॥ ५.२४.१ ॥
श्री-शुक उवाच—
अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके योऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सैंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः।
**श्रीधरः : **
एवं त्रिभिर् द्यु-मर्यादा- पालनं वर्णितं तथा ।
अधो-भुवन-मर्यादा- पालनं त्रिभिर् उच्यते ॥
चतुर्-विंशे रवेर् अर्वाक् स्वर्भान्वादिस्थितिः क्रमात् ।
अतलादि-बिल-स्वर्ग-मर्यादाः सप्त वर्णिताः ॥
सूर्यम् आरभ्य ध्रुवान्तं सन्निवेशं निरूप्येदानीं सूर्याद् अधस्तान् निरूपयति—अधस्ताद् इति । स्वर्भानू राहुः । अलभत लेभे सिंहिकायाः पुत्रः ॥१॥
**क्रम-सन्दर्भः : **त्रिभिः सवनैः पूर्व-मध्यापराह्णेषु कृषक-कर्तृक-परिवर्तनेन इत्य् अर्थः । प्रकृति-पुरुष-संयोगानुगृहीतः पुरुषाधिष्ठित-माया-वशीकृताः ॥१॥
**विश्वनाथः : **
सूर्याद् अधोऽधः श्रीर् भानु-सिद्धादीनां स्थितिं भुवः ।
अतलादीनि सप्तापि चतुर्विंशेऽवदन् मुनिः ॥
न तद् अमरत्वं ग्रहत्वं चार्हतीति सः ॥१॥
—ओ)०(ओ—
॥ ५.२४.२ ॥
यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति।
**श्रीधरः : **ग्रहणं वक्तुम् आह—यद् अदः प्रतपतस् तरणेर् मण्डलम् । अमृत-पाने मध्य-प्रवेशेन तयोर् व्यवधानं करोतीति तथा । अत एवैताभ्यां सूचितत्वाद् वैरम् अनुबध्नातीति तथा ॥२॥
**क्रम-सन्दर्भः : **तरणेर् मण्डलं रथ-नीडाभ्यन्तर-स्थितं तेजश्-चक्रम् ॥२॥
**विश्वनाथः : **ग्रहणं वक्तुम् आह—यद् अद इति । पर्वणि अमावस्या-पौर्णमास्याः तयोर् भूतल-स्थ-जन-चक्षुषां व्यवधानं कर्तुं, अमृत-पाने मध्य-प्रवेशेन तयोर् व्यवधानं पूर्वं कृतवान् इत्य् अतः ताभ्याम् सूचितत्वाद् वैरम् अनुबध्नातीति ॥२॥
—ओ)०(ओ—
॥ ५.२४.३ ॥
तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः।
**श्रीधरः : **भागवतं चक्रं परिवर्तमानं परिभ्रमद् अभि अभिमुखं मुहूर्तम् अवस्थितः सन् । इत्य् एवम् अन्तरा तद् अवस्थानम् उपरागं ग्रहणं वदन्ति । तत्र च ऋजु-वक्र-स्थितिभ्यां सर्व-ग्रासासर्व-ग्रासौ, न तु वस्तुतो ग्रासोऽस्ति दूरान्तरत्वात् ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उभयत्र सूर्ये चन्द्रोऽपि, तत्-प्रसिद्धं चक्रं परिवर्तमानं परिभ्रमत् दृष्ट्वेति शेषः । अभि अभिमुखम् अवस्थितः सन् । तद्-अवस्थानम् एवोपरागं वदति । तत्र च ऋजु-वक्र-स्थितिभ्यां सर्व-ग्रासार्ध-ग्रसौ, न तु वस्तुतो ग्रासोऽस्ति अयुत-योजनान्तरत्वात् ॥३॥
—ओ)०(ओ—
॥ ५.२४.४ ॥
ततोऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव।
**श्रीधरः, विश्वनाथः : **तावन्-मात्रे योजनायुते ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.५ ॥
ततोऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते।
**श्रीधरः : **अन्तरिक्षं ग्रह-हीनम् । तस्यावधिम् आह—यावद् वायुः प्रवाति तीव्रो वाति । तस्याप्य् अवधिम् आह—यावन् मेघाः ॥५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.६ ॥
ततोऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति।
**श्रीधरः, विश्वनाथः : **पृथिव्या उपरि भूर्-लोकावधिम् आह—यावद् धंसादयः पार्थिवा विकाराः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.७ ॥
उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति।
