॥ ५.१४.१ ॥
स होवाच—
स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमेऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोकोऽयं यथा वणिक्-सार्थोऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे।
**श्रीधरः : **
चतुर्दशे भवारण्य- रूप-कव्याकृतिः कृता ।
प्रस्तुते तस्य गो-मायु- मशकाद्य्-अर्थ-कल्पनम् ॥
यः परीक्षिता पृष्टः स श्री-शुक उवाच हेति सूतोक्तिः । दुरत्ययेऽध्वन्य् अजया निवेशित इति यद् उक्तं तद् एव निवेशन-प्रकार-कथनेन प्रपञ्चयति । य एष प्रसिद्धो जीव-लोकोऽयं विष्णोर् माययाऽसुगमेऽध्वन्य् आपतितो भवाटवीं गतः सन् हरि-रूपस्य गुरोश् चरणारविन्दे ये मधुकराः सेवकास् तेषाम् अनुपदवीं तैर् अनुष्ठितं भक्ति-मार्गमद्यापि नावरुन्धे न संप्राप्नोतीत्य् अन्वयः । मायायाः स्व-कार्य-द्वारेण संसार-मार्गे पात-हेतुत्वम् आह । देहात्म-मानिनां सत्त्वादि-गुण-विशेषैर् विकल्पितानि विभक्तानि यानि कुशलाकुशल-विमिश्र-कर्माणि तैर् विनिर्मिताभिर् विविध-देहावलिभिर् वियोग-संयोगादिर् योऽनदिः संसारस् तद् अनुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् संसार-रूपे दुर्ग-मार्ग-वदसुगमेऽध्वन्य् आपतितो यथा वणिजां सार्थः समूहोऽर्थार्जन-परः । स्व-देह-निष्पादितानां कर्मणां फल-द्वारेणानुभवो यस्य । विफलाश् च बहु-प्रतियोगा बहु-विघ्नाश् च ईहाश् चेष्टा यस्य सः, तस्यां संसाराटव्यां ये तापास् तेषाम् उपशमनीं नाशनीम् । यस्याम् इत्य्-आदि व्याचष्टे । यस्यां भवाटव्याम् ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
दस्यु-क्रोष्टृ-प्रभृतिभिर् उक्तैः सह चतुर्दशे ।
इहेन्द्रिय-कुटुम्बाद्यास् तद्-दार्ष्टान्ता निरूपिताः ॥
स श्री-शुको ह स्पष्टम् उवाच—स एष प्रसिद्धो जीव-लोकः संसाराटव्यां गतः सन्न् अद्यापि हरि-रूपस्य गुरोश् चरणारविन्दे ये मधुकरा गुरु-भजनासक्ता इत्य् अर्थः । तेषां अनुकूलां पदवीं नावरुन्धे न प्राप्नोतीत्य् अन्वयः । तेन श्री-गुरु-चरणाश्रयं विना संसाराटव्यां भ्रमत्य् एवेति भावः ।
कीदृशः ? देहात्म-मानिनां अध्वन्य् आपतितः दुर्गाध्ववत् प्रसिद्ध-दुर्ग-मार्गे इव सत्त्वादि-गुण-विशेषैर् विकल्पितानि विभक्तानि यानि कुशलाकुशल-विमिश्र-कर्माणि, तैर् विनिर्मिताभिर् विविध-देहावलिभिर् वियोग-संयोग-तद्-उत्थ-सुख-दुःख-रूपस्यानादेः संसारस्य योऽनुभवस् तस्य ।
ननु जीव-संसारस्य माया-कृतत्वान् माया-देवीम् एव जीवः प्रपद्यतां, सैव प्रसन्ना तं बन्धान् मोचयिष्यति, किं हरि-गुरु-चरण-प्रपत्त्या ? तत्राह—विष्णोर् वश-वर्तिन्या माययेति । संसार-मोचने न तस्याः स्वातन्त्र्यम् इति भावः । यद् उक्तं—
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४] इति गीतायां ।
अत्र श्लोके एव-कृतेण समुच्चय-पक्षोऽपि निरस्तीकृतः । विफलाश् च बहु-विप्रतियोगा बहु-विघ्नाश् च ईहा चेष्टा यस्य सः ॥१॥
—ओ)०(ओ—
॥ ५.१४.२ ॥
यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते; तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो योऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति; तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति।
**श्रीधरः : **दस्यु-तुल्यं तेषां कर्म दर्शयति—तद् यथेति । धर्मौपयिकं धर्म-कारणम् । तम् एव स्वाभिप्रेतं धर्मम् आह—साक्षाद् इति । तं तु सांपराये पर-लोकार्थम् उदाहरन्ति । तद् धर्म्यं धर्मार्हं धनम् । दर्शनाद्याः पञ्च ज्ञानेन्द्रियाणां वृत्तयः; सङ्कल्प-व्यवसायावन्तः करणस्य, एतैर् गृहे यो ग्राम्य उपभोगस् तेन कुनाथस्य कु-बुद्धेर् अजितात्मनो विलुम्पन्ति यथा चोराः कुपालकस्यानवहितात्मनः सार्थस्य धनं हरन्ति तद्वत् ॥२॥
**क्रम-सन्दर्भः : **तद् यथेति तद्-दस्युत्वं गद्य-त्रयेण दर्श्यत इत्य् अर्थः । बहु-कृच्छ्राधिगतं यत् किञ्चित् पुरुष-धनं वर्तते, तत्-साक्षाद्-धर्मौपायिकं भवति । कोऽसौ धर्मः ? तत्राह—साक्षात् परम् एवेति ॥२॥
**विश्वनाथः : **यस्यां इमे इति व्याचष्टे—यस्यां ऊहेति । यथा पुरुषस्य बहु-कृच्छ्राधिगतं धर्मोपयोगि धनं दस्यवो विलुम्पन्ति तत् तथा इन्द्रिय-नामानः षड् एते कर्मणा स्व-स्व-व्यापारेण दर्शनादिना अजितात्मनो जनस्य धनं विलुम्पन्तीत्य् अन्वयः। तत्-पदस्य वैयर्थ्याभावाय व्यवहितान्वयः सोढव्यः । धनम् एव किम् इत्य् अपेक्षायां आह—साक्षाद् इति । साम्पराये पर-लोकार्थं तद्-धर्म्यं भगवत्-सेवार्हम् इत्य् अर्थः । सङ्कल्पो मनसः, समवसायो व्यवसायः, स च बुद्धेर् व्यापारः । यथा कुनाथस्य कुनायकस्य अर्जितात्मनः अवशीकृतात्मीय-लोकस्य वणिक्-सार्थस्य चौरा हरन्ति तथा ॥२॥
—ओ)०(ओ—
॥ ५.१४.३ ॥
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतोऽपि हरन्ति।
