११ ब्राह्मण-रहूगण-संवादे

॥ ५.११.१ ॥

ब्राह्मण उवाच—

अकोविदः कोविद-वाद-वादान्
वदस्य् अथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारम् एनं
तत्त्वावमर्शेन सहामनन्ति ॥

**श्रीधरः : **

एकादशे तु सम्पृष्टो रहूगण-महीभृता ।

उपादिशत् परं ज्ञानं स योगीति निगद्यते ॥

अकोविदोऽविद्वान् अपि त्वं कोविदानां वादा उद्ग्रहणिकास् तत्-तुल्यान् वादान् एव वदसिअथो अतः अत्यन्तं विदुषां मध्ये श्रेष्ठो न भवसि । कुतः ? हि यस्मात्, यं स्वामि-भृत्यादि-लौकिक-व्यवहारं त्वं सत्यम् आत्थ । एनं सूरयस्तत्त्व-विचारेण सह न वदन्ति, किं त्व् अविचार-सुन्दरं वदन्ति । अतो न सत्यः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

मनसैव हि संसारो यद्-वृत्तीनाम् अनन्तता ।

एकादशेऽत्र तेनैव मोक्षो भक्ति-युजोदितः ॥

त्वं कोविदो न भवसि, अथ च कोविदानां ये वादा उद्ग्राहास् तत्-तुल्यान् एव वादान् वदसिअथो अत एव अत्यन्तं विदुषां मध्ये श्रेष्ठोन भवसि । यतः सूरयः कोविदा एतं व्यवहारं व्यावहारिकं वस्तु च तत्त्वावमर्शेन तत्त्व-विचारेण तत्त्व-वस्तुना च सह न ताम् आमनन्ति दृष्टान्तादिना नाभ्यस्यन्ति, तयोः परस्परातिवैधर्म्यात् । तथा हि स्थाली-तापात् पयसस् तापस् तत्-तत्-तापात् तण्डुल-ताप इति तण्डुलस्य जडस्य स्थाल्य्-आदिभिर् जडैर् वह्निनापि जडेन यथा संसर्गस् तथा देहेन्द्रियादिभिर् जडैर् मुक्त-जीवस्य चिद्-वस्तुनः संसर्गाभावाद् एव देहादि-श्रमैर् न श्रमः सिद्ध्यति । बद्ध-जीवस्य तु जड-देहाध्यासाज् जडत्वेन तैर् भवत्य् एव श्रम इति बद्ध-जीवैर् युष्माभिर् मुक्त-जीवानाम् अस्माकं सादृश्यासम्भवाद् अनुमानं न घटत इति ॥१॥

—ओ)०(ओ—

॥ ५.११.२ ॥

तथैव राजन्न् उरु-गार्हमेध-
वितान-विद्योरु-विजृम्भितेषु ।
न वेद-वादेषु हि तत्त्व-वादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥

**मध्वः : **न वेदेष्व् अल्प-बुद्धीनां ब्रह्म-तत्त्वं समीक्ष्यते ।

महा-बुद्धिस् तु वेदेषु पश्येद् ब्रह्मैव केवलम् ॥२॥

**श्रीधरः : **वैदिकोऽपि कर्म-व्यवहारो न सत्य इत्य् आह—तथैवेति । उरवो गार्हा गृह-सम्बन्धिनो मेधा यज्ञाः, तेषां वितानो विस्तारः, तद्-विषयासु विद्यासु उरु अधिकं विजृम्भितेषु विलसितेषु वेद-वादेषु तत्त्व-वादो, नु निश्चितं, न चकास्ति न प्रकाशते । तथा च श्रुतिः—नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य्-आदि । शुद्धो हिंसादि-शून्यः । साधू रागादि-शून्यश् च प्रायेणेतीश्वरार्पित-कर्मणां परमार्थ-फलत्वाभिप्रायेणोक्तम् ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु मीमांसकाः कर्म-फलात् स्वर्ग-सुखाद् अतिरिक्तं पुरुषार्थं न मन्यन्त इत्य् अतः किं तत्त्व-वादेनेति चेत्, सत्यं, तेष्व् अज्ञेष्व् अनधिकारिषु तत्त्वोपदेशो नैव समुचित इत्य् आह—तथैवेति । यथैव भवद्-विधानां दृष्ट-फलेषु व्यवहार-कर्मसु तथैव उरवो गार्हा गृह-सम्बन्धिनो मेधा यज्ञास् तेषां वितानो विस्तारस् तद्-विषयासु विद्यासु उरु अधिकं विजृम्भितेषु विलसितेषु वेद-वादेष्व् अदृष्टा-फलेष्व् अपि कर्मसु न निश्चितं तत्त्व-वादो न चकास्ति न प्रकाशते । कुतः ? शुद्धो हिंसादि-शून्यः साधुः रागादि-शून्यश् चेति साजात्याभावाद् एवेत्य् अर्थः । प्रायेणेति ईश्वरार्पित-निष्काम-कर्मणां ज्ञान-वैराग्य-द्वारा परमार्थ-फलत्वाभिप्रायेणोक्तम् ॥२॥

—ओ)०(ओ—

॥ ५.११.३ ॥

न तस्य तत्त्व-ग्रहणाय साक्षाद्
वरीयसीर् अपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधि-सौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥

**श्रीधरः : **ननु श्रुत-वेदान्तस्यापि पुंसः कर्मसु प्रवृत्तेः कथम् असत्यता ? तत्राह—नेति । साक्षाद् यथावत् तत्त्व-ज्ञानाय वरीयस्योऽपि वेदान्त-वाचस् तस्य न सम्यग् आसन् बभूवुः । स्वप्ने या निरुक्तिस् तस्या स्वप्न-दृष्टान्तेन दृश्यत्वादि-हेतुना । स्वयम् एव हेयत्वेनानुमितं यस्य न स्यात् ॥३॥

