॥ ५.१८.१ ॥
श्री-शुक उवाच—
तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति।
**श्रीधरः : **
अष्टादशे ततो मेरोः पूर्वादि-क्रमतस् त्रिषु ।
त्रिषु चोत्तर-वर्षेषु सेव्य-सेवक-वर्णनम् ॥
भद्रश्रवा वर्षपतिः तस्य कुल-पतयः सेवक-मुख्याश् च ॥१॥
**क्रम-सन्दर्भः : **भद्रश्रवसस् तु अद्भुत-मय-भक्ति-रसेनोपासत इत्य् आह—भद्रश्रवस इति । समाधिना तद्-एकावेशेन सन्निधाप्य साक्षात्-कृत्य पश्यन्तीति द्रष्टुं प्रवर्तन्त इत्य् अर्थाह् । न चित्रम् इत्य् अचिन्त्य-शक्त्येति भावः, श्री-प्रह्लादस् तु वीर-करुणा-शान्तादि-मय-भक्ति-रसेनोपास्त इत्य् आह—ॐ नम इत्य्-आदि ॥१॥
**विश्वनाथः : **
अष्टादशे तु भद्राश्वादिषु षट्सु निरूप्यते ।
भद्रश्रवः प्रभृतिभिर् हयशीर्षादि-सेवनम् ॥
भद्रश्रवा नाम वर्षपतिस् तस्य कुल-पतयः सन्तान-मुख्याः ॥१॥
**—**ओ)०(ओ—
॥ ५.१८.२ ॥
भद्रश्रवस ऊचुः—
ॐ नमो भगवते धर्मायात्म-विशोधनाय नम इति।
**श्रीधरः : **भद्रश्रवस ऊचुर् इति । प्राण-भृत उपदधाति इतिवद् गण-लक्षणया तद् योगाद् गणिषु लिङ्ग-समवाय-न्यायेन बहु-वचनम् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भद्रश्रवः-शब्देनाजहत्-स्वार्थ-लक्षणया तद्-गुणोऽप्य् उच्यते । अतः प्राण-भृत उपधादति इतिवल् लिङ्ग-समवाय-न्यायेन बहु-वचनम् । आत्मनो जीवस्याविद्या-मालिन्य् अदूरीकरणाद् विशोधनाय ॥२॥
**—**ओ)०(ओ—
॥ ५.१८.३ ॥
अहो विचित्रं भगवद्-विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन् न पश्यति ।
ध्यायन्न् असद् यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥
**श्रीधरः : **अयं जनो मिषन्न् अपि पश्यन्न् अपि घ्नन्तं हिंसन्तं न पश्यति नालोचयतीति भगवद्-विचेष्टितम् एव । तच् च विचित्रम् । अदर्शने लिङ्गम् । पुत्रं बालं पितरं वृद्धं मृतं निर्हृत्य दग्ध्वा स्वयं तद् उभय-धनैर् जिजीविषति जीवितुम् इच्छति । पाठान्तरे तु छन्दः-सामञ्जस्यम् । किं धर्माद्य्-अर्थम् ? न । यर्हि यतोऽसत् तुच्छं विषय-सुखं सेवितुं विकर्म पापम् एव ध्यायन् ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **घ्नन्तं हिंसन्तं मृत्युं मिषन् पश्यन्न् अपि न पश्यति । यतः पुत्रं स्वेन जनितं पितरं स्वस्य जनकं च निर्हृत्य मृतं दग्ध्वा तन्-मध्य-वर्ति जनः स्व-जनितश् चापि सन् तद्-उभय-धनैर् जीवितुम् इच्छति । मृत्युर् मां कथं हास्यतीत्य् अपि नानुसन्धत्त इत्य् अतिमौढ्यम् इति भावः ।
ननु पञ्चषान् अपि वासरान् जिजीविषा भगवद्-भक्त्य्-अर्थं तादृशापि न विगीतेत्य् अत आह—विकर्म सेवितुं स्त्री-सङ्गादि-सुखं कर्तुम् असत् स्व-विवाहादिकं ध्यायन् यर्हीति, तत्रापि यर्हि पुत्रादिकं निर्हृत्य विश्राम्यति, तर्ह्य् एवेत्य् आश्चर्याधिक्यम् । जिजीविषन्न् इति पाठः—छन्दो-भङ्गाभावाद् अतिसमञ्जसः ।
ननु भद्राश्वादि-वर्षाणां भौम-सर्ग-रूपत्वात् तद्-वासिनां युगपद् एव पितुः पुत्रस्य च मृत्यु-दर्शनं न घटते ? सत्यम् । सर्व एव वाचो भारत-भूमि-वर्तिनो जनान् आलक्ष्यैवोच्यन्ते । वयम् अधन्याः स्व-कर्म-फलं भुञ्जानाः । अत्र भद्राशादि-वर्षे पशुवद् वर्तामहे । ये त्व् अतिधन्या अपवर्ग-साधने भारत-भू-मण्डले लब्ध-जन्मानः श्वपचादि-जातयोऽपि यत्रानायासेनैव वैकुण्ठ-पदम् अपि साधयन्ति । तत्रापि कथम् एवं मुह्यन्तीति रीत्या ॥३॥
**—**ओ)०(ओ—
॥ ५.१८.४ ॥
वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यम् अजं नतोऽस्मि तम् ॥
**श्रीधरः : **नन्व् अविद्वान् न पश्यति किम् अत्र चित्रं ? तत्राह । नश्वरं वदन्ति स्म शास्त्रतः । पश्यन्ति च समाधौ । हे अज, तथापि मायया मुह्यन्ति । एतच् च तव कृत्यं चेष्टितं सुविस्मितम् अति-चित्रम्, अतः शास्त्रादि-श्रमं विहाय तं त्वाम् अजं नतोऽस्मि ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अविद्वान् न पश्यति किम् अत्र चित्रं ? तत्राह—वदन्तीति । अतस् सुविस्मितम् अत्याश्चर्यम् इत्य् अन्वयः । अतः शास्त्रादि-श्रमं विहाय त्वाम् अजं नतोऽस्मि त्वां भजन्त एव विद्वांस इति भावः ॥४॥
—ओ)०(ओ—
॥ ५.१८.५ ॥
विश्वोद्भव-स्थान-निरोध-कर्म ते
ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः ।
युक्तं न चित्रं त्वयि कार्य-कारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥
**मध्वः : **अप्रयासेन कर्तृत्वम् अकरृत्वम् इहोच्यते ।
महा-शक्तित्वतस् तच् च युज्यते वरम् अस्य तु ॥ इति तन्त्र-सारे ॥५॥
**श्रीधरः : **इदम् अपरं चित्रवत् प्रतीयमानम् अपि त्वयि न चित्रम् इत्य् आह । विश्वोद्भवादि-कर्माकर्तुर् अप्य् अपगता आवृद् आवरणं यस्मात्, तादृशस्यापि तेऽङ्गीकृतं वेदेन । त्वयि तन् न चित्रम् । यतो मायया सर्वात्मनि कार्यस्य कारणे स्रष्टरि कर्म युक्तम् । वस्तुतः सर्व-व्यतिरिक्ते निरुपाधाव् अनावृतत्वम् अकर्तृत्वं च युक्तम् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु विद्वांसोऽपि ममैव मायया मुह्यन्ति चेत् तर्हि मय्य् एव दोषं प्रसञ्जयसीति तत्र मायायास् तत्-कार्यस्य च त्वदीयत्वेऽपि त्वं ततः पृथग् एव वर्तस इत्य् आह—विश्वोद्भवेति । अकर्तुर् इति गुणानां एव कर्तृत्वाद् इति भावः । अङ्गीकृतम् उक्तं वेदेनेति त्वय्य् उपचाराद् इति भावः । न च जीववत् कर्तृत्वाभिमानाद् इत्य् आह—अपावृतः त्वं गुणैर् आवृतो न भवसीत्य् अर्थः । अपगता आवृद् आवरणं यस्य तस्येति वा एतच् च त्वयि युक्तम् एव, न तु चित्रं मायायास् त्वच्-छक्तित्वात् तत् कार्याणां कारणे । अतः सर्वात्मनि सर्व-स्वरूपे मायायाः स्वरूप-शक्तित्वाभावात् सर्वतो व्यतिरिक्ते चेति ॥५॥
—ओ)०(ओ—
॥ ५.१८.६ ॥
वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद् यो नृ-तुरङ्ग-विग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस् तेऽवितथेहिताय इति ॥
**श्रीधरः : **परमेश्वरत्वेन स्तुत्वा प्रस्तुतावतार-चरितम् आह—वेदान् इति । तमसा दैत्य-रूपेण तिरस्कृतान् अपनीतान् । ना च तुरङ्गश् च नृ-तुरङ्गौ तद्-रूपो विग्रहो यस्य । कवये ब्रह्मणे । तद्-अर्थम् अवितथेहिताय सत्य-सङ्कल्पाय ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रस्तुतावतार-चरित्रम् आह—वेदान् इति । तमसा दैत्य-रूपेणतिरस्कृतान् अपनीतान् । ना च तुरङ्गश् च तद्-रूपो विग्रहो यस्य सः कवये ब्रह्मणे तद्-अर्थम् । अवितथेहिताय सत्य-सङ्कल्पाय ॥६॥
—ओ)०(ओ—
