०५ ऋषभदेवानुचरिते

॥ ५.५.१ ॥

ऋषभ उवाच—

नायं देहो देह-भाजां नृ-लोके
कष्टान् कामान् अर्हते विड्-भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम् ॥

**श्रीधरः : **

पञ्चमे मोक्ष-धर्मोपदेशैः पुत्रानुशासनम् ।

उक्तं पारम-हंस्यं च तस्य द्वन्द्व-तितिक्षया ॥

विड्-भूजाम् अपि ये सन्ति तान् कष्टान् दुःख-दान् कामान् विषयान् नार्हति, तद्-योग्योऽयं मनुष्य-देहो न भवति । दिव्यम् उत्कृष्टम् । येन तपसा । यस्माच् छुद्धात् सत्त्वाद् अनन्तं ब्रह्म-सुखं भवति ॥१॥

**चैतन्य-मत-मञ्जुषा : **नायं देह इत्य्-आदि । कष्टान् कामान् विषय-भोगान् अर्हते । तर्हि किम् अर्हते ? तत्राह—दिव्यं तपः, दिव्यत्वेन भक्ति-योगानुकूलं, येन तपसा सत्त्वं शुध्येत्, रजस्-तमो-रहितं भवति । सत्त्व-शुद्धौ सत्यां किं भवति ? तत्राह—यस्माद् यतोऽनन्तं ब्रह्मणोऽपि ब्रह्मानन्दाद् अपि सौख्यं सुखं भवति, तत् श्री-कृष्ण-चरणारविन्द-प्रेम भवतीति भावः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

स्व-भक्तिं स्वान् उपादिश्य विधाय भरतं नृपम् ।

प्रव्रज्य पञ्चमे देवो जड-चर्याम् उदीदृशत् ॥

उपशिक्षयन्न् उवाचेत्य् उक्तम् । तत्र भक्ति-योगे प्रवर्तयितुम् प्रथमं मनुष्य-देहस्य पुरुषार्थ-साधनत्वं विषय-भोगानौचित्यं चाह—नायम् इति । कष्टान् कष्ट-प्रदान् कामान् योषिद्-दर्शन-स्पर्शनादीन् नार्हते नैवार्हति इति । कुतः ? ये विड्-भुजाम् अपि सन्ति कामार्हत्वे मनुष्य-देह-शूकर-देहयोस् तुल्यत्वापत्तेर् इति भावः । तेन शूकर-देहादिभिर् यन् न लभ्यते, तद् एव मनुष्य-देहेन लब्धुं यतनीयं, तद् एव मनुष्यत्व-चिह्नं किम् ? तत्राह—तप इति । तच् चानाहार-वर्षाताप-सहनादिकं वृक्षादीनाम् अपि वर्तत इति तद्-व्यावृत्त्य्-अर्थम् आह—दिव्यम् अप्राकृतं भगवत्-समन्धीत्य् अर्थः । हे पुत्रकाः ! अनुकम्पायां कन् । सत्त्वम् अन्तःकरणम् ॥१॥ \

—ओ)०(ओ—

॥ ५.५.२ ॥

महत्-सेवां द्वारम् आहुर् विमुक्तेस्
तमो-द्वारं योषितां सङ्गि-सङ्गम् ।
महान्तस् ते सम-चित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥

**श्रीधरः : **मोक्ष-बन्धयोर् निदानम् आह—महत्-सेवाम् इति । तमसः संसारस्य द्वारं योषितां ये सङ्गिनः, तेषां सङ्गम् । महतां लक्षणम् आह सार्धेन—महान्त इति । साधवः सद्-आचाराः ॥२॥

**चैतन्य-मत-मञ्जुषा : **तच् च महत्-सेवयैव भवतीत्य् आह—महत्-सेवाम् इत्य्-आदि । विमुक्तेः संसार-बन्ध-च्छेदस्य, तर्हि महान्त एव केऽमी ? इत्य् आह—महान्तस् ते इत्य्-आदि। असम-चित्ताः, अन्येषां चित्तं तु विषयाकृष्टं, महतां चित्तं तु कृष्ण-गुणाकृष्टम् इत्य् असमत्वम् । यद् वा, समम् अन्योन्याविशृङ्खल्यं सर्व-संवाद-भाक् चित्तं येषां, समान-वासनत्वात् । प्रशान्ताः प्रकर्षेण शान्ति-रस-प्रधानाः । अत एव विमन्यवोऽक्रोधाः। अतः सर्व-भूत-सुहृदः । अये शुभावह-विधौ श्री-कृष्ण-भजन-रूपे कर्मणि साधवः कुशलाः ॥२॥

**क्रम-सन्दर्भः : **महद् इति युग्मकम् ।1 तत्र महान्त इति सार्धकम् । तद् एवं ब्रह्म-सौख्यस्य निर्विशेष-सविशेषता-भेदेन तेषु सत्सु ये महान्तस् तेषां द्वैविध्य-प्रतिपादकं महतां द्वैविध्यम् आह—महान्त इति । ये सम-चित्ता निर्विशेष-ब्रह्म-निष्ठा अभेद-दर्शिनः, ते महान्तः। तेषां शीलं च साधनान्य् आह—प्रशान्ता इत्य्-आदिना ।

पुनर् उत्तरान् महद्-विशेषान् आह—ये वेति । वा-शब्दः पक्षान्तरे । उत्तर-पक्षत्वाद् अस्यैव श्रैष्ठ्यम् । मयि कृतं सिद्धं यत् सौहृदं प्रेम, तद् एवार्थः परम-पुरुषार्थो येषां, तथा-भूता ये, ते महान्त इति पूर्वेणान्वयः । तेषाम् शीलं च साधनान्य् आह—जनेष्व् इत्य्-आदिना । यतो मयि सौहृदार्थास् तत एव देहं-भर-वार्तिकेषु विषय-वार्ता-निष्ठेषु जनेषु तथा गेहेषु जायात्मज-बन्धु-वर्ग-युक्तेषु न प्रीति-युक्ताः । किन्तु यावद्-अर्था यावान् श्री-भगवद्-भजनानुरूपं प्रयोजनम्, तावान् एवार्थो धनं येषां तथा-भूता इत्य् अर्थः ।

यद् वा, यावान् अर्थो मत्-सौहृद-मय-भक्तिः, तावान् तद्-अनुरूप एव, न त्व् अधिक-न्यूनोऽर्थो धनं येषां ते । उभयोर् महत्त्वं च, महा-ज्ञानित्वान् महा-भागवतत्वाच् च । न तु द्वयोः साम्याभिप्रायेण, मुक्तानाम् अपि [भा।पु। ६.१४.५] इत्य्-आद्य्-उक्तेः । अत्र ज्ञान-मार्गे ब्रह्मानुभविनो महान्तः, भक्ति-मार्गे लब्ध-भगवत्-प्रेमाणो महान्त इति लक्षण-सामान्यम् इति ज्ञेयम् ।_।_२॥2 (भक्ति-सन्दर्भ १८६)

**विश्वनाथः : **मनुष्य-देहाद् एवोद्धारोऽधः-पातश् च भवतीति । तयोः कारणम् अपि मनुष्य-देहेऽस्तीत्य् आह—महद् इति । विमुक्ते विविध-मुक्तेः । ब्रह्म-सौख्यं ह्य् अनन्तम् इति पूर्वोक्तेर् ब्रह्म-सौख्यस्य च निर्विशेष-सविशेष-ब्रह्म-सम्बन्धित्वेन द्वैविध्यान् मुक्तिर् अपि सायुज्यं भक्तिमत्-पार्षदत्वं चेति द्विविधा वि-शब्दाद् व्याख्येया । महद्भ्योऽपि द्विविधा ब्रह्मोपासका भगवद्-उपासकाश् च । तेषां लक्षणं तन्त्रेणैवाह—सम-चित्ता अभेद-दर्शिनः, अकुटिल-चित्ताश् च । प्रशान्ताः प्रशमादि-युक्ताः, भगवन्-निष्ठा-बुद्धयश् च । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति भगवद्-उक्तेः । विमन्यव इत्य्-आदि विशेषण-त्रयम् उभयत्र तुल्यार्थम् । साधवः पर-दोषाग्राहिणः ॥२॥

—ओ)०(ओ—

॥ ५.५.३ ॥

ये वा मयीशे कृत-सौहृदार्था
जनेषु देहम्भर-वार्तिकेषु ।
गृहेषु जायात्मज-रातिमत्सु
न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥

**श्रीधरः : **मयि ईशे कृतं सौहृदम् एवार्थः पुरुषार्थो येषाम् । वा-शब्देनान्य-निरपेक्षस्यैवास्य लक्षणत्वं दर्शयति । देहं बिभर्तीति देहं-भरा विषय-वार्तैव न धर्म-विषया येषु तेषु जनेषु जायादि-युक्तेषु गृहेषु च । रातिर् मित्रं धनं वा । पाठान्तरे जायादि-प्रदेषु । यावद्-अर्थाश् च यावद्-अर्थम् एवार्थो येषाम् इति मध्यम-पद-लोपी समासः । देह-निर्वाहाधिक-स्पृहा-शून्या इत्य् अर्थः ॥३॥

