०३ अजामिलोपाख्याने

॥ ६.३.१ ॥

श्री-राजोवाच

निशम्य देवः स्व-भटोपवर्णितं

प्रत्याह किं तान् अपि धर्मराजः।

एवं हताज्ञो विहतान् मुरारेर्

नैदेशिकैर् यस्य वशे जनोऽयम् ॥

**श्रीधरः : **

तृतीये तु यमेनापि वैष्णवोत्कर्ष-वर्णनैः ।

सान्त्वयित्वा स्वदूतास् ते वैष्णवे किङ्करी-कृताः ॥*॥

विष्णु-दूतैर् निर्णीतं शास्त्रार्थं यम-मुखेन द्रढयितुं तृतीयाध्यायारम्भः । तत्र यद् उक्तं यम-राज्ञे यथा सर्वम् आचचक्षुः[भा।पु। ६.२.२१] इति ततः किं तत्र वृत्तम् ? इति पृच्छति, निशम्येति । मुरारेर् नैदेशिकैः किङ्करैर् एवं विहतान् । अत एव हता आज्ञा यस्य । यस्य वश-वर्त्य् अयं जनः सोऽपि तान् प्रति किम् आह ॥१॥

**क्रम-सन्दर्भः : **लोक-संशयम् इति । स्वस्य तु न संशय इति भावः ॥१॥

**विश्वनाथः : **

तृतीये तु यमं प्राहुर् दूतास् ते स्वावमाननम् ।

स च तान् शिक्षयामास भक्तेर् ऐश्वर्यम् अद्भुतम् ॥

कृष्ण-भक्तैः स्व-भक्तैश् च यमो यद्यपि धिक्-कृतः ।

न चुकोप प्रत्युत स्वाशिक्षणाद् अनुतप्तवान् ॥

विष्णु-दूतैर् निर्णीतं शास्त्रार्थं यम-मुखेनापि द्रढयितुं तृतीयाध्यायम् आरभते । तत्र यद् उक्तं यम-राज्ञे यथा सर्वम् आचचक्षुः[भा।पु। ६.२.२१] इति तत्र ततः किं वृत्तम् ? इति पृच्छति, निशम्येति । मुरारेर् नैदेशिकैर् हरेर् आज्ञा-कारिभिर् एव विहतान् । तान् स्वयं च हताज्ञः ॥१॥

—ओ)०(ओ—

॥ ६.३.२ ॥

यमस्य देवस्य न दण्ड-भङ्गः

कुतश्चन र्षे श्रुत-पूर्व आसीत् ।

एतन् मुने वृश्चति लोक-संशयं

न हि त्वद्-अन्य इति मे विनिश्चितम् ॥

**श्रीधरः : **अत्याश्चर्यम् एतद् इत्य् आह—यमस्येति । हे ऋषे, यमस्य दण्ड-भङ्गः कुतश्चन कस्माच्चिद् अपि श्रुत-पूर्वो नासीत् । एतद् एतस्मिन्न् अर्थे । यद् वा, न श्रुत-पूर्वः । एतद् यम-दूत-निराकरणं चासीत् । अतः सर्वस्यापि लोकस्य संशयो वर्तते तं त्वत्तोऽन्यो न च्छिनत्तीति मे निश्चितमतः कथयेति शेषः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कुतश्चन, हे ऋषे ! कस्माद् अपि न श्रुत-पूर्वः, एतत् एतम् ॥२॥

—ओ)०(ओ—

॥ ६.३.३ ॥

श्री-शुक उवाच

भगवत्-पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।

पतिं विज्ञापयाम् आसुर् यमं संयमनी-पतिम् ॥

श्रीधरः : भगवतः पुरुषैः प्रतिहत उद्यमो येषां ते । याम्याः पुरुषाः ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.३.४ ॥

यमदूता ऊचुः

कति सन्तीह शास्तारो जीव-लोकस्य वै प्रभो ।

त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्ति-हेतवः ॥

**श्रीधरः : **कति सन्तीत्य् आक्षेपोक्तिः । त्रै-विद्यं त्रि-विधम् । स्वार्थे ष्यञ् । यद् वा, त्रै-विद्यं यथा भवति तथा कर्म कुर्वतः । तथा कर्म-फलस्याभिव्यक्ति-हेतवः कति सन्तीति ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सर्व-लोक-पराभव-प्रदा वयम् अप्य् एवं पराभवं सहामहे, तद् अद्य तेषां चतुर्णां चतुर्-भुजानां शास्तिं कारयित्वा तम् एवाजामिलं नरकम् एवानेष्यामः, यद्य् आनेतुं न शक्नुमस् तर्ह्य् अस्य खद्योतस्य दूत्यम् एवातः-परं न कुर्म इत्य् अन्तः-कोप-गद्गदाक्षरः साक्षेपम् आहुः—कतीति त्रैविध्यं त्रिविधम् ॥४॥

—ओ)०(ओ—

॥ ६.३.५ ॥

यदि स्युर् बहवो लोके शास्तारो दण्ड-धारिणः ।

कस्य स्यातां न वा कस्य मृत्युश् चामृतम् एव वा ॥

**श्रीधरः : **सन्तु बहवः को बाधस् तत्राहुः—यदीति । मृत्युर् दुःखम्, अमृतं सुखम् । तेषां विप्रतिपत्तौ ते उभे कस्य स्याताम् ? न कस्यापि, परस्पर-विरोधेनोभयोर् अपि प्रतिबन्धात् । ऐकमत्ये तु कस्य वा न स्याताम् ? एकः सुखं कर्तुम् इच्छति, दुःखं चान्यः । ऐकमत्ये च तयोः परस्पर-कार्यानुमोदनेनोभयोर् अपि प्राप्ते कस्य वा ते उभे अपि न स्याताम् इत्य् अर्थः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सन्तु बहवस् तत्र को बाध इत्य् अत आहुः—यदीति । कर्म-फलं हि द्विविधं मृत्युर् नरकम् अमृतं स्वर्गः तयोर् द्वयोर् एव सत्त्वम् आरोपयितुम् इच्छतां तेषां मध्ये कस्य ते द्वे स्याताम् अपि तु विरोधे सति नरकस्यापीत्य् अर्थः । दैवाद् ऐकमत्येन तेषाम् अविरोधे सति कस्य वा न स्याताम् ? अपि तु ते द्वे अपि सर्वस्य स्यातां न त्व् एकं विनिगमनाभावाद् इति । पुनर् विरोध एव भवेद् इति भावः ॥५॥

—ओ)०(ओ—

॥ ६.३.६ ॥

किन्तु शास्तृ-बहुत्वे स्याद् बहूनाम् इह कर्मिणाम् ।

शास्तृत्वम् उपचारो हि यथा मण्डल-वर्तिनाम् ॥

**श्रीधरः : **ननु बहूनां कर्मिणां व्यवस्थया बहवः शास्तारो भवन्तु, तथा सति नायं दोषः स्यात् तत्राहुः—बहूनां कर्मिणां व्यवस्थया शास्तृत्व-बहुत्वे शास्तृत्वं स्यात् घटेत । किन्तु तदा यत् सर्व-शास्तरि मुख्यं शास्तृत्वं तद् एकदेशे उपचार-मात्रम् एव स्यात् । यथा चक्र-वर्तिन एव मुख्यं शास्तृत्वं मण्डल-वर्तिनाम् उपचार-मात्रम्, निरङ्कुशत्वाभावात् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु बहूनां कर्मिणां व्यवस्थयैव बहवः शास्तारो भवन्तु, तथा सति नायं दोषः स्यात् ? तत्राहुः—किं त्व् इति । सर्व-शास्तर्य् एव शास्तृत्वं मुख्यम् एकदेशे तूपचार एव । यथा चक्रवर्तिनः एव मुख्यं शास्तृत्वं मण्डल-वर्तिनां कर्मिणां त्व् औपचारिकं निरङ्कुशत्वाभावात् ॥६॥

—ओ)०(ओ—

॥ ६.३.७ ॥

अतस् त्वम् एको भूतानां सेश्वराणाम् अधीश्वरः ।

शास्ता दण्ड-धरो नॄणां शुभाशुभ-विवेचनः ॥

**श्रीधरः : **यस्माद् एवं शास्तृ-बहुत्वं न घटतेऽतस् त्वम् एक एव शास्ता । शुभाशुभे विविनक्तीति तथा ॥७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.३.८ ॥

तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना ।

चतुर्भिर् अद्भुतैः सिद्धैर् आज्ञा ते विप्रलम्भिता ॥

**श्रीधरः : **विप्रलम्भिता वञ्चिता । लङ्घितेत्य् अर्थः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विप्रलम्भिता वञ्चिता । खण्डितेत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ६.३.९ ॥

