०८ आदि-भरत-चरित्रे

॥ ५.८.१ ॥

श्री-शुक उवाच—

एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश।

**श्रीधरः : **

अष्टमे भजतो विष्णुं तस्य कर्मान्तरायतः ।

एण-रक्षाप्रसक्तस्य जातम् एणत्वम् ईर्यते ॥

कृपयापिकृतः सङ्गः पतनायैव योगिनः ।

इति प्रदर्शयन्न् आह भरतस्यैण-पोषणम् ॥

नैयमिकं नित्य-नैमित्तिक-विधि-प्राप्तम् । आवश्यकम् अर्थ-प्राप्तं मूत्रोत्सर्गादि । कृतम् अभिषेकादिकं येन । ब्रह्माक्षरं प्रणवं जपन् । उदकान्ते नद्यास् तीरे ॥१॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **

अष्टमे भरतश् चक्रे मृग-पालन-लालने ।

तद्-वियोगेन तच्-चेताः प्राप तद्-देहताम् अपि ॥

दयाम् अपि त्यजेद् भक्ति-बाधिनीम् इति दर्शयन् ।

तं मृगं पोषयामास कृष्णश् चतुरिमाम्बुधिः ॥

तम् एन पोषयन् भक्त-वात्सल्यं चाप्य् अदीदृशत् ॥

नैयमिकं नित्य-नियम-प्राप्तम् आवश्यकम् मूत्रोत्सर्गादिकम् अभिषेक-स्नातं च कृतं येन सः । अत्राजादित्वाद् अल्पाच् तरत्वाच् च अभिषेक-शब्दस्य पूर्व-निपातः । अक्षरम् अक्षरात्मकं ब्रह्म कृष्ण-मन्त्रम् । अभिगृणानो जपन् ॥१॥

—ओ)०(ओ—

॥ ५.८.२ ॥

तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम।

**श्रीधरः : **जलाशयाभ्याशं नद्याः समीपे ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.८.३ ॥

तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत्।

**श्रीधरः : **पेपीयमाने अत्यासक्त्या पीयमाने सति । तावद् एव तत्-क्षणम् एव । अविदूरेण सन्निधौ । मृग-पतेः सिंहस्य । उन्नादो महान् नाद उद्गतः ॥३॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **पेपीयमाने अत्यासक्त्या पीयमाने सति । मृग-पतेः सिंहस्य ॥३॥

—ओ)०(ओ—

॥ ५.८.४ ॥

तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम।

**श्रीधरः : **प्रकृत्या स्वभावत एव विक्लवा व्याकुला सुतरां तु हरि-भयस्याभिनिवेशेन व्यग्रं व्याकुलम् हृदयं यस्याः । पारिप्लव-दृष्टिः परिभ्रान्त-नेत्रा । न गता तृषा तृट् यस्याः । उच्चक्राम नदीम् उल्लङ्घितवती ॥४॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **सहसा नाद-सम-कालम् एव । भयात् त्रासात् । उच्चक्राम नद्या धाराम् उल्ललङ्घ ॥४॥

—ओ)०(ओ—

॥ ५.८.५ ॥

तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात।

**श्रीधरः : **अन्तर्वत्न्या गर्भिण्याः । उरुभयेन स्थानाद् विचलितो योनेर् निर्गतः सन् स्रोतसि प्रवाहे निपतितः ॥५॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अन्तर्वत्न्या गर्भवत्याः ॥५॥

—ओ)०(ओ—

॥ ५.८.६ ॥

तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना कस्याञ्चिद् दर्यां कृष्ण-सारसती निपपाताथ च ममार।

**श्रीधरः : **तत्-प्रसवो गर्भ-पातः उत्सर्पणम् उल्लङ्घनं भयं च एतैः खेदेनातुरा पीडिता । दर्यां गिरि-गुहायाम् । हरिण-वधूर् निपपात । अथानन्तरं मृता च ॥६॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **उत्प्रसव उच्चाकाशाद् एव गर्भ-पातः ॥६॥

—ओ)०(ओ—

॥ ५.८.७ ॥

**तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् **
**अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत **
आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत्।

