२५ सङ्कर्षण-माहात्म्यं

॥ ५.२५.१ ॥

श्री-शुक उवाच

तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते ॥

**श्रीधरः : **

पञ्च-विंशे ततोऽधस्ताद् आह शेषस्य संस्थितिम् ।

सञ्जिहीर्षोर् इदं काले यत्र रुद्र-समुद्भवः ॥

तस्य पातालस्य कोऽसाव् अनन्तः । सात्वतीयाः सात्वत-तन्त्र-निष्ठाश् चतुर्-व्यूहोपासने यं सङ्कर्षणम् इत्य् आचक्षते । तथाख्याने हेतुः, द्रष्टृ-दृश्ययोः सम्यक् कर्षणम् एकी-करणं येन । तत् कुतः ? अहम् इत्य् अभिमानो लक्षणं चिह्नम् अधिष्ठा-तुर्यस्य । अहङ्काराधिष्ठानेन द्रष्टृ-दृश्य-सङ्कर्षणात् सङ्कर्षण इत्य् अर्थः ॥१०॥

**क्रम-सन्दर्भः : **तामसीति तमो-गुणाधिष्ठातृ-रुद्रस्यान्तर्यामित्वात् । मूर्तिं नः पुरु-कृपया बभार सत्त्वं संशुद्धम्[भा।पु। ५.२५.१०] इत्य्-आदि-विरोधात् ॥१॥

**विश्वनाथः- **

पञ्चविंशे तु पाताल-तले शेषस्य भूभृतः ।

जगत्-संहर्तू रुद्रस्याप्य् अंशिनो वर्णिता गुणाः ॥ओ॥

तामसी तमः-कार्य-संहार-प्रवर्तयित्री, न तु तमो-मयी, मूर्तिं नः पुरु-कृपया बभार सत्त्वं संशुद्धम् [भा।पु। ५.२५.१०] इत्य्-आदि-विरोधात् । सात्वतीयाः सात्वत-तन्त्र-निष्ठाः द्रष्टृ-दृश्ययोर् भोक्तृ-भोग्ययोः सम्यक् कर्षणं यतः सङ्कर्षण इति । तच् च कर्षणं अहम् अस्य भोक्ता इदं मे भोग्यम् इत्य् अभिमान-लक्षणम् एव अभिमन्तुर् अहन्ता-ममतयोः शुद्ध्य्-अर्थं तद्-अधिष्ठातृत्वेन यं ध्यायनीति भावः ॥१॥

—ओ)०(ओ—

॥ ५.२५.२ ॥

यस्येदं क्षिति-मण्डलं भगवतोऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ।

**श्रीधरः : **अनन्तत्वम् आह—यस्येदम् इति । यच्-छब्दानां स एष भगवान् अनन्त इत्य् उत्तरेणान्वयः ॥२।

क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२५.३ ॥

यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण सङ्कर्षणो नाम रुद्र एकादश-व्यूहस् त्र्य्-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत् ॥

**श्रीधरः : **तामसत्वम् आह—यस्येदं विश्वम् उपसंहर्तुम् इच्छतः । अमर्षेण विरचिते कुटिली-कृते रुचिरी-कृते । भ्रमन्त्यौ भ्रुवौ तयोर् मध्ये । उत्तम्भयन् उन्नमयन् ॥३॥

**क्रम-सन्दर्भः : **अमर्ष-कारणं तु प्रायः सर्वेषां युगपद् भगवद्-बहिर्मुखत्वं ज्ञेयम् ॥३॥

**विश्वनाथः- **उपसंजिहीर्षत इति यदैवेदं जगद्-आधिक्येन संहर्तुम् ऐच्छत् तदैव माया-घ्नास् तद्-इच्छाधीनत्वात् तदीयतमः-कार्य-रोषात्मको रुद्रो भ्रू-मध्ये प्रादुरभूत् । अमर्ष-विरचित इति रुद्रस्य विशेषणं, सुलोप आर्षः । यथा सिसृक्षतो द्वितीय-पुरुषस्य नाभि-मध्ये रजो-गुणात्मकं पद्मं प्रादुर्भवति तद्वत् ॥३॥

