॥ ५.१०.१ ॥
श्री-शुक उवाच—
अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे, तत्-कुल-पतिना शिविका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्धः। “एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम्” इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः।
**श्रीधरः : **
दशमे क्षिपता राज्ञा शिविकां स्वां वहन् मुनिः ।
स्व-दुर्वादानुवादेन विज्ञायाशु प्रसादितः ॥
एवं-भूताविकारित्वम् अज्ञ-सर्वज्ञयोः समम् ।
इति सर्वज्ञता-सिद्ध्यै रहूगण-कथेरणम् ॥
रहूगणो नाम सिन्धु-सौवीर-देशयो राजा तत्त्व-जिज्ञासुः कपिलाश्रमं यदा गच्छति स्म, तदा यद् वृत्तं तद् आह—अथेति । इक्षुमत्या नद्यास् तीरे । तेषां शिबिका-वाहानां कुलस्य नाथेन एष गौर् इव खर इव च भारं वोढुं समर्थ इति धिया पूर्वं ये केचन दिष्ट्या बलाद् गृहीतास् तैः सह प्रसभं बलाद् गृहीतः सन्नतद्-अर्होऽपि स महानुभावः शिबिकाम् उवाहेत्य् अन्वयः ॥१॥
**क्रम-सन्दर्भः : **अस्य च श्री-भरतस्य भागवत-परमहंसत्वाद् भगवद्-गुण-सङ्क्रान्तत्वेन सर्वत्र समस्यापि भक्त-वात्सल्यं परम् अस्त्य् एव । ननु भजतोऽपि न वै केचित् [भा।पु। १०.३२.१९] इत्य्-आदि-न्यायेनान्येषाम् आत्मारामाणाम् इव तत्राप्य् औदासीन्यम् इति महा-गुणान्तरं दर्शयितुम् आह—अथ सिन्ध्व् इति ॥१॥
**विश्वनाथः : **
वहन्तं शिविकां स्वीय-कटूक्त्य्-अर्थ-कृतं मुनिम् ।
ज्ञात्वा राजावरुह्याशु तुष्टाव दशमे स्फुटम् ॥
तद् एवं श्री-भरतः कणपिण्याकादिभिः स्व-पालकेषु भ्रात्रादिषु तत्-प्रतिवेशितेषु च कर्मित्वाद् राजसेष्व् अपि कृपां चकारैव, यतो बहु-कालम् अपि तेभ्यः स्व-दर्शनं ददौ । तथैव वृषल-राजे दुराचार-सक्तत्वाद् अतितामसे स्व-घातकेऽपि कृपां चकारैव, यतस् तेनापि प्रकारेण स्वस्य देव्याश् च साक्षाद् दर्शनं जन्मान्तरेऽपि तन्-मुक्ति-कारणं कारयामासैव । तथैव रहूगणे ज्ञानित्वात् सात्त्विके राजत्वोचित-रजसा शिविकां वाहयत्य् अपि कृपां चकारेति, तत्र रजस्-तमसोः प्रकाशकत्वाभावात् सत्त्वस्य तु प्रकाशकत्वात् रहूगण एव भरतस्य भक्ति-ज्ञानादि-प्रकाशो न पूर्वयोर् इति ज्ञापयन् तद्-उपाख्यानम् आरभते—अथेति । परमहंसत्वेन सर्वत्र तस्य साम्यस्यौचित्येऽपि महा-भागवतत्वाद् एव कृपा व्याख्येया । भरतस्य भक्ति-ज्ञान-वैराग्यादिकं भगवत्-कृपया शत-गुणी-बभूवेति एतत् कथं ज्ञायेतेत्य् एतद्-अर्थं रहूगणोपाख्यानम् इति च केचिद् आहुः ।
सिन्धु-सौवीर-देशयोर् नृपस्य तेषां शिविका-वाहकानां कुल-पतिना पीवा पुष्टाङ्गः संहननाङ्गो बलिष्ठश् च प्रसभं बलात् कृतं यथा स्यात् तथा गृहीतः । अलं समर्थ इति मनसि विभाव्येत्य् अर्थः ॥१॥
—ओ)०(ओ—
॥ ५.१०.२ ॥
**यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता **
**पुरुष-गतिस्, तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य **
पुरुषान् अधिवहत आह— “हे वोढारः ! साध्व् अतिक्रमत। किम् इति विषमम् उह्यते यानम् ? “इति।
**श्रीधरः : **हिंसा-परिहारार्थम् इषु-मात्र-प्रदेशावलोकस्यानु पश्चाद् या गतिस् तस्या हेतु-भूताया पुरुषाणां गतिर् न सम्यग् आहिता एक-रूपा नाभूत् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हिंसा-परिहारार्थम् इषु-मात्र-प्रदेशावलोकनानन्तरम् एव या गतिस् तस्या हेतोः पुरुषाणां गतिर् न समाहिता सम्यग् आहिता एक-रूपा नाभूत् ॥२॥
—ओ)०(ओ—
॥ ५.१०.३ ॥
अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः।
श्रीधरः : सोपालम्भं साक्षेपम् । साम-दान-भेद-दण्डेषु उपायेषु चतुर्थाच् छङ्कित-चित्तः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ईश्वरस्य राज्ञो वचः सोपालम्भं साक्षेपम् । उपायेषु साम-दान-भेद-दण्डेषु मध्ये तुरीयात् चतुर्थाद् दण्डात् ॥३॥
