॥ ५.१५.१ ॥
श्री-शुक उवाच—
भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति।
**श्रीधरः : **
एवम् अष्टभिर् अध्यायैर् भरतस्योक्तम् ईहितम् ।
ततः पञ्चदशे तस्य कीर्त्यन्ते वंश-जा नृपाः ॥
ऋषभ-पदवीं जीवन्-मुक्त-मार्गम् अनुवर्तमानं यं दृष्ट्वेति शेषः । यद् वा, यं सुमतिम् अवेद-समाम्नातां देवतां कल्पयिष्यन्ति । बुद्धोऽयं साक्षाद् अवतीर्ण इति मंस्यन्त इत्य् अर्थः ॥१॥
**क्रम-सन्दर्भः : **कल्पयिष्यन्ति । अत्रामर्ष एव लृट् न भविष्यति । तस्य कलेर् भूतत्वात् । तथा च सूत्रं—अनवकॢप्त्य्-अमर्षयोर् अकिंवृत्तेऽपि [पा। ३.३.१४५] इति ।
**विश्वनाथः : **
अथ पञ्चदशे राज्ञो गयस्य महिमोच्यते ।
यः प्रियव्रत-वंश्यानां अन्त्योऽस्य विरजस्य च ॥
कलौ तस्य चरितं श्रुत्वा तादृशाचारवन्तोऽस्माकं सुमतिर् एव देवता, यथा बुद्ध इति बौद्ध-सम्प्रदायाद् विच्छिद्य कल्पयिष्यन्ति ॥१॥
—ओ)०(ओ—
॥ ५.१५.२ ॥
तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रोऽभवत्।
न केनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१५.३ ॥
अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः।
**श्रीधरः : **तत् तनयो देवताजितः पुत्रः ॥३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१५.४ ॥
य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार।
**श्रीधरः : **आत्म-विद्यां बहुभ्य आख्याय व्याख्यानेनैव स्वयं संशुद्धोऽनुसस्मार अपरोक्षतयानुभूतवान् ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनुसस्मार अनुबभूव प्राप वा ॥४॥
—ओ)०(ओ—
॥ ५.१५.५ ॥
प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम्।
**श्रीधरः : **प्रतिहर्ता प्रस्तोता उद्गातेति त्रयो यज्ञ-निपुणाः सूनव आसन् । अजनिषातां जातौ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रतिहर्ता प्रस्तोता उद्गातेति त्रयो यज्ञ-निपुणाः सूनव आसन् ॥५॥
—ओ)०(ओ—
॥ ५.१५.६ ॥
भूम्न ऋषि-कुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः।
**श्रीधरः : **हृदय-जः पुत्रः । जगतो रिरक्षिषया रक्षितुम् इच्छया गृहीतं सत्त्वं येन तस्य विष्णोः कलांशः सन् ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हृदय-जः पुत्रः । कला अंशांशः ॥६॥
—ओ)०(ओ—
॥ ५.१५.७ ॥
स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभावितातिशुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवोऽपि निरभिमान एवावनिम् अजूगुपत्।
**मध्वः : **प्रियव्रतो गयश् चैव कर्म-देव समो गुणैः इति षाड्गुण्ये ॥७॥
**श्रीधरः : **महा-पुरुषत्वम् एवाह—स वै इति । धर्मस् तस्य द्वि-विधः, अभिषक्तित्वात् प्रजा-पालनादिर् एकः, गृहस्थत्वाद् इज्यादिश् चापरः । द्वि-विधोऽपि भगवति सर्वात्मनार्पितः सन् परमार्थ-लक्षणस् तेन परिभाविता संस्कृताऽति-शुद्धा मतिर् यस्य । अत एवोपरतम् अनात्म्य-देहाद्य् अहं भावो यस्मिंस् तस्मिन्न् आत्मनि चित्ते स्वयम् एवोपलभ्यमाने ब्रह्मण्य् आत्मानुभवो यस्य तादृशोऽपि निरभिमान एवावनिम् अजूगुपत् पालयाम् आस ॥७॥
**क्रम-सन्दर्भः : **स वै इति । उपलभ्यमाने ब्रह्मण्य् आत्मानुभवोऽप्य् अजूगुपद् इत्य् अन्वयः । तथापि गोपने हेतुः निरभिमान एव सन्न् इति ॥७॥
**विश्वनाथः : **पालनं विपक्ष-विमर्दनादिना पोषणं वृत्ति-दानादिना अर्पितः सन् परमार्थ-लक्षणो भवति यः स्व-धर्मस् तेन परि सर्वतो-भावेन भाविता भाव-युक्ती-कृता विशुद्धा मतिर् यस्य सः । उपरतम् अनात्म्यं देहाद्य्-अहं-भावो यस्य सः ॥७॥
—ओ)०(ओ—
॥ ५.१५.८ ॥
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१५.९ ॥
गयं नृपः कः प्रतियाति कर्मभिर्
यज्वाभिमानी बहुविद् धर्म-गोप्ता ।
समागत-श्रीः सदसस्-पतिः सतां
सत्-सेवकोऽन्यो भगवत्-कलाम् ऋते ॥
**श्रीधरः : **कर्मभिर् गयं कः प्रतियात्य् अनुकरोति न कोऽपि । अत्र हेतुः—यज्वादि-रूपो भगवत्-कलां गयम् ऋतेऽन्यः क इत्य् अनुषङ्गः । अभिमानी सर्वतो मानास्पदं मनस्वीति वा । समागता संप्राप्ता श्रीर् येन यम् इति वा । सतां सदसः सभायाः पतिः सतां सदसः सभायाः पतिः सतां सेवकः । यद् वा, यज्वादि-रूपोऽपि भगवत्-कलामृते गयं कोऽन्यः प्रतियातीत्य् अन्वयः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रतियाति अनुकरोति । अभिमानी सर्वतो मानास्पदं मनस्वीति वा । सतां यत् सदस् तस्य पतिः भगवद्-अंशं विना कोऽन्यः यज्वादि-रूपोऽपि गयं प्रतियातीत्य् अन्वयः ॥९॥
—ओ)०(ओ—