॥ ५.१८.७ ॥
हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते; तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये; तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादोऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति।
**श्रीधरः : **उत्तरत्र प्रह्राद-चरित्रे । महा-पुरुषस्य गुणानां भाजन आश्रयः । दैत्यकानव-कुलस्य तीर्थी-करणं शीलम् आचरितं च यस्य । फल-सङ्कल्पेन व्यवधान-शून्यश् चासाव् अनन्यश् चाव्यभिचारी यो भक्ति-योगस् तेनोपास्ते सेवते ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उत्तरत्र सप्तम-स्कन्धे तीर्थीकरणं पवित्रीकरणं शीलम् आचारश् च यस्य सः ज्ञान-कर्माद्य्-अमिश्रत्वाद् अव्यवधानः, अन्य-देवोपासना-साहित्य-भावाद् अनन्यश् च यो भक्ति-योगः, तेन ॥७॥
—ओ)०(ओ—
॥ ५.१८.८ ॥
ॐ नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा; अभयम् अभयम् आत्मनि भूयिष्ठा ॐ क्ष्रौम्।
**श्रीधरः : **तेजसाम् अपि तेजसे । आविर्-आविः अति-प्रकटो भव । वीप्सा वा । कर्माशयान् कर्म-वासनाः । कर्माश्रयान् इति पाठे रागादीन् रन्धय निर्दह । भूयिष्ठाः भूयाः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तेजसाम् अपि तेजसे । कर्माशयान् कर्म-वासनाः । कर्माश्रयान् इति पाठे—रागादीन् रन्धय निर्दह । अभयं यथा स्यात् तथा आत्मनि मन्-मनसि भूयिष्ठा भूयाः ॥८॥
—ओ)०(ओ—
॥ ५.१८.९ ॥
स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश् च भद्रं भजताद् अधोक्षजे
आवेश्यतां नो मतिर् अप्य् अहैतुकी ॥
**श्रीधरः : **विश्वस्य स्वस्ति-प्रार्थने खलस्यापि भवेत्, तच् च साधु-पीडां विना न स्यात्, अन्योन्यम् अमङ्गलं ध्यायतां च भूतानाम् अन्योन्य-धातं विना न भवेद् इत्य् आशङ्क्याह । खलः प्रसीदतां प्रसीदतु क्रौर्यं त्यजतु । भूतानि च मिथः शिवम् एव ध्यायन्तु । तेषां मनश् च भद्रम् उपशमादिकं भजतु । नोऽस्माकम् अपि मतिर् अपि शब्दाद् भूतानां च मतिर् अहैतुकी निष्कामा सती ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मन्त्रं जपित्वा प्रार्थयते—स्वस्तीति । विश्वस्य स्वस्ति-प्रार्थने खलस्यापि भवेत् । तच् च साधु-पीडां विना न स्याद् इत्य् अत आह—खलः प्रसीदतां क्रौर्यं त्यजतु । साधुम् अपीडयताम् अपि परस्पर-वैराणां भूतानां परस्पर-घातं विना स्वस्ति न भवेद् इत्य् अत आह—ध्यायन्त्व् इति । तद् अपि विषयासक्तिमतां विषय-भोगं विना स्वस्ति न स्याद् इत्य् अत आह—मनश् चेति । भद्रम् अनासक्तिम् । तद् अपि भक्तिं विना भद्रम् अप्य् अभद्रम् एवेत्य् अत आह—अधोक्षजे श्री-कृष्णे नो मत्-सहितानां विश्वेषां एव मतिर् अहैतुकी निष्कामा सती आवेश्यताम् अधोक्षजेनैवेत्य् अर्थः । तत्र अद्यैवेति युगपद् इति पादोपन्यासाभावात् क्रमेण कालतः प्रह्लाद-वाञ्छितं भगवान् सम्पादयिष्यत्य् एव, न च तर्हि सर्व-मुक्तौ ब्रह्माण्डानां शून्यत्व-प्रसङ्ग इति वाच्यम् । जीव-शक्ति-माया-शक्त्योर् नित्यत्वात्, तदा तदैव तासां अनतानां अन्येषां जीवानां प्रसवाद् इति ॥९॥
—ओ)०(ओ—
॥ ५.१८.१० ॥
मागार-दारात्मज-वित्त-बन्धुषु
सङ्गो यदि स्याद् भगवत्-प्रियेषु नः ।
यः प्राण-वृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः ॥
**श्रीधरः : **नः सङ्गः क्वापि मा स्यात् । यदि कथञ्चित् स्यात् तर्ह्य् अगारादिषु मा स्यात् किन्तु भगवत्-प्रियेष्व् एव । अगारादि-सङ्गे दोषम् आह—य इति । इन्द्रिय-प्रियो गृहाद्य्-आसक्तः ॥१०॥
**क्रम-सन्दर्भः : **मागारेति । तद् एवोपपादयति । यः प्राणेत्य्-आदि-लक्षणः स यथा सिध्यति तथेन्द्रिय-प्रियो न सिध्यति, तद् एवं तारतम्ये सत्य् अपि यदि नः सङ्गः स्यात् तदागारादिष्व् अन्येषु च सर्वथा मा स्यात्, किन्तु भगवत्-प्रियेषु स्याद् एवेत्य् अर्थः । प्राण-वृत्त्या क्षुट्-तृण्-मात्र-शान्त्येत्य्-अर्थः । आत्मवान् सङ्ग-रहितः ॥१०॥
**विश्वनाथः : **अधोक्षजासक्तेश् च यद्यपि सत्-सङ्ग-दुःसङ्गौ साधक-बाधकौ, तद् अपि सत्-सङ्गस्य प्राबल्यात् तस्मिन् सति दुःसङ्गः स्वत एवापयातीत्य् आह—नेति । नोऽस्माकं यदि भगवत्-प्रियेषु सङ्गः स्यात् तदा आगारादिषु मैव स्यात्, स्वत एव तेष्व् आसक्तिः शनैर् अपयास्य् अतीत्य् अर्थः ।
नन्व् अगारादि-राहित्ये भोगासिद्ध्या क्लिष्ट-देहः कथं वर्तेतेत्य् अत आह—य इति । प्राण-वृत्त्या भिक्षान्नादिभिर् उदर-पूर्त्यैव तुष्टः । यत आत्मवान् धृति-युक्तः । अदूराद् इति इन्द्रिय-प्रियस् तु विलम्बेनैवेत्य् अर्थः ।
यद् वा, यदि भगवत्-प्रियेषु सङ्गः स्यात् तदा आगारादिषु सङ्गो मास्तु, यतो युगपद् उभय-सङ्गे सति शीघ्रं न भगवन्तं प्राप्नोतीत्य् आह—य इति । यद् वा, आगारादिषु सङ्गो मास्तु, यदि भगवत्-प्रियेषु सङ्गः स्यात्, तदैव भगवत्-प्रिय-सङ्गाभावे सति भक्त्य्-असिद्ध्या असङ्गस्य ज्ञान-जनकस्यापि वैफल्यम् एवेति भावः ।
ननु तर्ह्य् अलम् असङ्गेन केवल-साधु-सङ्ग एव प्रार्थ्यताम् ? सत्यम् । तद् अपि असङ्ग-सहितः साधु-सङ्गः शीघ्र-फल-प्रदो भवतीत्य् आह—य इति लब्ध-भगवत्-प्रिय-सङ्गः । किं च, यदि सङ्गः स्यात् तदा आगारादिषु मा स्यात्, किन्तु भगवत्-प्रियेषु स्याद् इति व्याख्याने असङ्गाद् अपि भगवत्-प्रिय-सङ्गस्यापकृष्टत्वे व्यञ्जनयावगमिते भक्ति-सिद्धान्तापगमे उत्तर-श्लोकार्थस्यासङ्गतिः, तुलयाम लवेनापि इत्य्-आदि-वचनं च विरुद्ध्यत इत्य्-आद्य् अवधेयम् ॥१०॥
—ओ)०(ओ—
॥ ५.१८.११ ॥
यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्य् अजोऽन्तः श्रुतिभिर् गतोऽङ्गजं
को वै न सेवेत मुकुन्द-विक्रमम् ॥
