॥ ५.६.१ ॥
राजोवाच—
न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि।
**श्रीधरः : **
षष्ठे लीनाभिमानस्य देह-त्याग-क्रमाभिधा ।
प्रदहन्तं दवाग्निं यः पश्यन्न् अपि न पश्यति ॥
योगैश्वर्याणि नाभ्यनन्दद् इत्य् उक्तं तत्र पृच्छति, नेति । भगवः हे भगवन्, योगेन समीरितम् उद्दीपितं यज् ज्ञानं तेनावभर्जितानि दग्धानि कर्म-बीजानि रागादीनि यैस् तेषां यदृच्छया प्राप्तानि योगैश्वर्याणि पुनः क्लेश-दानि भवितुं नार्हन्ति । अतः किम् इति नाभ्यनन्दद् इत्य् अर्थः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
मनसश् चातिदौरात्म्यं देहान्तर्धापनं हरेः ।
पाषण्डोत्पत्तिर् इत्य् एवं षष्ठेऽध्याये निरूप्यते ॥
योगैश्वर्याणि नाभ्यनन्दद् इति श्रुत्वा पृच्छति—नेति । हे भगवः ! हे भगवन् ! योगेश्वरेण समीरितम् उद्दीपितं यज् ज्ञानं, तेनावभर्जितानि कर्म-बीजानि यैस् तेषां यदृच्छयोपगतानीति न ह्य् अकस्मात् प्राप्तेषु भोगेष्व् अनपकुर्वत्सु विरज्यत इति भावः ॥१॥
—ओ)०(ओ—
॥ ५.६.२ ॥
ऋषिर् उवाच—
सत्यम् उक्तं किन्त्व् इह वा एके न मनसोऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते।
**मध्वः : **महैश्वर्य-स्वरूपो हि भगवान् ऋषभो विराट् ।
नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् ॥
उत्तमानां ज्ञापनार्थं धर्म-तत्त्वस्य केशवः ।
तेषाम् ऐश्वर्य-भोगे हि मनः-शक्तिं व्रजेद् यदि ॥
आनन्दे मुक्तिगो हंसो विकर्म-करणाद् व्रजेत् ।
धर्माधर्म-विहीनोऽपि भगवान् ऋषभस् ततः ॥
तेषां धर्म-स्थापनार्थं नाविश्चक्रे परां स्थितिम् ।
देवानां नाशुभाद् ध्रासः शुभात् काचित् सुखोन्नतिः ॥
अधिकारिक-जीवानाम् एवम् अन्येषु तद्-द्वयम् ।
अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् ॥
अशुभाभावजोन्नाहो महाधिकारिणाम् अपि ।
अशुभिए कृते न भवति तारतम्याच् च संस्मृतः ॥
प्रजयाश् च तथा देवा महादिकारिणः स्मृताः ।
ऋष्यणीतिस् तथा सप्त पितरोऽप्सरसां शतम् ॥
गन्धर्वाणां तथा राज्ञां विंशद् अन्यासु जातिषु ।
अल्पाधिकारिणः प्रोक्ता अनधिकारिणः परः ॥ इति ब्रह्माण्डे ॥२॥
**श्रीधरः : **अङ्गी-कृत्य परिहरति, सत्यम् इति । एके बुद्धिमन्तोऽनवस्थानस्य चञ्चलस्य मनसो विश्वासं न सङ्गच्छन्ते न सम्यक् प्राप्नुवन्ति । शठः किरातो यथा धृतेष्व् अपि मृगेषु । शठे किराते यथा मृगा इति सप्तम्य् अन्तं वा । पाठान्तरे शठो वञ्चकः किरातो वणिग् व्यवहर्तरि यथा । तस्मिन् वा व्यवहर्ता विश्वासं न यातीत्य् अर्थः । पाक्षि-कोपि दोषो वर्जनीय इत्य् उपदेष्टुं नाभ्यनन्दद् इति भावः ॥२॥
**क्रम-सन्दर्भः : **टीकायां पाक्षिक इति दोषो भवति न वेति सन्दिह्यमान-दोषोऽपीत्य् अर्थः । वस्तुतस् तु उत्तर-पदस्य साधक-मात्र-विषयत्वात् तान् अपि शिक्षयितुम् इति भावः ॥२॥
**विश्वनाथः : **सत्यम् उक्तम् इति क्लेशदानि न भवन्त्य् एव । तद् अपि एके सुधियः मनसो विश्वासं न सङ्गच्छन्ते, न सम्यक् प्राप्नुवन्ति । कुतः ? अनवस्थानस्य प्रतिक्षणम् एव प्राप्त-नाना-दशाकस्येत्य् अर्थः । तेन शुद्धं भूत्वाप्य् अशुद्धं भवितुं न तस्य विलम्ब इति भावः । शठे धूर्ते किराते नीच-जातौ च, धूर्तो यथा सौहार्द्यं प्रदर्श्य लुण्ठितम् एव विश्वसितारं हन्ति, तथैव मनः खलु काम-क्रोधाद्य्-अनभिभव-रूपां स्व-शुद्धिं प्रदर्श्य स्व-निरोधे शिथिल-प्रयत्नं साधकम् एकस्मिन् दिने कामाद्यैर् एवाकस्मिकैस् तम् अधः पातयति, यथा च नीच-जातिर् मुहुर् अपि धर्मम् अध्यापितोऽपि साधुतां दधानोऽपि गृह-कोषादिषु विश्वस्तः सन् समये दुस्त्यज-स्वीय-स्वभाव-प्राप्तं चौर्यम् एव करोति, तथैव मनः शम-दमादिभिः शोधितम् अपि चरणारविन्द-मननादिषु स्थैर्यं दधानम् अपि विश्वस्तं सद् अनिरुद्ध्यमानं कस्मिंश् च लक्षणे दुर्विषयेष्व् अपि निमज्जद्-विवेक-ज्ञानादिकम् अपहरति ॥२॥
—ओ)०(ओ—