॥ ५.१५.१० ॥
यम् अभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्ष-कन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुण-वत्स-स्नुतोधाः ॥
**श्रीधरः : **सतीः सत्यः । सत्या आशिषो यासां ताः । दक्ष-कन्याः श्रद्धा-मैत्री-दयेत्य्-आद्याः । निराशिषोऽपि यस्य प्रजानाम् आशिषः कामान् धरा दुदुहे । तस्य गुणा एव वत्सस् तेन स्नुत-मूधो यस्याः पृथिव्याः । यच् छब्दानां तम् गयं कः प्रतियातीति संबन्धः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सतीः सत्यः । दक्ष-कन्याः श्रद्धा-मैत्री-दयेत्य्-आद्याः सत्याशिषो श्रद्धा-मैत्री-दयाद्यास् ते सन्त्व् इति सत्या आशिषो यासां ताः । निराशिषो निष्कामस्यापि यस्य प्रजानाम् आशिषो धरा दुदुहे । गुणा एव वत्सस् तेन स्नुत-मूधो यस्याः सा ॥१०॥
—ओ)०(ओ—
॥ ५.१५.११ ॥
छन्दांस्य् अकामस्य च यस्य कामान्
दुदूहुर् आजह्रुर् अथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठम् अंशं परेत्य ॥
**श्रीधरः : **छन्दांसि वेदास् तद् विहित-कर्माणि च । दुदूहुर् दुदुहुः । युधि प्रत्यञ्चिता बाणैः प्रतिपूजिता नृपा यस्य बलिम् आजह्रुर् अर्पयाम् आसुः । धर्मेण पालनेन दक्षिणादिभिश् च यदा प्रत्यञ्चिता विप्रास् तदा परेत्य लोकान्तरे आशिषां धर्म-फलानाम् षष्ठम् अंशम् आजह्रुः । पुण्य-षड्-भागम् आदत्ते न्यायेन परिपालयन् इति स्मृतेः ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **युधि प्रत्यञ्चिता बाणैः प्रतिपूजिता नृपा बलिम् आजह्रुः । धर्मेण दक्षिणादिभिः प्रत्यञ्चिता विप्रा यद् यस्मै परेत्य लोकान्तरे आशिषां स्व-चरित-धर्म-फलानाम् षष्ठम् अंशम् आजह्रुः । पुण्यं षड् भागम् आदत्ते न्यायेन परिपालयन् इति स्मृतेः ॥११॥
—ओ)०(ओ—
॥ ५.१५.१२ ॥
यस्याध्वरे भगवान् अध्वरात्मा
मघोनि माद्यत्य् उरु-सोम-पीथे ।
श्रद्धा-विशुद्धाचल-भक्ति-योग-
समर्पितेज्या-फलम् आजहार ॥
**श्रीधरः : **उरु-सोम-पीथे बहु-सोम-पानेऽध्वरे मघोनि इन्द्रे माद्यति मदं प्राप्नुवति सति, श्रद्धया विशुद्धो योऽचलो भक्ति-योगः, तेन समर्पितम् इज्या-फलम् आजहार । अर्हणम् इव प्रत्यक्षतः स्वी-कृतवान् इत्य् अर्थः ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उरु-सोम-पीथे बहु-सोम-पानेऽध्वरे मघोनि इन्द्रे माद्यति सति आजहार अर्हणम् इव प्रत्यक्षतः स्वीचकार ॥१२॥
—ओ)०(ओ—
॥ ५.१५.१३ ॥
यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्-
मनुष्य-वीरुत्-तृणम् आ विरिञ्चात् ।
प्रीयेत सद्यः स ह विश्व-जीवः
प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥
श्रीधरः : यस्य भगवतः प्रीणनात् । देवादीनां द्वन्द्वैक्यम् । तत् सद्यः प्रीयेत प्रीतिं गच्छेत् । स विश्व-जीवः सर्वान्तर्यामी स्वयं प्रीत-रूप एव बर्हिषि यज्ञे गयस्य । ह स्फुटं । प्रीतिम् अगात् तृप्तोऽस्मीति प्रत्यक्षं प्रीतिम् आविष्कृतवान् इत्य् अर्थः ॥१३॥
क्रम-सन्दर्भः : विश्व-जीवः सर्व-जीवन-हेतुः । स्वयं प्रीतः सुख-रूपोऽपि ॥१३॥।
विश्वनाथः : यस्य भगवतः प्रीणनात् देवादिकं प्रीयेत । [सह-विश्व-जीवः इति पाठे] स विश्व-जीवैः सहित एव **स्वयं प्रीति-**रूपः सन् तृप्तोऽस्मीति प्रीतिम् आविश्चकार ॥१३॥
—ओ)०(ओ—
॥ ५.१५.१४ ॥
गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां सम्राड् अजनिष्ट; तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम्।
**श्रीधरः : **सुमनसि स्त्रियाम् ॥१४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१५.१५ ॥
तत्रायं श्लोकः—
प्रैयव्रतं वंशम् इमं विरजश् चरमोद्भवः ।
अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा ॥
**श्रीधरः : **कीर्त्या अतिशयेनालम् अकरोद् भूषितवान् ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमेऽयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
प्रियव्रत-वंशानुकीर्तनं नाम
पञ्चदशोऽध्यायः ।
॥ ५.१५ ॥
(५.१६)