१७ भुवन-कोशः

॥ ५.१७.१ ॥

श्री-शुक उवाच—

तत्र ह भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचोऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः।

**श्रीधरः : **

ततः सप्तदशे गङ्गा- गमनं तच् चतुर्-दिशम् ।

इलावते च रुद्रेण सङ्कर्षण-निषेवणम् ॥

भुवं क्रान्त्वा वाम-पदम् उत्क्षिपतो वाम-पादाङ्गुष्ठ-नखेन निर्भिन्नम् ऊर्ध्वम् उपरि-भागो यस्याण्ड-कटाहस्य तस्य विवरेणान्तः प्रविष्टा या बाह्य-जल-धारा सा दिवो मूर्धन्य् अवततारेत्य् अन्वयः । तस्य यच् चरण-पङ्कजं तस्यावनेजनेन क्षालनेनारुणं तद् गतं कुङ्कुमं, तद् एव किञ्जल्कास् तैर् उपरञ्जिता, अत एवाखिलस्य जगतौघ-मलापहम् उपस्पर्शनं, यस्यास् तथाप्य् अमला तन्-मल-सङ्ग-शून्या साक्षाद् भगवत्-पदीति यद् अनुपलक्षितं जाह्नवी-भागीरथीत्य्-आद्य्-उपलक्षणान्तर-रहितं वचो नाम तेनाभिधीयमाना । तस्मिन् समये भगवत्-पदी नाम, पश्चान् नामान्तराणि जातानीत्य् अर्थः । कोऽसौ दिवो मूर्धा ? तम् आह—यद् इति ॥१॥

**क्रम-सन्दर्भः : **युग-सहस्रेत्य् अत्र युगं नाम ज्योतिः-शास्त्र-रीत्या पञ्च-वर्षात्मकं ज्ञेयम् ॥१॥

**विश्वनाथः : **

गङ्गा-नामागमं भूमौ भौम-स्वर्ग-सुखं तथा ।

सङ्कर्षणस्य रुद्रेण सेवां सप्तदशेऽब्रवीत् ॥

सुमेरोः परिधि-केशरादि-शोभं वर्णयित्वा सर्व-शोभा-चूडामणिम् अतिदीर्घतर-शाखा-शिखर-हीरक-मुकुट-विशेषायमानां तन्-मूर्ध्नि विराजमानां श्री-गङ्गां वर्णयंस् तत्-प्रादुर्भाव-प्रकारं आह—तत्र वामनावतार-समये विक्रमतो दक्षिणेन पदा भुवं क्रान्त्वा, वाम-पादम् उत्क्षिपतः, त्रि-साम्य-सदनाद् उरु-कम्पयानम् [भा।पु। २.७.४०]इति ब्रह्मोक्तौ तस्य प्रकृत्यावरण-पर्यन्त-व्याप्ति-चरणारविन्दात् बाह्या पृथिव्य्-आद्य्-अष्टावरणेभ्यो बहिर् भूता कारणार्णव-सम्बन्धिनी चिन्मयी या जल-धारा सा दिवो मूर्धनि ध्रुव-लोकेऽवततारेत्य् अन्वयः । तच्-चरण-पङ्कजयोर् आवरणेजने क्षालन-समये अरुणश् चरण-तलस्यारुणिम्नैव किञ्जल्कः, तेनोपरञ्जिता, अघ-मलापहम् उपस्पर्शनं यस्यास् तथाप्य् अमला तन्-मल-सङ्ग-शून्या साक्षाद्-भगवत्-पदीति यद् अनुपलक्षितं तस्मिन् काले भागीरथी-जाह्नवीत्य्-आद्य्-उपलक्षणान्त-रहितं वचो नाम, तेनाभिधीयमाना यद् यो दिवो मूर्धा तत् प्रसिद्धम् ॥१॥

—ओ)०(ओ—

॥ ५.१७.२ ॥

यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतोऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-बाष्प-कलयाभिव्यज्यमान-रोम-पुलक-कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति।