**चैतन्य-मत-मञ्जुषा : **त एव के ? इत्य् आह—ये वा इत्य्-आदि । वा-शब्दो निश्चयार्थः, वै-शब्दवत् । ये वै मयि मद्-विषये य ईशः श्री-कृष्णस् तस्मिन् मयीति षष्ठ्य्-अर्थे सप्तमी, ममेश इत्य् अर्थः । कृतः सौहृद-रूपोऽर्थः पुरुषार्थो यैः । वक्ष्यति च—प्रीतिर् न यावन् मयि वासुदेवे [भा।पु। ५.५.६] इत्य्-आदि । तत्राप्य् एवम् एव व्याख्या—प्रीतिर् निधेहि प्रधानेऽस्मत्-प्रयोगं कथयति । यद् वा, मयि उपदेष्टरि सति वासुदेवे यावन् न प्रीतिस् तावन् न मुच्यते । देह-योगेन प्राकृत-देह-योगेन, अन्यथा प्रीतिमतां नारदादीनां देहे प्रप्रतिपत्तिः ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।(भक्ति-सन्दर्भ १८६)

**सनातन-गोस्वामि **(हरि-भक्ति-विलासः १०.६९) : अधुना प्रेमैक-परतया यैकान्तिता । तल्-लक्षणं लिखति—ये वेति त्रिभिः । पूर्वं महान्तस् ते सम-चित्ताः प्रशान्ताः [भा।पु। ५.५.२] इत्य् अर्ध-श्लोकेन महतां सामान्य-लक्षणम् उक्त्वा इदानीं मुख्य-लक्षणम् आह—मयि ईशे भगवति कृतं सौहृदं प्रेमैव अर्थः पुरुषार्थं येषां ते । वा-शब्देनान्य-निरपेक्षस्यैवास्य लक्षणत्वं दर्शितम् । तद्-बाह्य-लिङ्गम् आह—देहं बिभर्तीति देहम्भरा विषय-वार्ता एव न धर्मादि-विषय-वार्तापि येषु ।

यद् वा, देहम्भरेव वार्ता जीवनोपाय-धनादिर् न तु भगवत्-पूजाद्य्-अर्था येषां तेषु जनेषु गृहेषु च जायादि-युक्तेषु न प्रीति-युक्ताः । रातिर् मित्रं धनं वा, लोके यावद् अर्थाश् च यावद्-अर्थम् एवार्थो येषां मध्य-पद-लोपी समासः । देह-निर्वाहाधिक-स्पृहा-शून्या इत्य् अर्थः ।

यद् वा, ननु प्रीत्य्-अभावाद् देहादीनाम् उपेक्षापत्त्या देह-निर्वाहः कथम् अस्तु ? तत्राह—लोके यावान् अर्थोऽस्ति, स एवार्थो येषां, लोकाः प्रारब्ध-वशेन स्वयम् एव स्वधनादिना तद्-देह-पोषणादिकं कुर्युर् इति भावः । पूर्वम् आसक्ति-रहिततोक्ता । अनासक्तौ च कथञ्चित् कदाचित् कुत्रापि प्रीतिर् अपि घटेत । किन्तु आसक्त्य्-अभावान् निर्मूला विनश्वरा च । तत्र च सर्वथा सर्वदा सर्वत्र प्रीति-राहित्यम् एवोक्तम् । अतोऽस्य लक्षणस्य पूर्वतोऽपि श्रैष्ठ्यं द्रष्टव्यम् । एवम् अग्रेऽपि ॥३॥

**विश्वनाथः : **उत्तरेषाम् असाधारणं लक्षणं पुनर् आह—मयि ईशे कृतं सौहृदं प्रीतिर् एव अर्थः पुरुषार्थो येषां, मत्-प्रीतेर् अन्यद् वस्तु ये पुरुषार्थं न मन्यन्त इत्य् अर्थः। वा-शब्देनान्य-निरपेक्षस्यास्यैव लक्षणत्वं दर्शयति इति श्री-स्वामि-चरणाः । देहम्भराणां भोजन-पानाद्य्-आसक्तानां या वार्ता जीविकाः कथा वा ताभिर् एव ये दीव्यन्ति तेषु जनेषु जायादि-युक्तेषु गृहेषु च विद्यमानेष्व् अपि न प्रीति-युक्ताः । रातिर् धनम् ।

ननु तर्हि किम् अर्थं तेषु गृहेषु तिष्ठन्तीति ? तत्राह यावद्भिर् एव धनादिभिर् अर्थो मत्-पाद-सेवनाद्य्-आत्मिका भक्तिर् भवेत् तावन्त एवोपादेया येषां ते, तावद् आदि-पदानां वृत्ताव् अन्तर्भावः ॥३॥

—ओ)०(ओ—

॥ ५.५.४ ॥

नूनं प्रमत्तः कुरुते विकर्म
यद् इन्द्रिय-प्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽयम्
असन्न् अपि क्लेशद आस देहः ॥

**श्रीधरः : **कामान् नार्हतीति यद् उक्तं तद् उपपादयति—नूनम् इति । यद् यदा इन्द्रिय-प्रीतये आपृणोति व्याप्रियते, तदा प्रमत्तः सन् विकर्म पापं नूनं कुरुते । यतो विकर्मणः प्राचीनाद् अयं क्लेशदो देहो जातः, तस्यैव पुनः करणं साधु न मन्ये ॥४॥

**क्रम-सन्दर्भः : **विकर्मात्र काम्यं कर्म । देहोऽपि मनुष्य-देह एव ॥४॥

**विश्वनाथः : **तमो-द्वारात् योषित्-सङ्गि-सङ्गाद् देहिन एवम् अधः-पातः स्याद् इति तं दर्शयति शोचति च—नूनम् इति । विकर्म पर-दारादि-ग्रहण-पापम् आपृणोति विकर्मण्य् एव व्यापृतो भवति, यतो विकर्मणः प्राचीनाद् अयं क्लेशदो देहो जातः । तस्यैव पुनः-करणं न साधु मन्ये । देहः कीदृशः ? आत्मनो जीवस्य असन्न् अपि वस्तुतो न वर्तमानोऽपि, असङ्गो ह्य् अयं पूरुषः इति श्रुतेः ॥४॥

—ओ)०(ओ—

॥ ५.५.५ ॥

पराभवस् तावद् अबोध-जातो
यावन् न जिज्ञासत आत्म-तत्त्वम् ।
यावत् क्रियास् तावद् इदं मनो वै
कर्मात्मकं येन शरीर-बन्धः ॥

**मध्वः : **क्रिया-फलं तावद् एव कर्मात्मकं कर्म-वशम् ॥५॥

**श्रीधरः : **देहादेर् नश्वरत्वात् कियान् अयम् अनर्थः ? इत्य् आशङ्क्याह—पराभवो देहादिना स्वरूपाभिभवोऽज्ञान-कृतस् तावद् भवति । तत्र हेतुः—यावत् क्रियाः स्युः, तावद् इदं मनो हि कर्म-स्वभावम् एव स्यात् । येन कर्मात्मकेन मनसा ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तर्हि पुण्यं कर्तव्यम् इति चेन्, न, तस्यापि संसार-हेतुत्वेन क्लेश-हेतुत्वात् \

तस्मात् पुण्य-पापयोर् निरासकं ज्ञानम् एवाभ्यसनीयम् इत्य् आह—पराभवः कर्म-पारतन्त्र्यं, तद् एव जीवस्य बन्धः । स चाज्ञान-कृतस् तावद् एव भवति, यावन् न जिज्ञासतः इति, ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुतेऽर्जुन इत्य् उक्तेः । यावज् ज्ञानं नोद्भवेत् तावत् कर्माणि न नश्यन्ति । यावत् क्रियाः पुण्य-पाप-कर्माणि स्युस् तावद् इदं मनो हि कर्मात्मकं कर्म-स्वभावम् एव स्यात्, येन कर्मात्मकेन मनसा ॥५॥

—ओ)०(ओ—

॥ ५.५.६ ॥

एवं मनः कर्म-वशं प्रयुङ्क्ते
अविद्ययात्मन्य् उपधीयमाने ।
प्रीतिर् न यावन् मयि वासुदेवे
**न मुच्यते देह-योगेन तावत् ॥ **

**मध्वः : **अविद्यया प्रयुङ्क्ते ॥६॥

**श्रीधरः : **उक्तम् उपसंहरति । एवं पूर्व-कृतं कर्म कर्तृ-भूतं, मनः कर्म-भूतं, वशं प्रयुङ्क्ते पुनः कर्म-निष्ठं करोतीति । जीवन् मुक्त-कर्म-व्यावृत्त्य्-अर्थम् आह—अविद्ययेति । अविद्यया आत्मनि उपधीयमाने आच्छाद्यमाने सति एवं मनः कर्तृ, पुरुषं कर्म-वशं प्रयुङ्क्त इति वा ॥६॥

