१९ जम्बूद्वीप-वर्णनम्

॥ ५.१९.१ ॥

श्री-शुक उवाच—

किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते ॥

**श्रीधरः : **

ऊनविंशे किम्पुरुषे भारते चोपवर्ण्यते ।

सेव्य-सेवक-भावश् च भारत-श्रैष्ठ्यम् एव च ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

रामः किं-पुरुषे नारायणः सेव्यश् च भारते ।

सर्वतो भारत-श्रैष्ठ्यम् ऊनविंशे निरूप्यते ॥ओ॥

भर्तुर् एव भगवतः कथम् इत्य् अनेन नारदादिर् इव नावतारान्तर-कथायाम् अनुरज्यतीति द्योतितम् ॥१॥

—ओ)०(ओ—

॥ ५.१९.२ ॥

आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति ॥

**श्रीधरः : **भर्ता चासौ भगवांश् च तस्य कथाम् ॥२॥

**क्रम-सन्दर्भः : **भर्तृ-भगवत्-कथाम् इति भर्तृत्वादि-मनन-विशेषेण सुख-वैशिष्ट्यं दर्शितम् ॥२॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१९.३ ॥

ॐ नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति ॥

**श्रीधरः : **आर्याणि लक्षणानि शीलं व्रतं च यस्मिन् । उपशिक्षितात्मने संयत-चित्ताय । उपासितोऽनुसृतो लोको येन साधु-वादः साधुत्व-प्रसिद्धिस् तस्य निकषणाय निकषाश्मवन् निर्धार-स्थानाय परम-सीम्न इत्य् अर्थः ॥३॥

**क्रम-सन्दर्भः : **एवं श्री-राघवेन्द्रस्य केवल-माधुर्यमय-लीलायां हनुमतः केवल-तन्-मय-दास-भावोऽपि स्वरूपैश्वर्यादि-ज्ञान-मय-तद्-भाव-सङ्गतिर् नातियोग्यापि पश्चान् माधुर्यमय एव पर्यवसायिताभङ्ग्या तस्यैवोकर्षाय जातेत् रसोल्लास एव योजनीयः। तत्रैश्वर्य-माधुर्ययोर् महिम-ज्ञानं तस्याह—ॐ नमो भगवते उत्तमश्लोकाय इत्य्-आदि । अत्र भगवत इत्य् ऐश्वरम् उत्तमश्लोकायेति माधुर्यं दर्शितम् ॥३॥ [प्रीति-सन्दर्भः १९३]

**विश्वनाथः : **आर्याणि सर्वैः शिरोधार्याणि लक्षणानि चरण-तल-ध्वज-वज्रादीनि आजानु-बाहुत्वादीनि च शीलानि धीरोदात्तादीनि व्रतानि धर्म-निष्ठत्वादीनि यस्य तस्मै । उपशिक्षितात्मने गुरु-ब्राह्मणादि-शिक्षाग्राहिणे उपासित-लोकायेति स्वस्य ब्रह्माद्य्-उपास्यत्वेऽपि मया स्वाचरणेन रजक-पर्यन्ता अपि लोकाः प्रसादनीया इति विचारवत्त्वाल् लोकानां तद्-उपासितत्वम् । साधु-वादानां ब्रह्मण्यत्व-सत्य-सन्धत्व-कृपालुत्वादीनां निकषणाय परमोत्कर्ष-प्रापकाय लोका हि साधु-वादैर् उत्कृष्यन्ते । रामं प्राप्य साधु-वादा अप्य् उत्कृष्टा भवन्तीत्य् अर्थः । यथा परमोत्कृष्टस्यापि कनकस्य निकषं प्राप्तस्यैवोत्कर्षो लोके प्रमाणीभवति तद्वद् इत्य् अर्थः ॥३॥

—ओ)०(ओ—

॥ ५.१९.४ ॥

यत् तद् विशुद्धानुभव-मात्रम् एकं

स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् ।

प्रत्यक् प्रशान्तं सुधियोपलम्भनं

ह्य् अनाम-रूपं निरहं प्रपद्ये ॥

**श्रीधरः : **श्री-रामं परमार्थ-रूपेण प्रणमति । यद् एकं वेदान्तेषु प्रसिद्धं तत्त्वं तत् प्रपद्ये । तत् कथम्भूतम् ? विशुद्धश् चासाव् अनुभवश् च स एव मात्रा स्वरूपं यस्य । विशुद्धत्वे हेतुः—प्रशान्तम् । तत्रापि हेतुः—स्व-तेजसा स्वरूप-प्रकाशेन ध्वस्ता गुणानां विविधा जाग्रद्-आद्य्-अवस्था यस्मिन् । अनुभव-मात्रत्वे हेतुः—प्रत्यग्-दृश्याद् अन्यत् । तत् कुतः ? अनाम-रूपम् । ननु वस्तुत एवम्भूतस्यापि जीवस्योक्त-सर्व-विपर्ययो दृश्यते तत्राह—निरहम् । अहङ्काराभावान् न तथा वैपरीत्यम् इत्य् अर्थः । ननु श्री-रामस्य स्वरूपं नैवं प्रतीयते तत्राह—सुधिया पुंसा उपलभ्यत इत्य् उपलम्भनम् । शुद्ध-चित्तेन ब्रह्मत्वेनैवोपलभ्यत इत्य् अर्थः ॥४॥

**क्रम-सन्दर्भः : **स्वरूप-ज्ञानम् आह—यत् तद् इति । यत् तत् प्रसिद्धं श्री-रामचन्द्रस्य दुर्वा-दल-श्यामल-रूपम् । अत्र प्रकाशैक-लक्षण-वस्तुनः सूर्यादि-ज्योतिषः प्रकाशकत्वं शौक्लादिमत्त्वम् इत्य्-आदि धर्मवद् गुण-रूपादि-लक्षण-तत्-स्वरूप-धर्मस्यापि तद्-आत्मकत्व-दृष्ट्या तन्-मात्रत्वम् उक्तम् । य एव धर्मः स्वरूप-शक्तिर् इति भगवत्-सन्दर्भादौ स्थापितम् । अत एवैकम् अपि । तस्याश् च शक्तेर् मायातिरिक्तत्वम् आह—स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् इति । स्वरूप-शक्त्या दूरीभूता त्रैगुण्यात्मिका माया शक्तिर्यस्मात् यत् । अतः प्रशान्तं सर्वोपद्रव-रहितम् । अनुभाव-मात्रत्वे हेतुः—प्रत्यग्-दृश्याद् अन्यत्। न चक्षुषा पश्यन्त1 रूपम् अस्य [क।उ। २.३९], यम् एवैष वृणुते तेन लभ्यस् तस्यैषा आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति श्रुतेः । तत् कुतः ? अनाम-रूपं, एतास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणी [छा।उ। ६.३.२] इति प्रसिद्ध-प्राकृत-नाम-रूप-रहितम् । तत्र हेतुः—निरीहम् इति । आत्म-शब्देन हि श्रुताव् अस्यां परमात्मनो जीवाख्य-शक्ति-रूपोऽंश उच्यते । अनेनेति पृथक्त्व-निर्देशात्2 । तद्-रूपेण च प्रवेशो नाम देवता-शब्द-वाच्य-तेजो-वारि-मृल्-लक्षणोपाध्य्-अभिनिवेशः । स च तस्य जीवस्य तत्राहन्ताध्यासाद् एव भवति । ततोऽन्तर्यामि-रूपेण स्वयं तत्र स्थितस्यापि तद्-अध्यासाभावाद् उपाधिकृत-नाम-रूप-राहित्यं युक्तम् एवेत्य् अर्थः । सर्वथाहङ्कार-राहित्ये सति व्याकर-वाणीति-प्रयोगस्यानर्हत्वाद् इति भावः ।