**श्रीधरः : **किं तद् विष्णु-पदं ? तद् आह—यत्रेति । वीर-व्रतो दृढ-सङ्कल्पः, अस्मत्-कुल-देवताया हरेश् चरणारविन्दोदकम् इति हेतोः परमादरेण बिभर्तीत्य् अन्वयः । कथं-भूताः सन् ? प्रतिक्षणं वर्धमानेन भगवद्-भक्ति-योगेन दृढम् अत्यन्तं क्लिद्यमानम् अन्तर्-हृदयं यस्य । अत एवौत्कण्ठ्येन विवशम् आमीलितं यल् लोचन-युगलं, तद् एव कुड्मले ताभ्यां विगलितम् अमलं बाष्पं, तस्य कलया सहाभिव्यज्यमानं रोम-पुलकानां कुलं यस्य ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यत्र विष्णु-पदे वीर-व्रतो दृढ-सङ्कल्पः । उत्कृष्यमाणेन प्रतिक्षणम् उत्कर्षं प्राप्नुवता भक्ति-योगेन, अत एवौत्कण्ठ्येन विवशम् आमीलितं यल् लोचन-युगलं, तद् एव कुट्मले ताभ्याम् विगलितम् अमलं बाष्पं, तस्य कलया सह अभिव्यज्यमानं रोम-पुलकानां कुलः यस्य सः ॥२॥

—ओ)०(ओ—

॥ ५.१७.३ ॥

ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवेऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति।

**श्रीधरः : **ततः सप्त-र्षयस् तस्या गङ्गायाः प्रभावाभिज्ञाः सन्तो यां जटा-जूटैर् उद्वहन्तीत्य् अन्वयः । एतावत्य् एव नातोऽधिकास्तीत्य् अभिप्रायवन्तः । तत्र हेतुः—भगवति सन्ततं भक्ति-योग-लाभेनैवोपेक्षिता अन्ये पुरुषार्था आत्म-ज्ञानं च यैह् । काम् इव क इव धारयन्ति । प्रत्यक्षं मुक्तिम् इव ताम् आगताम् । मुमुक्षवो जना इव ते ॥३॥

**क्रम-सन्दर्भः : **अद्यापि अवतार-समयानन्तरं सर्वदापीत्य् अर्थः ॥३॥

**विश्वनाथः : **एतावतीति । इतोऽधिक-परिमाणासिद्धिः कापि नास्तीत्य् अर्थः । भक्ति-योग-लाभेनैवोपेक्षिता अन्ये पुरुषार्था आत्म-ज्ञानं च यैर् एव इति श्री-स्वामि-चरणैः ॥३॥

—ओ)०(ओ—

॥ ५.१७.४ ॥

ततोऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतरन्तीन्दु-मण्डलम् आवार्य ब्रह्म-सदने निपतति।

**श्रीधरः : **ततोऽनेक-सहस्र-कोटीनां विमानानाम् अनीकैः सङ्कुलेन देव-यानेनाकाश-मार्गेणावतरन्ती । सप्तर्षिभ्योऽर्वाग् एव प्रायशः कर्मिणां गतिर् इति ततोऽर्वाग् एव सङ्कुलत्वम् उक्तम् । आवार्य आप्लाव्य । मेरु-मूर्ध-स्थे ब्रह्म-सदने निपतति ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **देव-यानेन आकाश-मार्गेण सप्तर्षिभ्योऽर्वाग् एव प्रायशः कर्मिणां गतिः, अत एव ततोऽर्वाग् एव सङ्कुलत्वम् उक्तम् । आवार्य आप्लाव्य । मेरु-मूर्ध-स्थे ब्रह्म-सदने ॥४॥

—ओ)०(ओ—

॥ ५.१७.५ ॥

तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति।

**श्रीधरः : **अभिस्पन्दन्ती अभितो गच्छन्ती ॥५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१७.६ ॥

सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति।

**श्रीधरः : **केसराचलानां मेरु-समानोच्छ्रायत्वात् प्रथमं तेषाम् आदि-शिखरेषु मुख्य-शृङ्गेषु पतति ततस् तेभ्योऽधोऽधः प्रस्रवन्ती सती ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **केशराचलानां मेरु-समानोच्छ्रायत्वात् प्रथमं तेषाम् आदि-शिखरेषु मुख्य-शृङ्गेषु पतति, ततस् तेभ्योऽधोऽधः प्रस्रवन्ती सती भद्राश्व-वर्षस्य मध्ये पतित्वेति इलावृतम् उल्लङ्घ्येत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ५.१७.७ ॥

एवं माल्यवच्-छिखरान् निष्पतन्ती ततोऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति।

**श्रीधरः : **माल्यवच्-छिखरात् केतुमालाभिमुखं निष्पतन्ती । चक्षुः संज्ञा ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **केतुमालाम् अभिलक्ष्य केशराचलात् तत्र पतित्वेत्य् अर्थः ॥७॥

