२३ शिशुमार-संस्थानम्

॥ ५.२३.१ ॥

श्री-शुक उवाच—

अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः।

**श्रीधरः : **

त्रयोविंशे ध्रुव-स्थानं ज्योतिश् चक्राश्रयं ततः ।

शिशुमार-स्वरूपेण हरेश् च स्थितिर् उच्यते ॥*॥

यत् तत् प्रसिद्धं विष्णोः पदम् । यत्र ध्रुव उपास्ते तिष्ठतीत्य् अन्वयः । समकालम् एव युज्यन्त इति तथा तैर् नक्षत्र-रूपैः ॥१॥

**क्रम-सन्दर्भः : **त्रिभिः सवनैः पूर्वमध्यापराह्णेषु कृषककर्तृकपरिवर्त्तनेनेत्य् अर्थः । प्रकृतिपुरुषसंयोगानुगृहीतः पुरुषाधिष्ठितमायावशीकृताः ।

**विश्वनाथः : **

ध्रुव-लोकं त्रयोविंशे प्राह विष्णु-पदाभिधम् ।

शिशुमाराकारतया ज्योतिश् चक्रं च दर्शितम् ॥*॥

त्रयोदशेति भूतलाद् एकोनचत्वारिंशल्-लक्षे ॥१॥

—ओ)०(ओ—

॥ ५.२३.२ ॥

स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते।

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सम-कालम् एव युज्यन्त इति तैर् आग्न्यादिभिर् नक्षत्र-रूपैः । स्थाणुर् इवेति श्लेषेण काल-चक्रेण चालयितुम् अशक्यत्वात् स एवैकः स्थिर इत्य् अर्थः । प्रत्युत काल-चक्रस्यावष्टम्भः । तेन सर्वे काल-चक्राधीनाः ध्रुवस् तु काल-चक्रम् अप्य् अधीनीकरोतीति ध्वनिः । नन्व् ईदृशी योग्यता तस्य कथम् अभूत् तत्राह—ईश्वरेण कर्तुम् अकर्तुम् अन्यथा कर्तुम् अपि समर्थेन विहितः स्व-भक्तोत्कर्ष-ख्यापनार्थम् इति भावः ॥२॥

—ओ)०(ओ—

॥ ५.२३.३ ॥

यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति।

**श्रीधरः : **मेढी-स्तम्भे बद्धा धान्याक्रमण-पशवो बलीवर्दाः । कर्म सारथिः सहायो येषाम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **धान्याद्य्-आक्रमण-पशवो बलीवर्दाः खल-मध्य-निखात-स्तम्भो मेढी, तत्र संयोजिताः कृषीबलेनेत्य् अर्थः । त्रिभिः सवनैर् मेढी-स्तम्भ-निकट-मध्य-दूर-वर्तिभिर् विभागैः यथा-स्थानं स्व-स्व-स्थान-स्थितिम् अनतिक्रम्य चरन्ति, दार्ष्टान्तिके त्रिभिः सवनैर् उत्तरायण-वैषुव-दक्षिणायनैः समयैः । अन्तर् अधोऽधः स्थलं बहिर् उपर्य्-उपरितनं स्थलं तत्र योगेन स्थित्या काल-चक्र एव योजिताः । यथा सप्तर्षीणाम् अधोऽधः स्थित्या आयोजिताः शनैश्चरादयः, तथा सूर्यादीनां उपर्य्-उपरि-स्थित्या आयोजिताः सोमादयः, तत्र तत्र आयोजिताः ईश्वरेणैव वायुना तु उदीर्यमाणाश् चाल्यमाणाः । ननु क्थं तेऽन्तरीक्षान् न पतन्ति ? तत्राह—नभसीति । कर्म-सारथयः कर्म-सहायाः ॥३॥

