॥ ५.२०.१ ॥
श्री-शुक उवाच—
अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते।
**श्रीधरः : **
विंशे प्लक्षादि-षड्-द्वीप-स्थितिम् आह सहार्णवैः ।
लोकालोक-स्थितिश् चान्तर्-बहिर्-भागादि-मानतः ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः- **
प्लक्ष-द्वीपादि वर्षाब्धि-नदी-शैलेज्य-देवताः ।
लोकालोकाचलश् चापि विंशे प्रोक्ता यथा-स्थितम् ॥
—ओ)०(ओ—
॥ ५.२०.२ ॥
जम्बूद्वीपोऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम ।
**श्रीधरः : **तावता लक्ष-विस्तारेण परिक्षिप्तः परिवेष्टितः उपास्ते तिष्ठति । आकलय्य समर्प्य ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः- **परिक्षिप्तः परिवेष्टितः । उप आधिक्येनास्ते । आकलय्य दत्त्वा ॥२॥
—ओ)०(ओ—
॥ ५.२०.३ ॥
शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः
**श्रीधरः : **अभिज्ञाताः प्रसिद्धाः सप्तैव । अन्ये च पर्वता नद्यश् च सहस्रशः सन्तीत्य् अर्थः । मानसोत्तरस्य मण्डलाकारत्वोक्तेर् एतेषु प्लक्षादि-पञ्च-द्वीपेषु वर्षाद् रयस् तिर्यग् रेखाकाराः, उभयतोऽब्धि-स्पृश इति गम्यते । अन्यथा सप्तभिः सप्त-वर्ष-विभागासम्भवात् । वैष्णवे वर्षाणां पूर्वादि-क्रमोक्तेश् च ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः- **गिरयो हि वर्ष-सीमाभिव्यञ्जका उभयतोऽब्धिं स्पृशन्तस् तिर्यग् रेखाकाराः । हंसादयो ब्राह्मणादि-स्थानीयाः । विबुधोपम-सन्दर्शनं रूपं प्रजननम् अपत्योत्पादनं च येषां ते ॥३॥
—ओ)०(ओ—
॥ ५.२०.४ ॥
मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः
यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते ।
**श्रीधरः : **जलोपस्पर्शनेन विधूतं रजस् तमश् च येषाम् । हंसादयो ब्राह्मणादि-स्थानीयाः । विबुधोपमं सन्दर्शनं क्लम-स्वेदादि-रहितं रूपं प्रजननम् अपत्योत्पादनं च येषाम् ॥४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ५.२०.५ ॥ **
प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति ॥
**श्रीधरः : **विगीता अपि द्वीप-मन्त्रा व्याख्यायन्ते । प्रत्नस्य पुराण-पुरुषस्य । विष्णोर् यद् रूपं तं सूर्यम् ईमहि शरणं व्रजेम । कथं-भूतम् ? सत्यादीनाम् आत्मानम् अधिष्ठातारम् । तत्र सत्यम् अनुष्ठीयमानो धर्मः । ऋतं प्रमीयमाणो धर्मः । ब्रह्मणस् तद्-बोधकस्य वेदस्य । अमृतस्य शुभ-फलस्य मृत्योर् अशुभ-फलस्य ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रत्नस्य पुराण-पुरुषस्य मद्-रूपं तं सूर्यं ईमहि शरणं व्रजेम । कीदृशं ? सत्यादीनां आत्मानं अधिष्ठातारं, सत्यमनुष्ठीयमानो धर्मः । ऋतं प्रतीयमानो धर्मः । ब्रह्मणस् तद्-बोधकस्य वेदस्य । अमृतस्य शुभ-फलस्य मृत्योर् अशुभ-फलस्य ॥५॥
—ओ)०(ओ—
॥ ५.२०.६ ॥
प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.७ ॥