—ओ)०(ओ—

॥ ५.१७.८ ॥

भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति।

**श्रीधरः : **गिरि-शिखराद् इति । कुमुद-शिखराद् उच्चलिता नील-शिखरं तत उच्चलिता श्वेत-शेखरं तद् अप्य् अतिहाय शृङ्गवतः शृङ्गाद् अधः स्रवन्ती ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **गिरि-शिखराद् इति केशवाचल-शिखराद् उच्चलिता नील-शिखरं, ततः श्वेत-शिखरं तद् अप्य् अतिक्रम्य शृङ्गवतः शृङ्गाद् अधः स्रवन्तीति इलावृतादि वर्ष-त्रयम् उल्लङ्घ्येत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ५.१७.९ ॥

तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति।

**श्रीधरः : **अतिरभसतर-रंहसा अस्खलित-तीव्रतर-वेगेन ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तथैवेति । वर्ष-त्रयम् उल्लङ्घ्य गिरि-शिखराद् गिरि-शिखरे पतन्तीत्य् अर्थः । भारत्म् अभिलक्ष्य पतित्वेति विशेषः । तत्र द्वीप-मध्य-वर्तीनि बहूनि वर्षाणि उल्लङ्घ्योल्लङ्घ्यापि चलन्ती प्राच्यादिषु चतुर्षु समुद्र-समीप-वर्तिष्व् एव वर्षेषु कुलाचलाद् अवरुह्य भूमौ यन् निपतति तत् खलु स्व-पतिं समुद्रम् अभिलक्ष्य लज्जा-नम्र-मुखी स्वम् औद्धत्यं परिहरन्ती वेति ज्ञेयम् ॥९॥

—ओ)०(ओ—

॥ ५.१७.१० ॥

अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः।

**श्रीधरः : **बहुशो बहु-विधाः । मेर्वादि-गिरीणां दुहितरस् तत् प्रसूताः ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१७.११ ॥

तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति।

**श्रीधरः : **दिव्य-भौम-बिल-भेदात् त्रि-विधः स्वर्गः । तत्र भौम-स्वर्गस्य पदानि स्थानानि व्यपदिशन्ति ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दिव्य-भौम-बिल-भेदात् त्रि-विधः स्वर्गः । तत्र भौम-स्वर्गस्य पदानि स्थानानि ॥११॥

—ओ)०(ओ—

॥ ५.१७.१२ ॥

एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते।

**श्रीधरः : **अयुतं पुरुष-मानेन आयुर्-वर्षाणि येषाम् । वज्रवद् दृढं संहननं शरीरं तस्मिन् बल-वयो-मोदास् तैः प्रमुदितानि यानि महा-सौरतानि मिथुनानि तेषां व्यवायापवर्गे संभोगावसाने एक-वर्ष-शेषे आयुषि धृत एको गर्भो यैस् तादृशानि कलत्राणि येषाम् । त्रेता-युग-समः विषय-सुखोत्कर्षात् । कृत-युगे हि सर्वे ध्यान-निष्ठाः । द्वापरादौ दुःख-बहुलाः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अयुतं पुरुषस्य मनुष्यस्य मानेन आयुर्-वर्षाणि येषां दृढं संहननं शरीरं, तस्मिन् बल-वयो-मोदाः, तैः प्रमुदितानि यानि महा-सौरतानि मिथुनानि स्त्री-पुरुष-युगलानि, तेषां व्यवायापवर्गे संभोगावसाने एक-वर्ष-शेषे आयुषि धृतैक-गर्भाणि कलत्राणि येषाम्, तेषां त्रेता-युग-सम इति विषय-सुखोत्कर्षात्, यतः कृत-युगे हि सर्वे ध्यान-निष्ठाः । द्वापरादौ दुःख-बहुलाः ॥१२॥

—ओ)०(ओ—

॥ ५.१७.१३ ॥

यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-क्रीडादिभिर् विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति।

