२१ ज्योतिश्-चक्रे सूर्य-रथ-वर्णनं

॥ ५.२१.१ ॥

श्री-शुक उवाच—

एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः।

**श्रीधरः : **

एवम् अध्याय-विशत्या भू-मर्यादा निरूपिता ।

अतः परं द्यु-मर्यादा- पालनं त्रिभिर् उच्यते ॥

एकविंशे रवेः काल- चक्रेण भ्रमतोऽन्व् अहम् ।

स्व-गत्या राशि-संचारैर् लोक-यात्रा निरूप्यते ॥

एतावान् विस्तारेण कोट्यः पञ्चा-शत् । उत्सेधेन पञ्च-विंशतिः ॥१॥

**क्रम-सन्दर्भः : **भू-वलयस्येति भुवः पर्यक् स्थितानां देशानां देशानां ग्रहणम् ॥१॥

**विश्वनाथः : **

एकविंशे वरेर् उक्तं राशि-गतायनादिकम् ।

उदयास्तम् अनादीनां व्यवस्था च गतेर् मितिः ॥

एतेन भू-गोलक-मानेन ॥१॥

—ओ)०(ओ—

॥ ५.२१.२ ॥

एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम्।

**श्रीधरः : **द्वि-दलयोर् मध्ये यथैकस्य मानेनापरस्य मानम् उपदिश्यते तद्वत् । ते अन्तरेण तयोर् मध्ये तद् उभय-सन्धितं ताभ्याम् उभयतः संलग्नम् ॥२॥

**क्रम-सन्दर्भः : **ते अन्तरेणण्तरिक्षम् इति सूर्य-मण्डलस्य दल-प्रमाण एव देशो ज्ञेयः ॥२॥

**विश्वनाथः : **निष्पावःशूक-शिम्बी तद्-आदीनां इत्य् अतद्-गुण-संविज्ञान-बहुव्रीहिणा कलायादीनां इत्य् अर्थः । तेषां यथा द्वयोर् दलयोर् मध्ये एकस्य मानेनापरस्य मानम् उपदिश्यते, तथैव भू-गोलक-खगोलकयोर् विस्तारेण तुल्यम् एव मानम् इत्य् अर्थः । ते अन्तरेण तयोर् मध्ये अन्तरीक्षं लक्ष-द्वय-प्रमाणं तद्-उभय-सन्धितं ताभ्याम् उभयतः संलग्नम् ॥२॥

—ओ)०(ओ—

॥ ५.२१.३ ॥

यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते।

**श्रीधरः : **उदगयनादि-संज्ञाभिर् मन्द-क्षिप्र-समगतिभिर् यथा-कालम् आरोहणादि-स्थानेष्व् आरोहणाद्य्-अभिपद्यमानो मकरादिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यस्य अन्तरीक्षस्य मध्य-गतः स सूर्यः मान्द्य-क्षैप्र्ये स्वार्थ-ष्यञ्य्-अन्तः, उदगयन-नाम्न्या मन्दया गत्या आरोहण-स्थाने यथा-सवनं समयम् अनतिक्रम्य अभिपद्यमानश् चलन् मकरादिषु षट्सु राशिषु अहानि क्रमेण दीर्घाणि रात्रिस् तु ह्रस्वा विधत्ते, दक्षिणायन-नाम्न्या क्षिप्र-गत्या अवरोहणे कर्कटादिषु षट्सु राशिषु अहो-रात्रान् ह्रस्व-दीर्घान् विधत्ते । वैषुवत-संज्ञया उत्तरायण-दक्षिणायन-मध्य-वर्तिन्या समानया गत्या मेष-तुलयोः अहो-रात्रान् समानान् विधत्ते अभिपद्यमानश् चलन् ॥३॥

