१६ भुवन-कोश-वर्णने

॥ ५.१६.१ ॥

उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते।

**श्रीधरः : **

पूर्वोक्त-द्वीप-सिन्ध्व्-आदि- मान-चिह्न-स्वरूपतः

स्पष्टं प्रवक्तुम् आरब्धा पञ्चाध्यायी ततः परम्

षोडशेऽधस् तथा चोर्ध्वं परितः सन्निवेशतः

मेतोः स्थितिर् मही-कञ्ज-कर्णिका चोपवर्ण्यते

प्रियव्रत-चरित्रोक्तौ योक्ता द्वीपादि-कल्पना

तद् विशेष-विजिज्ञासुः कथान्ते परिपृछति

उक्त इति किं पर्यन्तम् उक्तस् तद् आह । यावद् आदित्यस् तपति, यत्र चासौ शुक्ल-कृष्ण-पक्षयोर् नक्षत्र-गणैः सह चन्द्रमा वा दृश्यते तावत् ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

जम्बूद्वीपस्य वर्षाणां शैलानां मध्य-वर्तिनः ।

सुमेरोश् च प्रमाणं यत् षोडशे तन् निगद्यते ॥

प्रियव्रत-चरिते श्रुतस्य द्वीप-समुद्रादेः प्रमाणादिकं तत्-कथा-प्रकरणान्ते पृच्छति—उक्त इति । तपति प्रकाशयति तत्-पर्यन्त इत्य् अर्थः । यत्र यत्र चन्द्रमा दृश्यते तावत् पर्यन्तश् च, तत्रापि तन्-मध्य इत्य् अर्थः ॥१॥

—ओ)०(ओ—

॥ ५.१६.२ ॥

तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि।

**श्रीधरः : **यतो येभ्यः सिन्धुभ्य एतस्या भुवः । सूचितः सङ्क्षेपतो दर्शतः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यतः सिन्धुभ्यः । एतस्या भुवः सप्त-द्वीपानां ये विशेषास् तेषां विकल्पो भेदः प्रभेदः, एतत् सिन्धु-द्वीपादिकम् ॥२॥

—ओ)०(ओ—

॥ ५.१६.३ ॥

भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणेऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरोऽर्हस्य् अनुवर्णयितुम् इति।

**श्रीधरः : **जिज्ञासायाः फलम् आह—भगवत इति ॥३॥

**क्रम-सन्दर्भः : **भगवतो गुण-मयम् इत्य् आदौ । भगवत्त्वं तु गुणातीतम् इत्य् आयातम् ॥३॥

**विश्वनाथः : **जिज्ञासायाः फलम् आह—भगवत इति । अत्र मयेति कर्तृ-पदानुक्त्या तत्रत्यानां भक्ति-मिश्र-योगवतां मनो-निधिसानुरोधेनैव मयैतत् पृच्छ्यते । मम तु त्वन्-मुख-कमल-स्यन्दमान-भगवत्-कथा-रूप-मकरन्दस्य कर्णाभ्याम् पानम् एव भगवत्-प्राप्ति-साधनम् इति द्योतितम् । किं च, इह भगवतो गुण-मये स्थूल-रूप इति भेद-बोधिकया षष्ठ्या अगुणे भगवतीत्य् अभेद-बोधकेन सामानाधिकरण्येन च भगवत्त्वस्य गुणातीतत्वं बोधितम् । गुरो इति तव सर्व-मुनि-जन-गुरुत्वाद् अवश्य-वक्तव्यम् एवैतद् इति भावः ॥३॥

—ओ)०(ओ—

॥ ५.१६.४ ॥

ऋषिर् उवाच—

न वै महाराज भगवतो माया-गुण-विभूतेः काष्ठां मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः।

**श्रीधरः : **या माया-गुन-विभूतिस् तस्याः । काष्ठां अन्तम् । रूपं सन्निवेशः । लक्षणं चिह्नम् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काष्ठां अन्तम् । रूपं सन्निवेशः । लक्षणं चिह्नम् ॥४॥

—ओ)०(ओ—

॥ ५.१६.५ ॥

यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम्।

**श्रीधरः : **कुवलयं भू-मण्डलं तद् एव कमलं तस्य कोशाः सप्त-द्वीपास् तेष्व् अभ्यन्तर-कोशः प्रथमो जम्बू-द्वीपो नियुत-योजन-विशालो लक्ष-योजन-विस्तीर्णः ॥५॥

