०७ ऋषभानुचरिते

॥ ५.७.१॥

भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे।

**श्रीधरः : **

अध्यायानां त्रयेणैवम् ऋषभाख्यानम् ईरितम् ।

अष्टभिर् भरताख्यानम् अतः प्रस्तूयतेऽमृतम् ॥

सप्तमे भरतो राज्ये चिरं यज्ञैर् हरिं यजन् ।

आरब्ध-कर्म-निर्वाणे हरि-क्षेत्रेऽभजद् धरिम् ॥

सञ्चिन्तितः सङ्कल्पेनैव राज्यादौ नियुक्तः ॥१॥

**क्रम-सन्दर्भः : **नाभेर् एवाजनाभ इति संज्ञा भारतम् इत्य् अजनाभाख्यम् अपीदं वर्षं लोकैस् तस्मिन्न् अनुराग-वैशिष्ट्येन ख्यापितम् इति ज्ञेयम् ॥१॥

**विश्वनाथः : **

सप्तमे भवने यज्ञैः पत्र-पुष्पादिभिर् भवने ।

भरतो भक्ति-भरतो हरिम् ईजे दृढ-व्रतः ॥

ऋषभदेवो भगवान् भरतस् तु भागवते इति तु-शब्दार्थः ॥१॥

—ओ)०(ओ—

॥ ५.७.२॥

तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुम् इति।

**श्रीधरः : **आत्मनोऽनुरूपान् । भूतादिर् अहङ्कार इव भूत-सूक्ष्माणीति सन्तति-वृद्धौ दृष्टान्तः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भूतादिर् अहङ्कारः ॥२॥

—ओ)०(ओ—

॥ ५.७.३॥

अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति।

**श्रीधरः : **भारतम् इति स्व-नाम्ना ख्यापकत्वेन धर्माद्य्-अतिशयः सूचितः ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अजनाभम् इति । नाभेर् ऋषभदेवस्याजस्य चैतद् वर्ष-स्वामित्वाद् इत्य् अर्थः । नाभिश् चाजश् चेत्य् अजनाभी अभ्यर्हितत्वाद् अज इति पदस्य पूर्व-निपातः, तरोर् इदम् अजनाभं संज्ञा-पूर्वक-विधित्वाद् वृद्ध्य्-अभावः । भारतम् इति भरत-स्वामिकत्वात् ॥३॥

—ओ)०(ओ—

॥ ५.७.४॥

स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत्।

**श्रीधरः : **बहु-वित् सर्व-ज्ञः ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.७.५ ॥

ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना।

**श्रीधरः : **यज्ञा अयूपाः क्रतवः सयूपास् तद् रूपम् । उच्चावचैर् महद्भिर् अल्पैश् च क्रतुभिः कर्मभिः श्रद्धया ईजे च । तान् एवाह । आहृताः स्वाधिकारेणात्म-सात्-कृता येऽग्नि-होत्रादयस् तेषां प्रकृति-विकृतिभिः । अग्नि-होत्रादयो द्वि-विधाः । सकलाङ्ग-युक्ताः प्रकृतयः विकलाङ्गा विकृतय इति । तैर् विविधैर् अपीष्टवान् इत्य् अर्थः । अनुसवनम् इत्य् अन्तं वा चातुर्-होत्र-विधिनेत्य् अन्तं वा गद्यम् ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यज्ञा अयूपाः क्रतवः सयूपास् तद्-रूपम् । उच्चावचैर् महद्भिर् अल्पैश् च क्रतुभिः । कीदृशैः ? कर्मि-जनानां श्रद्धया आहृता स्वाधिकारेणात्म-सात्-कृता येऽग्निहोत्रादयो द्विविधाः । तेषां प्रकृति-विकृतिभिः । अग्निहोत्रादयः सकलाङ्ग-युक्ताः प्रकृतयः, विकलाङ्गा विकृतय इति तैर् द्विविधैर् अपीष्टवान् इत्य् अर्थः ॥५॥

—ओ)०(ओ—

॥ ५.७.६ ॥

सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियामकतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत्।