चैतन्य-मत-मञ्जुषा : तृतीय-श्लोकस्य व्याख्या द्रष्टव्या।

**क्रम-सन्दर्भः : **उपधीयमाने युज्यमाने यद्यप्य् एवम् आत्म-तत्त्व-बोधान्त एव बोधस् तथापि मत्-प्रीतिं विना सोऽपि न सिद्ध्यतीत्य् आह—प्रीतिर् इति ॥६॥

**विश्वनाथः : **केन प्रकारेण मनः कर्मात्मकं स्यात् ? तम् आह—एवम् इति । कर्म प्राचीनम् अर्वाचीनं वा कर्तृ । मनः कर्म-भूतम् । वशं प्रयुङ्क्ते पुनः कर्म-निष्ठं करोति । एवम् अनेन प्रकारेण मनः कर्मात्मकं स्यात्, यद् वस्तु यद्-अधीनं स्यात्, तच् च तद्-आत्मकम् एव भवेद् इत्य् अर्थः । जीवन्-मुक्त-कर्म-व्यावृत्त्य्-अर्थम् आह—अविद्ययेति । आत्मनि जीवे उपधीयमाने युज्यमाने सति उपाधिर् उपाधिर् लिङ्गं तद्-अध्यासात् तद्-रूपी क्रियमाण इत्य् अर्थः । किं च, सर्व-कर्म-निर्मूलीकरणी भक्तिर् एवेत्य् आह—प्रीतिर् इति ॥६॥

—ओ)०(ओ—

॥ ५.५.७ ॥

यदा न पश्यत्य् अयथा गुणेहां
स्वार्थे प्रमत्तः सहसा विपश्चित्।
गत-स्मृतिर् विन्दति तत्र तापान्
**आसाद्य मैथुन्यम् अगारम् अज्ञः **

**श्रीधरः : **न केवलं देह-योग-मात्रम्, अनर्थान्तरं चेत्य् आह । यदा गुणानाम् इन्द्रियाणाम् ईहां चेष्टाम् अयथा मिथ्या आत्मीया न भवतीति विपश्चिद् विवेकी सन् न पश्यति । नु पश्यतीति पाठे अयथा आत्मीयत्वेनेत्य् अर्थः । तत्र तदा सहसा गत-स्मृतिः स्वरूप-स्मृति-शून्यः सन्न् अज्ञो मूढो मैथुन-सुख-प्रधानं गृहं प्राप्य तापान् विन्दति ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं च भक्ति-मिश्रस्य ज्ञानस्य परिपाक-दशायाम् एव नैष्कर्म्यं न त्व् अपरिपाक-दशायाम् इत्य् आह—यदा गुणेषु शब्दादिष्व् अर्हेषु ईहां वाञ्छाम् अयथा अनर्थ-रूपां विपश्चित् ज्ञानवान् अपि न पश्येत्, यदानुपश्यतीति पाठे गुणानाम् इन्द्रियाणाम् ईहां चेष्टाम् अयथा ममात्मन एवेयं चेष्टेत्य् अर्थः । तत्र तदा सहसा गत-स्मृतिः सन् तापान् विन्दति मैथुनार्हम् अगारं प्राप्य त्व् अतितापान् इत्य् अर्थः ॥७॥

—ओ)०(ओ—

॥ ५.५.८ ॥

पुंसः स्त्रिया मिथुनी-भावम् एतं
तयोर् मिथो हृदय-ग्रन्थिम् आहुः ।
अतो गृह-क्षेत्र-सुताप्त-वित्तैर्
जनस्य मोहोऽयम् अहं ममेति ॥

**मध्वः : **ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्री-सहायिनः ।

बध्यन्ते केचनैतेषां विशेषं च विदो विदुः ॥ इति सत्य-संहितायाम् ॥८॥

**श्रीधरः : **ननु यथोपयोगं स्त्रिया मिथुनी-भूय सुख-मात्रम् अनुभवतः कुतस् तापाः स्युः ? तत्राह—पुंस इति । प्रत्येकं तयोर् एकैको हृदय-ग्रन्थिर् अस्त्य् एव । एतं मिथः परस्परं स्थूलम् अन्यं हृदययोर् ग्रन्थिं दुर्भेदं वदन्ति । कुतः ? इत्य् अत आह—अतोऽस्मान् मिथुनी-भावात् । प्रत्येकं हृदय-ग्रन्थिना तु देहेन्द्रिय-मात्रेऽहं ममेति मोहोऽस्मात् तु गृहादिभिर् विषय-भूतैर् महान् मोहो भवेद् इत्य् अर्थः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इन्द्रिय-चेष्टानाम् आत्मीयत्वाभिमनन-सद्-भावेऽपि स्व-कुटुम्ब-सङ्गवतो यथा मोहस् तथा तद्-रहितस्य नेत्य् आह—पुंस इति । मिथो हृदय-ग्रन्थिं ममेयं स्त्रीत्य् एकोऽयं ग्रन्थिः, तद्-उपरि ममायं पतिर् इति द्वितीयो ग्रन्थिः, तेन पुंसो वैराग्येण त्यक्तुम् इष्ट्वापि स्त्रीर् न तं जहातीति बन्धस्य गाढत्वं, उपलक्षणम् एवं पिता-पुत्रयोर् अपि ज्ञेयम् । कुटुम्ब-राहित्ये तु वस्त्रासन-पात्रादिष्व् आत्मीयत्वेनाभिमान-सद्-भावेऽपि मिथो ग्रन्थ्य्-अभावान् न तादृशो बन्ध इति भावः । अतो मिथो हृदय-ग्रन्थिस् ततो हेतोर् गृहादिभिर् अहं गृही मम गृहम् इत्य् एवं मोहो भवति ॥८॥

—ओ)०(ओ—

॥ ५.५.९ ॥

यदा मनो-हृदय-ग्रन्थिर् अस्य
कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्माद्
**मुक्तः परं यात्य् अतिहाय हेतुम् ॥ **

**श्रीधरः : **कदा तर्हि तस्य निवृत्तिः ? अत आह—यदास्य जनस्य कर्मभिर् अनुबद्धो दृढो मनो-रूपो हृदय-ग्रन्थिः शिथिलो भवेत्, तदाऽस्मान् मिथुनी-भावान् निवर्तते । ततश् च हेतुम् अहङ्कारं त्यक्त्वा मुक्तः सन् परं पदं याति ॥९॥

**चैतन्य-मत-मञ्जुषा : **यदा मन इत्य्-आदि । अस्मान् मिथुनीभावान् मुक्तः सन् परं श्री-पुरुषोत्तमं श्री-कृष्णं यात्, हेतुम् अहङ्कारम् अतिहाय त्यक्त्वा ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कदा तर्हि मुक्तिः ? अत आह—यदा मनो-रूपो हृदय-ग्रन्थिर् अस्य जनस्य कर्मभिर् अनुबद्धोऽपि ज्ञान-वैराग्याभ्यासेन शिथिलो भवेत्, तदाऽस्मान् मिथुनी-भावान् निवर्तते । ततश् च हेतुम् अहङ्काराख्यम् उपाधिं त्यक्त्वा मुक्तः सन् परं पदं याति ॥९॥

—ओ)०(ओ—

॥ ५.५.१० ॥

हंसे गुरौ मयि भक्त्यानुवृत्या
वितृष्णया द्वन्द्व-तितिक्षया च ।
सर्वत्र जन्तोर् व्यसनावगत्या
जिज्ञासया तपसेहा-निवृत्त्या ॥

**मध्वः : **आत्मनोऽविहितं कर्म वर्जयित्वान्य-कर्मणः ।

कामस्य च परित्यागो निरीहेत्य् आहुर् उत्तमाः ॥ इति च ।
सर्वस्माद् उत्तमो विष्णुर् इति ज्ञानम् उदाहृतम् ।
प्रतिजीवं येन मुक्तिस् तद्-विज्ञानं विदां मतम् ॥ इति च ।
ज्ञानं विष्णोर् उत्तमत्वे तद् एव प्रति-पुरुषम् ।

विशेषेण तु विज्ञानं तच् च जानाति सर्ववित् ॥

द्वात्रिंशल्-लक्षणैर् युक्तस् तीक्ष्ण-दंष्ट्रश् च सौम्य-दृक् ।

घोर-रुक् चेति पुरुषः स सर्वज्ञ उदाहृतः ॥ इत्य् अध्यात्मे ।

इति सर्वज्ञस्य गुरोः प्रत्यक्ष-लक्षणान्य् अपि शास्त्रैर् निरूप्यते२ ।

षण्णवत्य् अङ्गुलो यस् तु न्यग्रोध-परिमण्डलः ।
सप्त-पादश् चतुर्-हस्तः स देवैर् अपि पूज्यते ॥ इति वायु-प्रोक्ते ।

न्यग्रोध-मण्डलो व्यामो बाहु-न्यग्रोध उच्यते इति ॥१०-१३॥

**श्रीधरः : **हेतुम् अतिहायेत्य् उक्तं तत्र पञ्च-विंशति-साधनान्य् आह चतुर्भिः । हंसे मयि गुरौ भक्तिः सेवा । अनुवृत्तिस् तत्-परता । विगत-तृष्णया । सर्वत्र लोकान्तरेऽपि व्यसनावगत्या दुःखानुसन्धानेन । ईहानिवृत्त्या काम्य-कर्म-त्यागेन ॥१०॥