—ओ)०(ओ—

॥ ५.२३.४ ॥

केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति।

**श्रीधरः : **ईश्वराधारत्वात् पतन-शङ्कैव नास्तीति वक्तुं मतान्तरम् आह—केचनेति । ज्योतिर्-अनीकं ज्योतिश्-चक्रम् । योग-धारणायां स्थितम् इति शेषः ॥४॥

**क्रम-सन्दर्भः : **शिशुमार-संस्थानेनोपलक्षितं योग-धारणायां विराड्वद् उपासनावेशार्थे यथेष्ट-कल्पना-मात्र-मय्यां तस्याम् इत्य् अर्थः । अत एव मनसि चन्द्र इति वक्ष्यमाणेन मनोऽपि कल्पयिष्यते स्पष्टम् अपि वक्ष्यते एतद् उ हैव [भा।पु। ५.२३.८]इति ॥४॥

**विश्वनाथः : **ज्योतिर्-अनीकं ज्योतिश्-चक्रम् ॥४॥

—ओ)०(ओ—

॥ ५.२३.५ ॥

यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः; तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये; यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति; पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः।

**श्रीधरः : **लाङ्गूले अग्राद् अधो-भागे । उदगयनान्य् अभिजिद्-आदीनि पुनर्वस्व्-अन्तानि चतुर्दश दक्षिण-पार्श्वे । दक्षिणायनानि पुष्यादीन्य् उत्तराषाढान्तानि चतुर्दश वाम-पार्श्वे ॥५॥

**क्रम-सन्दर्भः : **तत्र कुण्डली-भूतत्वं पार्श्वतः, न तु पृष्ठतः क्रोडतो वा । अत एव दक्षिण-पार्श्व उदगयनानि मन्तव्यानि । अत्र यद् वैपरीत्यं दृश्यते, तत् तु मण्डलत्वेऽपि तिर्यग्-ऊर्ध्वाधो बहुधा वक्रत्वं मन्तव्यम् । अतो नारायणादीनां हृदयादौ स्थितत्वम् इति । अज-वीथी दक्षिण-मार्गस्य प्रथमो भागः । मूल-षाढोत्तराषाढा अज-वीथीति शब्दिता इति तत्रोक्तेः । अग्रे तु यद् एषां कर्णादौ स्थितिर् वक्ष्यते, तत्र तत्रापि तत्-तद्-अङ्गस्य क्रोड-भागो मन्तव्यः । आकाश-गङ्गायाश् च क्रोड-संस्थत्वं तत्रागमनात् ।_।_५॥

**विश्वनाथः : **लाङ्गुलेऽग्राद् अधो-देशे उदगयनान्य् अभिजिद्-आदीनि पुनर्वस्व्-अन्तानि चतुर्दश दक्षिण-पार्श्वे । दक्षिणायनानि पुष्यादीन्य् उत्तराषाढान्तानि चतुर्दश वाम-पार्श्वे । अज-वीथी दक्षिण-मार्गस्य प्रथमो भागः ॥५॥

—ओ)०(ओ—

॥ ५.२३.६ ॥

पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-उत्तराषाढे दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-पूर्वाषाढे दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत्।