नीयमानं तवादेशाद् अस्माभिर् यातना-गृहान् ।

व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥

**श्रीधरः : **तद् एवाहुः—नीयमानम् इति ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **केन प्रकारेणेत्य् अत आहुः—नीयमानम् इति । तेन तान् अत्रानीय यदि तद्-अपराध-दण्डं दातुं त्वं पारयिष्यसि, तदैव त्वं शास्ता अस्माकम् अपि दुःखाग्निर् निर्वातीति भावः ॥९॥

—ओ)०(ओ—

॥ ६.३.१० ॥

तांस् ते वेदितुम् इच्छामो यदि नो मन्यसे क्षमम् ।

नारायणेत्य् अभिहिते मा भैर् इत्य् आययुर् द्रुतम् ॥

**श्रीधरः : **ते त्वत्तः । यदि नोऽस्मकं क्षमं हितं मन्यसे । अन्यथाऽज्ञानतस् तद् अवज्ञाने तवाप्य् अनर्थः स्यात् । अतर्क्यो हि तेषां प्रभवो यतो नारायणेति केवलम् अभिहिते मा भयं कुर्व् इति वदन्तः शीघ्रम् आगताः ॥१०॥

**क्रम-सन्दर्भः : **अथ तेषां ज्ञानाय किञ्चिच् चेष्टादिकम् उच्यतां तत्राहुः—नारायण इति ॥१०॥

**विश्वनाथः : **ननु ते स्व-प्रभु-स्थानं गताः सम्प्रति के तान् अत्रानयन्तु, यतो दण्डयामीति चेत्, तत्राहुः—तांस् ते त्वत्तो महा-सर्वज्ञत्वात् वेदितुम् इच्छामः । कस्य ते दूताः क्व वसन्तीति आनेष्यामस् तु बलाद् वयम् एवेति भावः । यदि नः क्षमं हितं मन्यसे, अन्यथा पराभवासहिष्णुतया वयं मरिष्याम एवेति भावः । तान् ज्ञातुं तेषां चेष्टितं किम् अपि ब्रूथेति चेद् अहो हन्ताद्भुतं तेषां धार्ष्ट्यम् इत्य् आहुः—नारेति । मा भैर् मा भैषीर् इति पापिनम् अप्य् ऊचुर् अहो अन्याय इति भावः ॥१०॥

—ओ)०(ओ—

॥ ६.३.११ ॥

श्री-बादरायणिर् उवाच—

इति देवः स आपृष्टः प्रजा-संयमनो यमः ।

प्रीतः स्व-दूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥

**श्रीधरः : **प्रजाः संयमयतीति तथा ॥११॥

**क्रम-सन्दर्भः : **प्रीत इति । श्री-नारायण-पुरुषत्व-निर्णयात् पूर्वं त्व् अन्यदीयत्व-ज्ञाने दुःखं जातम् आसीद् इति ॥११॥

**विश्वनाथः : **स्मरन् प्रीत इति नारायण-नाम-श्रवण-मात्राद् एवेति भावः ॥११॥

—ओ)०(ओ—

॥ ६.३.१२ ॥

यम उवाच

परो मद्-अन्यो जगतस् तस्थुषश् च

ओतं प्रोतं पटवद् यत्र विश्वम्।

यद्-अंशतोऽस्य स्थिति-जन्म-नाशा

नस्य् ओतवद् यस्य वशे च लोकः ॥

**मध्वः : **ओतं प्रोतं पटवत् ।

यथा कन्था-पटाः सूत्र ओताः प्रोताश् च संस्थिताः ।
एवं विष्णाव् इदं विश्वम् ओतं प्रोतं च संस्थितम् ॥ इति स्कान्दे ॥१२॥

**श्रीधरः : **मत्तोऽन्यो जगतस् तस्थुषश् च परोऽधीश्वरोऽस्ति अहं तु जङ्गमानाम् एव तत्रापि नृणाम् एव तत्रापि पापिनाम् एव तत् किङ्करः सन्न् ईश्वरः, स तु सर्वेश्वरः । कोऽसौ ? यत्र यस्मिन् विश्वम् ओतं प्रोतं चोर्ध्व-तिर्यक्-तन्तुषु पटवत् । यस्य त्व् अंशेभ्यो विष्णु-ब्रह्म-रुद्रेभ्योऽस्य स्थित्य्-आदयो भवन्ति, यस्य च वशे लोको वर्तते । नासिकायां प्रोत-बलीवर्द-वत् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किम् अरे अपराधिनः प्रलपथ तत्त्वं शृणुथेत्य् आह—पर इति । यं मां लोक-शास्तारं जानीथ तस्मान् मत्तोऽपि मद्-उपलक्षितेभ्य इन्द्रादिभ्योऽपि परः श्रेष्ठोऽधीश्वरोऽस्ति । अहं तु जङ्गमानाम् एव तत्रापि पापिनाम् एव, तत्रापि तत् किङ्कर, स तु सर्वेश्वरः । कोऽसौ ? यत्र यस्मिन्विश्वम् ओतं प्रोतं च ऊर्ध-तिर्यक्-तन्तुषु पटवत् । यद्-अंशेभ्यो विष्णु-रुद्रेभ्यः, नस्य् ओतवन्न् असि प्रोत-बलीवर्दवत् ॥१२॥

—ओ)०(ओ—

॥ ६.३.१३ ॥

यो नामभिर् वाचि जनं निजायां

बध्नाति तन्त्र्याम् इव दामभिर् गाः।

यस्मै बलिं त इमे नाम-कर्म-

निबन्ध-बद्धाश् चकिता वहन्ति ॥

**श्रीधरः : **एतत् प्रपञ्चयति—ब्राह्मणादि-नामभिर् वाचि निजायां तन्त्र्यां दामन्यां जनान्यो बध्नाति दामभिर् गा बलीवर्दान् इव । त इमे जीवा नाम-कर्मभिर् निबन्धैर् दृढ-बन्ध-साधनैर् बद्धा यस्मै बलिं वहन्ति । यद् अधीनाः कर्म कुर्वन्तीत्य् अर्थः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एव प्रपञ्चयति—य इति । वाचि वेद-लक्षणायां नामानि ब्राह्मणादीनि कर्माणि यजनादीनि तैर् एव निबन्धैर् निर्बन्धकैर् बद्धाः ॥१३॥

—ओ)०(ओ—

॥ ६.३.१४ ॥

अहं महेन्द्रो निरृतिः प्रचेताः

सोमोऽग्निर् ईशः पवनो विरिञ्चिः ।

आदित्य-विश्वे वसवोऽथ साध्या

मरुद्-गणा रुद्र-गणाः ससिद्धाः ॥

अन्ये च ये विश्व-सृजोऽमरेशा

भृग्व्-आदयोऽस्पृष्ट-रजस्-तमस्काः।

यस्येहितं न विदुः स्पृष्ट-मायाः

सत्त्व-प्रधाना अपि किं ततोऽन्ये ॥

**श्रीधरः : **यस्य च लीला दुर्विभाव्येत्य् आह—अहम् इति द्वाभ्याम् ॥१४॥ न स्पृष्टं रजस्-तस्मश् च यैः ईहितम् अभिप्रेतं चेष्टितं व न विदुः । स्पृष्ट-माया मायया स्पृष्टाः । ततस् तेभ्योऽन्ये न विदुर् इति किं पुनर् वक्तव्यम् ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **न केवलं स मद्-विधेभ्यः पर एव, किन्तु वयं विरिञ्चि-पर्यन्ताः सर्वज्ञा अपि स कदा किं कुर्याद् इत्य् अपि न विद्म इत्य् आह—अहम् इति । ईहितं चिकीर्षितम् । तद् उक्तं—

न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् ।
यद् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ [भा।पु। १.९.१६] इति ।

अस्पृष्ट-रजस्-तमस्का अपि स्पृष्टा सत्त्व-मयी माया यैर् यतः सत्त्व-प्रधानाः ॥१४-१५॥

—ओ)०(ओ—

॥ ६.३.१६ ॥

यं वै न गोभिर् मनसासुभिर् वा

हृदा गिरा वासु-भृतो विचक्षते ।

आत्मानम् अन्तर्-हृदि सन्तम् आत्मनां

चक्षुर् यथैवाकृतयस् ततः परम् ॥

**श्रीधरः : **तन् मायया विमोहितत्वान् न जानन्तीत्य् उक्तम् अविषयत्वाच् च तस्येत्य् आह—यम् इति । गोभिर् इन्द्रियैर् हृदा चित्तेन न विचक्षते न पश्यन्ति । यद् वाचानभ्युदितं, यन् मनो न मनुते इत्य्-आदि-श्रुतेः । आत्मनां जीवानाम् आत्मानं द्रष्टारम् । आकृतयो रूपाणि चक्षुर् यथा कर्म-भूतं न जानन्ति, ततः परमाकृतीनां प्रकाशकम् । न हि प्रमाता प्रमाणस्य विषय इति भावः । एवं-भूतः परमेश्वरो मद्-अन्योऽस्तीति पूर्वेणैव संबन्धः ॥१६॥