—ओ)०(ओ—

॥ ५.२१.४ ॥

यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु।

**श्रीधरः : **तत् प्रपञ्चयति—यदेति । अत्यन्त-वैषम्याभावात् समानानीत्य् उक्तम् । सर्वथा साम्यं त्व् एकस्यैवाहो-रात्रस्य । यद्यपि वृषभ-मिथुनयोर् एवाह्नां वृद्धिः कर्कटादिषु ह्रासस् तथापि रात्र्य्-अपेक्षयाऽधिकत्वाद् वर्धन्त इत्य् उक्तम् । एवं रात्रि-वृद्धाव् अपि दिनापेक्षया ह्रसतीत्य् उक्तम् । एकैकेति स्थूल-दृष्ट्योक्तम् । वृद्धि-ह्रासयोः प्रतिमास-वैषम्यात् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतत् प्रपञ्चयति—यदेत्य्-आदिना । अत्यन्त-वैषम्याभावात् समानानीत्य् उक्तम् । सर्वथा साम्यं त्व् एकस्यैवाहो-रात्रस्य । यद्यपि वृषभ-मिथुनयोर् एवाह्नां वृद्धिः कर्कटादिषु ह्रासः, तद् अपि रात्र्य्-अपेक्षया अधिकत्वाद् वर्धन्त इत्य् उक्तम् । एवं रात्रि-वृद्धाव् अपि दिनापेक्षया ह्रसतीत्य् उक्तम् । एवं रात्रि-वृद्धाव् अपि दिनापेक्षया ह्रसतीत्य् उक्तं । वस्तुतस् तु मकरादिषु अह्नां वृद्धि-प्रक्रमः कर्कटिषु ह्रास-प्रक्रम इत्य् अग्रे स्पष्टं वक्ष्यते । एकैकेति स्थूल-दृष्ट्योक्तम् । वृद्धि-ह्रासयोः प्रतिमास-वैषम्यात् ॥४॥

—ओ)०(ओ—

॥ ५.२१.५ ॥

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति।

**श्रीधरः : **विपर्याणीति । अहानि न्यूनानि रात्रयोऽधिका इत्य् अर्थः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विपर्याणीति । अहानि न्यूनानि रात्रयोऽधिका इत्य् अर्थः ॥५॥

—ओ)०(ओ—

॥ ५.२१.६ ॥

यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः।

**श्रीधरः : **तद् वृधि-ह्रास-कालम् आह—यावद् इति ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यावद् दक्षिणायनम् इति उत्तरायणाद् दक्षिणायन-पर्यन्तम् इत्य् अर्थः । एवम् अग्रेऽपि ॥६॥

—ओ)०(ओ—

॥ ५.२१.७ ॥

एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम्।

**श्रीधरः : **एवं मन्दादि-गतिभिः । नव-कोटय इति । मेरोर् उभयतो मानसोत्तरस्यान्तर्-विस्तारेण पञ्चदश-लक्षाधिक-कोटि-त्रय-परिमितेनेदं परिमण्डल-मानम् उन्नेयम् । एवं पञ्चदशभिर् घटिकाभिर् इत्य्-आदिष्व् अपि त्रैराशिक-गणितेन तत्-तन्-मानम् उन्नेयम् । अत्रापेक्षितो विशेषः पुराणान्तराद् अवगन्तवयः । तत्रारोहणादि-स्थानानि वायु-पुराणे दर्शितानि—

सर्व-ग्रहाणां त्रीण्य् एव स्थानानि द्विज-सत्तमाः ।
स्थानं जरद्गवं मध्यं तथैरावतम् उत्तरम् ॥
वैश्वानरं दक्षिणतो निर्दिष्टम् इह तत्त्वतः ॥ इति ।

तद् एव मध्यमोत्तर-दक्षिण-मार्ग-त्रयं प्रत्येकं वीथी-त्रयेण त्रिधा भिद्यते । त्रिभिस् त्रिभिर् अश्विन्य्-आदि-नक्षत्रैर् नाग-वीथी गज-वीथी ऐरावती चेत्य् उत्तर-मार्गे वीथी-त्रयम् । आर्षभी गो-वीथी जरद्गवी चेति वैषुवते मध्यम-मार्गे वीथी-त्रयम् । अज-वीथी मृग-वीथी वैश्वानरी चेति दक्षिण-मार्गे वीथी-त्रयम् । तद् अप्य् उक्तं तत्रैव—