**श्रीधरः : **तद् एव स्थान-विशेषेण विभज्य दर्शयति—पुनर्वसु-पुष्याव् इत्य्-आदिना । पुनर्वसुर् उदग्-अयनान्त्यं नक्षत्रम् । पुष्यो दक्षिणायनस्याद्यम् । आर्द्राश्लेषे तयोर् निरन्तरे अभिजिद्-उत्तराषाढे उत्तर-दक्षिणायनयोर् आद्य्-अन्त-नक्षत्रे । श्रवण-पूर्वाषाढे तयोर् उत्तर-पूर्वे । धनिष्ठामूलं च तयोर् अप्य् उत्तर-पूर्वे । मघादीनि यान्य् अनुराधान् तानि दक्षिणायनान्य् अष्ट तानि वाम-पार्श्व-वङ्क्रिषु वाम-पार्श्वास्थिषु । मृग-शीर्षादीनि प्रातिलोम्येन पूर्वाभाद्र-पदान्तानि यान्य् उदग्-अयन-नक्षत्राण्य् अष्ट तानि दक्षिण-पार्श्व-वङ्क्रिषु शत-भिषग् ज्येष्ठे उत्तर-दक्षिणायनयोर् येऽवशिष्टे ते स्कन्धयोः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उक्तान्य् एव नक्षत्र-स्थानानि विशेषेण विभज्य दर्शयति—पुनर्वसु-पुष्याव् इत्य्-आदिना । वाम-पार्श्वस्य वध्रिषु अस्थिषु प्रातिलोम्येन मृगशिरो रोहिणी कृत्तिकेत्य् एवं व्युत्क्रमेण पूर्व-भाद्रपदान्तान्य् अष्ट दक्षिण-पार्श्वास्थिषु ॥६॥

—ओ)०(ओ—

॥ ५.२३.७ ॥

उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः।

**श्रीधरः : **यमो नक्षत्र-रूपः । तथा नारायणोऽश्विनौ च । ककुदि गल-पृष्ठ-शृङ्गे ॥७॥

**क्रम-सन्दर्भः : **अङ्गारकादीनां राश्यन्तर-चलनत्वेऽपि तत्-तद्-अङ्ग-स्थितत्वम् अङ्गानां चलनत्व-मननात् ॥७॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२३.८ ॥

एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति।

**श्रीधरः : **ज्योतिषो लोकायाश्रयाय । कालायनाय काल-चक्र-रूपाय । “नमोभि धीमहि” इति मन्त्रेणोपतिष्ठेत ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२३.९ ॥

ग्रहर्क्षतारामयम् आधिदैविकं
पापापहं मन्त्र-कृतां त्रि-कालम् ।
नमस्यतः स्मरतो वा त्रि-कालं
नश्येत तत्-कालजम् आशु पापम् ॥

**श्रीधरः : **मन्त्र-कृतां पूर्वोक्तं मन्त्रं जपताम् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मन्त्र-कृतां पूर्वोक्त-मन्त्रं जपतां पापापहम् । आधिदैविकं परमेश्वरस्य रूपम् इदं नमस्यतः स्मरतो वा पुंसः पापं नश्येतेत्य् अन्वयः । अत्र सूर्य-मण्डलाद् अष्टत्रिंशल्-लक्षे ध्रुवः । ध्रुवात् कोटि-योजने महर्-लोकः, महर्-लोकात् कोटि-द्वये जन-लोकः, जन-लोकात् कोट्य्-अष्टके तपो-लोकः, तपो-लोकात् द्वादश-कोटिषु सत्य-लोकः ।

एवं सूर्यात् सत्य-लोक-पर्यन्तम् अष्ट-त्रिंशल्-लक्षोत्तर-त्रयोविंशति-कोट्यः सत्य-लोकात् द्विषष्टि-लक्षोत्तरायां कोटौ वैकुण्ठ-स्थतोऽण्ड-गोलक इति श्री-विष्णु-पुराणे दर्शितया दृशा सूर्यात् पञ्चविंशतौ कोटिषु कटाहः । एवं सूर्याल् लक्षे भूतलं, ततः सप्त सप्तति-सहस्रेषु सप्त-पातालानि ततस् त्रिंशत्-सहस्रेषु शेषः । एवं सूर्लाल् लक्ष-द्वये गर्भोदः । स च लक्ष-द्वय-न्यून-पञ्च-विंशति-कोटि-परिमितः । एवं मिलित्वा ऊर्ध्वाधः-पञ्चाशत्-कोटि-प्रमाणम् अण्ड-गोलकम् इति ॥९॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तर्योविंशः पञ्चमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे

शिशुमार-संस्थानं नाम

त्रयोविंशोऽध्यायः ।

॥ ५.२३ ॥

(५.२४)