॥ ५.१३.१ ॥
ब्राह्मण उवाच—
दुरत्ययेऽध्वन्य् अजया निवेशितो
रजस्-तमः-सत्त्व-विभक्त-कर्म-दृक् ।
स एष सार्थोऽर्थ-परः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥
**श्रीधरः : **
त्रयोदशे विरक्ताय वृथा तत्त्व-निरूपणम् ।
इति वैराग्य-दार्ढ्याय भवाटव्य् उपवर्ण्यते ॥
अध्वनः पारम् [५.१२.१६] इत्य् उक्तम् । तम् एव अध्वानं प्रसिद्ध-मार्ग-रूपकेण वैराग्याय प्रपञ्चयति—दुरत्यये दुस्तरेऽध्वनि प्रवृत्ति-मार्गे । रजस्-तमः-सत्त्वैर् विभक्तानि कर्माणि कार्यतया [दृक्] पश्यतीति तथा । स एष प्रसिद्धः सार्थो जीव-समूहोऽर्थ-परः सुखार्थः सन् । यथा वणिक्-सार्थोऽर्थार्जनाय गच्छन्न् अटवीं याति, तद्वत् । अस्याध्यायस्य व्याख्यान-रूप उत्तराध्यायोऽस्ति, तथापि सुख-प्रतिपत्तये किञ्चित् किञ्चिद् व्याख्यायते ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
त्रयोदशे भवाटव्याः पारं प्रापयितुम् नृपम् ।
तां वर्णयित्वा वैराग्य-हयम् आरोहयन् मुनिः ॥
अध्वनः पारम् इत्य् उक्तम् । तम् एवाध्वा अध्वनीनश् च कीदृशः ? इत्य् अपेक्षायाम् आह—दुरत्यये दुस्तरेऽध्वनि प्रवृत्ति-मार्गे । अजया अविद्यया रजस्-तमः-सत्त्वैर् विभक्तान्य् एव कर्माणि कार्यतया पश्यतीति स तथा । एष प्रसिद्धः सार्थः—वणिक् सार्थ-समूहे स्यात् इति मेदिनी । स इव अर्थ-पर एष जीव-लोक इत्य् अर्थः । एतद्-आदीनां व्याख्या उत्तराध्याय एवास्ति, तद् अपि सुख-प्रतिपत्तये किञ्चिद् व्याख्यायते ॥१॥
—ओ)०(ओ—
॥ ५.१३.२ ॥
यस्याम् इमे षण् नर-देव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तम् आविश्य यथोरणं वृकाः ॥
श्रीधरः : यस्यां भवाटव्याम् इमे इन्द्रिय-नामानः षड् दस्यवश् चोराः । कुत्सितो नायकः सारथिर् बुद्धिर् यस्य, तं सार्थं विलुम्पन्ति । तस्य धर्म्यं धनम् उपभोगेन मुष्णन्तीत्य् अर्थः । गोमायवः शृगाल-तुल्या दारापत्यादयः “त्वं मे भर्ता पिता” इत्य् एवं प्रविश्य प्रमत्तं सार्थिकं सार्थे स्थितं हरन्ति, इतस् तत आकर्षन्ति । उरणं मेषम् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : इमे इन्द्रिय-नामानः, कुत्सितो नायकः, सारथिर् बुद्धिर् यस्य तं विलुम्पन्ति । भगवत्-सेवार्थं विनियुक्तम् अपि धनं स्व-स्व-विषय-भोगार्थं मुष्णन्तीत्य् अर्थः । गोमायवः शृगाल-तुल्या दारापत्यादयः, “त्वं मे भर्ता पिता” इत्य् एवं सार्थिकं सार्थ-भवम् अन्न-वस्त्रादि-सम्पुटं प्रमत्तं परमार्थ-दृष्टि-विमुखम् आविश्य, तस्य गृह इवान्तःकरणेऽपि प्रविश्येत्य् अर्थः । उरणं मेषम् ॥२॥
—ओ)०(ओ—
॥ ५.१३.३ ॥
प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे
कठोर-दंशैर् मशकैर् उपद्रुतः ।
क्वचित् तु गन्धर्व-पुरं प्रपश्यति
क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम् ॥
