॥ ५.१२.१ ॥
रहूगण उवाच—
नमो नमः कारण-विग्रहाय
स्वरूप-तुच्छीकृत-विग्रहाय ।
नमोऽवधूत द्विज-बन्धु-लिङ्ग-
निगूढ-नित्यानुभवाय तुभ्यम् ॥
**श्रीधरः : **
द्वादशे पुनर् आपृष्टः सन्देहेन मही-भृता ।
स योगी सर्व-सन्देहान् अपानुदद् इतीर्यते ॥
कारणम् ईश्वरस् तस्यैव लोक-संरक्षणार्थो विग्रहो देहो यस्य । स्वरूपेण परमानन्द-प्रकाशेन तुच्छी-कृतो विग्रहो येन । हे अवधूत योगेश्वर ! द्विज-बन्धोर् लिङ्गेन वेषेण निगूढो नित्यानुभवो येन तस्मै नमः ॥१॥
क्रम-सन्दर्भः : स्वरूपेण तद्-अनुभवेन तुच्छी-कृतो दण्ड-रूपो विग्रहो येन ॥१॥
**विश्वनाथः : **
मिथ्यात्वेऽप्य् अस्य विश्वस्य सत्याः कृष्णस्य षड्-गुणाः ।
द्वादशे कथिताः धाम भक्त्य्-आद्या अपि ते ततः ॥
कारणम् ईश्वरस् तस्यैव लोक-रक्षणार्थो नित्यो विग्रहो देहो यस्य तस्मै । स्वरूपेण स्वानन्दानुभवेन तुच्छीकृत-विग्रहाः शास्त्र-कृतां विवादा येन तस्मै । हे अवधूत ! ॥१॥
—ओ)०(ओ—
॥ ५.१२.२ ॥
ज्वरामयार्तस्य यथागदं सत्
निदाघ-दग्धस्य यथा हिमाम्भः ।
कुदेह-मानाहि-विदष्ट-दृष्टेः
ब्रह्मन् वचस् तेऽमृतम् औषधं मे ॥
**श्रीधरः : **विशेषतः प्रष्टुं तद् वाक्यम् अभिनन्दति । ज्वर एव आमयो रोगस् तेन आर्तस्य यथा सत् स्वादु अगदम् औषधम् । यथा च निदाघेन दग्धस्य सन्तप्तस्य हिमाम्भः शीतलम् उदकं गङ्गोदकं वा । तथा हे ब्रह्मन् ! कुत्सिते देहे यो मानोऽहङ्कारः, स एव अहिः, तेन विशेषेण दष्टा दृष्टिर् विवेक-लक्षणा यस्य, तस्य मे तव इदं वचोऽमृत-तुल्यम् औषधम् ॥२॥
**क्रम-सन्दर्भः : **हे ब्रह्मन् ते तव वचः कुदेहाभिमानाहि-दंश-व्याप्त-बुद्धि-पर्यन्तस्य ममौषधम् । तत्र दृष्टान्तः—जरेति । क्वचित् तद्-व्यभिचार-तर्कात् पुनर् ड्र्ष्टान्तः—निदाघेति । तत्राप्य् अपरितोषात् अमृतम् इति लुप्तोपमेयम् अमृतम् इवेत्य् अर्थः ॥२॥
**विश्वनाथः : **कुत्सिते देहे अभिमान एवाहिस् तेन विशेषतो दष्टा दृष्टिर् यस्य तस्य मम । हे ब्रह्मन्! ते वचः अगदम् औषधम् । तत्र दृष्टान्तः—ज्वरेति । क्वचित् तद्-व्यभिचार-तर्कात् । पुनर् दृष्टान्त निदाघेति । तत्राप्य् अपरितोषात् अमृतम् अमृतम् इवेत्य् अर्थः ॥२॥
—ओ)०(ओ—
॥ ५.१२.३ ॥
तस्माद् भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चाद् अधुना सुबोधम् ।
अध्यात्म-योग-ग्रथितं तवोक्तम्
आख्याहि कौतूहल-चेतसो मे ॥
श्रीधरः : मम संशय-विषयम् अर्थं पश्चात् प्रक्ष्यामि । अधुना तावत् त्वद्-उक्तं वचोऽध्यात्म-योगेन ग्रथितं दुर्बोधं सुबोधं यथा भवत्य् एवं व्याख्याहि । कौतूहल-युक्तं चेतो यस्य तस्य मम ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : मम संशय-**विषयम् अर्थं पश्चात् प्रक्ष्यामि । अधुना तावत् त्वद्-उक्तं वचोऽध्यात्म-योगेन ग्रथितं दुर्बोधं सुबोधं यथा भवत्य् एवं व्याख्याहि । कौतूहल-युक्त-मनसो मम कृते ॥३॥
—ओ)०(ओ—
॥ ५.१२.४ ॥
यद् आह योगेश्वर दृश्यमानं
क्रिया-फलं सद् व्यवहार-मूलम्
न ह्य् अञ्जसा तत्त्व-विमर्शनाय
भवान् अमुष्मिन् भ्रमते मनो मे ॥