**क्रम-सन्दर्भः : **स्वप्ने निरुक्त्येति । श्रवणात् पूर्वं व्यवहार-वैराग्यं तर्क-दृष्ट्यापेक्ष्य इत्य् अर्थः ॥३॥

**विश्वनाथः : **ननु कर्मिणस् तांस् तत्त्त्वं ग्राहयितुं काचिद् वो युक्तिर् अस्ति, किं वा तान् नोपदिशाम इति केवलं प्रौढि-वाद एवेतीत्य् आह—नेति । तस्य जनस्य साक्षाद् यथावत् तत्त्व-ग्रहणार्थं वरीयस्योऽपि वेदान्त-वाचः न सम्यग् आसन्, न समर्था बभूवुः । स्वप्ने भोगानां स्वल्प-काल-मात्र-स्थायित्वं स्वप्नस्य स्वतो विनाशित्वं मिथ्यात्वं चेति या निरुक्तिः, तया स्वप्न-दृष्टान्तेनेत्य् अर्थः । स्वयम् एव हेयत्वेनानुमितं यस्य न स्यात् । कर्मिणां नश्वरम् असार्वकालिकं क्षुद्रं वैषयिकम् एव सुखं, तथा वैषयिकेण सुखेनात्मनो वस्तुतः सम्बन्धाभावात् तत् सुखम् आत्मनः शशस्य शृङ्गम् इव मिथ्या-भूतं च । ज्ञानिनां त्व् अनश्वरं सर्व-कालिकं महद् ब्राह्म-सुखम् इति बह्व् एवान्तरम् इत्य् एषैव तत्त्व-ग्रहण-युक्तिर् इति भावः ॥३॥

—ओ)०(ओ—

॥ ५.११.४ ॥

यावन् मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिर् आकूतिभिर् आतनोति
निरङ्कुशं कुशलं चेतरं वा ॥

**श्रीधरः : **एवं प्रपञ्चस्य सत्यत्वं तद् उक्तं निराकृत्य संसारस्यापि तद् उक्तां सत्यतां निराकर्तुं तस्य मनो-निमित्तताम् आह—यावद् इत्य्-आदिना यावत् समाप्ति । मनो यावद् रज-आदिभिर् गुणैर् अनुरुद्धं वशी-कृतं भवति, तावत् तन् मनो निरङ्कुशं सत् पुरुषस्य कुशलं धर्मम् इतरम् अधर्मं वा आतनोति । कैः ? चेतोभिर् ज्ञानेन्द्रियैः । आकूतिभिः कर्मेन्द्रियैश् च ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नन्व् एवं सद्भिः प्रबोधिता अपि प्रायः सर्वे जना वैषयिके सुख एव प्रवर्तमानाः कथं दृश्यन्ते ? तत्राह—यावन् मनो रज-आदिभिर् अनुरुद्धं सम्बद्धं भवति, तावत् तन् मनो निरङ्कुश-मत्त-मतङ्गजोपमं सत् पुरुषस्य कुशलं धर्मम् इतरम् अधर्मं वा आतनोति । कैः ? चेतोभिर् ज्ञानेन्द्रियैर् आकूतिभिः कर्मेन्द्रियैश् च गुण-मयं मन एव बलाद् विवेकादिकम् अपि निगीर्य पुण्य-पाप-कर्मणोः प्रवर्तयति, पुरुषस्य को दोषः ? इति भावः ॥४॥

—ओ)०(ओ—

॥ ५.११.५ ॥

स वासनात्मा विषयोपरक्तो
गुण-प्रवाहो विकृतः षोडशात्मा ।
बिभ्रत् पृथङ् नामभि रूप-भेदम्
अन्तर्-बहिष्ट्वं च पुरैस् तनोति ॥

**श्रीधरः : **ततश् च धर्माधर्म-वासना-युक्तं तद् एवानेक-देहादि-वैचित्र्यं करोतीत्य् आह—स इति । पुंस्त्वम् आत्म-शब्द-विशेषणत्वेन । तन् मन इत्य् अर्थः । वासना-युक्त आत्मोपाधित्वाद् आत्मा । अतो विषयैर् उपरक्तोऽनुविद्धः । अतो गुण-प्रवाहो गुणैर् इतस् ततश् चाल्यमानः । अत एव विकृतः कामादि-परिणामवान् । षोडशात्मा षोडश-कलासु भूतेन्द्रिय-रूपासु मूख्यः । पृथङ् नामभिः सह पृथग्-रूप-भेदं देव-तिर्यग्-आदि-रूपं बिभ्रत्। अन्तर्-बहिष्ट्वम् उत्कृष्टत्वं निकृष्टत्वं च पुरैस् तैर् एव देहैर् हेतु-भूतैस् तनोति । नामभिर् इत्य् अत्र रेफ-लोपे दीर्घाभाव आर्षः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ततश् च वासनात्मा पुण्य-पाप-वासना-युक्त आत्मा मनो विषयैर् उपरक्तोऽनुविद्धः, अत एव गुण-प्रवाहः गुणैर् इतस् ततश् चाल्यमानः, अत एव विकृतः कामादि-विकारवान् षोडशेषु भूतेन्द्रियेषु मुख्यः रूप-भेदं देव-तिर्यग्-आदि-शरीर-भेदं बिभ्रद् दधत् । पुरैस् तैर् एव शरीरैर् हेतुभिः अन्तर्-बहिष्ट्वम् उत्कृष्टत्वं निकृष्टत्वं च तनोति । नामभिर् इति रेफ-लोपे दीर्घाभाव आर्षः ॥५॥

—ओ)०(ओ—

॥ ५.११.६ ॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलम् आव्यनक्ति ।
आलिङ्ग्य माया-रचितान्तर्-आत्मा
स्व-देहिनं संसृति-चक्र-कूटः ॥