श्रीधरः : वीरुधो लतास् तृणानि च गुल्माश् च लतादि-जालानि प्रभूतैर् एतैर् गह्वरे दुष्प्रवेशे क्षेत्रे कठोरैस् तीव्रैर् दंशैर् मक्षिका-विशेषैश् च यथा कश्चिद् उपद्रुतो भवति, एवं काम-कर्मादिभिर् गह्वरे गृहाश्रमे वर्तमानो दुर्जनैर् उपद्रुतो भवतीत्य् अर्थः । गन्धर्व-पुरवद् अघटमानम् एव देहादिकं प्रकर्षेण “सत्यम् एवेदम्” इति पश्यति । क्वचित् क्वचित् क्वापि क्वाप्य् आशु-रयोऽतिवेगो य उल्मुकाकारो ग्रहः पिशाचः, तत्-तुल्यं सुवर्णम् उपादेयत्वेन प्रपश्यतीत्य् अर्थः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रभूत-वीरुधादि-सदृशैः काम-कर्मादिभिर् गह्वरे गृहाश्रमे दंश-मशक-तुल्यैर् दुर्जनैः । गन्धर्व-पुरवद् अघटमानम् देह-गेहादिकं प्रकर्षेण “सत्यम् स्थिरम् एवेदम्” इति पश्यति । क्वापि क्वाप्य् आशु-रयोऽतिवेगो य उल्मुकाकारो ग्रहः पिशाचः, तं तत्-तुल्यं सुवर्णम् उपादेयत्वेन पश्यति ॥३॥
—ओ)०(ओ—
॥ ५.१३.४ ॥
निवास-तोय-द्रविणात्म-बुद्धिस्
ततस् ततो धावति भो अटव्याम् ।
क्वचिच् च वात्योत्थित-पांसु-धूम्रा
दिशो न जानाति रजस्वलाक्षः ॥
श्रीधरः : निवासादिष्व् आत्मा स्वभावो यस्याः, सा बुद्धिर् यस्य, स ततस् ततो धावति इत्य् उभयत्र तावान् एवार्थः । वात्या चक्र-वातस् तस्याम् उत्थितः पांसुः, तेन धूम्रा दिशो रजस्वले रजो-व्याप्ते अक्षिणी यस्य, स यथा न जानाति । तथा वात्येव भ्रमयन्ती या स्त्री, तस्याम् उद्गतै रागादिभिर् अप्रकाशमाना दिग्-देवताः कर्म-साक्षि-भूता न जानातीत्य् अर्थः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : निवासादिष्व् आत्मनो ममैवेदम् इति बुद्धिर् यस्य, तथा-भूतः सन्, ततस् ततस् तत्र तत्र धावति इत्य् उभयत्र पक्षे तावान् एवार्थः । वात्या चक्रवात-रूपा या स्त्री, तद्-उत्थितैः पांसुभिः कन्दर्प-वेगैर् धूम्रा आच्छन्नीकृता दिशो दिग्-देवताः कर्म-साक्षि-भूता **न जानाति **। रजस्वलाक्षः कामान्धः ॥४॥
—ओ)०(ओ—
॥ ५.१३.५ ॥
अदृश्य-झिल्ली-स्वन-कर्ण-शूल
उलूक-वाग्भिर् व्यथितान्तरात्मा ।
अपुण्य-वृक्षान् श्रयते क्षुधार्दितो
मरीचि-तोयान्य् अभिधावति क्वचित् ॥
श्रीधरः : अदृश्यानां झिल्लीनां भृङ्गारिका-संज्ञानां कीट-विशेषाणां स्वनैः कर्णयोः शूलो व्यथा यस्य । उलूको घूकाः, तेषां वाग्भिर् व्यथितोऽन्तरात्मा मनो यस्य । अत्र च परोक्षम् अप्रिय-वक्तारो झिल्ली-तुल्याः, प्रत्यक्षम् अप्रिय-वक्तारो घूक-तुल्याः । येषां छायापि पाप-हेतुस् ते अपुण्य-वृक्षाः, तत्-तुल्यान् अधार्मिकान् सेवते । मरीचि-तोयानि इति निष्फलत्वेन विज्ञातान् अपि विषयान् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अदृश्यानां झिल्लीनां भृङ्गारिकाख्य-कीट-विशेषाणाम् इव परोक्षम् अप्रिय-वक्तॄणां स्वनैः कटु-भाषणैः कर्णयोः शूलो व्यथा यस्य सः । उलूकानाम् इव प्रत्यक्षम् अप्रिय-वक्तॄणां वाग्भिः कटु-भाषितैर् व्यथित-मनाः । येषां छायापि पाप-हेतुः, तान् इव अधार्मिक-लोकान् भिक्षार्थं सेवते । मरीचि-तोय-तुल्यान् अदातृ-लोकान् अपि क्वचिद् भिक्षार्थं गच्छति ॥५॥
—ओ)०(ओ—
॥ ५.१३.६ ॥
क्वचिद् वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिद् अग्नि-तप्तो
निर्विद्यते क्व च यक्षैर् हृतासुः ॥