**क्रम-सन्दर्भः : **यं वईति । श्री-भगवद्-रूप एव वाग्-आद्य्-अगोचरतया श्रुतिभिर् वर्ण्यत इति व्यज्य तस्य स्व-प्रकाशत्वं व्यञ्जितं न विचक्षते न विषयीकुर्वन्ति ॥१६॥

**विश्वनाथः : **तं त्व् अतीन्द्रियत्वात् सुतराम् एव न जानीम इत्य् आह—यम् इति । गोभिर् ज्ञानेन्द्रियैर् मनसा स-विकल्पतया असुभिः कर्मेन्द्रियैः हृदा चित्तेन निर्विकल्पतया च न विचक्षते न जानन्ति । आत्मनां जीवानाम् अनेकेषाम् एकम् एवात्मानम् अन्तर्यामिनम् । आकृतयो रूपाणि चक्षुर् यथा कर्म-भूतं, ततः प्रकाश्येभ्यः परं प्रकाशकम् ॥१६॥

—ओ)०(ओ—

॥ ६.३.१७ ॥

तस्यात्म-तन्त्रस्य हरेर् अधीशितुः

परस्य मायाधिपतेर् महात्मनः ।

प्रायेण दूता इह वै मनोहराश्

चरन्ति तद्-रूप-गुण-स्वभावाः ॥

**श्रीधरः : **भवत्व् एवं-भूतोऽन्यः परमेश्वरः, ये पुनर् अस्मान् निर्भर्त्स्य पापिनं रक्षितवन्तस् ते के तान् आह—तस्येति द्वाभ्याम् । तस्येव रूपं गुणाः प्रभावादयः स्वभावो भक्त-वात्सल्यादिर् येषां ते ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननुभवत्व् एवं-भूतोऽन्यः परमेश्वरस् तं न जिज्ञासामहे ये त्व् अस्मान् निर्भर्त्स्य पातकिनं ररक्षुस् ते के इत्य् अत आह—तस्येति । प्रायेण मनोहरा इति युष्माकं तु न मनोहरा इति भावः ॥१७॥

—ओ)०(ओ—

॥ ६.३.१८ ॥

भूतानि विष्णोः सुर-पूजितानि

दुर्दर्श-लिङ्गानि महाद्भुतानि ।

रक्षन्ति तद्-भक्तिमतः परेभ्यो

मत्तश् च मर्त्यान् अथ सर्वतश् च ॥

**श्रीधरः : **विष्णोर् भूतानि भृत्याः दुर्दशानि द्रष्टुम् अप्य् अशक्यानि लिङ्गानि रूपाणि येषां तानि। तद्-भक्तिमतो विष्णु-भक्तान् । परेभ्यः शत्रुभ्यो मत्तः सर्वतोऽग्न्य्-आदिभ्यश् च रक्षन्ति ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सुर-पूजितानीति । रे मूर्खास् तान् अपूजितवन्तो यूयम् अपराधिन एवेति भावः । तद्-भक्तिमतो विष्णु-भक्तान् मत्तश् चेति वयं के वराका इति भावः ॥१८॥

—ओ)०(ओ—

॥ ६.३.१९ ॥

धर्मं तु साक्षाद् भगवत्-प्रणीतं

न वै विदुर् ऋषयो नापि देवाः ।

न सिद्ध-मुख्या असुरा मनुष्याः

कुतो नु विद्याधर-चारणादयः ॥

**श्रीधरः : **ननु विष्णु-भक्ताश् चेत् कथम् अधर्म-पक्षपातं कृतवन्तः ? तत्राह—धर्मम् इति । ऋषयो भृग्व्-आदयः ॥१९॥

**चैतन्य-मत-मञ्जुषा : **धर्मं तु साक्षाद् इत्य्-आदि । भगवत्-प्रणीतं भगवते भगवत्-प्राप्त्य्-अर्थं प्रणीतं भागवत-धर्मम् इत्य् अर्थः । वै निश्चितम् । ऋषयो भृग्व्-आदयः । देवा इन्द्रादयश् च न विदुः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नन्व् एवं चेत् तर्हि ते कथम् अधर्म-पक्ष-पातिन इति चेद् धर्म-तत्त्वं युष्मद्-विधा मूढाः कुतो ज्ञास्यन्ति ? महा-विद्वांसो मुनयोऽपि न जानन्तीत्य् आह—धर्मम् इति ॥१९॥

—ओ)०(ओ—

॥ ६.३.२०-२१ ॥

स्वयम्भूर् नारदः शम्भुः कुमारः कपिलो मनुः ।

प्रह्लादो जनको भीष्मो बलिर् वैयासकिर् वयम् ॥

द्वादशैते विजानीमो धर्मं भागवतं भटाः ।

गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतम् अश्नुते ॥

**श्रीधरः : **ननु केऽपि चेन् न जानन्ति तस्य सत्त्वे किं प्रमाणं तत्राह, स्वयम्भूर् इति । कुमारः सनत्-कुमारः । वयम् एत्य् आत्मानम् एव बहु-मन्यमानो निर्दिशति ॥२०-२१॥

**चैतन्य-मत-मञ्जुषा : **तर्हि केऽपि यदि न विदुः, तदा तत्-सत्तायां किं-प्रमाणम् ? इत्य् आह—स्वयम्भूर् इत्य्-आदि-द्वाभ्याम् । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः [भा।पु। ११.१४.३३] इति स्वयं भगवता स्वयम्भूर् उपदिष्ट इति स एव यथार्थं वेद, तन्-मुखात् श्रुत्वा नारदोऽपि, शम्भुर् भगवद्-अभिन्नत्वात्, कुमारः साक्षाद्-दर्शनात्, कपिलस् तद्-अवतारत्वात्, मनुर् ब्रह्मणा यथार्थम् उपदिष्टत्वात् । प्रह्लादः परम-भागवतत्वात् । जनको भागवतानां सङ्गात् । भीष्मः प्राण-त्याग-समये भगवद्-रति-प्रार्थकत्वात् । बलिश् चरणारविन्द-स्पर्शात् । वैयासकिः श्री-भागवतोपदेशात् । अहम् इत्य् अर्थे वयम् । वयं विदुर् अत्रोपलम्भात् यद्यपि भीष्मादयः प्राचीना न भवन्ति, तथापि भविष्यति भूतवन् निर्देश-परिगणनम् । कुमार इति सनत्-कुमार एक एव, न तु कुमार-वर्गः । सनत्कुमारो हि, यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या [भा।पु। ४.२२.३९] इति पृथुं प्रत्युपदिदेश । एतेन पुराणादि-कर्ता व्यासोऽपि न जानातीति भावः । नारदोपदेशाद् भागवत-करण-काले भगवद्-भक्ति-योग-महिमानं वेदेति भावः । दुर्बोधं प्रतिकूल-मार्गाणां दुर्ज्ञेयम् । यं ज्ञात्वामृतं श्री-चरणारविन्दासवम् अश्नुते, ज्ञात्वेति ज्ञान-मात्रेण । किं पुनर् आचरणेनेति भावः ॥२०-२१॥

**क्रम-सन्दर्भः : **विजानीम एव न तु निज-स्मृत्यादौ स्पष्टं कथयाम इत्य् अर्थः । तत्र हेतुः—गुह्यं लोक-मर्यादा-रक्षणाय गोप्यम् । किं च, साधारण-जनैर् दुर्बोधं च । दुर्बोधत्वे हेतुः—विशुद्धं न ह्य् अशुद्धाः शुद्धं ज्ञातुम् अर्हन्तीति गुह्यत्वे हेतु-विशेषः—यम् इति । हे भटाः ! इति तस्माद् यूयं तु सुतरां न जानीथेत्य् अर्थः ॥२१॥

भक्ति-सन्दर्भः (११०) : एते धर्म-प्रवर्तका विजानीम एव, न तु स्व-स्मृत्य्-आदिषु1 प्रायेणोपदिशाम इत्य् अर्थः । यतो गुह्यम् अप्रकाश्यं दुर्बोधम् अन्यैस् तथा ग्रहीतुम् अशक्यं च । गुह्यत्वे हेतुः—**यं ज्ञात्वा **इति । [अमृतं परमं फलम्—

ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ [भ।र।सि। १.१.३८]

इत्य्-आदौ सूचितं परमत्वम् । विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः [भा।पु। १०.३३.४०] इत्य्-आदौ, भक्तिं पराम् इत्य्-आदिनोक्तम् । कृष्णाधरामृतास्वाद-सिद्धिर् अत्र इत्य्-आदौ किञ्चिद् विशदितम् अश्नुते ।]2 अत एव वक्ष्यते—प्रायेण वेद तद् इदं न महाजनोऽयम् [भा।पु। ६.३.२५] इत्य्-आदि । अत्र महाजनो द्वादशभ्यस् तद्-अनुगृहीत-सम्प्रदायिभ्यश् चान्यो महागुण-युक्तोऽपीत्य् अर्थः ।

