०२ अजामिलोपाख्याने

॥ ६.२.१ ॥

श्री-बादरायणिर् उवाच—

एवं ते भगवद्-दूता यमदूताभिभाषितम् ।

उपधार्याथ तान् राजन् प्रत्याहुर् नय-कोविदाः ॥

श्रीधरः :

द्वितीये वैष्णवैर् याम्यान् नाम-माहात्म्यम् अद्भुतम् ।

श्रावयित्वा द्विजो विष्णोर् लोकं नीत इतीर्यते ॥

नय-कोविदा न्याय-निपुणाः ॥१॥

**चैतन्य-मत-मञ्जुषा : **द्वितीये तृतीये च अध्याये स्व-मतम् एव सर्वम् अजामिलोपाख्याने, तथापि किञ्चित् किञ्चिद् यथा-मति स्व-मते दर्शयामि ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

द्वितीये नाम-माहात्म्याद् यमदूताः पराहताः ।

अजामिलस्य निर्वेदो वैकुण्ठारोह उच्यते ॥

नय-कोविदा नीति-शास्त्र-ज्ञा यथा वदन्ति ॥१॥

—ओ)०(ओ—

॥ ६.२.२ ॥

श्री-विष्णुदूता ऊचुः—

अहो कष्टं धर्म-दृशाम् अधर्मः स्पृशते सभाम् ।

यत्रादण्ड्येष्व् अपापेषु दण्डो यैर् ध्रियते वृथा ॥

श्रीधरः : धर्म-दृशां सभाम् अधर्मः स्पृशति । तद् आहुः, यत्र सभायाम् । यैर् धर्म-दृग्भिः । तेषां तां सभाम् ॥२॥

क्रम-सन्दर्भः : अथ यत् तु, के यूयं [भा।पु। ६.१.३२] इत्य्-आदिना यमदूतैः स्व-प्रभोर् धर्म-राजत्वाल् लोक-पालकत्वं दर्शितम्, तद्-अभ्युपगम-वादेन तद् आक्षिपन्ति—अहो कष्टम् इत्य्-आदि पञ्चभिः ॥२॥ [अत्र यद् यद् आचरतीति श्री-भगवद्-उक्तिवत् कर्म-मार्गे स्व-धर्माचार-रत-कर्म-फल-कामि-श्रेष्ठ-जन-विधिर् एवोपदिष्टः ।]

विश्वनाथः : अरे ज्ञाताः स्थ ज्ञाताः स्थ । धर्म-राजस्यैव किङ्कराः यूयम् अलं प्रलापैः, किन्तु धर्मराजस्यैव धर्मराजता विपरीत-लक्षणयैवेति जानीम इत्य् आहुः—अहो इत्य् अस्मत्-कर्ण-पथम् अद्यावधि वार्तेयं नापतद् इति भावः । कष्टम् इत्य् एतावता अन्यायेन लोकानां का गतिर् भविष्यतीति भावः । ननु के किम् एवम् आक्षिप्यन्ते तत्र किं ब्रूमः ? शृणुत रे शृणुतेत्य् आहुः । धर्म-दृशां धर्म-दर्शिनाम् अपि सभाम् अधर्म एव स्पृशति । धर्मेऽप्य् अधर्मम् एव पश्यन्तीति भावः । यत्र सभायाम् अपापेष्व् अपि जनेषु अपापत्वाद् अदण्ड्येषु दण्डो ध्रियते इत्य् एषैवाधर्म-दर्शितेति भावः ॥२॥

—ओ)०(ओ—

**॥ ६.२.३ ॥ **

प्रजानां पितरो ये च शास्तारः साधवः समाः ।

यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥

श्रीधरः : पितरः पितृ-वत् पालकाः शास्तारो दण्ड्य्-अनुशिक्षकाः । वैषम्यम् अदण्डनम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शृणुत रे प्रजानां पितृत्वं शास्तृत्वं साधुत्वं साम्यं च युष्मत्-स्वामिनां यत् श्रूयते तत् खलु किं सम्प्रत्य् अनृतम् एवाभूद् इत्य् आहुः—प्रजानाम् इति वात्सल्यात् पितरो धर्म-शिक्षणात् शास्तारः हित-कारित्वात् साधवः सर्वत्र स्व-सुख-दुःख-साम्य-दर्शनात् समाः । तेषु वैषम्यम् इति पितरोऽपि प्रजा-पीडकाः शास्तारोऽपि स्व-किङ्करान् अपि धर्मं न शिक्षयन्ति साधवोऽप्य् अहित-कारिणः समा अपि पर-दुःखानभिज्ञाः कं यान्तीति प्रजानां कष्ट-दर्शनम् एतद् अस्माभिस् तु दुःसहम् एवेति भावः ॥३॥

—ओ)०(ओ—

**॥ ६.२.४ ॥ **

यद् यद् आचरति श्रेयान् इतरस् तत् तद् ईहते ।

स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥

श्रीधरः : एतत् प्रवर्तितम् अधर्मम् अन्योऽपि करिष्यतीति महत् कष्टम् अभूद् इत्य् आहुः—यद् यद् इति । श्रेयान् श्रेष्ठः ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद् एवम् अचिरेण धर्म-मार्ग एषोच्छन्न भविष्यतीत्य् आहुः—यद् यद् इति ॥४॥

—ओ)०(ओ—

**॥ ६.२.५-६ ॥ **

यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ।

स्वयं धर्मम् अधर्मं वा न हि वेद यथा पशुः ॥

स कथं न्यर्पितात्मानं कृत-मैत्रम् अचेतनम् ।

विस्रम्भणीयो भूतानां सघृणो दोग्धुम् अर्हति ॥

श्रीधरः : विश्वस्त-घाताद् अपीत्य् आहुः—यस्येति द्वाभ्याम् । निर्वृतो निश्चिन्तः ॥५॥ विश्वासेन नितराम् अर्पित आत्मा येन तम् । विश्रम्भणीयो विश्वसनीयः । सघृणश् चेत् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : किं च,विश्वस्त-घाताद् अधिकं कम् अधर्मं ब्रूम इत्य् आहुः—यस्येति द्वाभ्याम् । विश्वासेन नितराम् अर्पित आत्मा येन तम् । कथं विश्वसितेत्य् अत आहुः—भूतानां विश्वसनीयः सदयश् च ॥६॥

—ओ)०(ओ—

**॥ ६.२.७ ॥ **

अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि ।

यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः ॥

श्रीधरः : नन्व् अस्य पापिनो दण्डे किम् अर्थम् आक्रोशः क्रियते ? तत्राहुः—अयं हीति । यद् यस्माद् विवशोऽपि हरेर् नामव्याजहार उच्चारितवान् । न केवलं प्रायश्चित्त-मात्रं हरेर् नाम, अपि तु स्वस्त्य्-अयनं मोक्ष-साधनम् अपि ।

सकृद् उच्चरितं येन हरिर् इत्य् अक्षर-द्वयम् ।
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥ इति स्मृतेः ॥७॥

**सनातनः **: अयम् अजामिलः कृतो निर्वेशः प्रायश्चित्तं येन, यत् यस्माद् विवशोऽपि हरेर् नाम व्याजहार उच्चारितवान् । न केवलं प्रायश्चित्त-मात्रं हरेर् नाम, अपि तु स्वस्त्ययनं मोक्ष-साधनम् अपि । यद् वा, परम-मङ्गलायनम् अपि ॥७॥ (ह।भ।वि। ११.३३१)

क्रम-सन्दर्भः : विवशोऽपीति, अस्तु तावद् एनम् एव पुत्रम् उद्दिश्य पूर्व-पूर्व-स्फुटोच्चरित-तन्-नाम्ना महिमेति भावः ॥७॥ [कृत-निर्वेशः कृत-प्रायश्चित्तः, अग्रे १५श-पद्यं च द्रष्टव्यम् ।]

विश्वनाथः : ननु पर-सहस्र-महा-पापाकृत-प्रायश्चित्तम् अजामिलं शोधयितुम् एव नरकं निनीषुभिर् अस्माभिर् अस्मत्-स्वामिभिर् वा किम् अपराद्धं यद् एवम् आक्षिपथ ? इति तत्राहुः—अयं हि निश्चितम् एव कृत-प्रायश्चित्त एव न केवलम् एक-जन्म-कृत-पापानाम् अपि तु जन्म-कोटीतियद् यस्माद् विवशोऽपि हरेर् नाम व्याजहार

नाम्नो हि यावती शक्तिः पाप-निर्हरणे हरेः ।
तावत् कर्तुं न शक्नोति पातकं पातकी नरः ॥ इति ।
अवशेनापि यन्-नाम्नि कीर्तिते सर्व-पातकैः ।
पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव ॥ इति स्मृतेः ।

न केवलं प्रायश्चित्त-मात्रं हरेर् नाम, अपि तु स्वस्त्ययनं मोक्ष-साधनम् अपि—

सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् ।
बद्ध-परिकरस् तेन मोक्षाय गमनं प्रति ॥ इति स्मृतेः ॥७॥
—ओ)०(ओ—

**॥ ६.२.८ ॥ **

एतेनैव ह्य् अघोनोऽस्य कृतं स्याद् अघ-निष्कृतम् ।

यदा नारायणायेति जगाद चतुर्-अक्षरम् ॥

श्रीधरः : ननु कर्म-साद्गुण्य-करं हरेर् नामेति युक्तम्—

यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥ इत्य्-आदि-वचनात्,

स्वातन्त्र्येण त्व् अघ-निवर्तकं हरेर् नाम कथं स्यात् ? तत्राहुः—एतेनैवेति । अघोनः अघवतः, मघवच्-छब्दवद् रूपम् । यद् आ इति च्छेदाह् । ईषद् आभास-मात्रं चतुर्-अक्षरं यन् नाम जगाद, एतेनैव केवलेन । चतुर्-अक्षरम् इत्य् अनेनाधिक्यं च दर्शितम् । कथं जगाद ? नारायणअय आगच्छ इत्य् एवं विक्रोश-रूपेण पुत्राह्वानेन ।

अयं भावः—कर्माङ्गत्वेऽपि हरि-नाम्नः स्वादिरत्वादिवत् संयोग-पृथक्त्वेन सर्व-प्रायश्चित्तार्थत्वं युक्तम् एव । तथा हि—

अवशेनापि यन्-नाम्नि कीर्तिते सर्व-पातकैः ।
पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव ॥

इत्य्-आदिभिः पुराणे तावत् सहस्रशो नाम्नः स्वातन्त्र्यम् अवगम्यते । न चैतेऽर्थ-वादा इति शङ्कनीयम्, विधि-शेषत्वाभावात् । न च विध्य्-अश्रवणाद् अन्य-शेषता कल्पनीया । यदा “आग्नेयोऽष्टा-कपालो भवति” इत्य्-आदिवद् अप्राप्तार्थत्वेन विधि-कल्पनोपपत्तेः । मन्त्रेषु च

मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जात-वेदसः, आस्य जानन्तो नाम चिद् विवक्तन् इत्य्-आदिषु नाम्नस् तपो-दानादि-सर्व-धर्माधिक्यम् अवगम्यते । उपपादितं च मन्त्रार्थ-वादानाम् अपि स्वार्थे प्रामाण्यं देवताधिकरणे । तस्माच् छ्री-नारायण-नामाभास-मात्रेणैव सर्वाघ-निष्कृतं कृतं स्याद् इति ॥८॥