**श्रीधरः : **त्वयोदितं व्यक्तम् अविप्रलब्धम् [५.१०.९] इत्य्-आदिना भार-वहनादि-क्रिया तत्-फलं च श्रमादि-प्रत्यक्षादिभिर् दृश्यमानं सद् अबाधितम् अपि व्यवहार-मात्र-मूलम् । यद् वा, सतोऽबाधित-व्यवहारस्य मूलं कारणम् अपि, न ह्य् अञ्जसा तत्त्व-विमर्शनाय क्षमम् इति भवान् यद् आह—अमुष्मिन्न् अर्थे मम मनो भ्रमति ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हे योगेश्वर ! यद् भवान् आह, दृष्टः श्रमः कर्मत इत्य्-आदि-मद्-उक्तौ भार-वहनादि-क्रिया तत्-फलं च श्रमादि प्रत्यक्षादिभिर् दृश्यमानं सत् विद्यमानं व्यवहार-मात्र-मूलं तत्त्व-विमर्शनाय दृष्टान्तादिनापि तत्त्व-ज्ञानम् उपकर्तुं न क्षमम् इति । अमुष्मिन् त्वद्-वचने भ्रमते स्पष्टस्याभिप्रायस्याप्राप्त्या मनो भ्रमति ॥४॥
—ओ)०(ओ—
॥ ५.१२.५ ॥
ब्राह्मण उवाच—
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः
तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा-
जानूरु-मध्योर-शिरोधरांसाः ॥
**मध्वः : **यस्मान् मूल-कारण-भूतो विष्णुर् एव । अतो मुख्यं सर्व-कारणत्वं तस्यैव । मूलाश्रय-विवक्षा यदि न स्यात्, कुतः पृथिव्यां चलतीत् व्यवहारः, यतो वान्तराश्रया बहवः सन्त्य् अन्ध्राद्याः ॥५-६॥
**श्रीधरः : **अबाधितत्वम् असिद्धम् इत्य् आह—हे पार्थिव, यः पार्थिवो विकारः स एव कस्य हेतोः कस्माच् चित्-कारणात् पृथिव्यां चलन्न् अयं भार-वाहकादिर् जनो नाम प्रसिद्धः । यस् तु न चलति स पाषाणादिर् इत्य् एतावान् एव भेदः । तस्य च जडत्वान् न भारः श्रमश् च । किं च, भवेद् एवं यदि श्रमस्याश्रयो निरूप्येत, न त्व् एतद् अस्ति । अवयव-व्यतिरेकेण श्रमास्पदस्यावयविनोऽनिरूपणाद् इत्य् आशयेनाह । तस्यापि पृथ्वी-विकारस्यापि । अङ्घ्र्योर् अध्य् उपर्य् उपरि गुल्फादयः । उरसः स-लोप आर्षः ।
**क्रम-सन्दर्भः : **तत्र श्रीभगवदाख्यं तत्त्वमेव सर्वसाधकं स्वातन्त्र्येण तु किम् अपि रूपयितुं न शक्यमित्याह । अयम् इति सप्तभिः ।
**विश्वनाथः : **पूर्वं स्व-मतेन भङ्ग्या दत्तम् अप्य् उत्तरम् अबुद्ध्वैव पुनः पृच्छन्तं राजानम् अवजानन्न् इव भो राजंस् तव व्यवहारोऽयम् अप्रमाणे एवेति मतान्तरम् आश्रित्य प्रसिद्धः पार्थिवः पृथिव्या विकारः कस्यापि हेतोश् चलन् भवति, यस् तु न चलति, स तु पाषाणादिर् इत्य् एतावान् एव भेदः । तस्यापि पार्थिवस्य अङ्घ्री पृथिव्याः उपरिस्थौ अङ्घ्र्योर् अधि उपर्य् उपरि गुल्फादयः । उरसः स-लोप आर्षः । अंसे स्कन्धे दार्वी दारु-विकारः शिविका यस्यां सौवीर-राजः इत्य् अपदेशो नाम मात्रं यस्य सः । पार्थिवो विकार आसे यस्मिन् भवान् राजास्मीत्य् अभिमानेनैवास्ते, न तु वस्तुतः । अत्र पृथिव्य्-आदीनां शिविकान्तानां भार-वहनात् किं सर्वेषां श्रमः उत कस्यचित् कस्यचित्, न तावत् सर्वेषां पृथिव्याः शिविकायाश् च श्रमादर्शनात् अङ्घ्रादीनां श्रम उपलभ्यते इति चेन् न शिविकाया अभावे गुल्फादि-भार-वाहिनाम् अपि तेषां श्रमानुपलब्धेः, अङ्घ्र्य्-आद्य्-अवहविनः शिविकावहनात् श्रम इति चेत् अवयवेभ्यः पृथग् अवयविनः श्रमाश्रयस्यानिरूपणात् ॥५॥
—ओ)०(ओ—
॥ ५.१२.६ ॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीर-राजेत्य् अपदेश आस्ते