**क्रम-सन्दर्भः : **नियुत-शब्दोऽत्र दश-लक्ष-वाचकोऽपि कथञ्चिद् एक-लक्षं वक्ति, तत्-सन्निहितत्वात् ॥५॥

**विश्वनाथः : **वै निश्चये । कुवलयं भू-मण्डलं तद् एव कमलं तस्य कोशा मण्डलतया स्थिताः सप्त-द्वीपास् तेष्व् अभ्यन्तरः कोशो योऽयं दृश्यमानो जम्बूद्वीपः स नियुत-योजन-विशालः लक्ष-योजन-विस्तीर्णः ॥५॥

—ओ)०(ओ—

॥ ५.१६.६ ॥

यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति।

**श्रीधरः : **नव-योजन-सहस्रम् आयामो येषाम् । आयामोऽत्र विस्तारः । एतच् च भद्राश्व-केतुमाल-व्यतिरेकेण रष्टव्यम् । तयोश् चतुस्-त्रिंशद्-योजन-सहस्रायामत्वात् । केचित् तु नील-निषधयोः संलग्नाग्रयोः समुद्र-प्रवेशम् अङ्गीकृत्य तयोर् अपि सङ्कुचितत्वेन नव-सहस्रायामत्वं सम्पादयन्ति । सन्निवेशश् च वायुनोक्तः ।

धनुर्वत् संस्थिते ज्ञेये द्वे वर्से दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि चतुरस्रम् इलावृतम् ॥ इति ॥६॥

**क्रम-सन्दर्भः : **टीका-दर्शिता मत-भेदाः सृष्टि-भेदेन ज्ञेयाः ॥६॥

**विश्वनाथः : **नव-योजन-सहस्रम् आयामो येषाम् । आयामोऽत्र विस्तारः अष्टभिर् हिमालयादिभिः । सन्निवेशस् तु वायुनोक्तः—

धनुर्वत् संस्थिते ज्ञेये द्वे वर्से दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि चतुरस्रम् इलावृतम् ॥

इति दक्षिणोत्तरे भारतोत्तर-कुरुवर्षे चत्वारि किम्पुरुष-हरिवर्ष-रम्यक-हिरण्मयानि वर्षाणि नील-निषधयोस् तिरश्चनीभूय समुद्र-प्रविष्टयोः संलग्नत्वम् अङ्गीकृत्य भद्राश्व-केतुमालयोर् अपि धनुराकृतित्वम् । अतस् तयोर् दैर्घ्यत एव मध्ये सङ्कुचितत्वेन नव-सहस्रायामत्वं । इलावृतस्य तु मेरोः सकाशात् चतुर्दिक्षु नव-सहस्रायामत्वं सम्भवेत्, वस्तुतस् त्व् इलावृत-भद्राश्व-केतुमालानां चतुस्त्रिंश-सहस्रायामत्वं ज्ञेयम् ॥६॥

—ओ)०(ओ—

॥ ५.१६.७ ॥

एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः।

**श्रीधरः : **नाभ्यां मध्ये । द्वीपस्यायामो लक्ष-योजन-प्रमानं तावान् समुन्नाह उच्छ्रायो यस्य । मूले षोडश-योजन-सहस्रं विततः । तावता षोडश-योजन-सहस्र-मानेन । चतुरशीति-योजन-सहस्रमानेन च बहिर् दृश्यते । एवं लक्ष-योजनोन्नाहः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नाभ्यां मध्ये द्वीपस्यायामो लक्ष-योजन-प्रमानः । तावान् समुन्नाह उच्छ्रायो यस्य सः । षोडश-सहस्रं वितत इति शेषः । तावता षोडश-सहस्र-मानेन । अतश् चतुरशीति-सहस्र-योजनोच्छ्रितो भूमितो दृश्यते ॥७॥

—ओ)०(ओ—

॥ ५.१६.८ ॥

उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति।

**मध्वः : **यथा भागवते तूक्तं भौवनं कोश-लक्षणम् ।

तस्याविरोधतो योज्यम् अन्य-ग्रन्थान्तरे स्थितम् ॥
मण्डोदे पूरणं चैव व्यात्यासं क्षीर-सागरे ।
राहु-सोम-रवीणां च मण्डलोद्द्विगुणोक्तिताम् ।
विनैव सर्वम् उन्नेयं योजनाभेदतोऽत्र तु ॥ इति ब्रह्माण्डे ॥८॥