—ओ)०(ओ—

॥ ५.२५.४ ॥

यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति ॥

**श्रीधरः : **सुभगत्वम् आह । यस्याङ्घ्रि-कमल-युगलेऽरुणा विशदा नखा एव मणयस् तेषां षण्डः समूहस् तस्य मण्डलेषु । परिस्फुरतां कुण्डलानां प्रभया मण्डितानि गण्ड-स्थलानि येषु तानि ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **लावण्येन मनोहरत्वम् आह—यस्येति । मख-मनीनां षण्डं समूहस् तस्य मण्डलेषु दर्पणायमाणेष्व् इत्य् अर्थः ॥४॥

—ओ)०(ओ—

॥ ५.२५.५ ॥

यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं सव्रीडं किल विलोकयन्ति ॥

**श्रीधरः : **चारुण्य् अङ्ग-वलये विलसिताश् च ते विशदाश् च विपुलाश् च धवलाश् च सुभगाश् च रुचिराश् च भुजा एव रजत-स्तम्भास् तेष्व् अगुरु-चन्दन-कुङ्कुमानां पङ्क एवानुलेपस् तेनावलिम्पमानाः । तेषाम् अभिमर्शनेनोन्मथिते हृदये मकर-ध्वजस्यावेशेन रुचिरं च ललितं च स्मितं यासां ताः । तस्यानुरागेण मदेन च मुदितं च तन् मदेन विघूर्णिते प्रचलिते च आ ईषद्-अरुणे करुणावलोक-युक्ते नयने यस्मिंस् तद् वदनारविन्दं विलोकयन्ति ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **चारुण्य् अङ्ग-वलये विलसिताश् च ते विशदाश् च विपुलाश् च धवलाश् च सुभगाश् च रुचिराश् च भुजा एव रजत-स्तम्भास् तेष्व् अगुरु-चन्दन-कुङ्कुमानां पङ्क एवानुलेपस् तेनावलिम्पमानाः । तेषाम् अभिमर्शनेनोन्मथिते हृदये मकर-ध्वजस्यावेशेन रुचिरं च ललितं च स्मितं यासां ताः । तस्यानुरागेण मदेन च मुदितं च तन् मदेन विघूर्णिते प्रचलिते च आ ईषद्-अरुणे करुणावलोक-युक्ते नयने यस्मिंस् तद् वदनारविन्दं विलोकयन्ति ॥५॥

—ओ)०(ओ—

॥ ५.२५.६ ॥

स एव भगवान् अनन्तोऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते ॥

**श्रीधरः : **अमर्षोऽसहनम् । रोषः क्रोधः । उपसंहृतस् तयोर् वेगो येन ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **उपसंहृतेति स्थितिनां-काले सम्प्रति रोषस्यानौचित्याद् इति भावः । अमर्षोऽसहिष्णुता तद्-उत्थो रोषः क्रोधः ॥६॥

—ओ)०(ओ—

॥ ५.२५.७ ॥

ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम् उदार-लीलो बिभर्ति ॥

**श्रीधरः : **उपासनार्थम् आह । सुरादिभिर् ध्यायमानश् चिन्त्यम् आहः अनवरतं मदेन मुदितश् चासौ विकृत-विह्वल-लोचनश् च । सु-ललितेन मुखरिकामृतेन वचनामृतेन स्व-पार्षदान् विबुध-यूथ-पानां पतींश् चाप्यायमानो हर्षयन् । नीले वाससी यस्य । एकम् एव कुण्डलं यस्य । हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगश् च सुन्दरश् च भुजो येन । उदारा लीला यस्य सः । न परिम्लानो रागः कान्तिर् यस्यास् तस्याः नव-तुलसिकाया आमोद-मध्व्-आसवेन सुरभि-मधु-रसेन माद्यतां मधुकराणां ये व्रातास् तेषां मधुर-गीतेन श्रीर् यस्यास् तां वन-मालाम् । कक्षां वरत्राम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **सुललितेन मुखरिकामृतेन वचनामृतेन, कक्षां वरत्राम् ॥७॥

—ओ)०(ओ—

॥ ५.२५.८ ॥

य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमो-मयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस ॥

**श्रीधरः : **संश्लोकयाम् आस वर्णयाम् आस ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः: संश्लोकयामास पुरुषाद्य्-अवतारत्वेन श्लोकैस् तुष्टाव ॥८॥