**श्रीधरः : **योजनायुतान्तरेण प्रत्येकम् उच्छ्रिताः । आयामो यः कटाहस्य तावद् विस्तारेण॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अधस्तात् अधोऽधोऽवयवेष्व् इत्य् अर्थः । भू-विवरा भुवो विवर-भूतान्य् एवातलादीनीत्य् अर्थः । योजनायुतान्तरेण योजनायुतावधाव् इत्य् अर्थः । अन्तरम् अवकाशावधि इत्य् अमरः । भूतलाद् योजनायुतावधौ अतलं तस्माद् योजनायुतावधौ वितलम् इत्य् एवम् आयाम-विस्तारेणापि योजनायुतावधिना उपकॢप्ता दैर्घ्य-विशालताभ्यां समा एवेत्य् अर्थः । उच्छ्रितत्वं तु यथा-सम्भवं ज्ञेयम् ॥७॥
—ओ)०(ओ—
॥ ५.२४.८ ॥
एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-भवनोद्यानाक्रीड-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति।
**श्रीधरः : **सामान्येन विवराणि वर्णयति—एतेष्व् इत्य्-आदिना । अथातल इत्य् अतः प्राक्तनेन ग्रन्थेन । एतेषु दित्यादयो निवसन्तीत्य् अन्वयः । कथं-भूतेषु ? अधिकः काम-भोगश् च ऐश्वर्यानन्दश् च विभूतिश् च संपत्तिस् तैः सुसमृद्धा भवनादयो येषु । कथं-भूताः? नित्य-प्रमुदिता अनुरक्ताः कलत्रादयो येषाम् । न प्रतिहतः कामो येषाम् । मायया विनोदो येषाम् ॥८॥
**क्रम-सन्दर्भः : **ईश्वरात् समर्थाद् अपि ॥८॥
**विश्वनाथः : **सामान्येन विवराणि वर्णयति—एतेष्व् इत्य्-आदिना । भूतिः प्रभावः । विभूतिः सम्पत्तिः । ईश्वराद् इन्द्रादेर् अपि ॥८॥
—ओ)०(ओ—
॥ ५.२४.९ ॥
येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति।
**श्रीधरः : **किं च, हे महाराज ! येषु मयेन निर्मिताः पुरश् च चकासतीत्य् अन्वयः । कथं-भूताः ? नाना ये मणि-प्रवरास् तेषां प्रवेका मुख्यास् तैर् विरचितैर् विचित्रैर् भवनादिभिस् तथा विवरेश्वराणां गृहोत्तमैश् च समलङ्कृताः । कीदृशैर् ? नागाश् चासुराश् च मिथुन-भूताः पारावतादयश् च तैर् आकीऋणाः कृत्रिमा भूमयो येषु तैः । पाठान्तरे नाना-स्वनत्वं मिथुन-विशेषणम् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **येषु परश् चकासतीत्य् अन्वयः । कीदृश्यः ? नाना-भूतेषु मणि-प्रवरेषु मणि-प्रवरेष्व् अपि ये प्रवेका मुख्याः, तैर् विरचिता विचित्रा ये भवनादयस् तैर् गृहोत्तमैश् चालङ्कृताः । कीदृशैर् गृहोत्तमैः ? नागाश् चासुराश् च मिथुन-भूताः पारावतादयश् च तैर् आकीऋणाः कृत्रिमा भूमयो येषु, तैः । नाना-स्वन इति पाठः सुगमः ॥९॥
—ओ)०(ओ—
॥ ५.२४.१० ॥
उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि।
**श्रीधरः : **उद्यानानि चातितराम् अमर-लोक-श्रियम् अतिशयितानि येषु चकासतीत्य् अन्वयः । काभिः श्रीभिः ? केषाम् ? कुसुम-फल-स्तवकाश् च सुभग-किसलयानि च तैर् अवनता रुचिरा विटपा येषां तेषां विटपिनाम् । उतानाम् अङ्गैर् आलिङ्गतानां श्रीबिः । तथा स-मिथुनाश् चक्रवाकादि-मिथुन-सहिता ये विविधा विहङ्गास् तद्-युक्तानां जलाशयानां च श्रीभिः । कीदृशानाम् ? अमलैर् जलैः पूर्णानाम् । पुनर् अपि कैर् अतिशयितानि ? झष-कुलोल्लङ्घनेन क्षुभितं यज् जलाशयानां नीरं तस्मिन् यानि नीरजादीनि तेषां वनेषु कृतं निकेतनं यैस् तेषाम् अर्थात् पक्षिणाम् एकोऽखण्डो यो विहारस् तेनाकुलाश् च ते मधुराश् च विविधाः स्वनादयस् तैर् ये इन्द्रियोत्सवास् तैश् च । यद् वा, स-मिथुनेत्य्-आदेर् उत्तरेणैव संबन्धः । मन इन्द्रियानन्दिभिर् इति स्व-नादीनां विशेषणम् । तत्र नीर-जं सामान्येन कमलम् । लोहितं शत-पत्रं