—ओ)०(ओ—
॥ ५.१०.४ ॥
“न वयं नर-देव प्रमत्ताः। भवन्-नियमानुपथाः साध्व् एव वहामः। अयम् अधुनैव नियुक्तोऽपि न द्रुतं व्रजति, नानेन सह वोढुम् उ ह वयं पारयामः" इति।
श्रीधरः : भवन्-नियमानुपथास् त्वद्-आज्ञानुवर्तिनः । न पारयामो न शक्नुमः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न वयं प्रमत्ताः, किन्तु भवद्-आज्ञानुवर्तिन एव ॥४॥
—ओ)०(ओ—
॥ ५.१०.५ ॥
“सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हति” इति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धोऽपि निसर्गेण बलात्-कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह।
**श्रीधरः : **कृपणानां वचो निशम्य सांसर्गिकः संसर्ग-निमित्त एकस्यापि दोषः सर्वेषाम् एव भवितुम् अर्हतीति निश्चित्य रहूगण आह इत्य् अन्वयः । कथं-भुतः ? उपासिता वृद्धा येन सोऽपि स्वभावेन बलात् पर-वशः कृतः सन् । कथं-भूतं प्रत्याह । न विस्पष्टं ब्रह्म-तेजो यस्मिन् । भस्मना छन्नम् अग्निम् इव स्थितम् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : निसर्गेण राजत्वाद् राजस-स्वभावेन बलात्कृतः बलात्कार-विषयीकृतः । **जात-वेदसम् **अग्निं भस्माच्छादितम् इव ॥५॥
—ओ)०(ओ—
॥ ५.१०.६ ॥
“अहो कष्टं भ्रातर्, व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं, नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे, नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धोऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरेऽवस्तुनि संस्थान-विशेषेऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह।
श्रीधरः : भ्रातर् इति सम्बोधनम् आक्षेपाभिप्रायम् । व्यक्तं निश्चितम् उरु अधिकं परिश्रान्तोऽसीत्य्-आदीनि विपरीतार्थानि षड्-वाक्यानि । ऊहिवान् प्रापितवान् । तत्रापि सुचिरम् । जरसा च वृद्धत्वेन । सङ्घट्टिनः सह-चराः । बहु यथा भवत्य् एवं विप्रलब्धोऽपि वक्रोक्त्योपहसितोऽपि तूष्णीम् उवाह इत्य् अन्वयः । तूष्णीं भावे हेतुः, अविद्यया रचिता द्रव्यादयो यस्मिंस् तस्मिन् स्व-चरम-कलेवरे नाध्यारोपितो मिथ्या-प्रत्ययो येन । तत्र द्रव्याणि महा-भूतानि । गुणा इन्द्रियाणि । कर्माणि पुण्य-पापानि । आशयोऽन्तः-करणम् । यतो ब्रह्म-भूतः ॥६॥
**क्रम-सन्दर्भः : **परिश्रान्तोऽसि इति टीका-दृष्टम् अपि सर्वत्र नास्ति । परिश्रान्त इत्य् एव सर्वत्र पाठः ॥६॥
**विश्वनाथः : **भ्रातर् इत्य् आक्षेपाभिप्रायम् । सङ्घट्टिनः सङ्गिनः । विप्रलब्धः विपरीत-लक्षणया उपहसितः । तेन त्वं न श्रान्तोऽपि यतोऽधुनैवात्र नियोजितः । अतिपीवा भवसि दृढाङ्गश् च भवसि युवा चासि, एते एन्ये तव सङ्गिनश् च । तद् अपि विरुद्ध-गत्या वोढुं न शक्नोमीति मयि राजन्य् अपि दुष्टतां किं प्रकाशयसीत्य् अर्थः । विप्रलब्धोऽपि तुष्णीम् उवाह । तत्र हेतुः—अविद्यया मायया रचिता द्रव्यादयो यस्मिन् तत्र स्व-चरम-कलेवरे न अध्यारोपिता मिथ्या-प्रत्ययो येन तत्र, द्रव्याणि भूतानि गुणा इन्द्रियाणि कर्माणि पुण्य-पापानि आशयोऽन्तःकरणम् अवस्तुनि, कलेवरस्य प्राधानिकत्वेन वस्तुत्वेऽपि स्वस्य तत्-सम्बन्धाभावाद् एवेति भावः, यतो ब्रह्म-भूतः । यद्यपि भरतस्य तच्-छरीरं शुकदेवादीनाम् इवाप्राकृतत्वाद् अनश्वरं नित्यम् एव, तद् अपि तस्य तदानीम् उत्पन्न-प्रेमत्वाद् एव भगवन्तं विना अन्यत्र स्व-देहादौ ममत्वासम्भवात्, तदानीं तेन देहेन साक्षात्-सेवा अलाभाद् औत्कण्ठ्य-वृद्ध्य्-अतिदैन्येनाहंत्वस्याप्य् अनर्पणात् सर्वज्ञत्वेऽपि तत्र स्व-देहे प्राकृतत्व-भानम् एवातस् तत्-सम्मत्या श्री-शुकदेवेनापि तत्-प्राकृतम् इव वर्णितम् । वस्तुतस् तु स्व-सम्मत्या तद् अप्राकृतम् एव व्याख्यातम् । सा व्याख्या च यथा अविद्यया मायया न विहिता द्रव्य-गुण-कर्माशया यत्र तथा-भूते स्वस्य चरमेऽवशिष्टे पूर्व-पूर्वेभ्यो नष्टेभ्यः कलेवरेभ्योऽवशिष्टेऽनश्वरे इत्य् अर्थः ।