अश्विनी कृत्तिका याम्या नाग-वीथीति शब्दिता ।
रोहिण्य्-आर्द्रामृग-शिरो गज-वीथ्य्-अभिधीयते ।
पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता ।
एतास् तु वीथयस् तिस्र उत्तरो मार्ग उच्यते ।
तथा द्वे चापि फाल्गुन्यौ मघा चैवार्षभी मता ।
हस्तश् चित्रा तथा स्वाती गो-वीथीति तु शब्दता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ।
एतास् तु वीथयस् तिस्रो मध्यमो मार्ग उच्यते ।
मूलाषाढोत्तराषाढा अज-वीथ्य् अभिशब्दिता ।
श्रवणं च धनिष्ठा च मार्गी शत-भिषस् तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ।
एतास् तु वीथयस् तिस्रो दक्षिणो मार्ग उच्यते ॥ इति ।

याम्या भरणी, आदित्या अदिति-देवताका पुनर् वसुः मार्गी मृग-वीथी एवं स्थिते उत्तरायणे ध्रुवेन युगाक्ष-कोटि-निबद्ध-वायु-पाश-द्वयाकर्षणे रथस्यारोहणम् । तदाभ्यन्तर-मण्डल-प्रवेशो गति-मान्द्यं चेति दिन-वृद्धि-रात्रि-ह्रासश् च । दक्षिणायने च पाश-प्रेरणाद् अवरोहणे बहिर्-मण्डल-प्रवेशो गति-शैघ्र्यं चेत्य् अहो-रात्रयोर् विपर्ययः । वैषुवते तु पाश-साम्यात् समावस्थाने मध्य-मण्डल-प्रवेशो गति-साम्यं चेत्य् अहो-रात्रयोः साम्यम् इति । तथा च पुराणान्तरम्—

आकृष्येति यदा तौ तु ध्रुवेण समधिष्ठितौ ।
तदाभ्यन्तरतः सूर्यो भ्रमते मन्डलानि तु ।
ध्रुवेण मुच्यमानेन पुना रश्मि-युगेन तु ।
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ॥ इति ।

तद् एतद् उक्तम्, यदा मेष-तुलयोर् इत्य्-आदिना । उदयास्तादिकं वक्तुम् आह । तस्मिन् मानसोत्तरे मेरोः पूर्वत ऐन्द्रीं पुरीम् उपदिशन्तीत्य् अनुषङ्गः । तासु पुरीषूदयादीन्य् उपदिशन्ति । चतुर्-दिशम् इत्य् उक्ते ये मेरोर् दक्षिणे देशे तेषाम् ऐन्द्रीम् आरभ्य पूर्वादयः । ये पश्चिमे तेषां याम्याम् आरभ्य य उत्तरे तेषां वारुणीम् आरभ्य । ये पूर्वे तेषां सौम्याम् आरभ्य ॥७॥

**क्रम-सन्दर्भः : **एकपञ्चाशल्-लक्षाणि चेति विचार्यम् । मण्डल-त्रैगुण्येन पञ्चचत्वारिंशल्-लक्षाधिकत्वम् एव स्यात्, किन्तु मूल-मते मानसोत्तरः पुष्कर-द्वीपार्धम् अतिक्रम्य लक्ष-द्वय-योजनोपरि स्यात् । टीकायां वायु-पुराण-मतेन वीथी-गणना, न तु नक्षत्राणाम् अवस्थिति-क्रमेण, तेषाम् अन्यत्रान्यत्र दृश्यमानत्वात् । न च भोग-क्रमेण । तथा च सति आरोहावरोहाभ्यां रेवत्य्-अश्विन्योर् अव्यवहित-वीथ्योर् व्यवहित-वीथ्योश् चित्राश्विन्योश् चैकस्याम् एव वीथ्यां गणना स्यात् । ततस् तेषां नक्षत्राणां तत्र तत्र सम्बन्धः केनचित् प्रकारान्तरेणैव स्यात् । तच् च तासां तत्-तद्-वीथ्य्-अधिष्ठातृ-देवतात्वेनैवेति ज्ञेयम् ।