**श्रीधरः : **उत्तरोत्तरेणेलावृतम् इलावृतस्योत्तरोत्तरतः क्रमेण नीलादयस् त्रयो मर्यादा-गिरयः । प्राग्-आयताः पूर्वतो दीर्घाः । क्षारोद एवावधिर् येषाम् । द्वि-सहस्र-योजन-विस्तीर्णाः । दशांशाद् ईषद् अधिको योऽंशस् तेन दैर्ध्य एव ह्रसन्ति न तूच्चत्वे पृथुत्वे वा । यथोक्तं विष्णु-पुराणे, लक्ष-प्रमाणौ द्वौ मध्ये दश-हीनास् तथापरे [वि।पु। २.२.१२] इति । एतच् च स्थूल-दृष्ट्यैवोक्तम् । तयोर् अपि यथा-वन् मध्यमत्वाभावेन लक्ष-प्रमाणत्वाभावात् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उत्तरोत्तरेण इलावृतम् इलावृतस्योत्तरत्र उभयतः पूर्व-पश्चिम-दिशोः । पृथुर् विस्तारः एकैकस्माद् इति नीलः किञ्चिन् न्यून लक्ष-योजनो दैर्घ्येण, तस्मात् श्वेतः शृङ्गवांश् च दशांशाद् ईषद् अधिको योऽंशस् तेन ॥८॥

—ओ)०(ओ—

॥ ५.१६.९ ॥

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयोऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम्।

**श्रीधरः : **अयुत-योजन उत्सेध उच्छ्रायो येषाम् । अयं चोत्सेधो नीलादीनाम् अपि द्रष्टव्यः । नीलादि-पृथुत्वं चैषाम् अपि द्रष्टव्यम् । यथा-सङ्ख्यं मर्यादा-गिरय इति शेषः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अयुत-योजन उत्सेध उच्छ्रायो येषाम् । अयं चोत्सेधो नीलादीनाम् अपि द्रष्टव्यः । नीलादि-पृथुत्वं चैषाम् अपि द्रष्टव्यम् । यथा-सङ्ख्यं मर्यादा-गिरय इति शेषः ॥९॥

—ओ)०(ओ—

॥ ५.१६.१० ॥

तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते।

**श्रीधरः : **आ-नील-निषधायतौ उत्तरतो नील-पर्यन्तं दक्षिणतो निषध-पर्यन्तं च दीर्घौ । पप्रथतुर् विस्तीर्णौ भवतः । ताव् एव केतुमाल-भद्राश्वयोर् वर्षयोः सीमानं कुर्वाते ।

नन्व् एवं सति पूर्वापर-रेखायाम् इलावृत-वेष्टितो मेरुर् मध्ये, ततः पूर्वापरतो गिरि-द्वयं वर्ष-द्वयं च नातः किञ्चिद् अस्ति । दक्षिणोत्तर-रेखायां तु तथैवेलावृत-वेष्टितो मध्ये मेरुः, उभयतस् त्रीणि त्रीणि वर्षाणि गिरयश् च षट् । तत् कथं सर्वतो लक्ष-प्रमाणत्वं जम्बू-द्वीपस्य ? उच्यते—मेरोः षोडश सहस्राणि ।

सर्वतः स्थितत्वाद् इलावृतस्याष्टादश । अन्येषां षण्णां चतुष्-पञ्चाशत् । गिरीणां षण्णां द्वादशेत्य् एवम् दक्षिणोत्तर-रेखायां तावल् लक्षम् । पूर्वापर-रेखायाम् अपि स-मेरोर् इलावृतस्य चतुस्-त्रिंशत् । गिर्योश् चत्वारि । शेषाणि द्वि-षष्टि-सहस्राणि पूर्वापर-वर्षयोर् आ-समुद्रं दैर्घ्ये द्रष्टव्यान्यतो न विरोधः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अपरेण पश्चिमस्यां दिशि पूर्वेण पूर्वस्यां दिशि आनील-निषधायतौ उत्तरतो नील-पर्यन्तं दक्षिणतो निषध-पर्यन्तं दीर्घौ । चतुस्त्रिंशत् सहस्रायामाव् इत्य् अर्थः । एवं च दक्षिणोत्तर-रेखायां भारत-किम्पुरुष-हरिवर्षाणां त्रयाणां सप्तविंशतिः सहस्राणि हिमालय-हेमकूट-निषधानां षट् सहस्राणि सुमेरोर् इलावृतस्य च चतुस्त्रिंशत् रम्यक-हिरण्मय-कुरूणां सप्तविंशतिः नील-श्वेत-शृङ्गवतां गिरीणां षड् इत्य् एवं लक्ष-योजन-प्रमाणः । पूर्व-पश्चिम-रेखायां भद्राश्वस्य एकत्रिंशत् सुमेरोर् इलावृतस्य इलावृतस्य चतुस्त्रिंशत् केतुमालस्यैकत्रिंशत् गन्धमादन-माल्यवतोश् चत्वारीत्य् एवं लक्ष-योजन-प्रमाणो जम्बूद्वीपोऽवगमितः ॥१०॥