**विश्वनाथः : **ननु केऽपि चेन् न जानन्ति, तर्हि तस्य सत्त्वे किं प्रमाणम् ? तत्राह—स्वयम्भूर् इति । विजानीय इति न तु निज-कृत-स्मृति-शास्त्रेष्व् अपि स्पष्टं कथयाम इत्य् अर्थः । तत्र हेतवः—गुह्यं परम-तत्त्वत्वात् संवृत्यैव स्थाप्यं राज-विद्या-राज-गुह्याध्याये—सर्व-गुह्यतमं भूयः शृणु मे इत्य् अत्र हेतोर् एव दृष्टत्वात्, विशुद्धं गुणातीतं स-गुण-स्मृति-शास्त्रेषु वक्तुम् अनर्हत्वात् दुर्बोधं कर्मिभिर् अर्थ-वादादि-दोष-कलिलान्तःकरणैर् दुर्ज्ञेयत्वात् ॥२०-२१॥

—ओ)०(ओ—

॥ ६.३.२२ ॥

एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।

भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥

**श्रीधरः : **तम् एव धर्मम् आह—एतावान् इति ॥२२॥

**सनातनः **(ह।भ।वि। ११.५५९) : तस्य भगवतो नाम-ग्रहणादिभिर् इति भक्तेर् नाम-ग्रहण-प्रधानताभिप्रेता ॥२२॥

**चैतन्य-मत-मञ्जुषा : **भागवत-धर्म एव परो धर्म इत्य् आह—एतावान् एवेत्य्-आदि । पुंसां परो धर्मः स्मृतः । कोऽसौ ? भगवति भक्ति-योगः । किं प्रकारकः ? इत्य् आह—तन्-नाम-ग्रहणादिभिः ॥२२॥

**क्रम-सन्दर्भः : **लोकेऽस्मिन्न् इह जगतीत्य् अर्थः । तन्-नाम-ग्रहणादिभिर् इति तृतीया प्रकृत्य्-आभिरूप इतिवत् ॥२२॥

**भक्ति-सन्दर्भः ९२ : **तद् एवम् अस्मिन् श्रीमति महा-पुराणे गुरु-शिष्य-भावेन प्रवृत्तानाम् उपदेश-शिक्षा-वाक्येषु भक्तेर् एवाभिधेयत्वं साधितम् । तथा—

तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥[भा।पु। १.१६.६]

इत्य् अनुसारेण सर्वेषाम् इतिहासानाम् अपि तन्-मात्र-तात्पर्यत्वं ज्ञेयम् । विस्तर-भिया तु न विव्रियते । अथान्यत्र च तद् एव दृश्यते । तत्रान्वयेन यथा—एतावान् एवेति ।

पुंसां जीव-मात्राणां परो धर्मः सार्वभौमो धर्म एतावान् एव स्मृतः, नैतद् अधिकः । एतावत्त्वम् एवाह—तन्-नाम-ग्रहणादिभिर् यो भक्ति-योगः साक्षाद् भक्तिर् इति । एव-कारेणान्य-व्यावृत्तत्वं स्पष्टयति—भवतीति । नाम-ग्रहणादीन्य् अपि यदि कर्मादौ तत्-साद्गुण्याद्य्-अर्थं प्रयुज्यन्ते, तदा तस्य परत्वं नास्ति । तुच्छ-फलार्थं प्रयुक्तत्वेन तद्-अपराधाद् इत्य् अर्थः । तथैव क्षयिष्णु-फल-दातृत्वं च भवतीति भावः ॥२२॥

**विश्वनाथः : **तर्हि तम् एव धर्मम् अस्मान् सेवकान् शिक्षयित्वा त्रायस्वेत्य् आह—एतावान् एव प्रभेद-बाहुल्येऽपि वस्तुतस् त्व् इयान् एवेति भावः । पर इति पर-शब्द-विशेष्यत्वेनोच्य-मानः। तन्-नाम-ग्रहणादिभिर् इति कर्मार्पण-लक्षणः स-गुणो योगो व्यावृत्तः । एतद् एव श्री-भागवतस्याभिधेय-तत्त्वम् । यद् उक्तं शास्त्रारम्भ एव—धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इति, स वै पुंसां परो धर्मः [भा।पु। १.२.६] इति ॥२२॥

—ओ)०(ओ—

॥ ६.३.२३ ॥

नामोच्चारण-माहात्म्यं हरेः पश्यत पुत्रकाः ।

अजामिलोऽपि येनैव मृत्यु-पाशाद् अमुच्यत ॥

**श्रीधरः : **न चात्र प्रमाणं वक्तव्यं दृष्टत्वाद् इत्य् आह—नामोच्चारणेति । येनैव केवलेन सकृद्-उच्चारितेन ॥२३॥

**चैतन्य-मत-मञ्जुषा : **नाम-ग्रहण-माहात्म्यं दर्शयति—नामोच्चारण-माहात्म्यम् इत्य्-आदि-द्वाभ्याम् । इयाय मुक्तिं पार्षद-सारूप्य-मोक्षम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **न चात्र प्रमाणम् अन्वेष्टव्यं साक्षाद् दृष्टत्वाद् इत्य् आह—नामेति ॥२३॥

—ओ)०(ओ—

॥ ६.३.२४ ॥

एतावतालम् अघ-निर्हरणाय पुंसां

सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् ।

विक्रुश्य पुत्रम् अघवान् यद् अजामिलोऽपि

नारायणेति म्रियमाण इयाय मुक्तिम् ॥

**श्रीधरः : **ननु नामाभासेन कथं सर्व-पाप-क्षयः स्यात् ? श्रद्धा-भक्त्य्-आवृत्त्यादेर् अपि विधानात् । तथा हि—सायं प्रातर् गृणन् भक्त्या दुःख-ग्रामाद् विमुच्यते[भा।पु। १.३.२९] इति, अनुदिनम् इदम् आदरेण शृण्वन्[भा।पु। ४.२३.३९] इति,

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद् अर्थेऽखिल-चेष्टितम् ॥ [भा।पु। ११.३.२७]

इत्य्-आद्य् अस्मिन्न् एव पुराणे तत्र तत्र पठ्यते । पुराणान्तरे च, पाप-क्षयश् च भवति स्मरतां तम् अहर्-निशम् इति । अत्रैव च,

तस्मात् सङ्कीर्तनं विष्णोर् जगन्-मङ्गलम् अंहसाम् ।
महताम् अपि कौरव्य विद्ध्य् एकान्तिक-निष्कृतम् ॥ [भा।पु। ६.३.३१]

इत्य्-आदिना सम्यक् कीर्तनाद् एव मुच्यते ।

किं च, तथा सति किम् इति मन्व्-आदयो द्वादशाब्दादीनि स्मरेयुः । तस्माद् इदम् अनुपपन्नम् इव तन् नाह—एतावतेति । भगवतो गुणानां कर्मणां च नाम्नां च सम्यक् कीर्तनम् इति यद् एतावता पुंसाम् अघ-निर्हरणाय पाप-क्षय-मात्रायालम् उपयोगो नास्ति । अलं-शब्दोऽत्र वारणे । यथाहामर-सिंहः, अलं भूषण-पर्याप्ति-शक्ति-वारण-वाचकम् इति ।

उपयोगाभावम् एवाह । अजामिलो मह-पातक्य् अपि नारायणेति विक्रुश्य, न तु सम्यक् कीर्तयित्वा । तच् च पुत्रं विक्रुश्य, न तु हरिम् । अघवान् अशुचिर् अपि म्रियमाणोऽस्वस्थ-चित्तोऽपि मुक्तिम् अवाप, न त्व् अघ-निर्हरण-मात्रम् । अतो नामाभासेनापि सर्व-पाप-क्षय इत्य् एव तत्त्वम् । आवृत्ति-श्रद्धादि-विधयस् तु पाप-वासनाक्षयार्था इत्य् उक्तम् एव, हरेर् गुणानुवादः खलु सत्त्व-भावनः इत्य् अत्र ॥२४॥