**श्रीधरः : **किं च, सम्प्रचरत्सु प्रवर्तमानेषु नाना-यागेषु विरचिता अनुष्ठिता अङ्ग-क्रिया येषां तेषु यद् अपूर्वं तद् वासुदेव एव भावयमानश् चिन्तयन् स यजमानो यज्ञ-भाजो ये देवाः सूर्यादयस् तान् पुरुषस्य वासुदेवस्य अवयवेषु चक्षुर्-आदिष्व् अभ्यध्यायत, न तु प्र्ठक्त्वेनेत्य् अन्वयः ।

अपूर्वे पक्ष-द्वयं मीमांसकानाम् । तदानीम् एव सूक्ष्मत्वेनोत्पन्नं फलम् एवापूर्वं, कालान्तर-फलोत्पादिका कर्म-शक्तिर् वेति । तद् उक्तं—

यागाद् एवं फलं तद् धि शक्ति-द्वारेण सिध्यते ।
सूक्ष्मं शक्त्य्-आत्मकं वापि फलम् एवोपजायते ॥ इति ।

तद् एवाह—क्रिया-फलं धर्माख्यम् इति च । ननु, यद्य् अङ्गं देवताः कर्म-प्रधानम् इति मतं, तर्हि कर्तृ-निष्ठम् अपूर्वं स्यात् । तद् उक्तम्—

कर्मभ्यः प्राग् अयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्र-गम्या या परा सापूर्वम् इष्यते ॥ इति ।

अथ देवता-प्रधानं कर्म तु देवताराधनार्थं तदा देवता-प्रसाद-रूपत्वाद् अपूर्वस्य देवताश्रयत्वम् एव युक्तम् । प्रोक्षणाद्य्-अपूर्वस्येव व्रीह्य्-आद्य्-आश्रयत्वम् । कुतो वा वासुदेवाश्रयम् अपूर्वं भावयति ? उच्यते—यदि कर्तृ-निष्ठम् अपूर्वं, तर्हि वासुदेवस्यान्तर्यामिणः प्रवर्तकत्वेन मुख्य-कर्तृत्वात् तद्-आश्रयम् एवापूर्वं, न तु तत्-प्रयोज्य-यजमानाश्रयम् । शास्त्र-फलं प्रयोक्तरीति न्यायात् । अन्यथा ऋत्विजाम् अप्य् अपूर्वाश्रयत्व-प्रसङ्गात् । तद् एवाह—साक्षात् कर्तरीति । देवताश्रयत्वेऽपि वासुदेवाश्रयत्वम् एवेत्य् आह—पर-देवतायाम् इति । पर-देवतात्वे हेतुः—सर्व-देवता-लिङ्गानां तत्-तद्-देवता-प्रकाशकानां मन्त्राणां येऽर्था इन्द्रादि-देवतास् तेषां नियामकतया तस्यैव प्रसादनीयत्वात् फल-दातृत्वाच् च युक्तम् एवापूर्वाश्रयत्वम् इत्य् अर्थः । एवं भावनम् एव आत्मनो नैपुण्यं कौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिर् इति बहु-वचनं नाना-कर्माभिप्रायेण ॥६॥

**क्रम-सन्दर्भः : **किं च कर्म-फलं वस्तुतो भगवद्-आश्रयम् एव । तत् तु दुर्बुद्धेर् आत्म-सात्-कुर्वतो युक्त्यवतुछ-फल-प्राप्तिः संसारश् च । सुधियस् तु तत्-साक्षात्-कुर्वतस् तद्-वैपरीत्यम् इत्य् आह गद्याभ्याम्—सम्प्रचरत्सु नाना-यागेष्व् इति ।

टीका च—सम्प्रचरत्सु प्रवर्तमानेषु विरचिता अनुष्ठिता अङ्ग-क्रिया येषां तेषु यद् अपूर्वं तद् वासुदेव एव भावयमानश् चिन्तयन् स यजमानो यज्ञ-भाग-भाजो ये देवास् तान् पुरुषस्य वासुदेवस्य आवयवेषु चक्सुर्-आदिषु अभ्यध्यायत्, न तु तत्-पृथक्त्वेनेत्य् अन्वयः ।