क्रम-सन्दर्भः : ननु तर्हि तन्-नाम-करणे प्रथम-तन्-नाम्नैव जन्म-कोट्य्-अंहसां नाशोऽभूत् । तद्-अनन्तरं मुहुः कृत-पापस्यास्य तत्-समाप्तिर् अनेनैवाभूद् इति वक्तुं युज्यत इत्य् आशङ्क्य पूर्व-वाक्याभिप्रायं स्वयम् एवाह—एतेनैवेति । यदि पूर्वं तन् नोच्चारितवान्, तथाप्य् एतेनैव निष्कृतं कृतं स्याद् इति हि तत्रार्थ इत्य् अर्थ इत्य् अन्याङ्गत्वं सुतरां परिहृतम् ॥८॥

विश्वनाथः : ननु हरेर् नामेति बुद्ध्या प्रायश्चित्तत्वेन नाम न गृहीतं, किन्त्व् अस्मद्-दर्शनोत्थ-भयेन स्व-पुत्राह्वानम् एव कृतम् इति चेत्, न जानीथ रे तत्त्वं, बहिर्मुख न जानीथ ? इत्य् आहुः—एतेनैव हि निश्चितम् एव अघोनः अघवतः । मघवच्-छब्दवद् रूपम् । पुत्राह्वानेनैव अघ-निष्कृतानुसन्धानाभावेऽपीत्य् अर्थः । यदेतीदानीन्तनेन पुत्राह्वानेन अघ-निष्कृतं स्याद् इति कियद् एतत्, किन्तु यदा पूर्वं नाम-करणादि-समयेऽपि—हे नारायण, आय, स्व-मातुर् अङ्कात् ममाङ्कम् आगच्छेत्य् अपभ्रंश-भाषयापि जगाद, तदैव अघ-निष्कृतं कृतम् अभूद् इत्य् अर्थः । चतुरक्षरम् इति नारायण-नाम्न एक-द्व्य्-अक्षरेणापि सर्व-पातक-नाशो भवेद् इति भावः ॥८॥

—ओ)०(ओ—

**॥ ६.२.९-१० ॥ **

स्तेनः सुरापो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः ।

स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनोऽपरे ॥

सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् ।

नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥

श्रीधरः : ननु काम-कृतानां बहूनां महा-पातकानां सहस्रश आवर्तितानां द्वादशाब्द-कोटिभिर् अप्य् अनिवर्त्यानां कथम् इदम् एकम् एव प्रायश्चित्तं स्यात् ? तत्राहुः—स्तेन इति द्वाभ्याम् ॥९॥ सुनिष्कृतं श्रेष्ठं प्रायश्चित्तम् एव । तत्र हेतुः—यतो नाम-व्याहरणात् । तद्-विषया नामोच्चारक-पुरुष-विषया मदीयोऽयं मया सर्वतो रक्षणीय इति विष्णोर् मतिर् भवति ॥१०॥

**सनातनः **: ननु काम-कृतानां बहूनां महा-पातकानां सहस्रश आवर्तितानां द्वादशाब्दादि-कोटिभिर् अप्य् अनिर्वर्त्यानां कथम् इदम् एकम् एव प्रायश्चित्तं स्यात् ? तत्राहुः श्री-विष्णु-पार्षदाः—स्तेन इति द्वाभ्याम् । सुनिष्कृतं श्रेष्ठं प्रायश्चित्तम् इदम् एव । तत्र हेतुः—यतो नाम-व्याहरणात् नामोच्चार-पुरुष-विषया “मदीयोऽयं मया सर्वतो रक्षणीयो नितराम् अनुग्राह्यः इति विष्णोर् मतिर् भवति ॥३३२-३३३॥ (ह।भ।वि। ११.३३२-३३३)

क्रम-सन्दर्भः : यत इति । तस्य विष्णोर् अनुभवोऽपि यतो भव्तीत्य् अर्थो वा । अतः स्वाभाविक-तदीय-स्वरूप-भूतत्वात् । परम-भागवतानां तद्-एक-देश-श्रवणम् अपि प्रीति-करम् । तद् एवं सति पाप-क्षय-मात्र-लक्षणं कियद् इति भावः ॥१०॥

विश्वनाथः : ननु भवतु नाम पातकानां नाशः, किन्तु काम-कृतानां बहूनां महा-पातकानां सहस्रश आवर्तितानां द्वादशाब्द-कोटिभिर् अप्य् अनिवर्त्यानां कथम् एकेनैव नामाभासेन प्रायश्चित्तं स्यात् ? इत्य् अत आहुः—स्तेन इति । स्वर्ण-स्तेयी इदम् एव सुनिष्कृतं पाप-निर्मूलीकरणात् श्रेष्ठं प्रायश्चित्तम् । न तु द्वादशाब्दादिकम् । पाप-नाशकत्वेऽपि पाप-निर्मूलनासामर्थ्यात् । नाप्य् एतन्-मात्र-फलकं, यतो नाम-व्याहरणात् तद्-विषया नामोच्चारक-पुरुष-विषया मदीयोऽयं मया सर्वथा रक्षणीय इति विष्णोर् मतिर् भवतीति स्वामि-चरणाः ।

स्व-नाम श्रुत्विव तद्-उच्चारकम् अजामिलं स्मृत्वैव तम् आनेतुम् अस्मान् आदिष्टवान् इति किम् उत सेव्यत्वेन विष्णु-विषया मतिस् तस्य पुरुषस्य स्याद् इति भावः । अतो यम-दूतान् साक्षाद् दर्शयितुम् एवाजमिलस्य तदानीन्तनं नाम-व्याहरणं सर्व-पाप-प्रायश्चित्तत्वेन विष्णु-दूता ऊचुः । वस्तुतस् तु पुत्र-नाम-करण-समयम् आरभ्यैव पुत्राह्वानादिषु बहुशो व्याहृतानां नाम्नां मध्ये यत् प्रथमं तद् एव सर्व-पाप-प्रशमकम् अभूद् अन्यानि तु भक्ति-साधकानीति व्याख्येयम् । यद् व्याजहारेति परोक्ष-निर्देशात् प्रथमं नामोद्दिश्यैवोक्तम् । विवश इति पुत्र-स्नेह-विवश इति व्याख्येयम् । न च पुनः पुनर् नाम व्याहरणानन्तरम् अपिपुनः पुनर् उत्पन्नानां वेश्याभिगम-सुरापानादीनां सर्वेषां पापानां प्रशमनार्थम् अन्तिम-समयोत्थम् एव नाम-व्याहरणम् अपेक्षितं यद्-अनन्तरं पुनः पापानुत्पत्तिर् इति वाच्यं—वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः [भा।पु। ६.२.१४] इत्य् अत्राशेष-पदोपादानात् ।

वर्तमानं तु यत् पापं यद् भूतं यद् भविष्यति ।

तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ॥ [ह।भ।वि। ११.३३९] इति ।
यन्-नाम सकृच् छ्रवणात्

पुक्कशोऽपि विमुच्यते संसारात् ॥ [भा।पु। ६.१६.४४]

चित्रं विदूर-विगतः सकृद् आददीत

यन्-नामधेयम् अधुना स जहाति बन्धं [भा।पु। ५.१.३४]

इत्य्-आदिषु संसार-बन्धादि-प्रयोगाच् च । तत्र तत्र समय-विशेष-नियमानभिधानाच् च प्रथम-नाम-ग्रहणेनैव सर्व-पापानां तद्-वासनायास् तन्-मूल-भूताविद्याया अपि नाशावगतेः पुनः पाप-प्ररोहासम्भवात् ।

ननु तर्हि प्रथम-नाम-ग्रहणानन्तरम् एवाजमिलेन निर्विद्य ततः कथं नापसृतं, पाप-प्ररोहाभावेऽपि तस्याम् एव दास्याम् आसज्य तत् तद् एव पापं तावत्-काल-पर्यन्तं प्रत्युत कृतम् । उच्यते—संस्कार-वशात् जीवन्-मुक्तानां कर्मेव तस्यापि तावत्-काल-पर्यन्तं तत् तद् एव पापं पुनः पुनर् उत्पाद्यमानम् अप्य् उत्खात-दंष्ट्रोरग-दंशवन् न फल-जनकम् ।

किं वा, मतान्तरोत्खाताभावार्थं भगवतैव पाप-बीजाभावेऽपि पुनः पापे प्र्वर्तनं भवेद् इत्य् एव व्याख्येयम् अन्यथा स्तुत्य्-अर्थ-वादे कल्पनान्तरे वा व्याख्यायमाने तथार्थ-वादो हरि-नाम्नि कल्पनम् इति पाद्मोक्त-नामापराध-प्रसक्तौ, नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः इति,

अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम् ॥ इति ।
यन्-नाम-कीर्तन-फलं विविधं निशम्य
न श्रद्दधाति मनुते यद् उतार्थ-वादम् ।
यो मानुषस् तम् इह दुःख-चये क्षिपामि
संसार-घोर-विविधार्ति-निपीडिताङ्गम् ॥
श्रुति-स्मृति-पुराणेषु नाम-माहात्म्य-वाचिषु ।
येऽर्थ-वाद इति ब्रूयुर् न तेषां निरय-क्षयः ॥ [ह।भ।वि। ११.५१४-६]

इति पाद्म-कात्यायन-संहितादि-परः-सहस्र-वचनाद् अधः-पात एव स्यात् । अत एव श्री-विष्णुरातेन—

क्वचिन् निवर्ततेऽभद्रात् क्वचिच् चरति तत् पुनः ।
प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत् ॥ [भा।पु। ६.१.१०] इति ।

पुनः पाप-प्रवृत्ति-दर्शने प्रायश्चित्तम् आक्षिपतापि भक्ति-प्रसङ्गे भक्तानाम् अपि कस्य कस्यचित् पुनः पुनः पाप-प्रवृत्ति-दर्शनेऽपि नैवाक्षेपः कृतः । अपि च, यथा नामभास-बलेनाजामिलो दुराचारोऽपि वैकुण्ठं प्रापितस् तथैव स्मार्तादयः सदाचाराः शास्त्रज्ञा अपि बहुशो नाम-ग्राहिणोऽप्य् अर्थ-वाद-कल्पनादि-नामापराध-बलेन घोर-संसारम् एव प्राप्यन्त इत्य् अतो नाम-माहात्म्य-दृष्ट्या सर्व-मुक्ति-प्रसङ्गोऽपि नाशङ्क्यः । तद् एवं भगवन्-नाम सकृत् प्रवृत्तम् अपि सद्य एव समूलं पापं संहरद् अपि «फलन्न् अपि वृक्षः काल एव फलति» इति न्यायेन प्रायः किञ्चिद् विलम्बत एव स्वीय-फल-लिङ्गं लोके दर्शयित्वा बहिर्मुख-शास्त्र-मतोच्छेदाभावार्थं क्वचिन् न दर्शयित्वा च स्व-व्याहर्तृ-जनान् स्वापराध-रहिताण् भगवद्-धाम नयतीति सिद्धान्तो वेदितः ।

नन्व् अर्थ-वादादि-नामापराधवतां नामापराध-हेतुकोऽधः-पातो भवतु नाम, तत्र न विवदामहे । नाम-ग्रहण-हेतुकः सर्व-पाप-क्षयो भवति न वा ? आद्ये कर्मि-ज्ञानि-योगि-भक्तानां तद्-भिन्नानाम् अपि नृणां मध्ये पारदारिक-पर-हिंसादि-गम्येषु नरकेषु केनापि न गन्तव्यम् । द्वितीये कर्मि-प्रभृतिभिर् इव भक्तैर् अपि पाप-भोगार्थं नरकेषु गन्तव्यम् एव ।