॥ ५.६.३ ॥
तथा चोक्तम्—
न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते ।
यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् ॥
**श्रीधरः : **यद् विश्रम्भाद् यस्य मनसो विश्वासाच् चिराच् चीर्णं बहु-काल-सशितं तपश् चस्कन्द सुस्राव । ऐश्वरं विष्णोर् मोहिनी-रूप-दर्शनेन । यद् वा, ईश्वराणां समर्थानाम् अपि सौभरि-प्रभृतीनां तपः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यस्य विश्रम्भात् विश्वासात् चिराच् चीर्णं बहु-काल-सञ्चितं तपश् चस्कन्द सुस्राव । ऐश्वरं शान्तवं विष्णोर् मोहिनी-रूप-दर्शनेन । यद् वा, ईश्वराणां समर्थानाम् अपि सौभरि-प्रभृतीनां तपः ॥३॥
—ओ)०(ओ—
॥ ५.६.४ ॥
नित्यं ददाति कामस्य च्छिद्रं तम् अनु येऽरयः ।
योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली ॥
**श्रीधरः : **तत्र हेतुः, नित्यम् इति । कृत-विश्वासो यो योगी तदीयं मनः कामस्य तम् अनु येऽरयस् तेषां च छिद्रम् अवकाशं ददाति । यथा कृत-विश्वासस्य पत्युः पुंश्-चली जाया जाराणाम् अवकाशं दत्त्वा पतिं घातयति तथा मनोऽपि कामादिभिर् योगिनं भ्रंशयतीत्य् अर्थः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्र हेतुः—नित्यम् इति । कृत-विश्वासस्य योगिनो मनः कामस्य छिद्रम् अवकाशं ददाति, तं कामम् अनु ये अरयः क्रोध-लोभादयस् तेषां च । यथा कृत-विश्वासस्य पत्युः पुंश्चली जाया जाराणाम् अवकाशं दत्त्वा पतिं घातयति, तथा मनोऽपि कामादिभिर् योगिनं भ्रंशयतीत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ ५.६.५ ॥
कामो मन्युर् मदो लोभः शोक-मोह-भयादयः ।
कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः ॥
**श्रीधरः : **अरीन् कथयन्न् उपसंहरति—काम इति । यन्-मूलो यन्-निमित्तो भवति, तन् मनः को नु बुधः स्वी-कुर्यात् ? स्वाधीनम् इति मन्येत ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अरीन् कथयन्न् उपसंहरति—काम इति । यन्-मन एव मूलं यस्य सः ॥५॥
—ओ)०(ओ—
॥ ५.६.६ ॥
अथैवम् अखिल-लोक-पाल-ललामोऽपि विलक्षणैर् जडवद् अवधूत-वेष-भाषा-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम ।
**मध्वः : **विष्णोः कलेवर-त्यागो भू-त्यागोऽन्यो न विद्यते ।
कलेवर-त्यागोऽन्येषां पञ्चत्वं समुदीरितम् ॥ इति कौर्मे ।
अनर्थान्तर-भावेन अर्थान्तरं नास्तीति मनसा ॥६॥
**श्रीधरः : **प्रासङ्गिकं समाप्य प्रस्तुतम् आह—अथेति । अस्विलानां लोक-पालानां ललामो मण्डन-भूतोऽप्य् उपरता बाधितानुवृत्तिर् यस्मात् स उपरराम देहाभिमानं जहौ । विलक्षणैर् अनेक-प्रकारैर् अवधूत-वेषादिभिः न विलक्षितो भगवत्-प्रभावो यस्मिन् । सांपराय-विधिं देह-त्याग-प्रकारम् । आधाराधेय-भाव-व्यावृत्त्य्-अर्थम् आह—अनर्थान्तर-भावेनाभेदेन । उपासनाव्यावृत्त्य्-अर्थम् आह—असंव्यवहितम् ॥६॥
**क्रम-सन्दर्भः : **अनुशिक्षयन्न् इति तत् तत् सर्वं माययानुकरण-मात्रम् इति ज्ञेयम् । अत एवानुकरणेन शिक्षयन्न् इति पदार्थश् च वास्तवार्थोऽयं स्व-कलेवरं स्वाधिष्ठानं प्रपञ्चम् आत्मनि निजांशिनि श्री-वासुदेवे आत्मानं तद्-अंशं श्री-ऋषभ-देवाख्यम् अनुवृत्तिः प्रपञ्चानुवर्तनम् उपरराम तद्-अभिमानं जहौ ॥६॥
**विश्वनाथः : **प्रासङ्गिकं समाप्य प्रस्तुतम् आह—अथेति । साम्पराय-विधिं देह-त्याग-प्रकारम् इति देह-त्यागानुकरणेनैव शिक्षयन्न् इत्य् अर्थः । तद्-देहस्य चिन्मयत्वात् । वस्तुतस् तु आत्मनि परमात्मनि स्वस्मिन् आत्मानं श्री-ऋषभ-देवाख्य-शरीरम् अव्यवहितं माया-व्यवधान-रहितम् । अत एवानर्थान्तर-भावेन अभेदेन अन्वीक्षमाणः प्रतिक्षणम् पश्यन्, उपरता अनुवृत्तिर् अवधूतत्वानुकरणं यस्य सः । उपरराम स्वावतार-लीलातो विरराम, अत एव स्व-कलेवरं जिहासुः स्व-कलेवर-प्राकट्यं त्यक्तुम् इच्छुर् इति वास्तवोऽर्थः, अत्राग्रेऽपि प्रकटोऽर्थः स्पष्ट एव ॥६॥
—ओ)०(ओ—