**श्रीधरः : **भगवत्-प्रिय-सङ्गे गुणम् आह । येषां भगवत्-प्रियाणां सङ्गाल् लब्धं मुकुन्द-विक्रमं श्रुतिभिः श्रवणादिभिः संस्पृशतां सेवमानानां पुंसाम् अन्तर्-गतोऽजो मानसं मलं हरति । कथं-भूतं विक्रमम् ? निजम् असाधारणं वीर्य-वैभवं प्रभावातिशयो यस्य । तीर्थं तु गङ्गादि मुहुः संस्पृशताम् अङ्गजं मलं केवलं हरति, न तु वासनाः । तान् को वै न सेवेत ? इत्य् अन्वयः ॥११॥
**क्रम-सन्दर्भः : **यत्-सङ्ग-लब्धं तीर्थ-भूतं मुकुन्द-विक्रमं संस्पृशतां श्रवणेन्द्रियैर् अन्तर्गतोऽजः मानसं मनो हरति । अकिञ्चन-भक्त्य्-उद्रेकेणाकर्षति । अन्यत् टीकया च समम् अङ्गजं कामं च हरति खण्डयतीत्य् अन्वयः ॥११॥
**विश्वनाथः : **भगवत्-प्रिय-सङ्गस्य माहात्म्यम् आह । येषां सङ्गाद् एव लब्धं निज-वीर्य-वैभवं श्री-गोवर्धन-धारणादि-प्रभावोत्कर्षं सत्त्व-शोधकत्वात् तीर्थं श्रुतिभिः संस्पृशतां कर्णैर् आचम्यतां जनानां मानसं अङ्गजं मनः-सम्बन्धिनं कामं वासना-मयं अजः श्री-कृष्णो हरति दूरीकरोति । श्लेषेण मानसं मनश् चाकर्षति । कीदृशः सन् ? श्रुतिभिः श्रवणेन्द्रियैर् एव अन्तर्गतः । अतः को मुकुन्दस्य विक्रमं गोवर्धनोद्धारणादि वीर्यं न सेवेतेति तस्य च मुकुन्द-विक्रमस्य भगवत्-प्रिय-सङ्गं विना दुर्लभत्वात् तस्यैवोत्कर्षः ॥११॥
—ओ)०(ओ—
॥ ५.१८.१२ ॥
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः
हराव् अभक्तस्य कुतो महद्-गुणा
मनो-रथेनासति धावतो बहिः
**श्रीधरः : **मानस-मलापगम-फलम् आह—यस्येति । अकिञ्चना निष्कामा । मनः-शुद्धौ हरेर् भक्तिर् भवति, ततश् च तत्-प्रसादे सति सर्वे देवाः सर्वैर् गुणैर् धर्म-ज्ञानादिभिः सह तत्र सम्यग् आसते नित्यं वसन्ति, गृहाद्य्-आसक्तस्य तु हरि-भक्त्य्-असम्भवात् । कुतो महतां गुणा ज्ञान-वैराग्यादयो भवन्ति ? असति विषय-सुखे मनो-रथेन बहिर् धावतः ॥१२॥
**सनातन-गोस्वामी : **अकिञ्चना निष्किञ्चना शुद्धा वा । सर्वे देवाः सर्वैर् गुणैर् धर्म-ज्ञानादिभिः सह सम्यग् आसते नित्यं वसन्ति । महतां गुणा ज्ञान-वैराग्यादयः प्रेम-विकारा वा, कुतो भवन्ति ? तत्र हेतुः—असति विषय-सुखे तुच्छ-मोक्ष-सुखे वा मनो-रथेन बहिर् भक्तेर् दूरे धावतः ॥१२॥ (ह।भ।वि। ११.५६१)
**क्रम-सन्दर्भः : **किं च, यस्येति । सुरा भगवद्-आदयः सर्वैर् गुणैर् इति यदृच्छयैवेत्य् अर्थः । समासते वशीभूय तिष्ठन्ति ॥१२॥
**विश्वनाथः : **मुकुन्द-विक्रम-सेवनस्य भक्तित्वात् तस्याश् च साधु-सङ्ग-लब्धायाः परमोत्कर्षत्वात् तद्वतो भक्तस्याप्य् उत्कर्षम् आह—यस्येति । अकिञ्चना निष्कामा सर्वैर् धर्मैर् ज्ञान-वैराग्यादिभिः सह तत्रैव सम्यक्तया आसते वसन्ति । सर्व-देव-मयः स एव स्यात् तत्-सेवयैव सर्व-सेव्य-सेवेति भावः । यद् वा, सुरा इन्द्रियाधिष्ठातारो रुद्रादयः सर्वैर् गुणैर् एव सह, न तु दोषैः सहेत्य् अर्थः । तेन तस्याहङ्कारादीनाम् इन्द्रियाणां दुरभिमानादयो दोषा नैव भवन्तीति भावः ।
अभक्तस्य तु महद्-गुणा महतो भक्तिमतस् तस्य ये निर्दोषा गुणास् ते कुतः ? यदि च शास्त्र-ज्ञतादयो गुणाः स्युस् तदा खल्व् ईर्ष्या-मत्सरादि-दोष-सहिता एव स्युः । असति सद्भिर् निन्द्ये अविद्यमाने वा बहिर्-लाभ-प्रतिष्ठादि-सुखे मनोरथेनापि धावतः ।
यद् वा, समासते इति । सुरा इन्द्रियाधिष्ठातारोऽन्यत्र सांसारिक-लोके संसार-प्रवर्तकत्वेन दोषैर् एव सहासते । ज्ञानि-लोके नित्यम् अध्यात्मादि-लय-भावनावति न सम्यग् आसते, किन्तु “अस्मत्त एव ज्ञानम् अवाप्य पुनर् अस्मान् एव सञ्जिहीर्षाव् अस्मिन् कृतघ्ने पुंसि स्थिता वयम् अद्य श्वो वा मरिष्याम एव” इति स-भयोत्कम्पम् एवासते । भक्त-जने तु प्रतिदिनं भगवन्-माधुर्ये एवाध्यात्मादिकं संचारयति सति सर्वैर् गुणैर् एव समासते । वयं कृष्णायस-जातयः प्राकृताः कृष्ण-स्पर्श-संयोगात् कार्ष्णाः प्राप्त-दिव्य-जाति-रूप-गुणा नित्यम् एव भगवन्-माधुर्यामृते विहरन्तोऽत्र पुंसि नूनम् अतिमृत्यवो भवामेति सानन्द-चमत्कारं निश्चलीभवन्तीत्य् अर्थः । अन्यत् समानम् ॥१२॥
—ओ)०(ओ—
॥ ५.१८.१३ ॥
हरिर् हि साक्षाद् भगवान् शरीरिणाम्
आत्मा झषाणाम् इव तोयम् ईप्सितम् ।
हित्वा महांस् तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥
**श्रीधरः : **ननु हरि-विमुखस्य गृहाद्य्-आसक्तस्यापि लोके महत्त्वं दृश्यते, सत्यं दृश्यते, तत् तूपहासास्पदम् इति स-हेतुकम् आह—हरिर् हीति । यथा झषाणां मीनानाम् ईप्सितं तोयम् एवात्मा, तेन विना जिवनाभावात् महान् अति-प्रसिद्धोऽपि गृहे यदि सज्जते तदा दम्-पतीनां मिथुनानां शूद्रादिष्व् अपि प्रसिद्धं वयसैव केवलं यन् महत्त्वं तद् एव तस्य भवति, न तु ज्ञानादिना । मिथुनेषु पूज्यमानेषु स्त्रीभ्यः पुंसां महत्त्वं बाल-मिथुनेभ्यश् च वृद्ध-मिथुनानां महत्त्वं यथेत्य् अर्थः ॥१३॥
**क्रम-सन्दर्भः : **हित्वेत्य् अयम् अर्थः तं हित्वा यदि गृहे सज्जते तदा यदि महानुच्यते तदा दम्पतीनां कामार्थं युग्मी-भूत-स्त्री-पुंसानां वयसा यौवन-मात्रेणापि महत्त्वम् आदरो दृश्यते । द्वयोर् यूनोः परस्परम् आदरः स्यात् । एकत्र तु एकत्रैवेति अर्थान्तरे तु नृणाम् आदर-मात्रेणैव चरितार्थता स्यात् । किं दम्पती-ग्रहणेन दम्पत्योः पुरुष-महत्त्वे च वयसेत्य् अनन्वितं स्यात् ॥१३॥
**विश्वनाथः : **ननु भक्ति-राहित्याद् एव गृहे सज्जतां शास्त्रज्ञत्वादि-गुणवतां लोके महत्त्वं दृश्यते ? सत्यं, तत् तु वस्तुत उपहासास्पदम् एवेति सहेतुकम् आह—हरिर् हीति । तोयम् ईप्सितम् इति कश्चित् झष-जातिर् यथा तोयम् अपि हित्वा बहिस् तटादिषु सुखार्थं प्रचरन् जीवन्-मृतो भवति, तथैव हरिर् विमुखो जीवन्-मृत एव सः, न तु महान् इति भावः । तद् अपि यदि लोके महान् स्यात्, तदा वयसा यौवनेनैव दम्पतीनां यथा महत्त्वं तथा यूनोर् दम्पत्योर् यथा परस्परम् आदरस् तथा न वृद्धयोर् नापि बालयोः दम्पति-पूजायां च यौवन-विशिष्टाद् एव दम्पती वस्त्रालङ्कारादिभिर् अधिकं पूज्येते, न तथा वृद्धाव् इति ॥१३॥
—ओ)०(ओ—
॥ ५.१८.१४ ॥
तस्माद् रजो-राग-विषाद-मन्यु-
मान-स्पृहा-भयदैन्याधिमूलम् ।
हित्वा गृहं संसृति-चक्रवालं
नृसिंह-पादं भजताकुतोभयम् इति ॥
**श्रीधरः : **यस्माद् एवं तस्माद् गृहं हित्वा अकुतो-भयं नृसिंह-पादं भजतेत्य् असुरान् उपदिशति । कीडृशं गृहम् ? रजः तृष्णा, रागोऽभिनिवेशः । रज-आदीनां मूलम् कारणम् अत एव संसृतीनां जन्म-मरणादीनां चक्रवालं मण्डलम् अविच्छेदो यस्मत् ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **रजस् तृष्णा रागोऽभिनिवेशः । संसृतेश् चक्रवालं मण्डल-रूपं गृह-मध्य एव संसृतिस् तिष्ठतीति भावः । भजतेत्य् असुरान् प्रत्युपदेशः ॥१४॥
—ओ)०(ओ—