तत्रोच्यते—यथा महाजनः स्वाश्रितानाम् आश्रयण-तारतम्येण पालन-तारतम्यं कुर्वन्न् अपि तान् एव पालयति, यदि ते तद्-अपराधिनः स्युर् इति तस्याप्रसाद एव स्वाश्रिता-पालने कारणं, न तु पालनासामर्थ्यं कल्पनीयम् । तेषाम् एवापराध-क्षय-तारतम्येण तेषु तस्य प्रसाद-तारतम्यं च । सर्वापराध-क्षये प्रसाद एव । एवम् एव नामोपलक्षितां भक्ति-देवीं ये गुणी-भावेनाश्रयन्ते कर्मादि-फल-सिद्ध्य्-अत्र्थं, तेषु गुणीभूताया भक्तेर् वर्तमानत्वेऽपि «प्राधान्येन व्यपदेशा भवन्ति» इति न्यायेन ते कर्मि-ज्ञान्य्-आदि-शब्देनाभिधीयन्ते ।

न तु वैष्णव-शब्देन ते च स्वरूपत एवैक-नामापराधवन्तः । यद् उक्तं—

धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः

इति नाम्नो धर्मादिभिः साम्यम् अप्य् अपराधः, किम् उत धर्माद्य्-अङ्गत्वेन गुणीभूतत्वम् इत्य् अर्थः ।तद् अपि तादृश-स्वाश्रयण-गुण-लेश-ग्रहणेनैवैषां कर्म-योगादयो मा विफला भवन्त्व् इति स्वीय-दाक्षिण्येन स्वापकर्षं स्वीकृत्यापि भक्ति-देवी तेषां कर्माद्य्-अङ्ग-भूतैव कर्मादि-फलं निष्प्रत्यूहम् उत्पादयति यथा तथैव तेषां पापम् अपि प्रायश्चित्ताङ्ग-भूतैव नाशयति । नान्यथेत्य् अतस् तैर् एवाकृत-प्रायश्चित्तैस् तत्-तत्-पाप-फल-भोगार्थं तेषु तेषु नरकेषु गन्तव्यम् एव न तु वैष्णवैः । यदि च ते पुनर् अन्यान् अर्थ-वाद-साधु-निन्दादीन् नामापराधान् कुर्वाणा एव धर्मादिकम् अनुतिष्ठन्ति, तदा धर्माद्य्-अङ्ग-भूतापि न तत्-तत्-फलम् उत्पादयति ।

के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृताः ।
विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्य् आनयन्ति च ॥ इत्य्-आदि-वचनेभ्यः ।

किं च, तेषाम् अपि तत्-तद्-अपराधेभ्यो निवृत्त्य तद्-उपशमक-नाम-कीर्तनादि-पराणां नामापराध-क्षय-तारतम्येन कर्म-फल-प्राप्ति-तारतम्यम् । साधु-सङ्ग-वशात् सर्व-नामापराध-क्षये तु भक्ति-देवी-सम्यक्-प्रसादेन नाम-फल-प्राप्तिर् एव निर्विवादा ।

नन्व् अजामिलस्यापि—अयं हि श्रुत-सम्पन्न [भा।पु। ६.१.५६] इत्य्-आदि यमदूत-वाक्यैः प्राक्तनं कर्मित्वम् अवगम्यते । सत्यं, मदिरा-पानाद् ब्राह्मण्यम् अप्य् अस्य नष्टम् एव । किम् उत कर्मित्वम् । यद् उच्यते—

एवं स विप्लावित-सर्व-धर्मा
दास्याः पतिः पतितो गर्ह्य-कर्मणा । [भा।पु। ६.२.४५] इति ।

कर्मापगम-क्षणे एव भक्तेर् गुणी-भावोऽप्य् अपगतः । पुनश् च स्व-पुत्राह्वानादौ नारायण-नामोच्चारण-निबन्धना केवलानन्यैव भक्तिर् अस्याभूद् इति ।

ननु कर्म-ज्ञानाद्य्-अङ्गत्वे भक्तिं कुर्वीतेति यदि विधि-वाक्यम् एवास्ति तर्हि कुतस् तेषां नामापराधः ? उच्यते—भक्त्यैव सर्वेऽपि धर्माः सम्यग् एव सिद्ध्यन्ति, भक्ति-लेशेनापि महा-पातकान्य् अपि नश्यन्तीत्य् आदि परः-शत-शास्त्र-वाक्येष्व् अप्य् अविश्वसतां कर्म-ज्ञानयोर् एव श्रद्दालूनां भक्ति-बहिर्मुखानाम् अशुद्ध-कुटिल-चित्तानाम् अप्य् अनेनैव प्रकारेण भक्तिर् भवत्व् इति दयामयम् एव वेद-शास्त्रं धर्म-ज्ञानाद्य्-अङ्गत्वेन भक्तिं विधत्त इत्य् अतो न शास्त्र-वाक्यम् उपालम्भनीयम् इति । ततश् च वैध-पशु-हिंसा-कृतो विधि-बलात् स्वर्ग-प्राप्ताव् अपि यथा तद्-धिंसा-दोषानपगमस् तथैव भक्ति-गुणी-भाव-करण-रूपापराधवतो विधि-बलात् कर्म-फल-प्राप्ताव् अपि तद्-अपराधान् अपगम एव ज्ञेय इति ।

अथ ये नामापराधिनो वैष्णव्या दीक्षया वैष्णवम् एव गुरुं कृत्वा भक्ति-देवीं कैवल्येन प्राधान्येन वाश्रयमाणाः नाम-कीर्तनादिभिर् भगवन्तं भजन्ते, तेषाम् अपि वैष्णव-शब्देनाभिधीयमानानां भक्ति-तारतम्येनैवापराध-क्षय-तारतम्यं भक्तेर् मुख्य-फलोदय-तारतम्यं च भक्ति-देव्याः प्रसाद-तारतम्येनैव । यद् उक्तं भगवतैव—

यथा यथात्मा परिमृज्यतेऽसौ
मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥ [भा।पु। ११.१४.२६] इति ।

भक्तिः परेशानुभवो विरक्तिः [भा।पु। ११.२.४२] इत्य्-आदि च ।

शृण्वतां स्वकथाः कृष्णः पुण्य श्रवण कीर्तनः ।
हृद्यन्तः स्थो ह्यभद्राणि विधुनोति सुहृत् सताम् ॥ [भा।पु। १.२.१७]

इत्य्-आदि-वचन-व्यज्यमानश् चतुर्दश-भूमिकारोहश्1 च क्रमेणैव तेषां ज्ञेयः । एतद् अर्थम् एव तत्र तत्र श्रद्धा-वृत्त्य्-आदि-विधानम् । अत्रापि प्रकरणे गुणानुवादः खलु सत्त्व-भावनः [भा।पु। ६.२.१३] इति । अतस् तेषां क्षीण-सर्वापराधत्वे सत्य् एव भगवन्तं प्राप्तानां न पुनर्भवः । निरपराधानां तु भगवत्-प्राप्तौ नास्ति विलम्बस् तेषां हि भगवन्-नाम-ग्रहणं वैकुण्ठारोहणं चेति द्वे एव भूमिके, यथा अजामिलादीनाम् । यद् उक्तं—


सतां कृपा महत्-सेवा श्रद्धा गुरु-पदाश्रयः । 

भजनेषु स्पृहा भक्तिर् अनर्थापगमस् ततः ॥

निष्ठा रुचिर् अथासक्ती रतिः प्रेमाथ दर्शनम् । 

हरेर् माधुर्यानुभव इत्य् अर्थाः स्युश् चतुर्दशे ॥
तत्र प्रकरणे द्रष्टव्यम् ।

न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् ।
जन्म-मृत्यु-जरा-व्याधि-भयं वाप्य् उपजायते ॥ इति ।
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भा।पु। ४.२४.२९] इति ।

निरपराधानाम् अपि केषांचित् प्रेम-विशेष-सिषादयिषूणां भगवत्-प्राप्तौ किञ्चिद् विलम्बोऽपि । यथैवादि-भरतस्य जन्म-त्रयम् अभूत् । किं च, सापराधानां मध्ये यदि केचिद् भजनाभ्यासाभावाद् अक्षीण-प्राचीन-पापाः क्रियमाण-पाप-नामापराधाश् च स्युस्, तद् अपि तैर् देह-त्यागानन्तरं नरकेषु न गन्तव्यम् ।

स्व-पुरुषम् अपि वीक्ष्य पाश-हस्तं
वदति यमः किल तस्य कर्ण-मूले ।
परिहर भगवत्-कथासु मत्तान्
प्रभुर् अहम् अन्य-नृणां न वैष्णवानाम् ॥ [भागवत-माहात्म्यं ६.९९] इति ।

नैषां वयो न च वयं प्रभवाम दण्ड इत्य् अपि यम-वचनेभ्यः ।

प्राहास्मान् यमुना-भ्राता सादरं हि पुनः पुनः ।
भवद्भिर् वैष्णवास् त्याज्या विष्णुं चेद् भजते नरः ॥

इति पाद्म-माघ-माहात्मीय-देव-दूत-वचनाच् च । किं च—नह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपीति भगवद्-वाक्याद् यत् किञ्चिद् भक्त्य्-अङ्कुरस्याप्य् अनश्वर-स्वभावात् पापादिभिर् दुरतिक्रमत्वाद् अमोघत्वाच् चावश्यम् एव जनिष्यमाण-पत्र-पुष्पाद्य्-अर्थम् एव येषां जन्म भवेन् न तु नश्यद्-अवस्थ-पाप-पुण्य-निबन्धनम् । यद् उक्तं—न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते इति । अतो जन्मान्तरे तेषां प्राचीन-भक्ति-संस्कारोत्थैर् नाम-कीर्तनाद्यैः पापापराध-क्षयान्ते भक्ति-देव्याः प्रसादेन भगवत्-प्राप्तिः । यद् उक्तं—

न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भा।पु। १.५.१९] इति ।

अत्रान्यवद् इति कर्मि-जनादिवत् संसृतिं पुण्य-पाप-फल-भोग-मयीं नाप्नोति किन्तु भगवद्-दत्तां सुख-दुःख-मयीं संसृतिं प्राप्नोतीत्य् अर्थः । यद् उक्तं श्रुत्या—त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् गुण-विगुणान्वयान् [भा।पु। १०.८७.४०] इति । तेषां यावन्-नामापराध-क्षयाभावस् तावद् अनष्टानि पापानि भुक्त-फलान्य् एव तिष्ठन्ति भक्ति-वृद्ध्या तद्-अनभ्यासेन नामापराध-क्षये सति सद्य एवं समूल-पाप-क्षयात् भगवन्तं प्राप्नोतीत्य् अतो भक्ति-वृद्ध्य्-अर्थम् एक-द्वि-त्रि-जन्मानि वैष्णवा अपि प्राप्नुवन्ति । तेषां दृश्यमानानि वैषयिक-सुखानि भक्ति-धर्मोत्थानि । यद् उक्तं—

धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः ॥ [भा।पु। १.२.९-१०] इति ।

दुःखानि तु कानिचित् स्व-भक्त-भक्ति-वर्धन-चतुरेण भगवता लङ्घन-कटुकौषध-पायनादिभिः क्षुधा-वृद्धि-प्रतिपादकेन भिषजेव दत्तानि । यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः [भा।पु। १०.८८.८] इति तद्-उक्तेः ।

