०१ अजामिलोपाख्याने

श्री-विष्णु-यम-पुरुष-संवादः

॥ ६.१.१ ॥

श्री-परीक्षिद् उवाच—

निवृत्ति-मार्गः कथित आदौ भगवता यथा ।

क्रम-योगोपलब्धेन ब्रह्मणा यद् असंसृतिः ॥

**श्रीधरः : **

पुण्यारण्ये नृसिंहैक- नाम-सिंहो विराजते ।

यन्-नादतः पलायन्ते महा-कल्मष-कुञ्जराः ॥

विसर्ग-संभवान् जीवान् स्व-मर्यादासु संस्थितान् ।

विष्णुः पात्याखिलै रूपैर् इत्य् एवं पञ्चमे स्थितम् ॥

अध्यायैकोनविंशत्या षष्ठे पोषणम् उच्यते ।

अतिलङ्घित-मर्याद- भक्त-रक्षण-लक्षणम् ॥

अजामिलो मनुष्येषु महा-पापो यथाऽवितः ।

विश्वरूपादि-घाती च यथा देवेषु वासवः ॥

अजामिलस्य भक्तत्वं विष्णु-दूतैर् निरूपितम् ।

सङ्केत-भगवन्-नाम पुत्र-स्नेहानुषङ्ग-जम् ॥

इन्द्रोऽपि भगवद्-भक्तः सख्येनोपेन्द्र-सेवकः ।

तद्-अधीन-सुरैश्वर्य- शत्रु-निर्जय-जीवितः ॥

तत्रादौ त्रिभिर् अध्यायैर् अजामिल-कथोच्यते ।

विश्वरूप-कथा षड्भिर् इन्द्र-दोषोक्तये ततः ॥

इन्द्रस्यैव तु दोषोक्त्यै वृत्राख्यानं ततोऽष्टभिः ।

द्वाभ्यां च मरुद्-आख्यानम् एवं प्रकरण-क्रमः ॥

तत्रादौ प्रथमे विष्णोर् दूतैः पातकि-मोचने ।
तत्-पाप-ख्यापनायोक्तं याम्यैर् धर्मादि-लक्षणम् ॥

अथ षष्ठ-स्कन्धो व्याख्यायते । पूर्वोक्तानुवाद-पूर्वकं निरन्तरोक्त-नरक-परिहारोपायं पृच्छति—निवृत्ति-मार्ग इति षड्भिः । आदौ द्वितीय-स्कन्धे वैश्वानरं याती [भा।पु। २.२.२४] इत्य्-आदिना । भगवता त्वया । यथा यथा-वत् । यद् येन मार्गेण । क्रमेण योगोऽर्चिर्-आदि-प्राप्तिस् तेन उपलब्धो ब्रह्म, तेन सह असंसृतिर् मोक्षो भवति ।

ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति वचनात् ॥१॥

**क्रम-सन्दर्भः : **

षष्ठस्य क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।

क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥

अथ षष्ठ-स्कन्धस्य क्रम-सन्दर्भः ।

स्वामि-पादैर् न यद् व्यक्तं यद् व्यक्तं चास्फुटं क्वचित् ।

तत्र तत्रैव लेख्योऽयं सन्दर्भः क्रम-संज्ञकः ॥

वैष्णव-परितोषः स्याद् यत्र यत्र ततस् ततः ।

लेख्यं वैष्णव-सिद्धान्तं दाक्षिण्येनैव किञ्चन ॥

प्रष्टव्यार्थोपयुक्तम् एव तत् पूर्वोक्तम् अनुवदति—निवृत्तीति पञ्चभिः । तत्र पर-लोक-मार्गौ तावद् द्वौ—वेदानुसारेणैकः, तद्-अतिक्रमेणान्यः । प्रथमोऽत्र द्विविधः—निवृत्ति-प्रवृत्ति-लक्षणः, उत्तरस् त्व् एक-विधोऽधर्म-लक्षणः । अत्र मार्गत्वं नाम क्रम-योग-हेतुत्वम् इत्य् उक्तम् । क्रम-योगोपलब्धेन इति । ज्ञान-भक्ती तु सद्यः-प्रापकत्वान् मार्गत्वेन न विवक्षिते । तद् एतद् अभिप्रेत्याह प्रथम-सार्ध-द्वयेन । तत्र निवृत्तीति युग्मकम् ॥१॥

**विश्वनाथः : **

ॐ नमः कृष्णाय ।

प्रणम्य श्री-गुरुं भूयः शक्तं करुणार्णवम् ।

लोकनाथं जगच्-चक्षुः श्री-गुरुं तम् उपाश्रये ॥

गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभूष्णवे ।

तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥

स्व-मर्यादा-स्थितानां यद् भू-पाताल-दिवौकसाम् ।

पालनं स्थान-शब्दोक्तं पञ्चमे तद् उदीरितम् ॥

भक्तानां धर्म-मर्यादोल्लङ्घिनाम् अपि पालनम् ।

यद् भवेत् तत् तु विद्वद्भिः पोषणं परिकीर्तितम् ॥

पापिनोऽजामिलस्यापि नामाभासेन भक्तता ।

गुरु-द्रोहोऽपि शक्रस्य प्रोक्ताधिकृत-भक्तता ॥

तयोश् च पोषणाच् चित्रकेत्व्-आदीनां च किं पुनः ।

अध्यायैकोनविंशत्या भक्त-वात्सल्यम् उच्यते ॥

तत्र तु त्रिभिर् अध्यायैः कथाजामिल-संश्रया ।

विश्वरूपाश्रया षड्भिर् वृत्राख्यानम् अथाष्टभिः ॥

मरुद्-आख्यानम् अध्याय-द्वयेन परिकीर्तितम् ।

यत्रानुवृत्तिर् इन्द्रेण दित्यां पुंसवन-व्रते ॥

तत्रेह प्रथमेऽध्याये विष्णु-दूतैर् अजामिले ।

मोच्यमाने तदीयाघान्य् उच्यन्ते यम-किङ्करैः ॥

नराणां नरक-पात-यातना-श्रवणेन दयार्द्र-हृदयस् तन्-निस्तारोपायस्य प्रष्टव्यस्य प्रत्युत्तर-वचन-योग्यतायाम् उत्साहम् उपपादयितुं पूर्वोक्तानुवादेन उपदिष्टार्थावधारण-योग्यतां स्वस्याभिव्यञ्जयति—निवृत्तीति ।

यथा यथावत् । आदौ द्वितीय-स्कन्धे—वैश्वानरं याति [भा।पु। २.२.२४] इत्य्-आदिना, तथा तृतीये च—ये स्व-धर्मान् न दुह्यन्ति [भा।पु। ३.३२.५] इत्य्-आदिना यत् येन मार्गेण क्रम-योगेन प्राप्तो यो ब्रह्म, तेन सह असंसृतिर् मोक्षो भवति ।

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति श्रुतेः ॥१॥
—ओ)०(ओ—

॥ ६.१.२ ॥

प्रवृत्ति-लक्षणश् चैव त्रैगुण्य-विषयो मुने ।

योऽसाव् अलीन-प्रकृतेर् गुण-सर्गः पुनः पुनः ॥

श्रीधरः : त्रैगुण्यं स्वर्गादि-सुखं, तद् एव विषयः प्राप्यं यस्य । न लीना प्रकृतिर् यस्य, तस्य पुंसः । पुनः पुनर् गुण-सर्गो भोगार्थं देहारम्भ-रूपो यो मार्गः, स च कथितस् तृतीये, दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते [भा।पु। ३.३२.२०] इत्य्-आदिना ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रवृत्ति-लक्षणश् च कथितस् तृतीय एव—ये त्व् इहासक्त-मनसः [भा।पु। ३.३२.१६] इत्य्-आदिना त्रैगुण्यं स्वर्गादि-सुखम् । तद् एव विषय-प्राप्यं यस्य । अलीना प्रकृतिर् यस्य, तस्य संसारिणः गुणैर् एव सर्गः पुनः पुनर् जन्म यतः सः ॥२॥

—ओ)०(ओ—

॥ ६.१.३ ॥

अधर्म-लक्षणा नाना नरकाश् चानुवर्णिताः ।

मन्वन्तरश् च व्याख्यात आद्यः स्वायम्भुवो यतः ॥

श्रीधरः : अनुवर्णिता निरन्तराध्याये । व्याख्यातश् चतुर्थस्यादौ । यतो यस्मिन् ॥३॥

**क्रम-सन्दर्भः : **अधर्मेत्य् अर्धकम् । अधर्म-लक्षणास् तज्-ज्ञापकाः । मन्वन्तरश् चेति सार्ध-द्वयेन । यतो यस्मिन् मार्ग-द्वये ॥३॥

विश्वनाथः : यतो यस्मिन् ॥३॥

—ओ)०(ओ—

॥ ६.१.४-५ ॥

प्रियव्रतोत्तानपदोर् वंशस् तच्-चरितानि च ।

द्वीप-वर्ष-समुद्राद्रि- नद्य्-उद्यान-वनस्पतीन् ॥

धरा-मण्डल-संस्थानं भाग-लक्षण-मानतः ।

ज्योतिषां विवराणां च यथेदम् असृजद् विभुः ॥

श्रीधरः : द्वीपादीन् भागतो लक्षणतो मानतश् च । धरा-मण्डलस्य संस्थानं ज्योतिषां विवराणां चेदं संस्थानं विभुर् यथाऽसृजत्, तथा व्याख्यातम् इत्य् अर्थः ॥४-५॥

**क्रम-सन्दर्भः : **द्वीपेति सार्धकम् । विवराणां चेत्य् उपलक्षणं नरकाणाम् ॥४-५॥

विश्वनाथः : द्वीपादीन् यथा असृजत्, तथा व्याख्यातम् इत्य् अन्वयः । भागतो लक्षणतो मानतश् च । धरा-मण्डलस्य ज्योतिषां सूर्यादीनाम् इदं संस्थानं यथाऽसृजत्, तथा व्याख्यातम् इत्य् अर्थः ॥४-५॥

—ओ)०(ओ—

॥ ६.१.६ ॥

अधुनेह महा-भाग यथैव नरकान् नरः ।

नानोग्र-यातनान् नेयात् तन् मे व्याख्यातुम् अर्हसि ॥

श्रीधरः : नाना उग्रा यातना येषु तान् नरकान् यथा येनोपायेन इयान् न गच्छेत् तन् मेऽधुना व्याख्यातुम् अर्हसि ॥६॥