—ओ)०(ओ—

॥ ५.१६.११ ॥

मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपकॢप्ताः।

**श्रीधरः : **अयुत-योजन-प्रमाणौ विस्तारोन्नाहौ येषाम् । विस्तीर्ण-मूर्ध्नो मेरोर् अवष्टम्भत्वात् पूर्व-पश्चिमौ गिरी दक्षिणोत्तर-विस्तारौ, दक्षीणोत्तरौ च पूर्वापर-विस्तारौ द्रष्टव्यौ । सर्वतो दश-योजन-सहस्र-विस्ताराङ्गीकारे त्व् इलावृत-लोपात् पूर्वेणेलावृतम् उपप्लावयतीत्य्-आदि-विरोधः स्यात् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अयुत-योजन-प्रमाणौ विस्तारोन्नाहौ येषाम् ते । विस्तीर्ण-मूर्ध्नो मेरोर् अवष्टम्भत्वात् पूर्व-पश्चिमौ गिरी दक्षिणोत्तर-विस्तारौ, दक्षीणोत्तरौ च पूर्वापर-विस्तारौ ज्ञेयौ । विस्तारोऽत्र दैर्घ्यं सर्वतो दश-योजन-सहस्राङ्गीकारे त्व् इलावृत-लोपात् पूर्वेणेलावृतम् उपप्लावयतीत्य्-आदि-विरोधः स्यात् । चतुर्दिशं चतस्रोदिशोऽभिव्याप्य चतुर्दिक्ष्व् इत्य् अर्थः ॥११॥

—ओ)०(ओ—

॥ ५.१६.१२ ॥

चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः।

**श्रीधरः, विश्वनाथः : **अधि सहस्रम् एकादश-शतानि उन्नाहो येषाम् । तावत्-प्रमाणा विटप-विततिर् येषाम्, शत-योजनं परिणाहो विस्तारो येषाम् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.१३ ॥

ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति

**श्रीधरः : **यद् उपस्पर्शिनो यत् सेविनः ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.१४ ॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.१५ ॥

येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति।

**श्रीधरः : **ललामो भूषणम् । सुर-ललनानां भूषण-भूताः श्रेष्ठा याः स्त्रियः, तासां यूथस्य पतयः सह सम्भूय येषु विहरन्ति ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **परिवृढाः श्रेष्ठा, ललामो भूषणम् ॥१५॥

—ओ)०(ओ—

॥ ५.१६.१६ ॥

मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति।

**श्रीधरः : **एकादश-शत-योजनम् उत्तुङ्गो यो देव-चूतस् तस्य शिरसः सकाशात् । फल-प्रमाणम् उक्तं वायु-पुराणे—

अरत्नीनां शतान्य् अष्टाव् एक-षष्ट्य्-अधिकानि च ।
फल-प्रमाणम् आख्यातम् ऋषिभिस् तत्त्व-दर्शिभिः ॥ इति ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **फलानीति फल-प्रमाणम् उक्तं वायु-पुराणे—

अरत्नीनां शतान्य् अष्टाव् एक-षष्ट्य्-अधिकानि च ।
फल-प्रमाणम् आख्यातम् ऋषिभिस् तत्त्व-दर्शिभिः ॥ इति ॥१६॥

—ओ)०(ओ—

॥ ५.१६.१७ ॥

तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति।

**श्रीधरः : **अतिमधुरश् चासौ स्वतः सुरभिश् च सुगन्धिश् च । न चान्येषां गन्धैर् अधिवासितः बहुलश् चारुणश् च रसः स एव उदम् उदकं तेन ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्वतः सुरभिश् चान्येषां गन्धैर् अधिवासितश् च ॥१७॥