श्रीधरः : एण-कुणकं हरिण-बालकम् । अपविद्धं बन्धुभिस् त्यक्तम् । इत्य् एतैः कृपणत्वादि-हेतुभिर् या अनुकम्पा, तया अनयत् ॥७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

विश्वनाथः : एण-कुणकं हरिण-बालकम् । अपविद्धं बन्धुभिस् त्यक्तम् इत्य् एतैः कुणकत्वादि-हेतुभिर् या अनुकम्पा, तया ॥७॥

—ओ)०(ओ—

॥ ५.८.८ ॥

तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन्।

**श्रीधरः : **कृतो निजः स्वीय इत्य् अभिमानो येन । पोषणं तृणादिना । पालनं वृकादिभ्यो रक्षणम् । लालनं चुम्बनादिना । प्रीणनं कण्डूयनादिना । एतैर् यद् अनुध्यामासक्तिस् तेनात्मनो नियमाः स्नानादयो यमा अहिंसादयस् तत् सहिता ईश्वर-परिचर्यादयश् च प्रत्य् अहम् एकैकशो वियुज्यमानाः सन्तः कतिपयेनाहर्-गणेन सर्वे उत्सन्ना बभूवुः ॥८॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **पोषणं तृणादिना । पालनं वृकादिभ्यः । प्रीणनं कण्डूयनादिना । लालनं चुम्बनादिना, एतैर् यद् अनुध्यानम् आसक्तिस् तेन । उदवसन् उत्सन्ना बभूवुः ॥८॥

—ओ)०(ओ—

॥ ५.८.९ ॥

अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यौथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा।

**श्रीधरः : **आसक्तिं प्रपञ्चयति—अहो इत्य्-आदिना इति कृतानुषङ्ग इत्य् एतत्-पर्यन्तेन । ईश्वर-रथ-चरणः काल-चक्रं तस्य परिभ्रमण-वेगेन स्व-गणादिभ्यो विभ्रंशितः मा इति मां च शरणं प्रापितः माम् एव माता-पित्रादि-बुद्ध्योपेयाय प्राप्तः । यौथिकान् यूथ-सङ्घातिनः । अनसूयुना एतन् निमित्तं मम स्वार्थो भ्रश्यतीति दोष-दृष्टिम् अकुर्वता ॥९॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **आसक्तिं प्रपञ्चयति—अहो इत्य्-आदिना इति कृतानुषङ्ग इत्य् एतत्-पर्यन्तेन । ईश्वरस्य रथ-चरणः काल-चक्रं तस्य परिभ्रमण-वेगेन । परिवर्जितः वियोजितः । मा माम् । अनसूयुना एतन् निमित्तं मम स्वार्थो भ्रश्यतीति दोष-दृष्टिम् अकुर्वता शरण्य-कर्तृकोपेक्षायां दोषं जानता ॥९॥

—ओ)०(ओ—

॥ ५.८.१० ॥

नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते।

**श्रीधरः : **तद् एवाह—नूनं हीति ॥१०॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **यत एष एव मे वस्तुतः स्वार्थ इत्य् आह—नूनम् इति ॥१०॥

—ओ)०(ओ—

॥ ५.८.११ ॥

इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत्।

**श्रीधरः : **इत्य् एवं कृतोऽनुषङ्ग आसक्तिर् येन । मृग-जहुना मृगापत्येन सह । स्नेहेनानुबद्धं हृदयं येन ॥११॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अनुषङ्ग आसक्तिः । मृग-जहुना मृगापत्येन ॥११॥

—ओ)०(ओ—

॥ ५.८.१२ ॥

कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति।

**श्रीधरः : **स्नेहानुबन्धम् एव प्रपञ्चयति—कुश-कुसुमेत्य्-आदिना स्वधयतीत्य् अन्तेन । साला-वृकाः श्वानः । यदा भयं शङ्कमानो भवति तदा तेन सह वनं समाविशति ॥१२॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **स्नेहानुबन्धम् एव प्रपञ्चयति—कुश-कुसुमेति । साला-वृकाः श्वानः । कपि-क्रोष्टुश्वानः तद्-आदिभ्यः ॥१२॥