**श्रीधरः : **गोमायवो यत्रेत्य् एतद् व्याचष्टे । अथ चेत्य् अर्थान्तरोपन्यासे । कर्मणा ते तु वृकाः सृगालाश् च । कदर्यस्य अतिलुब्धस्य ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **गोमायवो यत्रेत्य् एतद् व्याचष्टे—अथ चेति । अपहरतश् चेत्य् अर्थः । संरक्ष्यमाणा अन्न-वस्त्रादिभिस् त्वया वयम् अवश्य-पाल्या एव भवामेति न्याय-मिषेण अपहरन्तीत्य् अस्य कर्म-पदं पूर्वोक्तं स्वार्थैकम् अन्न-गुड-घृतादि-सम्पुटं ज्ञेयम् । अत्र दस्यूनां गोमायूनां च च दुर्वारत्वस्याधिक्य-न्यूनत्वाभ्याम् भेदो ज्ञेयः ॥३॥
—ओ)०(ओ—
॥ ५.१४.४ ॥
यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः।
**श्रीधरः : **प्रभूतवीरुत् तृण-गुल्म-गह्वरम् इत्य् एतद् व्याचष्टे—यथा हीति । न दग्धानि बीजानि यस्मिन् । यद् यस्माद् योऽयम् आवसथ आश्रम एष कामानां करण्डः । यथा कर्पूर-भाजने कर्पूर-क्षयेऽपि परिमलो न क्षीयते एवम् अत्र वासनानाम् अक्षीणत्वान् न कर्माण्य् उत्सीदन्तीत्य् अर्थः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रभूत-वीरुत् तृण-गुल्म-गह्वर इत्य् एतद् व्याचष्टे—यथा हीति । एष आवसथ आश्रमो यद् यस्माद् कामानां करण्ड इति । यथा हिङ्गु-क्षयेऽपि गन्धो न क्षीयते एवम् अत्र वासनानां अक्षीणत्वान् न कर्माण्य् उत्सीदन्तीत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ ५.१४.५ ॥
तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानोऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति।
**श्रीधरः : **दंश-मशक-तुल्यैर् अपसदैर् नीचैः शलभादिभिश् चोपरुध्यमानः पीड्यमानो बहिः-प्राणो वित्तं यस्य तथा-विधोऽप्य् अस्मिन्न् अध्वनि परिभ्रमन्न् अध्वनि परिभ्रमन्न् अविद्यादिभिर् उपरक्तेन मनसा गन्धर्व-पुर-तुल्यम् अघटमानं नर-लोकं सत्यतया मिथ्या-दृष्टिर् अनुपश्यति ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कठोर-दंशैर् इत्य् एतद् व्याचष्टे—अत्रेति । अपसदैर् नीचैर् उपरुध्यमानः पीड्यमानो बहिः-प्राणो वित्तं यस्य सः । क्वचिच् च गन्धर्व-पुरं प्रपश्यतीत्य् एतद् व्याचष्टे—क्वचिद् इति । परिवर्तमानः परावृत्य परामृशन् उपरक्तं यन् मनस् तेन नोपपनोऽर्थो वित्तं यतस् तं नर-लोकं वञ्चक-नृपादिकं पश्यति । ततश् च तद्-उपासनया वाञ्छित-वित्तादिकं उपपन्नम् इति गन्धर्व-नगरं इव तम् अनुपश्यति ॥५॥
—ओ)०(ओ—
॥ ५.१४.६ ॥
तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः।
**श्रीधरः : **प्रपश्यतीति प्र-शब्द-सूचितम् अर्थान्तरं दर्शयति । तत्र च गन्धर्व-पुरे क्वचिद् आतपोदकं मृग-तृष्णा-जलं तत् तुल्यान् विषयान् उपधावतीति ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिच् च गन्धर्व-पुरं प्रपश्यतीत्य् एतद् उपलक्षितम् अर्थान्तरं दर्शयति । आतपोदकं मृग-तृष्णा तत्-तुल्यान् विषयान् उपधावति ॥६॥
—ओ)०(ओ—
॥ ५.१४.७ ॥
क्वचिच् चाशेष-दोष-निषदनं1** पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम्।**
**श्रीधरः : **क्वचित् क्वचिच् चाशुरयोल्मुक-ग्रहम् इत्य् एतद् व्याचष्टे । क्वचिच् चाशेषाणां दोषाणां निषदनं स्थानं पुरीष-विशेषम् अग्नेर् विष्ठा तस्य पुरीषस्येव लोहितो वर्णो यस्य रजो-गुणस्य तेन निर्मिता तद् विषया मतिर् यस्य स सुवर्णम् उपादातुम् इच्छति । अग्नि-कामेन कातरः पर-वश उल्मुक-सदृशं पिशाचम् इव । शीतातुरो ह्य् अरण्येऽग्नि-वज् जाज्वल्यमानं ततस् ततो धावन्तम् उल्मुक-पिशाचम् अग्नि-बुद्ध्यानुधावति, न तु तं प्राप्नोति । कथञ्चित् प्राप्तश् चेत्, तर्हि तेन भक्षितः सन् म्रियते । एवं सुवर्णम् अनुधावन् अपीत्य् अर्थः ॥७॥
**क्रम-सन्दर्भः : **पुरीष-विशेषं सुवर्णम् उपादित्सतीत्य् अनेनाग्निकाम् एति दृष्टान्तेन च सुवर्णान्तरं याथार्थ्यं दर्शयति । तच् च श्री-भगवद्-भूषणादि-मयं ज्ञेयम् । साक्षाद्-धर्मौपयिकम् इत्य्-आद्य्-उक्तत्वात् ॥७॥
**विश्वनाथः : **क्वचित् क्वचिच् चाशु-रयोल्मूक-ग्रहम् इत्य् एतद् व्याचष्टे—क्वचिच् चेति । पुरीष-विशेषम् अग्नेर् विष्ठां तस्य पूरीषस्येव लोहितो वर्णो यस्य रजो-गुणस्य तेन निर्मिता तद्-विषया मतिर् यस्य सः । सुवर्णम् इति परकीय-द्रव्य-मात्रस्योपलक्षणं आदातुम् इच्छति नरके पतितुम् इच्छति इति भावः । शीतादि-त्राणार्थं अरण्ये भ्रमन्न् अग्नि-कामेन कातरो यथा उल्मूक-तुल्यं पिशाचम् अग्नि-बुद्ध्या धावति मर्तुम् इति भावः ॥७॥
—ओ)०(ओ—
॥ ५.१४.८ ॥
अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति।
**श्रीधरः : **निवास-तोय-द्रविणेत्य् एतद् व्याचष्टे—अथेति । निवासादिष्व् अनेकेष्व् आत्मन उपजीव्येष्व् अभिनिवेशो यस्य ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **निवास-तोय-द्रविण-बुद्धिर् इत्य् एतद् व्याचष्टे—अथेति ॥८॥
—ओ)०(ओ—