॥ ५.१८.१५ ॥
केतुमालेऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहितॄणां पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति।
**मध्वः : **कामदेव-स्थितं विष्णुम् उपास्ते श्री-रति-स्थित ।
कामदेवं रतिश् चापि विष्णोस् तु प्राकृतां तनुम् ॥ इति ब्रह्माण्डे ॥१५॥
**श्रीधरः : **केतुमालेऽपि कामदेव-स्वरूपेणास्त इति शेषः । किम्-अर्थम् आस्ते ? अत आह—लक्ष्म्या इति । प्रजा-पतिः संवत्सरः । संवत्सरो वै प्रजा-पतिः इति श्रुतेः । तस्य दुहितरो रात्र्य्-अभिमानिन्यो देवताः, पुत्रा दिवसाभिमानिनो देवाः, तेषां च प्रिय-चिकीर्षया । पुरुषायुषा वर्ष-शतेन यान्य् अहो-रात्राणि, तैः परिसङ्ख्यानं गणना येषाम्, षट्-त्रिंशत्-सहस्राणाम् इत्य् अर्थः । यासां दुहितॄणाम् । महा-पुरुषस्य महास्त्रं चक्रं तस्य तेजसा॥१५॥
**क्रम-सन्दर्भः : **लक्ष्मीस् तु स्व-सम्वलित-शुचि-रसेन स्तौतीत्य् आह—केतुमाल इत्य्-आदिना । एवम् अग्रेऽप्य् अनुसन्धेया । तत्र पुरुषायुषेति कथन-सम-काल-कलि-युगापेक्षयोक्तम्॥१५॥
**विश्वनाथः : **कामेन कन्दर्प-विलासेन दीव्यतीति कामदेवः, तत्-स्वरूपेण भगवान् आस्त इति शेषः, संवत्सरो वै प्रजा-पतिः इति श्रुतेः । प्रजा-पतिः संवत्सरात्मकः कालः, तद्-अभिमानी देव एव तस्य दुहितॄणां पुत्राणां च रात्रि-दिवसाभिमानिनां देवानां प्रिय-चिकीर्षया । पुरुषायुषेति कथन-सम-काल-कलि-युगापेक्षयोक्तेर् वर्ष-शतेन यान्य् अहो-रात्राणि, तैः परिसङ्ख्या गणना येषाम्, षट्-त्रिंशत्-सहस्राणाम् इत्य् अर्थः । यासां पतिमतीनां दुहितॄणां दिवस-सहितानां रात्रीणाम् इत्य् अर्थः । महास्त्रतः काल-चक्र-रूपात् । गर्भाः क्षण-लवाद्य्-आत्मकाः कालाः ।
यद् वा, वर्ष-भोज्यानि लोकानां प्रारब्ध-कर्म-फलान्य् एव ता रात्रीर् निमित्ती-कृत्योद्भूतत्वात् तासां एव गर्भा इत्य् उत्प्रेक्षन्ते । तथा तेषां संवत्सरात्मक-स्थूल-कालान्ते भोगेन क्षय एव गर्भ-पातत्वेनोत्प्रेक्षितः । अहो-रात्राधिष्ठात्र्यो देवतास् ताः प्राकृत-लोक-वर्तिनो भगवन्तम् उपास्य वैकुण्ठ एव तद्-भक्तानां अनश्वर-प्रेम-सेवा-सुख-निमित्त-रूपा भविष्यन्तीत्य् उपासना-फलं च द्रष्टव्यम् ॥१५॥
—ओ)०(ओ—
॥ ५.१८.१६ ॥
अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते।
**श्रीधरः : **रमां रमयन् स्वीयानीन्द्रियाणि रमयते । केन साधनेन रमयन् ? तद् आह—अतीव सुललितया गत्या यो विलासः, तेन विलसितो रुचिरो हास-लेशो मन्द-स्मितं, तत्-सहितोऽवलोक एव लीला, तया किञ्चिद् उत्तम्भितम् उत्तुङ्गितं सुन्दरं यद् भ्रू-मण्डलं, तेन सुभगं यद्वद् अनारविन्दं, तस्य श्रिया ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अतीव सुललितो यो गति-विलासः, विशेषेण ललितोऽतिकमनीयो रुचिर-हास-लेश-युक्तोऽवलोकश् च ताभ्याम् या लीला तया । कीदृश्या ? किञ्चिद् उत्तुङ्गितेन सुन्दर-भ्रू-मण्डलेन, सुभगं यद्वद् अनारविन्दं, तस्यापि श्रीर् यतः तया स्वीयया, रमां रमयन् रमा-सम्बन्धिन्या च तया इन्द्रियाणि स्वीयानि रमयते ॥१६॥
—ओ)०(ओ—
॥ ५.१८.१७ ॥
तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति।
**श्रीधरः : **तद् भर्तृभिर् दिवसाधिष्ठातृभिर् उपेता ॥१७॥
**क्रम-सन्दर्भः : **माया-मयं कृपा-प्रचुरम् ॥१७॥
**विश्वनाथः : **माया-मयं कृपा-मयं मायाया जीवाविद्याया आमयो रोगो यतस् तम् इति वा रात्रिषु प्रजापतेर् दुहितृभिः रात्र्य्-अभिमानिनीभिर् देवताभिः सह अहःसु तासां रात्र्य्-अभिमानि-देवतानां पतिभिर् दिवसाभिमानिभिर् देवैः सहितेत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ ५.१८.१८ ॥
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात्।
**श्रीधरः : **सर्वैर् गुण-विशेषैः श्रेष्ठ-वस्तुभिर् विलक्षितो लक्षी-कृत आत्मा यस्य । आकूतीनां क्रियाणाम् । चित्तीनां ज्ञानानाम् । चेतसां सङ्कल्पाध्यवसायादीनाम् । विशेषाणां तत् तद् विषयाणाम् । षोडश-कला अंशा एकादशेन्द्रिय-पञ्च-विषय-लक्षणा यस्य । छन्दो-मयाय वेदोक्त-कर्म-प्राप्याय । अन्न-मयायान्नोपष्टभ्यत्वात् । अमृत-मयायं परमानन्दाविष्कारत्वात् । सर्व-मयाय सर्व-विषयत्वात् । सहसे ओजसे बलाय तद्-धेतुत्वात् ॥१८॥
**क्रम-सन्दर्भः : **षोडश-शक्त्य्-अधिष्ठात्रे वेदाधिष्ठात्रे पार्थिव-बल-दायक-भोज्य-शक्त्य्-अधिष्ठात्रे दिवि-जबल-दायक-भोज्य-शक्त्य्-अधिष्ठात्रे, किं बहुना, सर्व-शक्त्य्-अधिष्ठात्रे, किं बहुना, सर्व-शक्त्य्-अधिष्ठात्रे, अत एव सर्व-सह-आद्य्-अधिष्ठात्र इति क्रमेण ॥१८॥
**विश्वनाथः : **कृपा-मयत्वम् एव विवृण्वती मन्त्रं जपन्ती एतन्-मन्त्रोपासकोऽन्योऽप्य् एवं स्व-सम्बन्धेन मन्त्रार्थं भावयेद् इति व्यञ्जयन्ती प्रणमति—कान्ताय मत्-पतये कामाय नम इत्य् अन्वयः । देव-पदानुक्तिः पत्युः सम्पूर्ण-नामोच्चारणानौचित्यात् । अन्यस् तु लक्ष्म्या दासी-भावेनैवात्मानं ध्यात्वा मन्त्रम् इमम् उच्चारयेद् इति सम्प्रदायः । हृषीकेशाय स्व-सौन्दर्यादिना मन्-नेत्रादीन्द्रियाकर्षकाय । मन्-नेत्रादीन्द्रिय-माधुर्य-सम्भोक्रे इति वा स्वस्य, तथा योग्यतायां हेतुः—सर्वैर् गुण-विशेषैर् अप्राकृतैर् गुणैर् विलक्षिता विलक्षणी-कृता आत्मानो देह-मनो-बुद्ध्य्-आदयो भवन्ति यतस् तस्मै हृषीकेशत्वं विवृणोति । आकूतीनां मम कर्मेन्द्रियाणां चित्तीनां ज्ञानेन्द्रियाणां चेतसां चित्ताहङ्कार-बुद्धि-मनसां विशेषाणां तत्-तद्-वृत्तीनां तत्-तद्-विषयाणाम् वा अधिपतये स्वामिने तत्-तन्-माधुर्यास्वादिने । अन्योपासक-पक्षे अधिष्ठात्रे तेषां अप्राकृतीकरणात् स्वयम् एवाधिष्ठाता, न तु दिग्-आदि-देव-समूह इति भावः । षोडश-कलाय राका-चन्द्र-तुल्यत्वात् पूर्णाय छन्दोमयाय वेद-रूपिणे स्व-भक्त्य्-उपदेष्ट्रे अन्न-मयाय अन्न-रूपेण साधक-भक्त-प्रतिपालकाय, अमृत-मयाय अमृतवद् आस्वाद्य-रूप-गुण-लीलादिकाय मोक्ष-रूपाय च सर्व-मयाय मम सर्व-स्वरूपाय सहसे ओजसे बलाय त्वत्-सेवायां मच्-चित्तेन्द्रिय-देह-सामर्थ्य-प्रदाय उभयत्र इह-लोके पर-लोके ॥१८॥
—ओ)०(ओ—
॥ ५.१८.१९ ॥
स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो
ह्य् आराध्य लोके पतिम् आशासतेऽन्यम् ।