श्रीधरः : वितोयासु सरित्सु पतितस्य गात्र-भङ्गात् सद्यो दुःखं भवति, न चोदक-लाभः, तद्वद् इह च परत्र च दुःखदान् पाखण्डान् अभियाति । आलषते दायादादिभ्योऽन्नादि वाञ्छति । उभयत्रापि स एवार्थः । दावं दावाग्नि-तुल्यं दुःखदं गृहं प्राप्य शोक-अग्निना तप्तो निर्विद्यते विषीदति । तत्र च यक्ष-राक्षस-तुल्यै राजभिर् हृतम् असुवत् प्रेष्ठं धनं यस्य स निर्विद्यते ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वितोयासु सरित्सु पतितस्य गात्र-भङ्गात् सद्यो दुःखं भवति, न चोदक-लाभः, तद् इह च परत्र च दुःखदान् पाषण्डान् अभियाति । आलषते अभिलषति । “निरन्धान्” “निरन्नः” चेति पाठ-द्वयम् उभयत्र-पक्षे साम्यम् । दावं दावाग्नि-तुल्यं दुःखदं गृहं प्राप्य शोक-अग्निना तप्तो निर्विद्यते विषीदति । यक्ष-राक्षस-तुल्यै राजभिर् **हृतम् असुवत् **प्रेष्ठं धनं यस्य, स “धिग् मां धन-रहितम्” इति निर्विद्यते । कदाचित् अन्यैः शूरैः सङ्ग्रामे विजयिभिश् च हृत-धनः ॥६॥
—ओ)०(ओ—
॥ ५.१३.७ ॥
शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः
शोचन् विमुह्यन्न् उपयाति कश्मलम् ।
क्वचिच् च गन्धर्व-पुरं प्रविष्टः
प्रमोदते निर्वृतवन् मुहूर्तम् ॥
**श्रीधरः : **अन्यैश् च शूरैर् हृतं स्वं वित्तं यस्य । निर्विण्णं विषण्णं चेतो यस्य । कश्मलं मूर्च्छाम् । गन्धर्व-पुरम् इव मनो-रथोपगत-पितृ-पुत्रादि-समाजं प्रविष्टः ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : गन्धर्व-पुरम् इव मनो-रथोपलब्धं पुत्र-कलत्र-धनैश्वर्यं प्रविष्टः ॥७॥
—ओ)०(ओ—
॥ ५.१३.८ ॥
चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर्
नगारुरुक्षुर् विमना इवास्ते ।
पदे पदेऽभ्यन्तर-वह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥
श्रीधरः : कण्टकादि-विद्धाङ्घ्रिर् इव विघ्नैर् अभिभूतः सन् नग-तुल्यं महत्-कर्म [आरुरुक्षुः] आरोढुं कर्तुम् इच्छुर् विमना इव आस्ते । पदे पदे क्षणे क्षणे । अभ्यन्तरेण वह्निना जाठरेण ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नगान् रुरुक्षुः नगं महा-पर्वतम् इव कन्या-पुत्रोद्वाहादिकं यश आरुरुक्षुः प्राप्तुम् इच्छुर् विमना “कथम् एतत् पारं प्राप्स्यामि ?” इति भावयन्न् आस्ते । यतः पादुका-सद्य-भावात् कण्टकादि-विद्धाङ्घ्रिः । पक्षे, सहायाद्य्-अभावात् विघ्नाभिभूतः, अभ्यन्तरेण वह्निना जाठरेण ॥८॥
—ओ)०(ओ—
॥ ५.१३.९ ॥
क्वचिन् निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद् विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकैर्
अन्धोऽन्ध-कूपे पतितस् तमिस्रे ॥
श्रीधरः : अजगराहिना निद्रा-रूपेण [निगीर्णो] गिलितो [नावैति] न वेत्ति । विपिने [अपविद्धः] त्यक्तः शव इव दन्दशूकैर् हिंस्रैर् दुर्जनैर् दष्टः पीडितोऽन्धो लुप्त-विवेकोऽन्ध-कुपे मोहे पतितस् तमिस्रे दुःखे शेते लीयते ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अजगराहिना निद्रा-रूपेण अपविद्धः बन्धुभिर् अप्रबोधितः दन्दशूकैर् इव दुर्जनैः पीडितोऽन्धो विवेक-हीनः । अन्ध-कुपे मोहे तमिस्रे तमो-वृते । पक्षे, दुःख-मये ॥९॥
—ओ)०(ओ—
॥ ५.१३.१० ॥
कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस्
तन्-मक्षिकाभिर् व्यथितो विमानः ।
तत्रातिकृच्छ्रात् प्रतिलब्ध-मानो
बलाद् विलुम्पन्त्य् अथ तं ततोऽन्ये ॥
श्रीधरः : क्षुद्र-रसान् पर-योषादीन् विचिन्वन् गवेषयंस् तन्-मक्षिकाभिर् योषादि-स्वामिभिर् विमानोऽवज्ञातस् ताडितः सन् व्यथितो भवति । यदि कथञ्चित् तत्र अतिक्लेशेन प्रतिलब्ध-मानः प्राप्त-योषादिर् भवति, तदा बलाद् अन्येऽपहरन्ति । तान् यदाभियुङ्क्ते, तदा ततोऽप्य् अन्ये हरन्ति ॥१०॥