प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ।
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **परिवृङ्क्त इति “वृजी वर्जने” रुधादिर् उदात्तेत आत्मनेपदम् आर्षं, पृथग् वर्तत इत्य् अर्थः ॥७॥
—ओ)०(ओ—
॥ ५.२०.८ ॥
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते ।
**श्रीधरः : **सुपर्णोऽसि गरुत्मान् त्रि-वृत्ते शिरः इत्य्-आदि-श्रुतेश् छन्दोभिः स्वावयव-भूतैः श्री-विष्णुं स्तौतीति छन्दः स्तुत् तस्य गरुडस्य निलयनं स्थानम् । सा शाल्मली । द्वीपस्य हूतये व्यपदेशाय ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सुपर्णोऽसि गरुत्मान् त्रि-वृत्ते शिरः इत्य्-आदि-श्रुतेश् छन्दोभिः स्वावयव-भूतैर् विष्णुं स्तौतीति छन्दस् तुत् तस्य । सा शाल्मली द्वीपस्य हूतये नाम्ने ॥८॥
—ओ)०(ओ—
॥ ५.२०.९ ॥
तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.१० ॥
तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.११ ॥
तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ५.२०.१२ ॥ **
स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः ।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्व् इति ॥
**श्रीधरः : **स्व-गोभिः स्व-रश्मिभिः । अन्धोऽन्नम् । सोमो नो राजा आस्तु आभिमुख्येन भवतु । ह्रस्व-पाठे त्व् अविवक्षया सन्ध्य्-अभावः ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्व-गोभिः स्व-रश्मिभिः । अन्धोऽन्नम् । सोमो नो राजा आस्तु आभिमुख्येनास्तु । ह्रस्व-पाठे त्व् अविवक्षया सन्ध्य्-अभावः ॥१२॥
—ओ)०(ओ—
॥ ५.२०.१३ ॥
एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति ।
**श्रीधरः : **एवं सुरोदाद् बहिर्-घृतोदेनावृतः कुशद्वीप इत्य् अन्वयः । स्व-शष्पाणि स्व-कोमल-शिखास् तेषां रोचिषा ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्व-शष्पाणि स्व-कोमल-शिखास् तेषां रोचिषा ॥१३॥
—ओ)०(ओ—
॥ ५.२०.१४ ॥
तद्-द्वीप-पतिः प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.१५ ॥
तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.१६ ॥
यासां पयोभिः कुशद्वीपौकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ५.२०.१७ ॥ **
परस्य ब्रह्मणः साक्षाज् जात-वेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥
**श्रीधरः, विश्वनाथः : **हे जात-वेदः ! त्वं साक्षात् परस्य ब्रह्मणो हरेर् हव्य-वाड् असि । अतो देवानां यज्ञेन पुरुषं हरिम् एव यज । अङ्गानां नाम्ना दत्तम् अङ्गिने समर्पयेत्य् अर्थः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.१८ ॥
तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते ।
**श्रीधरः : **उपकॢप्तो वेष्टितः । यथा कुश-द्वीपो घृतोदेन वृतः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उपकॢप्तो वेष्टितः । वृत इति परित्रान्वितम् ॥१८॥
—ओ)०(ओ—