यस्मिन् भवान् रूढ-निजाभिमानो
राजास्मि सिन्धुष्व् इति दुर्मदान्धः ॥
**श्रीधरः : **शिबिकायाम् अप्य् अवयवी नास्ति, त्वय्य् अपि नास्ति तद् आह । सौवीर-राजेत्य् अपदेशो नाम-मात्रं यस्य स पार्थिवो विकार आस्ते । राजेति सन्धिर् आर्षः । यस्मिन् भवान् निरूढात्माभिमानः । सिन्धुषु राजास्मीति दुर्मदेनान्धः सन् ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अस्तु नास्तु वा अवयवी, भार-वाहिनः श्रम-दुःखानुभूयत एवेति चेद् एतद् अपि नैकान्तिकम्, अतिसुकुमार्या अपि रत्नालङ्कारान् वहन्त्याः स्व-बालकं च वहन्त्याः श्रम-दुःखानुपलब्धेस् तस्माद् अभिमान-विशेषेणैव दुःखं सुखं च, यथा राजास्मीति दुर्मदेन दुरभिमान-मत्ततया अन्धः किम् अपि न पश्यसीत्य् एतद् एव तव सुखं, निरभिमानानां तु न ते दुःख-सुखे इति भावः ॥५-६॥
—ओ)०(ओ—
॥ ५.१२.७ ॥
शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्ध-सभासु धृष्टः ॥
**मध्वः : **एवं मूल गोप्तृत्वं विष्णोर् एव ॥७॥
**श्रीधरः : **शोच्यान् इमान् विष्ट्या निगृह्णन् निष्कृपो वर्तसे, अतो मिथ्यैव गोप्ताऽस्मीति श्लाघमानो महतां सभासु न शोभसे । यतो धृष्टः ॥७।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ज्ञानाभावेऽपि राज्ञः प्रजा-शासनं धर्म एवेति यद् उक्तं तत्राह—शोच्यान् इति । विष्ट्या निगृह्णन् इति ईदृशम् एव निर्दयस्य तव प्रजा-शासन-धर्म एव, धृष्ट इति तद् अप्य् अच्युतस्य किङ्करोऽस्मीति जिज्ञासुर् अस्मीति कत्थस इति भावः ॥७॥
—ओ)०(ओ—
॥ ५.१२.८ ॥
यदा क्षिताव् एव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम्
तन् नामतोऽन्यद् व्यवहार-मूलं
निरूप्यतां सत्-क्रिययानुमेयम् ॥
**श्रीधरः : **न चोत्तरोत्तरावयव-भारः पूर्व-पूर्वावयवानां भवेद् इति वाच्यम्, तेषाम् अप्य् अनिरूपणाद् इत्य् आशयेनाह—यदेति । निष्ठां नाशं प्रभवम् उत्पत्तिं विदाम विद्मस् तत् तदा क्षितेर् अन्यस्य विकारस्याभावान् नाम-मात्राद् अन्यद् व्यवहारस्य मूलं कारणम् अर्थ-क्रियया सद् इत्य् अनुमेयं निरूप्यताम् । तथा च श्रुतिः—वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अभिमान-शून्यस्य मुक्तस्यापि प्रारब्ध-सुख-दुःख-भोग-चरणारविन्दात् तवापि भार-वहन-क्रिया-फलस्य श्रमस्य प्रत्यक्षादिभिर् दृश्यमानत्वेनाबाधितत्वाद् व्यवहारस्याप्रामाण्यं त्वद्-उक्तं न घटत इति चेत्, सत्यं, मुक्तानां माद्दृशानां बाधितानुवृत्त्यैव दुःख-सुखाभासौ, यथा स्वप्नात् प्रबुद्धस्य जनस्य स्वप्न-दृष्ट-सर्पस्य मिथ्यात्व-ज्ञानेऽपि कियत्-क्षण-पर्यन्तं भय-कम्पाव् अकिञ्चित्कराव् एव, अप्रबुद्धस्य स्वाप्निकः सर्पः सत्य एव भाति, यथा युष्माकं व्यवहारस् तद् अपि व्यवहारस्यासत्यत्वं युक्त्या दर्शयामि शृण्व् इत्य् आह—यदेति । चराचरस्य जगतः क्षिताव् एव निष्ठां नाशं प्रबवम् उत्पत्तिं च विदाम विद्मस् तत् तस्मात् सर्वेषां विकाराणां क्षिति-भिन्नत्वाभावात् नाम-मात्राद् अन्यद् व्यवहारस्य मूलं कारणम् अर्थ-क्रियया सदेत्य् अनुमेयं निरूप्यतां यदि ते युक्तिः प्रतिभातीति भावः । तथा च श्रुतिः—वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति ॥८॥
—ओ)०(ओ—