**मध्वः : **स माया-रचित अन्तरात्मा मनः ॥६॥

**श्रीधरः : **फलं च तद् अनुरूपं करोतीत्य् आह । दुःखं सुखं व्यतिरिक्तं च मोहं तीव्रं दुर्निवारं काल-प्राप्तं फलं सर्वतोऽभिव्यनक्ति सृजति । ननु जडः कथं सृजति? तत्राह—स्व-देहिनम् आलिङ्ग्य । आलिङ्गने कारणम् आह—मायया रचितोऽन्तर् आत्मा जीवोपाधिः । उपाधिताम् आह—संसृतिश् चक्रे कूटयति छलयतीति तथा, यथा ग्राम-कूटक इति॥६॥

**क्रम-सन्दर्भः : **माया-रचितान्तरात्मेति श्री-वेदव्यास-समाधि-वाक्यानुसारेण1, भयं द्वितीयाभिनिवेशतः स्यात्2 [भा।पु। ११.२.३७] इत्य्-आद्य्-अनुसारेण, क्षेत्रज्ञ एता मनसो विभूतीः [भा।पु। ५.११.१२] इत्य् अस्य वक्ष्यमाण-वाक्यानुसारेण व्याख्याय प्रकरणस्यास्य सिद्धान्त-क्रमः समाधेयः ॥६॥

**विश्वनाथः : **फलं च तद्-अनुरूपं सृजतीत्य् आह—दुःखं सुखं व्यतिरिक्तं मोहं च तीव्रं दुर्निवारं व्यनक्ति सृजति । ननु जडः कथं सृजति ? तत्राह—स्व-देहिनं जीवात्मानम् आलिङ्ग्य । आलिङ्गने कारणम् आह—मायया रचितः अन्तरात्मा जीवोपाधिः । उपाधिताम् आह संसृति-चक्रे कूटयति छलयतीति तथा, यथा ग्राम-कूटक इति ॥६॥

—ओ)०(ओ—

॥ ५.११.७ ॥

तावान् अयं व्यवहारः सदाविः
क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः ।
तस्मान् मनो लिङ्गम् अदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥

**मध्वः : **क्षेत्रवित् तु हरिः, प्राणः साक्षी, ताभ्याम् पुमांश् चरेत् ॥७॥

**श्रीधरः : **एवम् अयं मनो-निबन्धनः संसारो जीवे फलतीत्य् आह—तावान् इति आविः प्रकाशमानः । तदा क्षेत्र-ज्ञस्य साक्ष्यो भवति । स्थूल-सूक्ष्मो जाग्रत्-स्वप्न-स्वरूपः मनसः संसार-हेतुत्वम् उपसंहरन् मोक्षस्यापि तद् एव कारणम् इत्य् आह—तस्माद् इति । अदो मनः । लिङ्गं कारणम् । गुणत्वं गुणाभिमानित्वम्, अगुणत्वं तद्-राहित्यं, तद् एव परम् अवरं च यस्य ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवम् अयं मनो-निबन्धनः संसार एव व्यवहार-पद-वाच्य इत्य् आह—तावान् इति । आविः प्रकाशमानः । सदा क्षेत्रज्ञस्य साक्ष्यो दृश्यः । स्थूलो जागरः सूक्ष्मः स्वप्नश् च तत्त्व-पद-वाच्यम् आत्म-मुखम् अपि मनो-निबन्धनम् एवेत्य् आह—तस्माद् अदो मन एव लिङ्गं कारणम् । कस्य गुणस्य संसारस्य अगुणत्वस्य मोक्षस्य च, तौ च संसार-मोक्षौ कस्य स्याताम् इत्य् अत आह—परावरस्य उत्कृष्ट-निकृष्ट-जन-सङ्घस्य । पाठ-क्रमो नात्र विवक्षितः । निकृष्टस्य संसारो भवति उत्कृष्टस्य तु मोक्ष इत्य् अर्थः ॥७॥

—ओ)०(ओ—

॥ ५.११.८ ॥

गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यम् अथो मनः स्यात् ।
यथा प्रदीपो घृत-वर्तिम् अश्नन्
शिखाः स-धूमा भजति ह्य् अन्यदा स्वम् ।
पदं तथा गुण-कर्मानुबद्धं
वृत्तीर् मनः श्रयतेऽन्यत्र तत्त्वम् ॥

**श्रीधरः : **कथम् एकम् एव विलक्षणयोः कारणम् अवस्था-भेदात् ? इत्य् आह—गुनेति । नैर्गुण्यं निर्गुणम् । अथो इति कार्त्स्न्येन दृष्टान्तेन स्फुटयति—यथेति । अन्यदा तु घृत-क्षये । स्वं पदं शुक्ल-भास्वर-रूपं महा-भूतात्मत्वं वा । अन्यत्रान्यदा ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कथम् एकम् एव विलक्षणयोः कारणम् अवस्था-भेदात् ? इत्य् आह—गुनेति सार्धेन । नैर्गुण्यं निर्गुणम् । अन्यदा घृत-क्षये इति निर्वाणो भूत्वा स्वं पदं महा-भूतात्मत्वं भजति । अन्यत्र अन्यदा ।

यद् वा, घृत-वर्तिम् अश्नन्न् एवाग्निः स-धूमाः शिखा भजति, अन्यदा काञ्चन-पिण्डम् अश्नंस् तु स्व-पदं निर्धूम-तेजः-स्वरूपं, तथैव मनोऽपि तत्त्वं भगवन्-माधुर्यास्वादम् ॥८॥

—ओ)०(ओ—

॥ ५.११.९ ॥

एकादशासन् मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ॥
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ।

**मध्वः : **एकादशेन्द्रिय-द्वारा स्युर् एकादश-वृत्तयः ।

शब्दाद्यास् तद्-अभिमानास् तद्-इच्छा सैव पञ्चशः ॥
स्पर्शान्त-भावतः कर्म स्वानां नैव पृथग् गतिः ।
एकादशैव चेष्टा स्युर् इन्द्रियाणां पृथक् पृथक् ॥
गोलोकास् तद्-अधिष्ठानं चैकादश निगद्यते ॥९॥