ननु, श्री-राम-रूपं न सर्वैर् एव प्रतीयते तत्राह सुधियोपलम्भनम् । शुद्ध-चित्तेन स्वरूपतयिवोपलभ्यत इत्य् अर्थः । नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य्-आदि श्री-ब्रह्म-वाक्यात् ॥४॥ [प्रीति-सन्दर्भ, १९४]

**विश्वनाथः : **ननु शङ्ख-चक्रादिमत्त्व-गरुड-वाहनत्वाद्य्-ऐश्वर्यानाविष्काराद् अवतारस्यास्य ब्रह्मत्वे केचित् संशेरते ? तत्र ये संशेरते ते संशेरतां नाम, अहं तु साक्षाद् इमं पर-ब्रह्म-रूपम् एवानुभवामीत्य् आह—यद् इति । विशुद्धो माया-सम्बन्ध-शून्यो योऽनुभवस् तन्-मात्रम् एकं केवलं यत् तद् एवेमं प्रपद्ये ।

ननु शुद्ध-जीवोऽप्य् एवं भवति ? तत्राह—स्व-तेजसा स्वरूप-शक्त्या दूरीभूता गुण-व्यवस्थान-रूपा माया-शक्तिर् यस्मात् तत् । अत एव प्रत्यग्-दृश्याद् अन्यत् । न चक्षुषा पश्यति रूपम् अस्य [क।उ। २.३९], यम् एवैष वृणुते तेन लभ्यस् तस्यैषा आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति श्रुतेः । यतः प्रशान्तं सर्वोपद्रव-रहितम् ।

ननु श्री-रामस्य रूपं नैवं प्रतीयते ? तत्राह—सुधियैव पुंसा उपलभ्यत इत्य् उपलम्भनम् । यतोऽनाम-रूपम्—एतास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छा।उ। ६.३.२] इति प्रसिद्धं प्राकृत-नाम-रूप-रहितम् । श्रुतौ तिस्रः इति तेजो-वारि-मृदः, निर्निश्चयेनाहं प्रपद्ये । यद् वा, अहङ्कार-रहितं यथा स्यात् तथा प्रपत्तिर् अपि कृपया तेनैव कारितेति बुद्ध्येत्य् अर्थः ॥४॥

—ओ)०(ओ—

॥ ५.१९.५ ॥

मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं
रक्षो-वधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद् रमतः स्व आत्मनः
सीता-कृतानि व्यसनानीश्वरस्य ॥

**श्रीधरः : **कथं तर्हि दशरथ-पुत्रत्वम् ? तत्राह—विभोर् मर्त्यावतारस् तु रक्षसो रावणस्य वधाय, तस्य मनुष्याद् अन्य्तोऽवध्यत्वात् । न केवलम् एतावत् किं तु इह संसारे स्त्री-सङ्गादि-कृतं दुःखं दुर्वारम् इति मर्त्यानां शिक्षणां च । शिक्षार्थम् अपीत्य् अर्थः । अन्यथा खे स्वरूपे रममाणस्य जगद्-आत्मनः सीता-विरह-कृतानि व्यसनानीति कुतः स्यात्॥५॥

**क्रम-सन्दर्भः : **नन्व् एवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् ? उच्यते—गौणे सत्य् अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीला-माधुर्याभिव्यञ्जनम् एवेत्य् आह—मर्त्येति । तु-शब्द आशङ्का-निवृत्त्य्-अर्थः । मर्त्य-लोके योऽवतार आविर्भावः, स तु साधु-जनोद्वेजक-रक्षो-वधायैव केवलं न भवति किन्तु मर्त्य-शिक्षणम् अपि । मर्त्येषु शिक्षणं तद्-अर्थ-प्रकाशनं यत् तन्-मयम् अपि । तत्र बहिर्मुखेषु विषयासङ्ग-दुःख3-दुर्वारता-प्रकाशनम् आनुषङ्गिकम् । मुख्यम्4 उद्देश्यं तु स्व-भक्ति-वासनेषु चित्तार्द्रता-कर-विरह-संयोग-मय-निज-लीला-विशेष-माधुर्य-प्रकाशनम् । ततस् तद्-अर्थम् एवेत्य् अर्थः । अन्यथा यदि केवलं तद्-वधायैव स्यात् तदा आत्मनः परमात्मत्वेन परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्व-स्वरूपे तद्-एक-रूपे वैकुण्ठे च रममाणस्य सीता-कृतानि व्यसनानीति कुतः स्यात् ? मनसैव तद्-वधे शक्तत्वात् तद्-व्यसनासम्भवाच् च । निज-माधुर्य-प्रकाशन-पक्षे तु तत् तत् सम्भवत्य् एवेति भावः। अत्र कृपा-रूपं5 तादृश-लीला-रूपं च माधुर्यम् अधिकं श्लाघितम् । तत्र श्री-सीता-वियोग-दुःखं च लीला-माधुर्यान्तर्गतम् एवेति न दोष इत्य् अपि दर्शितम् ॥५॥ [प्रीति-सन्दर्भ, १९५]

**विश्वनाथः : **ननु तर्हि प्रपञ्च-लोके कथं एवं प्रकटीभावीति तत्राह—मर्त्यावतारः मर्त्याकारस्य प्रपञ्च-लोक-प्राकट्यं न केवलं रक्षसो रावणस्यैव वधाय, किन्तु मर्त्य-शिक्षणं मर्त्य-शिक्षणार्थोऽपीत्य् अर्थः ।

मर्त्या द्विविधाः—धर्मवन्तो भक्तिमन्तश् च। तेभ्यः क्रमेण स्वस्य धार्मिकत्व-प्रेम-वश्यत्वयोः प्रदर्शनाय धर्म-शिक्षणार्थं प्रेम-शिक्षणार्थं चेत्य् अर्थः । अन्यथा स्वे स्वरूप एव रममाणस्य परमात्मनः सीता-विरह-कृतानि व्यसनानि दुःखानि कुतः स्यात् स्युः ? किन्तु साध्वी स्व-भार्या धार्मिकैः सर्वथैव नोपेक्षतव्या तद्-अर्थं प्राप्तानि दुःखान्य् अपि सहतैवेति शिक्षणार्थं स्वस्मिन्न् असन्त्य् अपि दुःखानि दर्शितानीति प्रथमे पक्षे । द्वितीये तु सीता-विरह-कृतानि विषादादीनि कुतो दुःखानि, किन्तु प्रेम्नः स्थायि-भावस्य विप्रलम्भ-रसास्वादन-जनितानि दुःखत्वेन भासमानानि परम-सुखान्य् एव, न तु दुःखानीत्य् अर्थः । आत्मारामत्व-दुःखित्वयोर् युगपद् एकत्र विरोधात्, न च सीतायां रममाणस्य कुत आत्मारामत्वम् इति वाच्यम् । सीतायाः स्वरूप-शक्तित्वेनात्म-भूतत्वात् ।

