०९ जड-भरत-चरिते

॥ ५.९.१-२ ॥

श्री-शुक उवाच—

अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम्; यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः ॥

**श्रीधरः : **

नवमे जड-विप्रत्वे तस्य रागाद्य्-अभावतः ।

भद्रकाली-पशुत्वेऽपि निर्विकारत्वम् ईर्यते ॥

पितुः प्राप्तात्म-विज्ञानो भरतो मृततां गतः ।

प्रारब्ध-कर्म-वेगेन तद्-अन्ते जड-विप्रताम् ॥

आङ्गिरस-गोत्रजानां प्रवरस्य श्रेष्ठस्य शमादि-युक्तस्य । त्यागोऽत्रातिथ्यादिभ्योऽन्न-दानादि । विद्या कर्म-विद्या । आत्म-ज्ञानं देहादि-व्यतिरिक्त-भोक्त्र्-आत्म-ज्ञानम्। आनन्दो धर्म-सम्पत्तिजः । आत्मना सद्र्शाः श्रुतादयो गुणा येषां ते समानोदरा नव पुत्रा बभूवुः । यवीयस्यां कनिष्ठायां च मिथुनं स्त्री-पुरुष-युग्मम् ॥१॥

**क्रम-सन्दर्भः : **भक्तत्वाद् एवम् आत्मनो भक्ति-प्रतिघातम् आशङ्कमानः ॥१॥

**विश्वनाथः : **

नवमे जडता तस्य गायत्र्या अप्य् अशिक्षणम् ।

केदार-कर्म देव्या अप्य् उच्चाटनम् इतीर्यते ॥

—ओ)०(ओ—

॥ ५.९.३ ॥

तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयामास लोकस्य ।

**श्रीधरः : **उत्सृष्टं मृग-शरीरं येन तम् । शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभ्जायते[गीता ६.३९] इति स्मृतेः ॥ तत्रापि चान्य-सङ्गाद् आत्मनो भ्रंशम् आशङ्कमानश् चात्मानम् उन्मत्तादि-रूपेण दर्शयाम् आसेत्य् अन्वयः । किं कुर्वन् ? कर्म-बन्ध-विध्वंसनं श्रवणं स्मरणं गुणानां विवरणं कथनं च यस्य तद् भगवतश् चरणारविन्द-युगलं मनसा विशेषेण धारयन् । प्रतिघात-शङ्कायां हेतुः, अनुस्मृता स्वीय-पूर्व-जन्म-नामावलिः परम्परा येन सः ॥३॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **कर्म-बन्ध-विध्वंसनं चरणारविन्दादिकं यस्य तथा-भूतं चरणारविन्दं विशेषेण दधत्, लोकस्य लोकम् ॥३॥

—ओ)०(ओ—

॥ ५.९.४ ॥

तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति।

**श्रीधरः : **पुत्र-स्नेहेऽनुबद्धं मनो यस्य । जडस्य गार्हस्थ्यान् अधिकारात् समावर्तनान् तान् संस्कारान् विदधानस् तम् उपनीयोपनीतस्य पुनः शौचादींस् तस्यानभिप्रेतान् अपि शिक्षितवान् । तत्र हेतुः—अनुशिष्टेन हि भाव्यं पितुः सकाशात् पुत्रेणेति ॥४॥

**क्रम-सन्दर्भः : **स्वजन-सङ्गाच् च भृशम् उद्विजमान इत्य् अधिकं चान्यत्र नास्ति स्वाम्य्-असम्मतं च दृश्यते । व्यवधानेन योजितत्वात् ॥४॥

**विश्वनाथः : **अनभिप्रेतान् इति शश्वद् अनुभूयमान-भगवत्-स्वरूपत्वेन स्वस्य कर्मानधिकार-मननात्, पितुः सकाशात् अनुशिष्टेन ॥४॥

—ओ)०(ओ—

॥ ५.९.५ ॥

स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस।

**श्रीधरः : **सोऽपि च पितुः शिक्षानिर्बन्ध-निवृत्तये असध्रीचीनम् असमीनम् इव करोति स्म उपाकरण-वेद-व्रताद्य्-अनन्तरं श्रावणादि-मासेषु वेदान् अध्यापयिष्यन्नादौ तावद् व्याहृतिभिः सह प्रणव-शिरः-सहितां त्रि-पदीं चैत्रादि-चतुरो मासान् अधीयानमप्य् असमवेत-रूपं यथा भवत्य् एवं ग्राहयाम् आस । तावतापि कालेन स्वरानुपूर्व्यादि-युक्तं व्याहृत्यादि तस्य नागतम् इत्य् अर्थः ॥५॥