**क्रम-सन्दर्भः : **प्रष्टव्यम् आह—अधुनेहेति । लोकानां यथेष्ट-साधने ते द्वे ज्ञाते । तथानिष्ट-परिहार-साधनम् अपि ज्ञातव्यम् इति भावः ॥६॥

विश्वनाथः : नाना उग्रा यातना येषु तान् नरकान् यथा न ईयात् न गच्छेत्, तत् लोकानाम् इष्टानिष्ट-साधने द्वे यथा ज्ञाते तथानिष्ट-परिहार-साधनम् अपि ज्ञातव्यम् इति भावः ॥६॥

—ओ)०(ओ—

॥ ६.१.७ ॥

श्री-शुक उवाच—

न चेद् इहैवापचितिं यथांहसः

कृतस्य कुर्यान् मन-उक्त-पाणिभिः ।

ध्रुवं स वै प्रेत्य नरकान् उपैति

ये कीर्तिता मे भवतस् तिग्म-यातनाः ॥

**श्रीधरः : **तत्र तावन् मन्व्-आद्य्-उक्तं प्रायश्चित्तं विना नरका दुर्निवारा इत्य् आह—न चेद् इति द्वाभ्याम् । मन-उक्ति-पाणिभिर् मनो-वाक्-कायैः **कृतस्यांहसस् **तैर् एव इहैवापचितिं प्रायश्चित्तं न कुर्याच् चेत्, तर्हि स पुरुषः प्रेत्य मृत्वा नरकान् ध्रुवम् उपैतिमे मया ये भवतः कीर्तिताःतिग्मा दारुणा यातना येषु तान् ॥७॥

**क्रम-सन्दर्भः : **तत्र स्व-मतं प्रायश्चित्तं प्रश्नेनोत्थापयितुम् अन्य-मतम् अनुवदति—न चेद् इति ॥७॥

**विश्वनाथः : **तत्र स्व-शिष्यस्य परीक्षितः स्व-मते व्युत्पत्तिं परीक्षमाणः कर्मिणां मते नरक-प्रतीकारम् आह—न चेद् इति द्वाभ्याम् । इहैव जन्मनि मनो-वाक्-कायैर् व्यस्तैः समस्तैर् वा कृतस्यांहसोऽपचितिं प्रायश्चित्तम् इहैव जन्मनि न कुर्याच् चेत्, तदा । तिग्मा दारुणाः ॥७॥

—ओ)०(ओ—

॥ ६.१.८ ॥

तस्मात् पुरैवाश्व् इह पाप-निष्कृतौ

यतेत मृत्योर् अविपद्यतात्मना ।

दोषस्य दृष्ट्वा गुरु-लाघवं यथा

भिषक् चिकित्सेत रुजां निदानवित् ॥

**श्रीधरः : **यस्माद् एवं तस्मात् पापस्य [निष्कृतौ] प्रायश्चित्ते यतेत । कदा ? मृत्योः पुरैव । तत्रापि अविपद्यता अक्षीयमणेन आत्मना देहेन । यद् वा, अविपत् विपत्ति-रहितो यावत् यतात्मना संयतेन मनसा । तत्राप्य् आशु । अन्यथ, अतीत चिर-काले तु द्वि-गुणं व्रतम् अर्हति इति द्वैगुण्यापत्तेः । तत्र च पापस्य महत्त्वम् अल्पत्वं चावेक्ष्य तद्-अनुरूपे प्रायश्चित्ते यतेत । रुजां रोगाणां निदान-वित् यथा [भिषक्] वैद्यस् तद्-अनुरूपं चिकित्सेत, तद्वत् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यस्माद् एवं, तस्मान् मृत्योः पुरैव, तत्राप्य् आशु, अन्यथा अतीत-चिर-काले तु द्वि-गुणं व्रतम् अर्हति इति द्वैगुण्यापत्तेः । अविपद्यतात्मना इति यावज् जरारोगादिभिर् व्रताद्य्-असामर्थ्यं न स्याद् इत्य् अर्थः । अत्र व्यवस्थापको विद्वान् धर्म-शास्त्र-तात्पर्य-विज्ञो मृग्य इत्य् आह—दोषस्य इति । गुरु-लाघवं गौरवं लाघवं च ॥८॥

—ओ)०(ओ—

॥ ६.१.९ ॥

श्री-राजोवाच—

दृष्ट-श्रुताभ्यां यत् पापं जानन्न् अप्य् आत्मनोऽहितम् ।

करोति भूयो विवशः प्रायश्चित्तम् अथो कथम् ॥

श्रीधरः : अत्र चोदयति द्वाभ्याम् । दृष्टं राज-दण्डादि । श्रुतं नरक-पातादि । ताभ्याम् आत्मनः पापम् अहितं जानन्न् अपि भूयः प्रायश्चित्त्आनन्तरं करोतिअथो अतः कारणाद् द्वादशाब्दादि कथं प्रायश्चित्तम् ? तेन स-मूलस्य दोषस्यानिवृत्तेः । निवृत्तौ वा पुनश् च पाप-प्ररोहायोगाद् इति भावः ॥९॥

**क्रम-सन्दर्भः : **तथैव पृच्छति—दृष्टेति ॥९॥

विश्वनाथः : मदम् इदम् आक्षिपन्न् असन् मन्यमान आह—दृष्टेति द्वाभ्याम् । दृष्टं राज-दण्डादि श्रुतं नरक-पातादि, ताभ्याम् आत्मनोऽहितं पापं प्रायश्चित्तानन्तरं करोति, लोके तथा दृष्टत्वाद् इत्य् अर्थः । अथो अतः प्रायश्चित्तं कथं पाप-नाशकम् ? इत्य् अर्थः । तस्य पाप-नाशकत्वे पुनः पाप-प्ररोहायोगाद् इति भावः ॥९॥

—ओ)०(ओ—

॥ ६.१.१० ॥

क्वचिन् निवर्ततेऽभद्रात् क्वचिच् चरति तत् पुनः ।

प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत् ॥

**श्रीधरः : **किं च, क्वचित् कदाचिद् अभद्रात् पापान् निवर्ततेक्वचित् तद् एव पुनर् आचरति । यथा कुञ्जरः स्नातोऽपि रजोभिर् आत्मानं मलिनी-करोति, तथा पापस्य पुनर् दुर्निवारत्वेन नरक-पातस्यावश्यं-भवित्वात् प्रायश्चित्तं [अपार्थं] व्यर्थम् इति मन्ये ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **क्वचिद् यौवनादौ अभद्रात् पापान् निवर्तते । पुनस् तद् एव पापं क्वचित् वार्धक्ये चरति । अथो अत एव अपार्थं व्यर्थं कुञ्जर-शौचवत् इति कुञ्जरो हि स्नात्वापि पुनर् आत्मानं रजोभिर् मलिनीकरोति ॥१०॥

—ओ)०(ओ—

॥ ६.१.११ ॥

श्री-बादरायणिर् उवाच—

कर्मणा कर्म-निर्हारो न ह्य् आत्यन्तिक इष्यते ।

अविद्वद्-अधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥

**श्रीधरः : **परिहरति—कर्मणा कृच्छ्रादि-प्रायश्चित्तेन कर्मणः पापस्य निर्हारो नाश आत्यन्तिकः स-मूलो न हीष्यतेअविद्वान् अधिकारी यस्मिंस् तस्य भवस् तत्त्वं तस्मात् । अतोऽविद्याया नाशाभावान् नष्टेऽपि तस्मिन् पापे तत्-संस्कारेण पापान्तरस्य पुनः पुनः प्ररोहो भवत्य् एव । किं तर्हि मुख्यं प्रायश्चित्तम् ? तद् आह—प्रायश्चित्तं तु विमर्शनं ज्ञानम् ॥११॥

**क्रम-सन्दर्भः : **स्व-मतं वक्तुम् आह—कर्मणेति ॥११॥

**विश्वनाथः : **परीक्षयोत्तीर्ण परीक्षितं पुनर् अपि परीक्षिष्यमाणः सिद्धान्तं ज्ञापयति—कर्मणा कृच्छ्रादि-प्रायश्चित्तेन कर्मणः पापस्य नाशो नात्यन्तिकः किन्त्व् आपातत उपशम इत्य् अर्थः । अविद्वान् अविद्या-बद्धो जीव एवाधिकारी यस्य तस्य भवस् तत्त्वं तस्माद् धेतोर् इत्य् अविद्यायाः पाप-मूलस्य विद्यमानत्वात् पुनः पुनर् अपि पाप-प्ररोहाद् इति भावः । किं तर्हि मुख्यं प्रायश्चित्तम् ? इत्य् अतः पुनर् अपि परीक्षमाणो ज्ञानिनां मतेनाह—विमर्शनं ज्ञानं तस्यैवाविद्या-निवर्तकत्वाद् इति भावः ॥११॥

—ओ)०(ओ—

॥ ६.१.१२ ॥

नाश्नतः पथ्यम् एवान्नं व्याधयोऽभिभवन्ति हि ।

एवं नियम-कृद् राजन् शनैः क्षेमाय कल्पते ॥

**श्रीधरः : **तत् तु नित्यम् अप्रमत्तः शनैर् लभते नान्य इति स-दृष्टान्तम् आह—नेति । पथ्यम् एवान्नम् अश्नतः पुरुषान् यथ व्याधयो न बधन्ते, तथा नियमादि-कर्ताक्षेमाय तत्त्व-ज्ञानाय समर्थो भवति ॥१२॥

क्रम-सन्दर्भः : नियम-कृत् नियमानुष्ठाता ॥१२॥

**विश्वनाथः : **ननु तर्हि पापवत्त्वे अन्तःकरण-शुद्ध्य्-अभावस् तस्मिंश् च सति कुतो ज्ञान-प्रसङ्ग इति चेत् ? सत्यम् । ज्ञान-साधनेनापि पापोपशम इति स-दृष्टान्तम् आह—पथ्यम् एवान्नम् अश्नतः पुरुषान् यथा व्याधयो न बाधन्ते, तथा नियमादि-कर्ता क्षेमाय पाप-नाशनाय शनैः शनैर् एव समर्थो भवति ॥१२॥