**क्रम-सन्दर्भः : **हेतुम् अतिहायेत्य् उक्तम् । तत्र च प्रीतिर् एव कारणम् उक्तम् । सा च तत्र द्विधा प्रवर्तते स्व-मात्र-पुरुषार्थानां स्व-द्वारा मुमुक्षूणां तु ज्ञान-द्वारेति, किन्त्व् अन्येच्छुत्वात् प्रीत्य्-आभास एवैषां ज्ञेयः । तत्रोभयत्रापि गुरु-भक्तिर् अपेक्ष्यत इत्य् आह हंस इति चतुष्केण । तत्र पूर्वेषां साधनान्य् आह—वितृष्णयेति पञ्च-पद्या ॥१०॥

**विश्वनाथः : **भक्ति-मिश्र-ज्ञानेन लिङ्ग-भङ्गम् उक्त्वा ज्ञान-मिश्रया च भक्त्या पञ्चविंशत्य्-अङ्गया लिङ्ग-भङ्गम् आह चतुर्भिः । तत्रापि शुद्ध-भक्तानां केवलयैव भक्त्या पञ्चदशाङ्गया लिङ्ग-भङ्गम् आह—प्रथम-द्वाभ्याम् । हंसे मयि परमहंस-स्वरूपे मयि गुरौ भक्त्येत्य्-आदिभिर् अहम्-आख्यं लिङ्गं लिङ्ग-देहं व्यापोहेद् इत्य् अन्वयः । वितृष्णया निष्कामतया । जिज्ञासया भक्तेर् भजनीयेश्वरस्य चेति शेषः। तपसा एकादशी-कार्तिकादि-व्रत-लक्षणेन विष्णु-वैष्णव-सेवा-निबन्धन-स्वीय-भोजन-शयनादि-सङ्कोच-लक्षणेन च । ईहा-निवृत्त्या व्यापारान्तर-राहित्येन ॥१०॥

—ओ)०(ओ—

॥ ५.५.११ ॥

मत्-कर्मभिर् मत्-कथया च नित्यं
मद्-देव-सङ्गाद् गुण-कीर्तनान् मे ।
निर्वैर-साम्योपशमेन पुत्रा
जिहासया देह-गेहात्म-बुद्धेः ॥

**श्रीधरः : **मद्-अर्थैः कर्मभिः । अहम् एव देवो येषां तैः सङ्गात् । हे पुत्राः, देह-गेहयोर् आत्म-बुद्धेर् अहं ममेति बुद्धेः ॥११॥

**क्रम-सन्दर्भः : **अपरेषाम् आह निर्वैरेति द्वाभ्याम् । अतो लिङ्गं व्यपोहेद् इति पूर्वैर् उत्तरैश् च पृथग् योज्यम् । योगेन धृत्य्-उद्यम-सत्त्व-युक्त इति तूभयत्रैव वितृष्णया तृष्णा-विगमेनेत्य् अर्थः । जिज्ञासया शास्त्राद् भगवत्-तत्त्व-विचारेण तपसा भगवत्-प्रीणन-स्वधर्मेण ईहा-निवृत्त्या ऐहिक-पारलौकिककाम् अनान्तर-निवर्त्तनेन, ततश् च नित्यं मत्-कर्मभिर् मद्-अर्चन-पाद-सेवन-लक्षणैर् इत्य्-आदि ब्रह्मचर्येण काय-मनो-वाग्-गतेन॥११॥

**विश्वनाथः : **अहम् एव देवः प्रभुर् येषां तैः सङ्गात् । निर्वैरम् अद्वेष्टृत्वम् । साम्यम् अन्यस्य सुख-दुःखयोः स्व-सुख-दुःख-साम्य-भावना । उपशमः क्रोध-शोकादेस् तेषां द्वन्द्वैक्यं तेन । देह-गेहादि-स्वात्मीयत्व-बुद्धेः ॥११॥

—ओ)०(ओ—

॥ ५.५.१२ ॥

अध्यात्म-योगेन विविक्त-सेवया
प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्-छ्रद्धया ब्रह्मचर्येण शश्वद्
असम्प्रमादेन यमेन वाचाम् ॥

**श्रीधरः : **अध्यात्म-योगेनाध्यात्म-शास्त्राभ्यासेन । सध्र्यक् सम्यग् इति सर्वत्र सम्बन्धः । असम्प्रमादेन कर्तव्यस्यापरित्यागेन ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्यागासामर्थ्येऽपि त्यागेच्छया । असम्प्रमादेन कर्तव्यस्यापरित्यागेन ॥१२॥

—ओ)०(ओ—

॥ ५.५.१३ ॥

सर्वत्र मद्-भाव-विचक्षणेन
ज्ञानेन विज्ञान-विराजितेन ।
योगेन धृत्य्-उद्यम-सत्त्व-युक्तो
लिङ्गं व्यपोहेत् कुशलोऽहम्-आख्यम् ॥

**श्रीधरः : **सर्वत्र मद्-भावो मद्-भावना तत्र विचक्षणेन निपुणेन विज्ञान-विराजितेनानुभव-पर्यन्तेन ज्ञानेन योगेन समाधिना धृत्य्-उद्यम-सत्त्व-युक्तो धैर्य-प्रयत्न-विवेकैर् युक्तः सन्न् अहङ्काराख्यम् उपाधिं व्यपोहेन् निरस्येत् ॥१३॥

**क्रम-सन्दर्भः : **अत्र प्रीति-बीजं विन्यस्यति सर्वत्र मद्-भावेति । योगेन उपायेन धृत्य्-आदि-युक्तः सन् ॥१३॥

**विश्वनाथः : **मद्-भाव-विचक्षणेन मदीय-सत्ता-दर्शनेन । विज्ञान-विराजितेन विज्ञानम् इति भावः । योगेनाष्टाङ्गेन । सत्त्वम् उत्साहः । व्यपोहेन् निरस्येत् ॥१३॥

—ओ)०(ओ—

॥ ५.५.१४ ॥

कर्माशयं हृदय-ग्रन्थि-बन्धम्
अविद्ययासादितम् अप्रमत्तः ।
अनेन योगेन यथोपदेशं
सम्यग् व्यपोह्योपरमेत योगात् ॥

**श्रीधरः : **ततः साधनाद् उपरमेद् इत्य् आह । कर्माण्य् आशेरते यस्मिन् । योगेनोपायेन । यद्य् अपि फले सिद्धे साधनोपरमः सिद्ध एव, तथापि यावद् देह-पातं तद् अभ्यास-शङ्कावारणायोक्तम् ॥१४॥

**चैतन्य-मत-मञ्जुषा : **कर्माशयम् इत्य्-आदि । अनेन कथित-पूर्व-योगेन हृदय-ग्रन्थिं व्यापोह्य योगाद् उपरमेत, श्री-कृष्ण-चरणाम्बुजम् एव चिन्तयेद् इत्य् अर्थः ॥१४॥

**क्रम-सन्दर्भः : **अभिनिवेशार्थं तद् एव सङ्क्षिप्य पुनर् आह—कर्मेति । अनेन पूर्वोक्तेन योगेन उपायैकतरेण तेन च न पुस्तक-दर्शन-मात्रस्योत्प्रेक्षितेन, अपि तु यथोपदेशं श्री-गुरु-शिक्षित-प्रकारेणैवेत्य् अर्थः । उपरमेतेति । प्रीति-पुरुषार्थिना अनुसङ्ग-मात्रेण तद्-व्यपोहिकायाः प्रीतेर् एव स्वयं सिद्धेः मुमुक्षूणां तद्-व्यपोहातिरिक्त-साध्याभावात् ॥१४॥

**विश्वनाथः : **ततश् च लिङ्ग-भङ्गार्थक-साधनाद् उपरमेद् इत्य् आह—कर्मेति । यथोपदेशं योगेन गुरूपदेशम् अनतिक्रम्य यो योग उपायस् तेन, न तु पाण्डित्य-बलात् पुस्तक-दर्शन-मात्राद् एव, सोत्प्रेक्षितेन । कर्माण्य् अशेरते यस्मिंस् तं बन्धं व्यपोह्य निरस्य योगाद् उपायात् विरमेद् इति लिङ्ग-व्यपोहनार्थम् एव विरमेत्, न तु तत्-पदार्थ-ज्ञानार्थम् इत्य् अर्थः । तद्-अर्थं तु भक्तिं कुर्वीतैव । यद् उक्तं—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ॥ इति ।

तत्-पदार्थानुभाव-सिद्धेऽपि भक्तेः सर्वथैवात्याग, आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदि-प्रमाणाद् व्याख्येय एवेत्य् अतो भक्ति-भिन्नाद् उपायाद् विरमेद् इति केचिद् आहुः ॥१४॥

—ओ)०(ओ—

॥ ५.५.१५ ॥

पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा
मल्-लोक-कामो मद्-अनुग्रहार्थः ।
इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान्
**न योजयेत् कर्मसु कर्म-मूढान् । **
कं योजयन् मनुजोऽर्थं लभेत
निपातयन् नष्ट-दृशं हि गर्ते ॥