**क्रम-सन्दर्भः : **अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेतीत्य् अस्य पितुर् वाक्यस्य तस्माद् अयम् अनुशिष्टः कर्तव्यः । व्यतिरेके तु स्वयं कोषावहः स्याद् इति तात्पर्यम् ॥५॥

**विश्वनाथः : **स भरतः पितुः शिक्षा-निर्बन्ध-निवृत्तये तत् शौचाचमनादिकम् असध्रीचीनं विपर्यस्तं मूत्र-पुरीषोत्सर्गादेः प्राग् एवाचमन-मृत्तिका-शौचादिकं करोति, न त्व् अनन्तरम् । इवेति तस्य तद् अपि वस्तुतः समीचीनम् एवेति । उपाकरण-वेदग्रहणाद्य्-अनन्तरं श्रावणादि-मासेषु वेदान् अध्यापयिष्यामि, सम्प्रति तु जडम् इमं गायत्रीं तु शिक्षयामीति विचार्य चैत्रादिभिश् चतुर्भिर् अपि मासैर् नैरन्तरम् अपि गायत्र्याः पाद-त्रयं पाठयन् सम्पूर्णां तां धारयितुम् न शशाकेत्य् आह—छन्दांसीति । असमवेत-रूपं यथा स्यात् तथा ॥५॥

—ओ)०(ओ—

॥ ५.९.६ ॥

एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः।

**श्रीधरः : **आत्म-भूते स्व-तनुजेऽनुरागेणावेशितं चित्तं येन । शौचादीनि यान्य् औपकुर्वाणकस्य सावधि-ब्रह्मचर्यवतः कर्माणि तेनानभियुक्तान्य् अनादृतान्य् अपि तं पुत्रं प्रत्य् अनुशास्याप्य् अप्राप्त-पुत्र-पाण्डित्य-मनो-रथः स्वयं कालेनोपसंहृतो मृत इत्य् अर्थः । अनुशासन-निर्बन्धे पुनस् तम् एव हेतुम् आह—अनुशिष्टेन भाव्यम् इत्य् असन्न-योग्य आग्रहो यस्य ॥६॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **स्व-तनूजे पुत्रे आत्मनि स्नेहात् स्व-प्राणाद् अप्य् अधिके इत्य् अर्थः । औपकुर्वाणकस्य सावधि ब्रह्मचर्य-व्रतः कर्माणि तेनानभियुक्तानि अनादृतान्य् अपि तं पुत्रं प्रतनुशास्य, अनुशासन-निर्बन्धे पूर्वोक्तम् एव हेतुम् आह—समन्व् इति । उपसंहृतः मृतः ॥६॥

—ओ)०(ओ—

॥ ५.९.७ ॥

अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात्।

**श्रीधरः : **सपत्न्यै समर्प्य । अनुसंस्थयानुमरणेन । सप्तम्य्-अन्त-पाठेऽप्य् अयम् एवार्थः ॥७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **सपत्न्यै उपन्यस्य सपत्न्याम् इति सप्तम्य्-अन्त-पाठेऽप्य् अयम् एवार्थः ॥७॥

—ओ)०(ओ—

॥ ५.९.८ ॥

पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त।

**श्रीधरः : **न्यवृत्सन्त निवर्तितुम् ऐच्छन् । निवृत्ता इत्य् अर्थः ॥८॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अनुशिष्टवतीति शेषः । एनम् अनुशिष्टवति पितरि उपरते सतीत्य् अन्वयः । न्यवृत्सन् निवर्तितुम् ऐच्छन् । लुडि वा रूपम्, निवृत्ता इत्य् अर्थः । उभयथाप्य् आर्ष-प्रयोगः । न तु पितेव तस्मिन्न् अत्याग्रहवन्त इति भावः ॥८॥

—ओ)०(ओ—

॥ ५.९.९ ॥

**स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् अभिभाष्यमाणो यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम्; नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः; **