यद् वा, सुष्ठु अचरमे अनिकृष्टे कलेवरे कर्मारब्धत्वाभावाद् वस्तुनि परम-सत्ये सम्यग्-अवस्थान-विशेषो वैकुण्ठ-लोकोयस्य तस्मिन्न् अपि प्रेमोत्थ-दैन्योदयाद् एव प्राकृत-देह इव अहं ममेति च्न अध्यारोपिता मिथ्या-प्रत्ययो येन सः ॥६॥
—ओ)०(ओ—
॥ ५.१०.७ ॥
अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः “किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि ? प्रमत्तस्य च ते करोमि चिकित्सां, दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यसे “इति।
**श्रीधरः : **माम् अनादृत्य भर्तुः स्वामिनो मम शासनम् आज्ञाम् अतिक्रामसि । चिकित्सां शास्तिम् । दण्ट-पाणिर् यमो यथा जन-समूहस्य शास्तिं करोति, तथा । स्वां प्रकृतिम् अप्रमत्तताम् ॥७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१०.८ ॥
एवं बह्व् अबद्धम् अपि भाषमाणं नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नातिव्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह।
**मध्वः : **अशेष-भगवत्-प्रियाणां निकेतः स एव भरतो मानुष्यापेक्षया ।
तत्-काल-स्थित-भक्तेषु मानुषेष्व् ऋषभात्मजः ।
वरोऽपि धिक्कृतो राज्ञा सुहृदा वैष्णवेष्व् अपि ॥ इति गाऋउडे ॥८॥
**श्रीधरः : **अबद्धम् अनन्वितम् । नर-देवोऽहम् इत्य् अभिमानो यस्य तम् । अनुविद्धेन सङ्गुणितेन तिरस्-कृतोऽशेषः संपूर्णो भगवतः प्रियो निकेत आश्रयो येन तम् । यद् वा, शेषाणां भगवत्-प्रियाणां निकेतः सर्वेषां भूतानां सुहृच् च आत्मा च योगेश्वराणां चर्या जडादि-वद् आचरणं तस्यां नात्यन्तं व्युत्पन्ना परिचिता मतिर् यस्य स तम् । स्मयमानो हसन्न् इवेति मुख-प्रसत्तिर् द्योत्यते । विगत-स्मयो गत-गर्वः ।
**क्रम-सन्दर्भः : **ब्रह्म-भूतो देह-द्वयावेश-रहितः ॥८॥
**विश्वनाथः : **अबद्धम् अनन्वितम् । अनुबिद्धेन ग्रथितेन । तिरस्कृतः अशेषः सम्पूर्णो भगवतः प्रियो निकेत आश्रयो भरताख्यो येन तम् । सर्व-भूत-सुहृत्-स्वरूपः स्वापराधिन्य् अपि कृपालुर् इत्य् अर्थः । पण्डित-मानिनाम् इति तस्य किञ्चिन्-मात्र-ज्ञान्नित्वं सर्वज्ञत्वेनैव ज्ञात्वेत्य् अर्थः । योगेश्वराणां चर्या जडादिवद् आचरणं तस्यां तज्-ज्ञानेनेत्य् अर्थः । स्मयमान इत्य् असौ स्वं ज्ञानिनं जानात्य् अथ चाज्ञानिवद् उक्तिर् इति । इवेति तस्य बहिर् अनिष्क्रमात् । विगत-स्मयः ज्ञानित्व-गर्व-रहितः ॥८॥
—ओ)०(ओ—
॥ ५.१०.९ ॥
ब्राह्मण उवाच—
त्वयोदितं व्यक्तम् अविप्रलब्धं
भर्तुः स मे स्याद् यदि वीर भारः ।
गन्तुर् यदि स्याद् अधिगम्यम् अध्वा
पीवेति राशौ न विदां प्रवादः ॥
**मध्वः : **भरणादि-कृद् धरिर् इति चिन्तयन् नृपम् अब्रवीद् इति च ॥९॥
**श्रीधरः : **तत्र वक्रोक्त्या यद् उक्तं “त्वं न श्रान्तो न च दीर्घम् अध्वानम् आगतः” इति तत्रोत्तरम् आह । त्वया यद् उदितम् उक्तं श्रमादि नास्तीति तद् व्यक्तं स्फुटं, तत् तथैव । अविप्रलब्धं विप्रलम्भो न भवति । तद् एवाह । हे वीर ! यदि भारो नाम कश्चित् स्यात्, स च भर्तुर् वोढुर् देहस्य यदि स्यात्, स च मे यदि प्रसक्तः स्यात् तर्हीदानीं भाराभावाद् विप्रलम्भः स्यात्, न त्व् एतद् अस्ति । भारस्य वोढुश् चानिरूप्यत्वान् मम च तत् सम्बन्धाभावात् । तथा गन्तुर् अधिगम्यं प्राप्यम् अध्वा वा यदि स्यात् । अद्धेति पाठे साक्षात् परमार्थतः । तच् च मे यदि