**श्रीधरः : **वृत्तीर् दर्शयति । एकादश-वृत्तय आसन् । आकूतयः क्रिया-काराः पञ्च । धियश् च ज्ञानाकाराः पञ्च, अभिमानश् चेति । हे वीर ! भूमीर् विषयान् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वृत्तीर् दर्शयति । एकादश-वृत्तय इन्द्रिय-रूपाः, तत्र पञ्च आकूतयः कर्माकाराः पञ्च धियो ज्ञानाकाराः । एकोऽभिमानोऽहङ्कार इत्य् एवम् एकादश । तासां वृत्तीनां भूमी-विषयान् अप्य् एकादशैव चेति । हे वीर ! भूमीर् विषयान् अप्य् एकादशैव वदन्ति; वीर, हे ज्ञान-वीर, राजन्, मात्राणि गन्धादयः पञ्च-ज्ञानेन्द्रियाणाम् । विसर्गादि कर्माणि पञ्च-कर्मेन्द्रियाणाम् । पुरं देह-गेहाद्य्-एकम् अभिमानस्येत्य् एकादश ॥९॥

—ओ)०(ओ—

॥ ५.११.१० ॥

गन्धाकृति-स्पर्श-रस-श्रवांसि
विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्याम् अहं द्वादशम् एक आहुः ॥

**मध्वः : **एष संसृति-सम्भारो द्वादशैवाथवा भवेत् ।

दशकं विषयाणां च ममाहम् इति च द्वयम् ।
द्वयम् एव ममाहं वा संसृतिस् त्व् अहम् एव वा ॥१०॥

**श्रीधरः : **विषयान् एवाह । गन्धादयः पञ्च ज्ञानेन्द्रिय-द्वारा धी-वृत्तीनां व्षयाः । आकृतिः रूपम् । श्रवः शब्दः । विसर्गादयः पञ्च कर्मेन्द्रिय-द्वारा कर्माकार-वृत्तीनां विषयाः । रतिः सम्भोगः । अर्तिर् गतिः । पुरस्याभिमान-विषयत्व-प्रकारम् आह । एकादशं पुरम् । स्वीक्रियत इति स्वीकरणम् ।

अयम् अर्थः—शरीरम् अभिमानस्य न ज्ञेयतया गन्धादिवद् विषयः । नापि कार्यतया विसर्गादि-वत् । किन्तु ममेति भोगायतनत्वेन स्वी-कार्यतया विषय इति । एके तु विवेकिनाम् एव पुरां ममत्वाभिमान-विषयो नतु मूडानां, अतो मूढ-दृष्ट्या अहम् अहङ्कारं द्वादशं वृत्त्य्-अन्तरम् आहुः । तस्य च पुरम् एव शय्या-संज्ञं द्वादशं विषयम् आहुः । तत्र हि जीवोऽहङ्कारेण सह शेते । यतः पुरि शयनात् पुरुष इत्य् उच्यते ॥१०॥

**क्रम-सन्दर्भः : **मात्राणि विवृणोति गन्धाकृतीति । कर्माणि विवृणोति विसर्गेति ॥१०॥

**विश्वनाथः : **मात्रादीनि विवृणोति । गन्धेति पञ्च नासिकादीनां ज्ञानेन्द्रियाणां विषयाः आकृतिः रूपं, विसर्गादयः पञ्च पाय्व्-आदीनां कर्मेन्द्रियाणाम् एवं दश । अर्तिर् गमनम् । स्वीक्रियते इति स्वीकरणम् । एकादशं पुरम् अभिमानस्य विषयम् आहुः । एके आचार्याः अभिमानस्य द्वैविध्यात् ममेति मम-कारस्य शय्यां विषयं गेहादिकम् एकादशं, अहम् इति अहङ्कारस्य शय्यां देहं द्वादशम् आहुः ॥१०॥

—ओ)०(ओ—

॥ ५.११.११ ॥

द्रव्य-स्वभावाशय-कर्म-कालैर्
एकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश् च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥

**मध्वः : **द्रव्यं देहादि । स्वभावो योग्यता । जीवस्य क्षेत्रज्ञतः स्युः, मिथः स्वतश् च न स्युः ॥११॥

**श्रीधरः : **तासां वृत्तीनाम् अवान्तर-भेदैर् आनन्त्यम् आह । द्रव्याणि विषयाः, स्वभावः परिणम-हेतुः, आशयः संस्कारः, कर्म अदृष्टम्, कालः क्षोभकः, तैर् निमित्त-भूतैः प्रथमं शतशस् ततः सहस्र-शस्ततः कोटिशः स्युः, न तु मिथः स्युः, न च स्वतः, किन्तु क्षेत्रज्ञतः परमेश्वरात् । तस्य चानन्त-शक्तित्वाद् अनन्ताः स्युर् इत्य् अर्थः ।

यद् वा, तासां मिथ्यात्वम् अनेनोच्यते । कोटिशो भवन्ति, अतस् ताः क्षेत्र-ज्ञत एव स्युः, तत् सत् तयैव सत्तां लभेरन्, न तु मिथो न च स्वत इति ।

यद् वा, क्षेत्रज्ञो जीवस् तस्मान् न स्युः, तस्याविकारित्वात् । न मिथः, इतरेतराश्रयत्वापत्तेः । न स्वतः, आत्माश्रयत्वापत्तेः । अतो मिथ्या-भूता एव ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तासां वृत्तीनाम् अवान्तर-भेदैर् आनन्त्यम् आह—द्रव्यादिभिर् भेदैर् अमी विकाराः वृत्ति-रूपाः प्रथमं शतशः, ततः सहस्रशः लक्षशः कोटिशश् च स्युः । द्रव्याणां चन्दन-कस्तूरी-कुङ्कुमादीनां स्वर्ण-रजत-प्रवालादीनां चानन्त्यात् कोऽपि गन्ध-रूपादिः कस्मैचित् रोचत इति स्वभावानन्त्यात्, आशयोऽन्तःकरणं तस्य शिष्टता-दुष्टताभ्याम् कर्म अदृष्टं तद्-वशाद् अपि कालो बाल्य-यौवनादिस् तद्-वशाद् अपि प्रत्येक-मनस्ता एव गन्धादयः स्युर् इत्य् अर्थः । न तु मिथः स्युर् नापि स्वतः स्युः, किन्तु क्षेत्रज्ञतः परमेश्वरात् तस्य चानन्त-शक्तित्वाद् अनन्ताः स्युर् इत्य् अर्थः ॥११॥