—ओ)०(ओ—

॥ ५.८.१३ ॥

पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप।

**श्रीधरः : **अतिशयितः प्रणय-भरो यस्य तद्-धृदयं यस्य सः ॥१३॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **तत्र तत्र महा-कर्दमोपरितने कोमल-तृणादौ मुग्ध-भावेन कर्दम-मध्ये विमङ्क्ष्यामीति ज्ञान-राहित्येन विषक्तम् आसक्तम् ॥१३॥

—ओ)०(ओ—

॥ ५.८.१४ ॥

क्रियायां निर्वर्त्यमानायाम् अन्तरालेऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति।

**श्रीधरः : **क्रियायां देव-पूजादि-लक्षनायाम् । वर्ष-पति-भरतः । प्रकृति-स्थेन स्व-स्थेन । स्तात् भूयात् ॥१४॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **क्रियायां भगवत्-परिचर्यायाम् अपि अन्तराले मध्येऽपि अभिचक्षीत न ज्ञाने क्व गतो मे हरिण-बालक इति उत्थाय पश्येत् प्रकृति-स्थेन तद्-दर्शनानन्द-प्राप्त्येत्य् अर्थः ॥१४॥

—ओ)०(ओ—

॥ ५.८.१५ ॥

अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच।

**श्रीधरः : **अन्यदादर्शने स-करुणं यथा भवत्य् एवम् अनुशोचन्न् इति होवाचेत्य् अन्वयः । अति-तर्षेणात्य्-औत्सुक्येन । हरिण-कुणक-विरहेण विह्वले हृदये सन्तापो यस्य । कश्मलं मोहं प्रापितः सन् ॥१५॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अन्यदा दैवाद् अदर्शने सतीत्य् अर्थः । अतितर्षेण तद्-दर्शनातितृष्णया कश्मलं मोहोऽभिरञ्जितः प्रापितः ॥१५॥

—ओ)०(ओ—

॥ ५.८.१६ ॥

अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतोऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति।

**श्रीधरः : **अपीति सम्भावनायाम् बतेत्य् अनुकम्पायाम् । अहो इति स्वेदे । शठ-किरातयोर् इव वञ्चन-परा क्रूर च मतिर् यस्याकृत-सुकृतस्य निर्भाग्यस्य मम तच् छाठ्यादिकम् अगणयन्न् अचिन्तयन्न् आगमिष्यति किम् । अपराधाचिन्तने हेतुः, आत्म-प्रत्ययेन स्व-चित्त-शुद्ध्या कृत-विश्वासः सन् सुजनो न यथा गणयति तद्वत् ॥१६॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अपीति सम्भावनायाम् बतेत्य् अनुकम्पायाम् । अहो इति स्वेदोत्थे आश्चर्ये । अनार्यस्य तत्-पालन-पोषणादाव् असावधानत्वान् निर्दयस्यात एव शठ-किरातयोर् इव क्रूरा मतिर् यस्य, तत्र हेतुर् अकृत-सुकृतस्य भाग्य-हीनस्य मम तन्-निर्दयत्वादिकम् अपराधम् अगणयन् आगमिष्यति किम् ? अपराधागणने हेतुः—आत्म-प्रत्ययेन, आत्मवन् मन्यते जगत् इति न्यायेन स्वस्य शुद्ध-चित्तत्वान् माम् अपि शुद्ध-चित्तं प्रति यन्न् इत्य् अर्थः । अत एव कृत-विश्रम्भः अविश्वासोऽपि मयि विश्वस्तः सन् ॥१६॥

—ओ)०(ओ—

॥ ५.८.१७ ॥

अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्ष्यामि।

**श्रीधरः : **शष्पाणि कोमल-तृणानि ॥१७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **देवेन कृपालुना मद्-इष्ट-देवेनैव रक्षितम् ॥१७॥

—ओ)०(ओ—

॥ ५.८.१८ ॥

अपि च न वृकः साला-वृकोऽन्यतमो वा नैक-चर एक-चरो वा भक्षयति।

**श्रीधरः : **नैक-चरो यूथ-चरः शूकरादिः । यद् वा, एक एव चरति यः क्रूर-स्वभावो व्याघ्रादिर् न भक्षयति किम् ॥१८॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **नैक-चरो यूथ-चरः शूकरादिः । एक एव चरति यः क्रूरो व्याघ्रादिर् न भक्षयति किम् ? ॥१८॥