**क्रम-सन्दर्भः : **कर्हि स्मेति । तान् उपहरकान् यदा अभियुङ्क्ते इति शेषः, तेषाम् आभिमुख्येन युद्धोद्यमं करोतीत्य् अर्थः ॥१०॥
विश्वनाथः : क्षुद्र-रसान् पर-दारान् तन्-मक्षिकाभिस् तद्-भर्तृ-श्वश्र्व्-आदिभिर् विमानो विगत-मानः कृतो व्यथितो भवति । यदि कथञ्चित् तत्र अतिक्लेशेन धन-व्ययादिना प्रतिलब्ध-मानः प्राप्त-पर-दार-सम्भोगः, तदा तान् दारान् अन्ये विलुम्पन्ति, ततोऽप्य् अधिक-वित्त-व्ययेन अन्येऽपीत्य् एवम् ॥१०॥
—ओ)०(ओ—
॥ ५.१३.११ ॥
क्वचिच् च शीतातप-वात-वर्ष-
प्रतिक्रियां कर्तुम् अनीश आस्ते ।
क्वचिन् मिथो विपणन् यच् च किञ्चिद्
विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात् ॥
**श्रीधरः : **यत् किञ्चिद् अत्यल्पम् अपि मिथो व्यवहरन् क्रियादिना गृह्णन् । वित्त-शाठ्याद् धन-वञ्चनात् ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मिथो विपणन् विपणयन् क्रय-विक्रयादिना व्यवहरन् वित्त-शाठ्याद् धन-वञ्चनाद् विद्वेषं [ऋच्छति] प्राप्नोति ॥११॥
—ओ)०(ओ—
॥ ५.१३.१२ ॥
क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन्
शय्यासन-स्थान-विहार-हीनः ।
याचन् पराद् अप्रतिलब्ध-कामः
पारक्य-दृष्टिर् लभतेऽवमानम् ॥
श्रीधरः : शय्यादि-हीनः । आस्यतेऽस्मिन्न् इत्य् आसनं कम्बलादि । स्थीयतेऽत्रेति स्थानं गृहम्। विहरन्त्य् अनेनेति विहारो यानादि । याचमानोऽपि यदा परस्माद् अप्राप्त-कामः, तदा परकीये वस्तुनि दृष्टिर् अभिलाषो यस्य सोऽवमानं [लभते] प्राप्नोति ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : परात् परस्माद् याच्यमानाद् अपि अप्राप्त-धनो भवेत्, तदा पारक्ये परकीये वस्तुनि दृष्टिर् अभिलाषो यस्य, सोऽवमानं प्राप्नोति ॥१२॥
—ओ)०(ओ—
॥ ५.१३.१३ ॥
अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध-
वैरानुबन्धो विवहन् मिथश् च ।
अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त-
बाधोपसर्गैर् विहरन् विपन्नः ॥
**श्रीधरः : **एवम् अन्योन्यं वित्त-व्यतिषङ्गेन धन-विनिमयेन विवृद्धो वैरानुबन्धो यस्य तथा-विधोऽपि परस्परं विवहन् विवाहादि-सम्बन्धं कुर्वन्न् उरुभिः कृच्छ्रैः श्रमैर् वित्त-बाधैर् उपसर्गैश् च द्वेषादिभिर् विपन्नो मृत-प्रायो भवति ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एवम् अन्योन्य-वित्तस्य व्यतिषङ्गेन परस्परासक्त्या परस्पर-जिघृक्षया विवृद्धो वैरानुबन्धो यस्य, तथा-विधोऽपि [मिथः] परस्परं विवहन् विवाहादि-सम्बन्धं कुर्वन् । अध्वनि विहरन् भ्रमन् उरुभिः कृच्छ्रैर् वित्त-बाधैर् उपसर्गै रोगिभिश् च विपन्नो मृत-प्रायो भवति ॥१३॥
—ओ)०(ओ—
॥ ५.१३.१४ ॥
तांस् तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिद् अत्र
वीराध्वनः पारम् उपैति योगम् ॥