—ओ)०(ओ—

॥ ५.११.१२ ॥

क्षेत्रज्ञ एता मनसो विभूतीर्
जीवस्य माया-रचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश् च
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥

शुद्धः क्षेत्रज्ञः माया-रचितस्य अविशुद्ध-कर्तुः जीवस्य [जीवोपाधेः] मनसः एताः नित्याः क्वापि आविर्हिताः क्वापि तिरोहिताश् च विभूतीः विचष्टे [पश्यति] ॥

**श्रीधरः : **तद् एवं श्लोक-त्रयेण गुण-कर्मानुबद्धं मनो-वृत्तीः श्रयत इति यद् उक्तं, तत् प्रपञ्चितम् । अन्यदा तत्त्वं श्रयत इति यद् उक्तं, तद् एव तत्त्वम् आह—क्षेत्र-ज्ञ इति । जीवस्य जीवोपाधेर् अविशुद्ध-कर्तुर् मनसोनित्याः प्रवाह-रूपेणाविच्छिन्ना जाग्रत्-स्वप्नयोर् आविर्भूताः पश्यति, क्वापि सुषुप्तौ तिरो-भूताः पश्यति । अवस्था-त्रय-साक्षी क्षेत्र-ज्ञ आत्मा तत्त्वम् इत्य् अर्थः ॥१२॥

**क्रम-सन्दर्भः : **अथ परमात्मा विव्रियते । यद्यपि परमात्मत्वं वैकुण्ठेऽपि प्रभोर् अस्ति, तद् अपि च भगवत्ताङ्गं तत् स्याद् इतीत्थं जगद्-गतं वाच्यम् । तत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं निरूपयति—क्षेत्रज्ञ इति द्वाभ्याम् ।

यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व-क्षेत्रज्ञस्य3 मायया4 कल्पितस्य मनसोऽन्तः-करणस्य एताः प्रसिद्धा विभूतीर् वृत्तीर् विचष्टे विशेषेण पश्यति, पश्यंस् तत्राविष्टो भवति, स खल्व् असौ जीव-नामा स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यत इत्य् अर्थः ।

तद् उक्तम्—

यया संमोहितो जीवो आत्मानं त्रिगुणात्मकं
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥ [भा।पु। १.७.५] इति ।

तस्य मनसः कीदृशतया माया-रचितस्य ? तत्राह—जीवस्य जीवोपाधितया जीव-तादात्म्येन रचितस्य, ततश् च तत्तयोपचर्यमाणस्येत्य् अर्थः । ततश् च कीदृशस्य ? अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर् विभूतीः ? नित्या अनादित एवानुगताः । तत्र च कदा कीदृशीः ? इत्य् अपेक्षायाम् आह—जाग्रत्-स्वप्नयोर् आविर्भूताः सुषुप्तौ तिरोहिताश् चेति ॥१२॥ [परमात्म-सन्दर्भ १]

**विश्वनाथः : **क्षेत्रज्ञो हि द्विविधः—परमात्म जीवात्मा च । तयोः प्रथमः पूर्व-श्लोके उद्दिष्टः, उत्तर-श्लोके वक्ष्यते च । द्वितीयश् च द्विविधः—बद्धो मुक्तश् च । तत्र मनस आलिङ्गितः तद्-अभिमानी बद्धः । तेन अनालिङ्गितो निरभिमानी मुक्तः । तयोः पूर्वो ज्ञायत एव, उत्तरः कीदृशः स्यात् ? इत्य् अपेक्षायाम् आह—क्षेत्रज्ञ एता मनसो विभूतीर् विचष्टे पश्यति जानाति केवलं, न तु तद्-अभिमानी सन् भुङ्क्ते । अत एव शुद्धः संसारान् मुक्तः, अन्यस् त्व् अशुद्धः संसारीत्य् अर्थः । मनसः कीदृशस्य ? जीवस्य जीवोपाधेः यतो मायया रचितस्य, अत एवाविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति । तस्य विभूतीः कीदृशीः ? नित्याः, अनादित एवानुगताः । कथं तर्हि सदा न दृश्यन्ते ? इत्य् अत आह—आविर्हिताः क्वापि जाग्रत्-स्वप्नयोः, तिरोहिताः क्वापि सुषुप्ति-प्रलययोः ॥१२॥

—ओ)०(ओ—

॥ ५.११.१३ ॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात् स्वयं-ज्योतिर् अजः परेशः ।
नारायणो भगवान् वासुदेवः
स्व-माययात्मन्य् अवधीयमानः ॥

**मध्वः : **स्व-मायया आत्मनि अवधीयमानः स्वेच्छया ।

स्वस्मिन् तिरोहितत्वेनावस्थितत्वे स्थितः ॥
स्वात्माधारः स्वेच्छयैव जीव-दृष्टेस् तिरोहितः ।
क्षेत्रज्ञेत्य् उच्यते विष्णु-जीवस्थः पुरुषोत्तमः ॥१३॥