—ओ)०(ओ—

॥ ६.१.१३-१४ ॥

तपसा ब्रह्मचर्येण शमेन च दमेन च ।

त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा ॥

देह-वाग्-बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।

क्षिपन्त्य् अघं महद् अपि वेणु-गुल्मम् इवानलः ॥

**श्रीधरः : **एतद् एव विशदयति द्वाभ्याम् । तपसा ऐकाग्र्येण, मनसश् चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मृतेः । ब्रह्मचर्येण अष्टाङ्गेन । तद् उक्तं—

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्य-भाषणम् ।
सङ्कल्पोऽध्यवसायश् च क्रिया-निर्वृतिर् एव च ॥
एतन् मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्म-चर्यम् एतद् एवाष्ट-लक्षणम् ॥ इति ।
\

शमो मनसो नियमनम् । दमो बाह्येन्द्रियाणाम् । त्यागो दानम् । यमोऽहिंसादिः । नियमो जपादिः ॥१३-१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एव विशदयति द्वाभ्याम् । तपसा भोग-राहित्येन । ब्रह्मचर्येण स्त्री-प्रेक्षणादि-त्यागेन । शमेन यथा-शक्ति मनो-नियमेन । दमेन बाह्येन्द्रिय-निग्रहेण । त्यागेन दानेन । यमेन अहिंसादिना । नियमेन जपादिना ॥१३-१४॥

—ओ)०(ओ—

॥ ६.१.१५ ॥

केचित् केवलया भक्त्या वासुदेव-परायणाः ।

अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥

**श्रीधरः : **अस्यातिदुष्करत्वान् मुख्यम् एवान्यत् प्रायश्चित्तम् आह—केचिद् इति । अनेनैवं-भूता भक्ति-प्रधाना विरला इति दर्शयति । केवलया तप-आदि-निरपेक्षया । **वासुदेव-परायणा **इति नाधिकारि-विशेषणम् एतत्, किन्त्व् अन्येषाम् अश्रद्धया तत्राप्रवृत्तेः, अर्थात् तेष्व् एव पर्यवसानाद् अनुवाद-मात्रम् ॥१५॥

**चैतन्य-मत-मञ्जुषा : **केचिद् इत्य्-आदि । केचिद् विरलाः, यतो वासुदेव-परायणाःकेवलया ज्ञान-निरपेक्षया । कार्त्स्न्येन मूलोत्पाटन-रूपेण, प्रायश्चित्तादिना तु कार्त्स्न्येन पापं न यातीति भावः । तत्र दृष्टान्तः—नीहारम् इवेति ॥१५॥

**सनातनः **(ह।भ।वि। ११.५४८) :

तपसा ब्रह्मचर्येण शमेन च दमेन च ।
त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा ॥
देह-वाग्-बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।
क्षिपन्त्य् अघं महद् अपि वेणु-गुल्मम् इवानलः ॥ [६.१.१३-१४]

इत्य् उक्तस्य प्रायश्चित्तस्यातिदुष्करत्वान् मुख्यम् एवान्यत् प्रायश्चित्तम् आह—केचिद् इति । केचिद् इत्य् अनेनैवं-भूता भक्तिः प्रधाना विरला इति दर्शयति । केवलया तप-आदि-निरपेक्षया । वासुदेव-परायणा इति नाधिकारि-विशेषणम् एतत्, किन्त्व् अन्येषाम् अश्रद्धया तत्राप्रवृत्तेर् अर्थात् तेष्व् एव पर्यवसानाद् अनुवाद-मात्रम् । कार्त्स्न्येन मूलतोऽङ्गतश् चेत्य् अर्थः ।

तदानुरूपो दृष्टान्तः—भास्करो नीहारं तत्-कृततम इव । एवम् अत्र समूल-साङ्गाशेष-पाप-नाशोऽभिप्रेतः । पूर्वं च अनलो वेणु-गुल्मम् इवेति अनलस्य भूम्य्-अन्तर्गत-दहनाशक्त्या भस्मादेर् अपि विद्यमानतया समूलाशेष-पाप-निवृत्तिर् उक्ता । एवम् अपि पूर्वतोऽस्य विशेषोऽवगन्तव्यः ॥१५॥

**वंशीधरः **: वेणु-गुल्मानल-दृष्टान्तेन पुनर् अपि पाप-प्ररोह-सूचनाद् अप्रसन्न-मनसं राजानं भक्तानां मतेनाह । स्वामि-चरणानां—वासुदेव-परायणा एवात्राधिकारिण इति न, किं त्व् अन्येषां वासुदेव-भक्ति-हीनानां तत्र केवलायां भक्तौ अर्थात् तेष्व् एव पर्यवसानात् तेषाम् एव तत्र प्रवृत्ति-दर्शनाद् एतत् कथनम् इति भावः ।

**क्रम-सन्दर्भः : **स्व-मतम् आह—केचिद् इत्य्-आदिना तृतीयाध्यायं यावत् । अत्र भक्तिर् द्विधा—(१) सन्तता, (२) कादाचित्की चेति । तत्राद्या द्विधा—(क) आसक्ति-मात्र-युक्ता, (ख) रागमयी च । द्वितीया तु त्रिधा—(क) रागाभासमयी, (ख) तच्-छून्य-स्वरूप-भूता, (ग) आभास-भूता च । तत्राभास-भूताया अपि सर्वोत्तम-प्रायश्चित्तत्वं दर्शयितुं रागमय्याः कैमुत्य-बोधकम् आसक्तिमय्या माहात्मयम् आह—केचिद् इति ।

कार्त्स्न्येन वासनया सहेत्य् अर्थः । भास्कर-दृष्टान्तेन स्वाभाविक्या तत्-स्थानीयया1 भक्त्या नीहार-स्थानीयस्यागन्तुकस्य स्प्रष्टुम् अशक्तस्य चाघ-सङ्घस्यानुषङ्गिकतयैव सद्यो निःशेष-धूननम् इति ज्ञापितम् ॥

यद् वा, यथा भास्करो हि केवलेन स्व-रश्मिना स्वभावत एव नीहारं निःशेषं धुनोति, न तद्-अर्थं तस्य प्रयत्नः, तथा वासुदेव-परायणा अपि भक्त्या इति ज्ञेयम् ॥१५॥ [भक्ति-सन्दर्भः १२६**]**

**विश्वनाथः : **अत्रापि वेणु-गुल्मानल-दृष्टान्तेन पुनर् अपि पाप-प्ररोह-सूचनाद् अप्रसन्न-मनसं राजानं भक्तानां मतेनाह—केचिद् इत्य् एते पुनर् विरल-प्रचारा इति भावः । केवलया कर्म-ज्ञानादि-रहितया सतोऽपि गुणी-भूतान् कर्म-ज्ञानादीन् अनपेक्षमानया च । अत्र कार्त्स्न्येन इति प्रयोगात् नीहार-भास्कर-दृष्टान्तेन च पाप-निर्मूलं भक्त्यैव नान्यथेति सूचितम् ॥१५॥

—ओ)०(ओ—

॥ ६.१.१६ ॥

न तथा ह्य् अघवान् राजन् पूयेत तप-आदिभिः ।

यथा कृष्णार्पित-प्राणस् तत्-पुरुष-निषेवया ॥

**श्रीधरः : **एतच् च ज्ञान-मार्गाद् अपि श्रेष्ठम् इत्य् आह । न तथा पूयेत शुध्येत् । तत्-पूरुष-निषेवया कृष्णेऽर्पिताः प्राणा येन ॥१६॥

**चैतन्य-मत-मञ्जुषा : **अस्तु तावद् वासुदेव-भजनम् अघ-नाशनम्, किन्तु तत्-पुरुष-भजनम् एव तादृशम् इत्य् आह—न तथेति । हे राजन्न् इति सम्बोधनं साकूतम्, यद् अहम् इदं ब्रवीमि, तत् सत्यम् एवेति जानीया इत्य् अर्थवत् । कृष्णार्पित-प्राणत्वे हेतुस् तत्-पुरुष-निषेवयेत्य् अर्थः । तत्-पुरुष-निषेवया कृष्णार्पित-प्राण इत्य् अस्यायं भावः—क्षुत्-पिपासे हि प्राण-धर्मः, तस्मिन्न् अर्पिते प्राणे तयोर् अभावः । आभ्याम् अर्दितो न भवति ॥१६॥

वंशीधरः : अत्रापि पापशमने तुच्छे एव वस्तुनि भक्ति-महा-देव्या विनियोगोऽनुचित इति भक्ति-शास्त्र-तात्पर्य-विज्ञानां मतेन स्वामि-मतेनान्यमताक्षेपपूर्वकमाह—नेति । कृष्णार्पित-प्राण इति । पाप-कर्माणं मां समुचित-शिक्षा-दण्डार्थं नरके पातयतु न पातयतु वा स एव मे गतिस्तस्यैवाःअम् इत्य् आत्मन एव समर्पणेन नरक-प्रतीकारम् अपाकुर्वन् शुद्ध-भक्तिमान् इत्य् अर्थः । कृष्णार्पित-प्राणत्वं कथं स्याद् इत्य् आह—तत्पुरुषेति । तप-आदीत्य् अत्रादिना ब्रह्मचर्यादि-ग्रहः ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः १२७ : **अत्र प्रायश्चित्तं विमर्शनम् [भा।पु। ६.१.१०] इति ज्ञानस्यापि प्रायश्चित्तत्वं पूर्वम् उक्तम् । अत एव टीकोक्तम् एतच् च इत्य्-आदि । तदा2ऋतम्भर-ध्यान-निवारिताघः [भा।पु। ६.१३.१७] इत्य्-आद्य्-उक्त्याभगवद्-ध्यान-निवारित-वृत्र-हत्या-पापस्येन्द्रस्य, तं च [भा।पु। ६.१३.१८] इत्य्-आदौ पुनर् अश्वमेध-विधानं साधारण-लोके पाप-प्रसिद्धेर् एव निवारणार्थम् इति ज्ञेयम् ।