॥ ५.१४.९ ॥
क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षोऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति।
**श्रीधरः : **क्वचिच् च वात्योत्थितेत्य् एतद् व्याचष्टे—क्वचिच् चेति । आरोहम् अङ्कम् । तस्मिन् काले यद् रजो रागस् तेन स्व-दृष्ट्यावरकेण रजन्यां रात्रौ भूता इव । ह्रस्व-पठे रजनि-भूतस् तमो-मय इवातीव रजसा छन्न-मतिः, अत एव रजो-व्याप्त-चक्षुर् इव दिक्षु स्थिता मर्यादातिक्रम-साक्षि-भुता देवता न जानाति ॥९॥
**क्रम-सन्दर्भः : **प्रथम-पाठे रजन्यां ये भूतास् तत्-तुल्य-क्रिया इत्य् अर्थः, इवेन समासात् ॥९॥
**विश्वनाथः : **क्वचिच् च वात्योत्थितेत्य् एतद् व्याचष्टे—वात्यया सहौपम्यम् उपमा यस्यास् तया आरोहम् अङ्कम् । तस्मिन् काले यद् रजः रजस्-तुल्यः काम-वेगस् तेन स्व-दृष्ट्याच्छदकेन स्पष्टा अपि दिग्-देवता वह्नि-सूर्याद्या रजनी-भूता अदृश्या इव रजस्वलाक्षोऽन्ध इव रजस्वल-मतिः कामान्धी-कृत-मतिः पश्यन्तीर् अपि ता न जानाति । रजनि-भूत इति पाठे तमो-मयः ॥९॥
—ओ)०(ओ—
॥ ५.१४.१० ॥
क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति।
**श्रीधरः : **अनुपादेयम् एवोपादेयतया गृह्णातीति प्रक्रम-साजात्याद् उत्तर-श्लोक-चतुर्थ-पादं प्रथमं व्याचष्टे—क्वचित् सकृद् इति । क्वचिद् आतपोदक-निभान् इत्य् अत्र मिथ्या-विषयेषु लम्पटत्वम् उक्तम् । निवास-तोय- [भा।पु। ५.१३.४] इत्य् अत्र तद्-अर्जन-प्रयास उक्तः । अत्र तु बाधितेष्व् अपि पुनः प्रवृत्तिर् उच्यत इत्य् अपौनरुक्त्यम् । स्वयम् एव सकृद् अवगतं विषयाणां वैतथ्यं विफलत्वं येन । पराभिध्यानेन देहाभिनिवेशेन विभ्रंशिता स्मृतिर् यस्य । तयैव विभ्रंशितया स्मृत्या स्मृति-भ्रंशाद् एवेत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अत्र क्वचित् क्रमेण, क्वचित् क्रमोल्लङ्घनेन, क्वचित् पौनरुक्त्येनापि व्याख्यानं नावगमनीयम् । नहि महाटव्याः सर्व एव पन्था ऋजूकर्तुं शक्य इति । अत्र स्व-प्रौढिम् अपहाय यथा-स्थितम् एव व्याख्यायते । मरीचि-तोयान्य् अभिधावति क्वचिद् इत्य् एतद् व्याचष्टे—क्वचिद् इति । सकृद् एक-वारम् अवगतं विषयाणां वैतथ्यं नैष्फल्यं येन सः । तद् अपि तान् एव विषयान् मरीचि-तोय-प्रायान् पुनः पुनर् अभिधावति पराभिध्यानेन देहाभिनिवेशेन विभ्रंशिता स्मृतिर् यस्य सः । तयैव विभ्रंशितया स्मृत्या स्मृति-भ्रंशाद् एवेत्य् अर्थः ॥१०॥
—ओ)०(ओ—
॥ ५.१४.११ ॥
क्वचिद् उलूक-झिल्ली-स्वनवद् अतिपरुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनातिव्यथित-कर्ण-मूल-हृदयः।
**श्रीधरः : **अदृश्य-झिल्ली-स्वन- [भा।पु। ५.१३.५] इत्य् एतद् व्याचष्टे—क्वचिद् उलूकेति । अतिपरुषो रभस उत्साहस् तेनाटोपः संभ्रमो यथा भवत्य् एवं रिपूणां राज-कुलस्य च निर्भर्त्सितेनाति-व्यथितं कर्ण-मूलं हृदयं च यस्य ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अदृश्य-झिल्ली-स्वन- [भा।पु। ५.१३.५] इत्य् एतद् व्याचष्टे—क्वचिद् उलूकेति । अतिपरुषो रभस उत्साहस् तेनाटोपः संभ्रमो यत्र तद् यथा स्यात् तथा निर्भर्त्सनेन ॥११॥
—ओ)०(ओ—
॥ ५.१४.१२ ॥
स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति।
**श्रीधरः : **अपुण्य-वृक्षान् [भा।पु। ५.१३.५] इत्य् एतद् व्याचष्टे—स यदेति । दुग्धम् उपभुक्तं पूर्व-सुकृतं येन । तदा कारस्करो विष-तिन्दुस् तत् प्रमुखा येऽपुण्य-द्रुमास् तथा-विधा लताश् च विषोदपानाश् च विष-कूपास् तत्-तुल्यान् दृष्टादृष्ट-प्रयोजन-शून्य-धनान् ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अपुण्य-वृक्षान् [भा।पु। ५.१३.५] इत्य् एतद् व्याचष्टे—स यदेति । दुग्धम् उपभुक्तं पूर्व-सुकृतं येन सः । कारस्करो विष-तिन्दुकः । तत्-प्रमुखा येऽपुण्य-द्रुमास् तथा-विधा लताश् च विष-कूपास् तत्-तुल्यान् दृष्टादृष्ट-प्रयोजन-शून्य-धनान् ॥१२॥
—ओ)०(ओ—
॥ ५.१४.१३ ॥
एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतोऽपि दुःखदं पाखण्डम् अभियाति।
**श्रीधरः, विश्वनाथः : **क्वचिद् वितोयाः सरित [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे । एकदा क्वचिद् असतां प्रसङ्गान् निकृता वञ्चिता मतिर् यस्य सः । निरुदक-नदी-गर्त-पाते यथा सद्यः शिरः स्फुटति, पश्चाद् अपि तद् वेदनानुवर्तते, एवम् इह परत्र च दुःखदम् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१४.१४ ॥
यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति।