कानि तु प्रबल-नामापराध-फलानि यतो दशसु नामापराधेषु मध्ये अर्थवादार्थान्तर-कल्पन-शुभ-कर्म-साम्यम् इति त्रयं साक्षाद् वैष्णवताया एव व्याघातकाः । तेभ्योऽन्येषु तु मध्ये द्वाव् अतिप्रबलौ महद्-अपराध-नाम-बल-हेतुक-पाप-प्रवृत्ती—यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् इति ।

नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥

इति विशेष-विभीषिकोक्तेर् अतस् तौ समुचित-दुःख-भोग-सहित-सन्तत-नाम-कीर्तनेनैवोपशाम्यतौ नान्यथा ।

अन्ये नामापराधास् तु सन्तत-नाम-कीर्तनादिभिर् एव शाम्यन्तीति । ये च नामापराधिनः कर्म-ज्ञानादि-रहिताः श्रवण-कीर्तनादि-भक्तिमन्तः किन्त्व् अनाश्रित-गुरु-चरणत्वाद् अदीक्षितास् तेऽपि वैष्णव-शब्देनैव्लभिधीयन्ते । तथा हि वैष्णव इति सास्य देवता इति सूत्रे नाना-भक्तिर् इति सूत्रे नाना च सिद्ध्यत्य् अतो ये दीक्षया देवतीकृत-विष्णवो, ये च भजनेन भजनीईकृत-विष्णवस् ते उभे अपि व्यपदेशान्तर-राहित्याद् वैष्णवा एवेति तेषाम् अपि न स्यान् नरक-पातादि पूर्ववद् इति केचिद् आहुः । नैतत् सुसङ्गतं—यतो नृ-देहम् आद्यम् इत्य्-आदौ गुरु-कर्णधारं [भा।पु। १०.२०.१७] इत्य्-उक्तेर् गुरुं विना न भगवन्तं सुखेन प्राप्नुवन्ति, अतस् तेषां भजन-प्रभावेनैव जन्मान्तरे प्राप्त-गुरु-चरणाश्रयणानाम् एव सतां भक्त्या भगवत्-प्राप्तिर् नान्यथेत्य् आचक्षते ।

अथ चानाश्रित-गुरोर् अप्य् अजामिलस्य सुखेनैव भगवत्-प्राप्तिर् दृश्यत एव तस्माद् इयम् अत्र व्यवस्था—ये गो-गर्दभादय इव विषयेष्व् एवेन्द्रियाणि सदा चारयन्ति, को भगवान्, का भक्तिः, को गुरुर् इति स्वप्नेऽपि न जानन्ति, तेषाम् एव नामाभासादि-रीत्या गृहीत-हरि-नाम्नाम् अजामिलादीनाम् इव निरपराधानां गुरुं विनापि भवत्य् एवोद्धारः । हरिर् भजनीय एव भजनं तत्-प्रापकम् एव । तद्-उपदेष्टा गुरुर् एव । गुरूपदिष्टा भक्ता एव पूर्वे हरिं प्रापुर् इति विवेक-विशेषवत्त्वेऽपि—

नो दीक्षां न च सत्-क्रियां न च पुरश्चर्यां मनाग् ईक्षते
मन्त्रोऽयं रसना-स्पृग् एव फलति श्री-कृष्णनामात्मकः ॥ [पद्या। २९]

इति प्रमाण-दृष्ट्या अजामिलादि-दृष्टान्तेन च किं मे गुरु-करण-श्रमेण नाम-कीर्तनादिभिर् एव मे भगवत्-प्राप्तिर् भाविनीति मन्यमानस् तु गुर्व्-अवज्ञ लक्षण-महापराधाद् एव भगवन्तं न प्राप्नोति, किन्तु तस्मिन्न् एव जन्मनि जन्मान्तरे वा तद्-अपराध-क्षये सति श्री-गुरु-चरणाश्रित एव प्राप्नोतीति ।

देवतान्तर-भक्तानां पापापराधयोः कर्मिणाम् इव व्यवस्थेत्य् एके । भक्ति-देव्या आश्रयण-सामान्य-भावात् ततोऽपि ते न्यून-कक्षायां निविष्टा इत्य् अपरे । यद् उक्तं—

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥ [गीता ९.२३-२५] इति ।

ये तु केवलम् अप्राधिन एव तेषां नैवोद्धारः । यद् उक्तं—

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ [गीता १६.१९-२०] इति ।

ये तु तेषाम् अपि मध्ये कंसादयस् तेषाम् ।

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भा।पु। ७.१.२९]

इत्य्-आदि-वचन-बलात् भगवद्-आवेशेनैव नामापराध-क्षयान् मुक्तिर् इति केचित् । नामान्य् एव हरन्त्य् अघम् इत्य् उपलक्षणं ध्यानादीनाम् अप्य् अतो ध्यान-पौनःपुन्यम् एवावेश इत्य् अन्ये । कृष्णावतारत्वे तद्-अनैकान्तिकं यतः केचिद् आवेश-रहिता अपि नरक-बाणादि-कौरवादि-सैन्य-गतास् तद्-धस्त-मरण-प्रभावात् केचिद् दर्शन-मात्रस्यापि प्रभावात् तं प्रापुर् इति पूर्वत्रैवोक्तम् इत्य् अपरे ॥९-१०॥

—ओ)०(ओ—

**॥ ६.२.११ ॥ **

न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्

तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।

यथा हरेर् नाम-पदैर् उदाहृतैस्

तद् उत्तमश्लोक-गुणोपलम्भकम् ॥

श्रीधरः : श्रेष्ठत्वम् एवोपपादयन्ति, नेति द्वाभ्याम् । ब्रह्म-वादिभिर् मन्व्-आदिभिर् उक्तैर् व्रतादिभिर् निष्कृतैस् तथा न शुध्यति । उदाहृतैर् उच्चारितैर् यथा नाम-पदैर् इत्य् अनेन नमामीत्य्-आदि-क्रिया-योगोऽपि नापेक्षित इति दर्शितम् । किं च, तन्-नाम-पदोच्चारणम् उत्तम-श्लोकस्य गुणानां चोपलम्भकं ज्ञापकं भवति, न तु कृच्छ्र-चान्द्रायणादि-वत् पाप-निवृत्ति-मात्रोपक्षीणम् इत्य् अर्थः ॥११॥

**सनातनः **: श्रेष्ठत्वम् एवोपपादयन्ति—नेति । ब्रह्म-वादिभिर् मन्व्-आदिभिर् उक्तैर् व्रतादिभिर् निष्कृतैस् तथा न शुध्यति । उदाहृतैर् उच्चारितैर् यथा नाम-पदैर् इत्य् अनेन नमामीत्य्-आदि-क्रिया-योगोऽपि नापेक्षित इति दर्शितम् । किं च, तन्-नाम-पदोच्चारणम् उत्तम-श्लोक-गुणानाम् उपलम्भकं ज्ञापकं भवति, न तु कृच्छ्र-चान्द्रायणादिवत् पाप-निवृत्ति-मात्रोपक्षीणम् इत्य् अर्थः ॥११॥ (ह।भ।वि। ११.३३४)

क्रम-सन्दर्भः : ब्रह्म-वादिभिर् इति । ब्रह्मात्र कर्म-काण्ड-मात्रं—मुह्यन्त्य् आम्नाय-वादिनः [भा।पु। ११.५.५] इतिवत् । नाम-रूपैः पदैः । न च पाप-विशोधन-मात्रेणापक्षीयते तन्-नाम-पदोदाहरणम् । किन्त्व् एकस्य नाम्न एवावान्तर-पदैर् उत्तम-श्लोकस्य गुणानाम् उपलम्भकम् अनुभव-हेतुश् च भवति ॥११॥

विश्वनाथः : सर्व-महा-पातक-प्रायश्चित्तत्वेऽपि नाम्नः परम-विशिष्टम् आहुः—नेति द्वाभ्याम् । ब्रह्म-वादिभिर् मन्व्-आदिभिर् नाम-पदैः साङ्केत्यादिना नाम्नश् चिह्न-मात्रैः । यद् वा, नारायणादि-नाम्न एकेनापि पदेन सुब्-अन्त-शब्द-मात्रेणापि, बहुत्वं गौरवेण, अर्थापेक्षापि नापेक्षितव्येति भावः । उदाहृतैर् उच्चारितैर् इति मनो-निवेशेनापि नापेक्षितव्य इति भावः । अघवान् कर्मि-प्रभृति भिन्न एव पपीत्य् उक्त-युक्त्या व्याख्येयम् । न च नाम स-मूल-पाप-निवृत्ति-मात्र एवोपक्षीणम् इत्य् आहुस् तन्-नाम उत्तम-श्लोकस्य गुणान् ऐश्वर्य-माधुर्य-सौन्दर्यादीन् अप्य् उपलम्भयति प्रेम्णा अनुभावयतीति तत् ।

यद् वा, ननु तपो-व्रतादि-महा-कृच्छ्रैर् यद् यत् महा-पातकं निवर्त्यते तन्-नाम्नः सुखोच्चारण-मात्रेणैव कथं निवर्त्यताम् इत्य् अत आहुः—तद् इति । उत्तमःश्लोकस्य महा-यशस्विनो हरेस् तद् एव गुणस्य प्रभावस्य ज्ञापकं परमेश्वरस्येयम् अप्य् एका परमेश्वरतेत्य् अर्थः ॥११॥

—ओ)०(ओ—

**॥ ६.२.१२ ॥ **

नैकान्तिकं तद् धि कृतेऽपि निष्कृते

मनः पुनर् धावति चेद् असत्-पथे ।

तत् कर्म-निर्हारम् अभीप्सतां हरेर्

गुणानुवादः खलु सत्त्व-भावनः ॥

श्रीधरः : नैकान्तिकं नात्यन्त-शोधकम् । तन् निष्कृतम् । यस्मिन् कृतेऽप्य् असत्-पथे पाप-मार्गे मनो धावति चेत् । कर्मणां पापानां निर्हारम् आत्यन्तिकं नाशम् इच्छतां हरेर् गुणानुवाद एव प्रायश्चित्तम् । यतोऽसौ खलु सत्त्व-भावनश् चित्त-शोधकः ॥१२॥

क्रम-सन्दर्भः : न केवलं नामैव तादृक्, किन्तु गुणा अपीत्य् आहुः—नैकान्तिकम् इति । गुणानाम् अनुवादोऽपि ॥१२॥

विश्वनाथः : द्वादशाब्दादि-प्रायश्चित्तानां ततो निकृष्टत्वम् आहुः—नैकान्तिकं नात्यन्त-शोधकम् । तत् प्रायश्चित्तम् । यस्मिन् कृतेऽप्य् असत्-पथे पाप-मार्गे मनो धावति चेत्, तस्मात् निर्हारम् आत्यन्तिकं नाशम् अभीप्सतां हरेर् गुणानुवादो नाम्नाम् इव गुणानाम् अप्य् अनुवादोऽनुकथनं कस्यचिन् मुखात् श्रुतानां तेषां पश्चात्-कथनं, पश्चात् सादृश्ययोर् अनु इत्य् अमरः । सत्त्व-भावनो वासनाया अपि नाशकत्वात् सत्त्व-शोधकः ।