अपूर्वे पक्ष-द्वयं मीमांसकानाम् । तदानीम् एव सूक्ष्मत्वेनोत्पन्नं फलम् एवापूर्वं कालान्तर-फलोत्पादिका कर्म-शक्तिर् वेति । तद् उक्तम्—

यागाद् एव फलं तद् धि शक्ति-द्वारेण सिध्यति ।
सूक्ष्म-शक्त्य्-आत्मकं वापि फलम् एवोपजायते ॥ इति ।

तद् एतद् आह क्रिया-फलं धर्माख्यम् [भा।पु। ५.७.६] इति च ।

ननु यद्य् अङ्गं देवता कर्म प्रधानम् इति मतं तर्हि कर्तृ-निष्ठम् अपूर्वं स्यात् । तद् उक्तम्—

कर्मभ्यः प्राग् अयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्र-गम्या या परा सापूर्वम् इष्यते ॥ इति ।

अथ देवता प्रधानं कर्म तु देवताराधनार्थं, तदा देवता-प्रसाद्-रूपत्वाद् अपूर्वस्य देवताश्रत्वम् एव युक्तं प्रोक्षणाद्य्-अपूर्वस्येव व्रीह्य्-आद्य्-आश्रयत्वम् । कुतो वासुदेवाश्रयम् अपूर्वं भावयति ? उच्यते । यदि कर्तृ-निष्ठम् अपूर्वं स्यात् तर्हि वासुदेवस्यान्तर्यामिणः प्रवर्तकत्वेन मुख्य-कर्तृत्वात् तद्-आश्रयम् एवापूर्वं, न तु तत्-प्रयोज्य-यजमानाश्रयं, शास्त्र-फलं प्रयोक्तरीति न्यायात् । अन्यथा ऋत्विजाम् अप्य् अपूर्वाश्रयत्व-प्रसङ्गात् । तद् एवाह— साक्षात्-कर्तरीति । देवताश्रयत्वेऽपि वासुदेवाश्रयत्वम् एवेत्य् आह— पर-देवतायाम् इति । परदेवतात्वे हेतुः सर्वदेवता-लिङ्गानां तत्-तद्-देवता-प्रकाशकानां मन्त्राणां येऽर्था इन्द्रादि-देवतास् तेषां नियामकतया तस्यैव प्रसादनीयत्वात् फल-दातृत्वाच् च युक्त-सेवाश्रयत्वम् इत्य् अर्थः । एवं भावनम् एवात्मनो नैपुण्यं कौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिर् इति बहु-वचनं नाना-कर्माभिप्रायेण इत्य् एषा ।

अत्र विष्णोर् अङ्गित्वेन तद्-भजनं च दोष इति लभ्यते । अत्र पाद्मोत्तर-खण्डे यथा—

उद्दिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु ॥ [प।पु। ६.२३५.८] इति ।

पाषण्डत्वम् अत्र वैष्णव-मार्गाद् भ्रष्टत्वम् इत्य् अर्थः । श्री-गीतासु—

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२३।-२४]

अतो वास्तव-विचारे सर्व एव वेद-मार्गाः श्री-भगवत्य् एव पर्यवस्यन्तीत्य् अभिप्रेत्योक्तं श्रीमद्-अक्रूरेण—

सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् ।
येऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥
यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः ॥ [भा।पु। १०.४०.९-१०] इति ।

गतयो मार्गाः । अन्ततो विचार-पर्यवसानेन ॥६॥ [भक्ति-सन्दर्भ २२२]

**विश्वनाथः : **ननु,

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु। ११.२०.९]

