्भवाद् इति भावः ॥६॥

—ओ)०(ओ—

॥ ६.४.७ ॥

न द्रुमेभ्यो महा-भागा दीनेभ्यो द्रोग्धुम् अर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥**

**श्रीधरः : **हे महा-भागाः ! विवर्धयिषवो विशेषेण वर्धयितुम् इच्छवः ॥७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.८ ॥

अहो प्रजापति-पतिर् भगवान् हरिर् अव्ययः ।
वनस्पतीन् ओषधीश् च ससर्जोर्जम् इषं विभुः ॥**

**श्रीधरः : **प्रजा-पतीनां तद्-भक्ष्य-भोज्य-दाहोऽनुचित इत्य् आह—अहो इति त्रिभिः । ऊर्जं भक्ष्यम् । इषम् अन्नम् ॥८॥

**क्रम-सन्दर्भः : **ऊर्जम् अन्नातिरिक्तं भक्ष्यम् । अन्नम् इति स-बलानां दुर्बलानाम् अन्नम् असृजद् इत्य् अर्थः ॥८॥

**विश्वनाथः : **ऊर्जम् अन्नातिरिक्तं फलादि-भक्ष्यं वनस्पति-हेतुकम् । इषम् अन्नं गोधूमाद्य्-ओषधि-हेतुकम् ॥८॥

—ओ)०(ओ—

॥ ६.४.९ ॥

अन्नं चराणाम् अचरा ह्य् अपदः पाद-चारिणाम् ।
अहस्ता हस्त-युक्तानां द्वि-पदां च चतुष्-पदः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **चराणां पक्षाभ्यां चरतां भ्रमरादीनाम् अचराः पुष्प-लताद्या एवान्नम् । पद-चारिणां पद्भिश् चरतां गोमहिषादीनाम् अपदो घासाद्या एवान्नम् । तेष्व् एव हस्त-युक्तानां व्याघ्रादीनां गवादयः । द्विपदां पद्भ्यां चरतां मनुष्याणां चतुष्पदो हरिणाद्याः । च-कारात् अचरा धान्य-गोधूमाद्याश् च ॥९॥

—ओ)०(ओ—

॥ ६.४.१० ॥

यूयं च पित्रान्वादिष्टा देव-देवेन चानघाः ।
प्रजा-सर्गाय हि कथं वृक्षान् निर्दग्धुम् अर्हथ ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.११ ॥

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥**

**श्रीधरः : **अत आतिष्ठत आश्रयत् । सतां मार्गम् उपशमम् । पित्रादिभिर् जुष्टम् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पित्रादिभिर् जुष्टं सतां मार्गम् उपशमम् आतिष्ठत ॥११॥

—ओ)०(ओ—

॥ ६.४.१२ ॥

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः ।
पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् ॥**

**श्रीधरः : **प्रजानां प्रजा-पतिर् एव बन्धुर् अतस् तज् जीविकानाशो न कर्तव्य इति दृष्टान्त-पञ्चकेनाह । तोकानां बालानां माता-पितरौ । अज्ञानां ज्ञान-दो बुध एव सुहृत् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यूयं हि प्रजा-पालका द्रुमादयः प्रजाः, प्रजोपजीव्याश् चेत्य् एतान् पालयत \ । न हि पालकानां नाशकत्वं दृष्टम् इत्य् अत्र दृष्टान्त-पञ्चकम् आह—तोकानां बालानां स्त्रियाः पतिर् भर्ता प्रजानां पतिर् नृपः ॥१२॥

—ओ)०(ओ—

॥ ६.४.१३ ॥

अन्तर् देहेषु भूतानाम् आत्मास्ते हरिर् ईश्वरः ।
सर्वं तद्-धिष्ण्यम् ईक्षध्वम् एवं वस् तोषितो ह्य् असौ ॥**

**श्रीधरः : **ईश्वराधिष्ठानत्वाच् च भूत-द्रोहो न युक्त इत्य् आह—अन्तर् देहेष्व् इति । वो युष्माभिः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ईश्वराधिष्ठानत्वाच् च भूत-द्रोहो न युक्त इत्य् आह—अन्तर् इति । वो युष्माभिर् एवं सर्व-भूतदयैव असाव् ईश्वरस् तोषित इति किं न स्मरथेति भावः ॥१३॥

—ओ)०(ओ—

॥ ६.४.१४ ॥

यः समुत्पतितं देह आकाशान् मन्युम् उल्बणम् ।
आत्म-जिज्ञासया यच्छेत् स गुणान् अतिवर्तते ॥**

**श्रीधरः : **आकाशाद् देहे समुत्पतितम् आकस्मिकम् इत्य् अर्थः । आत्म-विचारेण यो नियच्छेत् ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु कोप-काले कुत एतावान् विचारः ? तत्राह—य इति । आकाशाद् इव देहे समुत्पतितम् आकस्मिकम् इत्य् अर्थः । आत्मनो जिज्ञासया विचारेण यच्छेत् उपशमयेत् । स-गुणान् इति अन्यथा यूयं गुणैर् एव ग्रस्ता भविष्यथेति सामोक्त्वा भेदश् च ध्वनितः ॥१४॥

—ओ)०(ओ—

॥ ६.४.१५ ॥

अलं दग्धैर् द्रुमैर् दीनैः खिलानां शिवम् अस्तु वः ।
वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥**

**श्रीधरः : **खिलानां शेषाणां वो युष्माकं च शिवम् अस्तु । वृक्ष-रक्षणार्थं तदीयां कन्यां ददाति । वार्क्षी वृक्षैः पालिता ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भेदेनाप्य् उपशमाभावम् आलक्ष्य दानम् आह—अलम् इति । खिलानां शेषाणां, वार्क्षी वृक्षैः पालितत्वाद् वृक्ष-कन्या ॥१५॥

—ओ)०(ओ—

॥ ६.४.१६ ॥

इत्य् आमन्त्र्य वरारोहां कन्याम् आप्सरसीं नृप ।
सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥**

**श्रीधरः : **आमन्त्र्य सान्त्वयित्वा आप्सरसीम् अप्सरसः प्रम्लोचायाः सुताम् ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आप्सरसीम् अप्सरसः प्रम्लोचायाः सुताम् ॥१६॥

—ओ)०(ओ—

॥ ६.४.१७ ॥

तेभ्यस् तस्यां समभवद् दक्षः प्राचेतसः किल ।
यस्य प्रजा-विसर्गेण लोका आपूरितास् त्रयः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **समभवद् इति दक्षस्य स्वायम्भुवम् अनुवंश्यत्वात् स्वायम्भुवे मन्वतरे जन्म । यस्य प्रजा-विसर्गेणैति प्रजा-विसर्गस् त्व् अस्य चाक्षुष एव—

चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ [भा।पु। ४.३०.४९] इति चतुर्थोक्तेः ।

तस्मात् मध्ये मन्वन्तर-पञ्चकम् अभिव्याप्यास्य तप एव पौर्वकालिकैश्वर्य-प्राप्त्य्-अर्थकम् अवगम्यते ॥१७॥

—ओ)०(ओ—

॥ ६.४.१८ ॥

यथा ससर्ज भूतानि दक्षो दुहितृ-वत्सलः ।
रेतसा मनसा चैव तन् ममावहितः शृणु ॥**

**श्रीधरः : **दुहितृ-वत्सल इति तस्य कन्या-वंश एवेत्य् उक्तम् । मम मत्तः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दुहितृ-वत्सल इति पुत्र-वंशाभावः सूचितः ॥१८॥

—ओ)०(ओ—

॥ ६.४.१९ ॥

मनसैवासृजत् पूर्वं प्रजापतिर् इमाः प्रजाः ।
देवासुर-मनुष्यादीन् नभः-स्थल-जलौकसः ॥**

**श्रीधरः : **प्रजा-पतिर् दक्षः ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.२० ॥

तम् अबृंहितम् आलोक्य प्रजा-सर्गं प्रजापतिः ।
विन्ध्य-पादान् उपव्रज्य सोऽचरद् दुष्करं तपः ॥**

**श्रीधरः : **अबृंहितम् असंवृद्धम् । विन्ध्यस्य पादान् सन्निहित-पर्वतान् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रजापतिर् दक्षो विन्ध्यस्य पादान् प्रत्यन्त-पर्वतान् ॥२०॥

—ओ)०(ओ—

॥ ६.४.२१ ॥

तत्राघ-मर्षणं नाम तीर्थं पाप-हरं परम् ।
उपस्पृश्यानुसवनं तपसातोषयद् धरिम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.२२ ॥

अस्तौषीद् धंस-गुह्येन भगवन्तम् अधोक्षजम्

तुभ्यं तद् अभिधास्यामि कस्यातुष्यद् यथा हरिः ॥

**श्रीधरः : **हंस-गुह्याख्येन स्तोत्रेण । कस्य दक्षस्य ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हंसगुह्येन स्तोत्रेण पूर्व-सिद्धेनैव नैगमेन, न तु दक्ष-कृतेनेत्य् अर्थः । कस्य दक्षस्य ॥२२॥

—ओ)०(ओ—

॥ ६.४.२३ ॥

श्री-प्रजापतिर् उवाच—

नमः परायावितथानुभूतये

गुण-त्रयाभास-निमित्त-बन्धवे ।

अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभिर्

निवृत्त-मानाय दधे स्वयम्भुवे ॥

**श्रीधरः : **पराय सर्वोत्तमाय नमो दधे नमनं करोमि । परत्वे हेतुः—अवितथा अनुभूतिश् चिच्-छक्तिर् यस्य । अतो गुण-त्रयाभासो जीवो निमित्तं माया च तयोर् बन्धवे नियन्त्रे । एवम् अपि गुणेषु तत्त्व-बुद्धिर् येषां तैर् जीवैर् अदृष्टं धाम स्वरूपं यस्य । तत्र हेतुः, निवृत्तं मानं यस्मात् । पाठान्तरे निवृत्तं निरस्तं मानम् अवधिश् च यस्मात् । तर्हि कथं तस्य सिद्धिः ? अत आह । स्वयम्-भुवे स्व-प्रकाशाय ॥२३॥

**क्रम-सन्दर्भः : **परापर-कामेन निष्कामेण वा परमेश्वर एव भजनीयो नान्यस् तस्य माया-जीव-वशीकारि-शक्तित्वाद् अन्यस्य तन्-मायाधीन-तुच्छ-शक्तिस् तद्-अर्थं स्तुति-विशेषेणोपतिष्ठते—नम इति ।