ननु सीतायाः स्वरूप-भूतत्वे कथं तद्-विरहः सम्भवेत् ? उच्यते—एकम् एव परम-तत्त्वं चिच्-छक्ति-वृत्ति-भेदेन महा-सारेण प्रेमाख्येनानादित एव द्विधा विभक्तं तिष्ठति—हलादषड्-ऐश्वर्य-मयं, केवलं हलाद-मयं च । प्रथमं परमेश्वराक्यं, द्वितीयं भक्ताख्यम् । पुनश् च तेनैव प्रेम्ना स्वस्य चतसृभिर् वृत्तिभिर् द्वितीयं तत्त्वं चतुर्धा विभक्तं—दास-सखि-पित्रादि-प्रेयस्याख्यं, प्रथमस्य तद् एव तत्त्वस्य दास्यादि-भाव-भावि-तत्त्वं व्यवस्थापितम् । प्राकृतेष्व् अपि जीवेषु यदृच्छयैतादृश-भक्ति-साधनवत्सु भक्ति-परिपाके स्वयम् आविर्भूयएतच् चतुष्कम् आवेश्य तेऽपि दासादित्वेन यथा-कालं नित्य-लोकं प्रापय्य चतुष्केण तेन समनुगम्यते, पुनर् अपि तेनैव प्रेम्ना स्थायि-भावतां प्राप्तेन स्व-शक्त्यैवाविर्भाविताभिर् विभावादिभिः स्वं रस-रूपीकृत्य, तद् एव तत्त्व-युगलं स्वस्य विषयाश्रयी-भाव-भावितं कृत्वा स्वाधीनीकृत्य योग-वियोगाभ्याम् सुख-दुःखायितं स्व-माधुर्यम् असाधारणम् अपारम् आस्वादयता कोऽप्य् आनन्द-चमत्कार एव तद्-विदां निष्पाद्यते । अतद्-विदां तु केषांचित् राम-कृष्णादीनां अप्य् एतावद् दुःखम् अनिर्वाच्यम् इति केषांचिज् जीव-प्रदर्शनायै अनुकृतम् इत्य् एवं व्यामोह एव ॥५॥

—ओ)०(ओ—

॥ ५.१९.६ ॥

न वै स आत्मात्मवतां सुहृत्तमः
सक्तस् त्रि-लोक्यां भगवान् वासुदेवः ।
न स्त्री-कृतं कश्मलम् अश्नुवीत
न लक्ष्मणं चापि विहातुम् अर्हति ॥

**श्रीधरः : **विषयासक्त्य्-अभावेन व्यसनानर्हत्वम् उपपादयति । न वै स भगवांस् त्रिलोक्यां क्वापि सक्तः । यत आत्मवतां धीराणाम् आत्मा सुहृत्तमश् च । अतो न स्त्री-कृतं मोहं प्राप्नुयात् । न लक्ष्मणं चेति । देव-दूतेन श्री-रामं संमन्त्रयता विज्ञापितम् अत्रागतस् त्वया वध्य इति तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससम् आगतं विज्ञापयितुं प्रविष्टं हन्तुम् उद्यतो वसिष्ठ-वाक्यात् तत्याज तच् च न युज्येतेत्य् अर्थः ॥६॥

**क्रम-सन्दर्भः : **तादृश-लीला च न प्राकृतवत् कामादि-सक्ततया, किन्तु स्वजन-विशेष-विषयक-कृपा-विशेषेणैवेत्य् आह—न वै इति । स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः—आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः, वासुदेवः सर्वाश्रयश् चेति । किन्तु आत्मवताम् आत्मा स्वयम् एव नाथत्वेन विद्यते येषां, तेषां स्व-विषयक-ममता-धारिणां भक्त-विशेषाणाम् इत्य् अर्थस् तेषाम् एव सुहृत्तमः । तस्माद् यथान्यो स्त्रीत्व-हेतुकं कश्मलम् अश्नुवते तेन, तथा नासाव् अश्नुवीत । अतस् तस्या आत्मवत्त्वेनैव तादृश-कश्मल-हेतु-तत्-प्रीति-विषयतापीति भावः । तथा देव-दूत-समयातिक्रमेणात्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु नात्यन्तिक इत्य् आह—न लक्ष्मणम् इति । विहातुम् अपि नार्हति न शक्नोति । अनन्तरं झटित्य् एव स्वर्ग-स्थतया स्वागमनं प्रतीक्षमाणैस् तद्-आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश् च सहैवास्मिन् किंपुरुष-वर्षेऽप्य् अस्माभिर् दृश्यमानत्वात् । ततो मर्यादा-रक्षार्थम् एव किञ्चित् तत्-तद्-अनुकरणम् इति भावः ॥६॥ [प्रीति-सन्दर्भ, १९६]

**विश्वनाथः : **तस्य प्रेम-वश्यत्व-सत्यव्रतत्व-ब्रह्मण्यत्वादिभिर् अप्राकृतैर् गुणैर् एव एतद् उपपद्यते, नान्यथेत्य् आह—नेति । स वै खलु त्रिलोक्यां न सक्तः, यतः आत्मा परमात्मा, तद् अपि आत्मवतां आत्मा, सेव्यत्वेन वर्तते येषां तेषां दासादीनां सुहृत्तमः, यतो भगवान् पूर्ण-षड्-ऐश्वर्यः, अतः प्रेम-वश्यत्वानङ्गीकारे प्राकृतानां इव स्वीकृतं कश्मलं मोहं नाश्नुवीत, न प्राप्नुयात् तथैव सत्यव्रतत्व-ब्रह्मण्यत्वाद्य्-अनङ्गीकारे लक्ष्मणम् अपि त्यक्तुं नार्हेत् । तथा हि देव-दूतेन श्री-रामं मन्त्रयता विज्ञापितम् । अत्रागतस् त्वया वध्य इति । तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससं विज्ञापयितुम् प्रविष्टं हन्तुम् उद्यतो वसिष्ठ-वाक्यात् तत्याजेति तस्माद् एतादृशस्य लीलया प्रेमाणं धर्मं च शिक्षयामासेति युक्तम् उक्तं मर्त्य-शिक्षणम् इति ॥६॥

—ओ)०(ओ—

॥ ५.१९.७ ॥

न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश्
चकार सख्ये बत लक्ष्मणाग्रजः ॥

**श्रीधरः : **अतः श्री-राम एव सर्वैः सेव्य इति वक्तुं न तस्य तोष-हेतुः सत्-कुल-जन्मादि, किन्तु भक्तिर् एवेत्य् आह—न जन्मेति । महतः पुरुषाज् जन्म । महतः श्री-रामस्येति वा । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् तैर् जन्मादिभिर् विसृष्टांस् त्यक्तान् अपि नो वन-चरान् बत अहो लक्ष्मणस्याग्रजेऽपि सखित्वे कृतवान् ॥७॥

**क्रम-सन्दर्भः : **पूर्वार्थम् एव स्थापयितुं भक्त्य्-एक-कारण-कारुण्य-प्रमुख-परम-माधुर्यं सर्वोर्ध्वम् आह द्वाभ्यां—न जन्म नूनम् इति । महतः पुरुषाज् जन्म । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् । तैर् जन्मादिभिर् विसृष्टांस् त्यक्तान् अपि नोऽस्मान् तदीय-परम-भक्त-श्री-सीतान्वेषणादि-भक्ति-तुष्टत्वेन बताहो ! लक्ष्मणस्य सर्व-सद्-गुण-लक्ष्म-लक्षितस्य श्री-सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान्, दास्यायोग्यान् अपि सह-विहारादिना सखीन् इव स्वीकृतवान्6 इत्य् अर्थः । सुग्रीवादीन् उपलक्ष्य वा तथोक्तम् ॥७॥ [प्रीति-सन्दर्भ, १९७]

**विश्वनाथः : **तत्-तत्-सर्व-गुणाकारस्य तस्य कृपाया निरुपाधिं विशिष्याह—न जन्मेति । महतो वंशाज् जन्म महतः श्री-रामस्येति वा । तैः सज्-जन्मादिभिर् लक्ष्मणस्य सर्व-सल्-लक्षण-परिपूर्णस्य सुमित्रासुनोर् अग्रजत्वेन तम् अपि दास्ये विदधानोऽस्मान् सर्व-सल्-लक्षण-रहितान् अपि सख्ये चकारेति सुग्रीवम् उपलक्ष्योक्तिः ॥७॥

—ओ)०(ओ—

॥ ५.१९.८ ॥

सुरोऽसुरो वाप्य् अथ वानरो नरः
सर्वात्मना यः सुकृतज्ञम् उत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तरान् अनयत् कोसलान् दिवम् इति ॥