**श्रीधरः : **यत्र ह येषु हि वर्षेषु देव-पतयः स्वैः स्वैः सेवक-गणेषु मुख्यैः कृत-महोपचाराः सन्तः स्वैरं विहरन्तीत्य् अन्वयः । केषु स्थानेषु ? सर्वेषु ऋतुषु कुसुम-स्तवकादीनां श्रिया समृद्ध्यात्यन्तं नम्यमाना विटपास् तद्-आश्रिता लताश् च येषु, तैर् विटपभिर् उपशुम्भमानानि शोभमानानि रुचिराणि काननानि येषु, तेष्व् आश्रमायतनेषु वर्ष-गिरि-द्रोणीषु च, तथा अमलेषु जलाशयेषु विकचानि विकासीनि विविधानि नवानि च यानि वन-रुहाणि नीरजानि, तेषाम् आमोदेन मुदितैः राज-हंसादिभिर् मधुकर-निकराणां चाकृतिभिर् जाति-विशेषैर् उपकूजितेषु । कामेन कलिलैः क्षुभितैर् विलासादिभिर् आकृष्टं मनो दृष्टिश् च येषां ते ॥१३॥

**क्रम-सन्दर्भः : **तत्र विशेषम् अपि वदंस् तत्-तत्त्व-प्राप्ति-सोपानम् आह—यत्रेति । मुमुक्षोस् तद्-व्यतिरिक्त-सर्व-परित्यागेच्छोः ॥१३॥

**विश्वनाथः : **यत्र ह देव-पतयः स्वैरं विहरन्तीत्य् अन्वयः । सर्वेष्व् एव ऋतुषु कुसुमादीनां श्रिया समृद्ध्या अत्यन्तं नम्यमाना विटपा येषां तैर् लता-विटपिभिर् उपशुम्भमानेषु शोभमानेषु रुचिर-काननादिषु, तत्र वर्ष-गिरयो वर्ष-ख्याति-कर-पर्वता राज-हंसादिभिर् मधुकर-निकराणां चाकृतिभिर् जाति-विशेषैर् उपकूजितेषु । अधिकरणे निष्ठा, षष्ठ्य्-अभाव आर्षः ॥१३॥

—ओ)०(ओ—

॥ ५.१७.१४ ॥

नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते।

**श्रीधरः : **नवस्व् अपि वर्षेषु ये पुरुषास् तेषां तद्-अनुग्रहाय स चासौ वक्ष्यमाणो ऽनुग्रहस् तद्-अर्थम् आत्म-तत्त्व-व्यूहेन स्व-मूर्ति-समूहेन सन्निधीयते सन्निहितो भवति ॥१४॥

**क्रम-सन्दर्भः : **नवस्व् अपीत्य्-आदिना । सर्वेषाम् अवताराणां नित्य-प्राकट्यं दर्शितम् । तत्र चात्मनेति । स्वरूपेणैव, न तु प्रतिमा-रूपेणेत्य् अर्थः । प्रद्युम्नाविर्भावे गति-विलासादेर् अपि वर्णयिष्यमाणत्वात् । अद्यापि सन्निधीयत इति यथावसरं नित्यम् एव ज्ञेयम् ॥१४॥

**विश्वनाथः : **पुरुषाणां तद्-अनुग्रहाय स चासौ वक्ष्यमाणोऽनुग्रहश् चेति तस्मै तद्-अर्थम् आत्म-तत्त्व-व्यूहेन स्व-मूर्ति-समूहेन सन्निधीयतः सन्निहितो भवति । अत्र उपास्य-देवता-वर्षेषु भगवन्-मूर्तयः प्रायः प्रतिमा-रूपा एव ज्ञेयाः । आविर् आविर्भवेत् प्रह्लादस्योपरिष्टाद् उक्तेः ॥१४॥

लघु-भागवतामृतः—

पाद्मे तु परम-व्योम्नः पूर्वाद्ये दिक्-चतुष्टये ।
वासुदेवादयो व्यूहश् चत्वारः कथिताः क्रमात् ॥१७३॥
तथा पाद-विभूतौ च निवसन्ति क्रमादि मे ।
जलावृति-स्थ-वैकुण्ठ-स्थित वेदवती-पुरे ॥
सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारका-पुरे ।
शुद्धोदाद् उत्तरे श्वेत-द्वीपे चैरावती-पुरे ।
क्षीराम्बुधि-स्थितान्ते क्रोड-पर्यङ्क-धामनि ॥१७४॥
सात्वतीये क्वचित् तन्त्रे नव व्यूहाः प्रकीर्तिताः ।
चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ ॥
हयग्रीवो महा-क्रोडो ब्रह्मा चेति नवोदिताः ।
तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्त-विधया हरिः ॥१७५॥