तासां न ते वै परिपान्त्य् अपत्यं
प्रियं धनायूंषि यतोऽस्व-तन्त्राः ॥
**श्रीधरः : **तत् कामेनैव त्वत्-सेवकत्वाद् अहं कृतार्थोऽस्मि । अन्य-कामनया तु त्वाम् अर्चन्त्यो न परिपूर्ण-मनो-रथाः स्युर् इत्य् आह—स्त्रिय इति । बत एव हृषीकाणाम् ईश्वरं पतिं सन्तं त्वाम् आराध्य याः स्त्रियोऽन्यं पतिं प्रार्थयन्ते । पति-कामानां हि कामाराधनं व्रतेषु प्रसिद्धम् । तासाम् अपत्य्-आदीनि ते पतयो न पातुं शक्ताः ॥१९॥
**क्रम-सन्दर्भः : **आत्मनस् तस्य स्वरूपस्यैव लाभात् । परम् अन्यत् सेवादिकं नाधिकं मन्यते । यथाह श्री-प्रह्लादः यस् त आशिष आशास्ते न स भृत्यः स वै वणिक् [भा।पु। ७.१०.४] इत्य् आदौ । नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव [भा।पु। ७.१०.६] इति ॥१९॥
**विश्वनाथः : **स्वयं निष्कामा सकाम-भक्तिमतीर् अन्याः स्त्रीः शोचति—स्त्रिय इति । अत एव हृषीकाणाम् ईश्वरं पतिम् अपि त्वा त्वाम् आराध्य अन्यम् ॥१९॥
—ओ)०(ओ—
॥ ५.१८.२० ॥
स वै पतिः स्याद् अकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभाद् अधि मन्यते परम् ॥
**श्रीधरः : **अतस् ते पतय एव न भवन्तीत्य् आह—स वा इति । स चैवं-भूतः पतिर् भवान् एक एव नान्यः । यो भवान् आत्म-लाभात् परम् अन्यद् अधिकं न मन्यते । इतरथान्याधीन-सुखस्य न स्वतन्त्रता, स्वतन्त्र-नानात्वे च मण्डलेश्वराणाम् इव मिथो भयं स्याद् इत्य् अर्थः ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पति-शब्दार्थम् एव ता न जानन्तीत्य् आह—स वा इति । पातीति पतिर् यश् चात्मानम् अपि पातुं न शक्नोति स कथम् अन्यान् पातीत्य् अतः प्रथमम् अकुतोभयः स्यात् । स च एको भवान् एव । इतरथा प्रकारान्तरेण पति-शब्दस्य व्याख्यायाम् इत्य् अर्थः । यद् वा, सप्तम्य्-अर्थ एव थाल्-प्रत्ययः । इतरत्र मण्डलेश्वरानाम् इव स्व-प्रजापालकानाम् अपि मिथो भयं, ततश् च प्रजानाम् अपि भयम् इति तद्-अपालनम् एव वस्तुतत् इत्य् अर्थः । अत एवात्मनः परमात्मनस् तव लाभात् अधि अधिकं परं वस्तु न मन्यते शास्त्रज्ञैर् इति शेषः । त्वत्-प्राप्तेः सकाशात् अन्य-प्राप्तिर् नैवाधिकेति त्वम् एव वस्तुतः पति-शब्द-वाच्य इत्य् अर्थः ॥२०॥
—ओ)०(ओ—
॥ ५.१८.२१ ॥
या तस्य ते पाद-सरोरुहार्हणं
निकामयेत् साखिल-काम-लम्पटा ।
तद् एव रासीप्सितम् ईप्सितोऽर्चितो
यद्-भग्न-याच्ञा भगवन् प्रतप्यते ॥
**श्रीधरः : **किं च, निष्काम-भजनेऽप्रार्थिता एव सर्वे कामा भवन्ति । सकाम-भजने तु कामित-मात्रम् अनित्यं चेत्य् आह । या स्त्री तस्योक्त-लक्षणस्य तव पाद-सरोरुहस्यार्हणं पूजाम् एव कामयेत्, न फलान्तरं, साखिलेषु कामेषु लम्पटा सर्वान् कामान् प्राप्नोतीत्य् अर्थः । ईप्सितम् ईप्सितः । फलान्तरम् आप्तुम् अपेक्षितः सन्न् अर्चितश् चेत् तर्हि तद् एवैकं रासि ददासि । किं च, यद् यतः फल-भोगानन्तरं भग्ना याच्ञा याचितोऽर्थो यस्याः सा प्रतप्यते दुःखं प्राप्नोति, तद् एव रासि न तु नित्यम् ॥२१॥
**क्रम-सन्दर्भः : **अखिल-काम-लम्पटेति सर्व-कामस्यापि कामनीयार्थस्य प्रतिष्ठा हि त्वत्-पाद-सरोरुहम् इति ॥२१॥
**विश्वनाथः : **किं च, निष्काम-भजनेऽप्रार्थिता एव सर्वे कामा भवन्ति । सकाम-भजने तु कामित-मात्रम् अनित्यं चेत्य् आह । या स्त्री तस्य उक्त-लक्षणस्य तव पाद-पद्म-पूजाम् एव नितरां कामयेत्, न तु फलान्तरं प्राप्तुम् अपेक्षितः सन् अर्चितो भवसि । तस्यै तद् एवैकं रासि ददासि । यद् यतः फल-भोगानन्तरं भग्ना याच्ञा याचितोऽर्थो यस्याः सा प्रतप्यते दुःखं प्राप्नोतीत्य् अतः सैव निष्कामापि सकाम-पद-वाच्या भवेद् इत्य् अतो भगवन्तं कामयमाना भक्ता नैव सकाम-शब्देन वाचनीया इति सिद्धान्तो व्यञ्जितः । अत्र ईप्सितान्तर-कामायाः परितापः स्व-स्वभाव-प्रातिकूल्य-दृष्ट्यैव लक्ष्म्या ताम् अधिक्षिपन्त्यैवोक्तः । वस्तुतस् तु सकाम-भजनाद् अपि कृतार्थत्वम् उपरिष्टाद् वक्ष्यते ॥२१॥
—ओ)०(ओ—
॥ ५.१८.२२ ॥
मत्-प्राप्तये ञ्जेश-सुरासुरादयस्
तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्-पाद-परायणान् न मां
विन्दन्त्य् अहं त्वद्-धृदया यतो ञ्जित ॥
**श्रीधरः : **ननु ममार्हणे कुतः सर्व-काम-प्राप्तिः ? त्वम् एव कामार्थिभिः सेव्यसेऽत आह—मत्-प्राप्तये ब्रह्मादयस् तपस् तप्यन्ते कुर्वन्ति । कथं-भूताः ? ऐन्द्रिय-सुखे धीर् येषं । अलुक्-समासः । तथापि भगवत्-पाद-परायणाद् ऋते मां न विन्दन्ति । मत्-कटाक्ष-विलसिता विभूतीर् न लभन्त इत्य् अर्थः । यतस् त्वय्य् एव हृदयं यस्याः साहं त्वत्-पर-तन्त्रत्वात् त्वद्-अनुवर्तिनम् एव विलोकयामि नान्यम् इत्य् अर्थः ॥२२॥
**क्रम-सन्दर्भः : **यद्य् अजादयोऽपि विषय-धियो भूत्वा मत्-प्राप्तये मद्-अंश-भूत-प्राकृत-सम्पत्तये तप्यन्ते, तदा मां मद्-अंश-भूतां सम्पत्तिं न विन्दन्ति, किन्तु प्राकृतीम् एव विन्दन्तु नामेत्य् अर्थः । ऋत इति । यदि तेषु कोऽपि त्वत्-पाद-परायणो भवति, तदा तु स विन्दत्य् एवेत्य् अर्थः । त्वद्-धृदयेति गर्व-प्राप्तेः ॥२२॥
**विश्वनाथः : **केचित् सकामास् तु त्वाम् अप्य् अपहाय माम् एव भजन्ते । तेऽपि धूलिम् एव लभन्त इति तान् निन्दन्त्य्—मत्-प्राप्तये ब्रह्मादयस् तपस् तप्यन्ते कुर्वन्ति । ऐन्द्रिये विषय-सुखे एव धीर् येषं । अलुक्-समासः । तद् अपि भगवत्-परायणान् ऋते विना मां मत्-कटाक्ष-विलसितां सम्पत्ति-रूपां लक्ष्मीं न लभन्ते । भगवत्-परायणाः प्रह्लाद-ध्रुवादय एव विन्दन्ति । या तु त्वद्-अभक्तेषु अपि देवासुरादिषु सम्पद् दृश्यते, स तु गुणमयी प्रतिस्व-कर्म-फल-रूपा माया-शक्तेर् दुर्गाया एव प्रसादाद् वा कामादि-तरङ्ग-जनिका कादाचित्की, न तु त्वत्-स्वरूप-भूताया ममेति मम मायात्वाभावात् मत्-प्रसादोत्थायाः सम्पत्तेर् ऐ त्वद्-वैमुख्यापादकत्वाभावात् तत्र हेतुः—त्वद्-धृदया त्वन्-मनस्कान् एवावलोकयामि नान्यम् इत्य् अर्थः ॥२२॥
—ओ)०(ओ—
॥ ५.१८.२३ ॥
स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत् त्वद्-अधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितम् ऊहितुं विभुर् इति ॥