इति भगवद्-उक्तेर् भगवत्-कथादिषु प्रौढ-श्रद्धस्य निष्कामस्य शुद्ध-भक्त्य्-अधिकारिणो भरतस्य कर्म-कर्तृत्वं कर्म-फल-भोक्तृत्वं च कथं संगच्छताम् ? इत्य् अत आह—सम्प्रचरत्सु प्रवर्तमानेषु विरचिता अनुष्ठिता अङ्ग-क्रिया येषां तेषु । यद् अपूर्वं तत् परे ब्रह्मणि वासुदेवे स्वेष्ट-देवे एव भावयमानः । अस्य कर्मणो यत् फलं भावि तत्र न मे लिप्सा, किन्तु तद्-वासुदेव-प्रीत्य्-अर्थं वासुदेवायैव समर्पितम् इति तत्र न मे स्वत्वम् इति चिन्तयन्न् इत्य् अर्थः ।

ननु कर्म कर्तृ-प्रधानं देवता-प्रधानं वेति मीमांसकानां पक्ष-द्वयं तत्राद्ये पक्षे कर्तृ-निष्ठम् अपूर्वम्, द्वितीये कर्मणो देवताराधनार्थत्वाद् देवता-निष्ठं, तत्र भरतस्य निष्कामत्वाद् अपूर्वस्य देवता-निष्ठत्वे एव युक्ते देवतानां चन्द्र-सूर्यादीनां बाहुल्यात् । कथम् एकस्मिन् वासुदेव एव कर्म-फल-भावना ? इत्य् अत आह—सर्व-देवता-लिङ्गानां तत्-तद्-देवता-प्रकाशकानां मन्त्राणां येऽर्था इन्द्रादि-देवतास् तेषां नियामकतया यज्ञ-पुरुषे यज्ञ-फल-भोक्तरीत्य् अर्थः ।

नन्व् एवं भरतस्य मास्तु भोक्तृत्वं, कर्म-कर्तृत्वं तु तस्य दुर्वारम् इत्य् अत आह—साक्षात्कर्तरि वासुदेवस्यैवान्तर्यामिणः प्रवर्तकत्वेन स्वतन्त्र-कर्तृत्वात् साक्षात्कर्तृत्वं, न तु प्रयोज्यस्य यजमानस्यास्वतन्त्रस्य अन्यथा ऋत्विजाम् अपि साक्षात्कर्तृत्व-प्रसङ्गात् । यज्ञ-भुग् यज्ञ-कृद् यज्ञः इति तन्-नाम-स्मृतेश् च तस्य स्वतन्त्र-कर्तृत्व-मननम् एव कर्तृत्व-गमकं बन्ध-कारणं ज्ञेयम् । आत्मनो नैपुण्यम् एवं भावनम् एव, तेन मृदिताः क्षीणाः कषायाः कर्म-करण-वासनात्मकं येन सः । अध्वर्युभिर् इत्य् अनेन तथा-विधानां भक्तानां कर्तृत्वाद्य्-अभिमान-शून्यानां कर्म-फल-त्यागिनां स्व-प्रतिमूर्ति-द्वारा कर्म-करणम् अपि कर्मणि श्रद्धा-राहित्यात् कर्माकरणम् एव ज्ञेयम् इति द्योतितम्,

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ [गीता १७.२८] इति भगवद्-गीतोक्तेः ।

अत एवाम्बरीषादीनां शुद्धया भगवद्-भक्त्यैव यापिताष्ट-यामानाम् अपि पितृ-पैतामह-सदाचार-परम्परा-प्राप्त-यज्ञादि-कर्माचरणं प्रतिनिधि-द्वारैव श्रूयते । अर्वाचीनानाम् अपि प्राच्यादि-देश-वर्तिनां सुप्रतिष्ठानां गृहस्थ-महा-भागवतानां विवाहोपनयनादाव् अपि सर्वथैव वर्ण-धर्माभावे लौकिकाद् अपि साङर्य-दोषाद् बिभ्यतां प्रतिनिधि-द्वारैव कर्म-करणं दृश्यते च । अत एव तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य् आत्मनेपद-प्रयोगाद् अण्य्-अन्त-निर्देशाच् चानात्म-गामिक-फलत्वे सति प्रतिनिधि-द्वारा कर्म-करणम् अपि शुद्ध-सत्त्व-भक्तानां न दूषणम् । तथैव शुद्ध-भक्ति-लक्षणेऽपि, अन्याभिलाषित-शून्यम् इतिवज् ज्ञान-कर्मादि-शून्यम् इत्य् अनुक्त्वा, ज्ञान-कर्माद्य्-अनावृत-पदोपन्यासात् प्रतिनिधि-द्वारा कर्म-करणेऽपि स्वीयेन्द्रियैः प्रतिक्षण-चरणारविन्दादि-भक्त्य्-अवकाश-प्राप्त्या भक्तेः कर्मानावृतत्वात् शुद्धत्वम् एवेति केचिद् व्याचक्षते ।