—ओ)०(ओ—

॥ ५.२५.९ ॥

उत्पत्ति-स्थिति-लय-हेतवोऽस्य कल्पाः

सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् ।

यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन्

नानाधात् कथम् उ ह वेद तस्य वर्त्म ॥

**श्रीधरः : **अस्य जगत उत्पत्त्य्-आदि-हेतवो गुणा यस्येक्षया कल्पाः स्व-स्व-कार्य-समर्था आसन् । यस्य तु रूपं ध्रुवम् अनन्तम् अकृतम् अनादि । तत्र हेतुः—यद् एकम् एव सद् आत्मन्न् आत्मनि नाना-कार्य-प्रपञ्चम् अधात् । तस्य ब्रह्म-रूपस्य वर्त्म तत्त्वं जनः कथम् उ ह नैव वेदेत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः: कल्पाः स्व-स्व-कार्य-समर्थाः यद्-ईक्षयैव आसन्, यावत् पुरुषस्य प्रकृतावीक्षणं नासीत्, तावत् प्रकृति-गुणाः सत्त्वाद्या महत्तत्त्वादीनाम् उत्पत्त्य्-आदिषु न समर्था अभीउवन्न् इत्य् अर्थः । यस्य रूपम् आकारः ध्रुवं नित्यं यतोऽकृतम् अकृत्रिमं चिन्मयत्वाद् इत्य् अर्थः । किं च, यद् एकम् एव आत्मनि स्व-देह-रोम-कूप-प्रदेशेषु नाना-कार्य-प्रपञ्चम् अधात् दधार पुपोष, तस्य वर्त्म तत्त्वं तत्-प्राप्ति-मार्गं वा को वेद?॥९॥

—ओ)०(ओ—

॥ ५.२५.१० ॥

मूर्तिं नः पुरु-कृपया बभार सत्त्वं

संशुद्धं सद्-असद् इदं विभाति तत्र ।

यल्-लीलां मृग-पतिर् आददेऽनवद्याम्

आदातुं स्वजन-मनांस्य् उदार-वीर्यः ॥

**श्रीधरः : **तर्हि कथम् असौ मुमुक्षुभिः सेव्यते ? तत्राह—मूर्तिम् इति । यत्रेदं सद्-असद् विभाति स नोऽस्माकं भक्तानां बहु-कृपया संशुद्धं सत्त्वं मूर्तिं बभार । स्वजनानां मनांस्य् आदातुं वशी-कर्तुं कृतां यस्य लीलां मृग-पतिः सिंह आददे अशिक्षत्। यतः उदाराणि वीर्याणि यस्य तस्माद् अन्यं मुमुक्षुः कम् आश्रयेद् इत्य् उत्तरेणान्वयः । यद् वा, कृपयेत्य् अत्र हेतुः, यद् यस्मात् स्वजनानां मनांस्य् आदातुं लीलाम् आददे । मृग-पतिर् इवोदार-वीर्यः । यद् वा, मृग्यन्त इति मृगाः काम-प्रदाः, तेषां पतिर् मुख्यः ॥१०॥

**क्रम-सन्दर्भः : **मृगपतिः श्री-वराह-देवः जहास चाहो वनगोचरो मृगः[भा।पु। ३.१८.२४] इति । तत्रापि मृग-शब्द-प्रयोगाद् यस्य लीलां पृथिवी-धारण-लक्षणाम् आददे स्वीकृतवान् इति परम-माहात्म्यं दर्शितम् ॥१०॥

विश्वनाथः: राम-कृष्णाद्य्-अवतारत्वेन स्तौति—मूर्तिं बभार । ननु किं प्रकृतिम् ? न हि न हि, संशुद्धं सत्त्वम् । अत एव यत्र यस्यां चिन्मय्यां मूर्तौ सद् असद् इदं जगद् विभाति, श्री-व्रजेश्वर्यापि दृष्टत्वाद् इति भावः । यद् यया मूर्त्या मृगपतिः सिंह इव अनवद्यां लीलाम् आददे—रुदन्न् इव हसन् मुग्ध-बाल-सिंहावलोकनः [भा।पु। ३.२.२८] इत्य् उद्धवोक्तेः । किम्-अर्थम् ? स्वजनानां मनांसि हस्तिन इव आदातुम् आकृष्य ग्रहीतुं य एव उदार-वीर्यः गिरि-वर-धारणादि-पराक्रमवान् ॥१०॥