॥ ५.६.७ ॥
तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजोऽसंवीत एव विचचार ।
**मध्वः : **अभिमानाभासेन अभितो ज्ञान-प्रकाशेन ॥७॥
**श्रीधरः : **मनसा स्वयं त्यक्तेऽप्य् अभिमाने केनापि संस्कारेण देहः प्रचलति यथा कुलाल-चक्रं सोऽयम् अभिमानाभासस् तेन । स च जीवन् मुक्तानाम् अविद्यावासनया भवतीति ततो विशेषम् आह—योग-मायावासनयेति । कोङ्कादीन् देशान्गतः सन्कयापि वासनयास्ये कृतोऽश्मक-वलो येन । असंवीतो नग्नः ।
**क्रम-सन्दर्भः : **लिङ्गम् अपि तद् एव योगमाया-वासनया लीलेच्छा-संस्कारेण आस्ये कृताश्म-कवलत्वम् अन्यत् किञ्चिद् अपि न भोक्तव्यं न वक्तव्यम् इत्य् अभिप्रायाभषेन ॥७॥
**विश्वनाथः : **तस्य देहान्तर्धान-प्रकारम् आह—तस्येति । भगवतोऽपि मुक्त-लिङ्गस्य त्यक्त-भगवच्-चिह्नस्य मुक्तानाम् इव लिङ्गं यस्येति वा । यथा योगिनां केनापि संस्कारेण देहं प्रचलति निष्पण्ण-घटम् अपि कुलाल-चक्रम् इव सोऽयम् अभिमानाभासः स च जीवन्-मुक्तानाम् अविद्याभास-वासनया आवधूत्य-लीलेच्छा-संस्कारेण, यथातिबालको यद् यत् प्राप्नोति, अद् अपि स्व-मुखे निक्षिपति, तथैव कृताश्म-कवलः असंवीतो नग्नः ॥७॥
—ओ)०(ओ—
॥ ५.६.८ ॥
अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह।
**मध्वः : **ज्ञानानन्दात्मको देहो ऋषभस्य महात्मनः ।
तादृशेनैव मनसा क्रमंस् तु कूटकाचले ॥
दावाग्निम् अनुविश्याथ तत्र-स्थः प्रादहज् जगत् ।
एवम् अग्नेर् अभिव्यक्तस् तस्थौ विष्णुः सनातनः ॥८॥
**श्रीधरः : **समीर-वेगेन विधूतानां कम्पितानां वेणूनां सङ्घर्षणेन जात उग्रो दावानलः । आलेलिहानः सर्वतो ग्रसन् ॥८॥
**क्रम-सन्दर्भः : **अथ समीरेति वास्तवार्थश् चायं तेन सहेति कर्तृ-साहाय्ये तृतीया, गौण-मुख्य-न्यायेन कर्तर्य् एव प्राथमिक-प्रवृत्तेः । ततश् च दावानलस् तद्-वन-वर्ति-तर्व्-आदि-जीवानां स्थूलं देहं ददाह । ऋषभ-देवस् तु सूक्ष्मं देहम् इति तस्य सर्व-मोक्ष-दत्त्वाद् अनुसन्धेयम्,
स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोशलास् ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ [भा।पु। ९.११.२२] इतिवत् ।
ततोऽनलसाधर्म्यं वर्णयित्वा तद्वद् अन्तर्धानम् एव तस्येति व्यञ्जितम् ॥८॥
**विश्वनाथः : **उपररामेत्य् उक्तम् । तत्र किं कुर्वन्न् उपररामेत्य् अत आह—अथेति । तेन सह श्री-ऋषभ-देव-सहितम् एव दावानलस् तद्-वनं ददाह, तद्-वन-वर्ति-तरु-मृगादीनां स्थूलं देहं दावानलो ददाह । सूक्ष्मं देहस् तु श्री-ऋषभ इति तद्-वन-वर्तिनः सर्वे तत्-प्रसादान् मुक्ता बभूवुर् इत्य् अर्थः ॥८॥
—ओ)०(ओ—
॥ ५.६.९ ॥
यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते।
**मध्वः : **ऋषभत्वेन संगोप्य धर्मान् अद्यापि तत्रगः ।
आस्ते स वासुदेवात्मा वासुदेवोऽहम् इत्य् अजः ॥
सदा स्थितः स्थितिं तां तु सुश्रावाहौ दुरात्मवान् ।
पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः ॥
जाति-स्मरो द्विधा शास्त्रं पाषण्डं निर्ममे नृपः ।
एकं तु वासुदेवाख्यं वासुदेवोऽहम् इत्य् अपि ॥
कुत्सितं वासुदेवत्व-प्रतिपादकम् आत्मनः ।
लोकार्थं चापरम् अपि चकारार्हत-नामकम् ॥ ॥९॥