**श्रीधरः : **इदानीं कृपां प्रार्थयते—स त्वम् इति । यद्-भजनं विना न कश्चित् पुरुषार्थः, स त्वम् । त्वद् इति त्वया यत् कराम्बुजं सात्वतां भक्तानां शीर्ष्ण्य् अधायि कृपया न्यस्तं, तन् ममापि शीर्ष्णि निधेहीति शेषः । कथं-भूतः ? वन्दितं सर्व-काम-वर्षित्वेन सद्भिः स्तुतम् । न च मयि तवान् आदरः । यतो हे वरेण्य, मां वक्षसि लक्ष्म बिभर्षि । अहो चित्रम् एतन् मयि केवलम् आदर-मात्रं भक्तेषु तु परमा कृपा । अत ईश्वरस्य तव यन् मायया ईहितं तत् को वितर्कयितुं समर्थः ॥२३॥
**क्रम-सन्दर्भः : **स त्वम् इति । दैन्योक्तिः यत् त्वया यत् कराम्बुजं स्वीकार-व्यञ्जकं सात्वतानां शीर्ष्णि अधायि तन् ममापि तादृश-भक्ति-हीनायाः शीर्ष्णि अधायीत्य् एकम् आश्चर्यम् । किं च, स तादृशस् त्वं मायया कृपया मा मां वक्षसि लक्ष्मी-रूपत्वेन बिभर्षीति ततोऽपि परम् आश्चर्यम् । तस्मात् क ईश्वरस्येति । मत्स्यत्वेनानुत्कृष्ट-दृष्टिं प्रत्य् आह प्रियतमम् इति । तद् अपि भगवतः परम-स्वरूपम् एव जानीयाद् इत्य् अर्थः । अथाप्य् आत्मना सन्निधीयत इति सामान्योक्तेर् आराधयतीत्य् अत्र सन्निहितं सन्तम् इति ज्ञेयम् ॥२३॥
**विश्वनाथः : **तद् एवं ब्रह्मादीनां अराध्यापि तव भार्याप्य् अहं निष्किञ्चनो भक्तो यथा त्वत्तः सौभाग्यं लभते, तथा नाहं लभे । एवं मे ललाटम् इत्य् आह—स मद्-धृदय-नित्य-विहारोऽपि त्वं ममापि शीर्ष्णि कराम्बुजं धेहीति शेषः । त्वत् त्वया यत् सात्वतां शीर्ष्णि अधायि वन्दितं कृपा-सौभाग्य-वर्षित्वेन सद्भिः स्तुतम् । त्वत्-सौभाग्यं सर्वतोऽप्य् अधिकं यतस् त्वाम् अहं हृदय एव नित्यं दधामीति तत्र स-त्रपं साञ्चल-मुखाच्छादनं स-हुङ्कारं नीचैर् आह—विभर्षीति । हे वरेण्य ! मा मां लक्ष्म कनक-रेखां चिह्नतया यद् वक्षसि दधासि तन्-माययैव मद्-भक्त-सौभाग्यं दृष्ट्वा निर्बुद्धिर् एषा मय्य् असूयां कामार्षीद् इति कपटेनैव ।
ननु कोऽप्य् एवं न ब्रूते, तत्राह—कः खल्व् ईश्वरस्य तव ईहितम् ऊहितं वितर्कितं क्षमः, यतः, न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इति तव भक्तं प्रति निभृतोक्तिम् अहम् अश्रौषम् एवेति ध्वनिः ॥२३॥
—ओ)०(ओ—
॥ ५.१८.२४ ॥
रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति।
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्राग् इति चाक्षुष-मन्वन्तरान्ते प्रलये, स वैवस्वतो मनुः ॥२४॥
—ओ)०(ओ—
॥ ५.१८.२५ ॥
ॐ नमो भगवते मुख्यतमाय नमः; सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति।
**श्रीधरः : **सत्त्वाय सत्त्व-प्रधानाय । मुख्यतमाय प्राणाय सूत्रात्मने ॥२५॥
**क्रम-सन्दर्भः : **मुख्यतमायेत्य् अपि पूर्ववत् । सत्त्वादि-परमाश्रयत्वात् सत्त्वादि-रूपाय ॥२५॥
**विश्वनाथः : **मुख्यतमाय सत्त्वाय शुद्ध-सत्त्व-स्वरूपायेत्य् अर्थः । प्राणादि-नियन्तृत्वात् प्राणादिकाय ॥२५॥
—ओ)०(ओ—
॥ ५.१८.२६ ॥
अन्तर् बहिश् चाखिल-लोक-पालकैर्
अदृष्ट-रूपो विचरस्य् उरु-स्वनः ।
स ईश्वरस् त्वं य इदं वशेऽनयन्
नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥
**श्रीधरः : **उरुः स्वनो वेदात्मको नादो यस्य । य इदं विश्वं ब्राह्मणादि-नाम्ना विधि-निषेधालम्बन-भूतेन वशेऽनयन् नियमितवान् स त्वम् ईश्वरः । तथा च श्रुतिः—तस्य वाक्-तन्तिर् नामानि दामानि इति ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सर्वत्रैवान्तर् बहिर् अपि चरसि । अथ च लोक-पालैर् अपि अदृष्ट-रूपः किम् उतान्यैः । ननु तर्हि ममास्तित्वम् एव मास्तु ? तत्राह—उरुर् वेदात्मकः स्वनो यस्य सः । वेद एव तवास्तित्वं प्रतिपदम् उच्चैर् ब्रूत इत्य् अर्थः । अत एव य इदं विश्वं ब्राह्मणादि नाम्ना विधि-निषेधाश्रय-भूतेन वशे अनयन् नियमितवान् स त्वम् ईश्वरः । तथा च श्रुतिः—तस्य वाक्-तन्तिर् नामानि दामानि इति । स्त्रियं पाञ्चालिकां, अतो विश्वस्य पारतन्त्र्याद् अपि स्वतन्त्र ईश्वरस् त्वम् अनुमानेनापि ज्ञाप्यस इति भावः ॥२६॥
—ओ)०(ओ—
॥ ५.१८.२७ ॥
यं लोक-पालाः किल मत्सर-ज्वरा
हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर् द्वि-पदश् चतुष्-पदः
सरीसृपं स्थाणु यद् अत्र दृश्यते ॥
**मध्वः : **स्पर्धन्त इव देवास् तु हरिणा यत्र कुत्रचित् ।
हरेर् एवाज्ञया क्वापि दैत्यावेशात् तथापि वा ॥ इति च ॥२७॥
**श्रीधरः : **नन्व् इन्द्रादयो वशं नयन्ति लोक-पालत्वात् कुतोऽहं? तत्राह—यम् इति । मत्सर एव ज्वरो येषां ते यं हित्वा द्वि-पदश् चतुष्-पदः सरीसृपं जङ्गमं स्थाणु स्थावरं च यद् अत्र दृश्यते तत् किञ्चिद् अपि पातुं न शक्ताः । स त्वम् एव प्राण-रूपेण पालक ईश्वरश् चेत्य् अर्थः । तथा च श्रुतिः—ता अहिंसन्ताहम् उकम् अस्म्य् अहम् उकम् अस्मि इत्य्-आदि ॥२७॥
**क्रम-सन्दर्भः : **यम् इत्य् अस्य टीकायां मत्सर एवेत्य् अत्र परस्परम् इति ज्ञेयम् । ता देवताः अहिंसन्त स-मत्सरा बभूवुः । तत्र प्रत्येकं साभिमानम् आहुः । कम् आश्रित्याहम् अस्मि, अपि तु न कम् अपीति श्रुतेर् अर्थः ॥२७॥
**विश्वनाथः : **नन्व् इन्द्रादयो वशं नयन्ति लोक-पालकत्वाद् ईश्वराः स्वतन्त्राश् च कुतोऽहं? तत्र तेषां लोक-पालकत्वादिकत्वं सर्वम् औपचारिकम् इत्य् आह—यं हित्वा पृथग्-भूता वा समेत्य मिलित्वा वा द्विपदश् चतुष्पदः सरीसृपं जङ्गमं स्थाणु स्थावरं च यद् यत्र दृश्यते, तत् पातुं न शक्ताः, यतो मत्सर-ज्वराः ।
तथा च श्रुतिः—ता अहिंसन्ताहम् उकम् अस्म्य् अहम् उकम् अस्मि इति । अस्यथार्थः—ता देवता मत्सरा बभूवुः, अहम् उ भोः काम् आश्रित्य अस्मि वर्ते, अपि तु न कम् अपीत्य् अर्थः । इत्य् एवम् इति स त्वम् एव प्राण-रूपेण पालक ईश्वरश् चेत्य् अर्थः ॥२७॥
—ओ)०(ओ—
॥ ५.१८.२८ ॥
भवान् युगान्तार्णव ऊर्मि-मालिनि
क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् ।
मया सहोरु क्रमते ञ्ज ओजसा
तस्मै जगत्-प्राण-गणात्मने नम इति ॥