**श्रीधरः : **तस्मात् सुरो वान्यो वा यः कोऽपि श्री-रामम् एव सर्व-प्रकारेण भजेत् । सुकृत-ज्ञम् अल्पीयस्य् अपि भजने बहु-मानिनम् । उत्तरान् कोशलान् अयोध्या-वासिनः ॥८॥

**क्रम-सन्दर्भः : **तस्मात् सुर इति । पूर्वं स्वरूप-ज्ञान-मय-भक्त्या मनुजाकृताव् एव परम-स्वरूपत्वं7 दर्शितवान् । सम्प्रति माधुर्य-ज्ञान-मय-भक्त्यापि विशिष्य तम् एवाराधयति मनुजाकृतिं हरिम् इति । तत्रापि श्री-कपिलादिकं व्यावर्तयति रामम् इति । उत्तमम् असमोर्ध्व-गुणं—सुकृतज्ञं स्वल्पयापि भक्त्या सन्तुष्यन्तम् इति ॥८॥ [प्रीति-सन्दर्भ, १९८]

**विश्वनाथः : **तस्माद् भजनीयेषु सर्वेष्व् अवतारेषु मध्ये राम एव कृपा-सिन्धुर् अतिशयेन भजनीयो यद्-भजने सर्व एवाविशेषेणाधिकारीत्य् आह—सुर इति । यः कोऽपि सर्वात्मना सर्व-प्रकारेण, उत्तरान् कोशलान् अयोध्या-वासिनः स-शरीरान् एव दिवं वैकुण्ठम् ॥८॥

—ओ)०(ओ—

॥ ५.१९.९ ॥

भारतेऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपोऽव्यक्त-गतिश् चरति ॥

**श्रीधरः : **उपचितैर् धर्मादिभिर् आत्मोपलभ्यते येन तत् तपश् चरति । तत्रोपशम इन्द्रियाणां संयमः उपरमो निरहङ्कारता । आत्म-वताम् अनुग्रहाय न स्वार्थम्, ईश्वरत्वात् ॥९॥

**क्रम-सन्दर्भः : **नर-नारायणाख्य इति द्वयोर् अभेदो दर्शितः । आत्मवतां—आत्मा स एव भगवान् नाथत्वेन विद्यते येषां तेषां भक्तानाम् अनुकम्पया हेतुना तद्-विषयकानुकम्पाधीनः सन् तेषां मङ्गलार्थं स्वयम् एव तपश् चरतीत्य् अर्थः । अहो ! एतावान् अपि तद्-अनुकम्पा-परिणाम इति भावः । तद् एव दर्शयति—उपचितेति । स्वयम् एव कृतैस् तैस् तैर् अङ्गैस् तेष्व् आत्मनो भगवत उपलम्भनं स्फूर्ति-हेतुकम् इत्य् अर्थः । तर्हि कथं लोकैस् तथा नावगम्यते ? तत्राह—अव्यक्त-गतिर् इति वा ॥९॥

**विश्वनाथः : **उपचितैर् धर्मादिभिः सहित आत्मा त्वं-पदार्थ उपलभ्यते येन, तत् तपश् चरति । तत्रोपशम इन्द्रियाणां संयम उपरमो निरहङ्कारिता । आत्म-वताम् अनुग्रहाय तपः-शिक्षण-रूपायेति तपसि प्रयोजनं अनुकम्पयेति तत्र कारणम् इत्य् अपौनरुक्त्यम् ॥९॥

—ओ)०(ओ—

॥ ५.१९.१० ॥

तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति ॥

**श्रीधरः : **भगवद्-अनुभाव उपवर्ण्यते येन पञ्चरात्रेण तत् । सावर्णेर् मनोः । उपसरति सेवते ॥१०॥

**क्रम-सन्दर्भः : **प्रजाभिः सह ताश् च निरुपमा एव, न तु सर्वाः । भगवता नर-नारायणाख्येन प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां सारासार-विवेक-भगवन्-निष्ठाभ्यां यद् भगवद्-अनुभवोपवर्णनम् । तत् सावर्णिं प्रत्युपदेक्ष्यति यः, स इत्य् अर्थः ॥१०॥

**विश्वनाथः : **भगवद्-अनुभावो वर्ण्यते—येन तद्-भगवद्-अनुभाव-वर्णनं पञ्चरात्र-शास्त्रं साङ्ख्य-योगाभ्याम् सह । सावर्णेः सावर्णिम् ॥१०॥

—ओ)०(ओ—

**॥ ५.१९.११ ॥ **

ॐ नमो भगवते उपशम-शीलायोपरतानात्म्याय नमोऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति ॥

**श्रीधरः : **उपरतानात्म्याय निरहङ्काराय ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उपरतानात्म्याय न विद्यते आत्मा ज्ञातव्यत्वेन यस्य सोऽनात्म अनात्मनो भावः अनात्म्यं, उपरतम् अनात्म्यं यस्मात् तस्मै ॥११॥

—ओ)०(ओ—

॥ ५.१९.१२ ॥

गायति चेदम्—

कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देह-गतोऽपि दैहिकैः ।
द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते
तस्मै नमोऽसक्त-विविक्त-साक्षिणे ॥

**श्रीधरः : **असक्तश् चासौ विविक्तश् च साक्षी च तस्मै नमः । असक्तत्वं दर्शयति । अस्य विश्वस्य सर्गादिषु कर्तापि यो न बध्यतेऽहं कर्तेति न मन्यते । विविक्तत्वम् आह । देह-गतोऽपि दैहिकैः क्षुत्-पिपासादिभिर् यो न हन्यते नाभिभूयते । साक्षित्वम् आह । यस्य द्रष्टुर् अपि सतो दृष्टि-गुणैर् दृश्यैर् न विदूष्यते न विक्रियते ॥१२॥

**क्रम-सन्दर्भः : **तस्य परमहंसत्वं दर्शयन् गुरुत्वं योजयति—कर्तेति । देह-गतोऽन्तर्यामि-रूपेण । द्रष्टुः परम-साक्षिणः ॥१२॥

**विश्वनाथः : **आत्माराम-चूडामणित्वम् आह—कर्तेति । न निबध्यत इत्य् अतस् तस्यष्व् असक्ताय । दैहिकैः क्षुत्-पिपासादिभिर् न हन्यते नाभिभूयते । इत्य् अतो देहाद् विविक्ताय, द्रष्टुर् अपि सतो दृग् दृष्टिर् गुणैर् दृश्यैर् न दूष्यते, अत एव असक्तश् चासौ विविक्त-साक्षी अलिप्त-साक्षी चेति तस्मै ॥१२॥

—ओ)०(ओ—

॥ ५.१९.१३ ॥

इदं हि योगेश्वर योग-नैपुणं
हिरण्यगर्भो भगवाञ् जगाद यत् ।
यद् अन्त-काले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झित-दुष्कलेवरः ॥

**मध्वः : **यस्य सम्यग् भगवति ज्ञानं भक्तिस् तथैव च ।

निश्चिन्तस् तस्य मोक्षः स्यात् सर्व-पाप-कृतोऽपि तु ॥१३॥

**श्रीधरः : **योग-कौशलं निरूपयन् योगं प्रार्थयते—इदम् इति त्रिभिः । हे योगेश्वर, हिरण्यगर्भो यद् योग-नैपुणं जगाद । इदम् एव तत् । किम् ? जन्म-प्रभृति भक्त्यान्त-काले पुमांस् त्वयि मनो धारयेद् इति यत् । कथं-भूतः सन् ? उज्झितं दुष्कलेवरं तद् अभिमानो येन ॥१३॥

**क्रम-सन्दर्भः : **अनासक्तत्वं कैमुत्येन स्थापयन् विशेषतो ज्ञेयस्य योगस्य सामान्यतो ज्ञानं तत्-कारणं चाह—इदं हीति । उज्झित-दुष्कलेवर इति तत्-पार्षद-कलेवरस्य शोभनत्वम् उपादेयत्वं च बोधयति ॥१३॥