ननु कथं तदानीम् अप्य् आविर्भूत-भगवत्-प्रेमत्वात् परम-भागवतस्य वृत्रस्य हत्या भगवद्-आराधनेनापि गच्छतु ? महद्-अपराध-मात्रम् अपि भोगैक-नाश्यं तत्-प्रसाद-नाश्यं वेति मतम् । उच्यते—तथापि भगवत्-प्रेरणया तत्र प्रवृत्तस्येन्द्रस्य न तादृशो दोष इति तद्-आराधनम् एवात्र प्रायश्चित्तं विहितम् । श्री-भगवतापि तद्-आसुर-भव-निवारणायैव तथोपदिष्टम् इत्य् अनवद्यम् ॥१७॥

**विश्वनाथः : **अत्रापि पाप-प्रशमने तुच्छ एव वस्तुनि भक्ति-महा-देव्या विनियोगोऽनुचित इति भक्ति-शास्त्र-तात्पर्य-विज्ञानां मतेन स्वाभिमतेनान्य-मताक्षेप-पूर्वकम् आह—नेति। कृष्णार्पित-प्राण इति पाप-कर्माणं मां समुचित-शिक्षा-दण्डार्थं नरके पातयतु, न पातयतु वा, स एव मे गतिस् तस्यैवाहम् इत्य् आत्मन व समर्पणेन नरक-प्रतीकारम् अप्य् अकुर्वन् शुद्ध-भक्तिमान् इत्य् अर्थः । कृष्णार्पित-प्राणत्वं कथं स्याद् इत्य् अत आह—तत्-पुरुषेति ॥१६॥

—ओ)०(ओ—

॥ ६.१.१७ ॥

सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः ।

सुशीलाः साधवो यत्र नारायण-परायणाः ॥

**श्रीधरः : **तत्र हेतुः—सध्रीचीनः समीचीनः । अयं पन्था भक्ति-मार्गः । यतः क्षेमः। क्षेमत्वे हेतुः—न कुतश्चिद् विघ्नादेर् भयं यस्मिन् । तद् एवाह—सुशीलाः कृपालवः । साधवो निष्कामाः । यत्र यस्मिन् मार्गे धर्म-निष्ठाः । अतो न ज्ञान-मार्ग इवासहायता-निमित्तं भयम्, नापि कर्म-मार्गवन् मत्सरादि-युक्तेभ्यो भयम् इति भावः॥१७॥

चैतन्य-मत-मञ्जुषा : ज्ञान-मार्गौ परिहाय भक्ति-मार्ग एवाश्रयणीय इत्य् आह—सध्रीचीन इत्य्-आदि । सहाञ्चतीति सध्रीचीनः, सुसेव्यत्वात् स्वयम् एव पन्था गम्यावधिः । सहाञ्चतीति एक-रूपत्वं व्यङ्ग्यम् । यतोऽकुतो-भयः, कुतोऽपि भयं यत्र नास्ति, ज्ञानादि-मार्गस् तु सर्वतो-भयः । सध्रीचीनत्वम् आह—यत्र साधवः, साधव एव यत्र प्रचरन्ति, न तु दस्यवः । दस्यु-ग्रस्ते पथि साधवो वणिजश् च न चरन्ति । केऽमी साधवः? इत्य् आह—सुशीलाः शोभनं श्री-कृष्ण-भजन-रूपं शीलं शुचि चरितं येषाम् । तम् एवार्थं दर्शयति—नारायण-परायणा नारायणादि-परो नारायण-परः श्री-कृष्णः, स एवायनम् आश्रयो येषाम् ॥१७॥

**सनातनः **(ह।भ।वि। ११.५६५) : अयं पन्था भक्ति-मार्गः सध्रीचीनः समीचीनः । यतः क्षेमःकल्याणम् । क्षेमत्वे हेतुः—नकुतश्चिद् विघ्नादेर् भयं यस्मिन् । यद् वा, क्षेमः मङ्गल-रूपोऽकुतश्चिद् भयं च । तद् एवाह—यत्र यस्मिन् मार्गे सुशीलाः कृपालवः साधवो निष्कामाः, अतो न ज्ञान-मार्गवद् असहायता-निमित्तं भयम्, नापि कर्म-मार्गवन् मत्सरादि-युक्तेभ्यो भयम् । तेषां सङ्गत्या च सर्वथा क्षेमम् एवेति भावः॥१७॥

**क्रम-सन्दर्भः : **अयं पन्था नारायण-भक्ति-मार्गः ॥१७॥

**विश्वनाथः : **न च ज्ञान-योग-व्रताद्य्-असमर्थानाम् एव भक्ति-योग इति वाच्यम् इत्य् आह—सध्रीचीनःहि निश्चितम् । अयम् एव सर्वतः श्रेष्ठः, न कुतोऽपि विघ्नादेर् भयं यत्र सः। सुशीलाः साधव इति ज्ञान-मार्ग इव असहायता-निमित्तं भयं न, नापि कर्म-मार्गवन् मत्सरतादि-हेतुकं भयम् इति भावः॥१७॥

—ओ)०(ओ—

॥ ६.१.१८ ॥

प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् ।

न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इवापगाः ॥

**श्रीधरः : **भक्तेर् अन्य-निरपेक्षत्वम् उक्तम्, कृच्छ्रादीनि तु भक्तिं विना न शोधयन्तीत्य् आह—प्रायश्चित्तानीति । महताम् अप्य् अशोधकत्वे दृष्टान्तम् आह—सुराकुम्भम् आपगा नद्य इवेति ॥१८॥

**चैतन्य-मत-मञ्जुषा : **व्यतिरेकेणापि दर्शयति—प्रायश्चित्तानीति । चीर्णान्य् अपि प्रायश्चित्तानि कृच्छ्र-चान्द्रायणादीनि नारायण-पराङ्मुखं न निष्पुनन्ति, यथा कथञ्चिद् एव पुनन्तीत् भावः । तत्र दृष्टान्तः—सुराकुम्भम् इवापगाः, सुरा-कुम्भो हि क्षालितोऽपि, न तु दौर्गन्ध्यं जहाति, व्यवहार-योगस् तु न भवत्य् एव । अतः कृत-प्रायश्चित्तोऽपि भगवद्-भक्तः शुद्धान्तः-करणोऽपि न भवति, व्यवहार-योग्योऽपि न भवतीति भावः ॥१८॥

**सनातनः **: चीर्णानि कृतान्य् अपि न निष्पुनन्ति, न शोधयन्ति । महताम् अप्य् अशोधकत्वे दृष्टान्तः—सुरा-कुम्भम् इवापगा इवेति ॥१८॥ (ह।भ।वि। १०.३०५)

**क्रम-सन्दर्भः : **प्रायश्चित्तानीति निर् निश्चितं न पुनन्ति ॥१८॥

**विश्वनाथः : **किं चान्वय-व्यतिरेकाभ्यां भक्तिर् एव पाप-प्रशमनी दृष्टा, न ज्ञान-कर्मादीत्य् आह—प्रायश्चित्तानीति । बहु-वचनेन कर्म-ज्ञान-मयानि सर्वाणीत्य् अर्थः । नारायण-पराङ्-मुखं भक्ति-भक्तोत्कर्षयोः श्रुतयोर् अपि तत्र श्रद्धा-हीनं न पुनन्ति, भक्तिस् तु ज्ञान-कर्मादि-हीनम् अपि पुनाति, केवलया भक्त्येति पूर्वोक्तेः ॥१८॥

—ओ)०(ओ—

॥ ६.१.१९ ॥

सकृन् मनः कृष्ण-पदारविन्दयोर्

निवेशितं तद्-गुण-रागि यैर् इह ।

न ते यमं पाश-भृतश् च तद्-भटान्

स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥

**श्रीधरः : **भक्तिः स्वल्पापि पुनात्य् एवेत्य् आह—सकृद् इति । तस्य गुणेषु राग-मात्रम् अस्ति, न तु ज्ञानं यस्य तन्-मनः । तावतैव चीर्णं निष्कृतं प्रायश्चित्तं यैः ॥१९॥

**चैतन्य-मत-मञ्जुषा : **अत इतिहासम् उपक्रामयितुम् उपक्रमणिकाम् आह—सकृद् इति । अस्तु तावत् पूर्व-पूर्व-श्लोक-निर्दिष्ट-वासुदेव-परायणत्व-कृष्णार्पित-प्राणत्वादि, सकृद् एवारम् अपि यैः कृष्ण-पादारविन्दयोर् मनो निवेशितं, गुण-रागि गुणेषु भक्त-वात्सल्यादिषु राग-युक्तम्, न ते यमं पश्यन्ति । यमं न पश्यन्तु नाम, कदाचित् तन्-महिमानम् अवज्ञाय समानेतुम् आगतवतः पाश-भृतस् तद्-भटान् वा न पश्यन्ति । अस्तु तावत् साक्षात्, स्वप्नेऽपि न, यतश् चीर्ण-निष्कृताः सकृन्-मनो-निवेश-मात्रेणैव कृत-प्रायश्चित्ताः ॥१९॥

**क्रम-सन्दर्भः : **अथ रागाभास-मय्यास् ततोऽप्य् उत्तमत्वेनाह—सकृद् इति । रागोऽत्र रञ्जन-मात्र-लक्षणो रत्य्-आभासः, सकृच्-छब्द-प्रयोगात् । न तु तद्-गुण-माधुरी-याथार्थ्य-ज्ञानेन साक्षात् प्रीतिः । अत एव तत्र तात्पर्याभावात् सकृद् अपीत्य् उक्तम् । साक्षाद् रतौ सत्याम् असकृद् एव तस्मिन् मनो-निवेशः स्यात् ।

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ [भा।पु। १०.८७.३५] इति श्रुति-स्तुतेः।

अत एव टीकायाम्—तस्य गुणेषु राग-मात्रम् अस्ति, न तु ज्ञानम् इत्य् उक्तम् । राग-मात्रं यत्-किञ्चिद् रागः । ज्ञानं च याथार्थ्येनानुभव इति । तथाप्य् अस्त्य् अजामिलादिभ्यो विशेष इत्य् आह—न ते यमम् इत्य् अतोऽत्रैषां पूर्वेभ्य उत्तमत्वं फल-भक्त्य्-आभास-सद्-भावेन यमादीनां तद्-दृष्टि-पथेऽपि गन्तुम् अशक्यत्वान् महाप्रभाव-रूपं दर्शितम् ।

अत्र तद्-गुण-रागीति विशेषणं तु तेषां तद्-दृष्टि-पथ-गमन-सामर्थ्यस्यापि यद् घातकम्, तादृश-तत्-स्मरणस्य प्रभाव-विशेषम् एव बोधयतीति ज्ञेयम् । यथा नारसिंहे श्री-यमोक्तौ—