अवितथेत्य्-अव्यभिचार-ज्ञानेच्छा-शक्ती दर्शिते । गुण-त्रयेति । तादृश-क्रिया-शक्तिर् दर्शिता जीव-माया-नियन्तृत्वात् तासां तादृश-शक्तीनां तत्-तद्-अतीतत्वेन स्वरूप-भूतत्वं च तथापि गुणेषु सत्त्वादिष्व् एव तत्त्व-बुद्धिः कारण-ज्ञानं येषां तैर् अदृष्टं तर्कयितुम् अशक्यं किमुतानुभवितुम् अशक्यं धाम तादृश-शक्ति-प्रकाशोऽपि किम् उत स्वरूप-तत्-पूर्ण-शक्ती यस्य तस्मै । सर्वत्र हेतुः—स्वप्रकाशायेति । गुण-त्रयस्याभासः स्वाज्ञानेनारोपो यस्मिन् स जीव इति । जीवस्य चिद्-रूपत्वे तद्-वद् अज्ञान-स्पृष्टत्वाभासतो निकर्ष एव व्यक्तीकृतः रश्मी-स्थानीयत्वात् तस्य ॥२३॥

**विश्वनाथः : **पराय जीव-माया-मायिकेभ्य इत्य् अर्थः । कुतः ? अवितथानुभूतये सत्यानुभवाय गुण-त्रयाभासो जीवः निमित्तं मायां तयोर् बन्धवे, एवम् अपि गुणेषु तत्त्व-बुद्धिर् येषां तैर् जीवैर् अदृष्ट-स्वरूपाय । तद्-भिन्नैर् अपि सन् सम्यग् अवगम्य धामेत्य् आह—निवृत्तो मानावधिः परिमाण-सीमा यस्य तस्मै । न ह्य् एतावद् गुण-रूपैश्वर्यकः इति कोऽपि वक्तुंशक्नोतीति भावः । यद् उक्तं ब्रह्मणा—

गुणात्मनस् तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।[भा।पु। १०.१४.७] इति ।

निवृत्तमानाय दधे इति पाठे मानो ज्ञानम् । दधे करोमि । तदा नमः इति कर्म-पदम् । तर्हि कथं तस्य सिद्धिस् तत्राह—स्वयम्भुवे स्व-प्रकाशाय ॥२३॥

—ओ)०(ओ—

॥ ६.४.२४ ॥

न यस्य सख्यं पुरुषोऽवैति सख्युः

सखा वसन् संवसतः पुरेऽस्मिन् ।

गुणो यथा गुणिनो व्यक्त-दृष्टेस्

तस्मै महेशाय नमस्करोमि ॥

**मध्वः : **गुणो यथा गुणिनः । कश्चित् पुर-स्थितो गुण-भूतः प्रधान-भूतस्य राज्ञः ममासौ सखेति । राज्ञा चिन्तितम् अपि न जानाति ।

यथा राज्ञः प्रियत्वं तु भृत्या वेदेन चात्मनः ।
तथा जीवो न यत् सख्यं वेत्ति तस्मै नमोऽस्तु ते ॥ इति स्कान्दे ॥२४॥

**श्रीधरः : **अदृष्ट-धामत्वं दर्शयन्नाह—नेति । पुरुषः सखा जीवोऽस्मिन् पुरे देहे वसन्न् अप्य् अत्रैव संवसतः सख्युर् यस्य सख्यं करण-प्रवर्तकत्वादिकं नावैति न जानाति तस्मै । कुतः ? व्यक्त-दृष्टेः प्रपञ्च-द्रष्टुः । न हि द्रष्टा दृश्यो भवतीति । प्रथमान्त-पाठे व्यक्ते प्रपञ्च एव दृष्टिर् यस्य स गुणो विषयो गुणिनो विषयिण इन्द्रियादेः सख्यं प्रकाशकत्वं यथा न वेत्ति तद्वत् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अदृष्ट-धामत्वम् उपपादयति—नेति । यस्य परमात्मनः । सख्यं करण-प्रवर्तकत्वादिकं पुरुषो जीवो नावैति न जानाति, अस्मिन्न् एव पुरे देहे वसतोऽपि सख्युर् अपि आत्मारामत्वेऽपि सख्याद् एव तत्-कामितान् विषयान् भोजयितुः, स्वयं सखापि तस्य तत्-तत्-सख्यम् अनुभवन्न् अपि अत्रैव देहे वसन्न् अपि नैव वेद, व्यक्त-दृष्टेर् इति षष्ठ्य्-अन्त-पाठे बुद्धीन्द्रिय-प्रकाशाद् एव यद्-विषयकं ज्ञानं व्यक्तम् एव तस्यापीश्वरस्य, प्रथमान्त-पाठे तस्माद् एव हेतोर् यत्-कर्तृकं ज्ञानं व्यक्तम् एव, सोऽपि जीवः शब्द-स्पर्शादिर् यथा गुणिनः श्रोत्रादेर् इन्द्रियस्य सख्यं स्व-माधुर्यादि-ज्ञापन-लक्षणं न वेत्ति, तद्वत् ॥२४॥

—ओ)०(ओ—

॥ ६.४.२५ ॥

देहोऽसवोऽक्षा मनवो भूत-मात्रा

नात्मानम् अन्यं च विदुः परं यत् ।

सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो

न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥

**मध्वः : **देह-मानी वैश्रवणो मरुतः प्राण-मानिनः ।

इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः ॥
नैते विदन्ति स्वात्मानं परं वापि विमोहिताः ।
जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः ।
सोऽपि वेद हरिं नैव सम्यक् चैव हि सर्ववित् ॥ इति च ॥२५॥

**श्रीधरः : **ननु गुणो जडत्वान् न जानातीति, जीवस् तु चेतनः किम् इति न जानाति ? अत आह—देह इति। देहश् चासवश् च प्राणा अक्षाणि इन्द्रियाणि मनवश् चान्तः-करणानि भूतानिमात्राश् च तन्-मात्राण्य् आत्मानं स्वरूपं दृश्यम् अन्यम् इन्द्रिय-वर्गं, तयोः परं देवता-वर्गं च [न] विदुःपुमान् जीवस् तु सर्वम् एतत् त्रयं वेद, गुणांश् च तन्-मूल-भूतान् वेदतज्-ज्ञोऽपि सन्, यं सर्व-ज्ञं न वेद, तम् अनन्तम् ईडे स्तौमि ॥२५॥

**क्रम-सन्दर्भः : **देहेति । अन्यं देवता-वर्गं, परं पुमांसं च ॥२५॥

**भगवत्-सन्दर्भः (१७) : **देहश् चासवश् च प्राणा अक्षाणीन्द्रियाणि च, मनवोऽन्तःकरणानि, भूतानि च, मात्राश् च तन्-मात्राणि, आत्मानं स्व-स्वरूपम्, अन्यं स्वस्वविषय-वर्गं, तयोः परं देवता-वर्गं च न विदुः । पुमान् जीवस् तु सर्वम् आत्मानं स्व-स्वरूपं, तद् अन्यं प्रमातारं, तयोः पदं देहाद्य्-अर्थ-जातं तद्-अधिष्ठातृ-देवता-वर्गं च वेद, तथा देहादि-मूल-भूतान् गुणांश् च सत्त्वादीन् वेद ।

तत्-तज्-ज्ञोऽप्य् असौ यं सर्वज्ञं देहादिजीवान्ताशेष-ज्ञातारं न वेद तम् अनन्तं महद्-गुणत्वाद् यम् अनन्तम् आहुर् [भा।पु। १.१८.१९] इति। अत एव हि यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यतीत्य् आरभ्य [बृ।आ।उ। ४.५.१५] जीवस्येतर-दृष्टत्वम् उक्त्वा, यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कः पश्येद् इत्य्-आदिना तस्य परमात्म-द्रष्टृत्वं निषिध्य परमात्मनस् तु तत् तत् सर्व-द्रष्टृत्वं स्व-द्रष्टृत्वम् अप्य् अस्तीति, विज्ञातारम् अरे केन विजानीयाद् [बृ।आ।उ। २.४.१४] इत्य् अनेनाह ।

अयम् अर्थः—यत्र माया-वैभवे द्वैतम् इव भवति, तन्-मूलकत्वात् तद्-अनन्यद् अपि मायाख्याचिन्त्य-शक्ति-हेतुकतया जड-मलिन-नश्वरत्वेन तद्-विलक्षणतया समादितं ततः स्वतन्त्र-सत्ताकम् इव मुहुर् जायते, तत् तत्र इतरो जीव इतरं पदार्थं पश्यति, तस्य करण-दृश्ययोर् मिथो योग्यत्वाद् इति भावः । यत्र तु स्वरूप-वैभवे तस्य जीवस्य रश्मि-स्थानीयस्य मण्डल-स्थानीयो य आत्मा परमात्मा, स एव स्वरूप-शक्त्या सर्वम् अभूत्, अनादितएव भवन्न् आस्ते, न तु तत्-प्रवेशेन, तत् तत्र इतरः स जीवः केनेतरेण करण-भूतेन कं पदार्थं पश्येत्, न केनापि कम् अपि पश्येद् इत्य् अर्थः । न हि रश्मयः स्व-शक्त्या सूर्य-मण्डलान्तर्गत-वैभवं प्रकाशयेयुर् न चार्चिषो वह्निं निर्दहेयुर् इति भावः । तद् एवं सति यस्य खल्व् एवम् अनन्तं स्वरूप-वैभवं तं विज्ञातारं सर्वज्ञं परमात्मानं केनेतरेण करणेन विजानीयात् न केनापीत्य् अर्थः । तद् एवं ज्ञान-शक्तौ तत्र सिद्धायां क्रियेच्छा-शक्ती च लक्ष्येते ॥२५॥

**विश्वनाथः : **ननु गुणो जडत्वात् न जानातु, जीवस् तु चेतनः कथं न जानाति ? तत्र स सर्वत्र चेतनोऽपि परमेश्वरे त्व् अचेतन एवेत्य् आह—देहश् च तत्रस्था असवः प्राणाश् च अक्षा इन्द्रियाणि च मनवोऽन्तः-करणानि च भूतानि पृथिव्य्-आदीनि च मात्राः शब्दादयश् च आत्मानं स्व-स्वरूपम् आत्मनां मध्ये अन्यम् अन्य-स्वरूपम् आत्मभ्यः सर्वेभ्य एव परं जीव-स्वरूपं च न विदुः । पुमान् जीवस् तु चेतनत्वात् सर्वम् आत्मानं देहादीन् गुणान् सत्त्वादीन् तन्-मूल-भूतांश् च वेद जीवन्-मुक्तत्व-दशायां तं परमात्मनं च जानातीति तज्-ज्ञः । तद् अपि सर्वज्ञं परमेश्वरं न वेद । ननु तज्-ज्ञः इति ब्रूषे, तद् अपि न वेदेति कुतः ? तत्राह—अनन्तम् अप्राकृत-गुणानाम् अनन्त्यात् तद् अप्य् अज्ञानम् एव । यद् उक्तं—द्युपतय एव ते न ययुर् अन्तम् अनन्ततया [भा।पु। १०.८७.४१] इति ॥२५॥