तथ टीकायाम् एव तदाभ्यन्तर-मण्डल-प्रवेशो गति-मान्द्यं चेति । अन्तर्-मण्डलस्य स्वल्प-भूमित्वात् परिवर्तस्य बह्व्-अंशेऽपि सूर्यादि-दृष्टि-विषयो भवति । मेढि-सन्निकृष्ट-वृषभवद् गतेश् च मान्द्यं भवतीत्य् अर्थः । मण्डलं चेदम् एतद्-वर्षोपर्य् एव गच्छति । उत्तरायण-मध्याह्ने मूर्धन्य् एव सूर्यो दृश्यते इति । एवं बहिर्-मण्डलस्य बहु-भूमित्वाद् अस्तम् आरभ्य परिवर्तस्य स्वल्पांश एव सूर्यादिर् दृश्यते । मेढि-विप्रकृष्ट-वृषभवद्-गतेश् च शैघ्र्यं भवतीत्य् अर्थः ॥७॥

**विश्वनाथः : **नव-कोटय इति मेरोर् उभयतो मानसोत्तरस्यान्तर्-विस्तारो यस् तस्य परिमाणं पञ्चदश-लक्षाधिक-कोटि-त्रयं, सूर्य-रथ-वर्त्मनश् च लक्ष-द्वयम् इत्य् एवं सप्तदश-लक्षोत्तर-कोटि-त्रयेण त्रिगुणीकृतेनैतत् परिमण्डल-मानम् उन्नेयम् । मेरोः पूर्वस्मात् पूर्वस्यां दिशि यन् मानसोत्तरं तस्मिन्न् ऐन्द्रीं पुरीम् उपदिशन्तीत्य् अनुषङ्गः । तासु पुरीषु उदयादीन्य् उपदिशन्ति । चतुर्दिचाम् इत्य् उक्ते ये मेरोर् दक्षिणे वर्तेरन्, तेषां ऐन्द्रीम् आरभ्य पूर्वादयः, ये पश्चिमे तेषां याम्याम्, ये उत्तरे तेषां वारुणीम् आरभ्य, ये पूर्वे तेषां सौम्याम् आरभ्य, अत एव सर्वेषां द्वीप-वर्षाणां मेरुर् उत्तरतः स्थित इति वैष्णवोक्तिः ॥७॥

—ओ)०(ओ—

॥ ५.२१.८ ॥

तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति ।

**श्रीधरः : **तत्रत्यानां मेरु-स्थानाम् । सव्येनेति । नक्षत्राभिमुखतया स्व-गत्या मेरुं वामतः कुर्वन्न् अपि प्रदक्षिणावर्त-प्रवहाख्य-वायु-भ्राम्यमाण-ज्योतिश्-चक्र-वशात् प्रत्य् अहं दक्षिणतः करोति । अतश् चक्र-गति-वशाद् अति-दूरतो भू-संलग्नस्येव दर्शनम् उदयः । आकाशम् आरूढस्येव दर्शनं मध्याह्नः । भूमिं प्रविष्टस्येव दर्शनम् अस्त-मयः । ततोऽतीव दूर-गमने निशीथ इति । समुद्र-तीर-स्थ-दृष्ट्या च—अद्भ्यो वा एष प्रातर्-उदेत्य् अपः सायं प्रविशति इति श्रुति-व्यवहारो । न वस्तुतः । तद् उक्तं वैष्णवे—

उदयास्त-मये चैव सर्व-कालं तु सम्मुखे ।
विदिशासु त्व् अशेषासु तथा ब्रह्मन् दिशासु च ॥
मैत्रेय दृश्यते भास्वान् स तेषाम् उदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥
नैवास्तमनम् अर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥
शक्रादीनां पुरे तिष्ठन् स्पृशत्य् एष पुर-त्रयम् ।
विकोणौ द्वौ विकोणस्थस् त्रीन् कोणान् द्वे पुरे तथा ॥ [भा।पु। २.८.१३-१६] इति ।

अत एव तत्रैवोक्तम्—

तस्माद् दिश्य् उत्तरस्यां वै दिवा-रात्रिः सदैव हि ।
सर्वेषां द्वीप-वर्षाणां मेरोर् उत्तरतः स्थितिः ॥ [भा।पु। २.८.२०] इति ।