**श्रीधरः : **अवतार-चरितम् आह । भवान् इमां क्षेणीं मया मनुना सह मत्-सहितां धृत्वेत्य् अध्याहारः । ऊर्मि-मालावति प्रलयार्णवे ओजसा क्रमते विचरति । यद् वा, पातुम् इत्य् अस्यानुषङ्गः । क्षोणीं पातुं क्रमते । उत्सहत इत्य् अर्थः । यतोऽजः । कीदृशीम् ? ओषधीनां वीरुधां च निधिम् आश्रय-भूताम् । तस्मै नमः । जगतो यः प्राण-गणस् तस्यात्मने नियन्त्रे ॥२८॥
**क्रम-सन्दर्भः : **युगान्तोऽत्र मन्वन्तरान्तः क्षोणीम् इति धृत-नौका-रूपाम् इत्य् अर्थः। नाव्यारोप्य महीमय्याम् इत्य् उक्तेः ॥२८॥
**विश्वनाथः : **भक्त्या तु त्वं दृष्ट-रूपं प्रत्यक्षतयाप्य् उपलभ्यसे तत्र भक्ताभासोऽहम् एव प्रमाणम् इत्य् आह—भवान् इति । इमां महीं मया सह धृत्वेति शेषः। हे अज, युगान्तार्णवे भवान् क्रमते विहरति । जगतां यः प्राण-गणः, तस्यात्मने नियन्त्रे ॥२८॥
—ओ)०(ओ—
॥ ५.१८.२९ ॥
हिरण्मयेऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति।
**श्रीधरः : **तत् प्रियतमां तां प्रियतमाम् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सा चासौ प्रियतमा चेति ताम् ॥२९॥
—ओ)०(ओ—
॥ ५.१८.३० ॥
ॐ नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस् ते।
**श्रीधरः : **अकूपाराय कूर्माय । सर्वः संपूर्णः सत्त्व-गुणो विशेषणं यस्य । न उपलक्षितं स्थानं यस्य वारि-चरत्वात् । वर्ष्मणे वर्षीयसे कालान् अवच्छिन्नाय । भूम्ने सर्व-गताय । अवस्थानायाधाराय ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अकूपाराय कूर्माय । सर्वः सम्पूर्णः सत्त्व-गुणो यत्र तथा-भूतं विशेषणं आकारो यस्य तस्मै शुद्ध-सत्त्व-मूर्तये इत्य् अर्थः । नोपलक्षितं सर्वैर् अदृष्टं, वैकुण्ठाख्यं स्थानं यस्य तस्मै, वर्ष्मणे महा-प्रमाणाय, भूम्ने व्यापकाय । अवस्थानाय आधाराय ॥३०॥
—ओ)०(ओ—
॥ ५.१८.३१ ॥
यद्-रूपम् एतन् निज-माययार्पितम्
अर्थ-स्वरूपं बहु-रूप-रूपितम् ।
सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात्
तस्मै नमस् तेऽव्यपदेश-रूपिणे ॥
**मध्वः : **उपलम्भनाद् अयथा यथा दृष्टं तथा न तिष्ठत्य् अन्यथा भवतीत्य् अर्थः ॥३१॥
**श्रीधरः : **निज-माययार्पितं प्रकाशितम् एतद् अर्थ-स्वरूपं दृश्यं पृथिव्य्-आदि यस्यैवं-रूपं यतः पृथक् नास्ति । कथं-भूतः ? बहुभी रूपै रूपितं निरूपितम् । यस्य च सङ्ख्या नास्ति । कुतः ? अयथा मिथ्यैवोपलम्भनात् । न हि मरीचि-जलम् एतावद् इति सङ्ख्यातुं शक्यते । अव्यपदेश-रूपिणेऽनिरुक्त-प्रपञ्चाकाराय ॥३१॥
**क्रम-सन्दर्भः : **यस्य तवैतत् कूर्माकारं रूपं निजेषु भक्तेषु मायया कृपया अर्पितं प्रकाशितम् अयथोपलम्भनात् यथवद् उपलब्धुम् अशक्यत्वात् वाङ्-मनसातीतत्वाद् इत्य् अर्थः । यस्य च तव सङ्ख्या नास्ति अव्यपदेशं वक्तुम् अशक्यं रूपं नित्यम् एव विद्यते यस्य तस्मै ॥३१॥
**विश्वनाथः : **एतद् विश्वं यस्य तवैव रूपं, किन्तु माया-शक्त्या अर्पितं, न तु स्वरूप-भूतम् इत्य् अर्थः । अर्थ-स्वरूपं वस्तु-स्वरूपं, न त्व् अवस्तु-भूतं बहुभिर् नर-गो-पशु-पक्षि-मत्स्यादि-रूपै रूपितं निरूपितम्, किन्तु सङ्ख्या यस्या नास्ति । कुतः ? अयथोपलम्भनात्, यथावद् उपलम्भनाशक्यत्वात् । यैः प्रकारैर् इदं विश्वम् अभूत् तेषां उपलम्भनाशक्यत्वात् इत्य् अर्थः । तथा ह्य् एकस्य स्थूलस्य नर-जातेर् एव प्रति-शरीरं वर्ण-स्वभाव-कण्ठ-स्वरादि-भेदाद् अनन्त-प्रकारा ज्ञातुम् अशक्याः सूक्ष्माणां स्वेदजोद्भिज्जादीनां का वार्तेत्य् अनन्तस्य तव शक्ति-कार्यस्याप्य् आनन्त्यम् इति भावः । अतस् तव स्वरूप-भूतस्य सर्वागम्यत्वे कैमुत्यम् एवेत्य् आह—अव्यपदेशं वक्तुम् अशक्यं नित्यं रूपं यस्य तस्मै ॥३१॥
—ओ)०(ओ—
॥ ५.१८.३२ ॥
जरायुजं स्वेदजम् अण्डजोद्भिदं
चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् ।
द्यौः खं क्षितिः शैल-सरित्-समुद्र-
द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः ॥
**मध्वः : **सर्वान्तर्यामिकत्वात् तु सर्व-नामा हरिं स्वयम् ।
न तु सर्व-स्वरूपत्वाद् रूपत्वम् उपचारतः ॥ इति च ॥३२॥
**श्रीधरः : **बहु-रूपत्वं दर्शयंस् तस्येश्वराद् अव्यतिरेकम् आह—जरायुजम् इति । द्वीप-ग्रहर्क्षम् इत्य् अभिधेयैस् त्वम् एवैको न त्वद्-व्यतिरिक्तोऽस्ति । सर्वं खल्व् इदं ब्रह्म इत्य्-आदि-श्रुतेर् इत्य् अर्थः ॥३२॥
**क्रम-सन्दर्भः : **पूर्ववत् बहु-रूपत्वं दर्शितम् । तच् च जरायुजेत्य्-आदिना किञ्चित् सङ्ख्यातम् । यत् तु न यस्य सङ्ख्यस्तीत्य् उक्त्वा तस्यैकत्वान् नाम-रूपादीनाम् एवासङ्ख्यत्वम् आनीतं तेषां स्वरूप-सिद्धत्वं दर्शयन् सङ्ख्याता-नामारोपितत्वम् आह ॥३२॥
**विश्वनाथः : **तद् एवम् अनन्त-भेदस्यापि विश्वस्य त्वद्-एक-कारणत्वाद् एक-विधत्वम् अपीत्य् आह—जरायुजेति । ग्रहर्क्षेत्य् आर्षम् । इत्य् एषां एकस् त्वम् एवाभिधेयः । तथा च श्रुतिः—सर्वं खल्व् इदं ब्रह्म इति ॥३२॥
—ओ)०(ओ—
॥ ५.१८.३३ ॥
यस्मिन्न् असङ्ख्येय-विशेष-नाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्व-दृशापनीयते
तस्मै नमः साङ्ख्य-निदर्शनाय ते इति ॥
**मध्वः : **दशावतार इत्य्-आदि सङ्ख्या विनीयते विशेषेण नीयते तज्-ज्ञानं तद्-रूपम् एव ॥३३॥
**श्रीधरः : **सर-पञ्चताम् अनूद्य तन् निरासेन प्रणमति, यस्मिन्न् इति । असङ्ख्येया अनन्ता विशेषा येषां तानि नामानि रूपाण्य् आकृतयश् च यस्य तादृशे यस्मिंस् त्वयि कविभिः कपिलादिभिर् इयं चतुर्-विंशत्य्-आदि-सङ्ख्या कल्पिता सती यया तत्त्व-दृशा येन तत्त्व-ज्ञानेनापनीयते तस्मै ते साङ्ख्य-सिद्धान्त-रूपाय नमः । परमार्थ-ज्ञान-रूपायेति वा ॥३३॥
**क्रम-सन्दर्भः : **यस्मिन्न् इति । इयं सङ्ख्या जरायुजादि-रूपा कल्पिता । प्रथमोपासनार्थ त्वद्-रूपत्वेनारोप्यैवोपदिष्टा । ययापनीयते तस्मै तद्-एक-गम्यायेत्य् अर्थः । साङ्ख्यानां साङ्ख्य-विदां तेषां निदर्शनाय सिद्धान्त-रूपाय ॥३३॥
**विश्वनाथः : **सर-पञ्चताम् अनूद्य तन् निरासेन प्रणमति—यस्मिन्न् इति । असङ्ख्येया अनन्ता विशेषा येषां तानि नामानि रूपाण्य् आकृतयश् च यस्य तादृशे यस्मिंस् त्वयि कविभिः कपिलादिभिर् इयं चतुर्-विंशत्य्-आदि-सङ्ख्या कल्पिता सती यया तत्त्व-दृशा येन तत्त्व-ज्ञानेनापनीयते तस्मै ते साङ्ख्य-सिद्धान्त-रूपाय नमः । परमार्थ-ज्ञान-रूपायेति वा ॥३३॥
—ओ)०(ओ—
॥ ५.१८.३४ ॥
उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति।
**श्रीधरः : **एषा भूर् उपधावति हेत्य् अन्वयः ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१८.३५ ॥
ॐ नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते।