**श्रीधरः : **यदाभिभाष्यमाणस् तदा तद्-अनुरूपाणि प्रभाषते । मूल्यम् अन्तरेण बलाद् यत् कर्म कार्यते, सा विष्टिः । वेतनं मूल्यम् । विष्ट्यादिभिर् उपसादितम् अन्नम् अभ्यवहरति उपभूङ्क्ते केवलं, न त्व् इन्द्रिय-प्रीतये । अत्र हेतु-द्वयम् आह । नित्यं सदा निवृत्तं निमित्तं यस्मात् स उत्पादक-शून्यः स्व-सिद्धोऽभिव्यञ्जक-शूनो विशुद्धः केवलो योऽनुभवः स एवानन्द-रूपः स्वात्मा तस्य लाभ एवं-भूतोऽहम् इति ज्ञानं तस्याधिगमः प्राप्तिर् अस्ति यस्य । द्वन्द्वानि सन् मानावमानादीनि तद् धेतुकयोः सुख-दुःखयोर् अकृत-देहाभिमानः । तस्मान् नेन्द्रिय-प्रीति-निमित्तम् अभ्यवहरतीत्य् अन्वयः ।

**क्रम-सन्दर्भः : **पितर्य् उपरत इति । एवं जड-मतिर् इति । ज्ञात्वेति योज्यं ज्ञात्वेत्य् अध्याहारात् न पर-विद्यायाम् इत्य् अनेन भगवद्-भक्तेस् त्रयी-विद्यातीतत्वं पर-विद्यात्वं च दर्शितं तत्रापीत्य्-आदि गद्ये तस्य भक्त्य्-एक-निष्ठताया दर्शितत्वात् ततश् चैवं परामृश्यते । सोऽयम् अन्तर् भिगवन्-निष्ठ एवेत्य् आत्मारामता तु बहिरङ्गा तद्-आवरणाय प्रयुक्त तस्याप्य् आवरणायोन्मत्त-चेष्टतेति न्यवृत्सन्न् इति लुङ्-प्रत्ययान्त आर्षः ॥९॥

**विश्वनाथः : **मूल्यम् अन्तरेण बलात् यत् कार्यते सा विष्टिः । नित्यं सदैव पूर्व-जन्मन्य् अपि निवृत्तं निमित्तं कर्म यस्य सः । स्व-सिद्धेन स्वत एव सिद्धेन विशुद्धेनाप्राकृतेन अनुभवानन्देन दृष्टेनैव स्वात्मनः स्वेष्ट-देवस्य कृष्णस्य लाभाधिगमः लाभः प्रतीतिर् यस्मिन् स च स च सः । अत एव द्वन्द्वानि सम्माननावमानादीनि तद्-धेतुकयोः सुख-दुःखयोर् अकृत-देहाभिमानः । अत एव नेन्द्रिय-प्रीति-निमित्तम् अभ्यवहरतीत्य् अन्वयः ॥९॥

—ओ)०(ओ—

॥ ५.९.१० ॥

शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महा-मणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार।

**श्रीधरः : **अत एव शीतोष्णादिष्व् अनावृताङ्गो विचचारेत्य् अन्वयः । कीदृशः ? पीनः पुष्टः । संहननाङ्गाः संहन्यन्ते निबिडी-भवन्ति स्माङ्गानि यस्य । कठिनावयव इत्य् अर्थः । स्थण्डिल-संवेशनं भूमि-शयनम्, अनुन्मर्दनं मर्दनाभावः, अमज्जनं स्नानाभावः, तैर् यद् रजस् तेनाप्रकटं ब्रह्म-वर्चसं ब्राह्मं तेजो यस्य । यथा महा-मणिर् अनभिव्यक्त-तेजा भवति । कुत्सितेन पटेनावृता कटिर् यस्य । उरुमषिणाति-मलिनेन तत्त्वतस् तं न जानन्ति ये तैर् जनैर् अवमतः सन् ॥१०॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अपावृताङ्गः अनावृताङ्गः संहननाङ्गः अतिबलिष्ठ-गात्रः स्थण्डील-संवेशनं भूमि-शयनम् अनुन्मर्दनम् अभ्यङ्गाद्य्-अभावः अमज्जनं ब्राह्मं तेजो यस्य सः । ऊरु-मसिना अतिमलिनेन ॥१०॥

—ओ)०(ओ—

॥ ५.९.११ ॥

यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-कुल्माष-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति।

**श्रीधरः : **यदा तु परेभ्यः कर्म-मूल्येनाहारम् अपेक्षमाणो भवति तदा केदार-कर्मणि शालि-क्षेत्रे कर्दम-विलोडनादावाहार-प्रलोभवेन नियुक्तः सन् करोति । किन्त्व् अत्र कर्दमस्य प्रक्षेपे क्षेत्रं समं भवेद् इत उद्धरणे विषमं स्याद् इत्य्-आदि न वेद । भ्रातृभिर् दत्तान् कणादीन् अप्य् अमृत-वद् भुङ्क्ते । कणाश् चूर्ण-तण्डुलाः । पिण्याकं तैल-यन्त्रोद्धृतं तिल-किट्टम् । फली-करणं तुषाः कुल्माषाः कीट-दष्टा माषाः । स्थाली-पुरीषं स्थाली-लग्नं दग्धान्नम् ।