अहम् अमर-गणार्चितेन धात्रा
यम इति लोक-हिताय संनियुक्तः ।
हरि-गुरु-विमुखान् प्रशास्मि मर्त्यान्
हरि-चरण-प्रणतान् नमस्करोमि ॥ [नृ।पु। ९.२] इति ।

तथैवामृत-सारोद्धारे स्कान्द-वचनम्—

न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः ।
शक्तास् तु निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ इति ॥१९॥

प्रीति-सन्दर्भः ७४ : अथ कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् आह— सकृन् मनः इति । रागो रञ्जन-मात्रम्, न तु तद्-गुण-माधुरी-याथार्थ्य-ज्ञानेन साक्षात् प्रीतिः । अत एव तत्र तात्पर्याभावात् सकृद् अपीत्य् उक्तम् । तथाप्य् अस्त्य् अजामिलादिभ्यो विशेष इत्य् आह—न ते यमम् इत्य्-आदि ॥१९॥

**विश्वनाथः : **नात्र भक्ति-भूमाप्य् अपेक्षणीय इत्य् आह—सकृद् अपि, किं पुनर् असकृत् ? मनोऽपि, किं पुनः श्रोत्रादि । तच् च मनो गुण-रागि विषयासक्तम्, किं पुनर् गुण-राग-रहितम् ? स्वप्नेऽपि, किं पुनः साक्षात् तावन्-मात्र-ध्यानेनैव ? चीर्णं निष्कृतं प्रायश्चित्तं यैस् ते । अत्र सकृद् इत्य्-आदि पदैः कस्यचिच् छुद्ध-भक्तस्य दैवात् पापानां पौनःपुन्येऽप्य् उत्खात-दंष्टोरग-दंशानाम् इव तेषाम् अकिञ्चित्करत्वात् कुञ्जर-शौचवद् आक्षेप-विषयीभावोऽनुचित एव—अपि चेत् सुदुराचारो भजते मां [गीता ९.३०] इत्य्-आदि वचनेभ्यः ॥१९॥

—ओ)०(ओ—

॥ ६.१.२० ॥

अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् ।

दूतानां विष्णु-यमयोः संवादस् तं निबोध मे ॥

**श्रीधरः : **इमम् अर्थम् इतिहासेनोपपादयति—अत्र चेति । मे मत्तः ॥२०॥

**क्रम-सन्दर्भः : **अथ तत्र तत्र कैमुत्यं दर्शयितुम् इतिहासम् उपक्षिपति—अत्र चेति॥२०॥

**विश्वनाथः : **अत्रार्थ एवेतिहासम् उपक्षिपति । अत्रेति यः संवादस् तं निबोध मे मत्तः ॥२०॥

—ओ)०(ओ—

॥ ६.१.२१ ॥

कान्यकुब्जे द्विजः कश्चिद् दासी-पतिर् अजामिलः ।

नाम्ना नष्ट-सदाचारो दास्याः संसर्ग-दूषितः ॥

**श्रीधरः : **कान्यकुब्जे पुरे । दास्याः पतिः नाम्ना अजामिलः ॥२१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.२२ ॥

वन्द्य्-अक्षैः कैतवैश् चौर्यैर् गर्हितां वृत्तिम् आस्थितः ।

बिभ्रत् कुटुम्बम् अशुचिर् यातयाम् आस देहिनः ॥

**श्रीधरः : **वृत्तिं जीविकाम् । बिभ्रत् पुष्णन् । यातयामास पीडयामास ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वन्दी शृङ्खलित-जनता तया तदा कर्षणेनेत्य् अर्थः । अक्षैश् च द्यूतेन कैतवैर् वञ्चनादिभिश् च वृत्तिं जीविकाम् । यातयामास पीडयामास ॥२२॥

—ओ)०(ओ—

॥ ६.१.२३ ॥

एवं निवसतस् तस्य लालयानस्य तत्-सुतान् ।

कालोऽत्यगान् महान् राजन्न् अष्टाशीत्यायुषः समाः ॥

**श्रीधरः : **आयुषः सम्बन्धी महान् कालोऽत्यगात् । स कियान् इत्य् अपेक्षायाम् आह । अष्टाशीत्या सङ्ख्यया युक्ताः समाः संवत्सराः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आयुषः सम्बन्धी महान् कालोऽत्यगात् । स कियान् इत्य् अपेक्षायाम् आह—अष्टाशीत्या सङ्ख्यया युक्ताः समाः संवत्सराः ॥२३॥

—ओ)०(ओ—

॥ ६.१.२४ ॥

तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।

बालो नारायणो नाम्ना पित्रोश् च दयितो भृशम् ॥

**श्रीधरः, विश्वनाथः : **प्रवयसो वृद्धस्य ॥२४॥

**क्रम-सन्दर्भः : **पित्रोश् च दयित इति मातुर् अपि कृतार्थत्वम् उक्तम् ॥२४॥

—ओ)०(ओ—

॥ ६.१.२५ ॥

स बद्ध-हृदयस् तस्मिन्न् अर्भके कल-भाषिणि ।

निरीक्षमाणस् तल्-लीलां मुमुदे जरठो भृशम् ॥

**श्रीधरः : **बद्धं हृदयं येन । जरठो वृद्धः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जरठो वृद्धः ॥२५॥

—ओ)०(ओ—

॥ ६.१.२६ ॥

भुञ्जानः प्रपिबन् खादन् बालकं स्नेह-यन्त्रितः ।

भोजयन् पाययन् मूढो न वेदागतम् अन्तकम् ॥

**श्रीधरः : **एतच् च तद्-उपलालनादि श्री-नारायण-नामोच्चार-माहात्म्येन तद्-भक्तिर् एवाभूद् इति सिद्धान्तोपयोगित्वेनापि द्रष्टव्यम् ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **खादन् चर्वयन् ॥२६॥

—ओ)०(ओ—

॥ ६.१.२७ ॥

स एवं वर्तमानो ञ्ज्ञो मृत्यु-काल उपस्थिते ।

मतिं चकार तनये बाले नारायणाह्वये ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतच् च तद्-उपलालनादि श्री-नारायण-नामोच्चार-माहात्म्येन तद्-भक्तिर् एवाभूद् इति सिद्धान्तोपयोगित्वेनापि द्रष्टव्यम् इति श्री-स्वामि-चरणैः ॥२६॥

—ओ)०(ओ—

॥ ६.१.२८-२९ ॥

स पाश-हस्तांस् त्रीन् दृष्ट्वा पुरुषान् अति-दारुणान् ।

वक्र-तुण्डान् ऊर्ध्व-रोम्ण आत्मानं नेतुम् आगतान् ॥

दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।

प्लावितेन स्वरेणोच्चैर् आजुहावाकुलेन्द्रियः ॥

**श्रीधरः : **वक्राणि तुण्डानि मुखानि येषाम् । ऊर्ध्वानि रोमाणि येषां तान् । प्लावितेन प्लुतत्वं नीतेन ॥२८-२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्रीन् इति अजामिलेन कृतानाम् अनन्त्यानाम् अपि पापानां कायिक-वाचिक-मानसत्वेन त्रैविध्यात् त्रय एव याम्या आगताः, नारायण-नाम्नश् चतुरक्षरत्वाच् चत्वारो विष्णु-पार्षदा आगता इति ज्ञेयम् । प्लावितेन प्लुतत्वं नीतेन ॥२८-२९॥

—ओ)०(ओ—

॥ ६.१.३० ॥

निशम्य म्रियमाणस्य मुखतो हरि-कीर्तनम् ।

भर्तुर् नाम महाराज पार्षदाः सहसापतन् ॥

**श्रीधरः : **हरि-कीर्तनं निशम्यापतन् । यतस् तद् भर्तुर् नाम ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हरि-कीर्तनं निशम्यापतन् । कथं-भूतस्य ? भर्तुर् नाम ब्रुवतः ॥३०॥

—ओ)०(ओ—

॥ ६.१.३१ ॥

विकर्षतोऽन्तर् हृदयाद् दासी-पतिम् अजामिलम् ।

यम-प्रेष्यान् विष्णुदूता वारयाम् आसुर् ओजसा ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अजामिलम् इमं वैष्णवं मा विकर्षथ । रे मा विकर्षथ । यदि जीवितुम् इच्छथेति वारयामासुः ॥३१॥

—ओ)०(ओ—

॥ ६.१.३२ ॥

ऊचुर् निषेधितास् तांस् ते वैवस्वत-पुरःसराः ।

के यूयं प्रतिषेद्धारो धर्म-राजस्य शासनम् ॥

**श्रीधरः, विश्वनाथः : **पुरः-सरा भृत्याः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.३३ ॥

कस्य वा कुत आयाताः कस्माद् अस्य निषेधथ ।

किं देवा उपदेवा या यूयं किं सिद्ध-सत्तमाः ॥

**श्रीधरः, विश्वनाथः : **अस्य नयनं निषेधथ ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.३४ ॥

सर्वे पद्म-पलाशाक्षाः पीत-कौशेय-वाससः ।

किरीटिनः कुण्डलिनो लसत्-पुष्कर-मालिनः ॥

**श्रीधरः : **वयं युष्मान् न जानीम इति न कोपः कार्यो यतोऽलौकिकाद् भूत-रूपा यूयम् इत्य् आहुः, सर्व इति सार्धाभ्याम् । लसन्त्यः पुष्कर-मालाः सन्ति येषाम् ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.३५ ॥

सर्वे च नूत्न-वयसः सर्वे चारु-चतुर्भुजाः ।

धनुर्-निषङ्गासि-गदा- शङ्ख-चक्राम्बुज-श्रियः ॥

**श्रीधरः : **नूत्नं नव वयो येषाम् । निषङ्ग इषुधिः । धनुर् निषङ्गादिभिः श्रीः शोभा येषां ते ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आकृत्या च यूयं परम-शिष्टा एव लक्ष्यध्वे इत्य् आहुः—सर्वे इति ॥३५॥