तद्-विशेषः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यासु उद्यानानि अमर-लोक-श्रियम् अतिशयितानि अतिक्रान्तानि चकासतीत्य् अन्वयः । काभिः ? कुसुमादिभिर् अवनता रुचिरा विटपा येषां तेषां विटपिनाम् श्रीबिः, मन इन्द्रियानन्दिभिर् इति पुंस्त्वम् आर्षम् । तथा स-मिथुना स-स्त्री-पुंसा विविधा विहङ्गमा येषां तेषां जलाशयानां झषकुलोल्लङ्घनैः क्षुभितेषु नीरेषु यानि नीरजादि-वनानि, तेषु कृत-निकेतनानां, अर्थात् पक्षिणाम् एकोऽखण्डो यो विहारस् तेनाकुला मधुरा विविधाः स्वनादयस् तैर् ये इन्द्रियोत्सवास् तैश् च । अत्र लोहितं शत-पत्रं च नीरज-विशेषौ लौहित्य-दल-शतकवत् ताभ्याम् ॥१०॥
—ओ)०(ओ—
॥ ५.२४.११ ॥
यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते।
**श्रीधरः : **अहो-रात्रादिभिर् यद् भयं तन् नोपलक्ष्यते । सूर्याद्य्-अभावात् ॥११॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.१२ ॥
यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.१३ ॥
न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयोऽवस्थाश् च भवन्ति।
**श्रीधरः : **क्लमः श्रमः । ग्लानिर् अनुत्साहः ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एतेषु वसतां दिव्यौषधि-रसायनयोर् अशनाद् एव हेतोर् अन्न-पानादिभिर् अप्य् आधिव्याधयो न भवन्ति । तथा हि विविधा वयोवस्थाश् च न तत्र प्रथमा बली-प्रभृतयश् चरमाः द्वितीया देह-वैवर्ण्यादयोऽचरमाः क्लमः श्रमः ग्लानिर् हर्यक्षयः ॥१३॥
—ओ)०(ओ—
॥ ५.२४.१४ ॥
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात्।
**श्रीधरः : **कल्याणानां मङ्गल-रूपाणाम् ॥१४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२४.१५ ॥
यस्मिन् प्रविष्टेऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च।
**श्रीधरः : **यस्मिन् भगवत्-तेजसि प्रविष्टे । पुं-सवनानि गर्भाः, आ-चतुर्थाद् भवेत् स्रावः पातः पञ्चम-षष्ठयोः इति स्रावपातौ ज्ञेयौ ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पुंसवनानि गर्भाः, , आ-चतुर्थाद् भवेत् स्रावः पातः पञ्चम-षष्ठयोः इति स्रावपातौ ज्ञेयौ ॥१५॥
—ओ)०(ओ—
॥ ५.२४.१६ ॥
अथातले मय-पुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव।
**श्रीधरः : **स-वर्णे रताः स्वैरिण्यः कामिन्यस् त्व् असवर्णेऽपि । तत्राप्य् अतिचञ्चलाः पुंश्-चल्यः । बिलायनं बिलायतनम् । साधयित्वा संभोग-समर्थं कृत्वा । स्वे ये असाधारणा विलासास् तत्-पूर्वकोऽवलोकः, तेनानुराग-युक्तं स्मितं, तेन संलाप उपगूहनं च, तद्-आदिभिः । यस्मिन् हाटकाख्ये रसे उपयुक्ते सेविते ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सवर्णे रताः स्वैरिण्यः कामिन्यस् त्व् असवर्णेऽपि, तत्राप्य् अतिचञ्चलाः पुंश्चल्यः । बिलायनं स्व-विलय-रूपम् आयतनं साधयित्वा स्व-संभोग-समर्थं कृत्वा । यस्मिन् रसे उपयुक्ते सेविते सति ॥१६॥
—ओ)०(ओ—
॥ ५.२४.१७ ॥
ततोऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाक्व्ह्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति।
**श्रीधरः : **भवयोर् भवस्य भवान्याश् च । चित्र-भानुर् अग्निः । तेन निष्ठ्यूतं फूत् कृत्य त्यक्तम् । असुरेन्द्राणाम् अवरोधेष्व् अन्तः पुरेषु । पुरुषीबिः स्त्रीभिः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **चित्रभानुर् अग्निः पिबति संशोष्य कठिनीकरोति । तेन अग्निना निष्ठ्यूतं दाहोत्तीर्णीकृतम् । यद् वा, ताभ्याम् भव-भवानीभ्यां फूत्-कृत्य त्यक्तम्, भूषणेन रत्नालङ्कारेण सह अत्यादरात् ॥१७॥
—ओ)०(ओ—