**श्रीधरः : **अवधूत-वेषेण ऋषभदेवस् तत्र गत इत्य् एतस्य सूचकम् आह । यस्य किलाश्रमातीतम् अनुचरितं तद्-देश-वासिभ्य उपाकर्ण्य अर्हन्न् इति नाम यस्य स राजा स्वयं तद् उपशिक्ष्य शिक्षित्वा कुपथश् चासौ पाषण्डश् च तं निज-मनीषया सम्प्रवर्तयिष्यत इत्य् अन्वयः । तत्र हेतुः—कलाव् इत्य्-आदि । भवितव्येन प्राणि-पूर्व-सञ्चित-पाप-फलेन ॥९॥
**क्रम-सन्दर्भः : **तद् एवं सर्व-हितम् अपि तच्-चरितं वैदिक-वेद्याद्य्-अपराध-संस्कारवतां त्व् अन्यथैव भातम् इत्य् आह—यस्येत्य् आदिना ॥९॥
**विश्वनाथः : **अस्यावतारस्य लीला-श्रवण-कीर्तनादिभिर् एव कलि-काल-वर्तिनः पराग्-दर्शिनो जीवाः कृतार्था भवन्ति, न त्व् आचरितस्यानुष्ठानेन । कलौ प्रायः प्रत्यग्-दर्शनासम्भवात् श्रद्धयापि तदीय-केवल-बाह्याचरण-मात्र-निष्ठा भ्रष्टा एव भवन्तीत्य् आह—यस्येति । अर्हन्-नामा कलौ जनिष्यमाणो लोक-शास्त्र-द्वारा ऋषभ-देवोत्कर्षं श्रुत्वा तादृशाचरणेन वयम् अपि तथा भवामेति मत्वा तदीय-चेष्टाम् उपशिक्ष्य आधिक्येन शिक्षित्वा, भवितव्येन तादृश-दुरदृष्टेन यद् अवश्य-भवितव्यं तेन हेतुना ॥९॥
—ओ)०(ओ—
॥ ५.६.१० ॥
येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति।
**मध्वः : **तत्-प्रशिष्या क्रमुर् नाम न जानंस् तन्-मतं परम् ।
वासुदेवात्मतां सर्व-जीवानाम् अवदत् कुधीः ॥
कणवाख्यं शास्त्रम् अकरोद् अभेद-प्रतिपादकम् ।
कुशास्त्रं सर्व-वेदानां विरुद्धं तामसालयम् ॥
तद् दृष्ट्वाद्यापि वर्तन्ते वर्तिष्यन्ति तथा कलौ ।
अशौचा अव्रताचारा वासुदेवोऽहम् इत्य् अपि ॥ इति ब्राह्मे ॥१०॥
**श्रीधरः : **येन प्रवर्तकेन मनुजेष्व् अपसदा निकृष्टाः स्व-विधिना नियोगो यस्मिन् शौच-चारित्रे तद् विहीना देवावज्ञारूपाण्य् अस्नानादीनि कुव्रतानि गृह्णाना वेदादीनां विदूषका भविष्यन्ति ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्व-विधिना नियोगो यत्र तादृशेन शौच-चारित्र्येण विहीनाः ॥१०॥
—ओ)०(ओ—
॥ ५.६.११ ॥
ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति।
**श्रीधरः : **तत् फलं चान्धं तमः प्राप्स्यन्तीत्य् आह—ते चेति । अर्वाक्तनया अवेद-मूलया । निज-लोक-यात्रया स्वेच्छा-कृत-प्रवृत्त्या आश्वस्ताः कृत-विश्वासाः ॥११॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.६.१२ ॥
अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः।
**श्रीधरः : **ननु तर्ह्य् अनर्थ-कारी किम् अर्थोऽयम् ऋषभावतारः ? तत्राह—अयम् इति । रजो-व्याप्तानां जनानां मोक्ष-मार्गोपशिक्षणार्थः । तस्य कैवल्योपशिक्षणस्यानुरूपान् ॥१२॥
**क्रम-सन्दर्भः : **अन्येषां तु रजसोपरक्तानाम् अपि तद्-दाह-चरणारविन्देनान्वय-व्यतिरेकाभ्याम् हितायैव जायते तद् इत्य् आह—अयम् इति ॥१२॥
**विश्वनाथः : **तेन ऋषभदेवो यदैवाविर्बभूव तात्कालिकैर् ज्ञानि-जनैर् एव तच्-चरितम् अनुवर्तितव्यम् इत्य् आह—अयम् इति । रजसा रजो-गुणेन उपप्लुतं कालेन विनष्टीभूतं यत् कैवल्यं ज्ञान-योगस् तस्योपशिक्षणार्थः । तेन सत्यादि-युग-त्रये तद् वर्तितव्यं, कलौ तत्-कथा श्रोतव्येति व्यवस्थितिः ॥१२॥
—ओ)०(ओ—
॥ ५.६.१३ ॥
तस्यानुगुणान् श्लोकान् गायन्ति——
अहो भुवः सप्त-समुद्रवत्या
द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् ।
गायन्ति यत्रत्य-जना मुरारेः
कर्माणि भद्राण्य् अवतारवन्ति ॥
**मध्वः : **विशेषाद् भारते पुण्यं चरेयुः पापम् अन्यथा ।
तथैव भगवद्-भक्तिं पृथिव्यां नान्य-वर्षगाः ॥ इति ब्रह्माण्डे ॥१३॥