**श्रीधरः : **किं च, पुत्रान् पिता शिष्यान् वा गुरुर् नृपश् च प्रजा एवम् अनुशिक्षयेत् । मम लोकं यः कामयते । यद् वा, मद्-अनुग्रह एवार्थो यस्य । विमन्युः शिक्षितस्याकरणेऽपि कोप-शून्यः । अतज्-ज्ञांस् तत्त्वम् अविदुषः । श्रेयो-बुद्ध्या कर्मसु मूढान् । अन्यथोपदेशे प्रत्यवायम् आह । मनुजः काम्य-कर्मसु पुरुषं योजयन् गर्ते संसार-कूपे तं पातयति, स मनुजः कम् अर्थं पुरुषार्थं लभेत ? न कम् अपीत्य् अर्थः ॥१५॥

**चैतन्य-मत-मञ्जुषा : **एतद् एव विवृणोति—पुत्रांश् चेत्य्-आदि । पिता पुत्रान्, गुरुः शिष्यान्, नृपः प्रजाः, पिता प्रजा इत्य् अध्याहार्यम् । मल्-लोक-कामश् चेत्, मद्-अनुग्रह-कामश् चेत्, तदेत्थम् अनुशिष्येत, यतस् ते पुत्रादयः स्तब्धा न भवन्ति ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं भक्तेर् गुण-भावम् अन्तर्-भूत-कैवल्यं चोक्त्वा भक्तेर् उपदेष्टापि कृतार्थः स्याद् इत्य् आह—पुत्रान् इति । विमन्युः शिक्षितस्याकरणेऽपि कोप-शून्यः । कर्मसु न योजयेत् कर्मैव कुरुतेति नोपदिशेत् । योजयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् इति तु ज्ञानोपदेष्टृ-विषयं, न तु भक्त्य्-उपदेष्टृ-विषयम् इति ज्ञेयम् ॥१५॥

—ओ)०(ओ—

॥ ५.५.१६ ॥

लोकः स्वयं श्रेयसि नष्ट-दृष्टिर्
योऽर्थान् समीहेत निकाम-कामः ।
अन्योन्य-वैरः सुख-लेश-हेतोर्
अनन्त-दुःखं च न वेद मूढः ॥

**श्रीधरः : **न योजयेद् इत्य् एतद् उपपादयति—लोक इति त्रिभिः । नष्ट-दृष्टत्वे हेतुः—य इति । निकामम् अतिशयेन कामो यस्य ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एवोपपादयति—लोक इति त्रिभिः । अर्थान् भोग्य-पदार्थान् दृष्टान् अदृष्टांश् च, निकामम् अतिशयेन काम एव यस्य सः ॥१६॥

—ओ)०(ओ—

॥ ५.५.१७ ॥

कस् तं स्वयं तद्-अभिज्ञो विपश्चिद्
अविद्यायाम् अन्तरे वर्तमानम् ।
दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं
प्रयोजयेद् उत्पथगं यथान्धम् ॥

**श्रीधरः : **तम् ईदृशं कुबुद्धिं दृष्ट्वा तत्रैव कस् तं प्रवर्तयेत् ? न कोऽपि । उत्पथेन गच्छन्तम् अन्धं यथा तेनैव गच्छेति को ब्रूयात् ? ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तम् एतादृशं कुबुद्धिं दृष्ट्वा तत्रैव कस् तं प्रवर्तयेत् ? न कोऽपि उत्पथेन गच्छन्तम् अन्धं कः खलु तेनैव गच्छेति वदेत् ? न कोऽपीत्य् अर्थः ॥१७॥

—ओ)०(ओ—

॥ ५.५.१८ ॥

गुरुर् न स स्यात् स्व-जनो न स स्यात्
पिता न स स्याज् जननी न सा स्यात् ।
दैवं न तत् स्यान् न पतिश् च स स्यान्
न मोचयेद् यः समुपेत-मृत्युम् ॥

**श्रीधरः : **समुपेतः सम्प्रप्तो मृत्युः संसारो येन तम् । ततो भक्ति-मार्गोपदेशेन यो न मोचयेत्, स गुर्व्-आदिर् न भवतीत्य् अर्थः । यद् वा, यस् तं मोचयितुं न शक्नुयात्, स तस्य गुर्व्-आदिर् न स्याद् इति निषेधः । ततश् च पिता न स्याद् इति, पुत्रोत्पत्तौ यत्नो न कार्य इत्य् अर्थः । दैवं देवता न स्याद् इति, पूजा न ग्राह्येत्य् अर्थः । एवम् अन्यद् अपि द्रष्टव्यम् ॥१८॥

**चैतन्य-मत-मञ्जुषा : **एवं चेन् नानुशिष्येरन्, तदा तैर् गुरु-प्रभृतिभिर् न भवितव्यम् इत्य् आह—गुरुर् न स्याद् इत्य्-आदि । दैवं सा देवतापि न स्यात्, तस्योपासनं न कार्यम् इति भावः । भगवद्-भक्त्य्-उपदेशेन यो यः समुपेत-मृत्युं न मोचयेत्, स स गुर्व्-आदिर् न भूयात् ॥१८॥

**क्रम-सन्दर्भः : **व्यावहारिक-गुर्व्-आदि-परित्यागेऽपि परमार्थ-पथिकानां न दोष इत्य् आह—गुरुर् न स स्याद् इति । टीकायां पुत्रोत्पत्तौ यत्नो न कार्य इत्य् अत्र तेनेति शेषः । यत्नं न कुर्याद् इत्य्-आदिकं तु वक्तव्यं कर्तृ-प्रधानेनैव विवक्षितत्वात् ॥१८॥ [भक्ति-सन्दर्भ २१०]

**विश्वनाथः : **एवं भक्तेर् उपदेष्टारम् अभिनन्द्य तद्-अनुपदेष्टॄणां गुरुत्व-बन्धुत्वाद्य्-अभावं, तद्-धेतुकं तेषां त्यागं चाभिव्यञ्जयति । समुपेतः सम्प्रप्तो मृत्युः संसारो येन तं जनं भक्ति-मार्गोपदेशेन यो न मोचयेत्, स गुर्व्-आदिर् न भवेत् न भवति । बलिः शुक्रम् इव तं गुरुं त्यजेद् एव, तस्य प्रणत्य्-अनुवृत्त्य्-आद्य्-अभावेऽपि न प्रत्यवायी स्याद् इति भावः । एवं विभीषणो रावणम् इव तं स्वजनम्, प्रह्लादो हिरण्यकशिपुम् इव तं पितरम्, श्री-भरतः कैकेयीम् इव तां जननीम्, खट्वाङ्ग इन्द्रादिम् इव तद् दैवं, याज्ञिक-ब्राह्मणी याज्ञिक-विप्रम् इव तं पतिं त्यजेद् एवेत्य् अर्थः ।

यद् वा, स्याद् इति विधि-लिङा यस् तं मोचयितुं न शक्नुयात्, स तस्य गुर्व्-आदिर् न स्यात् प्रणत्य्-अनुवृत्त्य्-आदिकं न गृह्णीयान्, न चेत् प्रत्यवायी स्य्यादि इति तेन च यदि मोचयितुं न शक्नुयात्, तर्हि स गुरुर् भवितुम् अन्यं न शिष्यं कुर्यात् । स्वजनो भवितुं बन्धुतां न दध्यात् । पिता भवितुं पुत्रोत्पत्तौ न यतेत । जननी भवितुम् अन्यं गर्भे न दध्यात् । दैवं भवितुं पूजां न गृह्णीयात् । पतिर् भवितुं पाणिं न गृह्णीयाद् इति द्योतितम् ॥१८॥

—ओ)०(ओ—

॥ ५.५.१९ ॥

इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यद् अधर्म आराद्
अतो हि माम् ऋषभं प्राहुर् आर्याः ॥

**श्रीधरः : **एवं मोक्ष-धर्मानुपदिश्य भ्रातृ-शुश्रूषण-लक्षणं धर्मं स्पर्धादि-निवृत्तये तेषां जन्म-कथन-पूर्वकम् आह द्वाभ्याम् । इदं मनुष्याकारं शरीरं मम दुर्विभाव्यम् अवितर्क्यं मद्-इच्छा-विलसितम् । न त्व् अहं प्राकृतो मनुष्य इत्यर्थः । मे हृदयं तु सत्त्वम् । किं तद् धृदयम् । यत्र धर्मस् तत् । शुद्धं सत्त्वम् इत्य् अर्थः । कुतः ? यद्य् अस्मान् मयाधर्मो दूराद् एव पृष्ठे कृत उत्सारितः । अत एव माम् ऋषभं श्रेष्ठं प्राहुः ॥१९॥

**चैतन्य-मत-मञ्जुषा : **आत्मानं व्याख्याति—इदम् इत्य्-आदि । इदं मे शरीरं दुर्विभाव्यं हि यस्मात् मे मम हृदयं तत्त्वं श्री-कृष्णः । वदन्ति तत्त्व-विदस् तत्त्वं [भा।पु। १.२.११] इत्य् उक्तेः । श्री-कृष्ण-मये यत्र तत्-तद्-धर्मः, अतः कारणाद् आर्या माम् ऋषभं श्रेष्ठम् आहुः ॥१९॥