॥ ५.२४.१८ ॥
**ततोऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् **
**भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेन, **
**अदितेर् लब्ध-कायो भूत्वा, **
**बटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो **
**भगवद्-अनुकम्पयैव पुनः प्रवेशित **
**इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः **
**स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् **
अपगत-साध्वस आस्तेऽधुनापि।
श्रीधरः : सुतले बलिर् अधुनाप्य् आस्त इत्य् अन्वयः । कथं-भूतः ? महेन्द्रस्य प्रियं कर्तुम् इच्छता भगवता प्रथमं पराक्षिप्तम् अपहृतं लोक-त्रयं यस्य सः । पुनर् भगवतोऽनुकम्पयैव तत्र प्रवेशितः सन् । कीदृशेन ? योऽदितेः सकाशाद् भूत्वा बटु-वामन-रूपेण लब्ध-कायः, तेन ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : श्रवो यशः, अत एव पुण्याश् चारवः श्लोका वर्णनार्थक-पद्यानि यस्य सः । प्रवेशित इति सुतलम् एवेति शेषः ॥१८॥
—ओ)०(ओ—
॥ ५.२४.१९ ॥
नो एवैतत्1** साक्षात्कारो भूमि-दानस्य **
**यत् तद् भगवत्य् अशेष-जीव-निकायानां **
**जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे **
पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम्।
**श्रीधरः : **केचित् तस्य सुतल-राज्यं भूमि-दान-फलं मन्यन्ते । तन् निराकरोति—नो एवैतद् इति । यद् बिल-निलये विवर-स्थाने ऐश्वर्यम् एतद् भूमि-दानस्य साक्षात्कारः फलं न भवत्य् एव । कुतः ? इत्य् अपेक्षायाम् एवं-भूतस्य दानस्य साक्षाद् अपवर्ग-हेतुत्वाद् इत्य् आह। यत् तत् प्रसिद्धं दानं, तस्य । तद् एवाह—भगवत्य् अशेष-जीव-निकायानां जीव-भूतश् चासाव् आत्म-भूतश् च सर्व-जीव-नियन्ता चासाव् आत्मारामश् चेत्य् अर्थः । तस्मिन् संप्रतिपादितस्य ॥१९॥
क्रम-सन्दर्भः : नो एवैतावद् एतावन्-मात्रम् इत्य् अर्थः ॥१९॥
**विश्वनाथः : **कैश्चित् तस्य तादृश-बिल-स्वर्ग-भोग-प्राप्तिर् भूमि-दान-फलं मन्यते, तन् निराकरोति—नो एवैतावद् इति । यद् बिल-निलयैश्वर्यम् एतद् भूमि-दानस्य साक्षात्कारः फलं न भवति, यद् भूमि-दानं तद् अतिप्रसिद्धम्2 इत्य् अन्वयः ।
अत्र भूमि-पदेन त्रिभुवनम् एवोपलक्षितम् । अत्र वेद-विज्ञ-ब्राह्मण-मात्रे एव भू-प्रदेश-दानाद् अक्षयः प्रसिद्ध-स्वर्ग-भोगो लभ्यते इति शास्त्रे श्रवणाद् भगवति त्रिभुवन-दान-जन्म-फलस्य सुतलैश्वर्य-भोगा एव पर्याप्तेर् असम्भावितत्वाद् अपवर्गस्यैव फलत्वम् । किं च, अस्यानुषङ्गिकस्यापि सुतलैश्वर्य-भोगस्य सर्व-स्वर्ग-भोगेभ्योऽपि परम एवोत्कर्षो ध्वनितः ।
भूमि-दानस्य कथम्-भूतस्य ? भगवति वासुदेवे प्रतिपादितस्य जीव-भूतो जीवन-रूपो य आत्मा अन्तर्यामी तद्-भूतेन परमात्मनि, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य् उक्तेर् अन्तर्यामिणोऽप्य् अंशित्वात् परमः सर्वोत्कृष्टश् चासाव् आत्मा चेति तस्मिन्न् उपपन्ने परम-समुचिते तीर्थतमे परम-पावने फलं न भवतीति । अत्र हेतुः–
साक्षाद् अपवर्ग- इति । तत्र पुष्पादि-दानस्याप्य् अपवर्ग-फलदत्वाद् अत्रातिकैमुत्यम् एवेति भावः ॥१९॥
—ओ)०(ओ—
॥ ५.२४.२० ॥
**यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु **
**विवशः सकृन् नामाभिगृणन् पुरुषः **
**कर्म-बन्धनम् अञ्जसा विधुनोति, **
**यस्य हैव प्रतिबाधनं **
मुमुक्षवोऽन्यथैवोपलभन्ते,
**श्रीधरः : **किं च, यस्य नाम क्षुद्-आदिषु च विवशोऽपि सकृद् अपि गृणन् कर्म-बन्धं विधुनोति । कथं-भूतः ? यस्य प्रतिबाधनं त्व् इह मुमुक्षवोऽन्यथैवोपलभन्ते । यन्-निवृत्त्य्-अर्थं योग-साङ्ख्यादि-क्लेशान् अनुभवन्तीत्य् अर्थः, तं कर्म-बन्धं त्यजति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्रैलोक्य-दानस्य का वार्ता ? भक्त्या पत्र-पुष्पाद्य्-अर्पणम् अपि दूरे वर्ततां नामाभासोऽपि सुकृतिभिर् दुर्वारं कर्म-बन्धम् अपि अनायासेनैव ध्वंसयतीत्य् आह—यस्येति । न च कर्म-बन्धोऽपि सुगम-प्रतीकार इत्य् आह—यस्य कर्म-बन्धनस्य प्रतिबाधनं सर्वथा ध्वंसनं मुमुक्षव एव, न तु भूमि-दानादि-सुकृत-कोटिमन्तोऽपि । अन्यथैव इति यन् निवृत्त्य्-अर्थम् अष्टाङ्ग-योग-साङ्ख्यादि-क्लेशान् अनुभवन्तीत्य् अर्थः ॥२०॥
—ओ)०(ओ—
॥ ५.२४.२१ ॥
तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव।3
श्रीधरः : तत् तस्मिन् भगवति भक्तानां [आत्मवतां] ज्ञानिनां च यथायथम् आत्मन्य् आत्मदे ज्ञानदे च** आत्मतयैव** समर्पितस्य भूमि-दानस्य न तत् फलम् इति पूर्वेणैव सम्बन्धः ॥२१॥
**क्रम-सन्दर्भः : **तद् भगवताम् [?4] इति । तत् तु तस्य दानं, न चान्यस्मिन् फले निमित्ते । तत्र सर्वेषाम् आत्मनि परमात्मनि । तथापि ज्ञानिनां विविक्ततया तत्रास्फुरणाद् आत्मतमे, भक्तानां त्व् आत्मदे, वश-वर्तितया स्फुरतीति सर्वथ सर्वेषु परमोपकारक-स्वभावत्वं दर्शितम् । ततस् तेनैतादृश-तुच्छ-फल-दानं न सम्भवतीत्य् अर्थः ॥२१॥
विश्वनाथः : तत् तस्मात् सर्वेषां आत्मनि परमेश्वरे प्रतिपादितस्य भूमि-दानस्य न तत्-फलं इति पूर्वेणैवान्वयः । कथं-भूते ? भगवतां नारदादीनां भक्तानां आत्मदे वशीभूय [आत्मदे] आत्मानं अपि दत्तवति आत्मवतां सनकादीनां ज्ञानिनां आत्मतमे परमात्मानुभव-रूपे इति क्रमेण प्रेमानन्द-ब्रह्मानन्द-दायिनस् तस्य तद्-विषयानन्द-मात्र-फल-दायित्वं कथं घटताम् ? अतो बलिराजाय स्व-वशीकार-मय-प्रेमानन्दं खलु भूमि-दानस्य फलं ददौ, यतः स्व-भक्तस्य तस्य स्वयं द्वार-पालो बभूवेति भावः ॥२१॥
—ओ)०(ओ—
॥ ५.२४.२२ ॥
**न वै भगवान् नूनम् अमुष्यानुजग्राह **
**यद् उत पुनर् आत्मानुस्मृति-मोषणं **
मायामय-भोगैश्वर्यम् एवातनुतेति।
**श्रीधरः : **किं च, नेदं भगवद्-अनुकम्पा-फलम् अपि, किन्त्व् एकान्त-भक्तस्य तस्यान्तराय-मात्रम् इत्य् आह—नेति । भगवान् अमुष्य अमुं नैव अनुगृहीतवान् । तत्र हेतुः—यद् उतेति । आत्मन ईश्वरस्य अनुस्मृतिं मुष्णाति इति तथा । तद् उक्तम्—
वासुदेवे मनो यस्य जप-होमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ इति ॥२२॥
**क्रम-सन्दर्भः : **तत्र पर-मतम् अनूद्य खण्डयति—न वै इति । यन् माया-मयं भोगैश्वर्यम् अतनुत इति नैवामुं बलिं प्रत्य् अनुजग्राह इति, न, किन्तु स्व-सान्निध्य-दानादिनैवेत्य् अर्थः । तत्र हेतुः—आत्मानुस्मृति-मोषणम् इति । यद् वा, तत्रेन्द्रानुग्रह-वादं खण्डयति—न वै इति । अमुष्य इन्द्रस्य तं प्रतीत्य् अर्थः ॥२१॥
**विश्वनाथः : **वस्तुतस् तु भोगैश्वर्यम् एकान्त-भक्तस्यान्तराय एवेति न तद्-भगवद्-अनुकम्पा-फलम् अतो भोगैश्वर्यादानाद् एवेन्द्रस्यैकान्तिक-भक्त्य्-अभावोऽनुमीयत इत्य् आह—नेति । अमुष्य अमुम् इन्द्रम् । तद् उक्तम्—
वासुदेवे मनो यस्य जप-होमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ इति ।