—ओ)०(ओ—

॥ ६.४.२६ ॥

यदोपरामो मनसो नाम-रूप

रूपस्य दृष्ट-स्मृति-सम्प्रमोषात् ।

य ईयते केवलया स्व-संस्थया

हंसाय तस्मै शुचि-सद्मने नमः ॥

**मध्वः : **केवलया स्व-संस्थया । स्वप्न-सुषुप्तादौ मन उपरमाज् जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्न-प्रबोधादि दर्शनाद् अन्य ईश्वरस् तन्-नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात् केवलत्वम् ।

यदोपरामो मनसः स्वप्न-सुषुप्तादिषु ।
तदावस्था-प्रबोधादिकारणत्वेन केशवः ॥
अस्वातन्त्र्यात् तु जीवस्य विद्यतेऽन्यो नियामकः ।
जीव-प्रवृत्त्यानुकूल्याज् ज्ञायतेऽसौ तदा विभुः ॥ इति हरि-वंशेषु ॥२६॥

**श्रीधरः : **अदृष्ट-धामत्वम् उक्त्वा स्व-प्रकाशत्वम् आह । यदा मनस उपरामः समाधिर् न तु सुषुप्ताव् इव लयो न च जाग्रत्-स्वप्नयोर् इव विक्षेपः । तदाह—नाम-रूपे रूप्येते येन तत् तथा तस्य । उपरामे हेतुः, दृष्टं दर्शनां स्मृतिश् च तयोः संप्रमोषान् नाशात् । तदा यः केवलेन स्वरूप-ज्ञानेन प्रतीयते तस्मै हंसाय शुद्धाय शुचि शुद्धं मनः सद्म प्रतीति स्थानं यस्य तस्मै नमः ॥२६॥

**क्रम-सन्दर्भः : **स्व-संस्थया स्वरूप-शक्त्या ॥२६॥

**विश्वनाथः : **ननु तज्-ज्ञोऽपि न वेदेति यद् उक्तं तत्र तद् एव वेद्यं वस्तु द्विविधं—सुज्ञेयं, दुर्ज्ञेयं च । तत्र सुज्ञेयं, निर्विशेष-स्वरूपम् आह—यदेति ।

यद् वा, मनस उपराम उपरामातिशयः स्मरण्ह्, न तु सुषुप्ताव् इव लयः । न च जाग्रत्-स्वप्नयोर् इव विक्षेपः । कीदृशस्य ? नाम-रूपे रूप्येते येन तस्य, उपरामातिशये हेतुः—दृष्टं दर्शनं, स्मृतिश् च, तयोः सम्प्रमोषात् सम्यक् तयैव नाशात्, तदा यः केवलया स्वस्य संस्थयैव, निर्विशेष-ज्ञान-गम्यतया वस्तु-मात्रत्वेनेत्य् अर्थः । ईयते प्रतीयते । तस्मै संस्थाय शुद्धाय । शुचि शुद्धं चित्तं सद्म प्रतीति-स्थानं यस्य तस्मै । एतत्-स्वरूपस्य सुज्ञेयत्वम् उक्तं ब्रह्मणा, यथा—

तथापि भूमन् महिमा-गुणस्य ते
विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः ॥ [भा।पु। १०.१४.६] इति ॥२६॥

—ओ)०(ओ—

॥ ६.४.२७-२८ ॥

मनीषिणोऽन्तर्-हृदि सन्निवेशितं

स्व-शक्तिभिर् नवभिश् च त्रि-वृद्भिः ।

वह्निं यथा दारुणि पाञ्चदश्यं

मनीषया निष्कर्षन्ति गूढम् ॥

स वै ममाशेष-विशेष-माया-

निषेध-निर्वाण-सुखानुभूतिः ।

स सर्व-नामा स च विश्व-रूपः

प्रसीदताम् अनिरुक्तात्म-शक्तिः ॥

**मध्वः : **इच्छादि-रूपेण त्रि-वृद्भिः ।

इच्छादित्वेन त्रिविधा विमलाद्यास् तु शक्तयः ।
विष्णोः स्वरूप-भूतायास् ताभ्यस् तन्-नामिकाः पराः ॥
जायन्ते तत्-प्रसादेन ताश् च पीठे प्रपूजयेत् ।
तद्-भिन्न-जीवास् तस्यैव प्रसादात् ताः समीप-गाः ॥ इतितत्त्व-निर्णये ।
दशेन्द्रियाणि च मनो-बुद्धि-प्राण-प्रधानकाः ।
चतुर्देशैषां परमः पाञ्चदश्यो हरिः स्मृतः ।
बुद्धेर् भेदेन चैतेषु पाञ्चदश्योऽथ संस्थितेः ॥ इति च ।
इयत्ता तु विशेषः स्याद् आनन्दादौ तद्-उज्झितेः ।
सर्वैर् विशेषै रहित उच्यते हरिर् अव्ययः ।
अप्राकृत-स्वरूपत्वान् निर्मायश् चेति कथ्यते ॥ इति च ।
तद्-रूप-सदृशं रूपं यतः सर्वस्य सर्वदा ।
सर्व-रूपो यतः शब्द-मुख्यार्थः सर्व-नामकः ॥ इति च ।
अलौकिकत्वान् नो विष्णुर् निरुक्तोऽतो निरूपितः ।
तथापि वेदेषूक्तत्वाद् उक्तो रूपी स एव च ॥ इति व्योम-संहितायाम् ॥२७-२८॥

**श्रीधरः : **एवं-भूतः केषां प्रतीयत इत्य् अपेक्षायाम् आह—मनीषिण इति द्वाभ्याम् । विवेकिनो यं निष्कर्षन्ति विविच्य ध्यायन्ति, स निर्वाण-सुखानुभूतिर् मम प्रसीदताम् इति द्वयोर् अन्वयः । एवं निष्कर्षता प्रतीयत इति भावः । किम् ? इति निष्कर्षन्ति । स्व-शक्तिभिर् गूढम् अप्रकाशमानम् । कतिभिर् नवभिः ? पुनश् च त्रि-वृद्भिः त्रि-गुणाभिः सप्त-विंशत्य् उपाधिभिर् गूढम् अष्टा-विंशं निष्कर्षन्तीत्य् अर्थः ।

यद् वा, नवभिः प्रकृति-पुरुष-महद्-अहङ्कार-पञ्च तन्मात्र-रूपाभिः । त्रि-वृद्भिस् त्रि-गुणात्मिकाभिः । च-कारात् षोडश-विकार-रूपाभिश् च । कथं-भूतं निष्कर्षन्ति ? मनीषयान्तर्-हृदि सन्निवेशितं निश्चलीकृतं पाञ्चदश्यं पञ्चदश-सामिधेनी-मन्त्रैः प्रकाश्यम् अलौकिकं वह्निम् इवाहङ्कारास्पदाद् आत्मनोऽन्यं परमात्मानं निष्कर्षन्तीत्य् अर्थः ॥२७॥

अशेषा विशेषा यस्यास् तस्या मायाया निषेधेन निवार्ण-सुखेऽनुभूतिर् यस्य अप्रसक्त-निषेधासंभवात् प्रसक्तिम् आह । स एव सर्व-नामा, स एव विश्व-रूप इति । तद्-रूपत्वेऽपि वास्तवत्वाभावान् निषेधः संभवतीत्य् आह । अनिरुक्ता आत्मनि शक्तिर् माया यस्य सः ॥२८॥

**क्रम-सन्दर्भः : **मनीषिण इति युग्मकम् । त्रिवृन् नव-शक्त्य्-अतीतत्वे सति कथं स्वतो निःशक्तिक एवाहम् ? नेत्य् आह—अशेषेति । अनुभूतिर् अवश्यं मन्तव्या तां विना पुरुषार्थत्वासिद्धेः । तस्यां च मन्तव्यायां तल्-लक्षणाखण्डापि स्वरूप-शक्तिः सिद्ध्यत्य् एवेति भावः । तथैवाह—प्रसीदताम् इति । ननु ताभ्यो निष्कृष्टश् चेत् कथं तन्मय-सर्व-नाम-रूपः ? तत्राह—अनिरुक्तेति । अचिन्त्य-शक्तित्वाद् इत्य् अर्थः ॥२७॥

ननु मम यन् निर्वाण-सुखैक-रूपं ब्रह्माख्यं स्वरूपं, तस्यानुभूतिकम् एव भवतीति त्रिवृन् नवशाक्तिकं भवतु । यत् तु गुण-रूप-बृंहितं स्वरूपं, तत् तु तन्मयम् एव भवेत्, जगत्-सादृश्यात् ? तत्राह—यद् यद् इति त्रिकेण । गुणै रूपैश् च बृंहितम् असमोऽर्द्ध-बृहत्तमं यत् स्वरूपं, तद् अपि । वचादि-गोचरो यद् यद् वस्तु, तन् न भवति । तत्र हेतुः—स वा इति । स-गुण-रूप-बृंहित-स्वरूपस् त्वं गुण-प्रलय-सृष्टिभ्यां लक्ष्यते तर्क्यत एव, न त्व् अनुभूयत इति ।

यद् वा, गुणानाम् अपायोऽपगमो यस्मात् तस्मिन् विगत-सर्गे नित्य-सिद्धे वैकुण्ठे लक्ष्यते तद्-अधिष्ठातृत्वेन दृश्यत इति ॥२८॥

**विश्वनाथः : **दुर्विज्ञेयं स-विशेष-स्वरूपम् आह—मनीषिणः शुद्ध-भक्ताः गूढम् अन्तर् हृदि संनिवेशितं, प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहं [भा।पु। २.८.५] इत्य्-उक्त-रीत्या श्रवण-भक्त्या अन्तर् हृदि प्रवेशितम् । पुनर् मनीषया प्रेम-भक्त्य्-आख्यया निष्कर्षन्ति । अन्तर्-हृदयान् निष्कृष्य चक्षुर्-आदिभिर् इन्द्रियैः सौन्दर्यादि-माधुर्यम् आस्वादयन्तीत्य् अर्थः ।

कीदृशं सन्तम् ? निष्कर्षन्ति स्व-शक्तिभिश् चिच्-छक्तिभिः सहितम् । कतिभिः ? नवभिर् विमलाद्याभिस् तत्रापि त्रिवृद्भिश् चिच्-छक्तेर् एव तिसृभिर् वृत्तिभिः ह्लादिनी-सन्धिनी-संविद्भिश् च सहितम् । यद् उक्तं विष्णु-पुराणे—

ह्लादिनी सन्धिनी संवित्त्वय्य् एका सर्व-संस्थितौ ।
ह्लाद-ताप-करी मिश्रात्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६८]इति ।