**श्रीधरः : **परस्परं चालषते निरन्नः [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे—यदा त्व् इति । अन्धोऽन्नं नोपनमति नोपतिष्ठति । पितृ-पुत्राणां बर्हिः कुशस् तद्वतः । पितुः पुत्राणां वा कुशादि-तृण-मात्रम् अपि येषु पश्यति, तान् भक्षयति बाधत इत्य् अर्थः । पितृ-पुत्र-बर्हिष्ठान् इति तु पाठः सुगमः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **परस्परं चालषते निरन्नः [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे—पर-बाधया पर-पीडन-प्रदयापि जीविकया अन्धो नोपनमति नोपतिष्ठति । पितुः पुत्राणां वा कुशादि-तृण-मात्रम् अपि येषु पश्यति तान् भक्षयति राज-द्वारात् पदातिकान् आनीय पीडयति ॥१४॥
—ओ)०(ओ—
॥ ५.१४.१५ ॥
क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति।
**श्रीधरः, विश्वनाथः : **आसाद्य दावम् [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे—क्वचिद् आसाद्येति ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१४.१६ ॥
क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते।
**श्रीधरः : **क्व च, यक्षैर् हृतासुर् [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे । क्वचित् कालेन विष-मितं प्रतिकूलतां नीतं यद् राज-कुलं तद् एव रक्षस् तेनापहृताः प्रियतम-धन-रूपा असवो यस्य । विगतानि जीव-लक्षणनि हर्षादीनि यस्य । शूरैर् हृत-स्व इत्य् अप्य् अनेनैव व्याख्यातम् ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्व च, यक्षैर् हृतासुर् [भा।पु। ५.१३.६] इत्य् एतद् व्याचष्टे—क्वचित् कालेति । विगतानि जीव-लक्षणनि हर्षादीनि यस्य सः, शोक-मूर्च्छितो वा ॥१६॥
—ओ)०(ओ—
॥ ५.१४.१७ ॥
कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति।
**श्रीधरः : **क्वचिच् च गन्धर्व-पुरं प्रविष्ट [भा।पु। ५.१३.७] इत्य् एतद् व्याचष्टे । कदाचिन् मनो-रथ-प्राप्तं पित्राद्य् असद् एव सद् इति मत्वा पूर्वं गन्धर्व-पुरवद् अघटमान-दर्शनम् उक्तम्, इदानीं तन्-निमित्त-सुखासक्तिर् उच्यत इति भेदः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिच् च गन्धर्व-पुरं प्रविष्ट [भा।पु। ५.१३.७] इत्य् एतद् व्याचष्टे—कदाचिद् इति । मनो-रथ-प्राप्तं पित्रादिकम् असन् मृतम् अपि सत् पुनः पर-लोकाद् आगतम् इति मत्वा स्वप्ने इव निर्वृतिम् ॥१७॥
—ओ)०(ओ—
॥ ५.१४.१८ ॥
क्वचिद् गृहाश्रम-कर्म-चोदनातिभर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति।
**श्रीधरः : **चलन् क्वचिद् [भा।पु। ५.१३.८] इत्य् एतद् व्याचष्टे । क्वचिद् गृहाश्रमे याः कर्म-चोदनास् तासाम् अतिभरोऽतिविस्तारः स एव गिरिः, तम् आरुरुक्षंस् तद्-अन्तं गन्तुम् इच्छन् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **चलन् क्वचिद् [भा।पु। ५.१३.८] इत्य् एतद् व्याचष्टे—क्वचिद् गृहाश्रमे याः कर्म-चोदनास् ताभिः प्राप्तो योऽतिभरोऽश्वमेधादिर् विवाहादिर् वा स एव गिरिः, तम् आरुरुक्षंस् तद्-अन्तं गन्तुम् इच्छन् लोकानां प्रतिवेशि-जनानां व्यसनं तादृश-बृहत्-कर्मासक्तिस् तेन कर्षित-मनाः । एते स्व-प्रतिष्ठार्थं बृहत्-कर्म कुर्वन्ति अहं कथं न करोमीति विक्षुब्ध-चित्तः ॥१८॥
—ओ)०(ओ—
॥ ५.१४.१९ ॥
क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति।
**श्रीधरः : **पदे पदेऽभ्यन्तर-वह्निना [भा।पु। ५.१३.८] इति व्याचष्टे—क्वचिच् च दुःसहेनेति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पदे पदेऽभ्यन्तर-वह्निना [भा।पु। ५.१३.८] इत्य् एतद् व्याचष्टे—क्वचिद् दुःसहेनेति । गृहीत-सारः दग्ध-धैर्यः ॥१९॥
—ओ)०(ओ—
॥ ५.१४.२० ॥
स एव पुनर् निद्राजगर-गृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः।
**श्रीधरः : **क्वचिन् निगीर्ण [भा।पु। ५.१३.९] इत्य् एतद् व्याचष्टे—स एवेति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिन् निगीर्ण [भा।पु। ५.१३.९] इत्य् एतद् व्याचष्टे—स एवेति । अपविद्धः स्वजनैस् त्यक्तः ॥२०॥
—ओ)०(ओ—
॥ ५.१४.२१ ॥
कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानोऽन्ध-कूपेऽन्धवत् पतति।
**श्रीधरः : **दष्टः स्म शेते [भा।पु। ५.१३.९] इति व्याचष्टे—कदाचिद् इति । मानो गर्व एव दंष्ट्रा पर-पीडाकरत्वात्, भग्ना मान-दंष्ट्रा यस्य । अत एव न लब्धो निद्रायाः क्षणोऽपि येन ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दष्टः स्म शेते [भा।पु। ५.१३.९] इति व्याचष्टे—कदाचिद् भग्नेति ॥२१॥
—ओ)०(ओ—
॥ ५.१४.२२ ॥
कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये।
**श्रीधरः : **कर्हि स्म चित् क्षुद्र-रसान् [भा।पु। ५.१३.१०] इत्य् एतद् व्याचष्टे—कर्हि स्म चित् काम-मधु-लवान् इति। यदा निहतो भवति, तदा सद्य एव निरये पतति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कर्हि स्म चित् क्षुद्र-रसान् [भा।पु। ५.१३.१०] इत्य् एतद् व्याचष्टे—कर्हि स्म चित् कामेति ॥२२॥
—ओ)०(ओ—