॥ ५.१२.९ ॥
एवं निरुक्तं क्षिति-शब्द-वृत्तम्
असन् निधानात् परमाणवो ये
अविद्यया मनसा कल्पितास् ते
येषां समूहेन कृतो विशेषः ॥
**मध्वः : **आश्रयत्वात् क्षितिर् इति निर्वचने क्षिति-शब्दोऽपि तस्मिन्न् एव । परमाणु-मात्रायाः पृथिव्या अयुक्तत्वात् परमाणवोऽपि अस्याविद्ययैवाधारत्वेन कल्पिताः ॥९॥
**श्रीधरः : **तर्हि क्षितेः सत्यता स्यात् तत्राह । एवं क्षिति-शब्दस्यापि वृत्तं वर्तनम् अर्थं विनैव निरुक्तम् । यद् वा, क्षिति-शब्दस्य वृत्तं यस्मिंस् तद् अपि मिथ्यात्वेन निरुक्तम् इत्य् अर्थः । कुतः । असत्सु सूक्ष्मेषु परमाणुषु स्व-कारण-भूतेषु निधानाल् लयात् । अतः परमाणु-व्यतिरेकेण क्षितिर् नास्तीत्य् अर्थः । परमाणवस् तर्हि सत्याः स्युस् तत्राह । ते मनसा कार्यानुपपत्त्या वादिभिः कल्पिताः । कल्पनाबीजम् आह । येषां समूहेन विशेषः कृतस् तेषां समूहः पृथ्वी-बुद्ध्यालम्बनम् इत्य् अर्थः । अवयविनो निरस्तत्वात् समूह-ग्रहणम् । तथापि सत्याः स्युः । न । अविद्यया प्रपञ्चस्य भगवन्-मायाविलसितत्वाद् अज्ञानेन कलिताः ।
**क्रम-सन्दर्भः : **अविद्ययेति । यस्य समूह-रूपस्य विशेषस्यान्यथानुपपत्त्यास् तद्-धेतवः परमाणवः कल्प्यन्ते । तस्याप्य् अवयविवन् निरूपणाशक्यत्वात् तेऽप्य् अज्ञानेनैव कल्पिता इत्य् अर्थः ॥९॥
**विश्वनाथः : **तर्हि क्षितेः सत्यता स्यात् ? तत्राह—एवं क्षिति-शब्दस्यापि वृत्तं वर्तनं सत्ता नाम-मात्रत एवेत्य् अर्थः । कुतः ? असत्सु सूक्ष्मेषु परमाणुषु स्व-कारणेषु निधानाद् अन्वयात् । ततः परमाणु-व्यतिरेकेण क्षितिर् नास्तीत्य् अर्थः । परमाणवस् तर्हि सत्याः स्युस् तत्राह—अविद्यया अज्ञानेनैव हेतुना मनसा ते कार्यानुपपत्त्या कल्पिता वादिभिर् अतोऽसत्या एवेत्य् अर्थः । कल्पना-बीजम् आह—येषां समूहेन विशेषः पृथिवी-शब्द-वाच्योऽर्थः कृतः । अवयविनो निरस्तत्वात् समूह-ग्रहणम् ॥९॥
—ओ)०(ओ—
॥ ५.१२.१० ॥
एवं कृशं स्थूलम् अणुर् बृहद् यद्
असच् च सज् जीवम् अजीवम् अन्यत्
द्रव्य-स्वभावाशय-काल-कर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥
**मध्वः : **एवं सर्वं तथा प्रकृतत्वयै कल्पितं विष्णोर् अन्यत् । एवं प्रकृत्य्-आधारः स्वयम् अनन्याधारोर् विष्णुर् एव । अतः सर्व-शब्दाश् च तस्मिन्न् एव ।
राजा गोप्ताश्रयो भूमिः शरणं चेति लौकिकः ।
व्यवहारो न तत् सत्यं तयोर् ब्रह्माश्रयो विभुः ॥
गोप्त्री च तस्य प्रकृतिस् तस्या विष्णुः स्वयं प्रभुः ।
तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥
अतः सर्वाश्रयश् चैव गोप्ता च हरिर् ईश्वरः ।
सर्व-शब्दाभिधेयश् च शब्द-वृत्तेर् हि कारणम् ॥
सर्वान्तरः सर्व-बहिर् एक एव जनार्दनः ।
शिरसोधारता यद्वद् ग्रीवायास् तद्वद् एव तु ॥
आश्रयत्वं च गोप्तृत्वम् अन्येषाम् उपचारतः ॥१०॥