**श्रीधरः : **अधि अधिकं पुण्यं यस्मिन् । एतद् भारतं वर्षम् । ऋषभाद्य्-अवतार-युक्तानि कर्माणि ॥१३॥
**चैतन्य-मत-मञ्जुषा : **ऋषभावतारेण केवलेन भारतवर्षम् अधिपुण्यम् अधिक-पुण्यम्, यतो मुरारेः श्री-कृष्णस्य भद्राणि कर्माणि व्रज-विलासदीन्य् अवतारवन्ति देवकी-जन्म-वादादि-द्वारका-विलास-पर्यन्तावतार-प्रयोजन-सहितानि गायन्ति गास्यन्तीत्य् अर्थः । भविष्यति वर्तमाना । अथवा लीलानां नित्यत्वात् सर्वदा वर्तमानता ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वर्षेषु मध्ये एतद् भारतं वर्षम् अधिपुण्यम् अधिक-पुण्य-प्रदम् । कुतः ? गायन्तीत्य्-आदि ॥१३॥
—ओ)०(ओ—
**॥ ५.६.१४ ॥ **
अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्यश्
चचार धर्मं यद् अकर्म-हेतुम् ॥
**श्रीधरः : **प्रियव्रतस्य वंशः । अवदातः शुद्धः । यत्र वंशे । यद् यस्मात् । अकर्म मोक्षस् तस्य हेतुं धर्मं चचार ॥१४॥
**चैतन्य-मत-मञ्जुषा : **गास्यन्तीत्य् अत्र किं प्रमाणम् ? नैवम्, यत ऋषभावतारम् एव गायन्ति, तानि यद् धास्यन्ति, तत्र का कथा ? इति । ऋषभ-गानं दर्शयति—अहो नु वंश इत्य्-आदि द्वाभ्याम् ॥१४॥
**क्रम-सन्दर्भः : **अहो इति । स्वतः पुराणः पुमान् एव यत्र कृतावतारेऽपि नान्यथात्वं प्राप्तः किन्तु स आद्यः पुरुष एव सन् यत्राकर्म-हेतुं कर्माभाव-कारणं धर्मं [नैष्कर्म्यम्] चचारेत्य् अर्थः । यद्यप्य् एवं ज्ञान-पर्यवसानं तच्-चरितं तथापि तत्-पराणां भक्तय एव पर्यवस्यति । तथा स्वभावत्वाद् इत्य् आह ॥१४॥
**विश्वनाथः : **वंशेष्व् अपि मध्ये प्रियव्रत-वंशो धन्य इत्य् आह—अहो इति ॥१४॥
—ओ)०(ओ—
**॥ ५.६.१५ ॥ **
को न्व् अस्य काष्ठाम् अपरोऽनुगच्छेन्
मनो-रथेनाप्य् अभवस्य योगी ।
यो योग-मायाः स्पृहयत्य् उदस्ता
ह्य् असत्तया येन कृत-प्रयत्नाः ॥
मध्वः- योग-मायां योग-माया फलं बाह्यं
नित्योदस्तायोग-शक्तिर् अपेक्ष्यं फलं यतः ।
नित्य-स्वरूप-भूता हि बहिः-फल-विवर्जनात् ।
अकर्मेत्य् उच्यते यद्वन् मोक्षः फल-विवर्जनात् ॥ इति पाद्मे ॥१५॥
**श्रीधरः : **अपरः को योगी अस्य काष्ठां दिशम् अप्य् अनुगच्छेत् । यो योगी येन ऋषभेणासत्तयावस्तुत्वेनोदस्ता निरस्ता योग-मायाः सिद्धीर् वाञ्छति । कथं भूताः । कृतः रयत्नो यासु । तद् अर्थं प्रयत्नं च करोतीत्य् अर्थः । यद् वा, कथं-भूताः ? उदस्ताः कृत-प्रयत्नाः सेवितुम् उद्यता अपीत्य् अर्थः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **योगिष्व् अपि मध्ये ऋषभदेवस्य धन्य इत्य् आह—को न्व् अपरो योगी अस्य काष्ठां दिशम् अप्य् अनुगच्छेत् मनोरथेनापि किम् उत । कर्मणा अस्य कीदृशस्य ? अभवस्य नास्ति भवो यस्मात् तस्य । यो योगी येन ऋषभेन असत्तया अभद्रत्वेन उदस्तास् त्यक्ताः । योगमायाः योगाज् जाताः मायाः सिद्धीर् वाञ्छति । कीदृशीः ? कुतः प्रयत्नो यासु तद्-अर्थं प्रयत्नांश् च करोतीत्य् अर्थः । यद् वा, ऋषभ-देवोऽस्मान् स्वीकरोत्व् इति कृतः प्रयत्नो याभिस् ताः ॥१५॥
—ओ)०(ओ—
॥ ५.६.१६ ॥
**इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां **
**परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं **
**पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् **
**इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति **
**वावहितो भगवति तस्मिन् वासुदेव **
एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते।
श्रीधरः : विशुद्धाचरितं यद् ईरितं कथितं, तत् समस्तं दुश्चरितम् अभितो हरतीति तथा । परम-महा-मङ्गलानाम् अयनं च । अवहितः सन् । अनयोर् अपि श्रोतृ-श्रावयित्रोर् अविशेषेण भक्तिः सम्यग् अनुवृत्ता भवतीत्य् अर्थः ॥१६॥