तस्य रागादिराहित्यम् अलौल्यं चैवम् ईरितम् ।

अथान्यच् चरितं प्राह चित्रं मृत्यावसंभ्रमम् ॥११॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **कर्म-वेतनतः कर्म-मूल्येन आहारम् ईहमनो यदा भवति तदा स्व-भ्रातृभिर् इति सर्वं दिनं कर्म कारयित्वा आहार-मात्रं चेद् अन्ये ददति, तर्हि वयम् एव तथा कारयामः अप्रतिष्ठा च नस् तावती न भविष्यतीति मत्वेति भावः । कर्दम-विलोडनादि-कर्मणि । अत्र कर्दमस्य प्रक्षेपे क्षेत्रं समं भवेद् इत उद्धरेण विषमं भवेद् इत्य्-आदि तु न वेद । पिण्याकं तैल-यन्त्रेणोद्धृतं तिलकिट्टं, फलीकरणं तूषः, कुल्मायाः कीट-विद्ध-माषाः । स्थाली-पुरीषं स्थाली-लग्नं दग्धान्नं, तद्-आदीनि भ्रातृभिर् दत्तानि ॥११॥

—ओ)०(ओ—

॥ ५.९.१२ ॥

अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः ।

**श्रीधरः : **वृषाऌअ-पतिह् शूद्र-सामन्तश् चौर-राजः । आलभत आलब्धुं प्रवृत्तः ॥१२॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **वृषाऌअ-पतिह् शूद्र-सामन्तश् चौर-राजः । आलभत आलब्धुं प्रवृत्तः ॥१२॥

—ओ)०(ओ—

॥ ५.९.१३ ॥

तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन् ।

**श्रीधरः : **दैवाद् बन्धन-विमुक्तस्य पशोः । तमसा व्याप्तायां निशि । तत्रापि निशीथ-समयेऽर्ध-रात्रावसरे । आकस्मिको दैव-निर्मितो विधिः प्रकारस् तेन । वीरासनेनोर्ध्वावस्थानेन ॥१३॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **दैवाद् बन्धन-विमुक्तस्य पलायितस्य पुरुष-पशोः । वीरासनेन ऊर्ध्वावस्थानेन ॥१३॥

—ओ)०(ओ—

॥ ५.९.१४ ॥

अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित-वदनाः ।

**श्रीधरः : **अवमृश्य ज्ञात्वा ॥१४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.९.१५ ॥

अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयामासुः ॥

**श्रीधरः : **पणयश् चोराः । अहतेन नूतनेन । उपस्कृतम् अलङ्कृतम् । वैशस-संस्थया हिंसा-विधानेन । गीतादि-घोषेण सह ॥१५॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **पणयश् चोराणां पुरोहिताः । अहतेन नूतनेन । वैशस-संस्थया हिंसा-विधानेन युक्तम् ॥१५॥

—ओ)०(ओ—

॥ ५.९.१६ ॥

अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे ॥

**श्रीधरः : **वृषल-राजस्य पणिः पुरोहितत्वेन वर्तमानश् चोरः । तद्-अभिमन्त्रितं भद्रकाली-मन्त्राभिमन्त्रितम् ॥१६॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **वृषल-राजस्य पणिः मुख्यः पुरोहितः ॥१६॥

—ओ)०(ओ—

॥ ५.९.१७ ॥

इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली ॥

**श्रीधरः : **धन-मद एव रजस् तेनोत्सिक्तं त्यक्त-मर्यादं मनो येषाम् । भगवत्-कला-युक्तं वीराणां ब्राह्मणानां कुलं तुच्छीकृत्य यथेच्छं वर्तमानानां यत् कर्म तद् उपलभ्य देवी उच्चचाट प्रतिमां त्यक्त्वा बहिर् निर्गता । कथम्भूतम् आलम्भनम् ? सूनायाम् अप्य् आपत्-कालेऽनुज्ञातायाम् अपि हिंसायाम् अननुज्ञातम् । भद्रकालीत्य् अन्तं गद्यम् ॥१७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **भगवतः कलानाम् अवताराणां वीराः सेनान्यो ये भक्तास् तेषां कुलं कदर्थीकृत्य दुःखयित्वा स्वैरं विहरतां यत् कर्म तद् उपलभ्य देवी उच्चचाट प्रतिमां भित्त्वा बहिर् निर्जगाम । यद् वा, सैव प्रतिमा-रूपा देव्य् एव उच्चचाट भरत-तेजसा छिन्न-भिन्ना बभूव, न तु तदीयासिना भरतश् छिन्नो बभूव इत्य् एव-कारार्थो व्यक्तः । सूनायाम् आपत्-काले स्वरक्षार्थम् अनुज्ञातायाम् अपि हिंसायाम् अननुज्ञातं सर्वथैव निषिद्धम् आलभनम् इत्य् अर्थः ॥१७॥