—ओ)०(ओ—

॥ ५.१७.१५ ॥

इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि।

**श्रीधरः : **अपरोऽर्वाचीनः । पश्चात् नवम-स्कन्धे ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पश्चात् नवम-स्कन्धे ॥१५॥

—ओ)०(ओ—

॥ ५.१७.१६ ॥

भवानी-नाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति।

**श्रीधरः : **भवानी-नाथः स्वामिनी येषां तैः स्त्री-गणानाम् अर्बुद-सहस्रैर् अवरुध्यमानः सर्वतः सेव्यमानः । आत्मनः प्रकृतिं कारणम् । आत्मनि समाधिर् ध्यानं यस्य तेन रूपेण । एतद् वक्ष्यमाणं मन्त्रादिकम् अभिगृणन् जपन् ॥१६॥

**क्रम-सन्दर्भः : **तामसीं तमो-गुण-प्रेरिकां प्रलय-हेतुत्वात् ॥१६॥

**विश्वनाथः : **भवानी-नाथा येषां तैः अवरुध्यमानः सर्वतः सेव्यमानः, तामसीं तमः-कार्य-भूतस्य संहारस्य प्रवर्तयित्रीं, वस्तुतस् तु तुरीयां तमो-रजः-सत्त्वेभ्योऽपि परां शुद्ध-चिन्मयीम् इत्य् अर्थः । न यस्य माया [भा।पु। ५.१७.१९] इत्य्-आदिना, त्रिभिर् विहीनं [भा।पु। ५.१७.२] इत्य्-आदिना च तथा प्रतिपादयिष्यमाणत्वात् । आत्मनः प्रकृतिम् अंशित्वात् कारणम् । आत्मनः समाधिर् ध्यानं यत्र येन रूपेण आकारेण ॥१६॥

—ओ)०(ओ—

॥ ५.१७.१७ ॥

श्री-भगवान् उवाच—

**ॐ नमो भगवते महा-पुरुषाय **
सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति।

**मध्वः : **अनन्तान्त-स्थितो विष्णुर् अनन्तश् च सहामुना । इति च ।

पूज्यते गिरिशेनेश इलावृत-गतेन तु ।
जीव-व्यपेक्षया चैव तथान्तर्याम्य्-अपेक्षया ।
मिश्रान्तु स्तुतयो ज्ञेया विष्णोर् अन्यत्र केवलम् ॥ इति च ॥१७॥

**श्रीधरः : **सर्वेषां गुणानां सङ्ख्यानं प्रकाशो यस्मात् । स्वयं त्व् अव्यक्तायाप्रमेयाय ॥१७॥

**क्रम-सन्दर्भः : **स्त्री-भावोऽयं दास्य-भक्त्योपास्त इत्य् आह—श्री-भगवान् उवाचेति । सङ्कर्षणस्यैव प्रथम-पुरुषत्वात् । तद्-रूपेणैव स्तौति । ॐ नम इति ॥१७॥

**विश्वनाथः : **सर्वेषां गुणानां सङ्ख्यानं प्रकाशो यस्मात् तस्मै । स्वयं त्व् अव्यक्ताय अप्रमेयाय ॥१७॥

—ओ)०(ओ—

॥ ५.१७.१८ ॥

भजे भजन्यारण-पाद-पङ्कजं

भगस्य कृत्स्नस्य परं परायणम् ।

भक्तेष्व् अलं भावित-भूत-भावनं

भवापहं त्वा भव-भावम् ईश्वरम् ॥

**श्रीधरः : **हे भजन्य भजनीय, त्वा त्वां परमेश्वरं भजे इत्य् अन्वयः । अरणं शरणं पाद-पङ्कजं यस्य । कृत्स्नस्य भगस्यैश्वर्यादि-षाड्-गुण्यस्य परम् अयनम् आश्रयम् । भक्तेष्व् अलम् अत्य्-अर्थं भावितं प्रकटितं भूत-भावनं स्वरूपं येन । भवापहं संसार-हरम् । भक्तेष्व् इत्य् अनुषङ्गः । भवं भावयतीति तथा तम् । अर्थाद् अभक्तेष्व् इति द्रष्टव्यम् ॥१८॥