यतो यत्र यः पश्यति सैव तस्य प्राची । तस्य च वामतो मेरुस् तिष्ठतीति ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्रत्यानां मेरु-स्थानाम् । सव्येनेति नक्षत्राभिमुखतया स्व-गत्या मेरुं वामतः प्रकुर्वन्न् अपि प्रदक्षिणावर्त-प्रवर्तक-प्रवहाख्य-वायुना भ्राम्यमाण-ज्योतिश्-चक्र-वशात् प्रत्यहं दक्षिणतः करोति । अतश् चक्र-गति-वशाद् अतिदूरतो भू-संलग्नस्येव दर्शनम् उदयतः । आकाश-मध्यम् आरूढस्येव दर्शनं मध्याह्नः । भूमि-प्रविष्टस्येवादर्शनम् अस्त-मयः । ततोऽतिविदूर-गमने निशीथ इति । अत एव समुद्र-तीरस्थ-दृष्ट्या च—अद्भ्यो वा एष प्रातर्-उदेत्य् अपः सायं प्रविशति इति श्रुतिर् अपि व्यवहारतो, न तु वस्तुतः । उदयास्त-मय-मध्याह्न-निशीथानां वर्ष-भेदेन व्यवस्थाम् आह—यत्रेति । यैर् यत्र दृश्यते भास्वान् स तेषाम् उदयः स्मृतः [भा।पु। २.८.१४] इति वैष्णवोक्तेः सूर्यस्य प्रथम-दर्शनम् एवोदयः निम्लोचत्य् अस्तं गच्छति । उदयानन्तर-त्रिंशद्-घटिकान्ते स्यन्दने आकाश-मध्यस्थः सन्, प्रस्वेदोद्गमेन तस्य देशस्य समान-सूत्रपात-विषयीभूते देशे त्रिंशद्-घटिकानन्तरं गतः सन्न् इति शेषः ।

प्रस्वापयति निशीथं करोति, ये अस्तं उदयं च अनुपश्येरन्, ते जनास् तत्र गतं सूर्यं न पश्यन्ति, अत एव स्वपन्ति, तेन च मेरोर् दिक्-चतुष्टये स्थितेषु मध्ये यदा यत्र सूर्यस्योदयो दृश्यते, तदैव तस्मात् पूर्वे वर्षे मध्याह्नः, पश्चिमे वर्षे निशीथः । उत्तरे वर्षे निम्लोचो ज्ञेयः । अस्त-दर्शन-समय एव पश्चिम-वर्षे मध्याह्नः, उत्तरे वर्षे निम्लोचो ज्ञेयः । एवं मध्याह्न-दर्शन-समय एव पूर्व-वर्षे निम्लोचः, पश्चिम-वर्षे उदयः, उत्तर-वर्षे निशीथश् च ज्ञेयः । अस्त-दर्शन-समय एव पश्चिम-वर्षे मध्याह्नः, पूर्व-वर्षे निशीथः, उत्तर-वर्षे उदयश् च ज्ञेयः । तद् एवं सर्व-वर्ष-स्था अपि मेरोर् दक्षिण-देश-स्थाने वात्मनो मन्यमानाः स्व-वर्षे सूर्यस्योदय-मध्याह्न-निम्लोचान् पश्यन्त एवान्येषु वर्षेषु तान् पूर्वोक्त-विवेकेन जानन्तीति सङ्क्षेपः । विष्णु-पुराणे त्व् इतोऽपि विशिष्योक्तम्—

शक्रादीनां पुरे तिष्ठन् स्पृशत्य् एष पुर-त्रयम् ।
विकोणौ द्वौ विकोण-स्थस् त्रीन् कोणान् द्वे पुरे तथा ॥ [भा।पु। २.८.१६] इति ।

अस्यार्थः—शक्राद्य्-अन्यतमस्य पुरे तिष्ठन् पुर-त्रयं दिक्-त्रयं युगपत् स्पृशति द्वौ विकोणौ कोणौ च । तथा हि शक्र-पुरे तिष्ठन् शक्र-दिग्-वर्षे मध्याह्नं, दक्षिण-दिग्-वर्षे उदयं, उत्तर-दिग्-वर्षे अस्तमनं करोतीति पुर-त्रय-स्पर्शः । अग्नि-कोण-वर्षे प्रथमं यामनीशान-कोण-वर्षे, तृतीयं यामं करोतीति विकर्ण1-द्वय-स्पर्शः । विकर्ण-स्थः अग्न्य्-आद्य्-अन्यतम-कोण-स्थः सन् त्रीन् कोणान् द्वे पुरे द्वे दिशौ च स्पृशति । तथा हि, अग्नि-कोणे तिष्ठन् अग्नि-कोण-वर्षे मध्याह्नं, नैरृत-कोण-वर्षे उदयम्, ईशान-कोणे अस्तमनं करोतीति कोण-त्रय-स्पर्शः । तथा दक्षिण-दिग्-वर्षे प्रथमो यामः पूर्व-दिग्-वर्षे, तृतीयो याम इति पुर-द्वय-स्पर्शः दिग्-द्वय-स्पर्शश् च । एवम् अन्येषु कोणेषु पुरेष्व् अपि द्रष्टव्यः ॥८॥