॥ ५.१४.२३ ॥
अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति।
**श्रीधरः : **प्रसङ्गात् प्रवृत्तस्य कर्मणः संसार-हेतुत्वं स्फुटयति—अथ चेति । यस्माद् एवं तस्मात् । अथ अनन्तरम् एव । उभयथा इह च परत्र च । अस्मिन् प्रवृत्ति-मार्गे । संसारस्यावपनं जन्म-क्षेत्रं कर्मोदाहरन्ति ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथ चेति । यस्माद् एवं तस्माद् उभयथापि पाप-प्रकारेण च कर्म, अस्मिन् जगति ॥२३॥
—ओ)०(ओ—
॥ ५.१४.२४ ॥
मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः।
**श्रीधरः : **तत्रातिकृच्छ्रात् प्रतिलब्ध-मानः [भा।पु। ५.१३.१०] इत्य् एतद् व्याचष्टे—मुक्त इति । यदि बन्धान् मुक्तो भवति, तर्हि ततः सकाशाद् अन्यो हरति, तस्माद् अप्य् अन्यः, न त्व् असौ भोक्तुं लभत इत्य् अर्थः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्रातिकृच्छ्रात् प्रतिलब्ध-मानः [भा।पु। ५.१३.१०] इत्य् एतद् व्याचष्टे—मुक्त इति । बन्धात् तत्-स्वामि-दत्त-बन्ध-प्रहारादेर् यदि द्रव्यादि-व्ययेन मुक्तः सन् तद्-दारान् सम्भोक्तुं प्राप्नोति, तदा देवदत्तोऽन्यः कश्चिल् लम्पटः, तत आच्छिद्य भुङ्क्ते, तस्माद् अप्य् अन्य इति न कोऽपि प्रकामं भोक्तुं लभते ॥२४॥
—ओ)०(ओ—
॥ ५.१४.२५ ॥
क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते।
**श्रीधरः : **क्वचिच् च शीतातप- [भा।पु। ५.१३.११] इत्य् एतद् व्याचष्टे—क्वचिच् चेति । शीतादयोऽनेका आधिदैविकाद्या या दशा दुःखावस्थास् तासाम् ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिच् च शीतातप- [भा।पु। ५.१३.११] इत्य् एतद् व्याचष्टे—क्वचिच् च शीतेति । दशानां दुःखावस्थानां ॥२५॥
—ओ)०(ओ—
॥ ५.१४.२६ ॥
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात्।
**श्रीधरः : **क्वचिन् मिथः [भा।पु। ५.१३.१२] इत्य् एतद् व्याचष्टे । क्वचिन् मिथो यत् किञ्चिद् धनं व्यवहरन् काकिणिका-मात्रं, विंशति-कपर्दक-मात्रं, ततोऽपि न्यूनं वा यत् किञ्चिद् अपहरन् विद्वेषम् एति ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिन् मिथः [भा।पु। ५.१३.१२] इत्य् एतद् व्याचष्टे—क्वचिन् मिथ इति । यत् किञ्चिद् अपि धनं मिथो वाणिज्यादौ व्यवहरन् काकिणिका विंशति-कपर्दकास् तन्-मात्रं यत् किञ्चित् ततोऽपि न्यूनं च , अन्येभ्योऽपहरन् वा विद्वेषम् एति ॥२६॥
—ओ)०(ओ—
॥ ५.१४.२७ ॥
अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः।
**श्रीधरः : **अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त-बाधोपसर्गैः [भा।पु। ५.१३.१३] इत्य् उक्तान् उपसर्गान् प्रपञ्चयति । अध्वन्य् अमुष्मिन्न् इमे उरु-कृच्छ्र-वित्त-बाधादयस् तथा सुख-दुःखादयश् च ।
व्युत्क्रमैः पुनर् उक्तैश् च नाना-पाठैर् अतः परम् ।
दुर्गमोऽपि भवाध्वायं संप्रदायेन तीर्यते ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र- [भा।पु। ५.१३.१३] इति व्याचष्टे—अध्वन्य् अमुष्मिन्न् इम इति ॥२७॥
—ओ)०(ओ—
॥ ५.१४.२८ ॥
क्वापि देव-मायया स्त्रिया भुज-लतोपगूढः प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-भाषितावलोक-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारेऽन्धे तमसि प्रहिणोति।
**श्रीधरः : **तत्र प्रसज्जति क्वापीत्य्-आदिना सिंहावलोकन-न्यायेनोक्तम् अर्थम् अपकृष्य क्रमेण व्याचष्टे—क्वापि देव-माययेति । प्रस्कन्नम् अपगतं विवेक-विज्ञानं यस्य । यस्या स्त्रिया विहार-गृहं क्रीडा-गृहं तद्-आरम्भे आकुलं हृदयं यस्य । अनेन प्रसज्जतीति व्याख्यातम् । तद्-आश्रयेत्य्-आदि व्याचष्टे । तस्या आश्रयेऽवसक्ताः संलग्नाः सुता दुहितरश् च कलत्रं च सैव स्त्री तेषां भाषितादिभिर् अपहृतं हृदयं यस्य । प्रहिणोति प्रक्षिपति ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रसज्जति क्वापीति व्याचष्टे—क्वापीति । देव-माया-रूपया स्त्रिया कर्त्र्या भुज-लताभ्याम् उपगूढः सन् लुप्त-विवेक-विज्ञानो भवति । यस्या स्त्रिया केलि-गृहारम्भे आकुल-हृदयो भवेत्, तस्या एव आश्रयेऽवसक्ताः संलग्नाः सुता दुहितरश् च कलत्रं तत्-सुत-वधूः सा च तेषां भाषितादिभिर् अपहृतं हृदयं यस्य सः ॥२८॥
—ओ)०(ओ—
॥ ५.१४.२९ ॥
कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते।