—ओ)०(ओ—

॥ ६.१.३६ ॥

दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा ।

किम् अर्थं धर्म-पालस्य किङ्करान् नो निषेधथ ॥

**श्रीधरः : **विगतं तिमिरम् आलोकश् चान्यस्य प्रकाशो यासु तथाभूता दिशः कुर्वन्तः । भवताम् एतद् अनुचितम् इत्य् आहुः, किम् अर्थम् इति ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विगतं तिमिरम् आलोकश् चान्यदीयो यासु ताः कर्मणा तु कथम् अशिष्टा इत्य् आहुः—किम्-अर्थम् इति ॥३६॥

—ओ)०(ओ—

॥ ६.१.३७ ॥

श्री-शुक उवाच—

इत्य् उक्ते यमदूतैस् ते वासुदेवोक्त-कारिणः ।

तान् प्रत्यूचुः प्रहस्येदं मेघ-निर्ह्रादया गिरा ॥

**श्रीधरः : **अहो दण्ड्यादण्ड्यादि-ज्ञान-शून्या एते चोरा एवास्मद् भिया धर्म-राजस्य किङ्करा इत्य् अनृतं वदन्तीति विस्मयेन प्रहस्य तान् प्रत्य् ऊचुः । मेघस्येव निर्ह्रादो ध्वनिर् यस्यास् तया ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रहस्येत्य् अरे धर्मम् एव न जानीथ किम् इत्य् अस्मद्-भयेन धर्मराजस्य किङ्करा इति ब्रूथ किन्तु यूयं प्रेत-विशेषा एवास्मद्-धस्त-पतिताः कथम् अद्य जीविष्यथेति भावः ॥३७॥

—ओ)०(ओ—

॥ ६.१.३८ ॥

श्री-विष्णुदूता ऊचुः—

यूयं वै धर्म-राजस्य यदि निर्देश-कारिणः ।

ब्रूत धर्मस्य नस् तत्त्वं यच् चाधर्मस्य लक्षणम् ॥

**श्रीधरः : **तत्त्वं स्वरूपम् । लक्षणं प्रमाणम् ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु वयं धर्मराजस्य दूता भवामैव के तावद् अस्मान् न परिचिन्वन्तीत्य् अत आहुर् यूयम् इति । निर्देशो निर्देशः नोऽस्मान् प्रति तत्त्वं स्वरूपं लक्षणं प्रमाणम् ॥३८॥

—ओ)०(ओ—

॥ ६.१.३९ ॥

कथं स्विद् ध्रियते दण्डः किं वास्य स्थानम् ईप्सितम् ।

दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् ॥

**श्रीधरः : **कथं स्वित् केन प्रकारेण ? स्थानं विषयः । कारिणः कर्मिणः । नृणाम् इति नरा एव न पश्वादयः । तेष्व् अपि कतिचिद् एवेत्य् अर्थः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कथम् इति दण्डस्य प्रकार-प्रश्नः । तिष्ठत्य् अस्माद् इति स्थानम् इति दण्डस्य कारण-प्रश्नः । कारिणः कर्मिणः इति विषय-प्रश्नः । सर्वे इति किं पश्वादयोऽपि किं वा नॄणां मध्ये कतिचिद् इति तत्र व्यवस्था-प्रश्नः ॥३९॥

—ओ)०(ओ—

॥ ६.१.४० ॥

यमदूता ऊचुः—

वेद-प्रणिहितो धर्मो ह्य् अधर्मस् तद्-विपर्ययः ।

वेदो नारायणः साक्षात् स्वयम्भूर् इति शुश्रुम ॥

**मध्वः : **श्री-वेद-व्यासाय नमः ।

वेदानां प्रथमो वक्ता हरिर् एव यतो विभुः ।
अतो विष्ण्व्-आत्मका वेदा इत्य् आहुर् वेद-वादिनः ॥ इति शब्द-निर्णये ॥४०॥

**श्रीधरः : **वेदेन प्रणिहितो विहितो धर्मः, वेद-प्रमाणक इत्य् अर्थः । अनेन यो वेद-प्रमाणकः स धर्मो यो धर्मः स वेद-प्रमाणक इति स्वरूपं प्रमाणं चोक्तम् । यथाह जैमिनिः चोदना-लक्षणोऽर्थो धर्मः इति । व्याख्यातं च भट्टैः, द्वयम् एकेन सूत्रेण श्रुत्य्-अर्थाभ्यां निरूप्यते इति । अपृष्टस्याप्य् अधर्मस्य स्वरूपं लक्षणं च दण्ड-स्थान-कथनायाहुः । तद्-विपर्ययो यो वेद-निषिद्धः सोऽधर्मः । निषेधश् च तस्मिन् प्रमाणम् इत्य् अर्थः । वेदस्य प्रामाण्ये हेतुः, वेदो नारायणाद् उद्भूतः स एव साक्षाद् इत्य् उपचारः । स्वयंभूर् इति च निःश्वास-मात्रेण स्वयम् एव भवतीति । तथा च श्रुतिः—अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदः[बृ।आ।उ। २.४.१०] इति ॥४०॥

**क्रम-सन्दर्भः : **वेदे प्रणिहितो विहित इत्य् अर्थः । साक्षाद् इति स्वयम् एवेत्य् अर्थः । अत एव स्वयम्भूः ॥४०॥

**विश्वनाथः : **वेदेन प्रणिहितो विहितः । वेद-विहितत्वं धर्मत्वम् इति धर्म-स्वरूपं तत्र वेद-विधिर् एव प्रमाणम् इति प्रमाणं चोक्तम् । दण्ड-कारण-प्रश्नेनाधर्मस्यापि पृष्टत्वात् अधर्मस्य स्वरूपं प्रमाणं चाहुः । तद्-विपर्ययो यो वेद-निषिद्धः सोऽधर्मः । वेद-निषेध एव तस्मिन् प्रमाणम् इत्य् अर्थः । स्वयंभूर् इति नारायणस्य निःश्वास-मात्रेण स्वयम् एव भवतीति । तथा च श्रुतिः—अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदः[बृ।आ।उ। २.४.१०] इति ॥४०॥

—ओ)०(ओ—

॥ ६.१.४१ ॥

येन स्व-धाम्न्य् अमी भावा रजः-सत्त्व-तमोमयाः ।

गुण-नाम-क्रिया-रूपैर् विभाव्यन्ते यथा-तथम् ॥

**श्रीधरः : **कोऽसौ नारायणः ? तत्राहुः । येन स्व-धाम्नि स्वरूपे । अमी भावाः प्राणिनः । गुणाः शान्तत्वादयः । नामानि ब्राह्मण इत्य्-आदीनि । क्रियाश् चाध्ययनाद्याः । रूपाणि वर्णाश्रमादयस् तैर् विभाव्यन्ते विविच्यन्ते । यथा-तथं यथा-वत् । स नारायणः ॥४१॥

**क्रम-सन्दर्भः : **येनेति । येन परमेण हेतुना ॥४१॥

**विश्वनाथः : **कोऽसौ नारायणः ? तत्राहुः । येन स्व-धाम्नि वैकुण्ठे स्थित्वैव अमी भावाः प्राणिनः सङ्कल्प-मात्रेणैव गुणाः शान्तत्वादयः । नामानि ब्राह्मण इत्य्-आदीनि । क्रिया अध्ययनाद्याः । रूपाणि वर्णाश्रमादीनि तैर् विभाव्यन्ते विविधतया सृज्यन्ते यथा-यथं यथावत् ॥४१॥

—ओ)०(ओ—

॥ ६.१.४२ ॥

सूर्योऽग्निः खं मरुद् देवः सोमः सन्ध्याहनी दिशः ।

कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः ॥

**श्रीधरः : **तथाप्य् अधर्मोऽनेन कृत इति कुतो ज्ञायते तत्राहुः, सूर्य इति । अहनी अहश् च रात्रिश् च । कम् उदकम् । कुः पृथ्वी । दैह्यस्य जीवस्य । यथाहुः,

आदित्य-चन्द्राव् अनिलोऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥इति ॥४२॥

**क्रम-सन्दर्भः : **साक्षिणः । आदिता-चन्द्राव् इत्य्-आदि मन्त्र-मय-परीक्षादौ तद्-भद्राभद्र-व्यञ्जकाः _॥_४२॥

**विश्वनाथः : **कोऽपिन जानात्व् इति पापं पुम्भिर् विविक्ते क्रियते, अत्र सूर्यादयो दैह्यस्य जीवस्य साक्षिणो येनैव विभाव्यन्त इति पूर्वेणैवान्वयः । अहश् च रात्रिश् च । कम् उदकम् । कुः पृथ्वी । यथाहुः,

आदित्य-चन्द्राव् अनिलोऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥इति ॥४२॥
—ओ)०(ओ—

॥ ६.१.४३ ॥

एतैर् अधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।

सर्वे कर्मानुरोधेन दण्डम् अर्हन्ति कारिणः ॥

**श्रीधरः : **स्थानम् आहुः । एतैर् निमित्त-भूतैर् विज्ञातः । दण्ड्यान् आहुः—सर्व इति ॥४३॥

**क्रम-सन्दर्भः : **युज्यते—भवतीत्य् अर्थः ॥४३॥

**विश्वनाथः : **स्थानम् आहुः—एतैर् इति । दण्ड्या आहुः—सर्व एव प्राणिनः ॥४३॥

—ओ)०(ओ—

॥ ६.१.४४ ॥

सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।

कारिणां गुण-सङ्गोऽस्ति देहवान् न ह्य् अकर्म-कृत् ॥

**श्रीधरः : **विपरीतान्य् अभद्राण्य् अपि कर्मिणां संभवन्ति । यतस् तेषां गुण-सङ्गोऽस्ति । यदि कश्चिद् अकर्ता स्यात् तर्हि तस्याभद्राणि न स्युः, न त्व् एतद् अस्तीत्य् आहुः । नहि देह-वान् अकर्म-कृद् अस्तीति । अतः सर्वे कर्मिणाः कर्मिणां च पापस्यावश्यं-भावित्वात् ते सर्वे दण्डम् अर्हन्तीत्य् अर्थः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सर्वेषां दण्ड्यत्वे हेतुः—सम्भवन्तीति । विपरीतान्य् अभद्राणि पापानि । यतः कारिणां कर्मिणां गुण-सङ्गोऽस्त्य् एव । गुणाश् च सत्त्वाद्याः पुण्य-पाप-हेतव एव । यावज्-जीव-मयं धर्मिकोऽधर्मिको वेति तु भूम्नैव व्यपदेशः । ननु कारिणाम् एव गुण-सङ्ग इत्य् उच्यते यदि कश्चिद् अकारी स्यात्, स त्व् अदण्ड्य एवेति तत्राहुः—देहवान् इति । देह-धारी नरः । अथ च कर्म-रहित इति प्रत्यक्ष-विरुद्धम् इत्य् अर्थः ॥४४॥