स्याद् इत्य्-आदि योज्यम् । यत् त्वयोक्तं “नातिपीवा” इति तत्राह । चेतनम् उद्दिश्य त्वं पीवेति प्रवादो विदां विदुषां न भवति, किन्तु मूर्खाणाम् । यतोऽयं प्रवादो राशौ भूत-सङ्घे देहे एव, न त्व् आत्मनि । देह एव पीनो नाहम् इत्य् अर्थः॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ज्ञानि-मानिनम् एनं ज्ञानेनैव परास्तीकृत्य कृपयिष्यामीत्य् अभिप्रेत्याह—त्वयोदितम् इति । तत्र विरुद्ध-लक्षणया यद् उक्तं त्वया, “त्वं न श्रान्तो न दीर्घम् अध्वानम् आगतः” इति तद् अविप्रलब्धं यथार्थम् एव, न त्व् आक्षेपः । यतो भर्तुः शिविका-वाहकस्य भारो यदि मे मम स्यात्, तदा स विप्रलम्भः स्याद् इति सम्बन्धः । अहं देहाद् भिन्नो वोढैव न भवामीति भावः । एवं गन्तुर् इत्य्-आदि अधिगम्यं प्राप्यं स्थानादिकम् अध्वा वा । यत् त्वयोक्तं “त्वं पीवा भवसि” इति तत्राशौ भूतानां राशि-रूपे देहे विदां विदुषां प्रवादो न भवति, किन्तु सत्यम् एव पीवत्वम् इत्य् अर्थः । मयि चेतन-स्वरूपे तु प्रवादः कलङ्क एवेति भावः ॥९॥
—ओ)०(ओ—
॥ ५.१०.१० ॥
स्थौल्यं कार्श्यं व्याधय आधयश् च
क्षुत् तृड् भयं कलिर् इच्छा जरा च ।
निद्रा रतिर् मन्युर् अहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥
**मध्वः : **देहेन जातस्य देहाभिमानिनः । देह-मानी देह-जातो विदेहो मान-वर्जितः इति च॥१०॥
**श्रीधरः : **एतत् प्रपञ्चयति—स्थौल्यम् इति । कलिः कलहः । अहङ्कारेण मदश् च । देहेन सह तद् अभिमानेन जातस्य हि भवन्ति, मम तु निरभिमानस्य न सन्ति । यद् वा, देहे जाते यो जातस् तस्यैव तानि, मम तु तत्र न जातस्य न सन्ति ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न केवलं पीवत्वम् एव ने नास्ति, अपि त्व् अन्येऽपि देह-धर्मा न वर्तन्त इत्य् आह—स्थौल्यम् इति । देहेन सह यो जातस् तद्-अभिमानी जीवस् तस्यैव हि निश्चितं सन्ति, न तु मे निरभिमानस्य ॥१०॥
—ओ)०(ओ—
॥ ५.१०.११ ॥
जीवन्-मृतत्वं नियमेन राजन्
आद्य्-अन्तवद् यद् विकृतस्य दृष्टम् ।
स्व-स्वाम्य-भावो ध्रुव ईड्य यत्र
तर्ह्य् उच्यतेऽसौ विधिकृत्य-योगः ॥
**मध्वः : **प्राण-युक्तेर् अरत्या च जडं जीवन्-मृतं स्मृतम् इति च । स्वामित्वं तु हरेर् एव मुख्यम् अन्यत्र भृत्यता ॥११॥
**श्रीधरः : **यच् चोक्तं जीवन्-मृतोऽसीति तत्राप्य् आह—जीवन्-मृतत्वम् न केवलं मम, किन्तु किन्तु विकृतस्य सर्वस्यापि परिणामिनो दृष्टम् । यद् यस्माद् विकृतं प्रतिक्षणम् एवाद्य्-अन्तवत् । यद् उक्तं भर्तृ-शासनम् अतिचरसीति तत्राह—स्वं च स्वाम्यं च तयोर् भावः सत्ता । हे ईड्य, यत्र पक्षे ध्रुवो यदि व्यवस्थितः स्याद् इत्य् अर्थः । तर्हि विधिर् नियोगः कृत्यं कर्म तयोर् योगो ध्रुव उच्यते उचितो भवति । उच् समवाये इति धातुः । यदि तु तव राज-भ्रंशो मम राज्यं स्यात्, तदा सर्वम् एतद् विपरीतं स्याद् इत्य् अर्थः ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यच् चोक्तं जीवन्मृतोऽसीति तत्राप्य् आह—जीवन्-मृतत्वम् इति । यदि त्वया मम देहाभिमानित्वम् एव निर्धारितं तद् अपि जीवन्मृतत्वं नियमेन ममैव केवलं न, किन्तु सर्वस्यैव विकृतस्य परिणामिनो दृष्टं प्रत्यक्षम् एव यद् यस्माद् विकृतं प्रतिक्षणम् एवाद्य्-अन्तवत् ।
यच् चोक्तं भर्तृ-शासनम् अतिचरसीति तत्राह—स्वं च स्वाम्यं स्वामित्वं च तयोर् भावो विद्यमानत्वं स च यत्र यदा ध्रुवः स्थिरः स्यात् तर्हि विधि-कृत्ये शिविका-वहनादि-कर्मणि योगः, अयं जनो युज्यम् इत्य् उच्यते कथ्यते उचितो वा भवतीति उच् समवाय इत्य् अस्य रूपम् । यदि तु तव राज-भ्रंशो मम राज्यं स्यात् तर्हि त्वाम् अप्य् अहं शिविकां वाहयन् किम् इदम् अरे इत्य्-आदि कथयेयम् इत्य् अर्थः ॥११॥