नन्व् एवम्-भूतत्वेन भरतस्य मास्तु कर्म-करण-दोषः, यज्ञानां नाना-देवताराधनात्मकत्वात्, कथम् अनन्यता तस्योपपाद्यताम् इत्य् अत आह—स जयमानो भरतो यज्ञ-भाजो देवान् इन्द्रादीन् पुरुषस्य भगवतोऽवयवेषु बाह्व्-आदिषु अभ्यध्यायत्, इन्द्राय स्वाहेत्य् उक्तेर् मत्-प्रभोर् बाहु-पूजेयम्, सूर्याय स्वाहेत्य् उक्तेर् लोचन-पूजेयम् इति भावयामास । पृथक् पृथग् देवतात्वेन पूजा ह्य् अनन्यता-विघातनी, न तु तद्-अङ्गत्वेनेति ॥६॥

—ओ)०(ओ—

॥ ५.७.७ ॥

एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत।

**श्रीधरः : **एवं-भूतया कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य भक्तिर् अजायतेत्य् अन्वयः । क्व ? अन्तर्-हृदये य आकाशः स एव शरीरम् अभिव्यक्ति-स्थानं यस्य तस्मिन् ब्रह्मणि । कीदृशे ? महा-पुरुष-रूपस्योपलक्षणम् आकारो यस्य तस्मिन् । किं च, श्रीवत्सादिभिर् उपलक्षिते । निज-पुरुषाणां नारदादीनां हृदि लिखितवन् निश्चलतया स्थितेनोक्तेन पुरुष-रूपेणात्मनि स्व-मनसि विरोचमाने । कीदृशी भक्तिः ? अत्यन्तातिशयेन एधम्आनो रयो वेगः प्रकर्षो यस्याः ॥७॥

**क्रम-सन्दर्भः : **एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वेति । एवं पूर्वोक्त-प्रकारेण कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य भक्तिः स-श्रद्धा-श्रवण-कीर्तना विलक्षणाजायतेत्य् अन्वयः । क्व ? भगवति वासुदेवे पूर्ण-स्वरूप-भगाभ्यां सर्व-निवासेन च तत्-तन्-नाम्ना प्रसिद्धेः । अन्तर्-हृदये यथाकाशः, स एव शरीरं स्वस्यैवाविर्भाव-विशेषाधिष्ठानं यस्य तस्मिन्न् अन्तर्यामिणि परमात्माख्ये ब्रह्मणि निर्विशेषतयाविर्भावात् तद्-आख्ये च । भगवतो निराकारत्वं वारयति महापुरुषस्य यद् रूपं शास्त्रे श्रूयते तद् उपलक्ष्यते दृश्यते यत्र तस्मिन् । किं च, श्रीवत्सादिभिर् अपि चिह्निते एधमान-रया वर्धमान-प्रकर्षा, सन्निधाप्यते चक्षुषि प्रकटीक्रियते ॥७॥[भक्ति-सन्दर्भः २२३]

**विश्वनाथः : **एवं कर्म-कर्तुर् अन्तः-करणं विशेषतः शुद्ध्यतीत्य् आह—एवम् इति । अक्लिष्ट-बुद्ध्या भरतं भजध्वम् इति भगवद्-वाक्याद् एव उत्पत्तित एव शुद्धान्तःकरणस्य तस्य पिष्ट-पेष-न्यायेन एव कर्म-विशुद्ध्यापि शुद्धान्तःकरणस्य । यद् वा, एवम् अनेन प्रकारेण कर्मणो विशुद्धिर् यस्मिन् स चासौ विशुद्ध-सत्तश् चेति तस्य भक्तिर् औत्पत्तिक्य् एव प्रतिदिनम् उच्चैस्तरां वर्धमान-वेगा गङ्गेव भुवन-पावन्य् अजायतेत्य् अन्वयः । क्व वासुदेवे वसुदेव-नन्दने कृष्णे य एव परमात्म-ब्रह्म-भगवच्-छवैर् उपासना-भेदेनोच्यते इत्य् आह—अन्तर्-हृदयाकाशे शरीरं योगिभिर् ध्येयं यस्य तस्मिन् परमात्मनीत्य् अर्थः—

केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं [भा।पु। २.२.८]

इत्य्-आदिना परमात्मनोऽपि साकारत्व-चरणारविन्दात् । तथा ब्रह्मणि ज्ञानिभिर् उपास्ये, भगवति भक्तैर् उपास्ये वसुदेव-पुत्रत्वेऽपि महा-पुरुषस्य वैकुण्ठ-नाथस्य यद् रूपं शास्त्रेषु प्रसिद्धं, तद्-रूप आधिक्येन लक्ष्यते दृश्यते यत्र, तस्मिन् श्रीवत्सादिभिर् अपि चिह्निते निज-पुरुषाणां नारदादीनां हृदि चित्रपट इव लिखितवन् निश्चलतया स्थितेन पुरुष-रूपेण नराकार-स्वरूपेण विरोचमाने क्व ? आत्मनि स्व-मनसि ॥७॥

—ओ)०(ओ—

॥ ५.७.८॥

एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरोऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज।

**श्रीधरः : **एवम् अनुवृत्त्या वर्षाणाम् अयुतानि तेषां सहस्रं तत्-पर्यन्त-कालेऽवसितो निश्चितः कर्म-निर्वाणावसरो राज्य-भोगादृष्ट-समाप्ति-समयो येन सः । अधिकृत्य भुज्यमानं रिक्थं धनं यथाविभागः विभज्य सकल-संपदां निकेताद् आश्रयात् स्व-गृहात् पुलहाश्रमं हरि-क्षेत्रं प्रवव्राज ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवम् वर्षाणाम् अयुतानि तेषां सहस्रं तत्-पर्यन्त-कालेऽपि न वसितो नावसितो न निश्चितः कर्म-निर्वाणावसरो राज्य-भोगादृष्ट-समाप्ति-समयो येन सः । तद्-राज्य-भोगस्य भक्त्य्-आनुषङ्गिक-फलत्वात् दैन्याद् एवेति ज्ञेयम् । ततश् च विरज्यैव हठाद् एव प्रवव्राज । रिक्थं धनम् ॥८॥

—ओ)०(ओ—

॥ ५.७.९ ॥

यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण।

**श्रीधरः : **यत्र क्षेत्रे विद्याधर-कुण्डे । वात्सल्यं कर्तृ, तेन सन्निहितः क्रियते । भक्तानाम् अपेक्षितेन रूपेण सन्निहितो भवतीत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वात्सल्येन कर्त्रा हरिः सन्निधाप्यते सन्निहितः क्रियते । केन रूपेण ? तत्र-स्थानां निज-भक्तानाम् इच्छा-विषयी-भूतेन श्री-कृष्ण-रामाद्य्-अन्यतमेन रूपेणेत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ५.७.१०॥

यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति।

**श्रीधरः : **आश्रम-स्थानान्य् उभयत उपर्य् अधश् च नाभिर् येषां तैर् दृषच्-चक्रैः शिला-मध्य-गतैश् चक्रैश् चक्र-नदी गण्डकी सरितां श्रेष्ठा पवित्री-करोति ॥१०॥

**क्रम-सन्दर्भः : **नाभिश्-चक्रं दृषच्-चक्रैः शालग्रामैः ॥१०॥

**विश्वनाथः : **आश्रम-स्थानानि पवित्री-करोतीत्य् अन्वयः । उभयत उपर्य् अधश् च नाभिर् येषां तैर् दृषच्-चक्रैः शिला-मध्य-गतैश् चक्रैर् एव । चक्र-नदी गण्डकी ॥१०॥