—ओ)०(ओ—

॥ ६.१.४५ ॥

येन यावान् यथाधर्मो धर्मो वेह समीहितः ।

स एव तत्-फलं भुङ्क्ते तथा तावद् अमुत्र वै ॥

**श्रीधरः : **कथं स्विद् ध्रियते दण्डः ? इत्य् अस्योत्तरम्—येनेति । धर्मो वेति दृष्टान्तः । अधर्मानुसारेण दण्डो धर्मानुसारेण सुख-वद् इत्य् अर्थः ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कथं दण्ड इत्य् अस्योत्तरम् आहुः—यावान् यत्-प्रमाणकः, यथा येन प्रकारेण अधर्मो धर्मो वा कृतः । तत्-फलं दुःखं सुखं वा, तावत् तत्-प्रमाणकं शास्त्र-दृष्ट्यैवेति शेषः ॥४५॥

—ओ)०(ओ—

॥ ६.१.४६ ॥

यथेह देव-प्रवरास् त्रै-विध्यम् उपलभ्यते ।

भूतेषु गुण-वैचित्र्यात् तथान्यत्रानुमीयते ॥

**श्रीधरः : **न केवलं सूर्यादय एव धर्माधर्म-ज्ञापकाः किन्त्व् अर्थापत्तिर् अपीत्य् आहुः, यथेति । हे देव-प्रवराः, इह जन्मनि शान्त-घोर-मूढत्वेन वा सुख-दुःख-मिश्रत्वेन वा धार्मिकत्वादिना वा त्रै-विद्यं भूतेषु यथोपलभ्यते तथान्यत्र जन्मान्तरेऽनुमीयते त्रै-विध्यान्यथानुपपत्त्या कल्प्यते ॥४६॥

**क्रम-सन्दर्भः : **अनुमीयते मर्यैर् अपीति शेषः _॥_४६॥

**विश्वनाथः : **सत्त्वादि-गुण-सङ्गः प्रत्यक्षम् एवोपलभ्यताम् इत्य् आहुः—इह लोके त्रैविध्यं पुण्य-पाप-मिश्र-कर्मत्वेन नृणां त्रैविध्यं यथा तथैवान्यत्र पर-लोकेऽन्य-जन्मनि वा सुखित्व-मिश्रत्व-दुःखित्वेन त्रैविध्यम् अनुमीयते । शास्त्र-दृष्ट्यैवेति भावः ॥४६॥

—ओ)०(ओ—

॥ ६.१.४७ ॥

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।

एवं जन्मान्ययोर् एतद् धर्माधर्म-निदर्शनम् ॥

**श्रीधरः : **वर्तमान-जन्मना पूर्वापर-जन्म-धर्माधर्म-ज्ञानं भवतीति स-दृष्टान्तम् आहुः । वर्तमानो वसन्तादि-कालः । अन्ययोर् भूत-भविष्यतोर् वसन्तयोर् ये गुणाः पुष्प-फलादयस् तेषाम् अभिज्ञापको यथा । एवम् एतज् जन्म अन्ययोर् भूत-भावि-जन्मनोर् धर्माधर्मौ निदर्शयतीति तथा ॥४७॥

**क्रम-सन्दर्भः : **वर्तमानः पूर्व-सन्ध्यादिर् वसन्तादिर् वा । स यथा पूर्व-भागे स्व्-पूर्वकालस्य रात्र्य्-आदेः शिशिरादेर् वा गुणांशान् व्यञ्जयति, उत्तर-भागे च स्व-पर-कालस्य दिवसादेर् निदाघादेर् वा, तथा वर्तमान-जन्मापि स्व-पूर्व-जन्मादेर् इत्य् अर्थः ॥४७॥

**विश्वनाथः : **वर्तमान-जन्मनैव पूर्वापर-जन्म-धर्माधर्म-ज्ञानं भवतीति स-दृष्टान्तम् आहुः । वर्तमानो वसन्तादि-कालः । अन्ययोर् भूत-भविष्यतोर् वसन्तयोर् ये गुणाः पुष्प-फलादयस् तेषाम् अभिज्ञापको यथा । एवम् एतज् जन्मैव अन्ययोर् भूत-भाविनोर् जन्मनोर् धर्माधर्मौ निदर्शयतीति तथा ॥४७॥

—ओ)०(ओ—

॥ ६.१.४८ ॥

मनसैव पुरे देवः पूर्व-रूपं विपश्यति ।

अनुमीमांसतेऽपूर्वं मनसा भगवान् अजः ॥

**श्रीधरः : **अयं च धर्माधर्म-ज्ञान-प्रकारोऽन्येषाम्, धर्म-राजस् तु मनसैव सर्वं पश्यतीत्य् आहुः । पुरे संयमिन्यां स्थित एव देवो यमो देहे स्थितोऽन्तर्यामी वा जीवस्य पूर्व-रूपं धर्माधर्मादि-युक्तं विशेषेण पश्यति । अन्वनन्तरम् अपूर्वं रूपं मीमांसते । यद् यस्यानुरूपं तद् विचारयति, यतोऽसौ भगवान् अजः ॥४८॥

**क्रम-सन्दर्भः : **भगवान् अज इति यम-पक्षे, तद्-विभूतित्वाद् भक्त्या तद्-अभेद-निर्देशः ॥४८॥

**विश्वनाथः : **अयं च धर्माधर्म-ज्ञान-प्रकारस् त्व् अन्येषां प्रायिकः धर्मराजस् तु मनसैव निश्चितम् एव सर्वं पश्यतीत्य् आहुः । पुरे संयमन्यां स्थित एव देवो यमः पूर्व-रूपं पूर्व-जन्म-स्वरूपं धर्माधर्मादि-युक्तं पश्यति । अन्व् अनन्तरम् अपूर्वं वर्तमानं भावि-रूपं मीमांसते । यद् यस्यानुरूपं तद् विचारयति, भगवान् सर्वज्ञोऽजो ब्रह्म-तुल्यः ॥४८॥

—ओ)०(ओ—

॥ ६.१.४९ ॥

यथाज्ञस् तमसा युक्त उपास्ते व्यक्तम् एव हि ।

न वेद पूर्वम् अपरं नष्ट-जन्म-स्मृतिस् तथा ॥

**श्रीधरः : **जीवस् त्व् ईश्वरेणोपस्थापितं वर्तमानं देहं पश्यति न तु पूर्वम् अपरं चेत्य् आहुः—यथेति । अज्ञोऽविद्योपाधिर् जीवस्तु व्यक्तम् एव प्राचीन-कर्माभिव्यक्तं वर्तमानम् एव देहाद्य्-उपास्तेऽहम् इति मन्यते, पूर्वम् अपरं वा न वेद । अत्र हेतुः, नष्टा जन्मनां स्मृतिर् यस्य । अत्र दृष्टान्तः, तमसा निद्रया युक्तो यथा स्वप्नेऽपि व्यक्तम् एव देहाद्य्-उपास्ते न तु जाग्रद्-देहादि पूर्व-स्वप्नादि-गतं वा तद्वद् इत्य् अर्थः ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जीवस्य तु पूर्वापर-ज्ञानाभावात् पापादौ प्रवृत्तिर् न चित्रम् इत्य् आहुः—यथा तमसा युक्तः पश्व्-आदिर् व्यक्तं वर्तमान-देहम् एव उपास्ते यथेष्टाहाराद्यैः सुखयति तथैव नरोऽपि, नष्टाजन्मनैव स्मृतिर् यस्येति पूर्वापर-ज्ञानाभावे हेतुः ॥४९॥

—ओ)०(ओ—

॥ ६.१.५० ॥

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।

एकस् तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥

**श्रीधरः : **एवं-भूतस्य जीवस्य संसारं प्रपञ्चयन्ति पञ्चभिः श्लोकैः । पञ्चभिः कर्मेन्द्रियैः स्वार्थानुपादान् आदीन् कुरुते । पञ्च शब्दादीन् वेद पञ्चभिर् ज्ञानेन्द्रियैः षोडशेन मनसा सह सप्तदशः षोडशोपाध्य्-अन्तर्-गतोऽपि स्वयं त्व् एक एव । सर्वेन्द्रिय-विषय-प्रतिसन्धानात् । त्रीन् ज्ञान-कर्मेन्द्रिय-मनो-विषयान् प्राप्नोति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

—ओ)०(ओ—

॥ ६.१.५१ ॥

तद् एतत् षोडश-कलं लिङ्गं शक्ति-त्रयं महत् ।

धत्तेऽनुसंसृतिं पुंसि हर्ष-शोक-भयार्तिदाम् ॥

**श्रीधरः : **तद् एतल् लिङ्ग-शरीरं शक्ति-त्रयं गुण-त्रय-कार्यं महद् अनादि पुंसि जीवे अन्व् अनुसंसृतिं धत्ते ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

—ओ)०(ओ—

॥ ६.१.५२ ॥

देह्य् अज्ञो ञ्जित-षड्-वर्गो नेच्छन् कर्माणि कार्यते ।

कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥

**श्रीधरः : **नेच्छन्न् अनिच्छन्न् अप्य् अनेनैव कर्माणि कार्यते । कोश-कारः कीट-विशेषः । मुह्यति निर्गमोपायं न जानाति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

—ओ)०(ओ—

॥ ६.१.५३ ॥

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् ।

कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर् बलात् ॥

**श्रीधरः : **कार्यत इत्य् अत्रानुभवं प्रमाणयन्ति, नहीति । गुणैर् गुण-कार्य-रागादिभिः । स्वाभाविकैः पूर्व-कर्म-संस्कारोद्भूतैः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्वाभाविकैः पूर्व-कर्म-संस्कारोद्भूतैः ।