॥ ५.२०.१९ ॥
योऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जोऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ।
**श्रीधरः : **गुहस्य कार्तिकेयस्य प्रहरणेनायुधेनोन्मथिता नितम्बाः कुञ्जानि च यस्य ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **गुहः कार्तिकेयो विभयः विगत-भयः ॥१९॥
—ओ)०(ओ—
॥ ५.२०.२० ॥
तस्मिन्न् अपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम ।
**श्रीधरः : **स्वयं भगवान् ज्ञानी । परम-कल्याणं यशो यस्य ॥२०॥
**क्रम-सन्दर्भः : **तस्मिन्न् अपीति । स्वयम् उपजगामेत्य् अन्वयः । स्वयं भगवत इति वा भगवान्, उत्पत्तिं प्रलयं च इत्य्-आदि-लक्षण-ज्ञानवान् ॥२०॥
**विश्वनाथः : **भगवान् उत्पत्त्य्-आदि-ज्ञानवान् ॥२०॥
—ओ)०(ओ—
॥ ५.२०.२१ ॥
आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.२२ ॥
यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां पूर्णेनाञ्जलिना यजन्ते ।
**श्रीधरः, विश्वनाथः : **आपो-मयम् अम्मयम् ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.२३ ॥
आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः
ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति
**श्रीधरः : **हे आपः ! पुरुष-वीर्या ईश्वराल् लब्ध-सामर्थ्याः स्थ भवथ । अत एव भूर् भुवः स्वस् त्रैलोक्यं पुनन्त्यस् ता भवत्यो नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनन्तु । यत आत्मना स्वरूपेणैवामीव-घ्नीः पाप-हन्त्र्यः ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हे आपः ! पुरुष-वीर्या ईश्वराल् लब्ध-सामर्थ्या भवथ । अत एव भूर् भुवः स्वस् त्रैलोक्यं पुनन्त्यस् ता यूयं नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनीत, यत आत्मना स्वरूपेणैवामीव-घ्नीः पाप-हन्त्र्यः ॥२३॥
—ओ)०(ओ—
॥ ५.२०.२४ ॥
एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति ।
**श्रीधरः : **दध्नो मण्डं रसः स एवोदकं यस्य । यस्य पर्णान्य् अन्तः खर-स्पर्शानि बहिर् मृदु-स्पर्शानि स शाको नाम वृक्षः ॥२४॥
**क्रम-सन्दर्भः : **द्वीपम् अनुवासयति । तद्-द्वीप-स्थ-स्वाधार-खण्ड-विशेषम् इत्य् अर्थः । सर्वानुवासने त्व् अत्रापि तत् स्यात् ॥२४॥
**विश्वनाथः : **दध्नो मण्डं रस एव उदकं यस्य ॥२४॥
—ओ)०(ओ—
॥ ५.२०.२५ ॥
तस्यापि प्रैयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त आ-वेशित-मतिस् तपोवनं प्रविवेश ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.२६ ॥
एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.२७ ॥
तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते ।
**श्रीधरः : **आत्म-केतुभिः प्राणादि-वृत्तिभिः ॥२७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ५.२०.२८ ॥ **
अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः ।
अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम् ॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **जम्बूद्वीप-दक्षिण-दिक्-स्थितानाम् एवोद्देशावगमाद् अन्तः प्रविश्येति स्फुटं व्यक्तं जगद् इति यावत् ॥२८॥
**विश्वनाथः : **आत्म-केतुभिः प्राणादि-वृत्तिभिः ॥२८॥
—ओ)०(ओ—
॥ ५.२०.२९ ॥
एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् ।
**श्रीधरः : **ज्वलन-शिखावद्-अमलानां कनक-पत्राणाम् अयुतानाम् अयुतानि यस्य तत् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ज्वलनस्य तेजसः शिखाभिर् अमलानि यानि कनक-वर्णानि पत्राणि तेषां अयुतायुतं यस्य ॥२८॥
—ओ)०(ओ—
॥ ५.२०.३० ॥
तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलोऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति ।
**श्रीधरः : **देवानाम् अहो-रात्राभ्याम् उत्तर-दक्षिणायनाभ्याम् इत्य् अर्थः ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद्-द्वीप-मध्य इति मानसोत्तरस्य मण्डलाकारत्वात् तत्-पार्श्व-द्वय-वर्तिनी द्वे वर्से अपि मण्डलाकारे एव ज्ञेये इत्य् आह—अर्वाचीनेति । देवानां अहो-रात्राभ्याम् उत्तर-दक्षिणायनाभ्याम् इत्य् अर्थः ॥३०॥
—ओ)०(ओ—
॥ ५.२०.३१ ॥
तद्-द्वीपस्याप्य् अधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते ।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.२०.३२ ॥
तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ।
**श्रीधरः : **ब्रह्म-रूपिणं कमलासन-मूर्तिम् । स-कर्मकेन ब्रह्म-सालोक्यादि-साधनेन ॥३२॥
**क्रम-सन्दर्भः : **स-कर्मकेणेति । क्रियते साध्यते इति कर्म-फलं, तेन सह वर्तमानेन ब्रह्म-सालोक्यादि-साधनेनेत्य् अर्थः ॥३२॥
**विश्वनाथः : **स-कर्मकेण यतः कर्मणः कर्माण्य् एवोद्भवन्ति, न तु कर्म-क्षयः, तेन सकामेनेत्य् अर्थः ॥३२॥
—ओ)०(ओ—
॥ ५.२०.३३ ॥
यत् तत् कर्म-मयं लिङ्गं ब्रह्म-लिङ्गं जनोऽर्चयेत् ।
एकान्तम् अद्वयं शान्तं तस्मै भगवते नमः ॥ इति ।
**श्रीधरः : **कर्म-मयं कर्म-फल-रूपम् । ब्रह्म लिङ्ग्यते यस्मात् । एकस्मिन्न् एव परमेश्वरेऽअन्तो निष्ठा यस्य तत्, अत एव वस्तुतोऽद्वैतम् ॥३३॥
**क्रम-सन्दर्भः : **लिङ्गं मूर्तिस् तस्मै लिङ्ग-रूपाय ॥३३॥
**विश्वनाथः : **कर्म-मयं स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति [भा।पु। ४.२४.२९] इत्य्-उक्तेः कर्म-प्राप्यं लिङ्गं मूर्तिं ब्रह्म लिङ्ग्यते ज्ञायते येन तत् । भेदेन सेव्य-सेवक-भावेन अर्चयेत् । एकस्मिन्न् एव परमेश्वरे अन्तो भक्ति-निष्ठा यस्य तत् । अत एवाद्वैतं, यो यच्-छ्रद्धः स एव सः [गीता १७.३] इति न्यायेन परमेश्वराद् अभिन्नम् ॥३३॥
—ओ)०(ओ—
॥ ५.२०.३४ ॥
ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः ।