यथा दारुणि काष्ठे पाञ्चदश्यं पञ्चदश-सामिधेनी-मन्त्रैः प्रकाश्यम् अलौकिकं वह्निं निष्कर्षन्ति, स प्रसीदताम् इत्य् उत्तरेणान्वयः । अस्य स-विशेष-स्वरूपस्याप्रकृतानन्त-गुणस्य दुर्विज्ञेयत्वं भक्ति-हीनैर् अनुभवितुम् अशक्यत्वात् भक्तैर् अनुभूयमानत्वेऽपि माधुर्यैश्वर्ययोः पाराज्ञानात् । यद् उक्तं ब्रह्मणैव—

गुणात्मनस् तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्
भू-पांशवः खे मिहिका द्युभासः॥[भा।पु। १०.१४.७] इति ॥२७॥

यद् भूतस्य मायिकं स-विशेषं रूपं तद्-व्यतिरिक्तम् एव ममोपास्यम् इत्य् आह—स मम प्रसीदताम् । अशेषा विशेषा यस्यास् तस्या मायाया निषेधेन यन् निर्वाण-सुखं, बाणा हृद्-विदारका आध्यात्मिकादि-दुःख-शराः केऽपि न सन्ति यत्र, तस्मिन्न् एव सुखे अनुभूतिर् यस्य सः—ह्लाद-ताप-करी मिश्रात्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६८]इति वैष्णवोक्तेः ।

अप्रसक्त-निषेधासम्भवात् प्रसक्तिम् आह—स एव सर्व-नामा स एव विश्व-रूप इति ब्रह्मादि-तृणान्तानां यानि नाम-रूपाणि तानि तस्यैवेत्य् अर्थः । मायायास् तच्-छक्तित्वेन मायैक-विश्वस्यापि तद्-रूपत्वात् तस्य स्वरूप-भूता शक्तिस् तु माया-शक्तेर् मायिकाद् विश्वस्माच् चान्यैवेत्य् आह—अनिरुक्ता मायिक-वाङ्-मनसाभ्याम् अनिरुक्ति-विषयी-भूता आत्म-भूता शक्तिर् यस्य सः ॥२८॥

—ओ)०(ओ—

॥ ६.४.२९ ॥

यद् यन् निरुक्तं वचसा निरूपितं

धियाक्षभिर् वा मनसोत यस्य ।

मा भूत् स्वरूपं गुण-रूपं हि तत् तत्

स वै गुणापाय-विसर्ग-लक्षणः ॥

**श्रीधरः : **ननु यदि केवलया स्व-संस्थया प्रतीयते तर्हि सर्व-नामत्वं विश्व-रूपत्वं चानुपपन्नं वाग्-आद्य्-अगोचरत्वाद् इत्य् आशङ्क्य सर्वैर् नामभिर् वाच्यं प्रत्यक्षादि-दृश्यं च तस्य स्वरूपं वस्तुतो माभूत् तथापि मायया घटत इति श्लोक-त्रयेणोपपादयन् नमस्करोति, यद् यद् इति । यद् यद् वचसा निरुक्तम् अभिहितं धिया निरूपितं व्यवसितम् अक्षभिर् वा इन्द्रियैर् निरूपितं गृहीतम् उत अपि मनसापि निरूपितं सङ्कल्पितं यस्य स्व-प्रकाशत्वं तस्य तत् स्वरूपं मा भूत् । स्वरूपत्वाभावे हेतुः, हि यस्मात् तत् तद् गुणानाम् एव रूपम् । पाठान्तरे गुणैर् वर्धितम् । स तु गुण-व्यतिरिक्तः । यतो गुणानाम् अपाय-विसर्गाभ्यां प्रलयोत्पत्तिभ्यां लक्ष्यत इति तथा । चेतनाधिष्ठानं विना तयोर् असंभवात्। यद् वा, यस्य स्वरूपं मा भून् न भवति तस्मै नम इति तृतीयेनान्वयः ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वाग्-बुद्ध्यादिकं तु सर्व-मायिकम् एव, तेन निरूपितम् अपि सर्वं मायिकम् एव भवेत् । तत् तु न तत्-स्वरूपम् आह—यद् यद् इति । यद् यद् वचसा निरुक्तम् अभिहितं धिया निरूपितं व्यवसितम् अक्षभिर् वा इन्द्रियैर् निरूपितं गृहीतम् उत अपि मनसापि निरूपितं सङ्कल्पितं तत् तत् सर्वं यस्य स्वरूपं माभूत् न भवति । तस्मै नमः इति तृतीयेनान्वयः । हि यतस् तद्-गुणानाम् एव रूपं गुण-बृंहितं, हि तद् इति पाठे, गुणैर् वर्धितं स तु गुण-व्यतिरिक्त इत्य् अर्थः । यतः गुणानाम् अपाय-विसर्गाभ्यां प्रलयोत्पत्तिभ्यां लक्षणं यस्य सः । यः सृष्टि-प्रलयौ करोति स ईश्वर इत्य् अतः सृष्टेः पूर्वत्र प्रलयात् परत्र च तस्य सत्त्व-सिद्धेः । अत्र दृश्यते त्व् अग्र्यया बुद्ध्या इति, मनसा एवानुद्रष्टव्यः इति, तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इति, आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। २.४.५] इत्य्-आदि । तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा श्रोतव्यः कीर्तितव्यश् च [भा।पु। २.२.३६] इति पर-सहस्र-श्रुति-स्मृति-वाक्य-विरोधाद् ईश्वराननुगृहीतैर् एव वच-आदिभिर् इति व्याख्येयम् ।

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यम् इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥ [भ।र।सि। १.२.२३४]

इत्य्-आद्य्-उक्त-वचनं च ।

केचित् तु कार्त्स्न्येन निरूपणाभावान् न निरूपितम् इत्य् आहुः—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१] इत्य् अत्रापादान-निर्देशात् वाङ्-मनसागम्यत्वं, निवर्तन्ते इति अन्तर्-लोभाद् वाङ्-मनसागम्यत्वं चेतिवत् ॥२९॥

—ओ)०(ओ—

॥ ६.४.३० ॥

यस्मिन् यतो येन च यस्य यस्मै

यद् यो यथा कुरुते कार्यते च ।

परावरेषां परमं प्राक् प्रसिद्धं

तद् ब्रह्म तद् धेतुर् अनन्यद् एकम् ॥

**मध्वः : **सप्त-विभक्त्य्-अर्थस्य कालस्य प्रकारस्य च हेतुर् ब्रह्मैव ।

विभक्त्य्-अर्थस्य कालस्य प्रकाराणां च कारणम् ।
एक एव परो विष्णुः सर्व-सत्त्वा प्रदत्वतः ॥ इति भविष्यत्-पर्वणि ।
अनन्यः सदृशाभावाद् एको रूपाद्य्-अभेदतः ॥ इति च ॥३०॥

**श्रीधरः : **तद् एवं वस्तुतो गुण-स्वरूपत्वाभावम् अङ्गी-कृत्यानिरुक्तात्म-शक्तिर् इत्य् अनेन द्योतितं, मायया सर्व-वाच्यत्वेन विश्वरूपत्वम् आह । यस्मिन्न् अधिकरणे । यतोऽपादानात् । येन करणेन । यस्य सम्बन्धि । यस्मै संप्रदानाय यद् ईप्सिततमम् । यः कर्ता । कुरुते स्वतन्त्रः । कार्यते चान्येन प्रयोज्य-कर्त्रा । तद् ब्रह्मेति प्रत्येकं संबन्धः ।

अत्र च सप्तभिर् यच् छब्दैः सप्त-विभक्त्य्-अर्था दर्शिताः । यथेति च क्रिया-कारक-संबन्ध-प्रकार-वाचिनाम् अव्ययानाम् अर्थाः । कुरुते कार्यते चेति स्वार्थ-परार्थ-क्रियान्वयश् च सर्वेषां दर्शितः । च-शब्देन भाव-कर्मादि-विहित-प्रत्ययार्थाः सङ्गृहीताः।

तद् ब्रह्मैवेति कुतः ? तत्राह । तद् धेतुस् तेषां कारणम् । तत् कुतः ? सर्वेभ्यः प्राक्-प्रसिद्धम् ।

ननु ब्रह्मादयस् तद्-धेतवः श्रूयन्तेऽवरे च दृश्यन्ते, तत् कथं ब्रह्मैव तद्-धेतुः? तत्राह । परेषाम् अवरेषां च हेतूनां परमं कारणम् । ननु सर्व-कारणत्वे तस्य किं नाम सह-कारि भवत्, तदानीम् अन्यस्याभावात् ? सत्यम्, निरपेक्षम् एव तत् कारणम् इत्य् आह । अनन्य-द्विजातीय-शून्यम् । एकं सजातीय-शून्यं च । तस्मै नम इत्य् उत्तरेणान्वयः ॥३०॥

**क्रम-सन्दर्भः : **तद् एव दर्शयत्—यस्मिन्न् इति ॥३०॥

**विश्वनाथः : **ननु गुणमयं रूपं यदि तत् स्वरूपं न भवति, तर्हि तस्यापूर्णत्वं प्रसज्जेतेत्य् अत आह—यस्मिन्न् अधिकरणे, यतोऽपादानात्, येन करणेन, यस्य सम्बन्धिनः, यस्मै सम्प्रदानाय, यद् ईप्सितम्, यः कर्ता कुरुते स्वतन्त्रः कार्यते वा अन्येन प्रयोज्य कर्त्रा तद् ब्रह्मेति प्रत्येकम् अन्वयः । अत्र सप्तभिर् यच्-छब्दैः सप्त-विभक्त्य्-अर्था दर्शिताः । यथेति प्रकार-वाचिनाम् अव्ययानाम् अर्थाः कुरुते कार्यते चेति स्वार्थ-परार्थ-क्रियान्वयश् च दर्शितः । च-शब्देन च भाव-कर्मादि-विहित-प्रत्ययार्थश् च सङ्गृहीताः ।

तद् ब्रह्मैवेति कुतः ? तत्राह—तद्-धेतुस् तेषां कारणम् । कारणत्वं कुतः ? प्राक् प्रसिद्धम् ।

ननु ब्रह्मादयस् तद्-धेतवः श्रूयन्ते, अवरे च दृश्यन्ते ? तत्राह—परेषाम् अवरेषां च परमं तेषां कारणानाम् अपि कारणत्वात् परमं कारणम् इत्य् अर्थः ।

ननु सर्व-कारणत्वे तस्य किं नाम सहकारित्वं भवेत् ? तत्राह—एकम् अन्य-निरपेक्षम् एव तत् कारणम् इत्य् अर्थः ।

