॥ ५.२२.१ ॥
राजोवाच—
यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति।
**श्रीधरः : **
द्वाविंशे सोम-शुक्रादेः स्थान-माहोत्तरोत्तरम् ।
तत् तद् गत्य्-अनुसारेण इष्टानिष्टे तथा नृणाम् ॥
राशीनाम् अभिमुखम् अप्रदक्षिणं चोपवर्णितं सव्येन चलन् दक्षिणेन करोतीति वदता । अमुष्य वयं कथम् अनुमिमीमहि एतत् कथं ज्ञास्यामो, विरुद्धत्वाद् इत्य् अर्थः ॥१॥
**क्रम-सन्दर्भः : **अभिमुखम् अत्र प्रदक्षिणम् इत्य् अर्थः ॥१॥
**विश्वनाथः : **
द्वाविंशे चक्र-सूर्याद्योर् गति-भेद-व्यवस्थितिः ।
ग्रहाणां स्थानम् एषां चेष्टत्वानिष्टत्वम् ईर्यते ॥
पूर्वाध्याये सव्येन चलन् दक्षिणेन करोतीत्य् अत्र संशयमानः पृच्छति—यद् एतद् इति । प्रदक्षिणेन परिक्रमत इति प्रत्यहं दृश्यमानत्वात् । राशीनाम् अभिमुखम् अप्रदक्षिणं प्रचलनम् अमुष्य त्वया वर्णितं, एतत् कथम् अनुमिमीमहि ज्ञास्यामः ? विरुद्धत्वाद् इत्य् अर्थः ॥१॥
—ओ)०(ओ—
॥ ५.२२.२ ॥
स होवाच—
यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात्।
**श्रीधरः : **चक्र-वशात् स्वतश् च गति-द्वयम् अविरुद्धम् इति परिहारार्थः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स एकः ह स्पष्टम् उवाच—सह भ्रमतां चक्र-वैपरीत्येन चलतां चक्र-वशात् स्वतश् चेति गति-द्वयम् अविरुद्धम् इति वाक्यथार्थः ॥२॥
—ओ)०(ओ—
॥ ५.२२.३ ॥
स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति।
**श्रीधरः : **तत्-तत्-काल-नियमेन कर्मणां विशुद्धेः साद्-गुण्यस्य निमित्त-भूतम् आत्मानं विभज्य । विजिज्ञास्यमानो वितर्क्यमाणः । यथोपजोषं यथा-कर्म-भोगम् । ऋतु-गुणान् शीतोष्णादीन् ॥३॥
**क्रम-सन्दर्भः : **साक्षान् नारायणः सूर्य-रूपो विष्णुः ॥३॥
**विश्वनाथः : **स प्रसिद्धः एष काल-रूपी भगवान् कर्मणां विशुद्देर् निमित्तं तेषां तत्-तत्-काल-नियतत्वाद् इत्य् अर्थः । द्वादशधा विभज्य ऋतु-रूपेण षोढा च विभज्य यथोपजोषं यथा-कर्म-भोगं ऋतु-गुणान् शीतोष्णादीन् ॥३॥
—ओ)०(ओ—
॥ ५.२२.४ ॥
तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति।
**श्रीधरः : **वर्णाश्रमाचारानुवर्तिनः पुरुषास् त्रय्या आम्नातैः कर्मभिर् इन्द्रादि-रूपं योग-वितानैश् च ध्यानादिभिर् अन्तर्यामि-रूपं पूजयन्तः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनुपथा अनुवर्तिनः त्रय्या आम्नातैः कर्मभिर् एनं सूर्यम् एव इन्द्रादि-रूपं योग-वितानैश् चाष्टाङ्गैर् अन्तर्यामि-रूपं च यजन्तः ॥४॥
—ओ)०(ओ—
॥ ५.२२.५ ॥
अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः।
**श्रीधरः : **स एव स्व-गत्या मासादि-व्यवहार-कारणम् इत्य् आह । स एष लोकानाम् आत्मा । द्याव्-आपृथिव्योर् अन्तरेण मध्ये यन् नभो-वलयम् अन्तरिक्षं तस्य मध्ये यत् काल-चक्रं तद् गतः राशिभिर् मेषादिभिः संज्ञा येषाम् । चैत्रादि-संज्ञास् तु चान्द्र-मासानाम् । मासम् आह—पक्ष-द्वयं मास इति चान्द्रेण मानेन । स-पादं महा-नक्षत्र-द्वयं सौरेण, दिवा-नक्तं चाहो-रात्रम् इति पैत्र्येण । षष्ठम् अंशं राशि-द्वयम् ॥५॥
**क्रम-सन्दर्भः : **पक्ष-द्वयं मास इत्य् उपदिशन्ति । चान्द्रेण मानेन देवा नक्तं चेत्य् उपदिशन्ति पैत्र्येण स-पाद-र्क्ष-द्वयं च मास इत्य् उपदिशन्ति सौरेण ॥५॥
**विश्वनाथः : **सूर्य-गत्यैव मासादि-व्यवहार इत्य् आह—अथेति । द्याव्-आपृथिव्योर् मध्ये यन् नभो-वलयम् तस्य काल-चक्र-गतः तत्-सम्बन्धि-ज्योतिश्-चक्र-स्थितः । मास एव कः ? तत्राह—पक्ष-द्वयं मास इति चान्द्रेण मानेन । दिवा-नक्तं इति पैत्र्येण स-पाद-नक्षत्र-द्वयं सौरेण । स्वगम्यस्य नभो-मण्डलस्य यावता द्वादशम् अंशं भुङ्क्ते सूर्यः स कालो मासः, अत्रानुक्तोऽपि ज्ञेयः । षष्ठम् अंशं मास-द्वयम् ॥५॥
—ओ)०(ओ—