**श्रीधरः : **ततः शुद्धोदात् परस्तात् । लोकः सूर्याद्य्-आलोकवान् देशः अलोकस् तद् रहितस् तयोर् अन्तराले मध्ये । तयोर् विभागार्थम् इत्य् अर्थः ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ततः शुद्धोदात् लोकः सूर्याद्य्-आलोकवान् देशः, अलोकस् तद्-रहितः, तयोर् अन्तराले मध्ये । तयोर् विभागार्थम् इत्य् अर्थः । परितोऽष्ट-दिक्षु मण्डलाकारतयेत्य् अर्थः ॥३४॥
—ओ)०(ओ—
॥ ५.२०.३५ ॥
यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः काञ्चन्य् अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत् ।
**श्रीधरः : **ततः परस्ताद् इत्य् उक्तं तद् एव कियतान्तरेणेत्य् अपेक्षायां तद् अन्तर्-वर्तिनीं भूमिम् आह—यावन् मानसोत्तर-मेर्वोर् अन्तरं सार्ध-सप्त-लक्षोत्तर-सार्ध-कोटि-परिमितं तावती भूः शुद्धोदात् पराऽस्ति । तत्र च प्राणिनोऽपि सन्ति, ततः काञ्चनी भूमिर् अन्यास्तीत्य् अर्थः । सा चैकोन-चत्वारिंश-लक्षोत्तर-कोट्य्-अष्टक-परिमिता ज्ञेया । एवं हि सति मेरु-लोकालोकयोर् अन्तरं सार्ध-द्वादश-कोटि-परिमितं वक्ष्यमाणम् उपपन्नं भवति। एतद् एव शैव-तन्त्रेषूक्तम्—
कोटि-द्वयं त्रि-पञ्चा-शल्-लक्षाणि च ततः परम् ।
पञ्चा-शच् च सहस्राणि सप्त-द्वीपाः स-सागराः ।
ततो हेम-मयी भूमिर् दश-कोट्यो वरानने ।
देवानां क्रीडनार्थाय लोकालोकस् ततः परम् ॥ इति ।
अत्र च दश-कोटित्वं पूर्वोक्त-भूम्या सह द्रष्टव्यम् । सर्व-सत्त्व-परिहृतेति देव-व्यतिरेकेणेति विज्ञेयम्, देवानां क्रीडनार्थायेत्य् उक्तत्वात् ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ततः परस्ताद् इत्य् उक्तं । तद् एव कियद् अन्तरं इत्य् अपेक्षायां आह—यावन् मानसोत्तर-मेर्वोर् अन्तरं मानसोत्तर-मध्यान् मेरु-मध्य-पर्यन्तं स्थलम् इत्य् अर्थः । सार्ध-सप्त-पञ्चाशल्-लक्षोत्तर-कोटि-योजन-परिमितं, तावती भूमिः शुद्धोदात् काञ्चनी, ततः परत्र लोकालोको वर्तत इत्य् अर्थः । सर्वैः सत्त्वैः प्राणि-मात्रैर् एव परिहृता त्यक्ता ॥३५॥
—ओ)०(ओ—
॥ ५.२०.३६ ॥
लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्-वर्तिनावस्थाप्यते ।
**श्रीधरः : **नन्व् अन्तर्यामिणान्तः-स्थेनैव सर्वं कर्तुं शक्यं, किं तस्य बहिः समन्ताद् अवस्थानेन ? इत्य् आशङ्क्य तस्यार्थं स्वयम् एव व्याचष्टे । आत्मनो योग-मायया विरचिता या विविध-लोक-यात्रा, तस्या गोपीथाय रक्षणाय एष भगवान् एवं-भूतम् आकल्पं वेषं गतो लीलया प्राप्त इति समन्ताद् आस्त इत्य् अस्यार्थः ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **समाख्या निरुक्तिः ।अनेन अन्तर्वर्तिना मध्य-वर्तिना सता लोकालोक-मयो देशः । अलोक आलोकाभाव-मयो देशः व्यवस्थाप्यते तुल्य-प्रमाणत्वेन ज्ञाप्यते ॥३६॥
—ओ)०(ओ—
॥ ५.२०.३७ ॥
स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयोऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः ।