ननु चिच्-छक्तीनां विमलाद्यानां नव-विधानां चिच्-छक्ति-वृत्तीनां ह्लादिन्य्-आदीनां त्रिविधानां तद्-विलासानां वैकुण्ठ-तत्-पार्षद्-आदीनां वासुदेव-सङ्कर्षणादीनां च नित्य-सिद्धत्व-श्रवणात् काल-माया-जीवादृष्टानां तु जगत्-कारणत्वस्य च श्रवणात् । कथम् एकम् इत्य् उच्यते ? इत्य् अत आह—अनन्यत् न विद्यते अन्यत् यतस् तत् । चिच्-छक्तीनां तच्-विलासानां च तत्-स्वरूप-भूतत्वात् वासुदेवादीनां तद्-अंशत्वात् काल-मायादीनाम् अस्वरूप-भूतत्वेऽपि तच्-छक्तित्वात् तद्-अनन्यत्वम् इत्य् अर्थः ॥३०॥

—ओ)०(ओ—

॥ ६.४.३१ ॥

यच्-छक्तयो वदतां वादिनां वै

विवाद-संवाद-भुवो भवन्ति ।

कुर्वन्ति चैषां मुहुर् आत्म-मोहं

तस्मै नमोऽनन्त-गुणाय भूम्ने ॥

**श्रीधरः : **नन्व् एवं ब्रह्म चेद् विश्वस्य हेतुः, तर्हि न कदाचिद् अनीदृशं जगद् इति वदन्तो मीमांसकाः कुतोऽत्र विवदन्ते ? तैश् चान्ये स्वभाव-वादिनः संवदन्ते । ते च ते च तत्त्व-विद्भिर् बोधिता अपि कुतः पुनः पुनर् मुह्यन्ति ? तत्राह । यस्य मायाविद्यायाः शक्तयोविवादस्य क्वचित् संवादस्य भुवः स्थानानि भवन्ति, तस्मै नमः ॥३१॥

**चैतन्य-मत-मञ्जुषा : **यच्-छक्तय इत्य्-आदि । तस्मै अनन्त-गुणाय भूम्ने महा-पुरुषाय नमः, यस्य शक्तयो मायाविद्यादयः क्वचिद् विवादस्य क्वचित् संवादस्यादि-भुवो भवन्ति । किन्त्व् एषां मुहुर् आत्म-मोहं कुर्वन्ति । विवादे संमोहो युज्यत एव । संवादे कथं मोहः ? इति न वक्तव्यं । संवादे भक्ति-सिद्धान्त-विरुद्धतायां संमोहं जनयतीति भावः ॥३१॥

**क्रम-सन्दर्भः : **यद् इति । यत्र विवदमानानां मृश्यतां च वादिनां तत्-तद्-भावेऽपि तादृश-दुस्तर्क-तच्-छक्तय एव कारणत्वेनोपस्थिता इत्य् आह—यच्-छक्तय इति । अत एवानन्त-गुणत्वं भूमत्वं च तस्येत्य् अर्थः ॥३१॥

**भगवत्-सन्दर्भः (९) : **ते च माया-शक्ति-स्वरूप-शक्ती परस्पर-विरुद्धे, तथा तयोर् वृत्तयश् च स्व-स्व-गण एव परस्पर-विरुद्धा अपि बह्व्यः । तथापि तासाम् एकं निधानं तद् एवेत्य् आह—यच्-छक्तय इति ॥३१॥

**विश्वनाथः : **नन्व् अत्र मते स्वजातीय-विजातीय-स्वगत-भेदासहिष्णवोऽन्येऽद्वैत-वादिनो विवदन्ते । तैश् चान्ये नैयायिकाः षोडश-पदार्थ-वादित्वात् द्वैत-वादिनो विवदन्ते । तैश् चान्ये वैशेषिकाः संवदन्ते । तैः सर्वैश् चान्येन कदाचिद् अनीदृशं जगद् इति वदन्तो मीमांसकाः विवदन्ते । ते च ते च तत्त्व-विद्भिर् बोधिता अपि कुतः पुनर् मुह्यन्ति ? इति तत्राह—यच्-छक्तयो यस्य माया-शक्ति-वृत्तयो वदतां समादधतां वादिनां तत्राक्षेप-कृतां विवादस्य क्वचित् संवादस्यभुव उत्पत्ति-हेतवो भवन्ति । प्रयोजनम् आह—आत्म-मोहम् इति । आत्मानं जिज्ञासमानानाम् अपीत्य् अर्थः । मुहुर् इति तत्राविच्छेदः सूचितः ।

अनन्त-गुणाय इत्य् अनन्त-शब्दस्यानेकार्थत्वेनानाश-वाचित्वात् गुणानाम् अनश्वरत्वं निःसीमत्वं चोक्तम् । एते चान्ये च भगवन् नित्या यत्र महा-गुणाः [भा।पु। १.१६.३१] इति पृथिव्य्-उक्तौ । नित्या इति पदेन, नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भव-पाद्म-मुख्याः[भा।पु। १.१८.१४] इति सूतोक्तौ च अगुणस्येति योगेश्वरा इति पदाभ्यां,

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९]

इति पराशरोक्तौ च, विना हेयैर् इत्य् उपन्यासेन च तदीय-गुणानाम् अप्राकृतत्वावगमेऽप्य् अवान्तरत्वम् आचक्षाणास् तेऽपराधिनः कथम् अविद्यया न मुह्यन्ताम् इति भावः ॥३१॥

—ओ)०(ओ—

॥ ६.४.३२ ॥

अस्तीति नास्तीति च वस्तु-निष्ठयोर्

एक-स्थयोर् भिन्न-विरुद्ध-धर्मणोः ।

अवेक्षितं किञ्चन योग-साङ्ख्ययोः

समं परं ह्य् अनुकूलं बृहत् तत् ॥

**मध्वः : **मद्-अन्यो नास्ति सर्वेश इति विद्ध्य् आसुरं मतम् ।

अस्तीति दैवम् उभयोर् हरिर् एव ह्य् अपेक्षितः ॥
निषेध-विध्योर् विषयः फल-दाता च केशवः ।
तादृग्-बुद्धेः कारणं च स्थानयोश् चोच्च-नीचयोः ॥ इति च ॥३२॥

श्रीधरः : ननु किं तद् ब्रह्म, यस्य शक्तयो विवादादि-भुवो भवन्ति ? तत्राह—अस्तीति । योग उपासना-शास्त्रम् । तत्र हि विराड्-रूपेणोपासनायां पाताल-पादादिकम् अस्तीति, उपास्यत्वेन विधीयते । नास्तीति साङ्ख्यं ज्ञान-शास्त्रम् । तत्र अपाणि-पादः, अचक्षुर् अश्रोत्रम् इति च पादादि नास्तीति निषिध्यते । तयोर् योग-साङ्ख्ययोर् यत् किञ्चित् समम् अनुवर्तमानम् अवेक्षितं प्रतीतं, तद्बृहद् ब्रह्म । विवादास्पदं ब्रह्मेत्य् अर्थः ।

विवादं स्फुटयति—भिन्नाव् अस्ति नास्तीत्य् एवं-भूतौ विरुद्धौ धर्मौ ययोः । तयोर् भिन्न-विषयत्वेऽपि विरोधो न स्याद् इत्य् एक-स्थयोर् इत्य् उक्तम् । एक-विषययोः कुतः ? वस्तु-निष्ठयोः पादादि-विधि-प्रतिषेधयोर् एक-वस्तु-निष्ठत्वात् । समत्वे हेतुः—परम् ।हि यतः। विधि-प्रतिषेधयोर् अविषयस् तयोः पादादि-विषयत्वात् ।

तथा तर्ह्य् अविषयस्य सद्-भावे किं प्रमाणम् ? तद् आह—अनुकूलम् अधिष्ठानं विना पादादि-कल्पनायोगात्, अवधिं विना तन्-निषेधायोगाच् च । तयोर् उपपादकत्वेन सिद्धम् इत्य् अर्थः । तस्मै नम इति पूर्वस्यानुषङ्गः ॥३२॥

**क्रम-सन्दर्भः : **तत्र विवादावसरे तादृश-गुण-रूप-बृंहित-स्वरूपम् अपि सिद्ध्यतीत्य् आह—अस्तीति । नाम-रूपित्व-विधि-निषेध-श्रुतिभिर् विवदमानानां विवादावसरे तद् एव ह्य् अपपादयति—अस्तीति । योगः स्थूलोपासना-शास्त्रं, तत्र हि यद्भगवतो नाम-रूपित्वं श्रूयते, तद्-दृष्ट-कल्पना-लाघवात् । घट-पटादि-लक्षणाखिल-नाम-धेयत्वं पाताल-पादादिकत्वं चेति विधीयते—नास्तीति । साङ्ख्यं ज्ञान-शास्त्रम् ।तत्र हि निषेध-श्रुतिभिस् तस्य नाम-रूपित्वं यन् निषिध्यते, तत् प्रापञ्चिक-नाम-रूपित्वस्य कल्पितत्वात्, सर्वथैव नास्तीति निश्चीयते । तद् उक्तम् उभय-मतस्यैव प्राक्—स सर्व-नामा स च विश्व-रूपः इत्य्-आदिना,यद् यन् निरुक्तं वचसा निरूपितं [भा।पु। ६.४.२८-२९] इत्य्-आदिना च ।अस्तीति नास्तीति च वस्तुनि निष्ठा ययोः । तम् एव विवादं स्फुटयति—भिन्नौ अस्तीति नास्तीत्य् एवम्भूतौ विरुद्धौ धर्मौ ययोस् तयोः।

नन्व् आस्ताम् अनयोर् भिन्न-विषयत्वं नेत्याह एकस्थयोः समान-विषयोः । तद् एवं विवादे सति यत् किञ्चित् समं समञ्जसत्वेनैव अवेक्षितं प्रतीतं वस्तु तद् द्वयोर् अपि बृहन् महद् अनुकूलं भवति । किं तत् समञ्जसम् ? यत् परं नाम-रूपाद् अत्यन्त-तद्-अभावाच् च विलक्षणं किम् अपि नाम-रूप-लक्षणम् एव वस्त्व् इत्य् अर्थः ।

एतद् उक्तं भवति । एकस्मिन्न् एव वस्तुनि नाम-रूपित्व-विधि-निषेधाभ्यां परस्परं श्रुतयः पराहतार्थाः स्युः । अत्र तु परत्वेनोभयत्रापि प्राक्तन-युक्त्या समञ्जसम् अप्राकृत-नाम-रूपित्वम् एव विधि-निषेध-श्रुति-तात्पर्येनोपस्थाप्यत इति तत्-तन्-मतं विवाद-मात्रम् ।

इत्थम् एवात्र श्री-ध्रुवेण निर्विवादत्वम् उक्तम्—

तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य-
मर्त्यादिभिः परिचितं सद्-असद्-विशेषम्
रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं
नातः परं परम वेद्मि न यत्र वादः ॥ [भा।पु। ४.९.१३] इति ।