—ओ)०(ओ—
॥ ५.१०.१२ ॥
विशेष-बुद्धेर् विवरं मनाक् च
पश्याम यन् न व्यवहारतोऽन्यत् ।
क ईश्वरस् तत्र किम् ईशितव्यं
तथापि राजन् करवाम किं ते ॥
**मध्वः : **देवेषु तन्-नियत्या च त्वद्-आदेर् व्यावहारिकम् ।
अमुष्येषु विशेषः को व्यवहारम् ऋते वद ।
व्यात्यासान् नहि देवेषु व्यत्यासः स्वामितां गतः ॥ इति च ॥१२॥
**श्रीधरः : **ननु यावद् राजाहं, तावत् तव स्वामी भवाम्य् एवेति चेत्, तत्राह—विशेषो राज-भृत्यादि-भेदस् तद्-बुद्धेर् विवरम् अवकाशां व्यवहाराद् अन्यन् न पश्याम । मनाक् च ईषद् अपि । अथापि तवायम् अभिमानश् चेत् तर्हि ब्रूहि किं ते करवामेति ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु यावद् राजाहं तावत् तव स्वामी भवाम्य् एवेति चेत्, तत्राह—विशेषो राज-भृत्यादि-भेदस् तद्-बुद्धेर् विवरम् अवकाशं व्यवहाराद् अन्यत् न पश्यामि । मनाक् ईषद् अपि, तथापि तवायम् अभिमानश् चेत् तर्हि ब्रूहि किं ते करवामेति ॥१२॥
—ओ)०(ओ—
॥ ५.१०.१३ ॥
उन्मत्त-मत्त-जडवत् स्व-संस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्ध-प्रमत्तस्य च पिष्टपेषः ॥
**श्रीधरः : **यत् तूक्तं प्रमत्तस्य ते चिकित्सां करोमि, यथा स्वां प्रकृतिं भजिष्यस इति तत्राह—उन्मत्तादिवद् वर्तमानस्य वस्तुतः स्व-संस्थां ब्रह्म-भावं गतस्य भवता कृतेन चिकित्सितेन दण्डेन शिक्षितेन वा कियान् अर्थः । मुक्तस्यार्थानर्थयोर् असम्भवात् । यदि पुनर् अहं न मुक्तः, किन्तु प्रमत्तः स्तब्ध एव, तथापि मम शिक्षादिकं पिष्ट-पेषणवद् व्यर्थम् इत्य् अर्थः । न हि जड-स्वभावः शिक्षयापि पटू-कर्तुं शक्यत इति ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यच् चोक्तं प्रमत्तस्य ते चिकित्सां करोमीति तत्राह—उन्मत्तादिवद् वर्तमानस्य, वस्तुतस् तु स्व-संस्थाम् अन्तर्-निष्ठां गतस्य चिकित्सितेन कायिकेन वाचिकेन वा दण्डेन कियान् अर्थः ? साधयितव्यः मुक्तानाम् अर्थानर्थयोर् अग्रहणात् । यदि पुनर् अहं न मुक्तः, किन्तु प्रमत्त स्तब्ध एव तदापि शिक्षितेन त्वद्-दत्त-दण्डेन पिष्ट-पेष एव भवति, यत्र पिष्टं वस्तु प्रहारेण पिष्टं भवति, तथैव प्रमत्तस्य दण्डनेन प्रमत्तता न शाम्यति, किन्त्व् अतिप्रमत्तता स्यात् ॥१३॥
—ओ)०(ओ—
॥ ५.१०.१४ ॥
श्री-शुक उवाच—
एतावद् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह।
**श्रीधरः : **अनुवाद-रूपया परिभाषया भाषणेन तं प्रत्युत्तरं दत्त्वा । उपरतम् अनात्म्ये देहात्मत्वे निमित्तम् अविद्या यस्य । आरब्ध-फलं कर्म क्षपयन् ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनुवाद-रूपया परिभाषया भाषमाणेन तम् उपरतम् अनात्म्यस्य देहात्म-भावस्य निमित्तम् अविद्या यस्य सः । ननु स्व-देहाभिमानं विना तद्-वचोऽनुद्य सोढुम् असमर्थ इव समादधानः कथं तथा प्रत्युत्तरवांस् तत्राह—उपभोगेन राजोचितैश्वर्य-भोगेन ज्ञापितं यत् रहूगणस्य प्रारब्धं कर्म तद् अपि व्यपनयन् व्यपनेतुम् अनुवाद-मिषेण कृपया स्वोपदिष्ट-तद्-अनुष्ठिततया भक्त्यैव तत्-प्रारब्धम् अपि दूरीकर्तुम् इत्य् अर्थः । यद् वा, प्रेमोत्थ-दैन्येन स्वस्य भक्तत्वामननात् उपभोगेन शिविका-भारोद्वहनादिना आरब्ध-फलं कर्म व्यपनयन् व्यपनयामीति मनसि भावयन्न् इत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ ५.१०.१५ ॥
स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद्-धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच।