**सनातनः **(ह।भ।वि। ११.४२७) : भगवतो गुणानां कर्मणां च नाम्नां च । यद् वा, गुण-कर्म-सम्बन्धिनां विचित्राणां नाम्नां बहूनां सम्यक् कीर्तनं पुंसाम् अघ-निर्हरणाय पाप-क्षय-मात्राय भवतीति यत्, एतावता उक्तेन अलं प्रयोजनं नास्ति । कुतः ? अजामिलो मह-पातक्य् अपि नारायणेत्य् एव विक्रुश्य, न त्व् अवतार-सम्बन्धि-गुण-कर्म-माधुरी-वैशिष्ट्यं नाम-विशेषं सम्यक् कीर्तयित्वा । तत्र च पुत्रं विक्रुश्य, न तु हरिम् । अघवान् अशुचिर् अपि अकृत-प्रायश्चित्तोऽपीति वा । म्रियमाणोऽस्वस्थ-चित्तोऽपि मुक्तिम् अवाप, न त्व् अघ-निर्हरण-मात्रम् । तदानीम् अजामिलस्य देहस्य वर्तमानत्वेन जीवन्मुक्ततैव सिद्धा । अतो नामाभासेनापि यथा-कथञ्चिज् जातेन मुक्तिर् अपि स्यात् । किम् उत पाप-क्षय इति भावः ॥२४॥

**क्रम-सन्दर्भः : **एतावतेत्य् अस्य टीकायां पाप-वासना-क्षयार्था इत्य् अत्र तथापि महद्-अपराधाद्य्-आलम्बनेन तिष्ठति या पाप-वासना तस्याः क्षयार्था इत्य् अर्थः । मरणे तु निरपराधस्यैव सतो मुखे नामाविर्भावः स्याद् इति भावः । इत्थम् एव द्वितीये एतावान् साङ्ख्य-योगाभ्यां [भा।पु। २.१.६] इत्य् अत्र व्याख्यातम् । अन्ते तु परमो लाभ इति । तद् उक्तम्—

कृष्णः कृष्णः कृष्ण इत्य् अन्त-काले
जल्पन् जन्तुर् जीवितं यो जहाति ।
आद्यः शब्दः कल्पते तस्य मुक्त्यै
व्रीडा-नम्रौ तिष्ठतोऽन्यावृण-स्थौ ॥ इति ।

मुक्तिम् इयातेति जीवन्-मुक्त्य्-अपेक्षया ॥२४॥

**विश्वनाथः : **ननु सकृद् उच्चारितेनैव नामाभासेन कथं सर्व-पाप-क्षयः तन्-नाम-ग्रहणादिभिर् इति त्वयाप्य् आदि-पदोपदानात् कीर्तन-श्रवणाद्य्-अङ्ग-भक्ति-योगेन परम-धर्मेण सर्व-पाप-क्षय-पूर्वक-मोक्ष-प्राप्तिर् इत्य् उक्तत्वाद् इत्य् अत आह—एतावतेति । भगवतो गुणानां कर्मणां नाम्नां च सम्यक् कीर्तनम् इत्य् एतावता पुंसाम् अघ-निर्हरणाय पाप-क्षय-मात्रायालम् उपयोगो नास्ति । अलं-शब्दोऽत्र वारणे, नामादीनाम् एकतरस्यापि असम्यक्-कीर्तनाद् अपि साघ-निर्हरण-सिद्धेर् इति भावः । यद् यतो विक्रुश्यैव, न तु सम्यक् कीर्तयित्वा । तच् च नारायणायेति नाम्ना पुत्रं विक्रुश्य, न तु हरिम् । अघवान् अशुचिर् अपि, न तु शुचिः सन् अजामिलोऽप्य् अतिप्रसिद्ध-महा-पातक्य् अपि, न त्व् अन्यः क्षुद्र-पापी । म्रियमाणो मरण-दुःख-विवशोऽपि, न तु सुस्थ-चित्तः मुक्तिम् इयाय प्राप, न तु पाप-निर्हरण-मात्रम् । तस्मात् तन्-नाम-ग्रहणादिभिर् इति—

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद् अर्थेऽखिल-चेष्टितम् ॥ [भा।पु। ११.३.२७]

तस्मात् सङ्कीर्तनं विष्णोर् [भा।पु। ६.३.३१] इति, अनुदिनम् इदम् आदरेण शृण्वन्[भा।पु। ४.२३.३९] इत्य्-आदिषु भक्तेर् अनेकेषाम् अङ्गानां श्रद्धा-वृत्ति-सम्यक्त्वादेर् अपि यद् विधानं तन् निरपराधानां प्रेम-वृद्ध्य्-अर्थम् । नामापराधवतां तु नामापराध-क्षयार्थं च । श्रद्धामृत-कथायां मे[भा।पु। ११.१९.२०] इत्य् उपक्रम्य,

एवं धर्मैर् मनुष्याणाम् उद्धवात्मनि वेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ [भा।पु। ११.१९.२४] इति ।

अत्र भक्ति-शब्देन प्रेमैवोक्तः । कोऽन्य इत्य् अनेन मोक्षस्य निराकरणात्—

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।

पाप-क्षयश् च, भवति स्मरतान्तम् अहर्-निशम् इत्य् अत्र च-कारान् नामापराध-क्षयः प्रेम-भक्तिश् चेति व्याख्येयम् इति पापस् तद्-वासना तन्-मूल-भूताविद्या-क्षयः, सायुज्य-सालोक्यादिकं तु नामाभासस्यैकस्यापि फलम् इत्य् एतद् उपाख्यान एव दृष्टम् ॥२४॥

—ओ)०(ओ—

॥ ६.३.२५ ॥

प्रायेण वेद तद् इदं न महाजनोऽयं

देव्या विमोहित-मतिर् बत माययालम् ।

त्रय्यां जडी-कृत-मतिर् मधु-पुष्पितायां

वैतानिके महति कर्मणि युज्यमानः ॥

**श्रीधरः : **यत् तूक्तं व्यर्थं तर्हि द्वादशाब्दादि-स्मरणम् इति तत्राह—प्रायेणेति । महा-जनो मन्व्-आदिः । अयं भवः—यथामृत-सञ्जीवनौषधिम् अजानन्तो वैद्या रोग-निर्हरणाय त्रि-कटुक-निम्बादीनि स्मरन्ति, तथा स्वयंभू-शंभु-प्रमुख-द्वादश-व्यतिरेकेणायं महा-जनोऽतिगुह्यम् इदम् अज्ञात्वा द्वादशाब्दादिकं स्मरतीति ।

किं च, मायया देव्या अलं विमोहित-मतिर् अयं जनो मधु मधुरं यथा भवति, एवं पुष्पितायां पुष्प-स्थानीयैर् अर्थ-वादैर् मनोहरायां त्रय्यां जडी-कृता अभिनिविष्टा मतिर् यस्य । अतो महत्य् एव कर्मणि श्रद्धया युज्यमानो नाल्पे प्रवर्तते । दृश्यते हि प्राकृतस्य लोकस्य महति मन्त्रादौ श्रद्धा, अल्पे चाश्रद्धा । तस्माद् अस्य ग्राहको नास्तीति तैर् नोक्तम् ।

यद् वा, स्वाधीनः सिंहोऽस्त्य् एतावता श्व-शृगालादि-निवारणाय तं यथा न प्रयुञ्जते, तथाति-तुच्छत्वात् पापस्य न तन्-निरसनाय परम-मङ्गलं हरेर् नाम स्मरन्ति ।

यद् वा, नाम-माहात्म्य-ज्ञाने सर्व-मुक्ति-प्रसङ्गाद् इत्य् एषा दिक् । ग्रन्थ-विस्तर-भयात् तु नातिप्रपञ्च्यते ॥२५॥

**चैतन्य-मत-मञ्जुषा : **ननु सत्सु भगवन्-नाम-ग्रहणादिषु कथं नाम कृच्छ्र-चान्द्रायणादिर् महा-जनैर् निरूपितः ? नेत्य् आह—प्रायेण वेदेत्य्-आदि । महाजनो व्यास-याज्ञवल्क्यादिः । स्वयम्भूर् इत्य्-आदि-द्वादश-भिन्नः । प्रायेण साकल्येन याथार्थ्येन वा वेद । कुतः ? तत्राह—देव्या मायया विशेषेण मोहितः । लिङ्गम् आह—त्रय्यां जडीकृत-मतिः, यतस् तयैव युज्यमानः, न तु योजितः ॥२५॥

**क्रम-सन्दर्भः : **महाजनो द्वादशेतर-मुन्य्-आदिः । स एव देव्या विमोहित-मतिर् इत्य्-आदि-लक्षणः ॥२५॥

**विश्वनाथः : **नन्व् एवम् अखिल-धर्म-श्रेष्ठं मुक्ति-साधनम् अतिसुगमं नाम-कीर्तनादि भगवद्-भजनं प्रायेणानुपदिशन्तः किम् इति विद्वांसः कर्म-योगम् एवोपदिशन्ति, कुर्वते च ? तत्राह—प्रायेणेति । महाजनो जैमिन्य्-आदिर् इदं न वेद ।