**श्रीधरः : **क्वचित् कदाचिद् धरि-चक्रतस् त्रसन्न् [भा।पु। ५.१३.१६] इत्य् एतद् व्याचष्टे—कदाचिद् ईश्वरस्येति । परमाणुर् आदिर् द्वि-परार्धोऽपवर्गोऽन्तः तद् एवोपलक्षणं यस्य तस्मात् । कालोपलक्षणाद् इति पृथक् पदत्वेन पाठे काल-स्वरूपाद् इत्य् अर्थः । रंहसा शीघ्रेण परिवर्तितेन परिभ्रमणेन वयसा बाल्यादि-क्रमेण । ब्रह्माणम् अभिव्याप्य तृण-स्तम्बादीनि भूतानि हरतश् चक्रतः सकाशाद् वित्रस्त-हृदयः सन् पाखण्ड-देवता । आभिमुख्येन धत्त इत्य् अन्वयः । अनिमिषतो निमेषम् अकुर्वतः, अरमत्ताद् इत्य् अर्थः । मिषतां प्रतिकर्तुम् अशक्तानाम् इत्य् अर्थः । कर्मणि षष्ठ्यः । काल-चक्रं निजं नित्यम् आयुधं यस्य । साङ्केत्येन मूल-प्रमाण-शून्येन पाखण्डागमेन ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचित् कदाचिद् धरि-चक्रतस् त्रसन्न् [भा।पु। ५.१३.१६] इत्य् एतद् व्याचष्टे—कदाचिद् ईश्वरस्येति । चक्रात् परित्रस्त-हृदयः पाषण्ड-देवताः साङ्केत्येन कल्पितेन पाषण्डागमेन अभिधत्ते उपास्यतया व्याचष्ट इत्य् अन्वयः । परमाणुर् आदिर् द्वि-परार्धोऽपवर्गोऽन्तो यस्य तेन कालेनैव उप आधिक्येन लक्षणं यस्य तस्मात् । “द्वि-परार्धापवर्गात् कालोपलक्षणात्” इति पाठे काल-स्वरूपाद् इत्य् अर्थः । कीदृशात् ? परिवर्तितेन वयसा बाल्यादिना रंहसा अतिशैघ्र्येण ब्रह्मादीनां अप्य् अनिमिषतां अपश्यतां व्यवहारे प्रमत्तानां भूतानां इति कर्मणि षष्ठ्यः । भूतानि हरत इत्य् अर्थः ।
यद् वा, आयुर् इत्य् अध्याहार्यं तेषां आयुर् हरतोऽनिमिषतो निमेषम् अप्य् अकुर्वतः अप्रमत्ताद् इत्य् अर्थः । आर्य-समय-परिहृताः शिष्टाचार-रहिताः ॥२९॥
—ओ)०(ओ—
॥ ५.१४.३० ॥
यदा तु पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः।
**श्रीधरः : **तैर् वञ्चित [भा।पु। ५.१३.१७] इत्य् एतद् व्याचष्टे—यदा त्व् इति । आत्मना वञ्चितैर् उरु अधिकं वञ्चितः सन् । तेषां ब्राह्मणानां यच् छीलम् उपनयनादि तद् अरोचयन् शूद्र-वद् वर्तते । निगमोक्ताचारे अशुद्धितः स्वस्य शुद्ध्य्-अभावात् । यस्य शूद्रस्य केवलं मिथुनी-भावः कुटुम्ब-भरणं च व्यापारो नाग्नि-होत्रादिः ॥३०॥
**क्रम-सन्दर्भः : **निगमाचारे या शुद्धिस् तत्-करणाद् इत्य् अर्थः ।_।_३०॥
**विश्वनाथः : **तैर् वञ्चित [भा।पु। ५.१३.१७] इत्य् एतद् व्याचष्टे—यदा त्व् इति । आत्मनैव वञ्चितैः स्व-कल्पित-कुपथ-गामित्वात् तैर् उरु-वञ्चितः । कल्पित-किञ्चिन्-मात्रापराध-मिषेण धनाद्य् अपहृत्य स्व-गणान् निःसारितः । निगमोक्ताचार-मध्ये या अशुद्धिर् उच्यते तयैव यस्य मिथुनीभावः, विधवायास् त्यक्त-धवाया वा मूल्यादि-प्रदानेन परिणयः ॥३०॥
—ओ)०(ओ—
॥ ५.१४.३१ ॥
तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः।
**श्रीधरः : **तज्-जाति-रासेन [भा।पु। ५.१३.१७] इत्य्-आदि व्याचष्टे । तत्रापि निरवरोधः प्रतिबन्ध-रहितः । स्वैरेण स्वेच्छया क्रीडन् विस्मृत-मृत्यु-कालः सन् ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तज्-जाति-रासेन [भा।पु। ५.१३.१७] इत्य्-आदि व्याचष्टे । तत्रापि निरवरोधो धर्म-मर्यादाभिर् अनवरुध्यमानः विस्मृत-मृत्यु-कालः सन् विहरन् भवति ॥३१॥
—ओ)०(ओ—
॥ ५.१४.३२ ॥
क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः।
**श्रीधरः : **द्रुमेषु रंस्यन्न्[भा।पु। ५.१३.१४] इत्य् एतद् व्याचष्टे—क्वचिद् द्रुमवद् इति । व्यवाय-क्षणो मैथुनोत्सवो भवति ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्रुमेषु रंस्यन्न्[भा।पु। ५.१३.१४] इति व्याचष्टे—क्वचिद् द्रुमेति । रंस्यन् रममाणः व्यवाय-क्षणः स्त्री-सङ्ग-लब्धोत्सवः ॥३२॥
—ओ)०(ओ—
॥ ५.१४.३३ ॥
एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये।
**श्रीधरः : **क्वचित् प्रमादाद् [भा।पु। ५.१३.१८] इत्य् एतद् व्याचष्टे । एवम् अध्वनि सुख-दुःखाद्य्-अवरुन्धानो गिरि-कन्दर-प्राये तमसि रोगाद्य्-आपदि पततीति शेषः ॥३३॥
**क्रम-सन्दर्भः : **गिरि-कन्दर-प्राये तमसि रोगाद्य् आपद्य पतन् मृत्यु-गज-भयाद् वल्ली-तुल्य-प्राचीन-कर्मावलम्ब्य स्थितो भवतीति शेषः ॥३३॥
**विश्वनाथः : **क्वचित् प्रमादाद् [भा।पु। ५.१३.१८] इत्य् एतद् व्याचष्टे—एवम् अध्वनीति । मृत्यु-भयात् तमसि महा-रोगाद्य्-उपशमार्थं कुकर्मणि अवरुन्धानः आत्मानं अवरुणद्धि ॥३३॥
—ओ)०(ओ—
॥ ५.१४.३४ ॥
क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्त-विषय-विषण्ण आस्ते।
**श्रीधरः : **क्वचिच् छीत-वातेत्य्-आदि-पूर्वस्माद् अधिकोक्तिः । रोगाद्य्-आपदि पतितः सन् शीतादिभिः क्लिश्यन्न् आस्त इत्य् अर्थः ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिच् च शीतातप- [भा।पु। ५.१३.११] इत्य् एतद् व्याचष्टे—क्वचिच् छीत-वातेति ॥३४॥
—ओ)०(ओ—
॥ ५.१४.३५ ॥
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन।
**श्रीधरः : **तद् एवं सिंहावलोकन-न्यायेनोक्तम् अर्थं यथा-स्थानम् अपकृष्य व्याख्याय क्रम-स्थम् अनुवर्तयितुं पुर्वोक्तम् एवानुवदति—क्वचिन् मिथ इति । वित्त-शाठ्येन कदाचिद् यत् किञ्चिद् धनम् उपयाति ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचिन् मिथ [भा।पु। ५.१३.११] इति व्याचष्टे—क्वचिन् मिथ इति ॥३५॥
—ओ)०(ओ—