**श्रीधरः : **हे पाण्डवेय ! सम्यग् या श्रद्धा, तयैव तत्त्व-जिज्ञासायां प्राप्तोऽधिकारो येन । यथा दर्श-पूर्ण-मासाधिकृतस्यैव गो-दोहनेन पशु-कामस्यापः प्रणयेद् इति गुण-फल-सम्बन्धेऽप्य् अधिकारः । एवं सात्त्विक-श्रद्धायाम् अधिकृतस्यैवास्याम् अधिकार इत्य् अर्थः । बहु-योग-ग्रन्थ-संमतं द्विजस्य तद्-वचः श्रुत्वा विगतो नृप-देवोऽधिराज इति गर्वो यस्य ॥१५॥
**क्रम-सन्दर्भः : **सम्यक् श्रद्धया श्री-गुरु-विषयया ॥१५॥
**विश्वनाथः : **अधिकृतः प्राप्तोऽधिकारो येन सः ॥१५॥
—ओ)०(ओ—
॥ ५.१०.१६ ॥
कस् त्वं निगूढश् चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश् चेद् असि नोत शुक्लः
**श्रीधरः : **द्विजानां मध्ये कतमः । यतः सूत्रम् उपवीतं बिभर्षि । यद् वा, दत्तात्रेयादीनां मध्ये कतमोऽवधूतः ? इहापि कस्माद् धेतोः प्राप्तः । नोऽस्माकं क्षेमाय चेत् प्राप्तस् तर्हि शुक्लः कपिलो मुनिर् न भवसि किम् । उतेति वितर्के ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्विजानां मध्ये त्वम् कतमः ? यतस् त्वं सूत्रम् बिभर्षि । अवधूतः किं दत्तात्रेयोऽसि ? कुत्रत्यः किं देश-जन्मासि ? नोऽस्माकं क्षेमाय प्राप्तश् चेत् शुक्लो नारायणो नास्ति, उत तद्-अवतारः कपिलो नासि ? ॥१६॥
—ओ)०(ओ—
॥ ५.१०.१७ ॥
नाहं विशङ्के सुर-राज-वज्रान्
न त्र्यक्ष-शूलान् न यमस्य दण्डात् ।
नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच्
छङ्के भृशं ब्रह्म-कुलावमानात् ॥
**श्रीधरः : **किम् अनया चिन्तया ? शिबिकां तावद् वहामीति चेद् अत आह—नाहम् इति । वित्तपः कुबेरः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु शिविकारूढस्य तव किम् अनेन विचारेण इत्य् उत आह—नाहम् इति । सुर-राजादयो वज्रादिभिर् युधि मां हन्तुं यदि प्रयतन्ते, तद् अपि स्वस्य वीरत्व-स्वभावात् न शङ्के प्रत्युतोत्साह-सुखम् एव प्राप्नोमीति भावः । यद् वा, सुर-राजादिषु जातापराधोऽहं तेषां कुपितानां वज्रादि-प्रहाराद् अपि न शङ्के इत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ ५.१०.१८ ॥
तद् ब्रूह्य् असङ्गो जडवन् निगूढ-
विज्ञान-वीर्यो विचरस्य् अपारः ।
वचांसि योग-ग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥
**श्रीधरः : **यस्माद् भृशं शङ्के तत् तस्मात् कस् त्वम् ? इत्य्-आदि-प्रश्नानाम् उत्तरं ब्रूहि । निगूढं पिहितं विज्ञान-रूपं वीर्यं प्रभावो येन । अपारोऽनन्त-महिमा । तत्र हेतुः, नो मनसापि भेत्तुं न क्षमं न शक्यम् । किं भेत्तुम् ? इत्य् अपेक्षायाम् आह—ते वचांसीति । यद् वा, मनसा युक्ताः सूक्ष्म-दृष्टयोऽपि भेत्तुं न शक्नुवन्तीत्य् अर्थः ॥१८॥
**क्रम-सन्दर्भः : **नोऽस्माकं मनसा सह योगेन युक्त्या ग्रथितान्य् अपि वचांसि यद् भेत्तुं न क्षमन्ते, तद् ब्रूहि—विशदीकुर्व् इति ॥१८॥
**विश्वनाथः : **तत् तस्माद् ब्रूहि कस् त्वम् ? इत्य् अर्थः । त्वच्-छिविका-वाहकोऽस्मीति चेद् अलम् अतः परम् अपि मद्-विडम्बनैस् त्वाम् अहं कम् अपि महा-योगीन्द्रम् अज्ञासिषम् एवेत्य् आह—वचांसीति । यतो योग-प्रथितानि ते वचांसि नोऽस्माकं मनसापि भेत्तुं न क्षमं न क्षमाणि न शक्यानि इत्य् अर्थः ।
यद् वा, वचांसि योगैर् ग्रथितान्य् अपि योगेश्वराणाम् उपदेश-वाक्यानि कर्तॄणि नोऽस्मान् अतिकठोरान् भेत्तुं छिन्न-संशयीकर्तुं न क्षमन्ते न शक्नुवन्ति । कीदृशान् मनसापि सहितान् अवहित-मनसोऽप्य् अवादित्वेन तानि जिघृक्षून् अपीत्य् अर्थः । तव त्व् एतावतापि प्रतिवचनेनैव छिन्न-संशयोऽस्मि संवृत्त इति भावः ॥१८॥
—ओ)०(ओ—
॥ ५.१०.१९ ॥
अहं च योगेश्वरम् आत्म-तत्त्व-
विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किम् इहारणं तत्
साक्षाद् धरिं ज्ञान-कलावतीर्णम् ॥
