॥ ५.२६.१ ॥
श्री-राजोवाच—
महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति।
**श्रीधरः : **
षड्-विंशे तु ततोऽधस्तान् नरक-स्थितिर् उच्यते ।
पापिनो यत्र दह्यन्ते यम-दूतैर् यथा-यथम् ॥
पुंसो गतय उच्चा-वचा विसदृशो इति भोग-वैचित्र्यम् उक्तम् । तद् एतत् कुतः ? इति पृच्छति—महर्ष इति ॥१॥
**क्रम-सन्दर्भः : **असमानत्वे तावत् फल-वैचित्र्यं भवत्य् एवं समानत्वेऽपि तद् इत्य् आह—त्रिगुणत्वाद् इति ॥१॥
**विश्वनाथः : **
भुवोऽधस्ताज् जलाद् ऊर्ध्वं नरक-स्थानम् उच्यते ।
षड्विंशे यत्र दण्ड्यन्ते पापिनो यम-किङ्करैः ॥
पुंसो गतयः उच्चावचा विसदृशा भोग-वैचित्र्यम् उक्तम् । तद् एतत् कुतः ? इति पृच्छति—महर्ष इति ॥१॥
—ओ)०(ओ—
॥ ५.२६.२॥
ऋषिर् उवाच—
त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति।
**श्रीधरः : **कर्मणः समानत्वेऽपि श्रद्धा-वैचित्र्यात् फल-वैचित्र्यम् इति परिहरति—त्रि-गुणत्वाद् इति । सात्त्विक्या श्रद्धया कर्तुः सुखित्वं, राजस्या सुखित्वं दुःखित्वं च, तामस्या दुःखित्वं मूढत्वं च, तत्रापि तासां श्रद्धानां तारतम्यात् सुखादि-तारतम्यं सर्वेषाम् इत्य् अर्थः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्रद्धा-वैसादृश्यात् फल-वैचित्र्यम् आह—त्रि-गुणत्वाद् इति । सात्त्विक्या श्रद्धया धर्म एव भवेत्, तस्माच् च कर्तुः सुखम् एव, राजस्या धर्माधर्मौ ताभ्यां सुख-दुःखे, तामस्या अधर्म एव तस्माच् दुःख-मोहौ । तत्रापि तासां श्रद्धानां तारतम्यं, सर्वस्य सर्वा इति, न हि कश्चित् सर्वदैव सात्त्विक-श्रद्धावान् एव वा, अतः काल-भेदेन सर्व-विधस्यैव जीवस्य सर्व-विधा गतयः ॥२॥
—ओ)०(ओ—
॥ ५.२६.३ ॥
अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति, या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्ताः, तासां प्राचुर्येणानुवर्णयिष्यामः ।
**श्रीधरः : **प्रतिषिद्धं प्रतिषेधः स एव लक्षणं प्रमाणं यस्याधर्मस्य कर्तुः श्रद्धा-वैसादृश्यं तमसस् तारतम्यात् । तत्रापि कारणं दर्शयन्न् आह । अनाद्य्-अविद्या-कृतानां कामानां याः सृतयो नरकास् तासां ताः । अथेदानीं ताः प्राचुर्येणानुवर्णयिष्याम इत्य् अन्वयः ॥३॥
**क्रम-सन्दर्भः : **प्रतिषिद्ध-लक्षणस्याधर्मस्य यः कर्ता, तस्य तथैव पूर्वोक्त-प्रकारेणैव श्रद्धा-वैसादृश्याद् अधर्म-लक्षणस्य कर्मणः फलं विसदृशं भवति । तत्र निषेधे प्रतीतावपि सत्यां प्रमादेन तत्-करणात् तमसोऽल्पत्वं मोहेन मध्यमत्वं नास्तिकतायां तु पूर्णत्वं ज्ञेयम् । अथातो हेतोर् यास् तत्-परिणाम-लक्षण-सृतयः सहस्रशः प्रवृत्ताः सन्ति, ताः प्राचुर्येण तु वर्णयिष्यामः । केषाम् आदि-कारणानां सम्बन्धिन्यस् ता इत्य् अपेक्षायाम् आह—अनादीति ॥३॥
**विश्वनाथः : **तत्र शास्त्र-विहितस्य धर्मस्य फल-भूतानि भौम-दिव्य-बिल-स्वर्ग-सुखानि दर्शितान्य् अत एवाधर्मस्यापि फल-भूतानि नरक-दुःखान्य् अपि विवक्षितव्यानीत्य् अत आह—अथेति । प्रतिषिद्धं प्रतिषेधस् तद् एव लक्षणं प्रमाणं यस्य तस्य तथैवेति धर्मस्य कर्तुर् यथा तथैवाधर्मस्यापि कर्तुर् इत्य् अर्थः । श्रद्धाया वैसादृश्याद् इति श्रद्धा-वैसादृश्यस्यापि तमस्-तारतम्यम् एव कारणम् । तथा हि—प्रमादेनाधर्म-करणात् तस्मसोऽल्पत्वं, ज्ञानेन मध्यमत्वं, तत्रापि नास्तिकत्वेन पूर्णत्वं ज्ञेयम् । तमस् त्रैविध्यस्यापि कारणं दर्शयन्न् आह—अनाद्य्-अविद्या-सम्बन्धो जीवस्य कदा कथं वेति वक्तुम् अशक्तेः अनादिर् या तम-आदि-त्रैविध्य-मयी अविद्या तया कृतानां जीव-सम्बन्धित्वेनोपपादितानां कामानां वासनानां याः सृतयः, कीदृश्यस् तेषां कामानां परिणाम-लक्षणाः, तासां मध्ये प्राचुर्येण नरकान् इति शेषः ॥३॥
—ओ)०(ओ—