**विश्वनाथः : **योगाभ्यासिनां रहस्यम् आह—इदम् इति । यद् इति शत्र्-अन्तम् । अन्त-काले यद् गच्छेत् चपलम् इति यावत् मनस् त्वयि दधीत स्थिरीकुर्याद् इत्य् अर्थः । उज्झितेति वर्तमाने निष्ठा ॥१३॥

—ओ)०(ओ—

**॥ ५.१९.१४ ॥ **

यथैहिकामुष्मिक-काम-लम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद्
यस् तस्य यत्नः श्रम एव केवलम् ॥

**श्रीधरः : **अन्यथा तस्य शास्त्राभ्यासादि-श्रमो व्यर्थ इत्य् आह—यथैहिकामुष्मिक-कामेषु लम्पटो मूर्खः सुतादिषु योग-क्षेमं चिन्तयन् कुत्सितस्य कलेवरस्यात्ययान् मृत्योः शङ्कते । तथा विद्वान् अपि सन् यः शङ्केत तस्य यत्नः शास्त्र-श्रवणादिः श्रम एव ॥१४॥

**क्रम-सन्दर्भः : **तज् ज्ञान-योग्यत्वापादकं सारासार-विवेकम् अपि सामान्यतो निवेदयति—यथेति ॥१४॥

**विश्वनाथः : **अन्यथायोगाभ्यासो व्यर्थ एवेत्य् आह—यथेति । चिन्तयन् कुर्वन् चिन्तां कुकलेवरात्ययात् शङ्केत । मयि मृते सति मत्-सुतादयः कथं वर्तेरन्न् इति भावयेत्, तथैव विद्वान् अपि यः शङ्केत, तस्य यत्नः श्रम एव ॥१४॥

—ओ)०(ओ—

**॥ ५.१९.१५ ॥ **

तन् नः प्रभो त्वं कुकलेवरार्पितां
त्वन्-माययाहं-ममताम् अधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावम् इति ॥

**मध्वः : **यो ममत्वादिना दोषः स त्व् अन्य-विषयः स्मृतः । इति च ॥१५॥ \

**श्रीधरः : **यस्माद् विदुषोऽपीयम् एव दशा, तत् तस्मात्, हे प्रभो अधोक्षज, त्वम् एव नो योगं विधेहि । कीदृशम् ? त्वयि स्वभावं सहज-वासना-रूपम् । येन योगेन वयं त्वन्-मायया नः कुकलेवरेऽर्पिताम्, अहं-ममताम् शीघ्रम् भिन्द्याम त्यजेम । सुदुर्भिदाम् उपायान्तरैः सर्वथा त्यक्तुम् अशक्याम् ॥१५॥

**क्रम-सन्दर्भः : **अभीष्टम् आह—तन् न इति । कुकलेवरेति स्वेतरेषां कलेवरापेक्षया प्रोक्तम् ॥१५॥

**विश्वनाथः : **तस्माद् अन्यावेशं त्याजयित्वा त्वयि मनसोऽभिनिवेशं त्वम् एव कृपया देहीत्य् आह—तन् न इति । योगं विधेहि । योग एव कः ? तत्राह—त्वयि नोऽस्माकं स्वस्यात्मनो भावं रतिम् । यद् वा, यथा विषयेषु स्वभावः, तथैव त्वयि स्वभावो निसर्गोऽस्त्व् इत्य् अर्थः ॥१५॥

—ओ)०(ओ—

॥ ५.१९.१६ ॥

भारतेऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः ॥

**श्रीधरः : **इलावृतवद् अस्मिन्न् अपि वर्षे सरितः शैलाश् च सन्ति । नितम्ब-प्रभवास् तटेभ्यः संभूताः ॥१६॥

**क्रम-सन्दर्भः : **कोण्वः कोण्वक इति पाठौ । गोवर्धनोऽयं शास्त्र-लोक-प्रसिद्धः श्री-वृन्दावन-गतः । श्री-कृष्णाक्रीडत्वेन तम् अनु रैवतोऽपि पठ्यते । अधुना तस्य स्वल्पत्वादि-दृष्टिः । काले कालेऽन्तर्धानात् ॥१६॥

**विश्वनाथः : **अपीति यथा इलावृते तथा अस्मिन्न् अपि वर्षे इत्य् अर्थः ॥१६॥

—ओ)०(ओ—

॥ ५.१९.१७-१८ ॥

एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति—चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः ॥

**श्रीधरः : **आत्मना च देहेनाप्य् उपस्पृशन्ति ॥१७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **आत्मना च देहेन च । अन्धो ब्रह्म-पुत्रः ॥१७॥

—ओ)०(ओ—

॥ ५.१९.१९ ॥

अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते, यथा-वर्ण-विधानम् अपवर्गश् चापि भवति ॥

**श्रीधरः : **लब्धं जन्म यैस् तैः पुरुषैः सात्त्विकादिना स्व-कृतेन कर्मणा दिव्यादि-गतय आत्मनो विधीयन्ते साध्यन्ते । हि यस्मात् । सर्वा एव गतयः कर्मानुसारेण सर्वेषां भवन्ति । यस्य वर्णस्य यद् विधानं मोक्ष-प्रकारः सन्न्यास-वन-स्थत्वादिः, तद् अनतिक्रमेणास्मिन्न् एव वर्षे नृणाम् अपवर्गश् च भवति । एतच् च कर्मादि-बहु-साधन-सम्भवाभिप्रायेणोक्तं, न त्व् अन्यत्रापवर्गाभावेन तद्-उपर्य् अपि बादरायणः सम्भवाद् इति देवानाम् अपि मोक्षस्य सूचितत्वात् ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अस्मिन्न् एव वर्षे नान्यात्र, तत्रापि सहस्र-योजन-प्रमाणे प्रदेशे एवेति ज्ञेयम्। यद् उक्तं विष्णु-पुराणे—

भारतस्यास्य वर्षस्य नव भेदान् निशामय ।
इन्द्र-द्वीपः कशेरुमान् ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस् तथा सौम्यो गन्धर्वस् त्व् अथ वारुणः ॥
अयं तु नवमस् तेषां द्वीपः सागर-संवृतः ।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् ॥ [वि।पु। २.३.६-७]

सागर-सम्भृतः इति समुद्र-प्रान्त-वर्तीति श्री-स्वामि-व्याख्या । नवमस्यास्य पृथङ्-नामाकथनात् नाम्नोऽपि नवद्वीपोऽयम् इति गम्यते । विशेषश् च तत्रैव—

पूर्वे किराता यस्य स्युः पश्चिमे यवनाः स्मृताः8 । [वि।पु। २.३.८]
पूर्व-देशादिकाश् चैव कामरूप-निवासिनः ।
पुण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश् च सर्वशः ॥ [वि।पु। २.३.१५]

मारुकः मालवाश् च इत्य्-आदि ।

चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरश् च कलिश् चान्यत्र न क्वचित् ॥ [वि।पु। २.३.१९] इति ।

वायवीये च—

भारतस्यास्य वर्षस्य नव-भेदान् निबोधत ।
पर्वतान्तरिता ज्ञेयास् ते त्व् अगम्याः परस्परम् ॥ इति ।

शुक्ल-लोहित-कृष्ण-वर्णेन सात्त्विक-राजस-तामसेन कर्मणा क्रमेण दिव्यादि-गतयो बह्व्यः आत्मनः स्वस्य विधीयन्ते साध्यन्ते । हि यस्मात् । सर्वा एव गतयः सर्वेषां यथा वर्ण-विधानम् इति वर्णानां धर्मस्य अधर्मस्य च करणं सम्भवेद् इति, तद् अनतिक्रम्य आनुपूर्व्येण विधीयन्ते वेदेनेति शेषः । तथा अपवर्गश् चेति तस्य विधातुम् अशक्यत्वात् स स्वयम् एव भवतीति । च-कारेणापवर्गस्य वैकल्यं द्योतितम् ॥१८॥