—ओ)०(ओ—

॥ ५.८.१९ ॥

निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति।

**श्रीधरः : **सकल-लोकस्य क्षेमो यस्मात् स उदयो यस्य । वेद-त्रयी आत्मा स्वरूपं यस्य स सूर्यो निम्लोचत्य् अस्तं याति । मृग-वध्वा न्यासो निक्षेप-भूतः ॥१९॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **निम्लोचति सम्प्रत्य् अस्तं याति । सकल-जगताम् अपि क्षेमम् उदयाद् एव यस्य सः । केवलं ममैव दुर्भगस्या क्षेमम् इति भावः । त्रय्य्-आत्मा वेद-स्वरूपो वेद-प्रवर्तको वा । केवलम् अहम् एव वेदोक्त-दया-धर्म-विमुख इति भावः । मृग-वध्वा न्यासो निक्षेप-भूतः ॥१९॥

—ओ)०(ओ—

॥ ५.८.२० ॥

अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन्।

**श्रीधरः : **हरिण एव राज-कुमार आगत्य माम् अपि स्वित् सुखयिष्यतीत्य् अन्वयः । किं कुर्वन् ? विविधै रुचिरैर् दर्शनीयैर् निजैर् मृग-दारक-विनोदैः स्वीयानां स्वेदम् अपनुदन् ॥२०॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **प्रेम्णैव तद्-गुणम् उत्कीर्तयन् विलपति—अपि स्विद् इत्य्-आदिना । सुखयति सुखयिष्यति ॥२०॥

—ओ)०(ओ—

॥ ५.८.२१ ॥

क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति।

**श्रीधरः : **सम्भवति चैतद् इत्य् आह । क्ष्वेलिकायां क्रीडायां मृषा यः समाधिस् तेनामीलिते दृशौ येन तं मां प्रेम-संरम्भेण प्रणय-कोपेन पृषज्-जल-बिन्दुस् तद्वद् अपरुषेण मृदुना विषाणाग्रेण लुठति सङ्घट्टयति ॥२१॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **क्ष्वेलिकायां क्रीडायां मृषा यः समाधिनेति । रे मूढ ! त्वां पुष्यतो मे स्मरण-कीर्तनादि-नित्य-कृत्यं न निर्वहति तत्त्वं मया त्यक्तो यथेष्टम् इतो याहीति मृषैवाक्रुश्य मृषा समाधिनेति तच् चेष्टित-दिदृक्षायाः प्राबल्यात्, प्रेम-संरम्भेण प्रणय-कोपेन पृषत् जल-बिन्दुस् तद्वद् अपरुषेण मृदुना विषाणाग्रे लुठति सङ्घट्टयति ॥२१॥

—ओ)०(ओ—

॥ ५.८.२२ ॥

आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते।

**श्रीधरः : **आसादितं हविर् यस्मिन् बर्हिषि दर्भे दन्ताकर्षणादिना चापलेन दूषिते सति । दूषित्वेति पाठे बर्हिषि विषये दूषणं कृत्वेत्य् अर्थः । मयाधिक्षिप्तः संस् तत् क्षणम् एवोपरत-क्रीडो निश्चल आस्ते ॥२२॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **आसादितं हविर् यस्मिन् बर्हिषि दर्भे दन्त-स्पर्शेन दूषिते सति । दूषित्वेति पाठे बर्हिषि विषये दूषणं कृत्वा स्थितवतीत्य् अर्थः । मयोपालब्धः—आः किम् अरे करोष्य् आधिक्षिप्तः । उपरत-क्रीडोऽवहित-करण-कलापः, निश्चली-कृत-सर्वेन्द्रियः ॥२२॥