अत्र रूप-शब्दस्यैवोभयत्र विशेष्यत्वेन । भूप रूपम् अरूपं च परं चापरम् एव च [वि।पु। ६.७.४७] इति वैष्णव-वाक्यानुसारेण च । अतः परं चतुर्भुजादित्व-लक्षणं रूपं वपुर् इत्य् अर्थः । तच् चाग्रे दर्शयिष्यते ॥३२॥ [भगवत्-सन्दर्भः ३८]

**विश्वनाथः : **ननु ते शास्त्र-ज्ञाः किम् इति निन्द्यन्ते शास्त्राणाम् एवैक-मत्याभावेन परस्पर-विरोधाद् इति चेन् नैवं वादीर् इत्य् आह—अस्तीति । योग-साङ्ख्ययोः योगो भक्ति-योग-शास्त्रं, साङ्ख्यं ज्ञान-शास्त्रं, तयोस् तत् प्रसिद्धं परं सर्वोत्कृष्टं बृहद् ब्रह्म समम् अनुकूलं च, यथा स्यात् तथा अवेक्षितम् । परस्पर-विरुद्धयोस् तयोर् द्वयोर् एव शास्त्रयोर् अवेक्षणे किम् अपि वैषम्यं प्रातिकूल्यं च नास्तीत्य् अर्थः ।

तयोः कथं-भूतयोः ? अस्तीति नास्तीति भिन्न-विरुद्ध-धर्मयोः । योग-शास्त्रे हि—कृष्णं पिशङ्गाम्बरम् अम्बुजेक्षणं चतुर्भुजं शङ्ख-गदाद्य्-उदायुधम् इत्य्-आदिना अस्तीत्य् उपास्यत्वेन विधीयते । साङ्ख्य-शास्त्रे ह्य् अनाम रूप-गुण-पाणि-पादम् अचक्षुर् अश्रोत्रम् एकम् अद्वितीयम् अपि नाम-रूपादिकं नास्तीति निषिद्ध्यते इत्य् एवं-भूतौ भिन्नौ परस्पर-विरुद्धौ च धर्मौ ययोस् तयोर् भिन्न-विषयत्वे विरोधो न स्याद् इत्य् एकस्थयोः । एकस्मिन् ब्रह्मण्य् एव तिष्ठ इत्य् एकं ब्रह्मेव विषयीकुर्वतोर् इत्य् अर्थः ।

ननु तर्हि कथम् अवैषम्यम् अप्रातिकूल्यं वा ? तत्राह—वस्तु-निष्ठयो वस्तुनि वास्तव-वस्तुन्य् एव निष्ठा-प्रतिपादकत्व-लक्षणा ययोः । तेन भक्ति-शास्त्र-विधिना वास्तवं वस्त्व् एव प्रतिपादयन्ति न त्व् अवास्तवम् । तेन भक्ति-शास्त्रेण परमेश्वरस्य राम-कृष्णादि-मूर्तेर् नाम-रूपादिक-वस्तु-प्रतिपादने सिद्धे, ज्ञान-शास्त्रम् अपि स्वस्य वस्तु-निष्ठत्वाद् एव तस्य नाम-रूपादिकं नैव निषिद्ध्यति, किन्तु तस्य मायिक-मूर्तेर् विराज एव । अत एव पुनर् भक्ति-शास्त्रम् अपि ज्ञान-शास्त्र-निषिद्धं विराड्-रूपम् उपास्यत्वेन नोपादत्ते । यद् उक्तं—

अमूनि भगवद्-रूपे मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ [भा।पु। २.१०.३५]

इति विराड्-रूपस्यापि धारणायाम् उपादानं तु कस्यचिद् एव प्रथम-दशायाम् एव चित्त-शुद्ध्य्-अर्थम् एव, न तु सर्वदोपासनार्थम् इति भक्ति-ज्ञान-शास्त्रयोर् वस्तुतस् त्व् अविरोध एवेति शास्त्राविरोधेऽपि विवदमानाः शास्त्र-तात्पर्यम् अविद्वांसो दार्शनिका एव विगीता इति भावः ॥३२॥

—ओ)०(ओ—

॥ ६.४.३३ ॥

योऽनुग्रहार्थं भजतां पाद-मूलम्

अनाम-रूपो भगवान् अनन्तः ।

नामानि रूपाणि च जन्म-कर्मभिर्

भेजे स मह्यं परमः प्रसीदतु ॥

**मध्वः : **तत्-कर्मणाम् अदृष्टत्वाद् अनामा चाप्य् अदर्शनात् ।

अरूपस् त्व् अवतारेण रूप-कर्माणि दर्शयेत् ॥
नित्य-रूपो नित्य-कर्माप्य् अव्यक्तत्वम् अपेक्ष्य तु ।
अरूप-कर्मेत्य् उदितो रूप-कर्मोज्झितेन तु ॥ इति प्रकाश-संहितायाम् ।
अनामा सोऽधिकार्थत्वाद् अव्यक्तत्वाद् अरूपकः ।
कंसारित्वादि-साम्यार्थो व्यक्त-रूपोऽवतारगः ॥ इति च ।
लोक-दृष्ट्याधिकार्थानि मूल-नामानि केशवे ।
अथ दामोदरादीनि लोक-दृष्ट्या समानि तु ॥
आनन्दो व्यक्त-रूपस् तु मूल-रूपम् उदाहृतम् ।
स एव व्यक्तिम् आपन्नः प्रादुर्भावः उदीरितः ॥ इति च ॥३३॥

**श्रीधरः : **ननूदासीनस्य समस्य नमस्कारे को लाभस् तत्राह—य इति । पाद-मूलं भजताम् अनुग्रहार्थं प्राकृत-नाम-रूप-रहितोऽपि जन्मभिर् अवतारैर् विशुद्धोर् जित-सत्त्वानि रूपाणि कर्मभिर् नामानि च यो भेजे । तत् कुतः ? भगवान् अचिन्त्यैश्वर्यः । स मह्यं प्रसीदतु ॥३३॥

**क्रम-सन्दर्भः : **तद् एव व्यनक्ति—यो नाम-रूप-रहित एव नामानि रूपाणि भेजे प्रकटितवान् । जन्म-कर्मभिः सहितानि च प्रकटितवान् इत्य् अर्थः । व्यतिरेक-दोषम् आह—अनन्तः यदि तस्मिन् नाम-रूपित्वादिकं नास्ति, तर्हि तच्-छक्तिमत्त्वं प्रति सान्तत्वम् एव प्रसज्येतेति । तद् उक्तं प्रचेतोभिः—न ह्य् अन्तस् त्वद्-विभूतीनां सोऽनन्त इति गीयसे [भा।पु। ४.३०.३१] इति ।

तत्-तत्-प्रकाशने हेतुः—भगवान् भगात्मक-शक्तिमान् । तस्याः शक्तेर् मायात्वं निषेधति—परमः पराख्य-शक्ति-रूपा मा लक्ष्मीर् यस्मिन् । अन्यथा परत्व-व्याघातः स्याद् इति भावः ।

तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् ।
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इत्य् उक्तेः ।

ननु सर्व-नाम-विश्व-रूपत्वे तद्-राहित्ये च सन्त्य् एव तत्-तद्-उपासकाः प्रमाणम् । अत्र के स्युर् इत्य् आशङ्क्याह—पाद-मूलं भजताम् अनुग्रहार्थम् इति । योग-साङ्ख्ययोस् तत्-तत्त्वं न सम्यक् प्रकाशते, किन्तु भक्ताव् एव । भक्तिर् एवैनं दर्शयतीत्य्-आदि-श्रुतेः । तस्माद् यद् उक्तं तयोर् विवाद-मात्रत्वम् इति भावः । अत एव वक्ष्यतेऽनन्तरम् एव—इति[भा।पु। ६.४.३५-६]इत्य्-आदौ, प्रादुरासीत् कुरुश्रेष्ठ! भगवान् भक्त-वत्सलः । कृत-पादः सुपर्णांस इत्य्-आदि । पाद-मूलं भजताम् इत्य् अनेन तान् प्रति रूप-प्राकट्यात् पूर्वम् अपि रूपम् अस्त्य् एवेति व्यञ्जितम् । चरणं पवित्रं विवतं पुराणम् इत्य्-आदि-श्रुतेः । भेज इत्य् अतीत-निर्देशः । प्रामाण्य-दार्ढ्यायानादित्वं बोधयति । अनन्त-पदस्य च नामाणि रूपाणि चानन्तान्येवेति भावः । अत्र प्राकृत-नाम-रूप-रहितोऽपीति टीका च ॥३३॥ [भगवत्-सन्दर्भः ३८]

**विश्वनाथः : **ततो नाम-रूपादि-विधि-निषेधाभ्यां शास्त्र-द्वयाविरोधं व्यञ्जयन् भक्त-वत्सलस्य भगवतः स्वस्मिन्न् अनुग्रहं प्रार्थयते—य इति । अनाम-रूपः—प्राकृत-नाम-रूप-रहितोऽपि जन्मभिर् अवतारैर् विशुद्धोर् जित-सत्त्वानि रूपाणि कर्मभिर् नामानि च यो भेजे इति स्वामि-चरणाः । भेजे प्रपञ्चे प्रकटिचकार ॥३३॥

—ओ)०(ओ—

॥ ६.४.३४ ॥

यः प्राकृतैर् ज्ञान-पथैर् जनानां

यथाशयं देह-गतो विभाति ।

यथानिलः पार्थिवम् आश्रितो गुणं

स ईश्वरो मे कुरुतां मनोरथम् ॥

**मध्वः : **स्व-देह-स्थं हरिं प्राहुर् अधमा जीवम् एव तु ।

मध्यमाश् चाप्य् अनिर्णीतं जीवाद् भिन्नं जनार्दनम् ॥
पूर्णानन्दादि-गुणकं सर्व-जीव-विलक्षणम् ।
उत्तमास् तु हरिं प्राहुस् तारतम्येन तेषु च ॥
बुद्धि-शुद्ध्य्-अनुसारेण यथा-प्राणं शरीरगम् ।
श्वास-मात्रं जनाः प्राहुर् अनिर्णीतं च मध्यमाः ।
देव-देवेश्वरं सूत्रम् आनन्दं प्राण-वेदिनः ॥ इति च ॥३४॥

**श्रीधरः : **ननु त्वादृशाः स-कामा गणेशादीन् प्रार्थयन्ते त्वं तु तान् विहाय किम् इति भगवन्तम् एव प्रार्थयसे तत्राह । प्राकृतैर् अर्वाचीनैर् ज्ञान-पथैर् उपासना-मार्गैर् यथाशयं तत् तद् वासनानुसारेण यो देह-गतोऽन्तर्यामी तत् तद् देवता-रूपेण विविधो भाति। यथा वायुः पार्थिवं गुणं चम्पकादि-गन्ध-भेदम् आश्रित्य नाना-गन्धवान् विभाति रेणोर् गुणं धूसरत्वादिकम् आश्रित्य नाना-रूपवान् प्रतीयते तद्वत् तस्यैव तत् तद् देवता-रूपेण फल-दातृत्वात् स ईश्वर एव मे मनो-रथं सत्यं करोतु किम् अन्तर्-गडुभिर् देवतान्तरैर् इत्य् अर्थः । तद् उक्तं गीतासु—