—ओ)०(ओ—

॥ ५.१९.२० ॥

योऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः ॥

श्रीधरः : अपवर्ग-स्वरूपम् आह—योऽसाव् इति । अनात्म्ये आत्मनि भवम् आत्म्यं रागादि, तद्-रहिते । अनिरुक्ते वाचाम् अगोचरे । अनिलयने अनाधारे । अनन्य-निमित्तोऽहैतुको भक्ति-योग एव लक्षणं स्वरूपं यस्य । कथं भवति ? नाना-गतीनां निमित्तं योऽविद्या-ग्रन्थिस् तस्य रन्धनं छेदनं, तद्-द्वारेणमहा-पुरुष-पुरुषा विष्णु-भक्ताः, तैः प्रकृष्टः संयोगोयदा भवति, तदा ॥२०॥

**क्रम-सन्दर्भः : **यथा-वर्ण-विधानम् इति स्व-स्व-धर्मार्पणादि-क्रमेणेत्य् अर्थः । एतच् च प्रायिकं यदा हि महा-पुरुष-पुरुष-प्रसङ्ग इत्य् अस्यैव मुख्यत्वेन वक्ष्यमाणत्वात् श्री-नारद-जन्मवत् । प्रथम एव तत्-प्रसङ्गेन तत्-प्रवृत्तेः भक्ति-योग-लक्षणोऽप्य् अपवर्गो भवति । किम् उतान्य इत्य् अर्थः ॥२०॥

**विश्वनाथः : **ननु किं स्वरूपोऽपवर्गः कदा वा भवेत् ? इत्य् अपेक्षायाम् आह—योऽसाव् इति । भगवति परम-कल्याण-सौन्दर्यादि-गुणवति, अत एव सर्व-भूतानाम् आत्मा मनो यत्र माधुर्येण सर्व-भूत-चित्ताकर्षक इत्य् अर्थः । अत एवानात्म्ये आत्मनो भाव आत्म्यं न युज्यत प्राप्यत्वेन आत्म्यम् आत्मत्वं यत्र तस्मिन् । यत्र आत्म-सेव्यत्वम् एव युज्यते, न तु आत्मत्वम् आत्मैक्यम् इत्य् अर्थः । यन्-माहात्म्यं प्राकृत-रागादिभिर् निर्वक्तुम् अशक्यम् इत्य् आह—अनिरुक्ते, महा-प्रलयेऽपि यद्-रूप-गुणादेर् नास्त्य् अभाव इत्य् आह—अनिलयने न विद्यते प्राकृतानां तत्त्वानाम् इव निलयनं लयो यस्य तस्मिन् । सर्वेषाम् आत्मा ह्य् अतिप्रेमास्पदं ततोऽपि परमत्वात् परमात्मनि, विशेषणैर् एतैर् भजनीयत्वातिशयो व्यञ्जितः । वासुदेवे वसुदेव-नन्दनेऽनन्य-निमित्तोऽहैतुको भक्ति-योग एव लक्षणं स्वरूपं यस्य सः ।

नन्व् अपवर्ग-शब्देन रूढ्या मोक्ष एवोच्यते ? सत्यं, अविद्या-ध्वंस-रूपस्य मोक्षस्य भक्ताव् अन्तर्-भावात् भक्ति-योगोऽपि मोक्षादि-शब्द-वाच्य इत्य् आह—नाना-गतीनां निमित्तं योऽविद्या-ग्रन्थिस् तस्य रन्धनं ध्वंसस् तद्-द्वारेण तद्-धेतुनैव अपवर्ग-संज्ञ इत्य् अर्थः । कदा? महा-पुरुषस्य विष्णोः पुरुषा भक्तास् तैः प्रकृष्टः सङ्गो यदा तदैव नान्यदा ॥२०॥

—ओ)०(ओ—

॥ ५.१९.२१ ॥

एतद् एव हि देवा गायन्ति—

अहो अमीषां किम् अकारि शोभनं

प्रसन्न एषां स्विद् उत स्वयं हरिः ।

यैर् जन्म लब्धं नृषु भारताजिरे

मुकुन्द-सेवौपयिकं स्पृहा हि नः ॥

**श्रीधरः : **एतद् एव मानुष्यम् एव सर्व-पुरुषार्थ-साधनं गायन्ति । अमीषाम् एभिः । उत स्विद् अथवा स्वयम् एव साधनं विनैव हरिर् एषां प्रसन्नोऽभूत् । एवं-भूतस्य पुण्यस्य दुष्करत्वात् । भारताजिरे भारताङ्गणे नः केवलं स्पृहैव । यत्र तन् मुकुन्द-सेवोपयोगि नृषु जन्म यैर् लब्धम् ॥२१॥

**क्रम-सन्दर्भः : **अहो इति । छत्रि-न्यायेन प्राचुर्योक्तिर् इयम् । तज्-जन्मत्वेऽपि केषाञ्चिद् दुष्कर्मत्व-तत्-प्रसादाविषयत्व-दर्शनात् । किं दुष्करैर् न [भा।पु। ५.१९.२२] इत्य्-आदि-वक्ष्यमाणाच् च । स्वयम् इति यदा हि [भा।पु। ५.१९.२०] इति पूर्वोक्त-रीत्या स्व-पुरुषानुसरण-स्वभावेन स्वेनैव साधनेनेत्य् अर्थः ॥२१॥

**विश्वनाथः : **अमीषाम् अमीभिः शोभनं सुकृतम् उत स्विद् अथवा स्वयम् एव साधनं विनैव हरिर् एषां प्रसन्नोऽभूत्, एतादृश-भाग्यस्य पुण्य-जन्यत्वासम्भवाद् इति भावः । भारताजिरे भारताङ्गने । ननु दुरात्मनाम् अपि तत्र जन्म दृश्यते इत्य् अतो विशिनष्टि—मुकुन्द-सेवौपायिकं हि यस्मान् नोऽस्माकं केवलं स्पृहैव यत्र, न तु प्राप्तिः ॥२१॥

—ओ)०(ओ—

॥ ५.१९.२२ ॥

किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर्

दानादिभिर् वा द्युजयेन फल्गुना ।

न यत्र नारायण-पाद-पङ्कज-

स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥

**श्रीधरः : **स्पृहाम् एवाहुः—किम् इत्य्-आदि-सप्तभिः । दुष्करैः क्रत्व्-आदिभिर् नः फल्गुना तुच्छेन द्यु-जयेन स्वर्ग-प्राप्त्या किम् ? न किञ्चित् फलम् । कुतः ? यत्र नारायण-पाद-पङ्कज-स्मृतिर् नास्ति । प्रत्युतातिशयिताद् इन्द्रियाणाम् उत्सवाद् भोगात् प्रमुष्टाभूत् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु भवद्भिर् अपि भारते जन्म प्राप्यैव सत्-कर्मभिर् दिवि सुखम् उपभुज्यते इति चेद्, अस्माकं तज् जन्म धिक्, तानि कर्माण्य् अपि धिक्, तत् प्राप्यं दिवम् अपि धिक्, अत्रत्यं सुखम् अपि धिग् इत्य् अभिव्यञ्जयन्त आहुः—किम् इति । द्यु-जयेन स्वर्ग-प्राप्त्या किम् ? न किञ्चिद् अपि फलम्, कुतः ? यत्र दिवि नारायण-पाद-पङ्कज-स्मृतिर् नास्ति । प्रत्युत अतिशयिताद् इन्द्रियाणाम् उत्सवात् भोगात् स्मृतिः प्रमृष्टा ॥२२॥