**क्रम-सन्दर्भः : **भक्तेषु निमित्तेषु अलम् अत्यर्थम् । भावितं कृतं भूतानां भावनं जननं पालनं वा येन तम् ॥१८॥

**विश्वनाथः : **नितरां आ सम्यग् एव अरणं शरणं पाद-पङ्कजं । यस्य तं भजे भजे इति हर्षाद् द्वित्वम् । भगस्य षड्-ऐश्वर्यस्य । भक्तेषु अलं अलङ्कारवद् वर्तमानम् । भावितः सृष्टः ध्यानं कारितो वा भूत-भावनो ब्रह्मा येन तम् । त्वा त्वां भवस्य मल्-लक्षण-दासस्य भावः प्रेमा यत्र तम् ॥१८॥

—ओ)०(ओ—

॥ ५.१७.१९ ॥

न यस्य माया-गुण-चित्त-वृत्तिभिर्

निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते ॥

ईशे यथा नो ञ्जित-मन्यु-रंहसां

कस् तं न मन्येत जिगीषुर् आत्मनः ॥

**श्रीधरः : **ईश्वरत्वम् उपपादयंस् तामसत्वेन प्रसक्तम् अनादरं वारयति—न यस्येति । यस्य निरीक्षमाणस्यापि दृष्टिर् माया-गुणैर् विषयैश् चित्त-वृत्तिभिः करणैश् चाण्व् अपीषद् अपि नाज्यते न लिप्यते । किम्-अर्थं निरीक्षमाणस्य ? ईशे ईशनाय नियमनाय । ईशनम् ईट् । सम्पदादित्वाद् भावे क्विप् । अत्र वैधर्म्ये दृष्टान्तः । यथा अजित-क्रोध-वेगानां नोऽस्माकं दृष्टिर् अज्यते न तथेति । अत आत्मन इन्द्रियाणि जिगीषुर् जेतुम् इच्छुर् मुमुक्षुस् तं को न मन्येत नाद्रियेत ? ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अचिन्त्यम् ऐश्वर्यं विवृणोति—न यस्येति । निरीक्ष्यमाणस्यापि यस्या दृष्टिर् माया-गुण-वृत्तिभिर् माया-गुण-रूपाभिर् इन्द्रिय-वृत्तिभिर् विषयैर् न अज्यते न लिप्यते । किम्-अर्थम्? निरीक्ष्यमाणस्य ईशे ऐश्वर्याय ईशनम् ईट् सम्पद्-आदित्वात् भावे क्विप्, तस्मै । वैधर्म्ये दृष्टान्तः—यथा अजित-क्रोध-वेगानां नोऽस्माकं दृष्टिर् अज्यते, न तथेति । आत्मनो जिगीषुर् अन्तः-करणानि वशीकर्तुम् इच्छुः कस् तं न मन्येत नाद्रियेत ? ॥१९॥

—ओ)०(ओ—

॥ ५.१७.२० ॥

असद्-दृशो यः प्रतिभाति मायया

क्षीबेव मध्व्-आसव-ताम्र-लोचनः ।

न नाग-वध्वोऽर्हण ईशिरे ह्रिया

यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः ॥

**श्रीधरः : **ननु सुरामद्याभ्यां मत् तस्य कुतो दृष्टिर् नाज्यते ? तत्राह—असती दृष्टिर् यस्य तस्य स्व-मायया क्षीबा मत्त इव यो भयङ्करः प्रतिभाति । मध्व्-आसवाभ्यां ताम्र-लोचन इव च । नाग-वधू-विमोहनेन तथा प्रतिभानं युक्तम् इत्य् आह—नेति । पादार्चने यस्य पादयोः स्पर्शनेन धर्षितं मोहितम् इन्द्रियं मनो यासां ताः ह्रिया लज्जया भूजाद्य्-अर्हणे न ईशिरे न शेकुः । कस् तं न मन्येतेति पूर्वेणैवान्वयः ॥२०॥

**क्रम-सन्दर्भः : **तत्र पाताल-स्थ-सङ्कर्षणे सन्दिह्य सिद्धान्तयति—असद् इति । वस्तुतस् तु क्षीबत्वादिकं न सुरा-मद्याभ्याम् । नाग-पत्नीषु भयङ्करत्वेनास्फुर्तेर् ह्रेपकतया सावधणत्वेन स्फूर्तेश् च । किन्तु विलास-विशेषेणैव तासां प्रेम-मोहाद् इत्य् आह—न नाग-वध्व इति ॥२०॥