—ओ)०(ओ—

॥ ५.१६.१८ ॥

यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति।

**श्रीधरः : **यद्-उपजोषणाद् यस्य रसस्य सेवनात् ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.१९ ॥

एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति।

**श्रीधरः : **अनस्थि-प्रायाणाम् अतिसूक्ष्म-बीजानाम् । यत्र निपतति ततश् चारभ्यात्मनो दक्षिणतः सर्वम् इलावृतं व्याप्य वहतीत्य् अर्थः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अनस्थि-प्रायाणाम् अतिसूक्ष्म-बीजानाम् । यत्र निपतति ततश् चारभ्यात्मनो दक्षिणतः सर्वम् इलावृतं व्याप्य वहतीत्य् अर्थः ॥१९॥

—ओ)०(ओ—

॥ ५.१६.२०-२१ ॥

**तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति; **
यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति।

**श्रीधरः : **तावत् सर्वतः रोधसोस् तटयोः ॥२०॥ आयामोऽत्र व्यामः । स च, व्यामो बाह्वोः सकरयोस् ततयोस् तिर्यग् अन्तरं इत्य् उक्त-लक्षणः । पञ्च व्यामाः परिणाहः स्थौल्यं यासाम् इत्य् अर्थः । केचित् तु पञ्च-व्याम-परिणाहा इत्य् एव पठन्ति ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तावत्-पर्यन्तम् एव उभयोर् एव रोधसोस् तटयोर् अनुविध्यमाना युज्यमानाः या मृत्तिकास् ताः सुवर्णं भवति । आयामोऽत्र व्यामः । स च व्यामो बाह्वोः सकरयोस् ततयोस् तिर्यग् अन्तरम् इत्य् उक्त-लक्षणः । पञ्चभिर् व्यामैः परिमितः परिणाहः स्थौल्यं यासां ताः । केचित् तु पञ्च-व्याम-परिणाहा इति पठन्ति । अनुमोदयन्ति तत्र लोक-प्रशंसाभिर् आत्मानं हर्ष्ययन्ति ॥२०॥

—ओ)०(ओ—

॥ ५.१६.२२ ॥

यस् तु महा-कदम्बः सुपार्श्व-निरूढो यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चा-याम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्योऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२३ ॥

या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२४ ॥

एवं कुमुद-निरूढो यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति।

**श्रीधरः : **नीचीना अधो-मुखाः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **शतवल्शो शत-स्कन्धः, नीचीना अधो-मुखाः ॥२४॥

—ओ)०(ओ—

॥ ५.१६.२५ ॥

यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२६ ॥

कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपकॢप्ताः।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२७ ॥

जठर-देवकूटौ मेरुं पूर्वेणाष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः; एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतोऽग्निर् इव परितश् चकास्ति काञ्चन-गिरिः।

**श्रीधरः : **चतुर्-दिक्षु मेरु-मूलाद् योजन-सहस्रं त्यक्त्वाऽग्नेः परितः परिधय इव जठर-देव-कूटादयस् तिष्ठन्ति । अतोऽष्टादश-योजन-सहस्रं प्रमाणम् अत्रोक्तम्—

वैष्णवादि-पुराणेषु परिमाणादि यत् पुनः ।
अन्यथा वर्णितं तत् तु कल्प-भेदाद्य्-अपेक्षया ॥

द्वि-सहस्रं पृथू च तुङ्गौ च ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२८ ॥

मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपकॢप्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ५.१६.२९ ॥

ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरोऽष्टाव् उपकॢप्ताः ॥

**श्रीधरः, विश्वनाथः : **यथा-दिशं प्राच्यादि-दिक्षु । यथा-रूपम् इन्द्रादि-वर्णानतिक्रमेण । तुरीय-मानेन सार्ध-द्वि-सहस्र-प्रमाणेन । नामानि पुराणान्तराज् ज्ञातव्यानि, यथोक्तम्—

मेरौ नव-पुराणि स्युर् मनोवत्य् अमरावती ।
तेजोवती संयमनी तथा कृष्णाङ्गना सरा ॥
श्रद्धावती गन्धवती तथा चान्या महोदया ।
यशोवती च ब्रह्मेन्द्र-वह्न्य्-आदीनां यथा-क्रमम् ॥ इति ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे षोडशोऽध्याअः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
भुवन-कोश-वर्णने
षोडशोऽध्यायः ।

॥ ५.१६ ॥

(५.१७)