ननु मनः पुनर् धावतीति प्रायश्चित्तानन्तरं पुनः पाप-करणं कथं निन्द्यते तस्यापि संस्काराधीनत्वाद् उत्खात-दंष्ट्रोर् अगदंश-सदृशत्वम् अस्माभिर् व्याख्येयम् इति चेत्, भ्रान्ताः स्थः, तथा व्याख्यानम् अस्माकं नाम्नः स-वासन-पाप-नाशकत्व-प्रतिपादक-वचनानुरोधाद् एव, न तु स्व-कपोल-कल्पितम् । भवतां तु प्रायश्चित्त-शास्त्रे तादृश-वचनाभावात् कर्म-मार्गे ह्य् अर्थ-वाद-जन्य-प्रत्यवायस्याप्य् अश्रवणात् कथं तथा व्याख्यातुं शक्तिर् इति प्राग् एवोक्तम् ॥१२॥

—ओ)०(ओ—

**॥ ६.२.१३ ॥ **

अथैनं मापनयत कृताशेषाघ-निष्कृतम् ।

यद् असौ भगवन्-नाम म्रियमाणः समग्रहीत् ॥

श्रीधरः : अथ तस्माद् एनं माअप-मार्गेण नयतकृतम् अशेषाणाम् अघानां निष्कृतं येन । यद् यस्मात् । समग्रहीत् संपूर्णम् उच्चारितवान् । नामैक-देशेनाप्य् अलम् इति भावः । म्रियमाण इत्य् अनेन पुनः पापान्तरासंभव उक्तः, न तु तत् कालत्वम् एव विवक्षितम् । तदानीं कृच्छ्रादि-विधिवन् नामोच्चारण-विधेर् अप्य् असम्भवात् । न च विधिं विना काक-तालीय-नामोच्चारणं पापापहम् इति प्रमाणम् अस्ति ॥१३॥

क्रम-सन्दर्भः : अथैनम् इति । अत एवाजामिलस्यान्यदापि पुत्रोपचारितं नारायण-नाम गृह्णतः—

प्रयाणे चाप्रयाणे च यन् नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥

इति पाद्म-देव-द्युति-स्तोत्रानुसारेण जरा-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नाम-धेयानि [भा।पु। ५.३.१४] इति पञ्चमोक्त-स्थितापि-शब्देन च प्रथम-नाम-ग्रहणाद् एव क्षीण-सर्व-पापस्यापि मरणे यन्-नाम-ग्रहणं, तत्-प्रशंसैव श्रूयते । तत्राप्य् आवृत्त्या—अथैनम् इति । अशेष-शब्दोऽत्र वासना-पर्यन्तः । अघ-शब्दश् चापराध-पर्यन्त इति । अत्र मरणे सर्वेषां दैन्यादयोऽपि श्री-भगवत्-कृपातिशय-द्वारम् इति द्रष्टव्यम् । म्रियमाणोऽपि इत्य् अर्थः । साङ्केत्यं [भा।पु। ६.२.१४] इत्य्-आदि वक्ष्यमाण-बलान् न तत्-काल-मात्रावश्यकत्वं विवक्षितम् इति ॥१३॥

विश्वनाथः : अथ यस्माद् एवं, तस्माद् एनं मा अपनयत । कृताशेषेति पुत्र-नाम-करण-समये प्रथमेनैव नाम्नेत्य् अर्थः । एतेनाजामिलस्य प्राचीनार्वाचीन-नामापराध-राहित्यम् अवगम्यते । यद् यतो निष्पापत्वाद् एव म्रियमाणः सन् नाम सम्यग् अग्रहीत् । पाप-सत्त्वे म्रियमाणस्य जिह्वायां कथं नाम प्रादुर्भवेत् ? इति भावः । यद् उक्तं गीतासु—येषां त्व् अन्त-गतं पापं [भा।पु। ७.२८] इत्य् उपक्रम्य,

अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥ [भा।पु। ८.५] इति ।

तेन मृत्यु-काल एव नामाभाव-प्रादुर्भावाभ्यां नामापराध-सत्त्वासत्त्वे अनुमेये इति व्याचक्षते ॥१३॥

—ओ)०(ओ—

**॥ ६.२.१४ ॥ **

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा ।

वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः ॥

**मध्वः : **नारायणोऽयम् इत्य् अन्य-हेलन-विषयत्वेनोक्तम् अघ-हरम् ।

सर्वथाघ-हरं विष्णोर् नाम तद्-भक्ति-पूर्वकम् ।
अभक्त्योदाहृतं नैव फल-दातृ भविष्यति ॥
नाम स्वामितया तस्य स्मरणं जायते यतः ।
भक्तस्यातो नाम-कीर्तिः सङ्केतादाव् अपीरिता ।
अजामिलोऽपि स्मरणाद् भक्त्या मृत्योर् न मुच्यते ॥ इति नारदीये ॥१४॥

श्रीधरः : नन्व् अयं पुत्र-नामाग्रहीन् न तु भगवन्-नाम तत्राहुः, साङ्केत्यं पुत्रादौ सङ्केतितम् । पारिहास्यं परिहासेन कृतम् । स्तोभं गीतालाप-पूरणार्थं कृतम् । हेलनं किं विष्णुनेति सावज्ञम् अपि च वैकुण्ठ-नामोच्चारणम् ॥१४॥

**सनातनः **(ह।भ।वि। ११.३३५) : नन्व् अयं पुत्र-नामाग्रहीत्, न तु भगवन्-नाम ? तत्राहुः—साङ्केत्यं पुत्रादौ सङ्केतितम् । पारिहास्यं परिहासेन कृतम् । स्तोभं गीतालाप-पूरणाद्य्-अर्थं कृतम् । हेलनं “किं विष्णुना !” इति सावज्ञम् अपि वा वैकुण्ठ-नामोच्चारणम् ॥१४॥

क्रम-सन्दर्भः : पारिहास्यम् इति । परिहासोऽत्र प्रीतिगर्भम् अन्य-परिभव-वचनं न तु निन्दा-गर्भं तत् तूपहास एवोच्यते तस्मान् नर्मोपोद्बलकं यत् किञ्चिद् भगवन्-नामोक्तम् इत्य् अर्थः । हेलनम् अत्र हेलया गिरिर् उद्धृत इतिवद् यत्न-राहित्यम् अयम् एवोच्यते, न त्व् अवमानात्मकम् इति ज्ञेयम् । तथा सति वेणेऽपि दोषावहत्वं न स्यात् नाम्नो दशापराध्यां चाश्रद्दधानादिकं प्रत्युपदेशेऽपि दोषः श्रूयते, अपराध-जननेऽपि प्राचीन-पाप-क्षयः स्याद् एवेति तु केचित् ॥१४॥

विश्वनाथः : कीदृशं नाम सर्व-पाप-हरं स्याद् इत्य् अपेक्षायां कैमुत्येनाहुः—साङ्केत्यं पुत्रादौ सङ्केतं, स्वार्थे ष्यञ्, सर्वत्र तृतीयार्थे प्रथमा, सङ्केतादिभिर् अपीत्य् अर्थः । परिहास्यम् इति प्रीति-गर्भम् एव, न तु निन्दा-गर्भम् । यथा “भो विख्यात-कीर्ते ! कृष्ण-नाम ! दृष्ट्वा तव कीर्तिर् यतो मां नोद्धर्तुम् अशक्यस् त्वम् इति । स्तोभं कथा-गीतालापादि-पूरणार्थं कृतम् । हेलनम् अत्र हेलया गिरिर् उद्धृत इतिवद् यत्न-राहित्यम् एवोच्यते, यथा आहार-विहार-निद्रादाव् अप्य् अवहेलया एव यावन्ति कृष्ण-नामान्य् अयं गृह्णाति, न तावन्त्य् अन्यः प्रयत्नेनापि गृहीतं शक्नुवन्तीति, न तु निन्दावज्ञादिकम्, तथा सति निन्दां भगवतः शृण्वन् इत्य् आदेर् भगवतो निन्दके किं वा विष्णुनेति तद्-अवमन्तरि वेणादाव् अपि दोषावहत्वं तस्माद् अशेषाघ-हरं वासना-पर्यन्त-सर्व-पाप-नाशकम् ॥१४॥

—ओ)०(ओ—

**॥ ६.२.१५ ॥ **

पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः ।

हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाम् ॥

श्रीधरः : ननु नायं सङ्कल्प-पूर्वकं वैकुण्ठ-नामाग्रहीत्, किन्तु पुत्र-स्नेह-परवशः सन्, तत्राहुः—पतित इति । अवशेनापि यो हरिर् इत्य् आह,यातनां नार्हतिपुमान् इत्य् अनेन नात्र वर्णाश्रमादि-नियम इत्य् उक्तम् । अवशत्वम् एवाहुः—पतितः प्रासादादिभ्यः। स्खलितो मार्गे । भग्नो भग्न-गात्रः । सन्दष्टः सर्पादिभिः । तप्तो ज्वरादिना । आहतो दण्डादिना ॥१५॥

**सनातनः **(ह।भ।वि। ११.३३६) : ननु नायं सङ्कल्प-पूर्वकं वैकुण्ठ-नामाग्रहीत्, किन्तु पुत्र-स्नेह-परवशः सन्, तत्राहुः—पतित इति । अवशेनापि यो हरिर् इत्य् आह,यातनां नार्हतिपुमान् इत्य् अनेन नात्र वर्णाश्रमादि-नियम इत्य् उक्तम् । अवशत्वम् एवाहुः—पतितः प्रासादादिभ्यः। स्खलितो मार्गे । भग्नो भग्न-गात्रः । सन्दष्टः सर्पादिभिः । तप्तो ज्वरादिना । आहतो दण्डादिना ॥१५॥

क्रम-सन्दर्भः : न केवलं साङ्केत्यादिकं तु प्रस्तुत-दुःख-हानीच्छयापि तादृशत्वम् इत्य् आहुः—अवशेनापीति । पूर्ववत् यातनाम् इति बहु-वचनं क्वचित् ॥१५॥

विश्वनाथः : साङ्केत्यादिभ्योऽन्यस्य पञ्चमस्य वैवश्य-प्रभेदान् आह—पतितः प्रासादादिभ्यः, स्खलितो मार्गेण । भग्नो भग्न-गात्रः, सन्दष्टः सर्पादिभिः । तप्तो ज्वरादिना । आहतो दण्डादिना । पुमान् कर्मि-प्रभृतिभ्योऽन्य इति व्याख्यात-युक्त्या ज्ञेयम् ॥१५॥

—ओ)०(ओ—

**॥ ६.२.१६ ॥ **

गुरूणां च लघूनां च गुरूणि च लघूनि च ।

प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥

श्रीधरः : ननु महतः पापस्य मह-देव प्रायश्चित्तं युक्तं न त्व् अल्पं नाम-ग्रहण-मात्रम्, पाप-तारतम्येन कृच्छ्रादि-तारतम्य-वत्, तत्राहुर् द्वाभ्याम् । गुरूणां पापानां गुरूणि प्रायश्चित्तानि लघूनि लघूनां च तारतम्यं ज्ञात्वा मन्व्-आदिभिर् उक्तानि । अतस् तत्र तथैव व्यवस्था । हरि-नाम्नस् तु नेयं व्यवस्थोक्ता । विष्णोः स्मरण-मात्रेण मुच्यते सर्व-पातकैः इति वचनात् । न च सुरा-बिन्दु-पाने महा-पातकत्व-स्मरण-वन् नाम्नस् तत् प्रायश्चित्तत्व-स्मरणस्यायम् अति-भारः ॥१७॥