—ओ)०(ओ—

॥ ६.१.५४ ॥

लब्ध्वा निमित्तम् अव्यक्तं व्यक्ताव्यक्तं भवत्य् उत ।

यथा-योनि यथा-बीजं स्वभावेन बलीयसा ॥

**श्रीधरः : **कर्म-वशेन च तद् अनुरूपो देहो भवतीत्य् आहुः, लब्ध्वेति । अव्यक्तम् अदृष्टं निमित्तं लब्ध्वा व्यक्ताव्यक्तं तद् अनुरूपं स्थूलं सूक्ष्मं च शरीरं भवति । यथा-योनि मातृ-सदृशम् । यथा-बीजं पितृ-सदृशम् । स्व-भावो वासना । शुक्र-शोणितयोर् एकत्वेऽपि कर्म-वासनया माता-पितृ-सदृशो देहो भवतीत्य् अर्थः ।

**क्रम-सन्दर्भः : **लब्ध्वेति । अदृष्टेन निमित्तेन ये योनि-बीजे प्राप्येते, तत्-स्वभावानुसारेण देहो भवतीत्य् अर्थः ॥५४॥

**विश्वनाथः : **एवञ् च निमित्तम् अदृष्टं लब्ध्वा तत्-कर्मानुसारेण व्यक्ताव्यक्तं स्थूलं सूक्ष्माञ् च शरीरं भवति यथायोनि क्वचिन् मातृ-सदृशं यथाबीजं क्वचित् पितृ-सदृशं क्वचिद् उभय-सदृशं स्वभावेन हिंस्रत्व-सौम्यत्वेन च युक्तम् ॥५४॥

—ओ)०(ओ—

॥ ६.१.५५ ॥

एष प्रकृति-सङ्गेन पुरुषस्य विपर्ययः ।

आसीत् स एव न चिराद् ईश-सङ्गाद् विलीयते ॥

**श्रीधरः : **संसार-चक्रम् उपसंहरन्तो मुक्ति-प्रकारम् आहुः—एष इति । ईश-सङ्गात् परमेश्वर-भजनात् ॥५५॥

**क्रम-सन्दर्भः : **एष इति । भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इतिवत् _॥_५५॥

**विश्वनाथः : **एष इति । प्रकृति-पुरुषयोः सङ्गाभ्याम् एव बन्ध-मोक्षौ भवत इत्य् अर्थः ॥५५॥

—ओ)०(ओ—

॥ ६.१.५६ ॥

अयं हि श्रुत-सम्पन्नः शील-वृत्त-गुणालयः ।

धृत-व्रतो मृदुर् दान्तः सत्य-वाङ् मन्त्र-विच् छुचिः ॥

**श्रीधरः : **तद् एवं सामण्यते धर्मादि-निर्णयम् उक्त्वा प्रस्तुतस्याजामिलस्याधर्मं प्रपञ्चयन्तो दण्ड्यत्वम् आहुः—अयं हीति । यावद् अध्याय-समाप्ति । तत्र द्वाभ्यां तत् पूर्व-वृत्तान्तानुवादोऽन्यायाति-रेक-प्रदर्शनार्थः । शीलं सुस्वभावः, वृत्तं सद्-आचारः, गुणाः क्षमादयस् तेषाम् आलयः ॥५६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद् एवं धर्माधर्मादि-स्वरूपम् उक्त्वा प्रस्तुतस्याजामिलस्य दण्ड्यत्व-ज्ञापनायाधर्मं प्रपञ्चयति—अयं हीत्य् आदिना तत्राप्य् अतिशयानौचित्यं ज्ञापयितुं द्वाभ्यां धार्मिकत्वम् आहुः—शीलं सुस्वभावः । वृत्तं सदाचारः । गुणाः क्षमादयः ॥५६॥

—ओ)०(ओ—

॥ ६.१.५७ ॥

गुर्व्-अग्न्य्-अतिथि-वृद्धानां शुश्रूषुर् अनहङ्कृतः ।

सर्व-भूत-सुहृत् साधुर् मित-वाग् अनसूयकः ॥

**श्रीधरः : **निरहङ्कृतो निरहङ्कारः ॥५७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.५८ ॥

एकदासौ वनं यातः पितृ-सन्देश-कृद् द्विजः ।

आदाय तत आवृत्तः फल-पुष्प-समित्-कुशान् ॥

**श्रीधरः : **तत आवृत्तो वनात् परावृत्तः ॥५८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१.५९ ॥

ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया ।

पीत्वा च मधु मैरेयं मदाघूर्णित-नेत्रया ॥

श्रीधरः : भुजिष्यया भोग्य-स्त्रिया दास्या मैरेयं मधु पैष्टीं सुरां पीत्वामदेनाघूर्णिते भ्रान्ते नेत्रे यस्याः ॥५९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भुजिष्यया दास्या सम्भुज्यमानया मैरेयं पैष्टीं मधु मद्यम् ॥५९॥

—ओ)०(ओ—

॥ ६.१.६० ॥

मत्तया विश्लथन्-नीव्या व्यपेतं निरपत्रपम् ।

क्रीडन्तम् अनुगायन्तं हसन्तम् अनयान्तिके ॥

**श्रीधरः : **विशेषेण श्लथन्ती नीवी यस्यास् तया सह । व्यपेतं स्वाचाराद् भ्रष्टम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **व्यपेतं लोक-भय-रहितम् अनया सह ॥६०॥

—ओ)०(ओ—

॥ ६.१.६१ ॥

दृष्ट्वा तां काम-लिप्तेन बाहुना परिरम्भिताम् ।

जगाम हृच्-छय-वशं सहसैव विमोहितः ॥

**श्रीधरः : **कामेन कामोद्दीपकेन तद् अङ्ग-रागेण हरिद्रादिना लिप्तेन ॥६१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काम-लिप्तेन कामोद्दीपक-हारिद्र-रस-लिप्तेन ॥६१॥

—ओ)०(ओ—

॥ ६.१.६२ ॥

स्तम्भयन्न् आत्मनात्मानं यावत् सत्त्वं यथा-श्रुतम् ।

न शशाक समाधातुं मनो मदन-वेपितम् ॥

**श्रीधरः : **सत्त्वं धैर्यम् । श्रुतं ज्ञणम् । तद् बलेन स्तम्भयन्न् अपि मदनेन कम्पितं मनः समाधातुं नियमितुं शक्तो नाभूत् ॥६२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मानं मनः सत्त्वं धैर्यं श्रुतं ज्ञानम् ॥६२॥

—ओ)०(ओ—

॥ ६.१.६३ ॥

तन्-निमित्त-स्मर-व्याज- ग्रह-ग्रस्तो विचेतनः ।

ताम् एव मनसा ध्यायन् स्व-धर्माद् विरराम ह ॥

**श्रीधरः : **तद् दर्शनम् एव निमित्तं यस्य स्मर-व्याज-ग्रहस्य तेन ग्रस्तः । विचेतनो गत-स्मृतिः ॥६३॥

**क्रम-सन्दर्भः : **अत्र प्रकरणे—अयं हि श्रुत-सम्पन्नः [भा।पु। ६.१.५६] इत्य्-आदौ तादृश-स्वधर्म-निष्ठयापि अधः-पातान् न रक्षितोऽभूत्, किन्तु भक्त्याभासेनैव स रक्षित इति यमदूत-वाक्य-द्वारा श्री-शुकदेवस्याभिप्रायः ॥६३॥

**विश्वनाथः : **विरराम हेति । तादृश-स्वधर्म-निष्ठया ज्ञानेन च स तथा पतनाद् रक्षितुं शक्यो नाभूत्, किन्तु नाम्न आभासेनापि तादृशाधः-पाताद् अपि रक्षित्वा वैकुण्ठं प्रस्थापयामास इति प्रकरणार्थेन धर्म-ज्ञान-भक्तीनां प्रातिस्विकं बलं दर्शितम् ॥६३॥

—ओ)०(ओ—

॥ ६.१.६४ ॥

ताम् एव तोषयाम् आस पित्र्येणार्थेन यावता ।

ग्राम्यैर् मनोरमैः कामैः प्रसीदेत यथा तथा ॥

**श्रीधरः : **यावता समग्रेण ॥६४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यावता अर्थेन स्थितं तावतैव इति शेषः । सा यथा प्रसीदेत, तथा आचष्टत इति शेषः ॥६४॥

—ओ)०(ओ—

॥ ६.१.६५ ॥

विप्रां स्व-भार्याम् अप्रौढां कुले महति लम्भिताम् ।

विससर्जाचिरात् पापः स्वैरिण्यापाङ्ग-विद्ध-धीः ॥

**श्रीधरः : **लम्भितां परिणीताम् ॥६५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **लम्भितां तस्याः पित्रा विचार्यैव दत्ताम् इत्य् अर्थः । स्वैर्ण्यापाङ्गेति सन्धिर् आर्षः ॥६५॥

—ओ)०(ओ—

॥ ६.१.६६ ॥

यतस् ततश् चोपनिन्ये न्यायतोऽन्यायतो धनम् ।

बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्द-धीर् अयम् ॥

न कतमेनापि व्याख्यातम् ।

—ओ)०(ओ—

॥ ६.१.६७ ॥

यद् असौ शास्त्रम् उल्लङ्घ्य स्वैर-चार्य् अति-गर्हितः ।

अवर्तत चिरं कालम् अघायुर् अशुचिर् मलात् ॥

**श्रीधरः : **अघ-रूपम् आयुर् यस्य । मलम् एव तदीयम् अन्नादिकम् अत्तीति मलात् ॥६७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अघ-रूपम् अघार्थं वा आयुर् यस्य सः । मलं वेश्योच्छिष्टम् एवात्तीति सः ॥६७॥

—ओ)०(ओ—

॥ ६.१.६८ ॥

तत एनं दण्ड-पाणेः सकाशं कृत-किल्बिषम् ।

नेष्यामोऽकृत-निर्वेशं यत्र दण्डेन शुद्ध्यति ॥

**श्रीधरः : **अकृत-निर्वेशम् अकृत-प्रायश्चित्तम् । अस्यैव च हितार्थे नेष्याम इत्य् आहुः, यत्रेति ॥६८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अकृत-प्रायश्चित्तः यत्र शुद्ध्य्-अतीत्यस्योपकार एव प्रवर्तमानान् अस्मान् कथं वारयथेति भावः ॥६८॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
अजामिलोपाख्याने श्री-विष्णु-यम-पुरुष-संवादे
प्रथमोऽध्यायः ।

॥६.१॥

(६.२)


  1. भा-स्थानीयया ↩︎

  2. तद् एवं (य) ↩︎