**विश्वनाथः : **ननु मदिरा-मत्तस्य कुतो दृष्टिर् नाज्यते ? तत्राह—असद्-दृशः कुबुद्धी प्रति यो मायया क्षीब् एव मत्त इव भाति । यथान्यः क्षीबो मध्व्-आसवाभ्यां ताम्र-लोचनः विवेक-हीनो भवति, तथैवेत्य् अर्थः । वस्तुतस् तु भवान् न तथा-भूतः, किन्तु नित्यानन्द-सद्-विवेक इति भावः । सौन्दर्येण नारी-गण-मोहनताम् आह—अर्हणे चरण-पूजायां न ईशिरे न शेकुः । स्पर्श-क्षुभितेन्द्रियाः ह्रियेति अस्माद्कम् अन्तः-क्षोभं सर्वज्ञत्वाद् अयं जानातीत्य् अतः सम्प्रति कथं सेवेमहीति भावः ॥२०॥

—ओ)०(ओ—

॥ ५.१७.२१ ॥

यम् आहुर् अस्य स्थिति-जन्म-संयमं

त्रिभिर् विहीनं यम् अनन्तम् ऋषयः ।

न वेद सिद्धार्थम् इव क्वचित् स्थितं

भू-मण्डलं मूर्ध-सहस्र-धामसु ॥

**श्रीधरः : **असु विश्वस्य स्थिति-जन्म-संयम-हेतुं यम् आहुः । अत एव त्रिभिः स्थित्य्-आदिभिर् विहीनम् अनन्तं च यम् आहुः । ऋषयो मन्त्राः । छन्दोनुरोछेन दीर्घ-पाठे ऋकारो देव-माता लक्ष्मीः सा च ऋषयश् चेत्य् अर्थः । अनन्तत्वं दर्शयति । मूर्ध-सहस्रम् एव धामानि स्थानानि तेषु क्वचिद् एकदेश-स्थितं भू-मण्डलं यो न वेद । सिद्धार्थं सर्षपम् इव तस्मै नम इति चतुर्थेनान्वयः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जगत्-कारणत्वम् आह—यम् इति । स्थित्य्-आदि-हेतुम् अथ च त्रिभिर् गुणैर् हीनम् अत एव तत्त्व-ज्ञानाद् अनन्तं न वेदेति य इति शेषः । ऋषयः—ऋ-कारो देव-माता स्याद् इत्य् अभिधानात् देव-मातरश् च ऋषयश् च ते । सिद्धार्थं सर्षपम् इव क्वचित् कस्यचिन् मूर्ध्नि एक-देशे स्थितम् इति यद्यपि चतुस्-त्रिंशल्-लक्षण-पञ्चाशत्-कोटि-योजन-प्रमाणस्य भू-मण्डलस्य अधस्ताद् एव स्थितत्वात् तस्मात् सकाशाट् तन्-मूर्ध्न्यां तावद्-विस्ताराधिक्यं न युज्यते । तद् अपि अत्र गतैर् जनैस् तदीयाचिन्त्य-शक्त्यैव तन्-मूर्ध्न्यां प्रमाणापरिच्छेद्यत्वं भू-मण्डलस्य च सर्षपायमाणत्वं दृश्यते, तच् च वास्तवम् एव न तु मायिकम् इत्य् एतद् अप्य् एकम् अद्भुतम् अनन्तत्वम् इति तथोक्तम् ॥२१॥

—ओ)०(ओ—

॥ ५.१७.२२-२३ ॥

यस्याद्य आसीद् गुण-विग्रहो महान्

विज्ञान-धिष्ण्यो भगवान् अजः किल ।

यत्-सम्भवोऽहं त्रि-वृता स्व-तेजसा

वैकारिकं तामसम् ऐन्द्रियं सृजे ॥

एते वयं यस्य वशे महात्मनः

स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः ।

महान् अहं वैकृत-तामसेन्द्रियाः

सृजाम सर्वे यद्-अनुग्रहाद् इदम् ॥

**श्रीधरः : **तत्र जन्म-हेतुत्वं महद्-आदि-द्वारेण प्रपञ्चयति । यस्य गुण-निमित्तो महान् नाम विग्रह आसीत् । विज्ञानं तत्त्वं धिष्ण्यम् आश्रयो यस्य सः । तस्य चित्त-रूपत्वेन सत्त्व-प्रधानत्वात् । स एव किलाधिदैवो वासुदेवाभेद-विवक्षया । भगवान् अजो ब्रह्मा यत् संभवो यस्माद् ब्रह्मणः संभूतोऽहं रुद्रः । त्रि-वृता त्रि-गुणेन स्व-तेजसा स्व-विभूति-रूपेणाहङ्कारेण वैकारिकं देवता-वर्गं तामसं भूत-वर्गम् ऐन्द्रियम् इन्द्रिय-वर्गं च सृजे सृजामि ॥२२॥