॥ ५.२६.४ ॥
राजोवाच—
नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहो स्विद् अन्तराल इति।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.५ ॥
श्री-ऋषिर् उवाच—
अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति।
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **स्वानां गोत्राणाम् इति तत् तयाभिमानाद् एव, तत एव यत् किञ्चिच् छान्तिर् भवतीति सत्या एवाशिष इत्य् उक्तम् ॥५॥
**विश्वनाथः : **भूमेः सप्त-पातालवत्या अधः, जलाद् गर्भोदात् ॥५॥
—ओ)०(ओ—
॥ ५.२६.६ ॥
यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति।
**श्रीधरः : **कर्म-दोषम् अनतिक्रम्य दोषम् एव दमं पाप-फलं दण्डं करोति न उल्लङ्घितं भगवच्-छासनं येन ॥६॥
**क्रम-सन्दर्भः : **दोषम् एव दम-रूपेण परिणमयतीत्य् अर्थः । अनुल्लङ्घितेति । भगवान् अत्र ब्रह्मा तथा शासनं च बिभीषिकयापि जीवान् भगवद्-अन्तर्-मुखीकर्तुम् इति ज्ञेयम् । यद् वा, भगवच्-छासन-शब्देनात्र वेद एवोच्यते ॥६॥
**विश्वनाथः : **स्व-विषयं स्व-देशं , कर्मावद्यं कर्म-दोषम् अनतिक्रम्य दोषं दोष-रूपं दमं दण्डं, तादृश्या विभीषिकयापि जीवान् भगवतोऽन्तर्मुखी-कर्तुम् इति भावः ॥६॥
—ओ)०(ओ—
॥ ५.२६.७ ॥
तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतोऽनुक्रमिष्यामस् तामिस्रोऽन्ध-तामिस्रो रौरवो महा-रौरवः कुम्भी-पाकः काल-सूत्रम् असिपत्र-वनं सूकर-मुखम् अन्ध-कूपः कृमि-भोजनः सन्दंशस् तप्त-सूर्मिर् वज्र-कण्टक-शाल्मली वैतरणी पूयोदः प्राण-रोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयः-पानम् इति ।
किं च, क्षार-कर्दमो रक्षो-गण-भोजनः शूल-प्रोतो दन्दशूकोऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः।
**श्रीधरः : **मतान्तरेणाष्टा-विंशतिम् आह—किं चेति ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तामिस्रादय एक-विंशतिर् नरकाः, मतान्तरेण पूर्वे मिल्तानष्टाविंशतिम् आह—किं चेति ॥७॥
—ओ)०(ओ—
॥ ५.२६.८ ॥
तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-ताडन-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये।
**श्रीधरः : **पाप-भेदेन च तत् तन् नरक-यातना-भेदं प्रपञ्चयति—तत्र यस् त्व् अत्यादिना । यात्यमानः पीड्यमानः । एकदैव तदैव ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यात्यमानः पीड्यमानः तामिस्र-प्रायोऽन्धकार-बहुले ॥८॥
—ओ)०(ओ—
॥ ५.२६.९ ॥
एवम् एवान्ध-तामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते, यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति, यथा वनस्पतिर् वृश्च्यमान-मूलः, तस्माद् अन्ध-तामिस्रं तम् उपदिशन्ति।
**श्रीधरः : **पुरुषं पतिं वञ्चयित्वा ॥९॥
**क्रम-सन्दर्भः : **एवम् इति ॥९॥
**विश्वनाथः : **पुरुषं पतिम् ॥९॥
—ओ)०(ओ—
॥ ५.२६.१० ॥
यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति, स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति।