**श्रीधरः : **एवम् अन्यद् अपि कृशत्वादि-धर्मकं बुद्ध्या प्रतीतं द्वितीयं द्वैतं द्रव्यादिनाम् नोपलक्षितयाऽजया मायया कृतम् अवेहि । तत्र कृशं ह्रस्वं स्थूलं तत् प्रति-योगि । अणुबृहतोः पृथग् उपादानात् । असत् कारणम् । सत् कार्यम् । जीवं चेतनम्, अजीवं जडम्॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एवम् अन्यद् अपि कृशत्वादि-धर्मकं द्वितीयं द्वैतं द्रव्यादिनाम् उपलक्षितयाजया मायया कृतम् अवेहि । तत्र कृशं सूक्ष्मं, अणुर् अतिसूक्ष्मं, बृहत् अतिस्थूलं, असत् कारणं, सत् कार्यं, जीवं स-चेतनं, अजीवम् अचेतनम् ॥१०॥
—ओ)०(ओ—
॥ ५.१२.११ ॥
ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं
यद् वासुदेवं कवयो वदन्ति ॥
**श्रीधरः : **तर्हि किम् ? तद् आह—ज्ञानं सत्यम् । व्यावहारिक-सत्यत्वं व्यावर्तयति—परमार्थम् । वृत्ति-ज्ञान-व्यवच्छेदार्थानि षड्-विशेषणानि । विशुद्धम्, तत् त्व् अविद्यकम् । एकम्, तत् तु नाना-रूपम् । अनन्तरं त्व् अबहिर् बाह्याभ्यन्तर-शून्यम्, तत् तु विपरीतम् । ब्रह्म परिपूर्णम्, तत् तु परिच्छिन्नम् । प्रत्यक्, तत् तु विषयाकारम् । प्रशान्तं निर्विकारम्। तद् एवं स्वरूप-ज्ञानं सत्यम् इत्य् उक्तम् । कीदृशं तत् ? ऐश्वर्यादि-षड्-गुणत्वेन भगवच्-छब्दः संज्ञा यस्य । यच् च ज्ञानं वासुदेवं वदन्ति ॥११॥
**क्रम-सन्दर्भः : **एवं तर्क-मय-स्वतन्त्र-कारण-समूह-वाद-मायावयवि-खण्डनाय तर्कः प्रयोजितः । अथ शब्द-मय-स्व-मत-स्थापनाय सर्वत्र परमात्मैक-त्वावयवित्वं वदंस् तत्र तारतम्येन मत-द्वयम् आह—ज्ञानम् इति । यद् एव कवयः पूर्वोक्त-निर्विशेष-ज्ञान-वादिभ्योऽपि शब्द-प्रमाणे निपूणा भगवच्-छब्द-सञ्ज्ञम् आहुः श्रुत्या युक्त्या च स-शक्तित्वेनैव सिद्धत्वात् । तथैव सर्वाश्रयत्वेन दर्शयति—वासुदेवम् इति ॥११॥
**विश्वनाथः : **तर्हि किं सत्यम् इति चेत् पूर्वोक्तं तत्त्वम् एव शब्द-प्रमाण-वेद्यं तच् च तत्त्वं वदन्ति तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् [भा।पु। १.२.११] इति प्रथम-स्कन्धोक्तवद् एवाह—ज्ञानं सत्यम् । कीदृशम् ? विशुद्धं ज्ञानातीतं परमोऽर्थो मोक्षादिको यस्मात्, तद् एकम् अद्वयम् अनन्तरम् अबहिर् बाह्यान्तर-शून्यं व्यापकम् इत्य् अर्थः । तच् च ज्ञानं ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते[भा।पु। १.२.११] इत्य् उक्तवद् एवाह—ब्रह्म ब्रह्म-शब्द-वाच्यं निर्विकल्पकं ज्ञानिनाम् उपास्यं, प्रत्यक् प्रशान्तं परमात्म-शब्द-वाच्यं योगिनाम् उपास्यं, प्रशान्तम् इति जीवात्म-व्यावृत्त्य्-अर्थम् । भगवच्-छब्दः संज्ञा यस्य तद्-भक्तानाम् उपास्यं, यत् त्रि-रूपम् इदम् अपि वासुदेवं वसुदेव-नन्दनं वदन्ति । पूर्णं ब्रह्म सनातनम् इति कृष्णाय परमात्मने इति ततस् तु भगवान् कृष्ण इत्य्-आदिभ्यः । तत्रापि, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता ] इति, वासुदेवो भगवताम् इत्य्-आदिभ्यो वसुदेव-नन्दनस्यैव परम-पूर्णत्वम् ।