ननु शास्त्रकृत् कथं न वेद ? तत्राह—देव्या परमैश्वर्या । अविदुषो मोहने खलु न किम् अप्य् ऐश्वर्यमतो विद्वांसम् अधिकं मोहयेद् इति भावः । अत एव मधु मधुरं यथा स्यात् तथा पुष्पितायाम् अर्थवाद-पुष्पाणि सञ्जातानि यस्यास् तस्यां त्रय्यां जडीकृता अत्यभिनिवेशाद् विवेक-रहितीकृत्य मतिर् यस्य सः । अत एव वैतानिके द्रव्यानुष्ठान-मन्त्रादि-विस्तारवति कर्मणि महति दर्शपौर्णमासादि-योगे च बव्हायासवति लौकिक-प्रतिष्ठादि-हेतोर् युज्यमानो युक्तोऽल्पायासे नाम-कीर्तनादौ न रज्यतीत्य् अर्थः ॥२५॥

—ओ)०(ओ—

॥ ६.३.२६ ॥

एवं विमृश्य सुधियो भगवत्य् अनन्ते

सर्वात्मना विदधते खलु भाव-योगम् ।

ते मे न दण्डम् अर्हन्त्य् अथ यद्य् अमीषां

स्यात् पातकं तद् अपि हन्त्य् उरुगाय-वादः ॥

**श्रीधरः : **भाव-योगं भक्ति-योगम् । अमीषां पातकं न स्याद् एव । यदि स्यात् उरुगायस्य वादः कीर्तनम् ॥२६॥

**क्रम-सन्दर्भः : **एवं पूर्वोक्त-भगवद्-भक्ति-महिम-प्रकारम् । सर्वात्मनेति । नित्य-नैमित्तिक-परित्याग उक्तः । तथा दण्डं नार्हन्ति । तत्र यदि दैवान् निषिद्धाचरणेन पातकं स्यात्, तद् अपि यथा कथञ्चित् तत्-कीर्तन-मात्रं हन्तीत्य् अर्थः ॥२६॥

**विश्वनाथः : **

अथापि ते देव पदाम्बुज-द्वय-
प्रसाद-लेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन् ॥ [भा।पु। १०.१४.२९]

इति ब्रह्मोक्तेः शास्त्रज्ञा अपि भगवत्-तत्त्वानभिज्ञाः स्युः । अनधीत-शास्त्रा अपि भगवद्-अनुगृहीताः शुद्ध-बुद्धयः सन्तो विवेकिनो भगवन्तं भजन्त्य् एवेत्य् आह—एवम् इति । सर्वात्मना सर्वेणैव मनसा, न तु नित्य-नैमित्तिक-कर्माद्य्-अनुष्ठानार्थं मनसः कम् अप्य् अंशं परित्यज्येत्य् अर्थः । दण्डं नित्य-कर्माकरण-प्रत्यवाय-जनितम् । यदि दैवात् पातकं निषिद्धाचरण-लक्षणं स्यात् । वादं कीर्तनम् ॥२६॥

—ओ)०(ओ—

॥ ६.३.२७ ॥

ते देव-सिद्ध-परिगीत-पवित्र-गाथा

ये साधवः समदृशो भगवत्-प्रपन्नाः ।

तान् नोपसीदत हरेर् गदयाभिगुप्तान्

नैषां वयं न च वयः प्रभवाम दण्डे ॥

**श्रीधरः : **तद् एवं धर्म-तत्त्वं निर्णीय भृत्यान् अनुशास्ति—त इति । ये भगवन्तं प्रपन्नास् ते देवैः सिद्धैश् च परिगीत-पवित्र-गाथा वर्णित-पवित्र-कथाः, अतस् तान् नोपसीदत तत् समीपम् अपि न गच्छत । वयः कालोऽपि न प्रभवति ॥२७॥

**सनातनः **(ह।भ।वि। १०.२१८) : एवं सर्व-शास्त्र-साराखिल-वेद-फल-रूप-श्री-भागवते प्रतिस्कन्धम् एव भगवद्-भक्तानां माहात्म्यं विभातीति स्कन्ध-क्रमेण लिखित्वा इदानीं पूर्ववत् साक्षात् माहात्म्याभावेऽपि केषांचिद् वचनानां तात्पर्येण विशेषतो माहात्म्य एव पर्यवसानात् तानि पृथग् लिखति—ते देवेत्य् आदिना, नमो नम [ह।भ।वि। ११.२४८] इत्य् अन्त्येन । ये भगवन्तं प्रपन्ना यथा कथञ्चिद् अप्य् आश्रिताः । अत एव साधवः सुशीलाः समदृशश् चते देवैः सिद्धैश् च श्री-सनकादिभिः परिगीत-पवित्र-गाथाः अनुवर्णित-पवित्र-कथाः । अतस् तान् नोपसीदत तत्-समीपम् अपि नोपगच्छत तत्-प्रतिवेशिनोऽपि परित्यजतेत्य् अर्थः । किं च, गदया कौमोदक्या अभितो गुप्तान् । ततस् तत्-समीप-गताः सन्तस् तया हनिष्यध्वे इति भावः ।

तेषां कथञ्चित् पापे जातेऽपि न कोऽपि किञ्चित् कर्तुं शक्नुयात्, भगवत्-प्रपन्नत्वेनैव सर्व-पाप-क्षयापत्तेर् इत्य् आह—नैषाम् इति । वयम् इति निज-भृत्याद्य्-अपेक्षया बहुत्वम् । वयः कालोऽपि स-नियन्ता न प्रभवति ॥२७॥

**क्रम-सन्दर्भः : **तेषाम् एव माहात्म्यानुवाद-पूर्वकं शिक्षयति—ते देवेति । नोपसीदतेति। तन्-निकटे पातक्य् अपि चेद् भवति, तदापीति भावः ॥२७॥

**विश्वनाथः : **तस्माद् एतावद्-दिन-पर्यन्तं यत् कृतं, तत् कृतम् एव । भाग्येनैव रक्षिता अभूत् । अतः परं तु यद् उपदिशामि, तत् शृणुतेत्य् आह—त इति । गाथाः कथाः, समदृशः स्वस्य परस्य च सुख-दुःखादिकं समं पश्यन्तः, गदयाभिगुप्तान् इति सकृद् अद्यतनो युष्माकम् अपराधो विष्णु-दूतैः क्षान्तः इत्य् अहं मन्ये । यदि पुनर् अपि भक्तानां समीपं यास्यथ, तदा हरेर् एव गदया तेषां हस्त-स्थितया चूर्णीभविष्यथ इति भावः । यूयं खलु वराकाः, ते तावत् वयं मत्-सहिता ब्रह्माद्या अपि, वयः कालो ब्रह्मादेर् नियन्तापि ॥२७॥

—ओ)०(ओ—

॥ ६.३.२८ ॥

तान् आनयध्वम् असतो विमुखान् मुकुन्द-

पादारविन्द-मकरन्द-रसाद् अजस्रम् ।

निष्किञ्चनैः परमहंस-कुलैर् असङ्गैर्

जुष्टाद् गृहे निरय-वर्त्मनि बद्ध-तृष्णान् ॥

**श्रीधरः : **के तर्हि दण्डार्थम् आनेयाह् ? इत्य् अत्राह—तान् इति द्वाभ्याम् । असतो दुष्टान् । तान् एवाह—मुकुन्द-पादारविन्दयोर् यो मकरन्द-रूपो रसस् तस्माद् विमुखान् । कथं-भूतात् ? निष्किञ्चनैर् अजस्रं जुष्टात् । तेषां ज्ञापकम् आह— ये त्यक्त-लोक स्व-धर्म-शून्ये गृहेबद्धा तृष्णा यैस् तान् ॥२८॥

**सनातनः **(ह।भ।वि। १०.३०८) : असतो दुष्टान् तान् एवाह—मुकुन्द-पादारविन्दयोर् मकरन्द-रूपो रसो भक्ति-लक्षणस् तस्माद् विमुखान् । कथं-भूतान् ? रसज्ञैर् भक्ति-सुखाभिज्ञैः रस-विवेकिभिर् वा परमहंस-कुलैः, अत एव निष्किञ्चनैर् अभिमान-शून्यैर् निरपेक्षैर् वा, अजस्रंजुष्टान् सेवितान् । यद् वा, अजस्रं विमुखान् इति सम्बन्धः । तादृशे महा-रसे सकृत् क्षणम् अपि येऽभिमुखा न भवन्ति, तान् इत्य् अर्थः । असतां ज्ञापकम् आह—निरय-वर्त्मनि स्व-धर्म-शून्ये गृहे अनिवेदित-भोगादौ वा बद्धास् तृष्णा यैस् तान् दण्डार्थम् इहानयध्वम् । एवं तेषां निष्ठा चोक्ता ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तर्हि कीदृशान् आनेष्यामः? तत्राह—तान् असतः असाधून् । असाधूनां लक्षणम् आह—मुकुन्द-पादारविन्दयोर्मकरन्द-रसात् तत्-प्राप्ति-साधनात् भक्ति-योगाद् विमुखान्, तादृश-भक्ति-योगम् अकुर्वाणान् इत्य् अर्थः । ननु तेषां वैमुख्याद् एव स खलु मकरन्द-रसो न लिप्सनीय इत्य् अतो मकरन्द-रसं विशिनष्टि—निष्किञ्चनैः केवल-भक्तिमद्भिः परमहंस-कुलैश् च प्रधानीभूत-भक्तिमद्भिर् जुष्टात् सेवितात् । अत एव निरय-वर्त्मनि नरक-प्रापके गृहे बद्ध-तृष्णान् ॥२८॥