**श्रीधरः : **लोक-त्रयस्यान्ते परितो मर्यादा-रूपो विहितः । यस्मात् प्रतिबन्धकात् । सूर्य आदिर् येषाम् । ध्रुवोऽपवर्गोऽन्तो येषाम् । आवितन्वानाः समन्तात् प्रकाशयन्तः परतो गन्तुं न शक्नुवन्ति तावद् उन्नहनम् उत्सेधस् तद्-अनुरूप आयामश् च विस्तारो यस्य । ध्रुवाद् अप्य् उच्छ्रितत्वात् त्रिलोकी-मर्यादा-भूत इत्य् अर्थः ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **लोक-त्रयं भूर्-भुवः-स्वस् तद्-अन्ते परितोऽष्ट-दिक्षु । तर्हि तस्य कियान् उच्छ्रायो विस्तारश् चेत्य् अपेक्षायां आह—यस्मात् प्रतिबन्धकाद् धेतोः सूर्यादीनां ध्रुवान्तानां गभस्तयः किरणास् त्रीन् लोकान् व्याप्य आवितन्वानाः समन्तात् प्रकाशं विस्तारयन्तः परतो गन्तुं न शक्नुवन्ति । तावन्तौ उन्नहनायामौ उच्छ्राय-विस्तारौ यस्य सः । ध्रुवाद् अप्य् उच्छ्रितत्वात् त्रिलोकी-मर्यादा-भूत इत्य् अर्थः ॥३७॥
—ओ)०(ओ—
॥ ५.२०.३८ ॥
एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागोऽयं लोकालोकाचलः ।
**श्रीधरः : **सोऽयं तु लोकालोकाचलस् तुरीय-भागश् चतुर्थोऽंशः सार्ध-द्वादश-कोट्यः । मेरोर् एकत इति द्रष्टव्यम् ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स तु लोकालोकस् तु भू-गोलकस्य भू-सम्बन्धाण्ड-गोलकस्येत्य् अर्थः । सूर्यस्येव भुवोऽप्य् अण्ड-गोलकयोर् मध्य-वर्तित्वात् । ख-गोलम् इव भू-गोलम् अपि पञ्चाशत्-कोटि-योजन-प्रमाणं तस्य तुरीय-भागः सार्ध-द्वादश-कोटि-योजन-विस्तारोच्छ्राय इत्य् अर्थः । भूस् तु चतुस्त्रिंशल्-लक्षोनपञ्चाशत्-कोटि-प्रमाणा ज्ञेया । यथा मेरु-मध्यान् मानसोत्तर-मध्य-पर्यन्तं सार्ध-सप्त-पञ्चाशल्-लक्षोत्तर-कोटि-योजन-प्रमाणम् । मानसोत्तर-मध्यात् स्वादूदक-समुद्र-पर्यन्तं षण्णवति-लक्ष-योजन-प्रमाणम् । ततः काञ्चनी भूमिः सार्ध-सप्त-पञ्चाशल्-लक्षोत्तर-कोटि-योजन-प्रमाणा । एवम् एकतो मेरु-लोकालोकयोर् अन्तरालम् एकादश-लक्षाधिक-चतुष्-कोटि-परिमितम्, अन्यतोऽपि तथेति । अतो लोकालोकाल् लोक-पर्यन्तं स्थानं द्वाविंशति-लक्षोत्तराष्ट-कोटि-परिमितं लोकालोकाद् बहिर् अप्य् एकत एतावद् एव अन्यतोऽप्य् एतावद् एव । यद् वक्ष्यते—
योऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् । [भा।पु। ५.२०.४२] इति ।
एकतो लोकालोकः सार्ध-द्वादश-कोटि-योजन-प्रमाणः, अन्यतोऽपि स तथेत्य् एवं चतुस्त्रिंशोन-पञ्चाशत्-कोटि-योजन-प्रमाणा । भूः साब्धि-द्वीप-पर्वता ज्ञेया । अत एवाण्ड-गोलकात् सर्वतो दिक्षु सप्तदश-लक्ष-योजनावकाशे वर्तमाने सति पृथिव्याः शेष-नागेन धारणं दिग्-गजैश् च निश्चली-करणं सार्थकं भवेद् अन्यथा तु व्याख्यान्तरे पञ्चाशत्-कोटि-प्रमाणत्वाद् अण्ड-गोलक-लग्नत्वे तत्-तत्-सर्वम् अकिञ्चित्करं स्यात्, चाक्षुषे मन्वन्तरे चाकस्मात् मज्जनं श्री-वराह-देवेनोत्थापनं च दुर्घटं स्याद् इत्य्-आदिकं विवेचनीयम् ॥३८॥