अतो वस्तुतस् त्व् एकान्त-भक्तं बलिम् एवानुजग्राहेति भावः ॥२२॥
—ओ)०(ओ—
॥ ५.२४.२३ ॥
**यत् तद् भगवतानधिगतान्योपायेन **
**याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो **
**वरुण-पाशैश् च सम्प्रतिमुक्तो **
गिरि-दर्यां चापविद्ध इति होवाच।
श्रीधरः : तस्यैकान्त-भक्तिं स-प्रपञ्चम् आह–यत् तद् इत्य्-आदिका । यत् तद् अतिप्रसिद्धम् इति वक्ष्यमाण उवाच ह इत्य् अन्वयः । कथम्भूतः ? अनधिगतोऽन्य उपायो येन, तेन भगवता याच्ञा-च्छलेनापहृतं स्व-शरीर-मात्र्आवशेषितं लोक-त्रयं यस्य । सम्यक् प्रतिमुक्तो बद्धः । अपविद्धः प्रक्षिप्तोऽपि सन् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्रैतच् छ्री-बलि-वाक्यम् एव अन्य-निन्दा-शुद्ध-भक्त-स्तवाभ्यां द्रढयन्5 प्रमाणयति—यत् तद् इति गद्य-पञ्चकेन । **यत् तद् **अतिप्रसिद्धम् इति एतद् उवाच श्री-बलिः ॥२३॥
[अत्रानुरूपार्थकं ८.२१.२६ “अथ तार्क्ष-सुतो” इत्य्-आदि-पद्यं द्रष्टव्यम् ।] ॥२३॥
—ओ)०(ओ—
॥ ५.२४.२४ ॥
**नूनं बतायं भगवान् अर्थेषु न निष्णातो **
**योऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् **
**तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो **
नो एव तद्-दास्यम् **
अति-गम्भीर-वयसः6 कालस्य मन्वन्तर-परिवृत्तं **
कियल् लोक-त्रयम् इदम्।
श्रीधरः : बतेति खेदे । भगवान् विद्वान् अपि योऽसाव् इन्द्रो यस्य एकान्तेन बृहस्पतिः सचिवः सहायो, यतो मन्त्रार्थं वृतः, सोऽपि पुरुषार्थेषु नूनं न निष्णातो न निपुणः । यत उपेन्द्रेण द्वार-भूतेन तम् उपेन्द्रं विहाय आत्मानं मां लोक-त्रयम् अयाचत । तं मन्त्र-पदं बृहस्पतिम् अतिहायेति वा । तस्मिन् प्रसन्ने स एव वरणीयो न लोक-त्रयं यतस् तद् अतितुच्छम् इत्य् आह—अतिगम्भीरम् अनन्तं रयो यस्य, तस्य कालस्य यन् मन्वन्तरं तेन परिवृत्तं विपर्यस्तं लोक-त्रयम् इदं कियत् ? ॥२४॥
क्रम-सन्दर्भः : तम् उपेन्द्रं प्रति । अतिहाय पुरुषार्थत्वेनानभिलष्य । स्वयम् उपेन्द्रेणैव द्वार-भूतेन आत्मानं मां परम-क्षुद्रं प्रति परम-क्षुद्रं लोक-त्रयम् अयाचत ॥२४॥
विश्वनाथः : भगवान् विद्वान् अपि यस्य सचिवो बृहस्पतिः सोऽपि **परमार्थेषु न निष्णातो **यस्माद् इन्द्रं प्रतियुक्तं नोपादिदेशेति भावः । यत उपेन्द्रेण द्वार-भूतेन आत्मानं मां लोक-त्रयम् अयाचत । तं उपेन्द्रम् विहायेति तं एव कथं नायाचत ? यद्य् अयाचिष्यत, तदा किं स दातुं नापारयिष्यत् ? स्व-प्रभुं तं याचकं कथम् अकरोत् ? इति भावः । तत्राप्य् आत्मन आशिषो विषय-सुखानीति परम-मोहान्ध इव स इति भावः ।
यद् वा, तं बृहस्पतिम् अपहायेति बृहस्पतिम् प्रेष्य तेनैव कथं मां नायाचत ? यदि बृहस्पतिर् माम् अयाचिष्यत, तदा तस्मै ब्राह्मणाय त्रिलोकीं किं नादास्यम् ? कथं स्वेष्ट-देवं तं याचकम् अकरोत् ? इति भावः । कामितस्य वस्तुनस् तुच्छत्वम् आह—अतिगम्भीरम् अनन्त-रयो यस्य, तस्य कालस्य यन् मन्वन्तरं, तेन परिवृत्तं पर्यन्तं लोक-त्रयम् इदं कियत् ? ॥२४॥
—ओ)०(ओ—
॥ ५.२४.२५ ॥
**यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे **
**न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं **
भगवतः परम् इति भगवतोपरते खलु स्व-पितरि।