**श्रीधरः : **एतच् छरीरम् अहम् इति । इदं धनादि ममेति मत्वा, स्वं च कुटुम्बम् एव पुष्णाति । तेनाशुभेन ॥१०॥
**क्रम-सन्दर्भः : **यस् तु तस्यैवम् एव भवतीत्य् अर्थः ॥१०॥
**विश्वनाथः : **एतच् छरीरम् अहम् इति । इदं धनादिकं ममेति मत्वा भूत-द्रोहेणेति भूत-द्रोहं विना तु केवलाहं-ममकाराभ्यां न रौरवे निपततीति बुद्ध्यते ॥१०॥
—ओ)०(ओ—
॥ ५.२६.११ ॥
ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं, त एव रुरवो भूत्वा, तथा तम् एव विहिंसन्ति, तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अतिक्रूर-सत्त्वस्यापदेशः।
**श्रीधरः : **रुरवो भूत्वेति । कर्माण्य् एव तथा परिणामं प्राप्येत्य् अर्थः । अतिक्रूरस्य भार-शृङ्गाख्यस्य सत्त्वस्यापदेशः संज्ञा ॥११॥
**क्रम-सन्दर्भः : **ये त्व् इति । त एव तद्-धिंसा-जात-कर्माण्य् एवेत्य् अर्थः । रुरु-शब्दस्य स्वयं श्री-शुकेन टीका-विधानाल् लोकेष्व् अप्रसिद्धोऽयं जन्तु-विशेष इति सूच्यते ॥११॥
**विश्वनाथः : **रुरवो भूत्वेति । कर्माण्य् एव तथा परिणामं प्राप्येत्य् अर्थः । अतिक्रूरस्य भार-शृङ्गाख्य-सत्त्वस्यापदेशः संज्ञा इति स्वामि-चरणाः । रुरु-शब्दस्य स्वयं मुनिनैव टीका-विधानाल् लोकेष्व् अप्रसिद्ध एवायं जन्तु-विशेषः इति सन्दर्भः ॥११॥
—ओ)०(ओ—
॥ ५.२६.१२ ॥
एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः।
**श्रीधरः : **क्रव्येण निमित्तेन मांसार्थम् इत्य् अर्थः ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्रव्येण निमित्तेन मांसार्थम् इत्य् अर्थः । केवलम् इति भूत-द्रोहेणेति शेषः ॥१२॥
—ओ)०(ओ—
॥ ५.२६.१३ ॥
यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति।
श्रीधरः : प्रानतः स-जीवान् उपरन्धयति पचति । अपकरुणं निष्कृपम् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रानत उपरन्धयति स-प्राणान् पचतीत्य् अर्थः ॥१३॥
—ओ)०(ओ—
॥ ५.२६.१४ ॥
यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमानेऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि।
**श्रीधरः, विश्वनाथः : **खले समे देशे ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.१५ ॥
यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः
पाखण्डं चोपगतस्
तम् असि-पत्रवनं प्रवेश्य
कशया प्रहरन्ति
तत्र हासाव् इतस्
ततो धावमान
उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो
“हा हतोऽस्मी"ति परमया वेदनया मूर्च्छितः
पदे पदे निपतति
स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते।
**श्रीधरः : **स्व-धर्म-हा धर्म-त्यागी ॥१५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.१६ ॥
यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरकेऽमुत्र सूकरमुखे निपतति, तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षु-खण्ड आर्त-स्वरेण स्वनयन्, क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः।
**श्रीधरः : **स्वनयन् रुदन् कश्मलं मोहम् उपगतो भवति । अदृष्ट-दोषास् तेनोपरुद्धाः सन्तो यथा कश्मलम् उपगतास् तद्वत् ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्वनयन् रुदन् । अदृष्ट-दोषा निर्दोषा । उपरुद्धा दण्डिताः ॥१६॥
—ओ)०(ओ—
॥ ५.२६.१७ ॥
यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतोऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः।