किं च एते वयं महद्-आदयः सर्वे यस्यानुग्रहाद् इदं ब्रह्माण्डं सृजामः । कथं-भूताः ? यस्य महात्मनो वशे स्थिताः सन्तः । यतः सूत्रेण क्रिया-शक्त्या यन्त्रिताः प्रोताः शकुन्ताः पक्षिण इव लौकिकेन सूत्रेण वयम् इत्य् उक्तं तान् एवाह । महान् अहङ्कारश् च वैकृतादयः पूर्वोक्ता वर्गाश् च ॥२३॥

**क्रम-सन्दर्भः : **महान् महत्-तत्त्वं चित्ताख्यं गुण-मयो विग्रहोऽधिष्ठानं स एव विज्ञान-धिष्ण्यः बुद्धि-रूपः स एव किल क्रमेण भेद-विवक्षया भगवान् वासुदेवः अजो ब्रह्मा च । सृजे सर्गोपयोगिताः प्राप्नोमीत्य् अर्थः । अग्निर् एवान्नं पचतीतिवन् मत्-कर्तृकम् इति भावः ॥२२-२३॥

**विश्वनाथः : **तत्र स्व-जन्म-हेतुत्वं महद्-आदि-द्वारेण प्रपञ्चयति—यस्याद्यः प्रथमो गुण-मय-विग्रहो महान् महत्-तत्त्व-नामा तेन सङ्कर्षणः स्वयं तु गुणातीत-विग्रह इत्य् आयातम् । विज्ञानं सत्त्वं धिष्ण्यम् आश्रयो यस्य स एव एवाजो ब्रह्मा यत्-सम्भवो यद् उत्प्रन्नोऽहङ्कारात्मको द्वितीयो रुद्रः त्रिवृता सत्त्वादि-वृत्ति-त्रयेण स्व-तेजसा स्व-शक्त्यैवाहं वैकारिकं देवता-वर्गं तामसं भूत-वर्गम् ऐन्द्रियम् इन्द्रिय-वर्गं च सृजामि । सर्व-नियन्तृत्वम् आह—एते इति । सूत्र-यन्त्रिताः सुत्तम्त्र-प्रोताः शकुन्ताः पक्षिणः शाकुनिकाधीना इवेत्य् अर्थः । वयम् एव के ? तान् आह—महान् इति । वैकृतादयः पूर्वोक्ता वर्गाः ॥२२-२३॥

—ओ)०(ओ—

॥ ५.१७.२४ ॥

यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं
मायां जनोऽयं गुण-सर्ग-मोहितः ।
न वेद निस्तारण-योगम् अञ्जसा
तस्मै नमस् ते विलयोदयात्मने ॥

**श्रीधरः : **स्थिति-लय-हेतुत्वं दर्शयन् प्रणमति । येन निर्मिताम् एतां मायाम् एवायं जनोऽञ्जसा वेद, न तु तन् निस्तारण-योगम् उपायं कर्हिचिद् अपि वेदेति स्थिति-हेतुत्वं दर्शतम् । कीदृशीम् ? कर्माण्य् एव पर्वाणि ग्रन्थ-यस्तानि नयति प्रापयतीति तथा ताम् । प्रलय-हेतुत्वम् आह—विलीयतेऽस्मिन्न् इति विलयः । उदेत्य् अस्माद् इत्य् उदयः । विलयश् चोदयश् चात्मा स्वरूपं यस्य, तस्मै नमः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दुर्ज्ञेयत्वं कैमुत्येनाह—येन निर्मितां प्रापितां मायाम् एवायं जनो न वेद, किम् उत त्वां कर्म-पर्वणीं कर्म-ग्रन्थि-प्रेणेत्रीं तस्या अञ्जसा शैघ्र्येण निस्तारणोपायं भक्ति-योगं च न वेद तस्या मायाया विलयो भक्तेषु उद्यस् त्व् अभक्तेषु यतः, तस्मै । आत्मने परमात्मने ॥२४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमेऽयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे भुवन-कोशे
सप्तदशोऽध्यायः ।

॥१७॥

(५.१८)