—ओ)०(ओ—
॥ ५.२०.३९ ॥
तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकल-लोक-स्थिति-हेतवः ।
**श्रीधरः : **आशासु दिक्षु येऽधिनिवेशितास् ते आसते ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **येऽधिनिवेशितास् ते आसते ॥३९॥
—ओ)०(ओ—
॥ ५.२०.४० ॥
तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते ।
**श्रीधरः : **तेषां दिग्-गजानां स्व-विभूतीनां स्वांश-भूतानां महेन्द्रादीनां च विविध-वीर्योपबृंहणाय सकल-लोक-स्वस्तये च भगवांस् तस्मिन्न् आस्ते इत्य् अन्वयः । किं कुर्वन्? आत्मनः स्वस्य यद् विशुद्धं सत्त्वं, तत् सन्धारयमाण आविष्कुर्वन् । कीदृशम् ? धर्म-ज्ञानादीन्य् अष्ट-महा-सिद्धयश् चोपलक्षणं यस्य तत् । दोर्-दण्डैर् उपलक्षितः सन् महा-विभूतेः परमैश्वर्यस्य पतित्वाद् एकयैव मूर्त्या समन्ताद् आस्ते ॥४०॥
**क्रम-सन्दर्भः : **तेषाम् इति धर्माद्य्-अष्ट-महा-सिद्धय उपलक्ष्यन्ते प्रकाश्यन्ते येन तत् ॥४०॥
**विश्वनाथः : **स्व-विभूतीनां स्वांश-भूतानां हस्तिनां उपबृंहणं वर्धनं तद्-अर्थं धर्माद्य्-उपलक्षयतीति तादृशं शुद्ध-सत्त्वं धारयमाणः सकल-लोक-स्वस्तये च ॥४०॥
—ओ)०(ओ—
॥ ५.२०.४१ ॥
आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः ।
**श्रीधरः : **नन्व् अन्तर्यामिणान्तः-स्थेनैव सर्वं कर्तुं शक्यं किं तस्य बहिः समन्ताद् अवस्थानेन ? इत्य् आशङ्क्य तस्यार्थं स्वयम् एव व्याचष्टे । आत्मनो योग-मायया विरचिता या विविध-लोक-यात्रा तस्या गोपीथाय रक्षणाय एष भगवान् एवं-भूतम् आकल्पं वेषं गतो लीलया प्राप्त इति समन्ताद् आस्त इत्य् अस्यार्थः ॥४१॥
**क्रम-सन्दर्भः : **आकल्पं प्रलय-पर्यन्तम् एवं समन्तात् स्थिति-प्रकारेण गतस् तत्र प्राप्त इत्य् अर्थः । इति स एव मदीय-पूर्वोक्तस्याभिप्राय इत्य् अर्थः ॥४१॥
**विश्वनाथः- **ननु किं तस्यैतावता प्रयासेनेत्य् अतः सकल-लोक-स्वस्तय इत्य् एतत् स्वयम् एव व्याचष्टे—आकल्पं कल्प-पर्यन्तं एवम् अनेन प्रकारेण गतः लोको लोकः प्रान्तः आकल्पं वेशं प्राप्त इति वा । आत्मनो योगमायया विरचिता या विविध-लोक-यात्रा तस्या गोपीथाय रक्षणाय, तस्यैव शक्त्या रचितं विश्वं स चेन् न पालयेत् तर्हि कः पालयेद् इति भावः ॥४१॥
—ओ)०(ओ—
॥ ५.२०.४२ ॥
योऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति ।
**श्रीधरः : **अलोक-परिमाणं च मेरोर् एकतः सार्ध-द्वादश-कोट्यः ततो लोकालोकात् । अलोकाद् वा परस्तात् । विशुद्धां द्विज-पुत्रानयनेऽर्जुनस्य श्री-कृष्णेन प्रदर्शिताम् ॥४२॥
**क्रम-सन्दर्भः : **योऽन्तर् इति । लोकालोकस् तु लोकम् अलोकं चार्धेनार्धेन व्याप्य स्थितः, अतः काञ्चन्या भूमेः पर-भागम् आक्रान्तः शिव-तन्त्रे च—लोकालोकं ततः परम् इत्य् उक्तम् । अन्यथा ब्रह्माण्ड-गर्भस्य पञ्चाशत्-कोट्य्-अतिक्रमः स्याद् इति विषुद्धान्तर्-गतम् इति विशुद्ध-गति-हेतुत्वात् ॥४२॥
**विश्वनाथः : **अलोक-परिमाणं द्वाविंशति-लक्षोत्तरं कोट्य्-अष्टकं बहिः सर्व-दिक्षु योगेश्वराणां आवरणाष्टकं विभिद्य मुमुक्षूणां । यद् वा, नारदादीनां ॥४२॥
—ओ)०(ओ—