—ओ)०(ओ—

॥ ५.२१.९ ॥

यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन्।

**श्रीधरः : **यथोक्तम् उदयास्तम् अनाद्य् अनियमं दर्शयति—यत्रोदेतीत्य्-आदिना । स्यन्देन स्वेदोद्गमेन । प्रस्वापयति निशीथं करोति । ये तं समनुपश्येरन् प्रस्वाप-समान-सूत्र-स्थाः ॥९॥

**क्रम-सन्दर्भः : **यत्रेति । यद् वीथ्य्-अधो-गत-देश इत्य् अर्थः ॥९॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२१.१० ॥

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति।

**श्रीधरः, विश्वनाथः : **साधिकानि पञ्चविंशति-सहस्राधिकानि ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२१.११ ॥

एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति।

**श्रीधरः : **सहवा सहैव । यद्यपि वस्तुतः सूर्यस्यापि नक्षत्रैः सहैवोदयास्त-मयौ, तथापि तस्य तत्-साहित्यादर्शनात् सोमादीनाम् एव तत्-साहित्यम् उक्तम् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सहवा सहैव ॥११॥

—ओ)०(ओ—

॥ ५.२१.१२ ॥

एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु।

**श्रीधरः : **त्रयी-मय इत्य्-आद्य्-उपासनार्थम् ॥१२॥

**क्रम-सन्दर्भः : **मुहूर्तेन चतुस्त्रिंशद् इति मानसोत्तरमानं, न त्व् अन्यत्र । एवं पूर्वत्र । यत् तु ज्योतिः-शास्त्र-रीत्या तत्-तद्-देशे रव्य्-अदय-क्रम-विचारेण रवि-परिक्रमणीयं मण्डलम् इदं स्वल्पम् एव प्रतीयते, तत् खलु चलता विदूरस्य स्वल्पस्यापि वृक्षादेः सम-सूत्रता बहुल-देशेन नैव त्यक्तुं शक्यते तथातिदूरं व्योम-गतेनापि रविणा स्वल्प-भूमि-सम-सूत्रतेति रवि-चलनस्य स्वल्पत्व-व्यवहारान् न विरुद्धं, न च दृष्टि-भ्रम-मात्रम् इदं छायापि दृश्यमान-तद्-गति-मान्द्यम् अनुकरोति इति ॥१२॥

**विश्वनाथः : **त्रयी-मय इत्य्-उपासनार्थम् ॥१२॥

—ओ)०(ओ—

॥ ५.२१.१३ ॥

यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति।

**श्रीधरः : **द्वादश-मासा अरा यस्य । षड्-ऋतवो नेमयो यस्य । त्रीणि चातुर्मास्यानि नाभयो यस्य । कृत इतर-भागो यस्य । मानसोत्तर-गिरौ लक्षार्धाद् उपरि वायु-बद्ध-भूमाव् इति द्रष्टव्यम् । चक्रम् वा तावद् उच्छ्रितम् इति मन्तव्यम् । अन्यथाऽयुत-मात्रोछ्रायत्वान् मानसोत्तरस्य मेरोश् चतुर्-अशीत्य्-उच्छ्रायत्व-दक्षस्य साम्यानुपपत्तेः ॥१३॥