**श्रीधरः : **मन्त्रैस् तत्त्वेन लिङ्ग्यत इति तथा तस्मै । यज्ञा अयूपाः, क्रतवः सयूपास् तद्-रूपाय । अत एव महान्तोऽध्वरा अवयव-भूता यस्य । कर्मणा शुक्लाय शुद्धाय यज्ञानुष्ठात्रे । त्रि-युगाय कृत-युगे यज्ञाभावात् । यद् वा, कलि-युगे छन्नत्वात् ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मन्त्रैर् एव तत्त्वेन लिङ्ग्यते ज्ञायते यस् तस्मै । यज्ञा अयूपाः, क्रतवः स-यूपास् तद्-रूपाय । महान्तोऽध्वरा अवयव-भूता यस्य । कर्मभिः स्वीय-चरित्रैः सह शुक्लाय शुद्ध-सत्त्व-स्वरूपाय । त्रि-युगाय सत्यादि-युग-त्रय एव प्राकट्यात् कलौ छन्नत्वात् । यद् वा, त्रीणि योगानि युगलानि यस्य तस्मै षड्-ऐश्वर्यायेत्य् अर्थः ॥३५॥
—ओ)०(ओ—
॥ ५.१८.३६ ॥
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्व् इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर् नम ईरितात्मने ॥
**मध्वः : **क्रियथार्थैर् यज्ञाद्य्-अर्थैर् इन्द्रादि-नामभिर् ईरितात्मने ॥३६॥
**श्रीधरः : **कवयो विद्वांसो विपश्चितो निपुणा गुणेषु देहेन्द्रियादिषु मथ्नन्ति विचिन्वन्ति । मथ्ना विवेक-साधनेन मनसा । क्रियार्थैः कर्मभिस् तत्-फलैश् च गूढं अप्रकाशमानं दिदृक्षवः । एवं मथने ईरितः प्रकटित आत्मा स्वरूपं यस्य तस्मै नमः ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कवयो विद्वांसो विपश्चितो भक्ति-चतुरा यस्य गुणेषु शब्द-रूपादिषु कृष्ण-रामेति नीलोत्पल-दूर्वा-दल-श्यामेत्य्-आदिषु मनसा मथ्ना मथन-साधनेन यस्य स्वरूपं दिदृक्षवो मथ्नन्ति दारुष्व् इव जात-वेदसम् इति यथा मथनेनिव जात-वेदा वह्निः प्रत्यक्षीभवति, तथैवात्र—यस्य नाम-रूपादिषु पुनः पुनर् मनो-निधानम् एव मथनं, तेनैव यत्-स्वरूपं प्रत्यक्षीकुर्वन्तीत्य् अर्थः ।
कीदृशं ? क्रियार्थैः कर्मभिस् तत्-फलैश् च गूढं भक्त्यैव नैष्कर्म्ये सत्य् एव द्रष्टुं शक्यम् इत्य् अर्थः । एवम् एव ईरितः कथितः आत्मा स्वभावो यस्य यत्नो वा यत्र तस्मै । यद् वा, गुणेषु श्रोत्र-वाग्-इन्द्रियेषु यस्य स्वरूपं स्वरूप-भूतं नाम-गुण-लीलादि-श्रूयमाण-कीर्त्यमानादि मनसा मथ्ना मथ्नन्ति । मनः-सहित-चरणारविन्द-कीर्तनादि दृढाभ्यासेनैव यं प्रत्यक्षीकुर्वन्तीत्य् अर्थः । अन्यत् समानम् ॥३६॥
—ओ)०(ओ—
॥ ५.१८.३७ ॥
द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर्
माया-गुणैर् वस्तु-निरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर्
निरस्त-मायाकृतये नमो नमः ॥
**श्रीधरः : **मथनम् एव दर्शयन्त्य् आह—द्रव्येति । द्रव्यं विषयः । क्रिया इन्द्रिय-व्यापारः । हेतुर् देवता । अयनं देहः । ईशः कालः । कर्ता अहङ्कारः । एतैर् मायाया गुणैः कार्यैर् उपलक्षणैर् वस्तुत्वेन निरीक्षितो य आत्मा तस्मै । अन्वीक्षया विचारेणाङ्गैर् यम-नियमादिभिर् अतिशयात्मा निश्चयवती बुद्धिर् येषां तैर् निरस्ता माया-निमित्ता आकृतिर् यस्मात् तस्मै ॥३७॥
**क्रम-सन्दर्भः : **द्रव्यादिभिर् माया-गुणैर् उपलक्षितं यद् वस्तु शुद्ध-जीव-तत्त्वं तत्रापि निरीक्षितो य आत्मा परमात्मा तत्-स्वरूपाय । अन्वीक्षादिभिर् निरस्ता प्रत्याख्याता माया यतस् तथ-भूताकृतिर् यस्य तस्मै ॥३७॥
**विश्वनाथः : **मथनम् एव दर्शयन्त्य् आह—द्रव्येति । द्रव्यं विषयः । क्रिया इन्द्रिय-व्यापारः । हेतुर् देवता । अयनं देहः । ईशः कालः । कर्ता अहङ्कारः । एतैर् मायाया गुणैः कार्यैर् उपलक्षणैर् वस्तुत्वेन निरीक्षितो य आत्मा तस्मै । अन्वीक्षया विचारेणाङ्गैर् यम-नियमादिभिर् अतिशयात्मा निश्चयवती बुद्धिर् येषां तैर् निरस्ता माया-निमित्ता आकृतिर् यस्मात् तस्मै ॥३७॥
—ओ)०(ओ—
॥ ५.१८.३८ ॥
करोति विश्व-स्थिति-संयमोदयं
यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः ।
माया यथायो भ्रमते तद्-आश्रयं
ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे ॥
**श्रीधरः : **तद् एवं निर्गुण-रूपेण नत्वा परमेश्वर-रूपेण प्रणमति, करोतीति । यस्येक्षितुर् जीवार्थम् ईप्सितम् । अत्यन्तानिच्छायाम् ईक्षणायोगात् । स्वार्थं तु नेप्सितम् । विश्व-स्थित्य्-आदि-स्व-गुणैर् माया करोति । तस्या जडत्वेपीश्वर-सन्निधानात् प्रवृत्तिं दृष्टान्तेनाह—यथाऽयो लोहं ग्राव्णोऽयस्कान्तान् निमित्ताद् भ्रमति । तद्-आश्रयं तद्-अभिमुखं सत् । अतो गुणानां कर्मणां जीवादृष्टानां च साक्षिणे तस्मै ते नमः ॥३८॥
**क्रम-सन्दर्भः : **तत्-स्थापनाय वशीभूत-मायां स्वरूप-शक्तिं योजयति—करोतीति ॥३८॥ (भगवत्-सन्दर्भ १८)
**विश्वनाथः : **ननु मत्-कार्यत्वाद् अचिद् अपि जगन् ममैवाकारो मृद्-घटादिवत् तत्र जगद् इदं न वस्तुतस् त्वत्-कार्यं, किन्तु माया-कार्यम् इत्य् आह—करोतीति । यस्येक्षितुर् जीवार्थम् ईप्सितं अत्यन्तानिच्छायां ईक्षण-योगात् । स्वार्थं तु नेप्सितं, विश्व-स्थित्यादि स्व-गुणैर् माययैव करोति । तस्या गडत्वेऽपि ईश्वर-सन्निधानात् प्रवृत्तिं दृष्टान्तेनाह—यथा लोहः ग्राव्नोऽयस्कान्ताद् धेतोर् भ्रमति तद्-आश्रयं तद्-अभिमुखं सत्, अतो गुणानां कर्मणां जीवादृष्टानां च साक्षिणे तस्मै तुभ्यं नमः ॥३८॥
—ओ)०(ओ—
॥ ५.१८.३९ ॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगद्-आदि-सूकरः ।
कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः
क्रीडन्न् इवेभः प्रणतास्मि तं विभुम् इति ॥
**श्रीधरः : **अवतार-चरितम् आह—प्रमथ्येति । यो जगताम् आदिः कारण-भूतः सूकरो मां पृथ्वीम् अग्र-दंष्ट्रे दंष्ट्राग्रे कृत्वा रसातलाद् आरभ्योदन्वतः प्रलयार्णवाद् इभो गज इव निरगात् । ततश् च प्रति-गज-तुल्यं दैत्यं प्रमथ्य यः क्रीडन् स्थितस् तं विभुं प्रणताऽस्मीत्य् अन्वयः ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अवतार-चरितम् ब्रुवती स्वस्मिन् कृपातिशयं द्योतयति—प्रमथ्येति । प्रतिवारणं प्रतियोद्धारं हस्तिनम् इव इभौ हस्ती रसाया रसातलोपलक्षितां गर्भोदात् जगद्-आदिर् जगत्-कारण-भूतः शूकरः । उदन्वति प्रलयार्णवे ॥३९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
भुवन-कोशे वर्ष-देव-स्तुतिर् नाम
अष्टादशोऽध्यायः ।
॥५.१८॥
(५.१९)
एकोनविंशोऽध्यायः