—ओ)०(ओ—

॥ ५.७.११॥

तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-विषयाभिलाष उपभृतोपशमः परां निर्वृतिम् अवाप।

**श्रीधरः : **एकल एकः । आराधनं समीहमानः कुर्वाणः । विविक्तः शुद्धः अत एवोपरतो विषयाभिलाषो यस्य । उपभृतः संवृद्ध उपशमो यस्य ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उपभृतः संवृद्ध उपशमो यस्य सः ॥११॥

—ओ)०(ओ—

॥ ५.७.१२॥

तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-ह्रदावगाढ-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार।

**श्रीधरः : **प्रवर्धमानानुरागस्य भरेण यद् द्रुतं द्रवी-भुतं हृदयं तस्मिन् शैथिल्यम् अनुद्यमो यस्य आत्मनि देहे उद्भिद्यमानं रोम-पुलक-कुलं रोमाञ्च-वृन्दं यस्य । क-कारः समासान्तः । औत्कण्ठ्यात् प्रवृत्तेन प्रणय-बाष्पेण निरुद्धोऽवलोको ययोस् ते नयने यस्य सः । एवं वर्तमानस् ताम् अपि भगवत्-सपर्यां न सस्मारेत्य् अन्वयः । तत्र हेतुः, निज-रमणस्य स्व-प्रीति-दातुर् ये अरुणे चरणारविन्दे तयोर् अनुध्यानेन परिचितः समृद्धो भक्ति-योगस् तेन परिप्लुतः सर्वतो-व्याप्तः परम आह्लादः परमानन्दो यस्मिन् गम्भीर-हृदय-ह्रदे तस्मिन्न् अवगाढा निमग्ना धिषणा यस्य ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **द्रुतं द्रवी-भुतं यत् हृदयं तेनैव हेतुना शैथिल्यं नित्य-कृत्येऽप्य् अनुद्यमो यस्य सः । आत्मनि देहे उद्भिद्यमानैः रोमभिः पुलक-कुलं यस्य सः । कप्-समासान्तः । परिप्लुतेन सर्वतो व्याप्तेन परमाह्लादामृतेन गम्भीरो यो हृदय-ह्रदस् तत्रावगाढा निमग्ना धिषणा बुद्धिर् यस्य सः ॥१२॥

—ओ)०(ओ—

॥ ५.७.१३॥

इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने1** सूर्य-मण्डलेऽभ्युपतिष्ठन्न् एतद् उ होवाच।**

**श्रीधरः : **धृतानि भगवद्-व्रतानि येन स भगवन्तं सूर्य-मण्डलेऽभ्युपतिष्ठन्न् एतद् उ होवाचेत्य् अन्वयः । कीदृशः ? एण्या हरिण्या अजिनमैणेयं तद् एव वासस् तेनानुसवनाभिषेकेणार्द्राः कपिशाश् च याः कुटिला जटास् तासां कलापेन च विरोचमानः । सूर्य-प्रकाशिकया ऋचा हिरण्मयं, ध्येयः सदा सवितृ-मण्डल-मध्य-वर्ती इत्य्-आदिनोक्तम्। उज्जिहाने उद्गच्छति सति । स-कारान्त-पाठे सन्न् अन्तात् पचाद्य् अच् । अर्थस् तु स एव ॥१३॥

**क्रम-सन्दर्भः : **तं प्रेम-विकारम् अपि भगवतोऽर्च्चायां विघ्नम् एव मत्वा तद्-उपहति-योग्यं बुद्धि-वृत्ति-प्रेरकतया तद्-उपासनान्तरं कृतम् इत्य् आह—इत्थम् इति ॥१३॥