श्रीधरः : क्षेत्रज्ञो द्विविधः—त्वं-पदार्थो जीवः, तत्-पदार्थ इश्वरश् च । तत्राद्यो निरूपितः । इदानीं तत्-प्राप्यम् ईश्वरं निरूपयति । क्षेत्रज्ञ आत्मा व्यापी । पुराणो जगत्-कारण-भूतः । पुरुषः पूर्णः । साक्षाद् अपरोक्षः । स च स्वयं-ज्योतिः, न तु ज्ञानस्य विषयत्वेनाश्रयत्वेन वा परोक्षः । अजो जन्मादि-शून्यः । परेषां ब्रह्मादीनाम् अप्ईशः । नारं जीव-समूहः सोऽयनं यस्य नियन्तुः । भगवान् ऐश्वर्यादि-षड्-गुणवान् । वासुदेवः सर्व-भूतानाम् आश्रयः स्वाधीनया माययात्मनि जीवेऽवधीयमानोऽवस्थाप्यमानः । कर्म-कर्तरि-प्रयोगः, तन्-नियन्तृत्वेन वर्तमान इत्य् अर्थः ॥१३॥

**क्रम-सन्दर्भः : **यस् तु पुराणो जगत्-कारण-भूतः पुरुषः,आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१] इत्य्-आदि द्वितीय-स्कन्धादौ प्रसिद्धः; साक्षाद् एव स्वयं-ज्योतिः स्व-प्रकाशो, न तु जीववद् अन्यापेक्षया; अजो जन्मादि-शून्यः; परेषां ब्रह्मादीनाम् अप्ईशः; नारं जीव-समूहः स्व-नियम्यत्वेन आयनं यस्य सः; भगवान् ऐश्वर्याद्य्-अंशवान्, भगवद्-अंशत्वात्; वासुदेवः सर्व-भूतानाम् आश्रयः; स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व-स्वरूपे अवधीयमानः अवस्थाप्यमानः । कर्म-कर्तृ-प्रयोगः । मायायां मायिकेऽप्य् अन्तर्यामितया प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूप-स्थ एव, न तु तत्-संसक्त इत्य् अर्थः, वासुदेवत्वेन सर्व-क्षेत्र-ज्ञातृत्वात्, सोऽपरो माया-मोहितात् जीवाद् अन्यो माया-रहितः शुद्धः क्षेत्रज्ञः, आत्मा परमात्मेति ।

तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव । तद् उक्तम्—

सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति ।

श्री-गीतोपनिषत्सु—

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्-विदः ॥
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ [गीता १३.१-२]

अत्र खलु _क्षेत्रज्ञं चापि मां विद्धि _इतिसर्वेष्व् अपि क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि, न तु जीवम् इव स्व-स्व-क्षेत्र एव इत्य् एवार्थं वहति । न च जीवेशयोः सामानाधिकरण्येन निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति, सर्व-क्षेत्रेषु इत्य् अस्य वैयर्थ्यापत्तेः, ज्ञेयं यत् तत् प्रवक्ष्यामि [गीता १३.१२] इत्य्-आदिना, सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् [गीता १३.१३] इत्य्-आदिना सविशेषत्वस्यैव निर्देक्ष्यमाणत्वात्,5, अमानित्वम् [गीता १३.७-११] इत्य्-आदिना ज्ञानस्य च तथोपदेक्ष्यमाणत्वात् ।

किं च, “क्षेत्रज्ञं चापि” इत्य् अत्र तत् त्वम् असि [छा।उ। ६.८.७] इतिवत् सामानाधिकरण्येन तन्-निर्विशेष-ज्ञाने विवक्षिते, “क्षेत्रज्ञेश्वरयोर् ज्ञानम्” इत्य् एवानूद्येत, न तु “क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम्” इति । किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः—द्विविधयोर् अपि क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं, तन् ममैव ज्ञानं मतम्, अन्यार्थस् तु परामर्शः [वे।सू। १.३.२०] इति न्यायेन मज्-ज्ञानैक-तात्पर्यकम् इत्य् अर्थः, ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात्, योग्यत्वाच् च ।

न च निरीश्वर-साङ्ख्यवत् क्षेत्र-क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं, माम् इत्य् अनेनेश्वरस्यापेक्षितत्वात् ।

न च विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र-प्रतीत-पुरुषत्वम्, तद्-वचन-लक्षण-स-वेद-गीतादि-शास्त्राणाम् अप्रामाण्यात्, बौद्ध-वादापत्तेः । तस्यां च सत्यां बौद्धानाम् इव विवर्त-वादिनां तद्-व्याख्यानायुक्तेः ।

न च तस्य सत्य-पुरुषत्वेऽपि निर्विशेष-ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम्, एवं सतत-युक्ता ये [गीता १२.१] इत्य्-आदि पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन विवक्षितत्वात् । तत्रैव च, ये तु सर्वाणि कर्माणि [गीता १२.६] इत्य्-आदिनानन्य-भक्तान् उद्दिश्य, तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् [गीता १२.७] इत्य् अनेन तज्-ज्ञानापेक्षापि नादृतेति । तद् उक्तम् एकादशे स्वयं भगवता—यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदि । मोक्ष-धर्मे च—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।

अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथाकर्तुं सविशेषतया निर्दिश्य

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [गीता १३.१८]

इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् । अतएवात्र व्यष्टि-क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति क्षेत्र-ज्ञानाभ्यां सह ज्ञेयस्य पाठाद् अनुस्मार्य तद्-अनन्तरं च तस्य तस्य च जीवत्वम् ईश्वरत्वं च क्षरं नेति दर्शितम् । यतः—

पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृति-जान् गुणान् ।
कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥ [गीता १३.२१]

इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य, स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम् एवाक्षरत्वं ज्ञापितम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहेऽस्मिन् पुरुषः परः ॥ [गीता १३.२२]

इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव तद् दर्शितम् ।

द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता १५.१६-१७]

इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव ।

तत्र _उपद्रष्टा _परम-साक्षी, अनुमन्ता तत्-तत्-कर्मानुरूपः प्रवर्तकः, भर्ता पोषकः, भोक्ता पालयिता,महेश्वरः सर्वाधिकर्ता, परमात्मा सर्वान्तर्यामीति व्याख्येयम् । उत्तर-पद्ययोस् तु _कूटस्थ_एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य् अमर-कोषाद् अवगतार्थः । असौ शुद्ध-जीव एव—उत्तमः पुरुषस् त्व् अन्य इत्य् उत्तरात् ।