**श्रीधरः : **प्रह्लादस् त्व् एक एवार्थे निष्णात इत्य् आह—यस्यानुदास्यम् इति । स्व-पितरि उपरते मृते सति स्व-पित्र्यं पदं भगवता दीयमानम् अपि भगवतः खलु परम् अन्यद् इति कृत्वा, न तु जग्राहेत्य् अर्थः ॥२५॥
क्रम-सन्दर्भः : अनुदास्यं नय मां निज-भृत्य-पार्श्वम् [भा।पु। ७.९.२४] इत्य् अनेन तद्-दास-दास्यम् ।7 स्व-पित्र्यं त्रैलोक्य-राज्यम् । यद् उताकुतो-भयं पदं मोक्षम् । तन् न तु वव्रे । कथं ? भगवतः परम् अन्यद् इदम् इति कृत्वा । तद्-अंशाभासस् तद्-अंश-मात्रात्मकत्वात् तयोः । कदैवं व्यवहृतम् ? इत्य् आशङ्क्याह—भगवतेति ॥२५॥
**विश्वनाथः : **किं च, अत्र जगत्य् एकः प्रह्लाद एव परमार्थे निष्णात इत्य् आह—यस्येति । उपरते मृते सति ॥२५॥
—ओ)०(ओ—
॥ ५.२४.२६ ॥
**तस्य महानुभावस्यानुपथम् अमृजित-कषायः **
को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति।
**श्रीधरः : **ननु त्वम् अतिवीरः कुतस् तम् एव बहु मन्यसे ? तत्राह—**तस्य अनुपथम् **अनुवर्त्म । अमृजिता अक्षीणाः कषाया रागादयो यस्य । परिहीणो भगवद्-अनुग्रहो यस्य । स को वा [उपजिगमिषतीति] उपगन्तुम् इच्छतीति ? ॥२६॥
**क्रम-सन्दर्भः : ** परि सर्वतो-भावेन हीनस् त्यक्तो नात्यादृतो भगवद्-अनुग्रहो येन सः । अनुग्रहः प्रार्थनादि-बन्धनान्तः ॥२६॥
**विश्वनाथः : **ननु त्वम् अपि प्रह्लाद-सदृश एवेति तत्र स-त्रपं स-दैन्यम् आह—तस्येति । अनुपथम् अनुरूपं वर्त्म । तस्य बलेः ॥२६॥
—ओ)०(ओ—
॥ ५.२४.२७ ॥
**तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते **
**यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो **
**द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो **
**येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं **
दिग्-विजय उच्चाटितः।
**श्रीधरः : **अथ शुक्रोक्तिः । नन्व् एवंभूतश् चेद् बलिस् तर्हि तस्यैव चरितं विस्तरेण कथ्यतां, तत्राह । तस्य बलेर् अनुचरितम् उपरिष्टाद् अष्टमे विस्तरिष्यते । यस्य द्वार्य् अवतिष्ठते निज-जनेष्व् अनुकम्पितं कृतानुकम्पं हृदयं यस्य । द्वार-पाल-कर्म दर्शयति—येन श्री-नारायणेन बलेर् द्वारि विशन् दशकन्धर उच्चाटितः । केन पदा ? तत्राप्य् अङ्गुष्ठेनैव ॥२७॥
वंशीधरः : विशन् दिग्-विजयावसरे । उच्चाटितः प्रक्षिप्तः । अयुतायुत्तं कोटिः । यत् तूत्तर-काण्डे वाल्मिकीये उक्तं–
नैनं हन्म्य् अधुना पापं चिन्तयित्वेति रूपधृक् ।
अन्तर्धानं गतो राम ब्राह्मणः प्रिय-काम्यया ॥
न च तं पुरुषं तत्र पश्यते रजनीचरः ।
हर्षान् नाअं विमुञ्चन् वै निष्क्रामद् वरुणालयात् ॥
येनैव स प्रविष्टः सन् पथा तेनैव निर्ययौ ॥
इति तत्-कल्पान्तराभिप्रायम् इति ध्येयम् ॥२७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
[अत्रानुरूपार्थकं ८.२३.१० “नित्यं द्रष्टासि” इत्य्-आदि-पद्यं द्रष्टव्यम् ।]
—ओ)०(ओ—
॥ ५.२४.२८ ॥
ततोऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते।
**श्रीधरः : **यथा हरिणा स्व-भक्तो बलिः सुतले निहितः सुखम् आस्ते एवं महादेव-भक्तोऽपि मयस् तलातले सुखम् आस्त इत्य् आह—तत इति । लब्धं पदं स्थानं येन । महीयते पूज्यते ॥२८॥
**क्रम-सन्दर्भः : **मयस् तु मायावीति महेश-प्रसादाभासेन तलातले व्यवहार-सुखेन तिष्ठन्न् अपि, न तु श्री-बलिवत् परमार्थ-सुख-सम्पन्न इति दर्शयितुम् आह—ततोऽधस्ताद् इति । विगतेति । महा-देवस्य महा-भागवतस्यानुरोधाद् इति भावः ॥२८॥
**विश्वनाथः : **महीयते पूज्यते ॥२८॥
—ओ)०(ओ—