**चैतन्य-मत-मञ्जुषा : **ऋषभदेव-चरित-चरणारविन्द-फलम् आह—इति ह स्मेत्य्-आदि । भगवति तस्मिन् वासुदेवे एकान्त-भक्तिर् इति ॥१६॥
**क्रम-सन्दर्भः : **[तस्य श्री-ऋषभदेवस्य] तथा-स्वभावत्वाद् इत्य् आह—इति ह स्मेति ॥१६॥
**विश्वनाथः : **किं च, सत्यादि-युग-वर्तिभ्यो योगिभ्यस् तच्-छिक्षित-योगानुष्ठातृभ्योऽपि सकाशात् कलि-युग-वर्तिनो जनास् तल्-लीला-श्रवण-कीर्तनवन्तोऽधिक-फल-भाजो भवन्तीत्य् आह—इति ह स्मेति । परम-गुरोर् हित-कारिणः विशुद्धम् आचरितं च ईरितं, नायं देहो देह-भाजां [भा।पु। ५.५.१] इत्य्-आद्य्-उपदेश-वाक्यं च । आश्रावयति कीर्तयति च, अनयोर् अपि श्रोतृ-वक्त्रोः, अपि-कारात् स्मर्तुर् अनुमोदयितुश् च ॥१६॥
—ओ)०(ओ—
॥ ५.६.१७ ॥
यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः।
**मध्वः : **नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् ।
स्व-योग्यं व्यज्यते मुक्तौ तच् चोक्तं तारतम्य-युक् ॥ इति व्योम-संहितायाम् ॥१७॥
**श्रीधरः : **भक्तेः परम-पुरुषार्थत्वम् आह । यस्यां भक्ताव् एव, न तु योगादिषु । अनुसवनमविरतम् आत्मानं स्नापयन्तः । स्वयम् आसादितम् अप्रार्थितं भगवता स्वयम् एव दीयमानम् अपि । अनादरे हेतुः—भगवदीयत्वेनैव परितः सम्यक् प्राप्ताः सर्वे पुरुषार्था यैस् ते ॥१७॥
**चैतन्य-मत-मञ्जुषा : **एकान्त-भक्तेर् मोक्षाद् अप्य् अधिक-प्राधान्यम् आह—यस्याम् इति । यस्यां भक्तौ पण्डिता आत्मानं संसार-ताप-तप्यमानं तयैव परया निर्वृत्या… [###]
**सनातन-गोस्वामी : **भगवति तस्मिन् वासुदेवे एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तत इति पूर्व-गद्याद् भक्तिर् अनुवर्तत एव । अतो यस्यां भक्ताव् एव, न तु योगादिषु अनुसवनम् अविरतं चात्मानं स्नापयन्त इति परमानन्द-रस-मयत्वं सूचितम् । आत्यन्तिकं परम-पुरुषार्थम् अपि । यद् वा, आत्यन्तिकं सायुज्य-रूपम् अपि । अतः परम-पुरुषार्थम् अप्य् अपवर्गं मोक्षम् । यद् वा, अपवर्गं मोक्षम् आत्यन्तिकं परम-पुरुषार्थं श्री-वैकुण्ठ-लोकम् अपि । एवं सतीदं गद्यम् अग्रे स्वतः परम-पुरुषार्थतायां द्रष्टव्यम् । एवम् अन्यद् अपि ज्ञेयम् । स्वयम् आसादितम् आत्मनैव प्राप्तम् । यद् वा, भगवता स्वयम् एव दीयमानम् अपि । अनादरे हेतुः—भगवदीयत्वेनैव परितः समाप्ताः सम्यक् प्राप्ताः सर्वे पुरुषार्था यैः ॥१७॥ (ह।भ।वि। ११.५७७)
क्रम-सन्दर्भः : यस्यां पूर्व-गद्योक्त-लक्षणायां भक्तौ । निवृत्या1 तत्-स्वरूपया स्वतः पुरुषार्थत्वात् ।2 मुक्त्य्-आदि-सम्पदां भक्ति-सम्पद-अनुचरीत्वात् परिसमाप्त-सर्वार्थत्वम् । यथोक्तं श्री-नारद-पञ्चरात्रे—
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ इति ।
अत एवानादरोऽपि । यथोक्तं श्री-वृत्रं प्रति महेन्द्रेण—यस्य भक्तिर् भगवति3 [भा।पु। ६.१२.२२] इत्य् आदौ ॥१७॥ [प्रीति-सन्दर्भ १९]
**विश्वनाथः : **भक्तेः परम-पुरुषार्थ-शिरोमणित्वम् आह—यस्यां भक्ताव् एव सुधा-सरिति आत्मानं स्नापयन्तः स्वयम् आसादितम् अप्रार्थैतम् अपि भगवता स्वयम् एव दीयमानम् अपि । अनादरे हेतुः—भगवदीयत्वेनैव परितः सम्यक् प्राप्ताः सर्वेऽर्थाः यैर् न तु भगवत्त्वेनेत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ ५.६.१८ ॥
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥
**मध्वः : **ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद् भक्तिं जनार्दनः ।
मुक्तिं ददाति सर्वेषां मुक्तानां कोऽह्यधीशतः ॥ इति ब्रह्म-तर्के ॥१८॥