अत्र भग-शब्दस्यैश्वर्य-वाचित्वाद् ऐश्वर्यस्य चेशितव्यापेक्षितत्वाद् ईशितव्यानां मायिकानां चोक्त-युक्त्या मिथ्यात्वाद् भक्तास् तद्-धाम-वासिन एव ईशितव्या नित्या अवगतास् तेषां तद्-धाम्नश् च नित्य-सत्यत्वं भगवत इव शब्द-प्रमाण-सिद्धम् एव प्रथम-स्कन्धादौ प्रपञ्चितम् एव, तथैव मत्-सेवायां तु निर्गुणा इति, मन्-निकेतं तु निर्गुणम् इत्य्-आदिभिर् एकादशे भक्ति-सम्बन्धि-वस्तु-मात्रस्यैव नित्य-सत्यत्वं प्रपञ्चयिष्यते च । प्रकरणाभिप्रायश् चायं भो राजन्, युष्माकं प्रत्यक्षादि-प्रमाण-सिद्धस्यापि व्यवहारस्य माया-जीवस्य माया-रचितस्य नित्याः आविर्हिताः क्वापि तिरोहिताश् च इत्य् अनेन स्व-मतेन काल-देशादि-परिच्छिन्नत्वान् नश्वरत्वम् अङ्गीकुर्वता काल-देशाद्य्-अपरिच्छिन्ने तत्त्वे चिद्-घन-वस्तुनि व्यवहारो वैजात्याद् एव नाश्रियते इत्य् उक्तम् । तद् अपि व्यवहारम् एव पुनः पुनर् उत्थापयसि चेद् एनम् अन्ये वादिनो मिथ्यैवाचक्षत इति तन् मतम् उदाहृतम् । शब्द-प्रमाण-सिद्धे तत्त्वे तु तेऽपि न विप्रतिपद्यन्त इत्य् अन्ते ज्ञानं विशुद्धम् इति पद्यम् उक्तम् इति ।
ननु, देहेन्द्रियादि-व्यापारः श्री-कृष्णस्यैक-निष्ठो भक्तिर् इति भक्तिर् लक्षिता । तस्याश् च लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् [भा।पु। ३.२९.११] इति भगवद्-उक्तेर् निर्गुणत्वम् अवसीयते तच् च परिणाम-वादे कार्यस्य सत्त्वात् । प्राकृत-देहेन्द्रियादीनाम् एव भक्ति-संसर्गेणाप्राकृतत्वं स्पर्श-मणि-न्यायेनैव साधु बुद्ध्यामहे । विवर्त-वादे तु कार्य-मात्रस्यैवासत्त्वात् देहेन्द्रियादीनां मिथ्या-भूतत्वाद् भक्तेः स्थितिर् एव नास्ति कुतस् तस्या निर्गुणत्वं घटतां, तथा हि निर्गुणां भक्ति-मयम् उपदेष्टव्य इति गुरूपदेश-काले उपदेष्टव्य-जनस्य मिथ्या-भूतत्वाद् आकाश-क्षेत्रे बीज-वपनम् इव गुरूपदेश एव तावन् न भवेत् । कुतः कृष्ण-भक्तिः, कुतस्तरां तद्-अभ्यासेन प्रेमोदयः, कुतस्तमां तेन भगवद्-वशीकार इति । सत्यं महाचिन्त्य-शक्तौ भगवति काप्य् असम्भावना न भावनीया । यद् उक्तं स्वयं भगवतैव—
एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ इति ।
अस्यार्थः । यत् यतः अनृतेन मिथ्या-भूतेनापि मर्त्येन मर्त्य-शरीरेण माम् ऋतं सत्यं परम-सत्यम् एति प्राप्नोति । यद् वा, मा माम् अमृतं परमानन्द-स्वरूपं सत्यम् अनृतेनापि मर्त्येन मरण-धर्मवता देहेन्द्रिय-प्राणादिना पत्र-पुष्प-गन्ध-दीप-विविध-नैवेद्य-छत्र-चामराद्य्-उपचारेण च यद् आप्नोति । एषैव बुद्धिमतां बुद्धिर् एषैव मनीषिणां परम-परामर्शवतां मनीषा विचार इति । प्राप्ति-प्रकारश् च स्वयं भगवतैवोक्तो यथा –
मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भूयाय च कल्पते वै ॥ [भा।पु। ११.२९.३४]
अस्यार्थः—यदा मर्त्यस् त्यक्त-समस्त-कर्मा गुरूपदेश-काले त्यक्त-समस्त-वर्णाश्रम-धर्म-कामनो मयि श्री-गुरु-रूपे निवेदितौ आत्मानौ अहन्तास्पद-ममतास्पदे येन सः। योऽहं ममास्ति यत् किंचिद् इह-लोके परत्र च, तत् सर्वं भवतो नाथ चरणेषु समर्पितम् इति व्यवसायवान् भवति, तदा स जनो मिथ्या-भूतोऽपि मे मया विचिकीषितः स्यात् विशिष्टः कर्तुम् इष्टः स्यात् । निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इति मद्-भक्तेर् निस्त्रैगुण्य एव स्याद् इत्य् अर्थः । स हि माया-कार्यत्वान् न नश्वरो सत्यः । नाप्य् अज्ञान-कार्यत्वान् मिथ्या-भूतः ।