**क्रम-सन्दर्भः : **आवेशावतारतया प्रतीतस्य श्रीऋषभदेवस्यापि विग्रह एवं युज्यते—इदं शरीरम् इति । इदं मनुष्याकारं मम शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत् तत्त्वं, तद् एव । यत्रैव धर्मो भागवत-लक्षणः, तत्रैव मे हृदयं मनः यद् यस्मात् तद् विपरीतादि-लक्षणो धर्मो मया पृष्ठे कृतः । ततः पराङ्-मुखोऽहम् इत्य् अर्थः । अत एव वक्तुर् अस्य श्री-ऋषभदेवस्य सर्वान्तिम-लीलापि व्याजेनान्तर्-धापनम् एव प्राकृत-लोक-प्रतीत्य्-अनुसारेणैव तु तथा वर्णितम् । आत्मारामता-रीतिर् दर्शनार्था, तद् उक्तं योगिनां साम्पराय-विधिम् अनुशिक्षयन्न् [भा।पु। ५.६.६] इति । अतः स्व-कलेवरं जिहासुर् इत्य् अत्र कलेवर-शब्दस्य प्रपञ्च एवार्थः, उपासना-शास्त्रे तस्य तथा प्रसिद्धेः ॥१९॥ [भगवत्-सन्दर्भः, ४०]

**विश्वनाथः : **यस्या भक्तिः कर्तव्या स क्व भगवांस् तथा भक्ति-प्राप्त्य्-अर्थं भागवत-सेवा चापेक्षणीयेति ? क्व वा स भागवत इति युष्माकम् अल्पोऽपि प्रयासो नास्ति, यतो गृह एव भगवान् अहं वः पिता, तथैव गृह एव भागवतोऽयं वो भ्राता वर्तते इत्य् आह—इदम् इति द्वाभ्याम् । इदं शरीरम् इति । इदं मनुष्याकारं शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत् तत्त्वम् चिद्-आनन्द-रूपं तद् एव, न त्व् अहं प्राकृतो मनुष्य इत्य् अर्थः । चिद्-वस्तुनस् तत्त्वस्य यन् मूर्तत्वम् एतद् एव दुर्विभाव्यत्वं—अन्येषां पृथिव्य्-आदीनां तत्त्वानां दुर्विभाव्यत्वाभावाद् इति भावः । हि निश्चितम् । यत्र मे धर्मः मत्-प्रापको भक्ति-योगः, तत्रैव मे हृदयं मनः—साधवो हृद्यं मह्यम् इति मद्-उक्तेः । मे अधर्मः मद्-धर्म-भिन्नोऽर्थः । आराद् दूरत एव पृष्ठे कृतः । ततः पराङ्-मुखोऽहं, तत्र मे न मन इत्य् अर्थः । अतो हेतोर् माम् ऋषभं सर्व-श्रेष्ठम् ॥१९॥

—ओ)०(ओ—

॥ ५.५.२० ॥

तस्माद् भवन्तो हृदयेन जाताः
सर्वे महीयांसम् अमुं सनाभम् ।
अक्लिष्ट-बुद्ध्या भरतं भजध्वं
शुश्रूषणं तद् भरणं प्रजानाम् ॥

**मध्वः : **नाभिर् इत्य् अथ नाम स्याद् धरेः सर्वाश्रयो यतः इति कौर्मे । तत् तस्य मम शुश्रूषणम् ॥२०॥

**श्रीधरः : **भवन्तश् च हृदयेन शुद्ध-सत्त्व-मयेन जाताः, तस्मान् मत्सरं हित्वा महत्तमं स-नाभं सोदरं भजध्वम् । ननु त्वत्-पुत्रत्वात् त्वां वयं भजेम राज-पुत्रत्वात् प्रजाश् च पालयाम ? इति चेद् अत आह । तद् एव मे शुश्रूषणं प्रजानां च पालनम् । भरतानुवृत्त्यैव सर्वं कृतं स्याद् इति भावः ॥२०॥

**क्रम-सन्दर्भः : **ननु जायात्मज-रातिमत्सु न प्रीति-युक्ताः [भा।पु। ५.५.३] इत्य् अनेन स्व-सम्बन्धि-भक्तिः परित्याजितैव पुनः कथम् उपदिश्यते तत्राह—महीयांसम् इति । महत्-सङ्गं द्वारम् आहुः [भा।पु। ५.५.२] इत्य्-आदिना तेषां महतां सङ्ग उपदिष्टः । तेषाम् अपि मध्ये श्रेष्ठम् इत्य् अर्थः । अत एवाक्लिष्ट-बुद्ध्या सुखम् एव मत्वेत्य् अर्थः ॥२०॥

**विश्वनाथः : **हृदयेन उरसा जाताः । अत एव पुत्रा औरसा उच्यन्ते इत्य् अर्थः । स-नाभं सोदरं भरतं भजध्वम् । ननु गेहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता [भा।पु। ५.५.३] इत्य् अनेन कलत्र-पुत्र-भ्रात्र्-आदिष्व् आसक्तिं निषिद्ध्यापि पुनस् तां किम् इत्य् उपदिशसीत्य् अत आह—महीयांसं महत्स्व् अपि श्रेष्ठं—महत्-सङ्गं द्वारम् आहुः [भा।पु। ५.५.२] इत्य्-आदिना भक्ति-हेतुत्वेन महत्-सेवाया मयैवोक्तत्वात् । अक्लिष्ट-बुद्ध्येति भ्रातृत्वेन तुल्यैर् अस्माभिः कथम् अयं भजनीय इति व्यवहार-दृष्टिर् न कार्येति भावः ।

ननु तव परमेश्वरत्वात् पितृत्वाच् च त्वां वयं भजामः, भक्ति-हेतुत्वेन नारदादीन् महतः सेवेमहि, राजपुत्रत्वात् प्रजाश् च पालयाम इति चेत् तत्राह—तद् एव मे शुशृऊषणं प्रजानां च पालनं भरतानुवृत्त्यैव सर्वं कृतं स्याद् इति मन्-मतम् इति भावः ॥२०॥

—ओ)०(ओ—

॥ ५.५.२१ ॥

भूतेषु वीरुद्भ्य उदुत्तमा ये
सरीसृपास् तेषु स-बोध-निष्ठाः ।
ततो मनुष्याः प्रमथास् ततोऽपि
गन्धर्व-सिद्धा विबुधानुगा ये ॥

**श्रीधरः : **इदानीं ब्राह्मणाश् च सेव्या इत्य् आशयेन तेषां सर्वेभ्यः श्रैष्ठ्यम् आह पञ्चभिः । भूतेषु चेतनाचेतनेषु । विरोहन्तीति वीरुधः स्थावराः, उद् उच्चैर् अतिशयेनोत्तमाः । तेभ्योऽपि ये सरीसृपाः सर्पन्तीति जङ्गमाः, ते उदुत्तमा इति सर्वत्रानुषङ्गः । तेष्व् अपि स-बोधा निष्ठा स्थितिर् येषां पश्व्-आदीनां ते कीटकादिभ्यः । ततस् तेष्व् अपि मनुष्याः, ततोऽपि प्रमथा भूत-प्रेतादयः । ततोऽपि गन्धर्वाः । ततः सिद्धाः । ततोऽन्ये विबुधानुगाः किन्नरादयः ॥२१॥

**क्रम-सन्दर्भः : **भूतेष्व् इत्य्-आदिकम् उत्तरोत्तर-शक्ति-श्रैष्ठ्यात् द्विज-देवतानां तु स्वादरणीयत्वाच् छ्रैष्ठ्यं विवक्षितम् । तच् च स्वोपकारित्व-मननेन तथैवाह—यस्मिन्न् इति । तद्-द्वारैव मम तृप्तिः स्याद् इत्य् अर्थः ॥२१॥

**विश्वनाथः : **इदानीं ब्राह्मणाश् च सेव्या इत्य् आशयेन तेषां सर्वेभ्यः श्रैष्ठ्यम् आह चतुर्भिः । भूतेषु मध्ये विरोहन्तीति वीरुधः स्थावराः, उदुत्तमा उच्चैर् अतिशयेनोत्तमाः। तेभ्योऽपि सर्पन्तीति सरीसृपा जङ्गमाः, तेष्व् अपि स-बोधा निष्ठा स्थितिर् येषां ते पश्व्-आदयः । विबुधानुगाः किन्नरादयः ॥२१॥

—ओ)०(ओ—

॥ ५.५.२२ ॥

देवासुरेभ्यो मघवत्-प्रधाना
दक्षादयो ब्रह्म-सुतास् तु तेषाम् ।
भवः परः सोऽथ विरिञ्च-वीर्यः
स मत्-परोऽहं द्विज-देव-देवः ॥