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ।
स तया श्रद्धया युक्तस् तस्याराधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥ इति ।
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ॥ इति चेति ।

**क्रम-सन्दर्भः : **ननु विभूति-कामस्य तव तत्-तद्-विभूति-संवलित-गणपत्य्-आद्य्-उपाधित्वेनैव ममोपासना युक्ता, कथं सर्वात्मना निरुपाधित्वेन स्तौषि ? तत्राह—यः प्राकृतैर् इति । तत्र तत्रानिलवत् स्व-कार्य-करत्वं भवत एव न तूपाधेर् इति स्थिते किम् उपाधि-भावनयेति भावः ॥३४॥

**विश्वनाथः : **तद् एवं न यस्य सख्यं [भा।पु। ६.४.२४] इत्य् अनेन, सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे[भा।पु। ६.४.२५] इत्य् अनेन च, जीवेश्वरयोर् अल्पज्ञत्व-सर्वज्ञत्वाभ्यां वास्तवम् एव पार्थक्यम् अवधारितम् एव । ततश् च यदोपरामो मनसः [भा।पु। ६.४.२६] इत्य् अनेन, मनीषिणोऽन्तर्-हृदि[भा।पु। ६.४.२७] इत्य् अनेन च तस्यैवेश्वरस्यैकस्याप्य् अलौकिक-निर्विशेष-सविशेष-ज्ञान-गम्यत्वेन निर्विशेषं सविशेष-स्वरूपं च यथा-मति व्यञ्जितम् ।

पुनश् च स वै समाशेष [भा।पु। ६.४.२८] इति त्रयेण मायिक-वस्तूनां तद्-रूपत्वेऽपि तत्-स्वरूप-भूतत्वाभाव उक्तः । पुनर् अस्तीति नास्तीति [भा।पु। ६.४.३१] द्वयेन भक्ति-शास्त्र-ज्ञान-शास्त्रयोर् अविरोधो गूढोऽपि स्पष्टीकृतः । इदानीं ये जीवेश्वरयोः पार्थक्यम् उपाधि-कृतम् एव, न वास्तवम् इत्य् आचक्षते । तेषां ज्ञानि-मानिनाम् असमञ्जस-पथ-गामित्वं व्यञ्जयन् स्व-मनोरथ-सिद्धिं प्रार्थयते । यः प्राकृतैर् अर्वाचीनैर् ज्ञान-मार्गैर् जनानां देह-गतं यथाशयम् आशयम् अन्तःकरणं दृष्टं शिष्टं वा अनतिक्रम्य तद्-धर्माक्रान्त एव विभाति जीव-रूपेण भासते, यथा वायुः पार्थिवं दुष्टं शिष्टं वा गन्धम् आश्रित्य नाना-गन्धवान् भवति, न तु वस्तुतः ॥३३॥

—ओ)०(ओ—

॥ ६.४.३५ ॥

श्री-शुक उवाच—

इति स्तुतः संस्तुवतः1** स तस्मिन्न् अघमर्षणे ।**

प्रादुरासीत् कुरु-श्रेष्ठ भगवान् भक्त-वत्सलः ॥

**श्रीधरः : **संस्तुवतो दक्षस्य स भगवान् प्रत्यक्षोऽभूत् ॥३५॥

**क्रम-सन्दर्भः : **इतीति सार्ध-पञ्चकम् ॥३५॥

**विश्वनाथः : **संस्तुवतो दक्षस्य ॥३५॥

—ओ)०(ओ—

॥ ६.४.३६ ॥

कृत-पादः सुपर्णांसे प्रलम्बाष्ट-महा-भुजः ।
चक्र-शङ्खासि-चर्मेषु- धनुः-पाश-गदा-धरः ॥**

**श्रीधरः : **तं वर्णयति सार्धैश् चतुर्भिः । सुपर्णस्यांसे स्कन्धे कृतौ पादौ येन । प्रलम्बा अष्टौ महान्तो भुजा यस्य । चक्राद्य्-अष्टा-युध-धरः ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.३७ ॥

पीत-वासा घन-श्यामः प्रसन्न-वदनेक्षणः ।
वन-माला-निवीताङ्गो लसच्-छ्रीवत्स-कौस्तुभः ॥**

**श्रीधरः : **प्रसन्नं वदनम् ईक्षणे च यस्य । वन-मालया निवीतं कण्ठादि-पादान्त-व्याप्तम् अङ्गं यस्य । लसन्तौ श्रीवत्स-कौस्तुभौ यस्य ॥३७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.३८ ॥

महा-किरीट-कटकः स्फुरन्-मकर-कुण्डलः ।
काञ्च्य्-अङ्गुलीय-वलय- नूपुराङ्गद-भूषितः ॥**

**श्रीधरः : **महान्ति किरीट-कटकानि यस्य । स्फुरती मकर-कुण्डले यस्य । काञ्च्य्-आदिभिर् विभूषितः । वलयम् अत्र पाद-भूषणं द्रष्टव्यम् । कटकस्योक्तत्वात् ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कटकः पाद-कटकः । वलयं हस्त-स्थम् ॥३८॥

—ओ)०(ओ—

॥ ६.४.३९ ॥

त्रैलोक्य-मोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः ।
वृतो नारद-नन्दाद्यैः पार्षदैः सुर-यूथपैः ॥**

**श्रीधरः : **त्रै-लोक्य-मोहनं श्री-पुरुषोत्तमाख्यम् । सुर-यूथपैर् लोक-पालैः ।

क्रम-सन्दर्भः, विश्वनाथः : _न व्याख्यातं _

—ओ)०(ओ—

॥ ६.४.४० ॥

स्तूयमानोऽनुगायद्भिः सिद्ध-गन्धर्व-चारणैः ।
रूपं तन् महद्-आश्चर्यं विचक्ष्यागत-साध्वसः ॥**

न कतमेन व्याख्यातम्।

—ओ)०(ओ—

॥ ६.४.४१ ॥

ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः ।

न किञ्चनोदीरयितुम् अशकत् तीव्रया मुदा ।
आपूरित-मनोद्वारैर् ह्रदिन्य इव निर्झरैः ॥**

**श्रीधरः : **आपूरितानि मनो-द्वाराणीन्द्रियाणि तैः । यथा ह्रदिन्यो नद्यो निर्झरैर् आपूर्यन्ते, तथा महानन्दापूर्णत्वेनावृत्तिकत्वाद् वाग्-आदिना न किञ्चिद् वक्तुं शक्तोऽभूद् इत्य् अर्थः ॥४१॥

**क्रम-सन्दर्भः : **तीव्रया नितान्तया मुदा स्वात्म-स्थित-तत्-प्रेम-रूपया । आपूरितैः सर्वेणाप्य् अंशेन पूरितैः सद्भिर् मनो-द्वारैः ज्ञानेन्द्रियैर् इति तत्-तद्-आवेशात् स्वात्मनः सर्वांशेन पूरितैर् निर्झ्ररैर् जल-नीर्गमैर् ह्रदिन्य इवेति ॥४१॥

**विश्वनाथः : **यथा ह्रदिन्यो निर्धरैर् आपुर्यन्ते, तथा मुदा आनन्देन आपुर् इतानि मनो-द्वाराणि चक्षुर्-आदीन्द्रियाणि तैर् हेतुभिः किञ्चन उदीरयितुं वक्तुं द्रष्टुं श्रोतुं वा नाशकत् ॥४१॥

—ओ)०(ओ—

॥ ६.४.४२ ॥

तं तथावनतं भक्तं प्रजा-कामं प्रजापतिम्

चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः ॥

**श्रीधरः : **यद्य् अप्य् असौ नावोचत् तथापि चित्त-ज्ञ इदं वक्ष्यमाणम् आह ॥४२॥

क्रम-सन्दर्भः, विश्वनाथः : _न व्याख्यातं _

—ओ)०(ओ—

॥ ६.४.४३ ॥

श्री-भगवान् उवाच

प्राचेतस महा-भाग संसिद्धस् तपसा भवान्

यच् छ्रद्धया मत्-परया मयि भावं परं गतः ॥

**श्रीधरः : **भावं भक्तिम् । गतः प्राप्तः ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मयि परं भावं परमात्मैवायम् इति श्रेष्ठां भावनाम् ॥४३॥

—ओ)०(ओ—

॥ ६.४.४४ ॥

प्रीतोऽहं ते प्रजा-नाथ यत् तेऽस्योद्बृंहणं तपः ।
ममैष कामो भूतानां यद् भूयासुर् विभूतयः ॥**

**श्रीधरः : **यद्यतस् ते तपोऽस्य विश्वस्योद्बृहणं वृद्धि-करम् अतस् तेऽहं प्रीतः । मत्-तपसो लोक-समृद्ध्य्-अर्थत्वे त्वत्-प्रीतेः किं कारणं तत्राह—ममेति । भूतानां विभूतयः समृद्धयो भूयासुर् इति यद् एष एव मम कामः । अतो मत्-काम-पूरणाद् एवाहं प्रीतोऽस्मीत्य् अर्थः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अस्य विश्वस्य उद्बृह्ंहणः वृद्धि-करं यत् ते तपोऽभूत्, एष ममैव कामः मद्-इच्छयैव तव तपः सिद्धं बभूवेत्य् अर्थः । ननु किम्-आकारस् ते कामस् तत्राह—भूतानां विभूतयः समृद्धयो भूयासुर् इति । यद् एष एवेति ॥४४॥

—ओ)०(ओ—

॥ ६.४.४५ ॥

ब्रह्मा भवो भवन्तश् च मनवो विबुधेश्वराः ।
विभूतयो मम ह्य् एता भूतानां भूति-हेतवः ॥**

**मध्वः : **विशेष-व्यक्ति-पात्रत्वाद् ब्रह्माद्यास् तु विभूतयः ।

तद्-अन्तर्यामिणश् चैव मत्स्याद्या विभवः स्मृताः ॥ इति तन्त्र-निर्णये ॥४५॥

**श्रीधरः : **भूति-विस्तार-प्रयत्नश् च तवोचित एवेत्य् आह—ब्रह्मेति । भवन्तः प्रजा-पतयः भूतेर् उद्भवस्य हेतवः ॥४५॥

**क्रम-सन्दर्भः : **नन्व् अकामस्य तव कथम्भूता विभूति-कामना ? उच्यते—भक्त-सम्बन्धात् तद्-वात्सल्येनैवेत्य् आह—ब्रह्मेति । ब्रह्मादयो भक्ता हि मनवः मम विभूतयः, ते चान्येषां भूति-हेतव इति ॥४५॥