**श्रीधरः : **दुरत्ययत्वम् अध्वनो दर्शयति । तांस् तान् विपन्नान् मृतान् विहाय जातं जातं परिगृह्य विहरन्यतः प्रस्थितस् तं प्रति नावर्तते । हे वीर, अध्वनः पारं यो योगस् तं च नोपैति । अत्र सार्थे । कश्चिद् अतिसमर्थोऽपि ॥१४॥
**क्रम-सन्दर्भः : **विपन्नः कश्चिन् मृतः ॥१४॥
**विश्वनाथः : **विपन्नान् मृतान् विहाय जातं जातं परिगृह्य चलन्न् अद्यापि नावर्तते, यतश् चलितस् तं परमेश्वरं प्रतीत्य्-अर्थः । तत्-प्राप्ति-साधन-योगम् उपायं भक्ति-ज्ञानादिकं पारं पार-प्रापकं न उपैति तत्र सार्थएषु मध्ये कश्चिद् अपि ॥१४॥
—ओ)०(ओ—
॥ ५.१३.१५ ॥
मनस्विनो निर्जित-दिग्-गजेन्द्रा
ममेति सर्वे भुवि बद्ध-वैराः ।
मृधे शयीरन् न तु तद् व्रजन्ति
यन् न्यस्त-दण्डो गत-वैरोऽभियाति ॥
**श्रीधरः : **तद् एवाह—मनस्विनः शूराः निर्जिता दिग्-गजेन्द्रा यैः । ममेयं भूर् ममेयम् एति भुवि निमित्त-भूतायां बद्धं वैरं यैः । न्यस्त-दण्डः सन्न्यासी यद् विष्णोः पदम् अभियाति तत् तु न व्रजन्ति ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद् एवाह—मनस्विनः शूराः निर्जितेत्य् अतिदूरवर्तिनो दिग्-गजेन्द्रान् अपि निर्जयन्ति स्म, न त्व् अतिनिकट-वर्तिनः एकादशेन्द्रिय-भटान् अपि इति व्यवहार एव, तेषां शौर्यं न तु परमार्थ इति भावः । यैः । ममेयं भूर् ममेयम् एति भुवि निमित्त-भूतायां बद्धं वैरं यैः । न्यस्त-दण्डः सन्न्यासी यद् विष्णोः पदम् अभियाति तत् तु न व्रजन्ति ॥१५॥
—ओ)०(ओ—
॥ ५.१३.१६ ॥
प्रसज्जति क्वापि लता-भुजाश्रयस्
तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः ।
क्वचित् कदाचिद् धरि-चक्रतस् त्रसन्
सख्यं विधत्ते बक-कङ्क-गृध्रैः ॥
**श्रीधरः : **सिंहावलोकनेन पुनर् भवाटवीम् एवानुवर्णयति । प्रसज्जत्य् आसक्तिं करोति । कीदृशः ? लतानां भुजाह् शाखास् तद्वत् सुकुमारा ये स्त्रीणां भुजास् तद्-आश्रयः सन् । तद्-आश्रया अव्यक्त-पदा अस्फुटाक्षराः कल-भाषिनो ये द्विजाः पक्षिणस् तत् तुल्येषु स्त्री-सङ्ग-प्रसक्तेष्व् अपत्येषु स्पृहा यस्य तादृशो भूत्वा हरि-चक्रं सिंह-समूहस् तत्-तुल्यात् काल-चक्र-निमित्ताज् जन्म-मरणादेस् त्रसंस् तत्-परिहाराय कैश्चित् प्रलोभितो बकादिवद् वञ्चकैः क्षुद्रैः क्रूरैश् च पाखण्डैः सह सख्यं करोति तेषु प्रविशति ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सिंहावलोकनेन पुनर् भवाटवीम् एवानुवर्णयति—प्रसज्जतीति । लतानां स्त्रीणां भुजान् स्पर्श-सुखान् आश्रयत इति सः । तद्-आश्रयेषु लतावलम्बिषु सुप्तत्वाद् अव्यक्त-पदेषु द्विजेषु पक्षिषु स्पृहा दिदृक्षा यस्य सः ।
पक्षे, भार्योत्सङ्ग-वर्तिनि अस्फुटाक्षर्-भाषिनि द्वाभ्याम् स्त्री-पुंसाभ्याम् जातत्वात् द्विजे बालके दर्शन-स्पर्शनादि-स्पृहा यस्य तादृशो भूत्वा कदाचित् काले क्वापि देशे स्वयम् एव वा कथम् अरे संसारं तरिष्यसीति दैवात् पाषण्डानां वाक्येन वा हरि-चक्रतः सिंह-सङ्घ-तुल्यात् काल-चक्रात् त्रसन् त्रस्यन् तत्-परिहाराय तैर् एव पाषण्डैर् एवं सुखेन तरिष्यसीति प्रलोभितो बकादिवद् वञ्चकैः कुबुद्धिभिः क्रूरैस् तैर् एव पाखण्डैः सह सख्यं करोति ॥१६॥
—ओ)०(ओ—
॥ ५.१३.१७ ॥
तैर् वञ्चितो हंस-कुलं समाविशन्न्
अरोचयन् शीलम् उपैति वानरान् ।
तज्-जाति-रासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षण-विस्मृतावधिः ॥