—ओ)०(ओ—

॥ ५.१९.२३ ॥

कल्पायुषां स्थानजयात् पुनर्-भवात्

क्षणायुषां भारत-भूजयो वरम् ।

क्षणेन मर्त्येन कृतं मनस्विनः

सन्न्यस्य संयान्त्य् अभयं पदं हरेः ॥

**श्रीधरः : **क्षणम् अल्पम् एवायुर् येषाम् । वरत्वे हेतुः, मर्त्येनापि देहेन क्षणेनेव कालेन कृतं कर्म सन्न्यस्य हरेः पदं सम्यग् यान्ति ॥२३॥

**क्रम-सन्दर्भः : **सन्न्यस्य हराव् अर्पयित्वा ॥२३॥

**विश्वनाथः : **ब्र्ह्म-लोकाद् अपि सकाशात् भारत-भूमेर् उत्कर्षः खल्व् अपूर्व एवेत्य् आह—कल्पायुषाम् इति । ब्रह्म-लोके द्विपरार्ध-पर्यान्त-निवासाद् अपि सकाशाद् भारत-भूमौ क्षण-मात्र-वासोऽपि श्रेष्ठ इत्य् अर्थहेतु । तत्र हेतुः—पुनर्-भवात् ब्रह्म-लोके तावान् वा सोऽपि पुनर्-भव-प्रद इत्य् अर्थः । भारते तु मर्त्येन मरण-धर्मणापि देहे क्षणेन क्षण-मात्र-कालेनापि मनस्विनो भगवच्-चरण-दत्त-मनसः हरेः पदम् अभ्यं वैकुण्ठं ब्रह्म-लोक-मूर्ध्न्य् अपि पादौ निधाय यान्ति । कुतः ? शुभाशुभं सर्वम् एव कर्म संन्यस्य परित्यज्य ॥२३॥

—ओ)०(ओ—

॥ ५.१९.२४ ॥

न यत्र वैकुण्ठ-कथा-सुधापगा

न साधवो भागवतास् तदाश्रयाः ।

न यत्र यज्ञेश-मखा महोत्सवाः

सुरेश-लोकोऽपि न वै स सेव्यताम् ॥

**श्रीधरः : **अतो यत्र वैकुण्ठ-कथामृत-नद्यो न सन्ति । तद्-आश्रयाः कथापगाश्रयाः । महान्तो नृत्याद्य्-उत्सवा येषु तादृशा यज्ञेशस्य मखाश् च पूजाः । स सुरेशस्य ब्रह्मणोऽपि लोको न सेव्यताम् ॥२४॥

**क्रम-सन्दर्भः : **न यत्रेति । भगवद्-भक्तौ भारत-भूमि-नियमोऽपि खण्डितः, तत्-सद्-भावे सर्वस्यापि लोकस्य स्तुत्यत्वेनाभिप्रेतत्वात् । किन्तु भारत-भूमौ तत्-प्राचुर्यम् अस्तीति प्रस्तुता स्तुतिर् एव ॥२४॥

**विश्वनाथः : **तस्माद् विवेकिनाम् अयम् एव विवेक इत्य् आहुः—न यत्रेति । वैकुण्ठ-कथा-सुधैव सर्वत आधिक्येन स्वाद्वी तद्-आपगेव भूयसी, न तु ज्ञान-योगादि-कथेव श्रव्या अल्पीयसी च । भागवता भगवद्-आलम्बिनः तद्-आश्रयाः ताम् एवाश्रयन्तः, न तु परमालम्बिनः ज्ञानादि-सिद्ध्य्-अर्थं तां किञ्चिन् मात्रीम् अपेक्षमाणाः । यज्ञानां ब्रह्म-यज्ञादीनाम् आङ्गिरस-बृहस्पति-सवादीनाम् अप्य् अन्येषां चेशस्यापि हरेर् मखा—यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः [भा।पु। ११.५.३२] इति प्रमाणोक्त-लक्षणाः सङ्कीर्तन-बहुलाः परिचरणादि-रूपाः महान्त उत्सवा गीत-नृत्य-वाद्य-भक्ताराधनाद्या येषु ते यत्र न सन्ति स सुरेशस्य ब्रह्मणोऽपि लोकः न सेव्यतां नाश्रीयताम् ॥२४॥

—ओ)०(ओ—

॥ ५.१९.२५ ॥

प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो

ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् ।

न वै यतेरन्न् अपुनर्-भवाय ते

भूयो वनौका इव यान्ति बन्धनम् ॥

**श्रीधरः : **अमुमुक्षून् नरान् निन्दति, प्राप्ता इति । ज्ञानं च तद् अर्थाः क्रियाश् च तद् अर्थानि द्रव्याणि च तेषां कलापेन संभृतां पूर्णाम् । अपुनर्-भवाय मोक्षाय वनौका इव । वनौकसः पक्षिणो यथा लुब्धकान् मुक्ता अपि पुनर् यदि तस्मिन्न् एव वृक्षे प्रमत्ता विहरन्ति तर्हि यथा बध्यन्ते तद्वत् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तादृशं भारतं प्राप्ता अप्य् अकृतार्था अतिशयेन शोच्या एव, यथा लब्ध-चिन्तामणयोऽपि पूर्ववत् कृषीबला एवेत्य् आहुः—प्राप्ता इति । ज्ञानम् अधिदैवं, क्रिया अध्यात्मं, द्रव्यम् अधिभूतं, तेषां समूहैः सम्भृताः पूर्णाः, श्रवणादि-सर्वेन्द्रियैः पूर्णाम् इति हरि-नाम-श्रवण-कीर्तनादि-सम्भवेऽपीति भावः । अपुनर्-मृताय भक्ति-योगाय वनौका इव वनौकसः पक्षिणो यथा लुब्धकान् मुक्ता अपि पुनर् यदि तस्मिन्न् एव वृक्षे प्रमत्ता विहरन्ति, तर्हि यथा बध्यन्ते, तद्वत् ॥२५॥

—ओ)०(ओ—

॥ ५.१९.२६ ॥

यैः श्रद्धया बर्हिषि भागशो हविर्

निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः ।

एकः पृथङ्-नामभिर् आहुतो मुदा

गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः ॥

**श्रीधरः : **अहो भारत-वासिनां भाग्यम् इत्य् आहुः—यैर् इति । अग्नये जुष्टं निर्वपामि, इन्द्राय जुष्टं निर्वपामि इत्य् एवं भागशो निरुप्तम् पृथक् कृतम् । कथम् ? विधिना प्रकारेण मन्त्रेण च वस्तुतश् चरु-पुरोडाशादि-भेदेन चेष्टं देवताम् उद्दिश्य त्यक्तं निरुप्तं च ममेदम् इति स्वीकृत्य त्यागानन्तरम् अश्नातीत्य् अर्थः । पृथग् इन्द्रादिनाम् अभिर् आहुत आहूतः । आशिषां प्रभुः स्वयं पूर्णोऽपि हरिः ॥२६॥

**क्रम-सन्दर्भः : **हर्य्-अर्पणम् एव दर्शयति । यैर् नृभिर् इष्टं देवताम् उद्दिश्य त्यक्तं यत् तद् एव भागशस् तत्-तद्-देवताम् उद्दिश्य निरुपितं पृथक् कृतं सत् पृथग् इन्द्रादि-नामभिर् अप्य् आहूत एक एव मुदा गृह्णाति तम् उद्दिश्यैव तत्-तन्-नाम्ना त्यक्तत्वाद् इति भावः ॥२६॥

**विश्वनाथः : **अत्र भारते एकत्वेन पृथक्त्वेन बहुधा विश्वस्तो मुखम् इत्य्-आदि श्री-भगवद्-उक्तां भगवद्-विभूति-बुद्ध्या विश्वरूपोपासनाम् अपि कुर्वाणा धन्या एवेत्य् आहुः—यैर् इति । बर्हिषि यज्ञे विधिना प्रकारेण मन्त्रेण वस्तुतश् च हरिर् यज्ञीय-द्रव्यम् इष्टं शुद्धं भागशः—इन्द्राय स्वाहा, अग्नये स्वाहा इत्य्-आदि पृथक्-कृतं निरुप्तं दत्तं स्वयं पूर्णोऽपि आशिषां प्रभुः हरिस् तेषां भक्त्या गृह्णाति एकोऽपि पृथग्-इन्द्रादि-नामभिर् आहुतः आहुतः ॥२६॥