—ओ)०(ओ—

॥ ५.९.१८ ॥

भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयातिपान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया।

**श्रीधरः : **अमर्षोऽपराधासहनं रोषश् च वपुषो दाहनं तयोर् आवेशस् तस्य रभसेन वेगेन विलसित उत्तम्भितो भ्रुकुटि-लक्षणो विटपः शाखा-कुटिला दंष्ट्राश् चारुणानीक्षणानि च तेषाम् आटोपः सम्भ्रमस् तेनातिभयानकं वदनं यस्याः । इदं जगद् धतुम् उद्यतेव । महान्तम् अट्ट-हासं सनादं हासम् । ततः स्थानाद् उत्पत्य विवृक्णानि छिन्नानि शीर्षाणि येषां गणेन परिवारेण सह । शिरांस्य् एव कन्दुकानि तेषां लीलया चिक्रीड च ॥१८॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अमर्षोऽपराधासहनं तद्-धेतुकः कोपश् च तयोर् आवेशस्य यो रभसो वेगस् तेन विलसितो विजृम्भितो भ्रू-कुटि-लक्षणो विटपः शाखा कुटिला दंष्ट्राश् चारुणानीक्षणानि च तेषाम् आटोपेन प्रतापेन अतिभयानकं वदनं यस्याः सा इदं जगद् अपि तस्यैकस्य जगद्-वर्तिनोऽपराधेनेत्य् अर्थः ॥१८॥

—ओ)०(ओ—

॥ ५.९.१९ ॥

एवम् एव खलु महद्-अभिचारातिक्रमः कार्त्स्न्येनात्मने फलति।

**श्रीधरः : **ननु, कथं देव्याराधकानाम् एवं विपरीतं फलम् ? तत्राह—एवम् एवेति । महत्स्व् अभिचार-रूपोऽतिक्रमोऽपराधः ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.९.२० ॥

न वा एतद् विष्णुदत्त महद् अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतितेऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम् ।

**श्रीधरः : **नन्व् असम्भावितम् इदम् एवं यन् मरणेऽप्य् अव्याकुलत्वं मारकेषु च क्रोधाभाव इत्य्-आदि तत्राह—न वा इति । विमुक्तो देहाद्य्-आत्मभाव-लक्षणः सुदृढो हृदय-ग्रन्थिर् यैः सर्व-सत्त्वानां सुहृद आत्मानश् च ये तेषाम् । न च तेषां देहाद्य्-अभिमान-सद्-भावेऽपि मरणादि-भयम् अस्तीत्य् आह । साक्षाद् भगवताभितो रक्षमानानाम् । केन ? अनिमिषः कालः स एवारि-चक्रं तेन वरायुधेन तैस् तैर् भावैश् चान्तर्यामितया प्रवर्त्यमानैर् भद्रकाल्य्-आदि-रूपैः । न कुतश्चिद् अप्य् भयं यस्मिन् । भागवतानां भगवद्-उपासकानां परमहंसानाम् ॥२०॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **नन्व् असम्भावितम् एतद् यन् मरणेऽप्य् अव्याकुलत्वं मारकेषु च क्रोधाभावस् तत्राह—न वा इति । हे विष्णुदत्त परीक्षित् ! विमुक्तो देहाद्य्-आत्म-भाव-लक्षणः सुदृढो हृदय-ग्रन्थिर् यैः सर्वेषाम् एव सत्त्वानां स्व-हन्तॄणाम् अपि सुहृत्-स्वारूपाणां, न विद्यते निमिषम् अनवधानं यस्य तादृशम् अरि-चक्रं तेन वरायुधेन करणेन भगवता कर्त्राप्य् अप्रमत्तेन तैस् तैः प्रसिद्धैर् भावैर् भक्त-वात्सल्य-शिष्ट-पालन-दुष्ट-निग्रहाद्यैः ॥२०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां पञ्चम-स्कन्धे

जड-भरत-चरिते नवमोऽध्यायः

॥ ५.९ ॥

(५.१०)