**श्रीधरः : **तैर् वञ्चितस् तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्मणानां कुलं पुनः प्रविशंस् तेषां शीलं प्रयश्चित्त-पूर्वकं पुनर् उपनयनाद्य्-आचारम् अरोचयन्न् अप्रियं पश्यन् वानर-तुल्यान् भ्रष्टाचारान् शूद्र-प्रायान् उपैति । तज् जाति-रासेन वानर-जाति-क्रीडया स्त्रिया मिथुनी-भूय परस्पर-मुखोद्वीक्षणेन विस्मृतो जीवितावधिर् मरण-कालो येन ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तैर् वञ्चितस् तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्मणानां कुलं प्रविशन्, तेषां शीलं प्रायश्चित्त-पूर्वकं पुनर् उपनयनाद्य्-आचारम् अरोचयन् स्वान् अभीप्सितं जानन् वानर-तुल्यान् भ्रष्टाचारान् शूद्र-प्रायान् लिङ्गिन उपैति तज्-जातौ रासेन भोजन-पान-स्त्री-सङ्गादि-स्वाच्छन्द्येन परस्पर-मुखोद्वीक्षणेन विस्मृतो जीवितावधिर् मरण-कालो येन सः ॥१७॥
—ओ)०(ओ—
॥ ५.१३.१८ ॥
द्रुमेषु रंस्यन् सुत-दार-वत्सलो
व्यवाय-दीनो विवशः स्व-बन्धने ।
क्वचित् प्रमादाद् गिरि-कन्दरे पतन्
वल्लीं गृहीत्वा गज-भीत आस्थितः ॥
**श्रीधरः : **द्रुमवत् केवल-दृष्टार्थेषु गृहेषु । व्यवायदीनः सुरतेच्छया कृपणः । एवं स्वस्य यद् बन्धनं प्राप्तं तस्मिन् विवशः परिहर्तुम् अशक्तः । पाठान्तरे तु वने संसारे चरन्न् इत्य् अर्थः । गिरि-कन्दरवद् अतिभयानके रोगादि-दुःखे पतन् कन्दर-स्थ-गज-तुल्यान् मृत्योर् भीतः सन् वल्ली-तुल्यं प्राचीनं कर्मावलम्ब्यावस्थितो भवति ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : कश्चिद् अन्यः सार्थो **द्रुम-तुल्येषु केवल-दृष्टार्थेषु गृहेषु व्यवाय-दीनः सुरतेच्छुत्वात् स्त्रिया पादेन ताड्यमानः, एवं स्वस्य यद् बन्धनं प्राप्तं, तस्मिन् विवशः परिहर्तुम् अशक्तः । चरन् वने इति पाठः । गिरि-कन्दरवद् अतिभयानके रोगादिषु दुःखे पतन् कन्दर-स्थ-गज-तुल्यान् मृत्योर् भीतः सन् वल्ली-तुल्यं प्राचीन-कर्मावलम्ब्यावस्थितो भवति ॥१८॥
—ओ)०(ओ—
॥ ५.१३.१९ ॥
अतः कथञ्चित् स विमुक्त आपदः
पुनश् च सार्थं प्रविशत्य् अरिन्दम ।
अध्वन्य् अमुष्मिन्न् अजया निवेशितो
भ्रम‘ जनोऽद्यापि न वेद कश्चन ॥
**श्रीधरः : **सार्थं प्रविशति यथा-पूर्वं प्रवृत्ति-मार्गे रमते । न वेद परम-पुरुषार्थम् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पुनश् चेति यथा-पूर्वं प्रवृत्ति-मार्गे रमते । न वेद न परमेश्वरं जानाति ॥१९॥
—ओ)०(ओ—
॥ ५.१३.२० ॥
रहूगण त्वम् अपि ह्य् अध्वनोऽस्य
सन्न्यस्त-दण्डः कृत-भूत-मैत्रः ।
असज्-जितात्मा हरि-सेवया शितं
ज्ञानासिम् आदाय तरातिपारम् ॥
**श्रीधरः : **त्वम् अपि अध्वनि निवेशित इत्य् अनुषङ्गः । अतोऽस्याध्वनः पारम् अतितर । असज्-जितात्मा विषयेष्व् अनभिनिवेशित-चित्तः सन् । हरि-सेवया शितं तीक्ष्णी-कृतम् ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वम् अप्य् अध्वनि निवेशित इत्य् अन्वयः । अतोऽस्याध्वनः पारम् अतितर याहि ॥२०॥
—ओ)०(ओ—
॥ ५.१३.२१ ॥
श्री-राजोवाच—
अहो नृ-जन्माखिल-जन्म-शोभनं
किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् ।
न यद् धृषीकेश-यशः-कृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥
**श्रीधरः : **अखिल-जन्मसु शोभनं नृ-जन्मैव । न परं श्रेष्ठं येभ्यो देवादि-जन्मभ्यस् तैर् अपि किम्, (अमुष्मिन् स्वर्गेऽपि जन्मभिः किम्,) न किञ्चित् । यद्येषु जन्मसु यत्र स्वर्गे वा वो महात्मनां समागमः प्रचुरो न भवति । हृषीकेशस्य यशसा कृतः शोधित आत्मा यैस् तेषाम् ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कथम् अहम् अकस्माद् एवं कृतार्थोऽभूवम् इति स्आश्चर्य्अं स-वितर्कम् आह—अखिल-जन्मसु मध्ये अहोऽद्भुतेऽस्मिन् मर्त्य-लोके नृ-जन्मैव शोभनम् । अमुत्र स्वर्गे न परं श्रेष्ठं येभ्यः, तैर् देवादि-जन्मभिः किम् ? यद् येषु वो महात्मनां समागमो न सम्भवेत् । कीदृशानाम् ? हृषीकेशस्य स्व-भक्त-सर्वेन्द्रियाकर्षकस्य हरेर् यशोभिर् एव कृता निर्मिता आत्मानो देह-मनो-बुद्धि-प्रयत्न-जीवात्मानो येषाम् ॥२१॥
—ओ)०(ओ—
॥ ५.१३.२२ ॥
न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर्
हतांहसो भक्तिर् अधोक्षजेऽमला ।
मौहूर्तिकाद् यस्य समागमाच् च मे
दुस्तर्क-मूलोऽपहतोऽविवेकः ॥
**श्रीधरः : **सन्ततम् उपासितैस् त्वत्-पदाब्ज-रेणुभिर् हतम् अंहो यस्य तस्याधोक्षजे निर्मला भक्तिर् भवतीति नैवाद्भुतम् । यस्य तव मुहूर्त-मात्र-भवात् समागम-मात्राद् अपि दुस्तर्केण बद्ध-मूलोऽपि ममाविवेको नष्टः ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु प्रचुर इत्य् उक्त्या किं स्वल्प-सङ्गस्यानर्थकत्वं ब्रूषे ? मैवम् अत्यौत्सुक्य-यन्त्रित एव तथा ब्रवीमीत्य् आह—नहीति । ब्रह्मेन्द्रादिभिर् अपि दुर्लभा भगवत्य् अमला भक्तिर् युष्मच्-चरण-धूलि-प्राप्ति-मात्रेणैव भवतीत्य् एतद् अपि न्आश्चर्य्अं, आश्चर्य्अं खल्व् एतादृश् यन् मद्-विधानां ज्ञान-लव-दुर्विदग्धानाम् अतिकूट-युक्ति-विप्लुत-धियां चेतः भक्ति-योगान् मुखीकरणं, तच् च मौहूर्तिकाद् एव समागमाद् यद्य् अभूत्, तर्हि प्रचुरस्य समागमस्य माहात्म्यं को वक्तुं क्षमताम् इति तत्र मया स्वौत्सुक्यम् एव व्यञ्जितम् इति भावः ॥२२॥
—ओ)०(ओ—
॥ ५.१३.२३ ॥
नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आ बटुभ्यः ।
ये ब्राह्मणा गाम् अवधूत-लिङ्गाश्
चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् ॥
**श्रीधरः : **ब्रह्म-विदः केन रूपेण विचरन्तीत्य् अज्ञानात् सर्वान् नमस्यति—नम इति । ये बटवः क्रीडारतत्वाद् अश्रद्धेय-धौरेयास् तान् अप्य् अभिव्याप्य सर्वेभ्यो नम इत्य् अर्थः । स्व-दृष्टान्तेन राज्ञां महद् अवज्ञां सम्भाव्याह—रज्ञां शिवम् अस्त्व् इति ॥२३॥
**क्रम-सन्दर्भः : **बटवः क्रीडा-रतत्वाद् अश्रद्धेय-ब्रह्म-विद इत्य् अर्थः ॥२३॥
**विश्वनाथः : **हन्त हन्त शिविकां वहंस् तत्र भवान् स्वं यदि नाज्ञापयिष्यत् तदा ममापराधिनः का गतिर् अभविष्यद् इति सभयं प्रणमति—नम इति । आ-बटुभ्यः ये बटवः क्रीडा-रतत्वाद् अश्रद्धेय-महिमानस् तान् अप्य् अभिव्याप्य, स्व-दर्शनेन राज्ञां महद् अपराधं सम्भाव्याह—राज्ञां शिवम् अस्त्व् इति ॥२३॥
—ओ)०(ओ—
॥ ५.१३.२४ ॥
श्री-शुक उवाच—
इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार।