—ओ)०(ओ—

॥ ५.१९.२७ ॥

सत्यं दिशत्य् अर्थितम् अर्थितो नृणां

नैवार्थदो यत् पुनर् अर्थिता यतः ।

स्वयं विधत्ते भजताम् अनिच्छताम्

इच्छापिधानं निज-पाद-पल्लवम् ॥

श्रीधरः : तत्रापि निष्कामाः कृतार्था इत्य् आहुः—सत्यम् इति । प्रार्थितो ददातीति सत्यं, तथापि परम्आर्थ-दो न भवत्य् एव । यद् यस्मात्, यतो दत्ताद् अनन्तरं पुनर् अप्य् अर्थिता भवति। ननु नार्थितश् चेत् किम् अपि न दद्यात् ? इत्य् आशङ्क्याहुः—अनिच्छतां निष्कामानां तु इच्छानां पिधानम् आच्छादकं सर्व-काम-परिपूरकं निज-पाद-पल्लवंस्वयम् एव संपादयति ॥२७॥

क्रम-सन्दर्भः : सत्यम् इति । अर्थितः प्रार्थितः सन् नॄणाम् अर्थितं सत्यम् एव ददाति, न तत्र कदाचिद् अपि व्यभिचार इत्य् अर्थः । किन्तु तथापि तन्-मात्रेण्आर्थदो न भवति, तन्-मात्रं दत्त्वा निवृत्तो न भवतीत्य् अर्थः । यत उपासकस् तत्रापूर्णत्वाद् भोग-क्षये सति यद् एव पुनर् अप्य् अर्थिता भवति, न जातु कामः कामानाम् उपभोगेन शाम्यति [भा।पु। ९.१९.१४; मनु २.९४] इत्य्-आदेः । तद् एवम् अभिप्रेत्य स तु परम-कारुणिकस् तत् पाद-पल्लव-माधुर्य-ज्ञानेन तद्-अनिच्छताम् अपि भजताम् इच्छा-पिधानं सर्व-काम-समापकं निज-पाद-पल्लवम् एव विधत्ते, तेभ्यो ददातीत्य् अर्थः । यथा माता चर्व्यमाणां मृत्तिकां बालक-मुखाद् अपसार्य तत्र खण्डं ददाति, तद्वद् इति भावः । एवम् अप्य् उक्तम्—अकामः सर्व-कामो वा मोक्ष-कामः [भा।पु। २.३.१०]इत्य्-आदौ तीव्रत्वं भक्तेः । तथोक्तं गारुडे—

यद् दुर्लभं यद् अप्राप्यं मनसो यन् न गोचरम् ।
तद् अप्य् अप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ इति ॥२७॥

**विश्वनाथः : **शुद्धां भक्तिं कुर्वाणास् तु स-कामा अपि कृतार्थाः, निष्काम-भक्त-तुल्या एव भवन्तीत्य् आहुः—सत्यम् इति । नॄणां भजताम् अर्थितं कामितं पदार्थं तैर् अर्थितः सन् दिशति ददातीति सत्यम्, किन्तु यत् यथा पुनर् अर्थिता भोगान्ते याचकत्वं स्यात्, तथा नैवार्थदः

कथम् एवम् अवगतम् ? इत्य् अत आह—यतः निज-पाद-पल्लवम्** अनिच्छताम्** अपि भजतां स्वयम् एव ध्रुवादीनाम् इव इच्छापिधानं सर्व-कामाच्छादकं तद् एव निज-पाद-पल्लवं विधत्ते कृपया ददाति, निज-पाद-पल्लवं स्वयम् एव बलाद् दत्त्वा इच्छायाः पिधानम् आच्छादं विधत्ते करोतीति वा । ततश् चानभीप्सिताम् अपि सित-शर्करां पितुः सकाशात् प्राप्य शिशवो यथा मृदि स्पृहां त्यजन्ति, तथैव कामान् अपीत्य् अर्थः ।

अत एव अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ तीव्रेण ज्ञान-कर्माद्य्-अमिश्रेण भक्ति-योगेन यजेतेत्य् उक्तम् । अत्र निष्कामाणां स-कामानां च भक्तानाम् अन्ततः पाद-पल्लव-प्राप्ताव् अपि नैव सर्वथा ऐक्य-रूपं भावनीयम् । न हि जात्यैव शुद्धं बलात् शोधितं च वस्तु तुल्य-मूल्यं भवति, अतो ध्रुवादिभ्यः सकाशाद् धनूमद्-आदीनाम् उत्कर्षः परम एव दृश्यत इति ॥२७॥

—ओ)०(ओ—

॥ ५.१९.२८ ॥

यद्य् अत्र नः स्वर्ग-सुखावशेषितं

स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।

तेनाजनाभे स्मृतिमज् जन्म नः स्याद्

वर्षे हरिर् यद्-भजतां शं तनोति ॥

**श्रीधरः : **स्विष्टस्य सम्यग् जनस्य । सूक्तस्य प्रवचनस्य कृतस्यान्यस्यापि कर्मणः । स्वर्ग-सुखाद् उपभुक्ताद् अवशेषितं यदि किञ्चिद् अस्ति, तेनाजनाभे वर्षे नोऽस्माकं जन्म स्यात् । कीदृशम् ? स्मृतिमत् हरिर् एव सेव्य इत्य् अनुसन्धानयुक्तम् । यतो हरिर् भजतां शं सुखं तनोति ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अत एव प्रार्थयन्ते—यद्य् अत्रेति । स्विष्टस्येति स्विष्टादि-जन्यात् स्वर्ग-सुखाद् उपभुक्ताद् अवशेषितं शोभनं सुकृतम् अस्ति, तेन हेतुना अजनाभे भारते जन्म स्यात् स्मृतिमत् । एतादृशौत्सूक्य-स्मरण-युक्तम् । ततश् च तत्र साधु-सङ्गं कृत्वा हरिं भजिष्यामः । यद् यस्मात् भजतां हरिः शं तनोत्य् एव ॥२८॥

—ओ)०(ओ—

॥ ५.१९.२९ ॥

श्री-शुक उवाच—

**जम्बूद्वीपस्य च राजन्न् उपद्वीपान् **

**अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण **

इमां महीं परितो निखनद्भिर् उपकल्पितान् ॥

मध्वः-

अनधिकारिणो देवाः स्वर्ग-स्था भारतोद्भवम् ।
वाञ्छन्त्य् आत्मावमोक्षार्थम् उद्रेकार्थेऽधिकारिणः ॥ इति कौर्मे ॥२९॥

श्रीधरः, क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१९.३०-३१ ॥

**तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको **

मन्दर-हरिणः पाञ्चजन्यः सिंहलो लङ्केति ॥

**एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो **

यथोपदेशम् उपवर्णित इति ॥

न कतमेनापि व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

ऊनविंशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
जम्बूद्वीप-वर्णनं नाम
एकोनविंशोऽध्यायः ।

॥ ५.१९ ॥

(५.२०)


  1. पश्यति ↩︎

  2. पृथग्-निर्देशात् ↩︎

  3. दुःख नोत् इन् अल्ल् वेर्सिओन्स्। ↩︎

  4. मुख्यं नोत् इन् अल्ल् वेर्सिओन्स्। ↩︎

  5. आकृति-रूपम् इति कुत्रचिद् दृश्यते। ↩︎

  6. कृतवान्। ↩︎

  7. परम-स्वरूपम् ↩︎

  8. स्थिताः ↩︎