**विश्वनाथः : **तम् अपि प्रेम-विकारम् पूजायां विघ्नम् इव मत्वा प्रेम-विकारेणापि मे बुद्धिर् मा खल्व् आव्रियताम् इत् विमृश्य बुद्धि-प्रकाशकेन केन च भगवन्-मन्त्रेण भगवन्तम् उपासितुं प्रववृते इत्य् आह—इत्थम् इति । सूर्यार्चा सूर्य-मण्डल-स्थ-भगवत्-प्रकाशिकया ऋचा हिरण्मयं, ध्येयः सदा सवितृ-मण्डल-मध्य-वर्ती इत्य्-आदिनोक्तम्। उज्जिहाने उदयति सति । उज्जिहास इति पाठे, सन्न् अन्तात् पचाद्य् अच् । उदेतुम् इच्छति सतीत्य् अर्थः ॥१३॥

—ओ)०(ओ—

॥ ५.७.१४ ॥

परो-रजः सवितुर् जात-वेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनर् आविश्य चष्टे
हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः ॥

**मध्वः : **

परो-रजा रजस्कत्वात्रयीत्वात्रयीसूतः ।
गुणात्ययात् तुरीयश् च जात-वेदाश् च सर्ववित् ॥
हंसो दुःखादि-हानेन जीवेशत्वाच् च गृध्र-राट् ।
कालः सर्व-नियन्तृत्वात् परमात्मा प्रकीर्तितः ॥ इति तन्त्र-निरुक्तेः ॥

**श्रीधरः : **परो-रजः । रजसः प्रकृतेः परं शुद्ध-सत्त्वात्मकम् । सवितुर् देवस्य सूर्यस्य भर्गः स्वरूप-भूतं तेजः । जातं वेदो धनं कर्म-फलं यस्मात् तत्-कर्म-फलदम् इत्य् अर्थः । अत्र हेतुः—यन् मनसैवेदं विश्वं जजान ससर्ज। पुनश् च अदः सृष्टं विश्वम् अन्तर्यामि-रूपेण प्रविश्य गृध्राणं काङ्क्षन्तं हंसं जीवं सुरेतसा चिच्-छक्त्या विचष्टे पश्यति पालयतीत्य् अर्थः । नृषु सीदत्य् उपाधितया तिष्ठतीति नृषद् बुद्धिस् तस्यां रिङ्गिं रिङ्गणं गतिं राति ददातीति नृषद्रिङ्गिराम् । वा छन्दसि इत्य् अमि पूर्व-रूपत्वाभावः । तद् भर्गः इमः शरणं व्रजामः ॥१४॥

**क्रम-सन्दर्भः : **तत्र गायत्री-सहोदरं मन्त्रम् आह—परो-रज इति ॥१४॥

**विश्वनाथः : **सवितुर् देवस्य भर्गः तन्-मण्डल-मध्य-स्थितम् । ध्येयः सदा सवितृ-मण्डल-मध्य-वर्ती नारायणः सरसिजासन-सन्निविष्टः इत्य्-आदि मन्त्र-वाच्यं तेज इमः शरणं व्रजामः । कीदृशम् ? परो-रजः । रजसः प्रकृतेः परं शुद्ध-सत्त्वात्मकम् । जातं वेदो धनं भक्तानाम् अभीष्टं यतस् तत् । यद् भर्गः कर्तृ मनसा सङ्कल्प-मात्रेणैव इदं जगत् जजान जनयामास । स्वरेतसा स्वीय-चिच्-छक्ति-तेजसा पुनर् अपि अदो जगत् आविश्य अन्तर्यामि-रूपेण प्रविश्य गृध्राणं दुर्विषय सुखम् अभिकाङ्क्षन्तं मद्-विधं हंसं जीवं विचष्टे पश्यति कृपया पालयतीत्य् अर्थः । केन प्रकारेणेत्य् अपेक्षायां स्वस्मिन् बुद्धि-वृत्ति-प्रेरणयैवेत्य् आह—नृषु सीदति उपाधितया तिष्ठतीति नृषत् बुद्धिस् तस्या रिङ्गिं स्वस्मिन्न् एव गतिं राति ददातीति तत् । अतस् तद्-विषयिणी मे बुद्धिः केनाप्य् आवृता मास्त्व् इति भावः ॥१४॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ऋषभानुचरिते सप्तमोऽध्यायः ।

॥ ५.७ ॥

(५.८)


  1. उज्जिहासे इति पाठान्तरम्। ↩︎