**श्रीधरः : **ननु भगवतोऽतिसुलभत्व-दर्शनान् मोक्षस्य चातिदुर्लभत्वाद् इयम् अतिस्तुतिर् एवेत्य् आशङ्क्याह—हे राजन्, भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा । दैवम् उपास्यः । प्रियः सुहृत् । कुलस्य पतिर् नियन्ता । किं बहुना ? क्व च कदाचिद् दौत्यादिषु वः पाण्डवानां किङ्करोऽप्य् आज्ञानुवर्ती । अस्तु नाम एवं, तथाप्य् अन्येषां नित्यं भजताम् अपि मुक्तिं ददाति, न तु कदाचिद् अपि स-प्रेम-भक्ति-योगम् ॥१८॥
**चैतन्य-मत-मञ्जुषा : **परिसमाप्ति-सर्वार्थत्वं दर्शयति—राजन्न् इत्य्-आदि । भगवतस् तु भक्त-वात्सल्यम् एव परमो विनोदः । तेन भवतां पाण्डवानां यदूनां चक्वचित् पतिः पालकः, क्वचिद् गुरुर् उपदेष्टा, क्वचिद् दैवम् आराध्यः, क्वचित् प्रियः सखा, क्वचित् कुलपतिः कुल-देवः । किं बहुना ? वो युष्माकं पाण्डवानां क्वचित् किङ्करः, सारथिर् दूतश् च । सर्वम् इदं तस्य विनोद एव । एष च सत्सु भक्तेषु भवति । भक्तेभ्यो यदि कैवल्यम् एव देयं, तदा भक्त-नाशे क्व तादृग् एव विनोदो भवितेति मुकुन्दो मोक्ष-प्रदोऽपि भजतांकर्हिचित् कदाचिद् अपि मुक्तिं न ददाति, तर्हि किं ददाति ? तत्राह—भक्ति-योगं भक्तौ योगो यस्य, स भक्ति-योगः प्रेमा तम् ।
यद् वा, स्वयम् आसादितम् अपि [भा।पु। ५.६.१७] इति पूर्वोक्तम् । अयम् आसादितत्वं दर्शयति—मुक्तिं ददाति, न भक्ति-योगं, यतो भक्तौ सत्यां स्वस्य वश्यता भवति । भजतां मुक्तिं ददाति, ते तु नैवाद्रीयते इति पूर्वेणैव सम्बन्धः । अन्तरङ्गेभ्यो युष्मद्-विधेभ्यस् तद्-भक्ति-योगम् एव ददाति, येषां वशो भवन् प्रीणातीत्य् अर्थः ॥१८॥
**सनातनः : **अधुना श्री-भगवतोऽप्य् अदेयत्वेन दौर्लभ्य-विशेषं लिखति—राजन्न् इति । अङ्ग हे राजन् ! भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा । दैवम् उपास्यः । प्रियः सुहृत् । कुल-पतिर् नियन्ता । किं बहुना ? क्व च कदाचिद् वः पाण्डवानां किङ्करोऽप्य् आज्ञानुवर्ती । अस्तु नाम एवं, तथाप्य् अन्येषां नित्यं भजताम् अपि मुक्तिं ददाति, न तु कदाचिद् अपि स-प्रेम-भक्ति-योगम् ।
यद् वा, भजतां यज्ञादिना सेवमानानाम् । यद् वा, स्व-धर्माचरणादिना भगवद्-आज्ञा-प्रतिपालन-रूपां भक्तिं कुर्वताम् अपि श्रवणादि-भक्ति-योगं न ददाति । एवं भगवत्-प्रसादैक-लभ्यता, अन्यथा च परम-दौर्लभ्यम् इति दर्शितम् । एवं च श्रवणादिकम् अपि यो न ददाति, स वो वश्य इति पाण्डवानां माहात्म्यं च सिद्धम् इति दिक् ॥१८॥
**क्रम-सन्दर्भः : तच् छ्रुत्वा तस्यै स्पृहयन्तं राजानं, “भवतां तु सा परम-श्लाघ्या” इति वदन् तम् एवाभिमान-ममताभ्यां प्रीतेर् अतिशयं दर्शयति4—राजन्न् इति । यस्याम् एव कवयः [भा।पु। ५.६.१७] इत्य्-आदि-प्राक्तन-गद्ये मुक्त्य्-अधिकतया सामान्या प्रीति-लक्षण-भक्तिर् उक्ता । अत्र तु, हे राजन् भवतां यदूनाम् अपि पत्य्-आदि-रूपो भगवान् । एवं नाम दूरेऽस्तु **श्री-भगवतस् तादृशत्व-प्रापकस्य प्रेम-विशेषस्यास्य वार्ता, सर्वेषाम् अपि दूरे स्थितेत्य् अर्थः । यतोऽन्येषां नित्यं भजताम् अपि मुकुन्दोऽसौ मुक्तिम् एव ददाति, न तु भक्ति-योगं पूर्वोक्त-महिम-प्रीति-सामान्यम् अपीति पतित्वादि-भावमय्यां परम-वैशिष्ट्यम् उक्तम् । अतस् तेष्व् एव यत्-किञ्चिद्-रूपत्वम् अपि श्री-ब्रह्मणा प्रार्थितं—तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इत्य्-आदिना । [प्रीति-सन्दर्भ ९६]
भक्ति-योगम् अत्र प्रेमाणम् । कर्हिचिद् इति तद् एतत् फलेच्छुत्वाभावे वासनान्तर-सद्-भावे च सतीत्य् अर्थः ।