॥ ५.२४.२९ ॥
ततोऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोध-वशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति।
**श्रीधरः : **नैक-शिरसाम् अनेक-फणानां गणेऽस्ति । एतत् प्रपञ्चयति—कुहकेति । महा-भोगवन्तो महा-कायाः । पुरुष-वाहात् हरेर् वाहनात् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नैक-शिरसाम् अनेक-फणानाम् । एतत् प्रपञ्चयति—कुहकेति । पुरुष-वाहात् हरेर् वाहनात् ॥२९॥
—ओ)०(ओ—
॥ ५.२४.३० ॥
ततोऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति।
**श्रीधरः : **विबुध-प्रत्य्-अनीका देव-शत्रवः सकलेष्व् अपि लोकेष्व् अनुभावो यस्य तस्यैव तेजसा सुदर्शनेन प्रतिहतो बलावलेपो वीर्य-मदो येषाम् । बिलेशयाः सर्पा इव । इन्द्र-दूत्या प्रयुक्ताभिर् मन्त्र-रूपाभिर् वाग्भिः । एवं हि वैदिकम् आख्यानम् । पणिभिर् असुरैर् निगूढां गामन्वेष्टुं सरमां देव-शुनीम् इन्द्रेण प्रहितां सन्धिम् इच्छन्तः पणयः प्राहुः, किम् इच्छन्ती सरमा इत्य्-आदि । सा च सन्धिम् अनिच्छन्तीन्द्र-स्तुति-पूर्वकं तान् प्रति परुषम् आह—हता इन्द्रेण पणयः शयध्वम् इत्य्-आदि । ते च तच् छ्रुत्वा बिभ्यतीति ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दैतेयादयोऽसुर-भेदाः प्रत्यनीकाआः शत्रवः । इन्द्र-दूत्या प्रयुक्ताभिर् मन्त्र-रूपाभिर् वाग्भिः । एवं हि वैदिकम् आख्यानं । पणिभिर् असुरैर् निगूढं गाम् अन्वेष्टुं सरमां देव-शुनीम् इन्द्रेण प्रहितां सन्धिम् इच्छन्तः पणयः प्राहुः—किम् इच्छन्ती सरमेत्य्-आदि । सा च सन्धिम् अनिच्छन्ती इन्द्र-स्तुति-पूर्वकं तान् प्रति परुषम् आह—हता इन्द्रेण पणयः पलायध्वम् इत्य्-आदि । ते च तच् छ्रुत्वा बिभ्यतीति ॥३०॥
—ओ)०(ओ—
॥ ५.२४.३१ ॥
ततोऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-धृतराष्ट्र-शङ्खचूड-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति।
**श्रीधरः : **महा-भोगिनो महा-फणाः । महान् अमर्षः क्रोधो येषाम् । पञ्चादि-सङ्ख्यानि शीर्षाणि येषाम् । शीर्ष्णाम् इति वक्तव्ये शीर्षाणाम् इत्य् आर्षः ॥३१॥
**क्रम-सन्दर्भः : **शीर्षस्य शीर्षंश् छन्दसि [पा। ६.१.६०] इति भगवान् पाणिनिः ॥२९॥
**विश्वनाथः : **महा-भोगिनो महा-फणाः ॥३१॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमस्य चतुर्विंशः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
विवर-तलोपवर्णनं नाम
चतुर्विंशोऽध्यायः ।
॥ ५.२४ ॥
(५.२५)
-
एवैतावत् इति ज्ग् अन्द् व्च्त्। ↩︎
-
इति प्रसिद्धम् ↩︎
-
सेए नेxत् नोते। बोथ् क्स् अन्द् व्च्त् अप्पेअर् तो बे रेअदिन्ग् आत्मतमे ओर् आत्मतम एव। ↩︎
-
अल्ल् एदितिओन्स् हवे भगवताम्, wहिछ् इ wओउल्द् थिन्क् इस् अ स्च्रिबल् एर्रोर् फ़ोर् भक्तानाम्। (ज्) बुत् व्च्त् अल्सो सेएम्स् तो बे रेअदिन्ग् भगवताम् फ़्रोम् थे वेर्से। सो थिस् इस् अन् उन्नोतेद् अल्तेर्नतिवे रेअदिन्ग्। ↩︎
-
“अन्य-निन्दा-शुद्ध-भक्त-स्तवाभ्यां द्रढयन्” इत्य् अंशः सर्वेषु संस्करणेषु नास्ति। ↩︎
-
रयसः (स्स्, व्च्त्) ↩︎
-
एतद् वाक्यं कस्मिंश्चित् संस्करणे नास्ति। ↩︎