**श्रीधरः : **स्वस्य ज्ञानार्थितां दर्शयति—अहं चेति । इह संसारे यद् अरणं शरणं तत् किम् ? इति प्रष्टुं प्रवृत्तोऽस्मि । ज्ञान-शक्त्यावतीर्णं कपिलम् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **योगेश्वराणाम् अतिमुख्य एव मत्-संशयं छेत्तुं समर्थ इति द्योतयन्न् आह—अहं चेति । साक्षाद् धरिं श्री-कपिल-देवं ज्ञानस्य कलायै ज्ञापनाय अवतीर्णम् ॥१९॥
—ओ)०(ओ—
॥ ५.१०.२० ॥
स वै भवान् लोक-निरीक्षणार्थम्
अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् ।
योगेश्वराणां गतिम् अन्ध-बुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥
**श्रीधरः : **स एव भवान् किं स्विद् एवं विचरति ? गृहाविष्टः कथं विचक्षीत पश्येत् ? ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स एव भवान् किं स्विद् एवं विचरति ? अन्ध-बुद्धिर् मद्-विधः ॥२०॥
—ओ)०(ओ—
॥ ५.१०.२१ ॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर् गन्तुर् भवतश् चानुमन्ये
यथासतोदानयनाद्य्-अभावात्
समूल इष्टो व्यवहार-मार्गः
**श्रीधरः : **एवं तत्-स्वरूपं पृष्ट्वा तद्-उक्तोत्तराण्य् आक्षिपति । तत्र यद् उक्तं मम श्रमो नास्तीति तत्राह—दृष्ट इति । आत्मनो मे । अनुमन्ये अनुमिमे, अनुमानं चैवम्, भवान् भार-वाहनादिना श्रान्तः कर्तृत्वात्, यः कर्ता स श्राम्यति, यथाहं युद्धादि-कर्तेति ।
नन्व् इदं व्यवहार-मात्रं, न तु सत्यम् । यद् उक्तं व्यवहारतोऽन्यन् न पश्यामीति तत्राह—यथेति । व्यवहार-मार्गः प्रपञ्चः स-मूलः स-प्रमाणक एव इष्टः । यथा यथावत् । असता घटादिनोदकानयनादेर् अभावात् । एवं प्रयोगः, प्रपञ्चः सत्यः, अर्थ-क्रिया-कारित्वात्, यः पुनर् असत्यः नासाव् अर्थ-क्रिया-कारी, यथा मिथ्या घटादिर् इति ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कपिल-देवं प्रष्टुं प्रवृत्तोऽहम् अध्वन्य् एव तम् इमं प्राप्तस् तद् एतद् दत्तोत्तराण्य् एव प्रथमम् आक्षिपन् सर्वम् एव स्व-जिज्ञास्यम् आविष्करिष्यामीति मनसि विचारयन् यद् उक्तं मम श्रमो नास्तीति तत्राह—दृष्ट इति । आत्मनो मे अनुमन्ये अनुमिमे, अनुमानं चैवम्, भवान् भार-वाहनादिना श्रान्तः कर्तृत्वात्, यः कर्ता स श्राम्यति, यथाहं युद्धादि-कर्तेति ।
न चेदं व्यवहारिका एवं जल्पन्ति, न तु पारमर्थिका इति वाच्यं, व्यवहार-मार्गस्यापि निर्मूलीकर्तुम् अशक्यत्वाद् इत्य् आह—यथेति घटादि-करण-कजलादिकम् आहरेत्य् उक्ते असता घटादिना उदकानयनादेर् अदृष्टत्वात् व्यवहार-मार्गः प्रपञ्चः समूलः सप्रमाणक एवेष्टः । यथा यथावत् । एवं प्रयोगः, प्रपञ्चः सत्यः, अर्थ-क्रिया-कारित्वात्, यः पुनर् असत्यः नासाव् अर्थ-क्रिया-कारी, यथा मिथ्या घटादिर् इति ॥२१॥
—ओ)०(ओ—
॥ ५.१०.२२ ॥
स्थाल्य्-अग्नि-तापात् पयसोऽभितापस्
तत्-तापतस् तण्डुल-गर्भ-रन्धिः ।
देहेन्द्रियास्वाशय-सन्निकर्षात्
तत्-संसृतिः पुरुषस्यानुरोधात् ॥
**श्रीधरः : **यद् उक्तम् उपाधि-धर्माः स्थौल्यादयो मे न वस्तुतः सतीति तत्रौपाधिकत्वेऽ पि सत्यत्वं किं न स्याद् इत्य् आह । स्थाल्या अग्निना तापात् तन्-मध्य-वर्तिनः क्षीरस्य तापः तस्य तापात् तण्डुलानां बहिर् भागस्य ततस् तद्-गर्भस्य च रन्धिः पाकः । न चात्र किञ्चिन् मिथ्या । एवं देहादिभिः सन्निकर्षात् सम्बन्धात् तन् निमित्ता संसृतिः पुरुषस्य भवति । असवः प्राणाः । आशयो मनः । अनुरोधाद् उपाधि-धर्मानुवृत्तेः । तथा हि निदाघादिना देहे तप्ते इन्द्रियाणां तापस् ततः प्राणस्य ततो मनस इत्य् एवं यथायथम् ऊह्यम् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भारोद्वाहनादिना देहेन्द्रियादेः श्रान्त्या आत्मापि श्रान्तो भवतीति । तत्र दृष्टान्तम् आह—स्थाल्या अग्निना तापात् तन्-मध्य-वर्तिनः क्षीरस्य पयसस् तापः, तस्य तापात् तण्डुलानां बहिर्-भागस्य तापः, ततस् तद्-गर्भस्य च रन्धिः पाको यथा, तथैव देहादिभिः सन्निकर्षात् सम्बन्धात् तत्-संसृतिस् तन्-निमित्तकः संसारः पुरुषस्य भवति । असवः प्राणाः । आशयो मनः । अनुरोधाद् उपाधि-धर्मानुवृत्तेः । यथा निदाघादिना देहे तप्ते इन्द्रियाणां तापः । ततः प्राणस्य ततो मनसस् तत आत्मन इति ॥२२॥
—ओ)०(ओ—