—ओ)०(ओ—

॥ ६.३.२९ ॥

जिह्वा न वक्ति भगवद्-गुण-नामधेयं

चेतश् च न स्मरति तच्-चरणारविन्दम् ।

कृष्णाय नो नमति यच्-छिर एकदापि

तान् आनयध्वम् असतोऽकृत-विष्णु-कृत्यान् ॥

**श्रीधरः : **किं च, जिह्वेत्य्-आदि । यद् येषां जिह्वेत्य्-आद्य् अन्वयः । **न कृतं विष्णु-कृत्यं **भगवद्-व्रतं यैः ॥२९॥

**सनातनः **(ह।भ।वि। १०.३०९) : किं च, यत् येषां जिह्वेत्य्-आद्य् अन्वयः । न कृतं विष्णु-कृत्यं भगवद्-व्रतम् एकादश्य्-उपवास-कार्त्तिक-नियमादि यैस् तांश् च एकदापीत्य् अस्य पूर्व-वाक्य-द्वये सम्बन्धः । अपि-शब्दस्यापि सर्वत्रानुषङ्गः । ततश् चायम् अर्थः—जिह्वापिगुण-कृत-नामधेयं दीन-वत्सल इत्य्-आदिकम् अपि न वक्तीति यथा कथञ्चिद् एव नामोच्चरणम्, तच् च निजार्तादि-हेतुनापि, न त्व् अर्थानुसन्धान-पूर्वकं श्रद्धया श्री-कृष्णस्य नाम सम्यग्-उच्चारणं करोतीत्य् अर्थः । एवं चेतोऽपि तच्-चरणारविन्दम् अपीति यथा कथञ्चिन् मनो-मात्रेणैवाङ्गस्य स्पर्शनम्, न तु सर्वाङ्गस्य । श्रीमच्-चरणारविन्दयोर् वा सम्यक् ध्यानम् । तथा शिरोऽपि कृष्णायापीति । शिरोभिर् नमन-मात्रेण वन्दनम् । तच् च कृष्णोद्देशेन यं कञ्चिद् अप्य् आलक्ष्येति, न तु सर्वाङ्गैः साक्षात् श्री-मूर्त्य्-आदिकं वेति । एवं कथञ्चिद् अपि श्री-कृष्ण-भक्ति-सम्बन्ध-हीना ये तान् एवानयध्वम् इति । अत एव जिह्वादि-शब्द-प्रयोगः, अन्यथा जिह्वादीनाम् एव वचनादि-व्यापारात् पुनस् तत्-तच्-छब्द-प्रयोगस्य वैयर्थ्यापत्तेर् इति दिक् ॥२९॥

**क्रम-सन्दर्भः : **अस्तु तावत् तेषां वार्ता यतो जिह्वा न वक्तीति । यद् यस्य जिह्वापि श्री-भगवतो गुणं च नाम-धेयं च वा एकदा जन्म-मध्ये यदा कदापि न वक्ति, जिह्वाया अभावे चेतश् च तच्-चरणारविन्दम् एकदापि न स्मरति, चेतसो विक्षिप्तत्वे शिरश् च कृष्णाय कृष्णं लक्ष्यीकृत्य नो नमति ।

शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गधन्वने ।
शत-जन्मार्जितं पापं तत्-क्षणाद् एव नश्यति ॥

इति स्कान्दोक्त-महिमानं नमस्कारं न करोति तान् आनयध्वम् । तत्र हेतुः—असतः । असत्त्वे हेतुः—अकृत-विष्णु-कृत्यान् । यथा च स्कान्दे रेवा-खण्डे श्री-ब्रह्मोक्तौ—

स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव ।
स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत ॥
पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे ।
निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे ।
सदा तिष्ठति भक्तस् ते ब्रह्महापि विमुच्यते ॥

श्री-पाद्मे—

मन्-निमित्तं कृतं पापम् अपि क्षेमाय कल्पते ।
माम् अनादृत्य धर्मोऽपि पापं स्यान् मत्-प्रभावतः ॥

युक्तश् च तत् । श्रवणं कीर्तनं चास्य [भा।पु। ७.११.१०] इत्य्-आदिना । मुख-बाहूरु-पादेभ्यः [भा।पु। ११.५.२] इत्य्-आदिना । सर्वेषां मद्-उपासनं [भा।पु। ११.१८.४३] इत्य्-आदिना, सर्व-विधि-निषेधाः स्युः [पाद्मे बृहत्-सहस्रनाम-स्तोत्रे] इत्य्-आदिना च परम-नित्यत्वादि-प्रतिपादनात् । एषां कीर्तनादीनां त्रयाणाम् अपि सुकराणाम् अभावे परेषां सुतराम् एवाभावो भवेद् इति सामान्येनैव विष्णु-कृत्य-रहितत्वम् उक्तम् । जिह्वादीनां करण-भूतानाम् अपि कर्तृत्वेन निर्देशः पुरुषान् इच्छयापि यथा कथञ्चित् कीर्तनादिकम् आदत्ते । चरणारविन्दम् इति विशेषाङ्ग-निर्देशः श्री-यमस्य भक्ति-ख्यापक एव, न तु तन्-मात्र-स्मरण-नियामकः । अत्राभक्तानाम् आनयनेन भक्तानाम् अनानयनम् एव विधीयते, आनयनस्योत्सर्ग-सिद्धत्वात् । वैवस्वतं संयमनं प्रजानाम् इति श्रुतेः ॥२९॥ [भक्ति-सन्दर्भ १४८]

**विश्वनाथः : **किं च, मुकुन्दस्य सकृद् अपि कीर्तन-स्मरण्डिकं तत्-प्राप्ति-साधनं भवतीति तद्वन्तोऽपि सच्-छब्देनाभिधीयन्त इत्य् अतस् तद्-भियाएवानेतव्याः ? इत्य् अह—जिह्वेति । जिह्वाया अभावे चेतश् चेत्य् आदि । चेतसो विक्षिप्तत्वे कृष्णायेत्य् आदि । एकदापीति सर्वत्रान्वेति । तान् कैवल्येन प्राधान्येन वा अकृत-विष्णु-कृत्यान् विष्णोः किम् अपि कृत्यम् अकृतवन्तः । अत एव असतः अवैष्णवान् । अत्र जन्म-मध्ये वर्ष-मध्ये दिन-मध्ये वेति यथा स्व-मतं व्याचक्षते ॥२९॥

—ओ)०(ओ—

॥ ६.३.३० ॥

तत् क्षम्यतां स भगवान् पुरुषः पुराणो

नारायणः स्व-पुरुषैर् यद् असत् कृतं नः ।

स्वानाम् अहो न विदुषां रचिताञ्जलीनां

क्षान्तिर् गरीयसि नमः पुरुषाय भूम्ने ॥

**श्रीधरः : **भगवन्तं क्षमापयति—तद् इति । अयं भावः—नः स्व-पुरुषैर् अस्मदीयत्वेन स्थितैः स्वीयैर् एव पुरुषैर् यद् यस्माद् असद् अन्याय्यं कृतं तत् तस्मात् स्वयम् एव क्षम्यतां सहताम् । स्वानां स्वीयानां भक्तानां नोऽस्माकं न विदुषाम् अज्ञानाम् । अहो गरीयसि तस्मिन् क्षान्तिर् युक्तैव । मह इति पाठे स्वीयानां माहात्म्यम् अविदुषां नः क्षमां करोत्व् इत्य् अर्थः ॥३०॥

**क्रम-सन्दर्भः : **स्व-पुरुषैर् द्वार-भूतैर् यन् नोऽस्माभिर् असत्-कृतम् ॥३०॥

**विश्वनाथः : **भृत्यापराधे स्वामिनो दण्डः इति न्यायेन स्वस्यापराधित्वं भावयन् स-विनयं प्रणमति—तत् तस्मात् क्षम्यतु, नः स्व-पुरुषैः सुष्ःतु अपुरुषैः कुपुरुषैर् इत्य् अर्थः । असत् अन्याय्यं कृतं, न कीदृशानां स्वानां तत् किङ्कराणाम् । अहो इत्य् आश्चर्ये । तद् अपि न विदुषाम् अतोऽज्ञत्वाद् एव रचिताञ्जलीनाम् ।