**मध्वः : **द्विज-देवानां देवः ॥२२॥

**श्रीधरः : **तेभ्योऽसुराः देवा असुरेभ्यः । सन्धिर् आर्षः । देवाश् च मघवत्-प्रधानाः, देवेभ्य इन्द्रः श्रेष्ठ इत्य् अर्थः । ततोऽपि ब्रह्म-सुता दक्षादयः । तेषां मध्ये भवः परः श्रेष्ठः । स भवो विरिञ्च-वीर्यो विरिञ्चो वीर्यं शक्तिः कारणं यस्य स विरिञ्च-वीर्यः, अतस् तज्-जनकत्वाद् विरिञ्चस् ततः पर इत्य् अर्थः । स विरिञ्चो मत्-परः, अहं परो यस्य । द्विज-देवा ब्राह्मणा एव देवाः पूज्या यस्य सोऽहम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तेभ्योऽसुराः देवा असुरेभ्यः । सन्धिर् आर्षः । देवाश् च मघवत्-प्रधानाः, देवेभ्य इन्द्रः श्रेष्ठ इत्य् अर्थः । तत इन्द्राद् अपि ब्रह्म-सुता दक्षादयः । तेषां मध्ये भवः परः श्रेष्ठः । स च विरिञ्च-वीर्यो ब्रह्म-पुत्रः । पुंस्त्वम् आर्षम् । तज्-जनकत्वाद् विरिञ्चस् ततो ब्रह्मा श्रेष्ठ इत्य् अर्थः । तत्र ब्राह्मण-भक्तेः प्रक्रान्तत्वात् ब्राह्मण्येनैवांशेन भवद्- विरिञ्चस्य श्रैष्ठ्यम् । वैष्णवतया ऐश्वर्येण च भस्यैव तस्मात् श्रैष्ठ्यम् इति ज्ञेयम् । स ब्रह्मा मत्-परः, अहं परो यस्येति ब्रह्मतोऽप्य् अहं श्रेष्ठ इत्य् अर्थः । द्विजेषु दीव्यन्तीति द्विज-देवा विप्रा एव देवा यस्य सः । मत्तोऽपि पूज्या ब्राह्मणा इत्य् अर्थः ॥२२॥

—ओ)०(ओ—

॥ ५.५.२३ ॥

न ब्राह्मणैस् तुलये भूतम् अन्यत्
पश्यामि विप्राः किम् अतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाहम्
अश्नामि कामं न तथाग्नि-होत्रे ॥

**श्रीधरः : **ब्राह्मणैर् अन्यद्-भूतं न तुलये समं न पश्यमि । अतो ब्राह्मणात् परं तु भूतं किम् पश्यामि ? न किञ्चित् । विप्रा इति तत्रत्यानां ब्राह्मणानां सम्बोधनम् । समस्यैवाभावाद् अधिकं कुतस्त्यम् इत्य् अर्थः । तत्र हेतून् आह सार्धाभ्याम् । यस्मिन् ब्राह्मणे श्रद्धया प्रकर्षेण हुतम् अन्नादि कामं यथेच्छम् अहम् अश्नामि ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ब्राह्मणैर् अन्यद्-भूतं न तुलये । हे विप्राः ! अतो ब्राह्मणेभ्यः परं किम् पश्यामि ? नैव पश्यामीत्य् अर्थः । तत्र हेतुम् आह—यस्मिन्न् इति सार्धेण ॥२३॥

—ओ)०(ओ—

॥ ५.५.२४ ॥

धृता तनूर् उशती मे पुराणी
येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यम् अनुग्रहश् च
तपस् तितिक्षानुभवश् च यत्र ॥

**श्रीधरः : **मे तनूर् मूर्तिर् वेदाख्या येन ब्राह्मणेनेह लोके धृता । यत्र च ब्राह्मणे सत्त्वादयोऽष्टौ गुणाः सन्ति, ततः परं किं पश्यामीत्य् अन्वयः ॥२४॥

**क्रम-सन्दर्भः : **सा च कुतः ? तत्राह—धृतेति । तद्-द्वारेणैव3 कारणं सत्त्वम् इति । सत्त्वम् अन्तः-करणम् । पवित्रं विशुद्धम् । अनुग्रहो भूत-दया । तपः स्व-धर्मः । अनुभवः श्री-भगवतः ॥२४॥

**विश्वनाथः : **मम तनुर् वेदाख्या येन इह-लोके धृता, यत्र च ब्राह्मणे सत्त्वादयोऽष्टौ गुणाः सन्ति, ततः परं किं पश्यामीत्य् अन्वयः ॥२४॥

—ओ)०(ओ—

॥ ५.५.२५ ॥

मत्तोऽप्य् अनन्तात् परतः परस्मात्
स्वर्गापवर्गाधिपतेर् न किञ्चित् ।
येषां किम् उ स्याद् इतरेण तेषाम्
अकिञ्चनानां मयि भक्ति-भाजाम् ॥

**श्रीधरः : **निःस्पृहत्वम् आह । मत्तोऽपि येषां किञ्चित् प्रार्थनीयम् अस्ति तेषाम् इतरेण राज्यादिना किम् उ स्यान् न किम् अपि ॥२५॥

**चैतन्य-मत-मञ्जुषा : **मत्तोऽप्य् अनन्ताद् इत्य्-आदि । मत्तः परतः परस्माद् अस्मत्तोऽपि परात्, अहं तस्यैकोऽंशे इत्य् अर्थः । अनन्तात् श्री-कृष्णात् परं किञ्चिन् नास्ति, सर्वम् एव स एव, न हि स्वतः-सिद्धं किम् अपि , अतो हि तत्र भक्ति-भाजां येषाम् अकिञ्चनानां तेषां मयि किम् ? तद्-अनुरक्तानां मयि तद्-अंशत्वेनैव समादरः, न तु तस्मिन् यथा रतिस् तथा मय्य् अपीत्य् अर्थः । तत्रेत्य् अध्याहार्यम् । इतरेणांशेन स्वर्गापवर्गादिना वा किं तेषाम् ? तत्र पुर-ग्रामादिषु दुर्जनैस् तस्य भगवत्-प्रधानांश-भूतस्यापि परिभूयमानत्वानुभवो लोक-शिक्षार्थः ॥२५॥

**क्रम-सन्दर्भः : **द्विज-देव-देवत्वे कारण-विशेषम् आह—मत्त इति । मत्तोऽपि सकाशात् ॥२५॥

**विश्वनाथः : **ततो मद्-भक्ताः श्रेष्ठास् ते सर्वत एवाधिक्येनाराधनीया इत्य् आह—मत्तः सकाशाद् येषां न किञ्चित् प्रयोजनं प्रार्थनीयम् अस्ति, अनन्ताद् इत्य् अत एवानन्तैश्वर्य-माधुर्य-गुणोऽहम् एव प्रभुर् येषां प्रयोजनत्वेन वर्ते इति भावः । इतरेण ब्रह्मादिना, अकिञ्चनानाम् अहंत्वास्पद-ममतास्पदयोर् मह्यम् एव दत्तत्वान् न विद्यते किञ्चनापि येषाम् इत्य् अर्थः । मयि भक्तिः प्रेमा ताम् एव भजतां प्रतिक्षणं तां प्राप्नुवताम् इत्य् अर्थः । अत एव तथा बुभूषुभिस् ते नित्यम् आराधनीया इति भावः । तृतीयोऽपि ब्राह्मणेभ्योऽपि सकाशाद् भक्ताः श्रेष्ठा उक्ताः श्री-कपिल-देवेन, यथा—

तस्मान् मय्य् अर्पिताशेष-क्रियथार्थात्मा निरन्तरः ।
मय्य् अर्पितात्मनः पुंसो मयि संन्यस्त-कर्मणः ।
न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥[भा।पु। ३.२९.३३] इति ॥२५॥

—ओ)०(ओ—

॥ ५.५.२६ ॥

सर्वाणि मद्-धिष्ण्यतया भवद्भिश्
चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
विविक्त-दृग्भिस् तद् उ हार्हणं मे ॥

**मध्वः : **विविक्त-दृष्टिर् जीवानां धिष्ण्यतया परमेश्वरस्य भेद-दृष्टिः ।

उपपादयेत् परमात्मानं जीवेभ्य् यः पदे पदे ।
भेदेनैव न चैतस्मात् प्रियो विष्णोस् तु कश्चन ॥ इति पाद्मे ।
यो हरेश् चैव जीवानां भेद-वक्ता हरेः प्रियः इति च ॥२६॥

**श्रीधरः : **तद् एवं ब्राह्मण-संमानं विधायेदानीं सर्व-भूत-संमानं विधत्ते । हे सुताः ! सर्वाणि जङ्गमानि स्थावराणि च भूतानि मद्-अधिष्ठानतया वो युष्माभिः संमाननीयानि । पदे पदे क्षणे क्षणे । विविक्ता पूता मत्सरादि-रहिता दृष्टिर् येषां तैः । तद् एव ममार्हणम् ॥२६॥