॥ ५.१०.२३ ॥
शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्व-धर्मम् आराधनम् अच्युतस्य
यद् ईहमानो विजहात्य् अघौघम् ॥
**श्रीधरः : **यद् उक्तं स्व-स्वाम्य्-अभावो ध्रुव इति तत्राह—शास्तेति । अध्रुवत्वेऽपि यदा यो नृपतिः स प्रजानां शास्ता गोप्ता च । यच् चोक्तं स्तब्धादेः शिक्षा पिष्ट-पेष इति तत्राह—योऽच्युतस्य किङ्करः स पिष्टं न पिनष्टि निष्फलं न करोति । स्तब्धत्वाद्य्-अनपगमेऽपि शास्तुर् ईश्वराज्ञासंपादनेनैव स-फलत्वात् तद् आह । स्व-धर्म-रूपम् अच्युतस्याराधनं कुर्वन् यस्माद् अघौघं विजहाति ॥२३॥
**क्रम-सन्दर्भः : **किङ्करो वेद-रूपेश्वराज्ञाकारी मादृशो जनः ॥२३॥
**विश्वनाथः : **यद् उक्तं स्व-स्वाम्य्-अभावो ध्रुव इति तत्राह—शास्तेति । अध्रुवत्वेऽपि यदा यो नृपतिः स प्रजानां शास्ता गोप्ता च भवत्य् एव । यच् चोक्तं स्तब्धादेः शिक्षा पिष्ट-पेष इति तत्राह—योऽच्युतस्य किङ्करो मद्-विधः स पिष्टं न पिनष्टि, यत-स्तब्धत्वाद्य्-अनपगमेऽपि शास्तुर् ईश्वरस्याज्ञा-सम्पादनेनैव फलवत्त्वात् तद् आह—प्रजा-शासन-लक्षणं स्व-धर्म-रूपम् अच्युतस्याराधनं नृप ईहमानः कुर्वन् स्वस्याघौघं प्रत्यावाय-समूहं जहाति ॥२३॥
—ओ)०(ओ—
॥ ५.१०.२४ ॥
तन् मे भवान् नर-देवाभिमान-
मदेन तुच्छीकृत-सत्तमस्य ।
कृषीष्ट मैत्री-दृशम् आर्त-बन्धो
यथा तरे सद्-अवध्यानम् अंहः ॥
**श्रीधरः : **यस्माद् एवं मम त्वद्-उक्तं विपरीतं प्रतिभाति तत् तस्मान् नर-देवाभिमान-मदेन तुच्छी-कृतास् तिरस्कृताः सत्तमा भवादृशा येन तस्य मे मैत्री-दृशं कृषीष्ट करोतु । सताम् अवज्ञा-रूपं पापं यथा तरिष्यामि ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यस्माद् एवं मम त्वद्-उक्तं विपरीतं विभाति, तत् तस्मान् नर-देवोऽहम् इत्य् अभिमानेन यो मदो विज्ञंमन्यत्वादि मिथ्या-गर्वस् तेन तुच्छीकृतास् इमे किं जानन्तीत्य् अनादृताः सत्तमाः भवादृशा येन तस्य मे दुर्जीवोऽयं नरकेऽपि पतिष्यतीति विभाव्य मैत्री-दृशं स्नेह-युक्तां दृष्टिं कृषीष्ट करोतु । यया सताम् अवज्ञा-रूपम् अङ्घस् तरिष्यामि ॥२४॥
—ओ)०(ओ—
॥ ५.१०.२५ ॥
न विक्रिया विश्व-सुहृत्-सखस्य
साम्येन वीताभिमतेस् तवापि ।
महद्-विमानात् स्व-कृताद् धि मादृङ्
नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः ॥
**मध्वः : **स्वतो महद् अवज्ञानाद् रुद्रोऽप्य् आत्मानम् आदहेत् इति च ॥२५॥
**श्रीधरः : **ननु ममावज्ञाकृत-विकाराभावात् कुतः पापम् ? तत्राह—नेति । यद्यपि तव विक्रिया नास्ति । विश्वस्य सुहृच् चासौ सखा च तस्य । अतः सर्वत्र साम्येन स्व-देहे विगताभिमानस्य, तथापि महताम् अवमानान् मादृशो विनङ्क्ष्यति । अदूरात् क्षिप्रम् । शूल-पाणिर् इवातिसमर्थोऽपीत्य् अर्थः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु त्वत्-कृतेन तिरस्कारेणास्मादृशां दुःखं नोत्पाद्यते कुतस् तवांहस् तत्राह—नेति । तथापि तव यद्यपीत्य् अर्थः । तद् अपि मादृक् विनङ्क्ष्यति शूलपाणि-सदृशोऽपि । यद् उक्तं—सेर्ष्यं महापूरुष-पाद-पांसुभिर् निरस्त-तेजःसु [भा।पु। ४.४.१३] इत्य्-आदि ॥२५॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां पञ्चम-स्कन्धे
जड-भरत-रहूगण-संवादे दशमोऽध्यायः
॥ ५.१० ॥
(५.११)