—ओ)०(ओ—

॥ ५.८.२३ ॥

किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति।

**श्रीधरः : **इति बहुधा प्रलप्योत्थाय बहिर् निर्गत्य तत् खुर-खात-भू-भागोपलम्भ-सम्भ्रान्त-हृदय आह—किं वेति । अरे अहो अनया क्षित्या किं वा तप आचरितम् । तपस्विन्या सभाग्यया । यद् यस्माद् इयं स-विनयस्य कृष्ण-सार-तनयस्य तनुतराः सुभगाश् च शिवतमाश् च खराश् च खुरा येषु तेषां पदानां तत्र तत्राङ्कितानां पङ्क्तिभिर् द्रविणं मृगस् तेन रहितस्यात एवातुरस्य दुःखितस्य मम द्रविण-मार्गं सूचयन्ती सती स्वात्मानं च ताभिः कृत-मण्डनं द्विजानां देव-यजनं यज्ञ-भूमिं करोति । यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत इति स्मृतेः ॥२३॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **इति बहुधा प्रलप्योत्थाय बहिर् निर्गत्य तत्-खुर-खात-भू-भागोपलब्ध्या प्रेम्णैवारोपितेन तत्र माहात्म्येन स्वं साधिक्षेपं सम्बोध्य विलपति—अरे मन्द-भाग्य भरत, वृथा-तपस्विन् ! अनया अवन्या किं तप आचरितम् । तत् तपस् त्वया न तप्तम् इति भावः । यद् वा, विशेषानुक्त्या अरे चतुर्दश-लोकाः ब्रूत रे ब्रूत । युष्मासु मध्ये अनयेति युष्माकम् ईदृशं तपो नास्तीति भावः । तनुतरेत्य्-आदि-विशेषणैस् तन्-माधुर्यास्वादः स्वस्य व्यञ्जितः । द्रविण-पदवीं सूचयन्तीति—भो दुःखिन् भरत किं रोदिषि ? अनयैव खुरखुन्नया पदव्या वनं प्रविशन्तं मृग-बालकं स्व-प्राण-धनं प्राप्स्यसीति कृपया माम् आश्वासयतीत्य् अर्थः । आत्मानं सञ्चरताभिः पद-पङ्क्तिभिर् मण्डितत्वात् कृत-कौतुकं देव-यजनं यज्ञ-स्थलं करोति—यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत इति स्मृतेः ॥२३॥

—ओ)०(ओ—

॥ ५.८.२४ ॥

अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति।

**श्रीधरः : **तावद् उदिते चन्द्रे मृगं दृष्ट्वा स्व-मृगत्वं सम्भावयन्न् आह—अपि स्विद् इति ॥२४॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **ऊर्ध्वम् अवलोक्य तत्रोपलब्धे चन्द्रे स्व-मृगं सम्भावयन्न् आह—अपि स्विद् इति । स्वाश्रमात् परिभ्रष्टम् इति ममैव पापिष्ठस्यानवधानाद् इति भावः । भगवान् इति भगवत्त्वं विना ईदृशं भाग्यं न सम्भवेद् इति भावः ॥२४॥

—ओ)०(ओ—

॥ ५.८.२५ ॥

किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च।

**श्रीधरः : **चन्द्र-रश्मि-स्पर्श-सुखं प्राप्याह । किं वेति सम्भावनायाम् । आत्मज-विश्लेषेण ज्वर-स्तापः स एव दव-दहनस् तस्य ज्वालाभिर् उपतप्यमाना हृदय-रूपा स्थल-नलिनी यस्य । जल-स्थं पद्मं तापं सोढुं क्षमम् इति स्थल-ग्रहणम् । उपसृतोऽनुगतो मृगी-तनयो येन तं मां चन्द्रः स्वधयति शान्तिं गमयति ।

कैः ? शिशिरं च तच् छान्तं च मय्य् अनुरागेण गुणितं चावर्तितं पुनः पुनः स्रवयद् वदन-सलिलं तद् एवामृत-मया गभस्तयस् तैः । लोके हि मन्त्र-वादिनो वदन-सलिलैस् तापं शमयन्तीति प्रसिद्धम् । उपसृत्य मृगी-तनय इति पाठे मनो-रथान्तरम् एतत् । उपसृत्य मृगी-तनयः, किं वा मां स्वधयिष्यतीति । शेषं समानम् ॥२५॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **चन्द्र-किरणानां दाहकत्वम् अनुभूयाहो मद्-आत्मज-विरहे शीत-किरणोऽप्य् अयम् उष्ण-किरणी-भवति । हन्त हन्त स किं मे समयो भविष्यति—यत्र स मृगी-तनयो भूयोऽपि माम् उपैष्यति, चन्द्रोऽप्य् अयं मां शिशिरयिष्यतीत्य् अभिलषन्न् आह—किं वेति । उपसृतो मृगी-तनयो यं तथा-विधं मां चन्द्रोऽयं सुधयति—विरह-सन्तप्तस्याङ्गस्य सुधा-प्लुती-करणात् सुधावन्तं, किं नु करिष्यतीति विन्मतोर् लुग् इति मतुप्-लुका रूपम् । कैः ? शिशिरं च तत् शान्तम् अनुग्रं च मय्य् अनुरागेण गुणितं च यद् वदन-सलिलं पुनः पुनः स्रवत् तद् एवामृत-मया गभस्तयस् तैः । लोके हि मान्त्रिका यथा वदन-सलिलैस् तापं शमयन्ति, तथैवायम् अपीत्य् अर्थः । उपसृतो मृगी-तनय इति पाठे । स एव मद्-गात्रेषु प्रेम्णा निज-मुख-स्पर्शेनेत्य् अर्थः ॥२५॥