5यद् वा, यत् तु एतत्-पद्योक्त्या भक्त्यापि भक्ति-योगाख्य-तद्-रतिर् न प्राप्यत इति शङ्क्यते, तत् खल्व् अविवेकाद् एव । कर्हिचिद् इति [भक्ति-योगाख्य]-तद्-रति-पुरुषार्थतायां शैथिल्ये सत्य् एवेत्य् अर्थ-लाभात् । “कर्हिचिद् अपि” इत्य् अनुक्तत्वात्, असाकल्ये तु चिच्-चनौ इत्य् अमर-कोषाच्च । तथापि यदि तु [साधन-भक्तेः] चिरम् आवृत्तिः स्यात्, तदैव हि रतिम् अपि ददाति । सत्यं6[भा।पु। ५.१९.२७] इत्य्-आदेर् इति च कर्हिचित्-पदेन गम्यते ॥१८॥ [भक्ति-सन्दर्भ १४१]
**विश्वनाथः : **धन्योऽयं प्रियव्रत-वंशो यत्र भगवान् ऋषभ-देवोऽवतीर्णः । उत्तान-पाद-वंशोऽपि धन्यः, यत्र पृथुः । रघु-वंशोऽपि धन्यो यत्र रामः । यदु-वंश-पुरु-वंशयोर् ऐककालिकयोर् अपि मध्ये यदु-वंश एव सुभगः, यत्र कृष्णः । अस्मदीयः पुरु-वंशस् तु सर्वतोऽतिदुर्भगो यत्र भगवान् नावततार इति मनोऽनुलापेन विषीदन्तं राजानं सर्वज्ञतयैव ज्ञात्वा मोक्षाद् भक्तेर् उत्कर्षेण प्रतिपादितेनैव तम् आनन्दयति—हे राजन् ! भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा । दैवम् उपास्यः । प्रियः प्रीतिकृत् । कुल-पतिर् नियन्तेति । यदुष्व् अवतरतोऽपि कृष्णस्य तेषु भवत्सु च तुल्य एव व्यवहारो दृष्टः । किं च, क्व च कदाचित् वः पाण्डवानां दूत्य्-आदिषु किङ्करो, न च तथा यदूनाम् इति यदुभ्योऽपि प्रेमवत्त्वेन भवताम् आधिक्यम् एवेति भावः । भवद्भ्यो ह्य् अभजद्भ्योऽपि परम-प्रेमाधिक्य-दानस्य वार्ता कियती वक्तव्या ? सा सर्वोपरि विराजिता । अन्येभ्यो भजद्भोऽपि भक्ति-योगं भाव-भक्तिम् अपि प्रायो न ददाति, किं तु ततोऽप्य् अतिनिकृष्टां मुक्तिम् एवेत्य् आह—अस्त्व् एवेति । भजतां भजद्भ्यः । अत्र “कर्हिचिद् अपि” इत्य् अनुक्तेर् मुक्तिम् अनिच्छद्भ्यः शुद्ध-भक्तेभ्यस् तु भक्तिम् एव ददातीत्य् अर्थो लभ्यते ॥१८॥
—ओ)०(ओ—
॥ ५.६.१९ ॥
नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः
श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः ।
लोकस्य यः करुणयाभयम् आत्म-लोकम्
आख्यान् नमो भगवते ऋषभाय तस्मै ॥
**श्रीधरः : **वर्णितम् ऋषभावतारं नमस्-करोति । नित्यम् अनुभूतं यन् निजं रूपं स एव लाभस् तेन निवृत्ता तृष्णा यस्य सः । अतद्-रचनया देहाद्य्-अर्थ-मनो-रथेन श्रेयसि विषये चिरं सुप्ता बुद्धिर् यस्य तस्य जनस्य करुणया निर्भयम् आत्म-स्वरूपं य आख्यातवांस् तस्मै नमः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उपाख्यानं समाप्य प्रणमति—नित्यम् एव अनुभूतो यो निजः स्वरूपानन्दस् तल्-लाभेनैव विगत-तृष्णः । अतद्-रचनया देहाद्य्-अर्थ-चेष्टया श्रेयसि विषये चिरं सुप्ता बुद्धिर् यस्य तस्य जनस्य अभयं निर्भय-कारणं श्री-वैकुण्ठं प्राप्यं करुणयोपदिष्टेन भक्ति-योगेन य आख्यातवांस् तस्मै नमः ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमे षष्ठोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ऋषभ-देवानुचरितो नाम
षष्ठोऽध्यायः ।
॥६॥
—ओ)०(ओ—
(५.७)
-
निवृत्त्या इति ङ-पुस्तके। ↩︎
-
तथान्येषाम् अपवर्गाणाम् अपि तया तिरस्कृतौ मुक्त-कण्ठा एव शब्दा उदाहार्याः । सा च तिरस्कृतिः क्वचित् तत्-स्वरूपेण क्रियते । क्वचित् तत्-परिकर-द्वारा च । तत्र तत्-स्वरूपेण तिरस्कृतिम् आह गद्येन—यस्याम् इति । इत्य् अधिक-पाठः पुरी-दासेन न धृतः। ↩︎
-
यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ↩︎
-
तम् एवाभिमान-ममताभ्यां प्रीतेर् अतिशयं दर्शयति—इति प्रीति-सन्दर्भोक्तावतरणिका। ↩︎
-
श्री-भगवद्-विषयक-रति-प्रदत्वम् उक्तम् । एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे [भा।पु। ७.७.३३] इत्य्-आदिना । इति भक्ति-सन्दर्भे निम्न-प्रदत्त-व्याख्यातः पूर्वं लिखितम्। ↩︎
-
सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् ↩︎