ननु दण्डयितुम् असमर्था एव क्षमन्ते ? तत्राह—क्षान्तिर् गरीयसि महा-महत्तमे तद् अपि क्षमैव युक्ता । स्वानां महः इति पाठे विष्णु-दूतानां यन् महो माहात्म्यं तद् अजानताम् ॥३०॥

—ओ)०(ओ—

॥ ६.३.३१ ॥

तस्मात् सङ्कीर्तनं विष्णोर् जगन्-मङ्गलम् अंहसाम् ।

महताम् अपि कौरव्य विद्ध्य् ऐकान्तिक-निष्कृतम् ॥

**श्रीधरः : **तस्माद् इत्य्-आदिः शुकोक्तिः । जगतोऽपि मङ्गल-रूपम् ॥३१॥

**क्रम-सन्दर्भः : **तस्माद् इत्य्-आदि श्री-शुकोक्तिः तस्मात् सङ्कीर्तनं तु जगतां सापराध-निरपराधानां सर्वेषाम् एव महताम् अंहसाम् अपराध-पर्यन्तानाम् ॥३१॥

**विश्वनाथः : **विष्णु-दूतानां यमस्य च वाक्य-प्रमाण्येन यदि यत् किञ्चित् कीर्तनेनैव सर्व-पाप-क्षयस् तदा किम् उत सम्यक् कीर्तनेनेत्य् आह—तस्माद् इति श्री-शुकोक्तिः ॥३१॥

—ओ)०(ओ—

॥ ६.३.३२ ॥

शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर् मुहुः ।

यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः ॥

**श्रीधरः : **एकान्तिकत्वम् एवाह—शृण्वताम् इति । व्रतादिभिस् तथा न शुध्येत् ॥३२॥

**क्रम-सन्दर्भः : **सुष्ठु जातया रति-रूपया भक्त्या तु यथा मुक्ति-पर्यन्तस्य किम् उत पाप-मात्रस्य वासना-क्षय-प्रकारेणात्मा मनः शुद्ध्येत्, तथा व्रतादिभिर् नेत्य् अर्थः ॥३२॥

**विश्वनाथः : **श्रवण-कीर्तनाद्य्-अभ्यासवतां भक्तानां सापराधानाम् अपि भक्तिर् एव पूर्णा स्यात् । यद् उक्तं—

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।

तस्यां सतां तु जीवात्मैव शुद्ध्येत् । किं पुनर् मन इत्य् अह—शृण्वताम् इति । आत्मा जीवः । अविद्या-मालिन्यात् यथा शुद्ध्यति, न तथा व्रतादिभिः कर्मि-कृतैः प्रायश्चित्तैः पाप-क्षये सत्य् अपि पाप-बीजस्याक्षयान् मनः किञ्चिन्-मात्रम् एवापाततः शुद्ध्यतीत्य् अर्थः । तेन भो राजन् प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत्[भा।पु। ६.१.१०] इति यत् त्वयाक्षिप्तं, तत् सत्यम् एव । मूल-पाप-क्षयो भक्तानां भक्त्यैव तेषाम् एव नरक-गमनाभावो भगवत्-प्राप्तिश् च कर्मिणां तु पाप-पुण्य-वशान् नरक-स्वर्ग-यातायातं पुनः पुनर् इत्य् उपाख्यानेन सिद्धान्तः प्रतिपादित इति द्योतितम् ॥३२॥

—ओ)०(ओ—

॥ ६.३.३३ ॥

कृष्णाङ्घ्रि-पद्म-मधु-लिण् न पुनर् विसृष्ट-

माया-गुणेषु रमते वृजिनावहेषु ।

अन्यस् तु काम-हत आत्म-रजः प्रमार्ष्टुम्

ईहेत कर्म यत एव रजः पुनः स्यात् ॥

**श्रीधरः : **एतद् उपपादयति । कृष्णाङ्घ्रि-पद्मयोर् मधु लेढि आस्वादयतीति तथा । मधु-लिहताऽति-तुच्छत्वेन विसृष्टा ये माया-गुणा विषयाः, तेषु पुनर् न रमते । अन्यस् तु तन् मध्व्-आस्वाद-रहितोऽत एव कामाभिभूतः सन् आत्मनो रजः पापं प्रमार्ष्टुम् अपि कर्मैव प्रायश्चित्त-रूपम् ईहेत । यतः कर्मणः पुनर् अपि रजः पापं स्याद् एव कुञ्जर-शौचवत् । सत्त्व-शोधकत्वाभावात् ॥३३॥

**क्रम-सन्दर्भः : **तद् एव व्यनक्ति—कृष्णाङ्घ्रीति । अन्यो भक्ति-मात्र-हीनः ॥३३॥

**विश्वनाथः : **तद् एवं सापराधा निरपराधा वा भक्ता भक्तिम् एव कुर्वीरन्, न तु प्रायश्चित्तम् । भक्ताव् अविश्वस्ताः स्मार्तास् त्व् अर्थवादादि-कुतर्क-कर्कश-मतयस् तु प्रायश्चित्तम् एव, न तु नाम-कीर्तनम् इत्य् अतः प्रायश्चित्त-शास्त्रम् अपि सार्थकम् इत्य् आह—कृष्णाङ्घ्रि-पद्मयोर् मधु-लिड् भ्रमरः, स यथा गो-मनुष्यादि-भक्ष्येषु घासौपनादिषु क्षुधा म्रियमाणोऽपि न विषज्जते । तथैव भक्तः पूर्व-दशायां दुर्विषय-रतोऽपि भक्तत्वे सति विसृष्टा ये माया-गुणास् तेषु न रमते । रम्-धातु-प्रयोगात् । यद्यपि कनिष्ठ-भक्तस् तान् सेवते, तद् अपि, जुषमाणश् च तान् कामान् दुःखोदर्कंश् च गर्हयेत् [भा।पु। ११.२०.२८] इत्य्-उक्त-रीत्या तेषु नैव रमते । अन्यः स्मार्तस् तु आत्मनो रजः पापं प्रमार्ष्टुं कर्म ईहेतैव । प्रायश्चित्तं कुर्वीतैव, यत एव रजः पापं कीर्तनर-शौचवत् पुनः स्याद् एव नामापराधवत्त्वाद् इति भावः ॥३३॥

—ओ)०(ओ—

॥ ६.३.३४ ॥

इत्थं स्व-भर्तृ-गदितं भगवन्-महित्वं

संस्मृत्य विस्मित-धियो यम-किङ्करास् ते ।

नैवाच्युताश्रय-जनं प्रतिशङ्कमाना

द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥

**श्रीधरः : **नैव विस्मित-धियो बभूवुः किन्तुं सत्यम् उक्तम् इत्य् एव मेनिरे । ततः-प्रभृति शङ्कमाना अस्मान् एवैष हन्याद् इति शङ्कां वहन्तस् तं द्रष्टुम् अपि बिभ्यति स्म । पाठान्तरे तु विस्मित-धियो जाताः । ते च ततः-प्रभृति बिभ्यति स्मेत्य् अर्थः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अच्युताश्रय-जनं प्रति नैव गच्छन्तीति शेषः । तेनाच्युतेति-पाठे ते विस्मित-धियो बभूवुः, पुनस् ते च बिभ्यतीति ॥३४॥

—ओ)०(ओ—

॥ ६.३.३५ ॥

इतिहासम् इमं गुह्यं भगवान् कुम्भ-सम्भवः ।

कथयाम् आस मलय आसीनो हरिम् अर्चयन् ॥

**श्रीधरः : **कुम्भ-संभवोऽगस्त्यो मलये पर्वते आसीनोऽव्यग्रो हरिम् अर्चयन् पुनः पुनर् विश्वासार्थं हरेः पादौ स्पृशन्न् इत्य् अर्थः ॥३५॥

**क्रम-सन्दर्भः : **कुम्भ-सम्भवोऽगस्त्योऽपीत्य् अर्थः संहिताध्ययने श्री-द्वैपायनाच् छ्रुतत्वात् ॥३५॥

**विश्वनाथः : **कुम्भ-सम्भवोऽगस्त्यो मलय-पर्वते आसीनोऽव्यग्रो हरिम् अर्चयन् पुनः पुनर् विश्वासार्थं हरेः पादौ स्पृशन्न् इत्य् अर्थः इति श्री-स्वामि-चरणाः ॥३५॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठ-स्कन्धे तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे अजामिलोपाख्याने
तृतीयोऽध्यायः

॥३॥

(६.४)


  1. स्मृत्य्-आदिषु (भक्तिस् म्स्स् : ख,ग,च) ↩︎

  2. थे पोर्तिओन् बेत्wएएन् स्क़ुअरे ब्रच्केत्स् इस् नोत् फ़ोउन्द् इन् अल्ल् म्स्स् ओफ़् भक्ति-सन्दर्भ (ख,ग,च)। ↩︎