॥ ५.१४.३६ ॥
क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादानेऽवसित-मतिस् ततस् ततोऽवमानादीनि जनाद् अभिलभते।
**श्रीधरः : **क्वचित् क्वचित् क्षीण-धनस् तु [भा।पु। ५.१३.१२] इति व्याचष्टे, क्वचित् क्षीण-धन इति। अप्रतिलब्धं यन् मनोरथेनोपगतं वाञ्छितं तस्यादाने स्वीकारे निश्चित-मतिः सन्॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्वचित् क्वचित् क्षीण-धनः [भा।पु। ५.१३.१२] इत्य् एतद् व्याचष्टे—क्वचित् क्वचित् क्षीण-धन इति। यन् मनोरथेनोपगतं धनादि वाञ्छितं तस्यादाने स्वीकारे निश्चित-मतिः सन्॥३६॥
—ओ)०(ओ—
॥ ५.१४.३७ ॥
एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धोऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति।
**श्रीधरः : **अन्योन्य-वित्त-व्यतिषङ्गेन [भा।पु। ५.१३.१३] इत्य् एतद् व्याचष्टे—एवं वित्त-व्यतिषङ्गेति । अपवहति त्यजति ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अन्योन्य-वित्त-व्यतिषङ्गेन [भा।पु। ५.१३.१३] इत्य् एतद् व्याचष्टे—एवं इति । अथापवहति पुनर् उद्वाहं त्यजति च ॥३७॥
—ओ)०(ओ—
॥ ५.१४.३८ ॥
एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति।
**श्रीधरः : **अध्वन्य् अमुष्मिन्न् [भा।पु। ५.१३.१३, १९] इत्य्-आदि व्याचष्टे—एतस्मिन्न् इति । आपन्न आपदं प्राप्तः विपन्नो विनष्टो वा यत्र यस् तम् इतरस् तत्र विसृज्य । न ह्य् अमानो बध्यमानः । साधु-वर्जितः साधु-व्यतिरिक्तः ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अध्वन्य् अमुष्मिन्न् [भा।पु। ५.१३.१३, १९] इत्य्-आदि व्याचष्टे—एतस्मिन्न् इति । आपन्न आपदं प्राप्तः विपन्नो मृतः । साधु-वर्जित इति वैष्णव-सङ्गे इति तरतीति भावः । यतः परमेश्वरात् तम् एव परमेश्वरं पारं पार-प्रापकं तत्र साधु-सङ्ग एव हेतुर् इत्य् अर्थः ॥३८॥
—ओ)०(ओ—
॥ ५.१४.३९ ॥
यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति।
**श्रीधरः : **अनावृत्तौ हेतुम् आह—यद् इदम् इति ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनावृत्तौ हेतुम् आह—यद् इदम् इति । समवगच्छन्ति प्राप्नुवन्ति ॥३९॥
—ओ)०(ओ—
॥ ५.१४.४० ॥
यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः।
**श्रीधरः : **मनस्विन [भा।पु। ५.१३.१५] इत्य्-आदि व्याचष्टे—यद् अपीति । ये वै राजर्षयः, तेऽपि नावरुन्धते, किन्तु परं केवलं मृधे शयीरन् ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मनस्विन [भा।पु। ५.१३.१५] इत्य् एतद् व्याचष्टे—यद् अपि यद्यपि तद् अपि अस्यां पृथिव्यां शयीरन्, कीदृश्यां ममेयम् इति । कृतो वैरानुबन्धो यस्यां तस्यां, इमां विसृज्य स्वयम् एव संहृताः मृताः ॥४०॥
—ओ)०(ओ—
॥ ५.१४.४१ ॥
कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतोऽपि।
**श्रीधरः : **प्रसज्जति [भा।पु। ५.१३.१६] इत्य्-आदि गिरि-कन्दर इत्य् अन्तम् अपकृष्य व्याख्यातं, ग्रन्थम् अतिक्रम्य वल्लीं गृहीत्वेत्य्-आदि-ग्रन्थं व्याचष्टे, कर्म-वल्लीम् इति । एवम् उपरि स्वर्गं गतोऽपि नर-लोक-सार्थम् एवोपयाति ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वल्लीं गृहीत्वेत्य्-आदि अवशिष्टं ग्रन्थं व्याचष्टे—कर्म-वल्लीम् अवलम्ब्येति । एवम् उपरि-गतोऽपि स्वर्गी जनोऽपि संसाराध्वनि वर्तमानः ॥४१॥
—ओ)०(ओ—
॥ ५.१४.४२ ॥
तस्येदम् उपगायन्ति——
आर्षभस्येह राजर्षेर् मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥
**श्रीधरः : **तद् एवं भरतोक्तिं व्याख्याय तच् चरित-सङ्ग्रह-श्लोकान् आह । तस्येदं कर्म श्लोकैर् उपगायन्ति । आर्षभस्य ऋषभ-पुत्रस्य अन्यो नृपोऽनुवर्त्म नार्हति वर्त्मानुगन्तुं शक्नोति ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भरतोपाख्यानम् उपसंहृत्य तन्-महिमनि प्राचां सम्मतिम् आह—तस्य इदं कर्म आर्षभस्य ऋषभ-पुत्रस्य अनुवर्त्म वर्त्मानुगन्तुं नार्हति योग्यताभावाद् इति भावः । मनसा मनोरथेनापि किम् उत कर्मणा ॥४२॥
—ओ)०(ओ—
॥ ५.१४.४३ ॥
यो दुस्त्यजान् दार-सुतान् सुहृद्-राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमश्लोक-लालसः ॥