क्रम-सन्दर्भः : गुरूणाम् इति । पद्य-त्रयेणैव विवक्षित-प्रतिपादनं यानि प्रायश्चित्तान्य् उक्तानि तैस् तान्य् अघानि पूयन्ते एव किन्तु दुर्वासना तु ईशानुगत्यैव पूयते तस्माद् यत् तूत्तमः-श्लोक-नाम तत् पुनर् अज्ञानात् ज्ञानाद् वा सङ्कीर्तितं सत् पुं-मात्रस्याघम् अनल एध इव निःशेषम् एव दहेद् इत्य् अर्थः ॥१७॥

विश्वनाथः : किं च, तैस् तथा-विधैर् अपि पूयन्ते नश्यन्ति पुं-विनाशे, अधर्माज् जातम् अघानां हृदयं मूलं सूक्ष्मं रूपं तु न पूयन्ते, न नश्यति, तद् अपि ईशाङ्घ्रि-सेवया हरि-चरणयोर् भक्त्या नवानां भक्तीनां मध्ये एकया प्राकरणिक्या कीर्तन-रूपयापि वासना-पर्यन्त-पाप-क्ष्यात् तद् अपि शुद्ध्यति ॥१७॥

—ओ)०(ओ—

**॥ ६.२.१७ ॥ **

तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।

नाधर्मजं तद्-धृदयं तद् अपीशाङ्घ्रि-सेवया ॥

श्रीधरः : किं च तैस् तपो-दानादिभिस् तान्य् अघान्य् एव पूयन्ते नश्यन्ति । अधर्माज् जातं मलिनं तु तस्य पाप-कर्तुर् हृदयम् । यद् वा, तेषाम् अघानां हृदयं सूक्ष्मं रूपं संस्काराख्यं न शुध्यति । तद् अपीशाङ्घ्रि-सेवयां कीर्तनादिना शुध्यतीत्य् अर्थः । अयं भावः—महान्त्य् अपि पापानि सकृद् उच्चारितेनैव नाम्ना नश्यन्ति । सकृत् प्रवर्तितेन दीपेनेव गाढ-ध्वान्तानि । तद्-आवृत्त्या तु पापान्तरस्यानुत्पत्तिः । दीप-धारण इव तमोऽन्तरस्य । ततश् च वासना-क्षयाद् धृदय-शुद्धिः । एतद्-अर्थम् एव तत्र तत्रावृत्ति-विधानम् । पाप-क्षयश् च भवति स्मरतां तम् अहर्-निशम् इत्य्-आदिषु । तद् एवात्राप्य् उक्तं गुणानुवादः खलु सत्त्व-भावनः,तद् अपीशाङ्घ्रि-सेवया इति च । अतोऽस्य हरि-नाम्नैव सर्व-पाप-क्षयो वासनाक्षयस् तु महा-पुरुष-दर्शनादिभिर् इति ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : किं च, तैस् तथा-विधेर् अपि पूयन्ते नश्यन्ति । पुञ् विनाशे । अधर्माज् जातम् अघानां हृदयं मूलं सूक्ष्मं रूपं तु न पूयते न नश्यति । तद् अपि ईशाङ्घ्रि-सेवया हरि-चरणयोर् भक्त्या नवानां भक्तीनां मध्ये एकया प्राकरणिक्या कीर्तन-रूपयापि वासना-पर्यन्त-पाप-क्षयात् तद् अपि शुद्ध्यति ॥१७॥

—ओ)०(ओ—

**॥ ६.२.१८ ॥ **

अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् ।

सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः ॥

श्रीधरः : तथापि पाप-प्रायश्चित्तम् इदम् इति ज्ञात्वा नोच्चारितम् इति चेत् तत्राहुः—अज्ञानाद् इति । बालकेनाज्ञानाद् अपि प्रक्षिप्तोऽग्निर् यथा काष्ठ-राशिं दहति, तद्वत् ॥१८॥

**सनातनः **(ह।भ।वि। ११.३३७) : ननु तथापि पाप-प्रायश्चित्तम् इदम् इति ज्ञात्वा नोच्चारितम् इति चेत्, तत्राहुः—अज्ञानाद् इति । अस्य श्री-विष्णोर् ज्ञानाद् अज्ञानाद् वा, बालकेनाज्ञानाद् अपि प्रक्षिप्तोऽग्निर् यथा काष्ठ-राशिं दहति, तद्वत् ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तथापि प्रायश्चित्तम् इदम् इति ज्ञात्वा नोच्चारितम् इति चेत्, तत्राहुः—अज्ञानाद् इति । बालकेनाज्ञानाद् अपि प्रक्षिप्तोऽग्निर् यथा काष्ठ-राशिं दहति तद्वत् ॥१८॥

—ओ)०(ओ—

**॥ ६.२.१९ ॥ **

यथागदं वीर्यतमम् उपयुक्तं यदृच्छया ।

अजानतोऽप्य् आत्म-गुणं कुर्यान् मन्त्रोऽप्य् उदाहृतः ॥

श्रीधरः : नन्व् इदम् अपि पर्षद्-अनुपदिष्टं श्रद्धाहीनं च कथं प्रायश्चित्तं स्यात् ? तत्राहुः—यथेति । अगदम् औषधम् । वीर्यवत्तमम् इति वक्तव्ये वीर्यतमम् इत्य् उक्तम् । यदृच्छया श्रद्धादि-हीनम् उपयुक्तं भक्षितं पर्षन्-मुखाद् अजानतोऽपि स्व-गुणम् आरोग्यं कुर्यात् । मन्त्रोऽपि नामात्मकः, तथा स्व-कार्यं कुर्याद् एव । न हि वस्तु-शक्तिः श्रद्धादिकम् अपेक्षते इत्य् अर्थः । तद् उक्तं विष्णु-धर्मेषु—

हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥इति ।

क्रम-सन्दर्भः : यथागदम् इति । मन्त्र-शब्देनात्र नामोक्तिः, मन्त्रस्य तथा-प्रभावे श्रद्धाद्य्-अपेक्षत्वात्, अस्य तु तद्-अनपेक्षत्वात् । अत्रैव मन्त्र-शब्दस्य मुख्या प्रवृत्तिर् इत्य् अभिप्रायेण ज्ञेया । पूर्व-पद्यस्य दृष्टान्तान्तर एव वा सर्वं पद्यम् ॥१९॥

विश्वनाथः : न केवलम् अघ-दहनम् एव करोति नाम, किन्तु भगवत्-प्रेम-सान्निध्यादिकं चेत्य् अतो दृष्टान्तान्तरम् आहुः—यथा अगदम् औषधं वीर्यवत्तमम् इति वक्तव्यो वीर्यतम् इत्य् उक्तम् । मतुप्-लोपात् वीर्य-शब्दोऽर्श आद्य्-अजन्तो वा । यदृश्छया अकस्माद् अज्ञानेनापीत्य् अर्थः । उपयुक्तं करोति मन्त्रोऽपि जागद्-रूपस् तथैव नामेत्य् अर्थः । यद् वा, नामात्मकोऽयं मन्त्रस् तथा स्व-कार्यं कुर्याद् एव, न हि वस्तु-शक्तिर् ज्ञानादिकम् अपेक्षते इत्य् अर्थः ॥१९॥

—ओ)०(ओ—

॥ ६.२.२० ॥

श्री-शुक उवाच—

त एवं सुविनिर्णीय धर्मं भागवतं नृप ।

तं याम्य-पाशान् निर्मुच्य विप्रं मृत्योर् अमूमुचन् ॥

श्रीधरः : तं विप्रम् अमूमुचन् मोचयाम् आसुः ॥२०॥

क्रम-सन्दर्भः : सुविनिर्णीयेति । यद्यपि यमदूतास् तदानीं तन् न सम्यग् बुद्धवन्तः, तथाप्य् आत्म-मध्ये सुष्ठु विनिर्णीयानुवादं कृत्वेत्य् अर्थः । अत्र साङ्केत्यं [भा।पु। ६.२.१३] इत्य्-आदौ सकृन्-नामाभासेनापि यन् निःशेषाघ-धूननोक्त्या वासना-पर्यन्त-क्षय उच्यते । गुणानुवाद इत्य्-आदौ तु भक्त्यावृत्त्यैवेति यत् तत् तु यथा-क्रमं नामापराध-शून्य-तद्-युक्त-भजनापेक्षया ज्ञेयम् ।

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि यत् ॥ इति पाद्मात् ।

तद् एवं नाम्नः सर्वत्र स्वातन्त्र्येऽपि कर्मादेः पूर्त्य्-अर्थं तद्-अङ्गत्वेन कृतम् अप्य् अपराध एव हुतादि-सर्व-शुभ-क्रिया-साम्यम् अपि पाद्म-दशापराध्यां गणितं तस्मात् तद् अपीशाङ्घ्रि-सेवयेत्य् एतद् अपि तादृशापराध-शान्त्य्-अर्थम् एव ज्ञेयम् ।

नन्व् एवं चेन् म्रियमाणोऽयं नामाग्रहीत् तर्हि कथं सद्य एव पार्षदैर् वैकुण्ठं न निन्ये ? श्रूयते हि

यस्यावतार-गुण-कर्म-विडम्बनानि
नामानि येऽसुति-गमे विवशा गृणन्ति ।
तेऽनेकजन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतमृतं तम् अजं प्रपद्ये ॥ [भा।पु। ३.९.१५] इति ।

अत्रोच्यते—श्री-भगवन्-नाम-ग्रहणं खलु द्विधा भवति—केवलत्वेन स्नेह-संयुक्तत्वेन च । तत्र पूर्वेणापि प्रापयत्य् एव सद्यस्त-लोकं तन् नाम । परेण च तत्-सामीप्यम् अपि प्रापयति ।

मयि भक्तिर्हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यदासीन्मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भा।पु। १०.८२.४४] इति तद्-वाक्यात् ।

किन्तु,

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्यमीषाम् अनुवृत्ति-वृत्तये ॥ [भा।पु। १०.३२.२०] इति तद्-वाक्य-दिशा विलम्बेन प्रापयति ।

स्नेहस् त्व् अमीषाम् अनुवृत्तिर् मद्-अनुसेवैव वृत्तिर् जीवन-हेतुस् तद्-अर्थम् इत्य् अभिप्रायो दर्शितः । तद् एवं सत्य् अजामिलोऽप्य् अयम् आरोपित-तन्-नाम्नः पुत्रस्य संबन्धेन तन्-नाम्नापि स्निह्यति स्म, तस्मिंश् च स्व-नाम्नि श्री-भगवतोऽप्य् अभिमान-सान्द्रो दृश्यते । यतस् तद्-विषया मतिर् इत्य् अत्र । यतः पार्षदानाम् अपि महान् एव तत्रादरो दृष्टः, तस्मात् स्नेह-संवलनया गृहीत-स्व-नाम्नि तस्मिन्न् उत्कण्ठा-पूर्वक-साक्षान्-निज-कीर्तनादि-द्वारा साक्षान्-निज-स्नेहं प्रकृष्टं दत्त्वा नेतुम् इच्छति प्रभुर् इति ज्ञात्वा सहसानात्मभिः सह तं नीतवन्त इति सर्वं समञ्जसम् ॥२०॥ [भक्ति-सन्दर्भ १५२]