**श्रीधरः : **उत्तरा माता यस्य, हे उत्तरा-मातः ! विगणयतो न गणयतः । अवमन्तर्य् अपि परम-करुणाकरत्वेन सिन्धु-पतये आत्म-तत्त्वम् उपदिश्य । निभृताः शान्ताः करणानाम् ऊर्मयो यस्मिन् स आशयो यस्य ॥२४॥
**क्रम-सन्दर्भः : **उत्तरा-मातर् इति विसर्गान्त-पाठ आर्ष-प्रयोगो मन्तव्यः । अर्हत्-पुत्रार्थे समासान्त-विधौ मातुर् मातजादेश-विधानात् ततोऽन्यत्र च कप्-प्रत्यय-विधानात् ॥२४॥
**विश्वनाथः : **“हन्त हन्त महा-भूरि-भाग एव रहूगणः, यत् तादृश-ब्रह्म-तेजसि शिविका-वाहनाद् अपराद्धोऽपि तद्-अनुग्रहामृत-वृष्ट्य्-अभिषिक्तः कृतार्थी-बभूव । अहम् अतिमन्द-भाग्यो विप्र-गले सर्पार्पणापराधाक्षमापणात् तद्-अभिशाप-विष-दग्धः । न जाने किम् अन्धं तमो यास्यामि” इति विषीदन्तं राजानम् आश्वासयति इत्य् एवम् इति ।
उत्तरा माता यस्येति । भो राजन् ! त्वन्-मातृ-गर्भे प्रविश्य ब्रह्म-तेजसः सकाशाद् भगवान् स्वयम् एव त्वां ररक्ष, स्वं दर्शयामास च पुनर् अपि साम्प्रतं ब्रह्म-तेजसो रक्षितुं माम् एतांश् च नारदादि-महा-मुनीन् प्रेर्य त्वद्-अन्तिकम् आनीय एतेषाम् अपार-कृपामृतेन त्वाम् अभिषिच्य भागवतामृतं मद्-द्वारा पाययन् स एव प्रभुर् ब्रह्म-तेजसोऽपि व्यर्थीचकार इति रहूगणात् तस्माद् भरताच् च मत्तश् च एतेभ्यो महा-मुनिभ्यश् च त्वदीयं सौभाग्यम् अतिमहत्तमं व्यञ्जयामास । तद् अपि किं विषीदसीति भावः ।
विगणयतस् तिरस्कुर्वतोऽपि परोऽनुभावो यस्मात् सः । सिन्धु-पतये तस्मै आत्म-तत्त्वम् उपदिश्य स-करुणं स-रोदनं निभृताः शान्ताः करणानाम् ऊर्मयो यस्मिन् स आशयो यस्य सः ॥२४॥
—ओ)०(ओ—
॥ ५.१३.२५ ॥
सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज
एवं हि नृप भगवद्-आश्रिताश्रितानुभावः।
**श्रीधरः : **सुजनात् तस्मात् सम्यग् अवगतं परमात्म-सतत्त्वं येन तथा-भूतः संस् तदानीम् एव देहे आत्म-मतिं च विससर्ज । हे नृप ! भगवद्-आश्रितो भरतस् तद्-आश्रितो रहूगणो यस् तस्यानुभावः सद्यो देहाहङ्कार-त्यागः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सुजनात् श्रीमद्-भरतात् आत्मनि स्वस्मिन् या अविद्या अनादित एव प्रवृत्ता, तया अध्यारोपितां देहे आत्म-मतिम् आत्म-बुद्धिम् । भगवद्-आश्रितो भरतस् तद्-आश्रितो रहूगणः ॥२५॥
—ओ)०(ओ—
॥ ५.१३.२६ ॥
राजोवाच—
यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-विषयो नाञ्जसाव्युत्पन्न-लोक-समधिगमः । अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति।
**श्रीधरः : **परोक्षेण वणिक्-सार्थ-रूपकेण । आर्याणां विवेकिनां मनीषयैव दस्यु-स्थानीयानीन्द्रियाणि गो-मायु-स्थानीयान्य् अपत्य्-आदीनीत्य् एवं कल्पित-विषयः । अव्युत्पन्नस्य तु लोकस्य जनस्य सम्यग् अधिगमो न भवति । अथातस् तद् एतद् एव भवाध्व-रूपं समवेतानुकल्पेन प्रस्तुते तत्-तद्-अनुरूपार्थोपकल्पनेन ॥२६॥
**क्रम-सन्दर्भः : **इति राजोवाचेत्य् अन्वयः ॥२६॥
**विश्वनाथः : **आर्यस्यातिविदुष एव मनीषया उत्तम-बुद्ध्या कल्पित-विषय-दस्यु-स्थानीयेन्द्रिय-गोमायु-स्थानीयापत्यादयो यस्य सः । दुरधिगमं दार्ष्टान्तानाम् अनुक्तत्वात् । समवेतेन समुचितेन अनुकल्पेन दार्ष्टान्त-वाचक-शब्देन ॥२६॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदश पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ब्राह्मण-रहूगण-संवादे
त्रयोदशोऽध्यायः ।
॥ ५.१३ ॥
(५.१४)