—ओ)०(ओ—

॥ ५.८.२६ ॥

एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत।

श्रीधरः : मृग-दारकवद् आभास-मानेन भगवद्-आराधन-लक्षणात् कर्मणश्विभ्रंशितः । प्रारब्ध-कर्मत्वे हेतुः—कथम् इतरथा ? इति । साक्षात् स्व-पुत्र-वत् कथम् आसङ्गः स्यात् ? पूर्वं परित्यक्ता दुस्त्यजा औरसा येन । अन्तरायेण विहतं योगारम्भणं यस्य । आत्मानम् अविगणयत आत्म-चिन्ताम् अकुर्वतः । तावद् एव तीव्र-वेगः कालो मृत्यु-समयश् चापद्यत ॥२६॥

**क्रम-सन्दर्भः : **योगारम्भणतो यमनियम् आदितः स्वारब्ध-कर्मणा अपराध-रूपेण योग-मिश्रस् तापसो भगवद्-उपासकः ॥२६॥

भक्ति-सन्दर्भ १५७: अत्रैवं चिन्त्यं—भगवद्-भक्त्य्-अन्तरायकं सामान्यम् प्रारब्ध-कर्म न भवितुम् अर्हति, दुर्बलत्वात् । ततः प्राचीनापराधात्मकम् एव तल् लभ्यत इन्द्रद्युम्नादीनाम् इवेति ॥

**विश्वनाथः : **मृग-दारकम् आभासयति प्रकाशयति यत् तेन स्वारब्ध-कर्मणेति । प्रारब्धं हि द्विविधं—शोभनम् अशोभनम् च । तत्राद्यं भक्त-प्रियेणापि नयन-तीव्राञ्जन-दान-न्यायेन स्व-भक्त्य्-उत्कण्ठा-वर्णन-विदग्धेन भगवतैव स्वेच्छयैव प्रारब्ध-तुल्यत्वात् प्रारब्धम् उपपाद्यते यद् उदर्को विषयाभिनिवेश एव स्यात् । अत्र तु शोभनेनारब्धेनेति साक्षात् सुशब्द एवोपन्यस्तः । भक्ति-योगेनैव हेतुना तापसः सर्व-विषय-त्याग-रूपं तपः कुर्वाणः । अप्य्-अर्थे च-कारः । यद्यपि भक्ति-योगो बहु-विघ्नाकुलो न भवति, तद् अपि भगवद्-इच्छया तद्-आराधनाद् विभ्रंसित इत्य् अर्थः । इतरथेति भगवद्-इच्छा-मयं प्रारब्धं यदि न स्याद् इत्य् अर्थः । हृदयाभिजाताः स्व-पुत्राः ।

यद् वा, मृग-दारक एवाभासो यस्य तथा-भूतेन स्वस्यारब्ध-कर्मणेति प्रारब्ध-कर्माभासेनेत्य् अर्थः । यथा जीवन्-मुक्तानाम् अभिमानाभावेऽप्य् अभिमानाभासस् तथैव जात-रति-भक्तानां प्रारब्धाभावेऽपि प्रारब्धाभासः । अथवा, मृग-दारकाभासेन निकृष्ट-मृग-दारकेण विभ्रंशितः ।