तद् एवम् अत्रापि क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः । अत्र चोत्तरयोर् अन्य इत्य् अनेन भिन्नयोर् एव सतोर् अक्षरयोर्न तत्-तद्-रूपता-परित्यागः सम्भवेद् इति न कदाचिद् अपि निर्विशेष-रूपेनावस्थितिर् इति दर्शितम् । तस्मान् मद्-भावायोपपद्यते इति यद् उक्तं तद् अपि तत्-सार्ष्टि-प्राप्ति-तात्पर्यकम्। तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि जीवस्य हीन-शक्तित्वात् प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव भजनीयत्वेन ज्ञेय इति भावः ।

तस्माद् इदं शरीरम् [गीता १३.१]इत्य्-आदिकं पुनर् इत्थं विवेचनीयम् । इदं स्व-स्वापरोक्षम् इत्य् अर्थः। शरीर-क्षेत्रयोर् एकैकत्वेन ग्रहणम् अत्र व्यक्ति-पर्यवसानेन जाति-पुरस्कारेणैवेति गम्यते, सर्व-क्षेत्रेषु इति बहु-वचनेनानुवादात् । एतद् यो वेत्ति इत्य् अत्र देहोऽसवोऽक्षा-मनव इत्य्-आदौ, सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [भा।पु। ६.४.२५] इत्य्-उक्त-दिशा क्षेत्रज्ञ एता मनसो विभूतीः [भा।पु। ५.११.१२] इत्य्-उक्त-दिशा च जानातीत्य् अर्थः । _क्षेत्रज्ञं चापि मां विद्धि _इत्य् अत्र मां स्वयं भगवन्तम् एव सर्वेष्व् अपि समष्टि-व्यष्टि-रूपेषु क्षेत्रेषु, न तु पूर्व-क्षेत्रज्ञवत् निज-निज-क्षेत्र एव, “क्षेत्रज्ञं च विद्धि” इति । तद् उक्तम्—विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति ।

यत्र गत्य्-अन्तरं नास्ति, तत्रैव लक्षणा-मय-कष्टम् आश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात्, तर्हि क्षेत्रज्ञं चापि मां विद्धि

इत्य् एतावद् एव, “तं च मां विद्धि” इत्य् एतावद् एव वा प्रोच्येत, न तु सर्व-क्षेत्रेषु भारत इत्य् अधिकम् अपि। किन्तु क्षेत्रज्ञ एता मनसो व्भूतीर् इत्य्-आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव स्यात् ।

तथा च ब्रह्म-सूत्रं, गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे।सू। १.२.११] इति तद् द्वैविध्यम् एव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हि [गीता१३.२१]इत्य्-आदिना । तस्माद् उपक्रमार्थस्य उपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः । यथोक्तं ब्रह्म-सूत्र-कृद्भिः—असद् व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद् [वे।सू। २.१.१७] इति ।

अथ क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम् इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं चेतना-गतं6 च ज्ञानं दर्शयिष्यते, यच् च पूर्व-क्षेत्रज्ञे निज-निज-क्षेत्र-ज्ञानं दर्शितं, तत् तन् मज्-ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात् क्षेत्रज्ञेषु यत् किञ्चिद् अंशांशतया प्रवेशान् ममैव ज्ञानं मतम् इति । तस्मात् साधूक्तं मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एवेति ॥१३॥ [परमात्म-सन्दर्भ १]

**विश्वनाथः : **बद्ध-जीवस्य व्यवहार एव सदैवावधान-विषयो यथा, तथा मुक्त-जीवस्यावधान-विषयः कः ? इत्य् अपेक्षायाम् आह—क्षेत्रज्ञः क्षेत्रस्य कार्त्स्न्येन ज्ञाता परमात्म इत्य् अर्थः । आत्मा व्यापकः पुराणो जगत्-कारण-भूतः पुरुषः पुरुषाकारः स्वयं-ज्योतिः स्व-प्रकाशः, अजो मायिक-जन्मादि-शून्यः परेषां ब्रह्मादीनाम् अपीशः नारायणः कारणार्णवशायी भगवान् षड्-ऐश्वर्य-पूर्णो वैकुण्ठनाथः वासुदेवो वसुदेव-नन्दनः श्री-मथुराद्य्-अधिपतिः । सुष्ठु अमायया हेतुना आत्मनि अवधीयमानः युक्त-जीवेन आत्मनि मनसि अवधान-विषयीक्रियमाणः । यद् वा, स्व-मायया स्वरूप-शक्त्या कृपया वा सहितः ॥१३॥

—ओ)०(ओ—

॥ ५.११.१४ ॥

यथानिलः स्थावर-जङ्गमानाम्
आत्म-स्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥

**श्रीधरः : **एतत् स-दृष्टान्तम् आह—यथेति । आत्म-स्वरूपेण प्राण-रूपेण, ईशेन् नियमयति—इदं विश्वम् ॥१४॥

**क्रम-सन्दर्भः : **यथेति । श्रुतिश् च—

वायुर् यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्व-भूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च ॥ इति काठके [२.२.१०] ॥१४॥ [परमात्म-सन्दर्भ ५]

**विश्वनाथः : **स च भगवान् मुक्त-जीवेन सुलभ एवेति स-दृष्टान्तम् आह—यथेति । आत्म-स्वरूपेण प्राण-रूपेण ईशेत् ईशीत इदं विश्वम् ॥१४॥

—ओ)०(ओ—

॥ ५.११.१५ ॥

न यावद् एतां तनु-भृन् नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्त-सङ्गो जित-षट्-सपत्नो
वेदात्म-तत्त्वं भ्रमतीह तावत् ॥