॥ ५.२२.६ ॥
अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते।
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अर्धेन अर्धं मास-षट्कं भुङ्क्ते इत्य् अर्थः ॥६॥
—ओ)०(ओ—
॥ ५.२२.७ ॥
अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति।
**श्रीधरः : **मण्डलाभ्यां सह भुञ्जीत । स ह स हि सूर्यः । यदा शुक्ल-प्रतिपदि सङ्क्रान्तिर् भवति तदा सौर-चान्द्रयोर् मासयोर् युग-पद् उपक्रमो भवति स संवत्सरः । ततः सौर-मानेन वर्षे षट् दिनानि वर्धन्ते चान्द्र-माने षट् ह्रसन्तीति द्वादश-दिन-व्यवधानाद् उभयोर् अग्र-पश्चाद् भावो भवति । एवं पञ्च-वर्षाणि गच्छन्ति तन् मध्ये द्वौ मल-मासौ भवतः । ततः पुनः षष्ठः संवत्सरो भवति तद् एवम् अवान्तर-भेदेन संवत्सरादि-पञ्चकं समामनन्ति ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्याव्-आपृथिव्योर् इति द्यु-मण्डल-पृथिवी-मण्डलयोर् मध्य-वर्तिना नभो-मण्डलेन तुल्यत्वं एव ज्ञापितम्, न त्व् अन्यथाधिक्यं । संवत्सरादि-नाम-भेदः सौर-चान्द्रादि-कृत्योपयोगित्वेन तृतीय-स्कन्ध एव विवृतः ॥७॥
—ओ)०(ओ—
॥ ५.२२.८ ॥
एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानोऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते।
**श्रीधरः : **सोमादीनाम् अपि स्थानं कार्यं चाह—एवं चन्द्रमा इति । अर्क-गभस्तिभ्यो मण्डल-रूपेभ्यः । स-पादर्क्षाभ्यां स-पाद-दिन-द्वयेन ॥८॥
**क्रम-सन्दर्भः : **उग्र-चरण-शीतलत्वाद् एव द्रुततर-गमनः ॥८॥
**विश्वनाथः : **चन्द्रादीनाम् अपि स्थानं कार्यं चाह—अर्क-गभस्तयोऽर्क-मण्डलं, ततः लक्षेति भू-तलाद् द्वि-लक्ष इत्य् अर्थः । स-पाद-र्क्षाभ्यां स-पाद-दिन-द्वयेन, दिनेनैवेति यद्य् उग्र-चारी कदाचित् स्यात्, तदा द्रुततर-गमनः सन् दिनेनैव पक्ष-भुक्तिं भुङ्क्ते, अन्यदा तु सार्ध-सप्त-घटिकोत्तरेण दिनेन ॥८॥
—ओ)०(ओ—
॥ ५.२२.९ ॥
अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्–णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते।
**श्रीधरः : **सर्वेषां जीव-निवहानां प्राणः अन्न-मयत्वाद् अमृत-मयत्वाच् च । अत एव जीवन-हेतुत्वाज् जीवश् च ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आपूर्यमाणाभिर् इति शुक्ल-कृष्ण-पक्षाभ्याम् देवानां अहो-रात्रौ । शुक्ल-कृष्ण-पक्षाभ्याम् पितॄणाम् इति देव-पितृ-पूजार्थं देव-पित्रोर् अहो-रात्र-व्यवस्थेत्य् अर्थः । ओषधी-शत्वेनान्न-मयत्वात् प्राणः । अन्नं हि प्राणिनां प्राणाः इति श्रुतेः । अत एव जीवन-हेतुत्वाद् अमृत-मयत्वाच् च जीवः ॥९॥
—ओ)०(ओ—
॥ ५.२२.१० ॥
य एष षोडश-कलः पुरुषो भगवान् मनोमयोऽन्नमयोऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति।
**श्रीधरः : **तद् एवाह—य एष इति ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मनसोऽधिष्ठातृत्वान् मनो-मयः ॥१०॥
—ओ)०(ओ—