**श्रीधरः : **ईश्वरेणोपकल्पिता मनुष्य-रक्त-पानादि-लक्षणा वृत्तिर् येषां मत्कुणादीनाम् । न विविक्ता विज्ञाता पर-व्यथा यैर् अविवेकिभिस् तेषाम् । पुरुषेण ब्राह्मणादि-भावेन विधि-निषेध-पूर्वकम् उपकल्पिता वृत्तिर् यस्य । विविक्ता पर-व्यथा येन विवेकिना । अभिद्रुग्धा हिंसिताः । विहता निद्रा-रूपा निर्वृतिर् यस्य । न लब्धम् अवस्थानं येन । स तमसि परिक्रामति ॥१७॥
**क्रम-सन्दर्भः : **कुशरीरे तिर्यग्-आदि-लक्षणे ॥१७॥
**विश्वनाथः : **ईश्वरेण कल्पिता मनुष्य-रक्त-पानादि-लक्षणा वृत्तिर् येषां मत्-कुणादीनाम्, न विविक्ता विज्ञाता परेषां व्यथा यैस् तेषाम् । पुरुषोपकल्पित-वृत्तिर् ईश्वरेणैव विहिता निषिद्ध-जीविकः, मनुष्यत्वाद् विज्ञातान्य् अव्यथः ॥१७॥
—ओ)०(ओ—
॥ ५.२६.१८ ॥
यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादोऽनिर्वेशम् आत्मानं यातयते।
**श्रीधरः : **यत् किञ्चन भक्ष्यादिकम् उपनतं प्राप्तं, तद् असंविभज्य । न निर्मिताः पञ्च-यज्ञा येन । अत एव वायसैः संस्तुतः समत्वेन वर्णितः । कृमि-भोजनः कृमीन् एव भुञ्जानः, यावत् तत् यावन्ति योजनानि, तत् कृमि-कुण्डं, तावन्ति वर्षाणि यावद् वा तत् पातकम् इत्य् अर्थः । अप्रत्तम् असंविभक्तम् अप्रहुतं चात्तीति तथा सः । अनिर्वेशम् अकृत-प्रायश्चित्तम् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यत् किञ्चन भक्ष्य-भोज्यादिकम् उपनतं प्राप्तं, तद् असंविभज्य । वायसैः संस्तुतः समतया वर्णितः । वायस-तुल्यैर् वा स्तुतः । कृमि-भोजनः कृमीन् एव भुञ्जानः । अप्रमत्तम् असंविभक्तम् अप्रहुतं चात्तीति तथा सः । तत् पापं यावत् तावद् इत्य् अर्थः । अनिर्वेशम् अकृत-प्रायश्चित्तम् ॥१८॥
—ओ)०(ओ—
॥ ५.२६.१९ ॥
यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति।
**श्रीधरः, विश्वनाथः : **निष्कुषन्ति छिन्दन्ति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.२० ॥
यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया ताडयन्तस् तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या।
**श्रीधरः, विश्वनाथः : **तिग्मया तप्तया । सूर्म्या प्रतिमया ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.२१ ॥
यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति।
**श्रीधरः : **सर्वाभिगमः पश्व्-आद्य्-उपगन्ता ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सर्वाभिगमः पश्व्-आदीन् अप्य् अभिगच्छति ॥२१॥
—ओ)०(ओ—
॥ ५.२६.२२ ॥
ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते।
**श्रीधरः : **अपाखण्डाः सत्-कुलीनाः सन्तः । द्वितीयान्त-पाठे सेतु-विशेषणम् । नदीं विशिनष्टि—विण्-मूत्रेति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आत्मना देहेन ॥२२॥
—ओ)०(ओ—
॥ ५.२६.२३ ॥
ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति।
**श्रीधरः : **पशु-चर्यां स्वेच्छा-चारम् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विण्-मूत्रेति नदी-विशेषणम् ॥२३॥
—ओ)०(ओ—
॥ ५.२६.२४ ॥
ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति।
**श्रीधरः : **अ-तीर्थे विहिताद् अन्यत्र । विध्यन्तीति प्राण-निरोधो दर्शितः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अ-तीर्थे विहिताद् अन्यत्र ॥२४॥
—ओ)०(ओ—
॥ ५.२६.२५ ॥
ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति।