**क्रम-सन्दर्भः : **तस्याक्ष इत्यत्र टीकायां चक्रं वा तावद् उच्छ्रितम् इति पक्षे युगपद् गति-द्वयी न सम्भवति, वैपरीत्येनाकर्षणयोः परस्पर-स्तम्भ-भावात् अश्वानां बलवत्त्वेऽपि वायु-चक्रस्यैव रथम् अतिक्रम्य किञ्चिन् निष्क्रमः स्यात् । न तु रथस्य प्राच्याः ततो रथस्य नक्षत्रान्तर-प्राप्तौ सम्भवन्त्याम् अपि देशान्तर-प्राप्तिर् न सम्भवति । चन्द्रादौ तु प्रत्यहं देशान्तर-प्राप्तिश् च दृश्यते । कुलाल-चक्र-पिपीलिका-दृष्टान्तेन च सा लभ्येत इति विचार्य ततो मानसोत्तरोपरि वायु-बद्ध-भूमित्व एव पर्यवसितेषु मेरोर् उपर्य् अपि तज् ज्ञेयं किन्तु मानसोत्तरस्योपरि नवति-सहस्रात्मकं मेरोस् तु षोडश-सहस्रात्मकम् इति ॥१३॥

**विश्वनाथः : **यस्य रथस्य द्वादश-मासा अरा यस्य षट् ऋतवो नेमयो यस्य, त्रीणि चातुर्मास्यानि नाभयो यस्य मेरोर् मूर्धनि मूर्धाधः-प्रदेशे इत्य् अर्थः । तैल-यन्त्रीयाक्षस्य दृष्टेः । मानसोत्तरे लक्षार्धाद् उपरि वायु-बद्ध-भूमौ इति स्वामि-चरणाः । ततो मानसोत्तरस्यायुत-मात्रोच्छ्रायत्वात् षष्टि-सहस्रो परिवर्तमानः स च किञ्चिन् न्यून-सप्त-पञ्चाशल्-लक्षाधिक-कोटि-प्रमाणः ॥१३॥

—ओ)०(ओ—

॥ ५.२१.१४ ॥

तस्मिन्न् अक्षे कृतमूलो द्वितीयोऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः।

**श्रीधरः : **तस्मिन्न् अक्षे चक्र-प्रान्ते कृत-मूलो निबद्ध-पूर्व-भागः प्रथमाक्षो मेरु-मानसोत्तरायतः सार्ध-सत-लक्षाधिक-सार्ध-कोटि-प्रमाणस् तस्य तुर्य-मानेन सार्ध-सप्त-त्रिंशत्-सहस्राधिकैकोन-चत्वारिंशल्-लक्ष-मानेन । ध्रुवे कृतो वायु-पाशेन निबद्ध उपरि-भागो यस्य ॥१४॥

**क्रम-सन्दर्भः : **तस्मिन्न् अक्षे रविर् अथस्यैव चक्र-प्रान्ते तुर्यमानेन चतुर्थांशेन सम्मितः अधिक इत्य् अर्थः ॥१४॥

**विश्वनाथः : **तस्मिन्न् अक्षे चक्र-प्रान्त-वर्तिनि कृत-मूलं निबद्ध-पूर्व-भागो द्वितीयोऽक्षः । तूर्यमाणेन प्रथमाक्षस्य चतुर्थांश-प्रमाणेन सप्त-त्रिंशत् सहस्राधिकोन-चत्वारिंशल्-लक्ष-मानेन सम्मित इत्य् अक्षोऽयं लवण-सागर-समान-सूत्र-पाते प्रथमाक्ष-प्रदेशे ग्रथित इति ज्ञेयम् । द्वितीयाक्षस्य प्रथमाक्षाद् अल्प-प्रमाणत्वात् ध्रुवे कृतः वायु-पाशेन निबद्ध उपरि-भागो यस्य सः ॥१४॥

—ओ)०(ओ—

॥ ५.२१.१५ ॥

रथ-नीडस् तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम्।

**श्रीधरः : **नीड उपवेश-स्थानम् । गायत्र्य्-आदि-च्छन्दो-नामानः । अरुणेन योजिताः सन्तो देवं वहन्ति ॥१५॥

**क्रम-सन्दर्भः : **रथ-नीडोऽत्र रथाश्रयो रथानुगत-वायु-मय-भूमिः, न तु सूर्योपवेश-रथ-मध्य-पीठं रथस्याल्प-प्रमानत्वात् । यथैव वैष्णवे—योजनानां सहस्राणि भास्करस्य रथो नव [वि।पु। २.८.२] इति । एवम् एव हि दश-सहस्र-योजनात्मकं वक्ष्यमाणं तन्-मण्डलं घटत इति ॥१५॥