**मध्वः : **अभिमानाद् एव संसारोऽन्यथा नेति परिहारः ॥१५॥

**श्रीधरः : **तद् एवम् आत्मनः शुद्धत्वं संसारस्य च मिथ्यात्वं प्रदर्श्येदानीं तन् निवृत्तिम् आह । तनु-भृद् देही वयुनोदयेन ज्ञानोत्पत्त्या यावन् मायां विधूयात्म-तत्त्वं न वेद तावद् इह भ्रमति ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवम् अविद्योत्तीर्णानां भगवद्-अवधान-लक्षणं ज्ञानं शाश्वतिकम् एवेत्य् उक्तम् । अविद्या-पतितानां जीवानाम् अप्य् अविद्योत्तारणे एतद् एव साधनम् इत्य् आह—नेति । वयुनोदयेन उक्त-लक्षण-ज्ञानोत्पत्त्या विमुक्त-सङ्गः सन् यावन्-मायां विधूयात्म-तत्त्वं न वेद तावद् इह भ्रमति ॥१५॥

—ओ)०(ओ—

॥ ५.११.१६ ॥

न यावद् एतन् मन आत्म-लिङ्गं
संसार-तापावपनं जनस्य ।
यच् छोक-मोहामय-राग-लोभ-
वैरानुबन्धं ममतां विधत्ते ॥

**श्रीधरः : **यावच् च विषयानुरक्तं मन एवानर्थ-हेतुर् इति । न वेद तावन् निर्वेदाभावात् परिभ्रमत्य् एवेत्य् आह—नेति । आत्मनो लिङ्गम् उपाधि-भूतं मनः संसार-तापानाम् आवपनं क्षेत्रं यावन् न वेद, तावद् भ्रमतीत्य् अनुषङ्गः । तापावपनत्वे हेतुः—यन्-मनः शोकाद्य्-अनुबन्धं ममतां च विधत्ते ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **माया-विधूननं च सम्यक्तया कथं ज्ञातव्यम् इति चेत् यावद् विषयानुरक्तं मनस् तावन् माया-विधूननम् आत्म-तत्त्व-ज्ञानं च न स्याद् इत्य् आह—नेति । आत्मनो लिङ्गम् उपाधि-भूतं मनः यावन् ममतां विधत्ते, तावद् आत्म-तत्त्वं न वेदेत्य् अनुषङ्गः । कीदृशम् ? संसार-तापानाम् आबध्नातीति तत् तद् एवं मनः श्रयते । अन्यत्र तत्त्वं यद् उक्तंं, तत् क्षेत्रज्ञ एता इत्य्-आदि-श्लोक-पञ्चकेन प्रपञ्चितम् ॥१६॥

—ओ)०(ओ—

॥ ५.११.१७ ॥

भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम्
उपेक्षयाध्येधितम् अप्रमत्तः ।
गुरोर् हरेश् चरणोपासनास्त्रो
जहि व्यलीकं स्वयम् आत्म-मोषम् ॥

**श्रीधरः : **तत् तस्मात् । भ्रातृव्यं शत्रुम् अध्येधितं संप्रवृद्धं स्वयं व्यलीकं मिथ्या-भूतं, तथाप्य् आत्मानं मुष्णातीति तथा तम् । गुरुर् एव हरिः, तस्य चरणोपासनम् एवास्त्रं यस्य तथा-भूतः सन् जहि घाटय ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्मान् मन एव निगृहीतव्यम् इत्य् आह—भ्रातृव्यं शत्रुम् । उपेक्षयैव जहि निगृहाण, तद्-उपेक्षणम् एव तद्वध इति भावः । न तु तद्-इष्ट-विषय-भोग-प्रदान-लक्षणया अपेक्षया अनुगृहानेत्य् अर्थः । सर्वथैव तद्-वधस् त्व् अनभिप्रेत एव । तस्मान् मनो-लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य इति श्रूयते । अन्यत्र तत्त्वम् इत्य् पूर्वोक्तेः । दृष्टान्ते च भ्रातुष्पुत्रस्यावध्यत्वात् । मनः कीदृश्म् अधिकम् एधितं स्व-वृत्तीः संश्रित्य संवृद्धम् ।

ननु बलवन्तम् इमं दुर्बलोऽहं कथं निगृह्णामीत्य् अत आह—गुरोः सकाशात् प्राप्तस्य मन्त्र-रूपस्य हरेश् चरणयोर् उपासना श्रवणादि-नव-विध-भक्तिर् एवास्त्रं यस्य सः । यद् वा, गुरुर् एव हरिस् तस्य चरणोपासनम् एवास्त्रम् । व्यलीकम् अप्रियं, यतः स्व-वृत्ति-सन्दर्शनया संमोह्य आत्मानं परमात्म-रूपं सर्वस्वम् एव मुष्णातीति तं महा-चौरम् इत्य् अर्थः ।

भक्त्य्-अस्त्रेण त्याजयित्वा विषयान् स्व-मनो यतिः ।
ध्वस्ताविद्योऽवधत्ते यः कृष्णं मुक्तः स उच्यते ॥
भक्त्य्-अभावान् मनो-वृत्तीर् आश्रयद् वासना-मयम् ।
अविद्यां यस्य पुष्णाति स पुमान् बद्ध उच्यते ॥१७॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ब्राह्मण-रहूगण-संवादे एकादशोऽध्यायः ।

॥ ५.११ ॥

(५.१२)


  1. यया संमोहितो जीव आत्मानं त्रिगुणात्मकं । परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥ [भा।पु। १.७.५] इति । ↩︎

  2. भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययोऽस्मृतिः । तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा ॥ ↩︎

  3. सर्व-क्षेत्रस्य इति विविध-पाण्डुलिपिभ्यः पुरीदासैर् धृतः परमात्म-सन्दर्भ-पाठः। ↩︎

  4. भगवतो मायया इति ख-पाठः। ↩︎

  5. निर्दिष्टत्वात् (ङ) ↩︎

  6. तेनागतं इति परमात्म-सन्दर्भे निर्विवादित-पाठः। ↩︎