**श्रीधरः : **निरय-पतयो यम-पुरुषाः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विशसन्ति घ्नन्ति ॥२५॥
—ओ)०(ओ—
॥ ५.२६.२६ ॥
यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति।
**श्रीधरः : **लाला-भक्षम् आह—यस् त्व् इति । रेतः-पानं कारयन्ति ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **रेतः पारयति वशीकरण-कामना-विशेषार्थं रेतः-पानं कारयन्ति ॥२६॥
—ओ)०(ओ—
॥ ५.२६.२७ ॥
ये त्व् इह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति।
**श्रीधरः : **यम-दूता ये श्वानः । स-रभसं स-संभ्रमम् ॥२७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ—
॥ ५.२६.२८ ॥
यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरकेऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति।
**श्रीधरः : **द्रव्य-विनिमये क्रय-विक्रयादौ । निरवकाशे निरालम्बे । अवीचि-शब्दार्थम् आह—यत्रेति । वीचिस् तरङ्गस् तद्-रहितत्वाद् अवीचिः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **निरवकाशे निरालम्बे । अवीचि-शब्दार्थम् आह—यत्रेति । अवीचिमत् तरङ्ग-हीनम् ॥२८॥
—ओ)०(ओ—
॥ ५.२६.२९ ॥
यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थोऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति।
**श्रीधरः : **यो विप्रस् तत् कलत्रं वा सुरां पिबत्य् अन्योऽपि वा व्रत-स्थः सन् राजन्यो वैश्यो वा सोम-पीथः कृत-सोम-पान इत्य् अन्वयः । तयोः सोम-स्थाने फल-चमस-विधानात् सोम-पान-निषेधाच् च । तथा च श्रुतिः—
न्यग्-रोधस् त्रिभिर् आहृत्य ताः संपिष्य दधन्य् उपमृज्य तमस्मै भक्षं संप्रयच्छेन् न सोमम् इति ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सोम-पीथः कृत-सोम-पानः, वह्निना द्रवत् कार्ष्णायसं लोहम् ॥२९॥
—ओ)०(ओ—
॥ ५.२६.३० ॥
अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते।
**श्रीधरः : **स पूर्वम् अपि मृतक एव सन् मृत्वा ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आत्म-सम्भावनेन मिथ्याहङ्कारेण ॥३०॥
—ओ)०(ओ—
॥ ५.२६.३१ ॥
ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः।
**श्रीधरः : **पुरुषस्य मेधेन हिंसया भैरवादीन् यजन्ते । याश् च स्त्रियो नर-मांसं भक्षयन्ति । काम-रूपा रक्षो-गणा भूत्वा यथेह ते पुरुषादाः सन्तः पूर्वम् अनृत्यन्त तद्वत् ॥३१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.३२ ॥
ये त्व् इह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति।
**श्रीधरः : **वैश्रम्भकैर् विश्वासोपायैः । उपविश्रम्भय्य विश्वास्य ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वैश्रम्भकैर् विश्वासोपायैः ॥३२॥
—ओ)०(ओ—
॥ ५.२६.३३ ॥
ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान्।
श्रीधरः, विश्वनाथः : बिलेशयान् मूषिकान् ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.३४ ॥
ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति।
**श्रीधरः : **सगरेण सविषेण ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२६.३५ ॥
यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति।
**श्रीधरः : **अतिथयोऽज्ञात-पूर्वा अभ्यागता ज्ञात-पूर्वास् तान् । पापेन वक्री-कृतेन ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अतिथयोऽज्ञात-पूर्वा अभ्यागता ज्ञात-पूर्वाः ॥३५॥
—ओ)०(ओ—