**विश्वनाथः : **न तु भवादृशा निकृष्टा एवेत्य् आह—ब्रह्मेति ॥४५॥

—ओ)०(ओ—

॥ ६.४.४६ ॥

तपो मे हृदयं ब्रह्मंस् तनुर् विद्या क्रियाकृतिः ।
अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥**

**मध्वः : **तपोऽभिमानी रुद्रस् तु विष्णोर् हृदयम् आश्रितः ।

विद्या-रूपा तथैवोमा विष्णोस् तनुम् उपाश्रिता ॥
शृङ्गाराद्य्-आकृति-गतः क्रियात्मा पाकशासनः ।
अङ्गेषु क्रतवः सर्वे मध्य-देहे च धर्मराट् ।
प्राणो वायुश् चित्त-गतो ब्रह्माद्याः स्वेषु देवताः ॥ इति च ।

यद्-आश्रितं यद् भवति तत्-तन्-नामकम् ईरितम् इति शब्द-निर्णये ॥४६॥

**श्रीधरः : **विश्व-वृद्ध्य्-अर्थेन त्वत्-तपसाऽहं प्रीत इत्य् उक्तं तद् एव तपः स्तुवन् प्रसङ्गाद् अन्यान्य् अपि लोक-वृद्धि-कराणि विद्यादीनि स्तौति । तपो यम-नियमादि-सहितं ध्यानं मे हृदयम् । विद्या साङ्ग-मन्त्र-जपः सा । ध्यानं तनोतीति तनुर् देहः । क्रिया ध्यानादि-विषयः पुं-व्यापारो भावना-शब्द-वाच्यस् तेन हि ध्यानादिकम् आक्रियत इत्य् आकृतिः । जाताः सु-निष्पन्नाः क्रतवोऽङ्गानि । शिरो वा एतद् यत् प्रवर्ग्यः ग्रीवा उपसदश् चक्षुषी आज्य-भागौ इत्य्-आदि-श्रुतेः । धर्मः क्रत्व्-आद्य्-अपूर्वम् आत्मा मनः, हृदयाश्रयत्वात् । सुरा यज्ञ-भूजस् त एवासवः प्राणाः, सन्तर्पणीयत्वात् ॥४६॥

**क्रम-सन्दर्भः : **यतो भक्तिः खलु ममान्तरङ्गा शक्तिर् इत्य् आह—तप इति ॥४६॥

**विश्वनाथः : **कर्म-योगे समुचितं मे रूपं शृण्व् इत्य् आह—तपः यम-नियमादिकं मे हृदयम् । विद्या साङ्ग-मन्त्र-जपो मे तनुः । क्रिया नित्य-नैमित्तिकाद्या ममाकृतिर् आकारः । क्रतवो ममाङ्गानि शिरो वा एतद् यत् प्रवर्ग्यः ग्रीवा उपसदश् चक्षुषी आज्य-भागौ इत्य्-आदि-श्रुतेः । जाता अभूवन् । धर्मः क्रत्व्-आद्य्-अपूर्वं ममात्मा मनः, ममासवो देवाः । सच्-चिद्-आनन्द-रूपस्य मम हृदयादि-विभूतयस् तप-आदयः ॥४६॥

—ओ)०(ओ—

॥ ६.४.४७ ॥

अहम् एवासम् एवाग्रे नान्यत् किञ्चान्तरं बहिः ।
संज्ञान-मात्रम् अव्यक्तं प्रसुप्तम् इव विश्वतः ॥**

**मध्वः : **संज्ञान-मात्रं यद् इदं त्वया तपसा दृष्टं मम रूपं तद् एवाग्र आसीत् ।

नाना-वर्णो हरिस् त्व् एको बहु-शीर्ष-भुजो रूपात् ।
आसील् लये तद् अन्यत् तु सूक्ष्म-रूपं श्रियं विना ॥
असुप्तः सुप्त इव च मीलिताक्षोऽभद् धरिः ।
अन्यत्रानादराद् विष्णौ श्रीश् चलीनेव कथ्यते ।
सूक्ष्मत्वेन हरौ स्थानाल् लीनम् अन्यद् अपीष्यते ॥ इति मात्स्ये ॥४७॥

**श्रीधरः : **तपसः सन्तान-वृद्धि-हेतुत्वं दर्शयितुं द्वितीय-तृतीयोक्तम् इतिहासम् आह चतुर्भिः । अहम् एवेति वस्त्व्-अन्तर-व्यावृत्तिः । आसम् एवेति क्रियान्तर-व्यावृत्तिः । आन्तरं ग्राहकम् । बहिर् ग्राह्यम् । सञ्ज्ञान-मात्रं चैतन्य-मात्रम् । अव्यक्तम् इन्द्रिय-वृत्तिभिर् अनभिव्यक्तम् । अत एव प्रसुप्तम् इव विश्वतः सर्वत्र ॥४७॥

**क्रम-सन्दर्भः : **तत्र भक्त एव मम सृष्ट्य्-आदि-सम्बन्धे हेतुर् इति दर्शयितुम् आह—अहम् इति । पद्मम् इदं जगद् अधिकृत्य, न तु वैकुण्ठम् अधिकृत्येति ज्ञेयम् ॥४७॥

**विश्वनाथः : **भक्ति-योगे समुचितं मे स्वरूपं शृण्व् इत्य् आह—अहम् एव त्वया दृश्यैतत् स्वरूप-वस्त्रालङ्कारास्त्र-वाहन-पार्षदादि-विशिष्ट एवाग्रे सृष्टे पूर्वम् आसम् एव, तथैवाग्रे महा-प्रलयानन्तरम् अपि भविष्याम्य् एवेत्य् अग्रे इत्य् अस्य पूर्वोत्तर-काल-वाचित्वाल् लभ्यते । साम्प्रतं त्व् अस्म्य् एवेत्य् अस्य स्वत एव प्र्प्तिर् इति स्वस्य त्रैकालिकी सत्ता दर्शिता । किं च, मम अन्तरं बहिश् च अन्यत् किम् अपि –स्वरूपस्य व्यापकत्वाद् इत्य् अचिन्त्य-शक्तिमत्त्वं च दर्शितम् । यद् वक्ष्यते—

न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥[भा।पु। १०.९.१३-१४] इति ।

ज्ञान-योगे समुचितं स्वरूपं शृण्व् इत्य् आह—संज्ञान-मात्रं चैतन्य-मात्रम् । अव्यक्तम् इन्द्रिय-वृत्तिभिर् अग्राह्यं विश्वतः सर्वत्र ॥४७॥

—ओ)०(ओ—

॥ ६.४.४८ ॥

मय्य् अनन्त-गुणेऽनन्ते गुणतो गुण-विग्रहः

यदासीत् तत एवाद्यः स्वयम्भूः समभूद् अजः ॥

**मध्वः : **गुणतोऽनन्ते ।

प्रत्येकशो गुणानां तु निःसीमत्वम् उदीर्यते ।
तदानन्त्यं तु गुणतस् ते चानन्ता हि सङ्ख्यया ।
अतोऽनन्त-गुणो विष्णुर् गुणतोऽनन्त एव च ॥ इति तन्त्र-भागवते ॥४८॥

**श्रीधरः : **गुणतो मायातः । गुण-मयो विग्रहो ब्रह्माण्डम् । ततस् तदैव । अजोऽयोनि-जः ॥४८॥

**क्रम-सन्दर्भः : **भक्तम् एव दर्शयति—मयीति ॥४८॥

**विश्वनाथः : **स्व-स्वरूप-सत्त्वम् उपदिश्य सृष्टौ प्रवर्तयितुम् इतिहासम् आह—मयीति । गुणतो मायातः । गुण-विग्रहो महा-समष्टिर् ब्रह्माण्डं ततस् तन्-मध्य एव स्वयम्भूर् युष्माकम् आद्यः ॥४८॥

—ओ)०(ओ—

॥ ६.४.४९ ॥

स वै यदा महादेवो मम वीर्योपबृंहितः ।
मेने खिलम् इवात्मानम् उद्यतः स्वर्ग-कर्मणि ॥**

**श्रीधरः : **खिलम् असमर्थम् इव ॥४९॥

**क्रम-सन्दर्भः : **वीर्योपबृंहितः वीर्याज्जातः ॥४९॥

**विश्वनाथः : **खिलम् असमर्थम् इव ॥४९॥

—ओ)०(ओ—

॥ ६.४.५० ॥

अथ मेऽभिहितो देवस् तपोऽतप्यत दारुणम् ।
नव विश्व-सृजो युष्मान् येनादाव् असृजद् विभुः ॥**

**श्रीधरः : **मे मया तप-तपेत्य्-अभिहितः सन् । येन तपसा ॥५०॥

**क्रम-सन्दर्भः : **तस्य च भक्तिं दर्शयति—अथेति । तस्माद् भवतोऽपि भूति-विभूति-हेतुत्वं भक्तत्वाद् एवेति ॥५०॥

**विश्वनाथः : **मे मया तप तपेत्य् उक्तः सन् येन तपसा ॥५०॥

—ओ)०(ओ—

॥ ६.४.५१ ॥

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥**

**श्रीधरः : **सन्तति-वृद्ध्य्-उपायम् आह—एषेति । अङ्ग ! हे दक्ष ! पञ्च-जनाख्यस्य प्रजा-पतेः ॥५१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्वम् अपि सर्व-रूपे पैतृके धर्मे यतस्वेत्य् आह—एषेति ॥५१॥

—ओ)०(ओ—

॥ ६.४.५२ ॥

मिथुन-व्यवाय-धर्मस् त्वं प्रजा-सर्गम् इमं पुनः ।
मिथुन-व्यवाय-धर्मिण्यां भूरिशो भावयिष्यसि ॥**

**श्रीधरः : **मिथुनस्य यो व्यवायो रतिः स एव धर्मो यस्य स त्वम् । तथा-भूतायां तस्याम् ॥५२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

—ओ)०(ओ—

॥ ६.४.५३ ॥

त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनी-भूय मायया

मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥

**श्रीधरः : **मायया निमित्त-भूतया । स्त्रिया सह मिथुनी-भूय भविष्यन्ति पुत्रादि-रूपेणोत्पत्स्यन्ते ॥५३॥

**क्रम-सन्दर्भः : **मिथुनी-भूयेति केवलं मिथुनी-भूयैवेत्य् अर्थः ॥५३॥

**विश्वनाथः : **भवि;स्यन्ति पुत्रादि-रूपेण जनिष्यन्ते ॥५३॥

—ओ)०(ओ—

॥ ६.४.५४ ॥

श्री-शुक उवाच—

इत्य् उक्त्वा मिषतस् तस्य भगवान् विश्व-भावनः

स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठ-स्कन्धे चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
हंस-गुह्य-स्तवो नाम
चतुर्थोऽध्यायः ।

॥६.४॥

(६.५)


  1. इति संस्तुवतस् तस्य ↩︎