कीदृशेन ? शोभनम् आरब्धं कर्म यस्य तेन । तस्य मृग-दारकस्य सुख-प्रारब्ध-वशाद् एव भरतस् तं पालयामास । इतरथा यदि मृगस्य सुख-प्रारब्धं न स्यात् तदा तस्यापि तत्-पिपालयिषा न स्याद् इत्य् अर्थः । भरतस्य विभ्रंशस् तु—यथाधनो लब्ध-धने विनष्टे तच्-चिन्तयान्यन् निभृतो न वेद [भा।पु। १०.३२.२०] इति भगवद्-उक्त-न्यायेन मृग-जन्मनि ब्राह्मण-जन्मनि च भक्त्य्-उत्कण्ठा-वर्धनार्थो भगवतैव निर्मितः । आत्मानम् अविगणयतः आत्म-चिन्ताम् अकुर्वतः । आखु-बिलम् अहिर् इव तं भरतं । कालो मृत्युः ॥२६॥

—ओ)०(ओ—

॥ ५.८.२७ ॥

तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप।

**श्रीधरः : **लोकं देहं मृगेण सहितं विसृज्य प्राकृत इव मृग-शरीरम् अवाप । कथं-भूतः ? कलेवरं मृतम् अनु न मृता न विनष्टा पूर्व-जन्मानुस्मृतिर् यस्य ॥२७॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **अनुशोचन्तं मृगं लोकं देहं मृगेण सहितं विसृज्य मृग-शरीरम् अवाप। कलेवरं मृतम् अनु न मृता न विनष्टा पूर्व-जन्मानुस्मृतिर् यस्य सः । इतरवत् इतरः प्राकृतः कर्मी, तद्वद् इति । भरतस् तु कर्मातीत इति । अत एव तस्य प्रारब्धाभावः प्राक् समर्थितः ॥२७॥

—ओ)०(ओ—

॥ ५.८.२८ ॥

तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह।

**श्रीधरः : **आह स्वे चित्ते ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.८.२९ ॥

अहो कष्टं भ्रष्टोऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव।

**श्रीधरः : **अहो कष्टं धीराणां मार्गाद् भ्रष्टोऽहम् । भ्रंशम् एवाह—यद् यतो विमुक्ताः समस्ताः सङ्गा येन । विविक्तं पुण्यारण्यं शरणं यस्य आत्मवतो धीरस्य मम मनः सर्वेषां भूतानाम् आत्मनि वासुदेवे समावेशितं समाहितं च निश्चलं स-दाराद् दूराद् एव सुस्राव गलितं निःसृतम् । केन समावेशीतम् ? तस्यानुश्रवणादिष्व् अभियोगेनाभिनिवेशेनाशून्याः सकला यामा यस्मिंस् तेन कालेन ॥२९॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **आत्मवतो धीरस्य आत्मनां जीवानाम् आत्मनि परमात्मनि तद्-अनुचरणारविन्दादीनाम् अभियोगोऽभिग्रहणं तेन समाहितं निश्चलं यन्-मनस् तत् सुस्राव अधः पपात ॥२९॥

—ओ)०(ओ—

॥ ५.८.३० ॥

इत्य् एवं निगूढ-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम।

**श्रीधरः : **निगूढोऽनाविष्कृतो निर्वेदो येन । शाल-वृक्षोपलक्षितं ग्रामम् । कालञ्जराद् यत्र हरिणो जातस् तस्मात् पर्वतात् ॥३०॥

क्रम-सन्दर्भः : _न व्याख्यातम्। _

**विश्वनाथः : **कालञ्जरात् स्व-जन्म-भूमि-पर्वतात् । शालग्रामं शालग्रामाख्य-क्षेत्रम् ॥३०॥

—ओ)०(ओ—

॥ ५.८.३१ ॥

तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्ससर्ज।

**श्रीधरः : **आत्मैव सहचरो यस्य एकाकी । प्रतीक्ष्माणस्यैव प्रपञ्चः, मृगत्व-निमित्तेति । तीर्थोदकेन क्लिन्नम् आर्द्रम् अर्धोदक-स्थम् इत्य् अर्थः ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः : _न व्याख्यातम्। _

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदश पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
आदि-भरत-चरित्रे
अष्टमोऽध्यायः ।

॥ ५.८ ॥

(५.९)