—ओ)०(ओ—

॥ ५.२५.११ ॥

यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद्

आर्तो वा यदि पतितः प्रलम्भनाद् वा ।

हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं

कं शेषाद् भगवत आश्रयेन् मुमुक्षुः ॥

**श्रीधरः : **किं च आस्तां तस्य कृपया वपुर् धारणं तद् भजनं वा तन् नामौदार्यम् एवाति-चित्रम् इत्य् आह । यस्य नाम यदि पतितो महा-पातक्य् अप्य् अनुकीर्तयेत् तर्हि स शुद्ध्येद् इति किम् उ वक्तव्यम् । यतोऽसाव् एव नृणाम् अशेषम् अंहः सद्यो हन्ति । कथम् अनुकीर्तयेत् । अन्यतः श्रुतं वाऽकस्माद् वा आर्तो वा सन् प्रलम्भनाद् वा परिहासात् । तस्माच् छेषाद् अन्यम् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः: यन्-नामापि पतित-पावनम् इति किं वक्तव्यं, यतः पतितम् अपि पावनी करोतीति वदन्न् एव शेष-रूपत्वेनापि स्तौति द्वाभ्याम् । यस्य नाम सङ्कर्षण इति पतितो महा-पातक्य् अपि यद् अनुकीर्तयेत्, तर्हि संशुद्ध्येद् इति किं वक्तव्यम्, यतोऽसाव् एव स्व-दर्शन-दानादिना नृणाम् अशेषम् अंहः सद्यो हन्ति । कथम् अनुकीर्तयेत् ? अन्यतः श्रुतं वा अकस्माद् वा आर्तो वा सन् । प्रलम्भनात् परिहासाद् वा किं पुनः श्रद्धा-भक्तिभ्याम् ॥११॥

—ओ)०(ओ—

॥ ५.२५.१२ ॥

मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो

भू-गोलं स-गिरि-सरित्-समुद्र-सत्त्वम् ।

आनन्त्याद् अनिमित-विक्रमस्य भूम्नः

को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः ॥

**श्रीधरः : **गिर्य्-आदि-सहितं भू-गोलम् । सत्त्वानि प्राणिनः । सहस्र-जिह्वोऽपि को गणयेत् ।

**क्रम-सन्दर्भः : **भगवद्-विग्रहस्य मध्यम-परिमाणायमणत्वेऽपि विभुत्वाद् भू-मण्डलस्याणुत्वम् ॥१२॥

विश्वनाथः: मूर्धनि एकस्मिन्न् एव भूगोलम् अणुवत् तिष्ठति सत्त्वानि प्राणिनः । सहस्र-जिह्वः सन्न् अपि को गणयेत् ? ॥१२॥

—ओ)०(ओ—

॥ ५.२५.१३ ॥

एवम्-प्रभावो भगवान् अनन्तो

दुरन्त-वीर्योरु-गुणानुभावः ।

मूले रसायाः स्थित आत्म-तन्त्रो

यो लीलया क्ष्मां स्थितये बिभर्ति ॥

**श्रीधरः : **दुरन्तं वीर्यं बलं यस्य । उरवो गुणा अनुभावश् च यस्य स च रसाया भूमेर् मूले स्थितस् तिष्ठति । आत्म-तन्त्र आत्मा-धारः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः: दुः-शब्दो नञ्-अर्थः ॥१३॥

—ओ)०(ओ—

॥ ५.२५.१४ ॥

एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः ॥

**श्रीधरः : **उक्तस्य लोक-विभागस्योपयोगं वदन्न् उपसंहरति । एता ह्य् एवेह कामान् कामयमानैर् नृभिर् उपगन्तव्या इत्य् अन्वयः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः: कामान् कामयमानैर् नृभिः ॥१४॥

—ओ)०(ओ—

॥ ५.२५.१५ ॥

एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति ॥

**श्रीधरः : **तस्य प्रपञ्चः, एतावत्यो विपाक-गतयः फल-भूता गतयस् ता व्याचख्ये व्याख्यातवान् अस्मि ।

क्रम-सन्दर्भः, विश्वनाथः: न व्याख्यातम्

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे पञ्चविंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे सङ्कर्षण-माहात्म्यं नाम पञ्चविंशोऽध्यायः ।

॥ ५.२५ ॥

(५.२६)