॥ ५.२२.११ ॥
तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि सहाभिजिताष्टा-विंशतिः।
**श्रीधरः : **दक्षिणेनैव न तु तेषां पृथग् अन्या गतिर् अस्तीत्य् अर्थः । कालायने काल-चक्रे । उत्तराषाढाश्रवण-सन्धाव् अभिजिन्-नक्षत्रं फल-विशेषेण पृथक् कल्पितं तेन सह । तथा च श्रुतिः—अभिजिन्-नाम-नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस्ताच् छ्रोणायाः इति ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्वि-लक्षेति भूतलात् तु पञ्च-लक्षतः ।दक्षिणेनैवेति तेषां पृथग्-गत्य्-अभावात् । कालायने काल-चक्रे सहाभिजितेति, अभिजिन्-नाम-नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस्ताच् छ्रोणायाः इति श्रुतेः । उत्तराषाढा शेषार्धा चरणारविन्दादौ लिप्तिका चतुष्के च अभिजिद् इति ज्योतिषाच् च । लिप्तिका दण्डः ॥११॥
—ओ)०(ओ—
॥ ५.२२.१२ ॥
तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः।
**श्रीधरः : **पुरतः सूर्येण भोक्ष्यमाणे नक्षत्रे । पश्चाद् भुक्ते । सहैव भूज्यमाने चारेण क्रम-स्थन-क्षत्राद्य्-अतिक्रमेण । वृष्टेर् विष्टम्भः स्तम्भनं यस्माद् ग्रहात् तम् उपशमयतीति तथा ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्वि-लक्षेति भूतलात् तु सप्त-लक्षतः ।चारेण सञ्चारेण वृष्टेर् विष्टम्भः स्तम्भनं यस्मात् तम् उपशमयतीति सः ॥१२॥
—ओ)०(ओ—
॥ ५.२२.१३ ॥
उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते।
**श्रीधरः : **बुधो व्याख्यातः पुरतः पश्चात् सहैव वा चरतीति किञ्चिद् विशेषं चाह—तत इत्य्-आदिना । आशंसते सूचयति ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उशनसाबुधो व्याख्यात इति पुरतः पश्चात् सहैव वा चरतीत्य् अंशेन तत्-तुल्याः ॥१३॥
—ओ)०(ओ—
॥ ५.२२.१४ ॥
अत ऊर्ध्वम् अङ्गारकोऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहोऽघ-शंसः।
**श्रीधरः : **अघ-शंसो दुःख-सूचकः । यदि न वक्रेणाभिवर्तते तर्हि त्रिभिस् त्रिभिः पक्षैः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्विलक्षेति भू-तलात् तु नव-लक्ष इत्य् अर्थः । लक्ष-द्वितीय इति भू-तलाद् एकादश-लक्षे । यदि न वक्रोणेति पूर्वेणान्वयः । अघ-शंसो दुःख-सूचकः ॥१४॥
—ओ)०(ओ—
॥ ५.२२.१५ ॥
तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य।
**श्रीधरः : **यदि न वक्रः स्यात्, तर्हि परिवत्सरम् ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्विलक्षेति भू-तलात् तु त्रयोदश-लक्षे । यदि न वक्र इति पूर्वेणान्वयः ॥१४॥
—ओ)०(ओ—
॥ ५.२२.१६ ॥
तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः।
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **योजन-लक्ष-द्वयाद् इति भू-तलात् तु पञ्चदश-लक्षे ॥१६॥
—ओ)०(ओ—
॥ ५.२२.१७ ॥
तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति।
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एकादश-लक्ष इति भू-तलात् तु षड्विंश-लक्षः, परमं पदं ध्रुव-लोकम् ॥१७॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वाविंशः पञ्चमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ज्योतिश्चक्र-वर्णने
द्वाविंशोऽध्यायः
॥ ५.२२ ॥
(५.२३)