**श्रीधरः : **तत्र हेतुम् आह—य इति । सुहृद्-राज्ययोर् द्वन्द्वैक्यम् । यो दुस्त्यजान् दारादीन् विष्ठाम् इव जहौ तस्यार्षभस्येति संबन्धः । दुस्त्यजत्वे हेतुः—हृदि-स्पृशो मनोज्ञान् । त्यागे हेतुः—उत्तम-श्लोके लालसा लम्पटत्वं यस्य ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्य प्रेमानुभावम् आह—य इत्य् अस्योत्तर-वाक्य-गतत्वान् न तत्-पदापेक्षा मीलितं यद् अभिरामताधिक इतिवद् दुस्त्यजत्वे हेतुः । हृदि-स्पृशः मनोहरान् सुहृद्-राज्ययोर् द्वन्द्वैक्यं युवैवेति वार्धक्ये त्यागिभ्यः प्रियव्रतादिभ्योऽप्य् उत्कर्षः । मलवद् इति यथा मलस्य त्याग एव निर्वृतिः, त्यागाभावे कष्टं, त्यक्तस्य तस्य स्मरणेऽपि निष्ठीवनोद्गमः, तथैवेति त्यागेऽप्य् अन्येभ्यो वैलक्षण्याद् उत्कर्षः । तत्र हेतुः—उत्तमः सर्वोत्कृष्टः रूप-गुण-लीला-माधुर्यैश्वर्य-सम्बन्धी श्लोका यशो यस्य तस्मिन् लालसः दर्शनाद्य्-औत्सुक्यं यस्य सः । तेन भगवत्-सौन्दर्याद्य्-अनाविष्ट-सर्वेन्द्रियाणां विरक्तानां दारादयो न मल-तुल्या भवन्तीति भरतस्योत्तम-भक्तत्वं ध्वनितम् ॥४३॥
—ओ)०(ओ—
॥ ५.१४.४४ ॥
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥
**मध्वः : **ऋते हैहय-वैण्यादीन् आर्षभस्येह कः समः ।
यस्योपदेशात् सिन्धीशो ददर्श कपिलं विभुम् ॥ ॥४४॥
श्रीधरः : तस्यैवं विषय-त्यागो न चित्रम् इत्य् आह । य एवं-भूतोऽसौ नृपः स क्षित्य्-आदीन् नैच्छद् इति यत् तद् उचितम् । सदयावलोकां भरतस्य दया यथा भवत्य् एवम् अवलोको यस्या इति परिजनावलोकः श्रियम् उपचर्यते । यतो मधु-द्विषःसेवायाम् अनुरक्तं मनो येषां तेषां महताम् अभवो मोक्षोऽपि फल्गुस् तुच्छ एव ॥४४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : उक्तम् एवार्थम् उल्लासेन पुनर् अपि स्पष्टीकृत्याह—य इति । सदयावलोकां भरतस्य दया यथा भवत्य् एवम् अवलोको यस्या इति परिजनावलोकः श्रियम् उपचर्यते इति स्वामि-चरणैः । यद् वा, भरतो वैराग्योत्थं शारीर-कष्टं मा स्वीकरोतु, मया लाल्यमानो गृह एव तिष्ठत्व् इति सदयावलोको यस्यास् ताम् । अभवो मोक्षोऽपि फल्गुस् तत्रापि विरज्यन्तीत्य् अर्थः ॥४४॥
—ओ)०(ओ—
॥ ५.१४.४५ ॥
यज्ञाय धर्म-पतये विधि-नैपुणाय
योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्य् उदारं
हास्यन् मृगत्वम् अपि यः समुदाजहार ॥
**मध्वः : **युज्यते अनेनेति योगो हरिः । साङ्ख्य-शिरसे उत्तम-ज्ञान-स्वरूपाय ॥४५॥
श्रीधरः : तस्य सेवानुरागम् एवाह—यज्ञायेति । यज्ञ-रूपाय धर्म-पतये यज्ञादि-फल-दात्रे । विधौ नैपुण्यं यस्य, तस्मै धर्मानुष्ठात्रे । योगोऽष्टाङ्गः, तस्मै । साङ्ख्यं ज्ञानं, तच्-छिरः प्रधानं फलं यस्य, तस्मै । योगाय प्रकृतीश्वराय माया-नियन्त्रे । अत एव नारं जीव-समूहः सोऽयनम् आश्रयो यस्य, सर्व-जीव-नियन्त्रे । एवं कर्म-ज्ञान-देवता-काण्डैः प्रतिपादिताय हरये नमैत्य् उदारम् उच्चैर् यः सम्यग् उच्चारितवान् । मृगत्वं मृग-देहम् अपि हास्यन् त्यक्ष्यन् । य एवंभूतस् तस्य तद् उचितम् इति वा तस्यानुवर्त्मनार्हतीति वा सम्बन्धः ॥४५॥
**क्रम-सन्दर्भः : **अत एव भक्तेः श्री-भगवत्-स्वरूप-शक्ति-बोधकत्वं स्वयम्-प्रकाशत्वम् आह—यज्ञायेति । य आर्षभेयो भरतो मरण-समये, तत्रापि मृग-शरीरे । तद्-वचन-जन्मात्यन्तासम्भावात् स्व-प्रकाशत्वम् एव तस्याः कीर्तन-लक्षणाया भक्तेः सिध्यति । (भक्ति-सन्दर्भ १३९) \
\
यज्ञायेति । धर्म-रूपाय, तत्-पालकाय, तत्-प्रवर्तकाय, ज्ञान-साधन-रूपाय, ज्ञान-रूपाय, माया-नियन्त्रे, सर्व-जीवाश्रयाय, ततोऽपि पराय हरये मनोहराय नमः, दास्येनात्मानं समर्पयामीत्य् अर्थः । अत एव यत् तु श्री-भरतस्य मृग-शरीरं त्यजतो नामानि गृहीत्वापि शरीरान्तर-प्राप्तिः, तत्रापि साक्षाद्-भगवत्-प्राप्तिर् एव । तादृशानां महा-भागवतानां हृदि सदा तद्-आविर्भावात् । अतो विष्णु-पुराणाद् उक्ता ज्ञानि-भरताद्याः कल्प-भेदेनान्ये एव ज्ञेयाः ॥४५॥
**विश्वनाथः : **यज्ञायेति त्रिभिः पदैः क्रमेण कर्म-ज्ञान-भक्ति-मार्गाणां यथोत्तरम् उत्कर्षो व्यञ्जितः । विधेर् यज्ञ-विधेर् नैपुण्यं यस्मात् तस्मै । हास्यन् त्यक्षन् तेन मरण-काले न उदाजहार, तथा सति जहद् इत्य् उच्यते । भगवतैव स्व-भक्त्य्-उद्रेकार्थं पुनर् जनयिष्यमाणत्वाद् इति भावः ॥४५॥
—ओ)०(ओ—
॥ ५.१४.४६ ॥
य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति।
**श्रीधरः : **भरत-चरित-श्रवणादि-फलम् आह—य इदम् इति । भागवतैः सभाजिता अवदाताः शुद्धा गुणाः कर्माणि च यस्य तस्य भरतस्यानुचरितं योऽनुशृणोति स आत्मन एव सकाशात् सर्वा आशिष आशास्ते स्वत एव प्राप्नोति नतु काञ्चिद् अपि परस्माद् अपेक्षत इत्य् अर्थः ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भागवतैः श्री-भागवतेऽस्मिन् शास्त्रे वा सभाजिताः स्तुता अवदाटाः शुद्धा गुणाः कर्माणि यस्य । आत्मन एवेति सर्व-वाञ्छितानि तसानायासेनैव स्वतः प्राप्तानि भवन्तीत्य् अर्थः ॥४६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
भरतोपाख्यानं नाम
चतुर्दशोऽध्यायः ।
॥५.१४॥
(५.१५)
-
निषदनं स्थानम्। ↩︎