॥ ५.२६.३६ ॥
यस् त्व् इह वा आढ्याभिमतिर् अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतोऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति।
**श्रीधरः : **आढ्याभिमतिर् धन-गर्वितः । अहङ्कृतिः श्रेष्ठोऽहम् इति मानी । तिर्यक् प्रेक्षणं यस्य । सर्वतो गुर्व्-आदेर् अपि धनं चोरयिष्यन्तीति विशङ्कमानः । परिशुष्यमाणं हृदयं वदनं च यस्य । अनवगतोऽप्राप्तः । तस्यार्थस्योत्पादनादिभिः शमलं गृह्णातीति तथा । परिवयन्ति सूत्र-प्रोतं कुर्वन्ति ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आढ्याभिमतिर् धन-गर्वितः । अहङ्कृतिर् अहङ्कारी । सर्वतो गुर्व्-आदिभ्योऽपि धनं मे ग्रहीष्यन्तीत्य् अभिशङ्की । परिवयन्ति सूत्र-प्रोतं कुर्वन्ति ॥३६॥
—ओ)०(ओ—
॥ ५.२६.३७ ॥
एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति।
**श्रीधरः : **इतरत्र स्वर्गादौ । इह मर्त्य-लोके पुनर् भवे पुनर् जन्म-निमित्तम् । उभयोर् धर्माधर्मयोः शेषाभ्याम् ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **इतरत्र स्वर्गे । इह भारत-भूमौ पुनर् अपि धर्माधर्मयोर् भव उत्पत्तिर् यतस् तस्मिन् उभययोः धर्माधर्मयोः शेषाभ्याम् ॥३७॥
—ओ)०(ओ—
॥ ५.२६.३८ ॥
निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः । एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद।
**श्रीधरः : **आदाव् एव द्वितीय-स्कन्धे वैश्वानरं याति[भा।पु। २.२.२४] इत्य्-आदिना । उपगेयम् औपनिषदं रूपम् । श्रद्ध-भक्तिभ्यां विशुद्ध बुद्धिर् यस्य ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आदाव् एव द्वितीय-तृतीयादिषु वैश्वानरं याति[भा।पु। २.२.२४] इत्य्-आदिभिः । उपगेयम् औपनिषदं रूपं ग्रहीतुम् अशक्यम् ॥३८॥
—ओ)०(ओ—
॥ ५.२६.३९ ॥
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति ॥
**श्रीधरः : **यथा यथावच् छ्रुत्वा ॥३९॥
**क्रम-सन्दर्भः : **यथा स्थूलं श्रुत्वा तथा सूक्ष्मं च श्रुत्वा, स्थूले रूपे आत्मानं निर्जितं कृत्वा शनैः क्रमेण सूक्ष्मं प्रति धिया व्यवसायात्मिकया बुद्ध्या नयेद् इत्य् अन्वयः । पाठान्तरं तु सुगमम् । सूक्ष्मम् अत्र भक्ति-मात्र-गम्यं रूपं—
यवन् न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्ति-योगः [भा।पु। २.२.१४] इति द्वितीयोक्तेः ॥३९॥
**विश्वनाथः : **यथा यथावत् स्थूले रूपे निमज्जितं वशीकृतम् आत्मानं मनः ॥३९॥
—ओ)०(ओ—
॥ ५.२६.४० ॥
**भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- **
पाताल-दिङ्-नरक-भागण-लोक-संस्था ।
गीता मया तव नृपाद्भुतम् ईश्वरस्य
स्थूलं वपुः सकल-जीव-निकाय-धाम ॥
**श्रीधरः : **कथं-भूता संस्था ? सकलानां जीव-निकायानां धाम आश्रय-भूतं वपुः ॥४०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षड्विंशः पञ्चमे स्कन्धे सङ्गतः सङ्गतः सताम् ॥*॥
सहिष्णुता-दिव्य-सुधा-प्रवाहान्
साधून् समाकर्ण्य जिजीविषामि ।
स्व-धार्ष्ट्य-दुर्वार-भुजङ्ग-दष्ट-
स्याहो गतिर् मे कथम् अन्यथा स्यात् ॥
पञ्चम-स्कन्ध-टीका श्री-राधा-कृष्ण-सरस्-तटे ।
कृष्ण-षष्ठ्याम् अपुरीयं फाल्गुन-भौम-वासरे ॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
नरक-वर्णनं नाम षड्विंशोऽध्यायः ।
॥ ५.२६ ॥
इति पञ्चम-स्कन्धः समाप्तः