किं च, मया विशिष्टः कृतः स्याद् इत्य् अप्रयुज्य विचिकीर्षित इति सन् प्रत्यय-प्रयोगान् निर्गुणः स्यात् । ततो मिथ्या-भूत-वस्तुभिः सह तस्य व्यवहारो न स्यात्, तत्-पूर्वं तु यथा-योगं व्यवहारस् तैश् च सह लभ्यते । अयम् अर्थः—अचिन्त्य-शक्त्या भक्त्य्-उपदेश-काल एव तस्य गुणातीतानि देहेन्द्रिय-मनांसि मया भक्ति-माहात्म्य-दर्शनार्थम् अलक्षितम् एव सृज्यन्ते। मिथ्या-भूतानि तान्य् अतलक्षितम् एव लयं यान्ति । यथा,
नैवं-विधः पुरुषकार उरुक्रमस्य
पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् ।
चित्रं विदूर-विगतः सकृद् आददीत
यन् नाम-धेयम् अधुना स जहाति तन्वम् ॥ इति ।
अस्यार्थः—एवं-विधः प्रिय-व्रत-कर्तृकः सप्त-समुद्र-निर्माण-प्रपञ्च इव पुरुषकारो न चित्रम् । चित्रं खल्व् एतद् एव यद् विदूर-विगतोऽन्त्यजोऽपि यस्योरुक्रमस्य नाम-धेयं सकृद् अप्य् आददीत, अधुना तत्-क्षण एव तन्वं तनुं विजहातीति, तदानीं तनोर् दृश्यमानत्वेऽपि प्रारब्ध-कर्म-संवलित-तनु-त्यागो अलक्षित एवेत्य् अर्थः । ततश् च, तदा अमृतत्वं मरण-धर्माभावं प्रतिपद्यमानः तदानीम् एव प्राप्नुवन्, मया सह आत्म-भूयाय आत्म-भावाय आत्मनः स्वस्य स्थित्यै कल्पते । यत्राहं तिष्ठामि, तत्रैव सोऽपि मत्-सेवार्थं तिष्ठतीत्य् अर्थः । एवं च जगत्य् अस्मिन् यानि यानि वस्तूनि मिथ्या-भूतान्य् उपलभ्यन्ते, तेषाम् एव भक्ति-सम्पर्कान् मिथ्या-भूतत्वं प्रविलाप्य, भगवता स्व-भक्तेच्छानुकूलेन परम-सत्यत्वम् एव तत्-क्षण एव सृज्यते । किम् अशक्यम् अचिन्त्य-शक्तेर् भगवत इति । अत एव मत् सेवायां तु निर्गुणा [भा।पु। ११.२५.२७] इति, मन्-निकेतं तु निर्गुणम् [भा।पु। ११.२५.२५] इत्य्-आदिकानि भगवद्-वाक्यानि सङ्गच्छन्ते ।
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।
प्रकृतिभ्यः परं यत् तु तद् अचिन्त्यस्य लक्षणम् ॥
इत्य् उद्यम-पर्व-वचनं भाष्य-कारेणापि धृतम् । तत्र भावा इति बहु-वचनेनाद्वैत-भङ्गो न ध्येयः, तेसाम् ऐक्याद् इति सर्वम् अवदातम् ॥११॥
—ओ)०(ओ—
॥ ५.१२.१२ ॥
रहूगणैतत् तपसा न याति
न चेज्यया निर्वपणाद् गृहाद् वा ।
न च्छन्दसा नैव जलाग्नि-सूर्यैर्
विना महत्-पाद-रजो-भिषेकम् ॥
**श्रीधरः : **एतत् प्राप्तिस्तु महत्-सेवां विना न भवतीत्य् आह । हे रहूगण, एतज् ज्ञानं तपसा पुरुषो न याति । इज्यया वैदिक-कर्मणा । निर्वपणाद् अन्नादि-संविभागेन गृहाद् वा तन् निमित्त-परोपकारेण । छन्दसा वेदाभ्यासेन । जलाग्न्य्-आदिभिर् उपासितैः ।
**कृष्ण-सन्दर्भः : **एतद्भगवत्सञ्ज्ञं तत्त्वं छन्दसा ब्रह्मचर्येण गृहाद्गार्हस्थ्येन तपसा वानप्रस्थेन निर्वपणात् सन्न्यासात् । इज्यया तत्र तत्र तत्तद्देवतोपासनया तस्याम् अपि विशेषः जलाग्निसूर्यैरिति । महत्पादरजोऽभिषेकं विनेति । तस्यैव सर्वशुद्धिहेतुत्वेन योग्यताहेतुत्वात् ।
**विश्वनाथः : **एतत् प्राप्तिश् च महत्-कृपाविर्भूततया भक्त्या विना न भवतीत्य् आह द्वाभ्याम् । हे रहूगण, एतद् उक्त-लक्षणं त्रिविधं ज्ञानं तप-आदिभिर् न प्राप्नोति । तत्र तपश् चित्तैकाग्र्यम् इज्या वैदिकं कर्म निर्वपणम् अन्नादि-संविभागः । गृहं तन्-निमित्त-परोपकारादि, छन्दो वेदाभ्यासः । जलाग्नि-सूर्यास् तत्-करणक-तपश्-चरणानि ॥१२॥
—ओ)०(ओ—