**विश्वनाथः : **रथस्य नीडोऽन्तर्-गृहं षट्-त्रिंशल्-लक्ष-योजनोच्छ्रितो नव-लक्ष-योजन-विस्तारः । चक्राच् चत्वारिंशत् सहस्रोपरितने स्थाने नीड-मध्ये सूर्य उपविष्टो ज्ञेयः । गायत्र्य्-आदि छन्दो-नामानः अरुणेन सारथिना योजिताः ॥१५॥

—ओ)०(ओ—

॥ ५.२१.१६ ॥

पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते।

**श्रीधरः : **पुरस्तात् स्थितोऽपि पश्चात् प्रत्यङ् मुख आस्ते । यद् वा, यत् सूर्यस्य पुरस्तात् तस्य वै पश्चिमत्वात् पश्चाद् इत्य् उक्तम् । अश्व-स्थानं च वायुनोक्तम्—

सप्ताश्व-रूपश् छन्दांसि वहन्ते वामतो रविम् ।
चक्र-पक्ष-निबद्धानि चक्रे चाक्षः समाहितः ॥ इति ॥१६॥

**क्रम-सन्दर्भः : **पुरस्तात् पश्चाच् च नियुक्त इति काय-व्यूहेनापि घटते ॥१६॥

**विश्वनाथः : **पुरस्तात् स्थितोऽपि पश्चात् प्रत्यङ् मुख आस्ते । अश्व-स्थानं च वायुनोक्तम्—

सप्ताश्व-रूपश् छन्दांसि वहन्ते वामतो रविम् ।
चक्र-पक्ष-निबद्धानि चक्रे चाक्षः समाहितः ॥ इति ॥१६॥

—ओ)०(ओ—

॥ ५.२१.१७ ॥

तथा वालिखिल्या ऋषयोऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति।

**श्रीधरः, विश्वनाथः : **सूक्त-वाकाय सुभाषिताय ॥१७॥

**क्रम-सन्दर्भः : **ऋषयश् चतुर्दश गन्धर्वाश् चतुर्दशेत्य् एवम् एकैकशश् चतुर्दश द्वन्द्वशो मिलित्वेत्य् अर्थः । समास-वाचि-द्वन्द्व-शब्दवत्, तथा सप्त गणाः मासि मास्य् उपासत इत्य् अन्वयः ॥१७॥

—ओ)०(ओ—

॥ ५.२१.१८ ॥

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते।

**श्रीधरः : **एकैकशश् चतुर्दश-द्वन्द्वशः सप्त-गणाः सन्तो मासि मास्य् उपासत इत्य् अन्वयः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मासि मासि एकैकस्मिन् मासि द्वाभ्याम् द्वाभ्याम् ऋष्य्-आदिभ्यां सप्त-गणा भवन्तः । एकैकश एकेनैकेन ऋष्य्-आदिना तु चतुर्दश-गणाः भवन्तो मासि मास्य् उपासत इत्य् अन्वयः ॥१८॥

—ओ)०(ओ—

॥ ५.२१.१९ ॥

लक्षोत्तर-सार्ध-नव-कोटि-योजन-परिमण्डलं भू-वलयस्य क्षणेन स-गव्यूत्य्-उत्तरं द्वि-सहस्र-योजनानि स भुङ्क्ते।

**श्रीधरः : **गव्यूतिः क्रोश-द्वयम् । स-गव्यूत्य्-उत्तरं यथा भवति तथा ॥१९॥

**क्रम-सन्दर्भः : **लक्षेत्य्-आदि-भू-वलयस्येत्य् अन्तकं गद्यं, स सूर्यः ॥१९॥

**विश्वनाथः : **गव्यूतिः क्रोश-युगम् । स सूर्यो गव्यूत्य्-उत्तरं यथा स्यात् तथा ॥१९॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ज्योतिश्-चक्रे सूर्य-रथ-वर्णनं
एकविंशोऽध्यायः ।

॥ ५.२१ ॥

(५.२२)


  1. विकोण ↩︎