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.२१ ॥ **

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् ।

यम-राज्ञे यथा सर्वम् आचचक्षुर् अरिन्दम ॥

श्रीधरः : प्रत्युदिता निराकृताः सन्तो यात्वा गत्वा यम-राजाय यथावत् कथयामासुः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रत्युदिताः प्रत्याख्याता यम-राज्ञे यम-राजाय ॥२१॥

—ओ)०(ओ—

**॥ ६.२.२२ ॥ **

द्विजः पाशाद् विनिर्मुक्तो गत-भीः प्रकृतिं गतः ।

ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥

श्रीधरः : दर्शनेनोत्सवो यस्य ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.२३ ॥ **

तं विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः ।

सहसा पश्यतस् तस्य तत्रान्तर्दधिरेऽनघ ॥

श्रीधरः : विवक्षुं वक्तुम् इच्छन्तं ज्ञात्वा ॥२३॥

क्रम-सन्दर्भः : तं विवक्षुम् इति । तेन सह-सम्भाषणम् उत्कण्ठां वर्धयित्वा सम्यग्-भक्तत्वापादनार्थं तद्-अर्थम् एव हि त्यागो बुध्यते ॥२३॥

विश्वनाथः : अन्तर्दधिरे इति तस्यायुः-शेष-सत्तेऽपि पापैर् एव यथा-शास्त्रम् आयुः-क्षयं ज्ञात्वा यम-दूतैर् आकर्षणोपक्रमः कृत इति स एव समयो मरण-कालत्वेनोपचरितः, वस्तुतः पाप-क्षयाद् आयुर् भङ्गाभावाद् इति ज्ञेयम् ॥२३॥

—ओ)०(ओ—

**॥ ६.२.२४-२५ ॥ **

अजामिलोऽप्य् अथाकर्ण्य दूतानां यम-कृष्णयोः ।

धर्मं भागवतं शुद्धं त्रै-वेद्यं च गुणाश्रयम् ॥

भक्तिमान् भगवत्य् आशु माहात्म्य-श्रवणाद् धरेः ।

अनुतापो महान् आसीत् स्मरतोऽशुभम् आत्मनः ॥

श्रीधरः : त्रै-विद्यं वेद-त्रय-प्रतिपाद्यं गुणाश्रयं यम-दूतानां धर्मं कृष्ण-दूतानां च भागवतं भगवत्-प्रणीतं शुद्धं निर्गुणं धर्मम् आकर्ण्येति योज्यम् । भक्तिमान् आसीद् इत्य् उत्तरस्यानुषङ्गः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यमदूतानां कृष्ण-दूतानां च धर्मम् आकर्ण्य कृष्ण-दूतानां धर्मं शुद्धं गुणातीतं भागवतं भगवत्-प्रणीतं, यम-दूतानां त्रैवेद्यं वेद-त्रय-प्रतिपाद्यं गुणाश्रयम् अशुद्धम् ॥२४-२५॥

—ओ)०(ओ—

**॥ ६.२.२६ ॥ **

अहो मे परमं कष्टम् अभूद् अविजितात्मनः ।

येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥

श्रीधरः : अनुतापं प्रपञ्चयति—अहो इति चतुर्भिः । येनआत्मना मया वृषल्यां पुत्रतया जायमानेन ब्रह्म ब्राह्मण-जातिर् विप्लावितं नाशितम् ॥२६॥

क्रम-सन्दर्भः : उत्कण्ठा-पूर्वक-साक्षात्-तद्-भजनम् एव दर्शयति—अहो इत्य्-आदिना । धास्ये मनो भगवति शुद्धं तत्-कीर्तनादिभिर् इत्य् अन्तेन ॥२६॥

विश्वनाथः : आत्मना मया वृषल्यां जायता पुत्रतया जायमानेन ब्रह्म ब्राह्मणत्वं विप्लावितं नाशितम् ॥२६॥

—ओ)०(ओ—

**॥ ६.२.२७ ॥ **

धिङ् मां विगर्हितं सद्भिर् दुष्कृतं कुल-कज्जलम् ।

हित्वा बालां सतीं योऽहं सुरा-पीम् असतीम् अगाम् ॥

श्रीधरः : दुष्कृतं दोष-कर्तारम् । कुलस्य कज्जलं कलङ्कम् ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दुष्कृतं पाप-रूपं दोष-कर्तारं वा ॥२७॥

—ओ)०(ओ—

**॥ ६.२.२८ ॥ **

वृद्धाव् अनाथौ पितरौ नान्य-बन्धू तपस्विनौ ।

अहो मयाधुना त्यक्ताव् अकृतज्ञेन नीचवत् ॥

श्रीधरः : नास्त्य् अन्यो बन्धुः पुत्रादिर् ययोः । तपस्विनौ सन्तप्तौ । अधुना तत्-क्षणम् एव ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अधुना अत्र जन्मनि ॥२८॥

—ओ)०(ओ—

**॥ ६.२.२९ ॥ **

सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे ।

धर्म-घ्नाः कामिनो यत्र विन्दन्ति यम-यातनाः ॥

श्रीधरः : न व्याख्यातम्।

क्रम-सन्दर्भः : सोऽहं व्यक्तं पतिष्यामीति । स्व-दोष-मात्र-दृष्ट्यैव नाम-माहात्म्य-दृष्ट्या तु वक्ष्यते । अन्यथा म्रियमाणस्येति ॥२९॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.३० ॥ **

किम् इदं स्वप्न आहो स्वित् साक्षाद् दृष्टम् इहाद्भुतम् ।

क्व याता अद्य ते ये मां व्यकर्षन् पाश-पाणयः ॥

श्रीधरः : इदानीं तस्य विमर्श-पूर्वकं मोक्ष-क्रमम् आह—किम् इदम् इत्य् अष्टभिः । साक्षात् प्रत्यक्षम् इह जाग्रतैव दृष्टम् ॥३०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.३१ ॥ **

अथ ते क्व गताः सिद्धाश् चत्वारश् चारु-दर्शनाः ।

व्यामोचयन् नीयमानं बद्ध्वा पाशैर् अधो भुवः ॥

श्रीधरः : ये मां व्यमोचयंस् ते च क्व गताः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भुवोऽधः नरकं प्रति नीयमानम् ॥३१॥

—ओ)०(ओ—

**॥ ६.२.३२ ॥ **

अथापि मे दुर्भगस्य विबुधोत्तम-दर्शने ।

भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥

श्रीधरः : यद्य् अप्य् अहम् अस्मिन् जन्मनि दुर्भगः पापीयान्, तथापि जन्मान्तरे नूनं पुण्यवान् इत्य् आह—विबुधोत्तम-दर्शन इति निमित्त-सप्तमी । तेषां दर्शनार्थं पूर्वेण मङ्गलेन महता पुण्येन भवितव्यम्येन दर्शनेन ॥३२॥

क्रम-सन्दर्भः : अथापीत्य् अनेन प्राचीनास्य भक्तिर् अस्ति, किन्तु केनाप्य् अपराधेन आवृत्ताभूद् इति गम्यते ॥३२॥

विश्वनाथः : विबुधोत्तमानां दर्शने विषये कारणत्वेन केनापि मङ्गलेन, तच् च कस्यचिद् भक्तस्य कारुण्यम् एवानुमेयं, तेन विना तत्र भक्ति-बीज-वपनासम्भवात् । यत एव स्व-पुत्रस्य नारायण इति नाम चकार ॥३२॥

—ओ)०(ओ—

**॥ ६.२.३३ ॥ **

अन्यथा म्रियमाणस्य नाशुचेर् वृषली-पतेः ।

वैकुण्ठ-नाम-ग्रहणं जिह्वा वक्तुम् इहार्हति ॥

श्रीधरः : अन्यथा पूर्व-पुण्यं विना । कथं-भूतं ? वैकुण्ठ-नाम । गृह्यते वशी-क्रियते चित्तम् अनेनेति ग्रहणम् ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वक्तुं कर्तुम् । यद् वा, वैकुण्ठ-नाम कीदृशं ? गृह्यते प्राप्यते अनेनेति तद् वैकुण्ठ-प्रापकम् इत्य् अर्थः ॥३३॥

—ओ)०(ओ—

**॥ ६.२.३४ ॥ **

क्व चाहं कितवः पापो ब्रह्म-घ्नो निरपत्रपः ।

क्व च नारायणेत्य् एतद् भगवन्-नाम मङ्गलम् ॥

श्रीधरः : ब्रह्म-घ्नो विप्रत्व-नाशकः ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.३५ ॥ **

सोऽहं तथा यतिष्यामि यत-चित्तेन्द्रियानिलः ।

यथा न भूय आत्मानम् अन्धे तमसि मज्जये ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.३६-३७ ॥ **

विमुच्य तम् इमं बन्धम् अविद्या-काम-कर्मजम् ।

सर्व-भूत-सुहृच् छान्तो मैत्रः करुण आत्मवान् ॥

मोचये ग्रस्तम् आत्मानं योषिन्-मय्यात्म-मायया ।

विक्रीडितो ययैवाहं क्रीडा-मृग इवाधमः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यथैव क्रीडा-मृग इवाधमो लोको भवति तथैवाहम् उत्तमो विप्रोऽप्य् अनया विक्रीडितः ॥३६-३७॥

—ओ)०(ओ—

**॥ ६.२.३८ ॥ **

ममाहम् इति देहादौ हित्वामिथ्यार्थ-धीर् मतिम् ।

धास्ये मनो भगवति शुद्धं तत्-कीर्तनादिभिः ॥

श्रीधरः : अमिथ्या-भूतेऽर्थे धीर् यस्य तथा-भूतः सन् देहादौ ममाहम् इति मतिं हित्वा मनो धास्ये ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देहादौ मिथ्या-भूता एवामी अर्था इति धीर् यस्य तथा-भूतश् च सन् ममाहम् इति मतिं हित्वा ॥३८॥

—ओ)०(ओ—

॥ ६.२.३९ ॥

**श्री-शुक उवाच— **

इति जात-सुनिर्वेदः क्षण-सङ्गेन साधुषु ।

गङ्गा-द्वारम् उपेयाय मुक्त-सर्वानुबन्धनः ॥

श्रीधरः : मुक्तं सर्वम् अनुबन्धनं पुत्रादि-स्नेहो येन सः ॥३९॥

क्रम-सन्दर्भः : एवं साधु-सङ्गम-पर्यन्तं नाम्नः फलम् उक्त्वा साधु-सङ्गस्य च फल-विशेषम् आह—इतीति । जातः सुष्ठु भगवद्-भक्त्य्-उत्पादन-पूर्वत्वेन निर्वेदो यस्य सः ॥३९॥

विश्वनाथः : मुक्त-सर्वानुबन्धनः त्यक्त-स्त्री-पुत्राद्य्-आसक्तिः ॥३९॥

—ओ)०(ओ—

**॥ ६.२.४० ॥ **

स तस्मिन् देव-सदन आसीनो योगम् आस्थितः ।

प्रत्याहृतेन्द्रिय-ग्रामो युयोज मन आत्मनि ॥

श्रीधरः : प्रत्याहृत इन्द्रिय-ग्रामो येन ॥४०॥

क्रम-सन्दर्भः :तत्र सति धास्ये मन इत्य्-आदिना यद् विचारितं तत्र कृतैस् तत्-कीर्तनादिभिः शुद्धेन तल्-लब्ध-स्फुरण-विशेषेण च मनसा पुनर् इदं विचारितम् । ईदृशस्यापि मनसो भगवत्-पर्यन्ता गतिर् न स्यात् । ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति न्यायेन परात् परा हि स-विशेषावस्थितिः, तस्मान् निर्विशेष-तत्-प्रकाश-लक्षण-ब्रह्मानुभवार्थम् एव प्रयतिष्ये । तद्-अग्निम् अवार्ता तु महा-कृपालुना श्री-भगवतैव निर्वाहयिष्यते । तद् एतद् विचार्य तेन यत्-कृतं तद् दर्शयति—स तस्मिन्न् इति द्वाभ्याम् ॥४०॥