॥ ५.१२.१३ ॥
यत्रोत्तमश्लोक-गुणानुवादः
प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्
मतिं सतीं यच्छति वासुदेवे ॥
**श्रीधरः : **महत्-सेवायास् तत् प्राप्त्य्-उपायताम् आह । यत्र येषु महत्सु । ग्राह्य-कथानां विघातो यस्मात् ।
**कृष्ण-सन्दर्भः : **तत्र विशेषम् अपि वदंस्तत्तत्त्वप्राप्तिसोपानमाह यत्रेति । मुमुक्षोस्तद्व्यतिरिक्तसर्वपरित्यागेच्छोः ।
**विश्वनाथः : **ते च महान्तः कृष्ण-भक्ता एवेत्य् अभिव्यञ्जयति । यत्र महत्-पाद-रजोऽभिषेके सति यत्र महत्सु वा गुणानां भक्त्-वात्सल्यादीनाम् अनुवादः पुनः पुनः कथनं, मुमुक्षोर् मोक्ष-कामस्यापि सतीं मोक्षेच्छा-राहित्येन शुद्धां मतिं, वासुदेवे वसुदेव-नन्दने ॥१३॥
—ओ)०(ओ—
॥ ५.१२.१४ ॥
अहं पुरा भरतो नाम राजा
विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृग-सङ्गाद् धतार्थः ॥
**श्रीधरः : **विषय-सङ्गस्तु योग-भ्रंशक इति वदन् कस् त्वं निगूढश् चरसीति प्रश्नस्योत्तरम् आह—अहम् इति द्वाभ्याम् । विमुक्तो दृष्ट-श्रुताभ्यां सङ्ग-निमित्तो बन्धो येन । हतोऽर्थः प्रयोजनं यस्य ।
कृष्ण-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मह्यं स्वापराधिने महा-पामरायाप्य् एवं ज्ञानम् उपदिशन् परम-कृपालुः को भवान् इत्य् अपेक्षायाम् आह अहम् इति । दृष्टे श्रुते च व्यवहारे सङ्ग-बन्धः आसक्ति-लक्षणो बन्धो विमुक्तो येन सः । तद् अपि दैवाद् असावधानोऽभवम् इत्य् आह मृग इति ॥१४॥
—ओ)०(ओ—
॥ ५.१२.१५ ॥
सा मां स्मृतिर् मृग-देहेऽपि वीर
कृष्णार्चन-प्रभवा नो जहाति ।
अथो अहं जन-सङ्गाद् असङ्गो
विशङ्कमानोऽविवृतश् चरामि ॥
**श्रीधरः : **श्री-कृष्णार्चनं भ्रष्टम् अप्य् उद्धरतीत्य् आह—सेति । जन-सङ्गाद् विशङ्कमानः । अविवृतोऽप्रकटः ।
कृष्ण-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्री-कृष्णार्चनं भ्रष्टम् अप्य् उद्धरतीत्य् आह सेति । जन-सङ्गाद् विशङ्कमानः अविवृतोऽप्रकटः ॥१५॥
—ओ)०(ओ—
॥ ५.१२.१६ ॥
तस्मान् नरोऽसङ्ग-सुसङ्ग-जात-
ज्ञानासिनेहैव विवृक्ण-मोहः।
हरिं तद्-ईहा-कथन-श्रुताभ्यां
लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः ॥
**श्रीधरः : **असङ्गैर् महद्भिर् यः सुसङ्गस् तेन जातं ज्ञानम् एवासिः खङ्गस् तेन च्छिन्न-मोहः सन् । अध्वनः संसार-मार्गस्यातिशयितं श्रेष्टं पारं हरिं याति । यद् वा, पारमति अतिक्रम्य हरिं याति । “अति-रति-क्रमणे च” इति कर्म-प्रवचनीयत्वाद् द्वितीया । तस्य हरेर् ईहानां कथन-श्रुतिभ्यां लब्धा स्मृतिर् येन सः ।
कृष्ण-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **असङ्गो व्यवहारानासक्तिः सुसङ्गः साधुष्व् आसक्तिस् ताभ्यां जातं ज्ञानम् एवासिः तेन छिन्न-मोह-मतङ्गजः । अध्वनः संसार-मार्गस्य अतिपारं हरिम् ॥१६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ब्राह्मण-रहूगण-संवादे द्वादशोऽध्यायः ।
॥ ५.१२ ॥
(५.१३)