**॥ ५.२०.४३ ॥ **
अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् ।
सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः ॥
**श्रीधरः : **विस्तरेणोक्तं ब्रह्माण्ड-मानं सर्वतोऽपि निरूपयति–अण्ड-मध्य-गतः । किं तन्-मध्यं ? तद् आह—द्याव्-आभूम्योः पूर्वोत्तर-कपालयोर् यद् अन्तरं मध्य-स्थानम् । सर्वतः पञ्च-विंशति-कोट्यः ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विस्तरेणोक्तं अण्ड-गोलक-मानं ऊर्ध्वाधोऽपि निरूपयति–अण्ड-मध्य-गतः । किं तन्-मध्यं ? तद् आह—द्याव्-आभूम्योः भुवर्लोक-भूर्लोकयोर् यन् मध्यम् । अतः सूर्यश् च अण्ड-गोलकं च तयोर् मध्ये सूर्याद् ऊर्ध्व-गोलक-पर्यन्तं यथा पञ्च-विंशति-कोट्यः तथा अधो-गोलक-पर्यन्तं चेत्य् अर्थः । उपपत्तिस् तूपरिष्टाद् व्याख्येया ॥४३॥
—ओ)०(ओ—
॥ ५.२०.४४ ॥
**मृतेऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः **
हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः ।
**श्रीधरः : **अण्ड-मध्यावस्थाने कारणं तन्-नाम-निर्वचनेनाह । मृतेऽचेतने एष सूर्यो वैराज-रूपेण यस्मात् प्रविष्टः ॥४४॥
**क्रम-सन्दर्भः : **एष सूर्य इत्य् अन्तर्याम्य्-अभेद-विवक्षया ॥४४॥
**विश्वनाथः : **अण्ड-मध्यावस्थाने कारणं तन्-नाम-निर्वचनेनाह—मृतेऽचेतने एष सूर्योऽभूत् प्रविष्टः, ततो मार्तण्डः । स एव कः ? इत्य् अत आह—हिरण्यगर्भः समष्टि-जीव-सूक्ष्मोपाधि-रूपः । यद् यत एष हिरण्याण्डस्य तदीय-स्थूल-देहस्य सम्भवः सम्यग् विद्यमानता ॥४४॥
—ओ)०(ओ—
**॥ ५.२०.४५ ॥ **
सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥
**श्रीधरः : **किं च, सूर्येणैव विभज्यन्ते दिशः । स्वम् अन्तरिक्षम् । भिदा अन्योऽपि विभागः । स्वर्गापवर्गौ भोग-मोक्ष-देशौ । रसौकांस्य् अतलादीनि ॥४५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भिदा अन्योऽपि विभागः । स्वर्गापवर्गौ भोग-मोक्ष-देशौ । रसौकांस्य् अतलादीनि ॥४५॥
—ओ)०(ओ—
**॥ ५.२०.४६ ॥ **
देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् ।
सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः ॥
**श्रीधरः : **उपासनार्थम् आह । देवादीनां सूर्य आत्मा दृग् ईश्वरो नेत्राधिष्ठाता च ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सूर्य आत्मा आत्मत्वेनोपास्यः ॥४६॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
विंशोऽध्यायः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
समुद्रे द्वीपा-वर्णनं नाम
षड्विंशोऽध्यायः ।
॥ ५.२० ॥
(५.२१)