विश्वनाथः : योगं भक्ति-योगम् आत्मनि हरौ ॥४०॥

—ओ)०(ओ—

**॥ ६.२.४१ ॥ **

ततो गुणेभ्य आत्मानं वियुज्यात्म-समाधिना ।

युयुजे भगवद्-धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥

श्रीधरः : गुणेभ्यो देहेन्द्रियादिभ्य आत्मानं वियुज्य विशोध्य आत्म-समाधिना चित्तैकाग्र्येण । भगवतो धाम्नि स्वरूपे ॥४१॥

**चैतन्य-मत-मञ्जुषा : **ततो गुणेभ्य इत्य्-आदि । अनुभवात्म-विज्ञान-स्वरूपे ब्रह्मणि सत्य् अपि भगवद्-धाम्नि भगवतः श्री-कृष्णस्य धाम्नि श्री-विग्रहे, गृह-देह-त्विट्-प्रभावा धामानीत्य् अमरः।मनो युयुजे, तत्-स्वरूपं पार्षद-विग्रहं जग्राहेत्य् अर्थः । सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनां [भा।पु। ६.२.४३] इति वक्ष्यमाणत्वात् । तस्य कैवल्यं नाभवत् । यद् वा, हे ब्रह्मण्य ! परीक्षित् ! त्वम् अपि नु भो भगवद्-धाम्नि आत्मनि तस्मिन् श्री-कृष्णे भव, तत्-परो भवेत्य् अर्थः । यद् वा, अनुभवो ज्ञानं तत्-कालीन-तन्-निर्वेदादि-लक्षणं भगवद्-भक्ति-साधनं तस्यात्म-स्वरूपे स्व-सदृशे तस्मिन् पार्षद-चतुष्टये आत्मानं मनो युयुजे, तेषाम् अपृथक्त्वेनैक-वचनम् । कथं-भूते ? भगवद्-धाम्नि भगवद्-रूपे शङ्ख-चक्रादि-धारिणि ब्रह्मणि बृहति व्यापके, अतोऽयं पार्षद-रूपो बभूव, तथा च, यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरं, तं तम् एवैति [गीता ८.६] इत्य्-आदि ॥४१॥

क्रम-सन्दर्भः : यर्ह्य् उपारतेत्य् अनेन ब्रह्मानुभवानन्तरम् अपि श्री-वैकुण्ठ-वैभवाविर्भाव इति समर्थ्यते ॥४१॥

विश्वनाथः : गुणेभ्यो विषयेभ्यः वियुज्य वियुक्तीकृत्य आत्म-समाधिना चित्तैकाग्र्येण भगवद्-धाम्नि भगवत्-स्वरूपे ॥४१॥

—ओ)०(ओ—

**॥ ६.२.४२ ॥ **

यर्ह्य् उपारत-धीस् तस्मिन्न् अद्राक्षीत् पुरुषान् पुरः ।

उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥

श्रीधरः : तस्मिन् भगवद्-धाम्नि उपारता निश्चला धीर् यस्य सः । तस्मिन् कालेऽद्राक्षीद् इति वा। पुरः पुरतः । ततश् च प्राग् उपलब्धान् एव तान् उपलभ्य प्रत्यभिज्ञाय ववन्दे ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्मिन् भगवद्-धाम्नि उपारत-धीर् निश्चल-बुद्धिः पुरोऽग्र एव पूर्व-परिचितान् ॥४२॥

—ओ)०(ओ—

**॥ ६.२.४३ ॥ **

हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाद् अनु ।

सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**चैतन्य-मत-मञ्जुषा : **अत एव दर्शयति—सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् इति । सद्योऽव्यवधानेनैव ॥४३॥

क्रम-सन्दर्भः : सद्यो विमुक्तो जीवन्-मुक्तो बभूव ॥४३॥

—ओ)०(ओ—

**॥ ६.२.४४ ॥ **

साकं विहायसा विप्रो महापुरुष-किङ्करैः ।

हैमं विमानम् आरुह्य ययौ यत्र श्रियः पतिः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.४५ ॥ **

एवं स विप्लावित-सर्व-धर्मा

दास्याः पतिः पतितो गर्ह्य-कर्मणा ।

निपात्यमानो निरये हत-व्रतः

सद्यो विमुक्तो भगवन्-नाम गृह्णन् ॥

श्रीधरः : उपसंहरति—एवम् इति द्वाभ्याम् । विप्लाविताः सर्वे धर्म येन । हतं व्रतं स्व-दार-नियमादि यस्य ॥४५॥

क्रम-सन्दर्भः : नामापराध-युक्तापेक्षयाह—य एवम् इति द्वाभ्याम् । अमङ्गलो नामापराध्य् अपि ॥४५॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.२.४६ ॥

नातः परं कर्म-निबन्ध-कृन्तनं

मुमुक्षतां तीर्थ-पदानुकीर्तनात् ।

न यत् पुनः कर्मसु सज्जते मनो

रजस्-तमोभ्यां कलिलं ततोऽन्यथा ॥

श्रीधरः : कर्म-निबन्धस्य पाप-मूलस्य कृन्तनं छेदकम् अतः परं नास्ति । कस्मात् परम् ? तीर्थ-पदस्यानुकीर्तनात् । तत्र हेतुः—यद् यतोऽनुकीर्तनात् । ततोऽनुकीर्तनात् । अन्यथा प्रायश्चित्तान्तरे रजस्-तमोभ्यां कलिलं मलिनम् एव तिष्ठति यत् तन् मनः कर्मसु पुनर् न सज्जते ॥४६॥

सनातनः : एवं दुष्प्रारब्ध-निवारकत्वेन दर्शितम् । तद् एवाभिव्यज्य लिखति—नातः परम् इत्य्-आदिना, भासते नरः [ह।भ।वि। ११.३७४] इत्य् अन्तेन । कर्म-निबन्धनस्य पाप-मूलस्य कृन्तनं छेदकम्, अतः परं नास्ति । कस्मात् परम् ? तीर्थ-पदस्य भगवतोऽनुकीर्तनात् । तत्र हेतुः—यद् यतोऽनुकीर्तनात् । ततोऽनुकीर्तनात् । अन्यथा प्रायश्चित्तान्तरे रजस्-तमोभ्यां कलिलं मलिनम् एव तिष्ठति यत् तन्-मनः ।

यद्यपि कर्म-निबन्ध-कृन्तनम् इत्य् अशेष-प्रारब्ध-कर्म-छेदनम् एवात्रोक्तं, तथाप्य् अखिल-प्रारब्ध-क्षये देह-पातापत्त्या भगवद्-भजनासम्भवाद् दुष्प्रारब्ध-क्षय एवाभिप्रेतः । अत एव नाम-श्रुति-भाष्ये लिखितम्—प्रारब्ध-पाप-निवर्तकत्वं च कदाचिद् उपासकेच्छा-वशात् इति । अन्यथात्र प्रस्तुताजामिलादिभिर् विरोधापत्तेः । अथवा रोगादि-विलापनादिना नारक्य्-उद्धार-पर्यन्तेन दुष्प्रारब्ध-क्षयेण देह-पातापत्तौ सत्याम् अपि नाम-सङ्कीर्तन-प्रभावतो नित्य-प्रलयादि-न्यायेन तदानीम् एव भगवद्-भजनार्थं तद्-योग्य-देहान्तरोत्पत्त्या, किं वा, पूर्व-देहम् एव सद्यो-जात-भगवद्-भजनोचित-गुण-विशेषवत्तया नवीनम् इवासौ प्रापेत्य् ऊह्यम् । यथा श्री-ध्रुवेण परम-पदारोहण-समये निज-पूर्व-देहम् एव पार्षदोचित-देह-गुण-युक्ततया भिन्नम् इव प्राप्तम् । तच् च बिभ्रद् रूपं हिरण्मयं [भा।पु। ४.१२.२९] इत्य्-आदिषु श्री-स्वामि-पादैर् व्यक्त-व्याख्यातम् एव ।

एवम् एव बृहन्-नारदीये—

गोविन्देति जपन् जन्तुः प्रत्य्-अहं नियतेन्द्रियः ।
सर्व-पाप-विनिर्मुक्तः सुरवद् भासते नरः ॥ [ह।भ।वि। ११.३७४]

इत्य्-आदि-वचनं सुसङ्गच्छते । यच् च बहिः सुख-दुःख-फलके प्रारब्धे क्षीणेऽपि पश्चात् तस्य कदाचित् कस्यचित् किञ्चिद् देहादौ बाह्य-सुखं दुःखं च दृश्यते, तच् च लोके भक्ति-माहात्म्य-सङ्गोपनार्थं श्री-भगवता भक्तेन वा तेनैवात्माच्छादनार्थं शक्त्या सम्प्रदर्श्यत इति ज्ञेयम् । एवं सर्वम् अनवद्यम् ॥।४६॥ (हरि-भक्ति-विलासः ११.३७१)

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यद् यतोऽनुकीर्तनात् कर्मसु मन एव न सज्जते अन्यथा प्रायश्चित्तान्तरैस् तु कलिलं मलिनम् एव ॥४६॥

** —ओ)०(ओ—**

**॥ ६.२.४७ ॥ **

य एतं परमं गुह्यम् इतिहासम् अघापहम् ।

शृणुयाच् छ्रद्धया युक्तो यश् च भक्त्यानुकीर्तयेत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.४८ ॥ **

न वै स नरकं याति नेक्षितो यम-किङ्करैः ।

यद्य् अप्य् अमङ्गलो मर्त्यो विष्णु-लोके महीयते ॥

श्रीधरः : न चेक्षितो भवति ॥४८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ६.२.४९ ॥ **

म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥

श्रीधरः : म्रियमाणोऽवशत्वेन श्रद्धा-विहीनोऽपि ॥४९॥

सनातनः (ह।भ।वि। ११.४३६): धाम हरेः ॥४९॥

क्रम-सन्दर्भः : यतो म्रियमाण इति ॥४९॥

विश्वनाथः : प्रकरणम् उपसंहृत्यापि पुनः सर्वथा प्रतीत्य्-अर्थम् एकेनैव वाक्येन नाम-माहात्म्य-सिद्धान्तम् आह—म्रियमाण इति । म्रियमाणत्वाद् एव अश्रद्धयापि गृणन्, किं पुनः श्रद्धयेतिम्रियमाणोऽपि किं पुनर् जीवन्न् इति पुत्रोपचारितम् अपि, किं पुनः साक्षाद् एव अजामिलो महा-पातक्य् अपि, किं पुनर् निष्पाप इत्य् अवधारण-चतुष्टयम् ॥४९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठ-स्कन्धे द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे

अजामिलोपाख्याने द्वितीयोऽध्यायः ।

॥ ६.२ ॥

(६.३)


  1. यत् १.२.२१-श्लोकस्य सारार्थ-दर्शिन्यां चक्रवर्ति-पादेन विश्लेषितम्, यथा— ↩︎