**क्रम-सन्दर्भः : **भवद्भिः प्रभाव-युक्तैः । तद् उह तदपीत्य् अर्थः ॥२६॥

**विश्वनाथः : **स्पर्धावज्ञादि-दोष-शान्त्य्-अर्थं सर्व-भूत-सम्माननं विधत्ते । सर्वाणि भूतानि मद्-धिष्ण्यतया मद्-अधिष्ठानतया हे सुताः ध्रुवाणि स्थावराणि च भवद्भिः सद्-भावितव्यानि ध्येयानि । विविक्ता मत्सरादि-दोष-रहिता दृग्-दृष्टिर् येषां तैः, तद् एव हित्वा युष्माभिर् ममार्हणम् इति पृथग्-वाक्यमतो व इत्य् अस्य न पौनरुक्त्यम् ॥२६॥

—ओ)०(ओ—

॥ ५.५.२७ ॥

मनो-वचो-दृक्-करणेहितस्य
साक्षात्-कृतं मे परिबर्हणं हि ।
विना पुमान् येन महा-विमोहात्
कृतान्त-पाशान् न विमोक्तुम् ईशेत् ॥

**श्रीधरः : **सर्व-कर्मणाम् ईश्वरार्पणं विधत्ते । मनो-वचो-दृशाम् अन्येषां च करणानाम् ईहितस्य व्यापारस्य मे परिबर्हणम् आराधनम् एव साक्षात् कृतं फलम् । येन परिबर्हणेन विना काल-पाशाद् विमोक्तुं न ईशेन् न समर्थो भवेत् ॥२७॥

**क्रम-सन्दर्भः : **साक्षात्कृतं पुरतः करणं, समर्पणम् इत्य् अर्थः ॥२७॥

**विश्वनाथः : **समास्न भक्तेर् लक्षणं तां च विना निस्ताराभावं च वदन्न् उपसंहरति—मनो-वचो-दृशाम् अन्येषां च करणानां यथावद् ईहितस्य देह-व्यापारस्य च मे साक्षात्-कृतं साक्षान्-मत्-सम्बन्धित्वेन यत् करणं प्रवृत्तिस् तद् एव मे परिबर्हणम् आराधनम् इत्य् अर्थः । येन परिबर्हणेन विना ॥२७॥

—ओ)०(ओ—

॥ ५.५.२८ ॥

श्री-शुक उवाच—

एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज ॥

**श्रीधरः : **स्वत एव सुशिक्षितान् अपि लोकानुशासनार्थम् अनुशास्य मुनीनं पारमहंस्य-धर्मम् उपशिक्षयिष्यन् भरतम् अभिषिच्य ऋषभ इत्य् अपदेशो नाम यस्य स भगवान् ब्रह्मावर्तात् स्व-देशात् प्रवव्राजेत्य् अन्वयः । उर्वरितोऽवशिष्ठः शरीर-मात्र-परिग्रहो यस्य ॥२८॥

**क्रम-सन्दर्भः : **एवम् इति । भक्ति-शिक्षात्र भरत-द्वारा ज्ञेया ॥२८॥

**विश्वनाथः : **उपशिक्षमाणः उपशिक्षयिष्यन्, उर्वरितोऽवशिष्टः शरीर-मात्र-परिग्रहो यस्य सः ॥२८॥

—ओ)०(ओ—

॥ ५.५.२९ ॥

**जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषोऽभिभाष्यमाणोऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव ॥ **

**श्रीधरः : **अभिभाष्यमाणोऽपि जनानां मध्ये जडादिवद् वर्तमानस् तूष्णीं बभूव । अवधूतस्येव वेषो यस्य ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.५.३० ॥

तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-ताडनावमेहन-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम ॥

**श्रीधरः : **तत्र तत्र पुरादिष्व् अनुपथं मार्गे मार्गेऽवनिचरापसदैर् दुर्जनैस् तर्जनादिभिः परिभूयमानोऽपि तद् अविगणयन्न् एवैक-चर एकाकी पृथिवीं परिबभ्रामेत्य् अन्वयः । तत्र पुरं पत्तनम् । ग्रामा हट्ट-हीनाः । आकरः खनिः । खेटः कृषीवल-ग्रामः। वाटः पुष्पादि-वाटिका । खर्वटः पर्वत-प्रान्त-ग्रामः । शिविरं सेनाया वास-स्थानम् । व्रजो गवां स्थानम् । घोषो गोपानां स्थानम् । सार्थो यात्रिक-जन-सङ्घातः । आश्रमा ऋषीणाम् । तर्जनं भय-जननम् । ताडनं प्रहारः । अवमेहनम् उपरि-मूत्रणम् । ष्ठीवनं फूत्-कृत्य श्लेष्म-प्रक्षेपः । ग्राव्णां शकृतो रजसश् च प्रक्षेपः । पूति-वातोऽधो-वायुः । दुरुक्तं शापः । एतैः अगणने दृष्टान्तः—मक्षिकाभिर् इवेति ।

तत्र हेतुः—असति मिथ्या-भूते सन्निवेशे देह इत्य् उपलक्षणाम् आकारो यस्य । सद् इत्य् अपदेश-मात्रं यस्य, तस्मिन् निरभिमानत्वात् । केन हेतुना ? उभयोः सद्-असतोर् योऽनुभवः, तत्-स्वरूपेण यत् स्व-महिम्न्य् अवस्थानं, तेन । अत एवाखण्डितं मनो यस्य, स परिबभ्राम ॥३०॥

**क्रम-सन्दर्भः : **असत्-संस्थणम् इत्य्-आदिकं लोक-शिक्षणाय व्यञ्जन-मात्रम्—इदं शरीरं मम दुर्विभाव्यं तत्त्वम् [भा।पु। ५.५.१९] इत्य्-आद्य्-उक्तेः ॥३०॥

**विश्वनाथः : **तत्र पुरं पत्तनं, ग्रामा हट्ट-हीनाः, आकरः खनिः, खेटः कृषीबल-प्रामः, खर्वटः गिरि-तट-ग्रामः, वाटः पुष्पादि-वाटिका, शिविरं सेनाया वास-स्थानं, व्रजो गवां, घोषो गोपानां, सार्थो यात्रिक-जन-सङ्घातः, आश्रमा ऋषीणां, अवनि-चरापसदैः मनुष्याधमैः । तर्जनं भय-जननम् । ताडनं प्रहारः । मेहनम् उपरि-मूत्रणम् । ष्ठीवनं थूत्-कृत्य श्लेष्म-प्रक्षेपः । ग्राव-शकृत्-रजसां शिल-विट्-धुलीनां प्रक्षेपः । पूति-वातोऽधो-वायुः । दुरुक्तं शापः, तैः परिभूयमान्स् तत् परिभवनम् अगणयन् ।

असति अनित्य-संस्थाने संनिवेशे देह इत्य् उपलक्षणाम् आकारो यस्य । सद् इत्य् अपदेश-मात्रं यस्य तस्मिन् निरभिमानत्वात् इति स्वामि-चरणैः । असत्-संस्थणम् इत्य्-आदिकं लोक-शिक्षणाय व्यञ्जन-मात्रम्—इदं शरीरं मम दुर्विभाव्यं तत्त्वम् [भा।पु। ५.५.१९]इत्य्-आद्य्-उक्तेः इति सन्दर्भः ।

किं च, श्री-ऋषभदेव-देहस्य वक्तृ-परोक्षत्वाद् एतच्-छब्द-वाच्यत्वं न घटते, तस्माद् एवं व्याख्येयम्—एतस्मिन् जगति नश्वरत्वाद् असत्-संस्थाने समष्टित्वेन देहम् उपलक्षयतीति जगद् अपि प्राकृतः स्व-देहस् तस्मिन् निरभिमानत्वाद् इति तर्जनादि-कृज् जन-समुदायवतो जगतः स्व-देहत्वेनाभिमाने हन्त हन्त एतादृश-महद्-अपराध-दोष-दृष्टो जगद्-आत्मको मद्-देह इति खेदेन मनः-खण्डितं स्यात् । अतः स्व-महिम्नि चिन्मयानन्दे यद् अवस्थानं तेन हेतुना तत्र देहे निरभिमानत्वात् । कीदृशेन ? उभयोश् चिच्-छक्ति-माया-शक्त्योः स्वीय-स्वरूपत्वास्वरूपत्वाभ्याम् योऽनुभवस्, तेन यत् स्व-महिमावस्थानं, तेन ॥३०॥

—ओ)०(ओ—

॥ ५.५.३१ ॥

अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो विगूढ-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारोऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत ॥

**श्रीधरः : **स च तदा ग्रह-गृहीत इवादृश्यत । तत्र हेतुः—पराक् पुरतोऽवलम्बमानाश् च ते कुटिलाश् च ते जटिलाश् च कपिशाश् च केशाः, तेषां भूरि-भारो यस्य सः । अवधूतम् अनादृतम्, अत एव मलिनं निज-शरीरं, तेन । कथं-भूतोऽप्य् एवम् अदृश्यत ? अतिसुकुमाराणि कर-चरणोरः-स्थलानि तथा विपुला बाह्व्-आदयस् त एवावयवाः, तेषां विशिष्टो न्यासः सन्निवेशो यस्य सः । तथा प्रकृत्यैव सुन्दरः स्वभाव-सिद्धो हासः, तेन शोभनं मुखं यस्य। तथा नव-नलिन-दलवद् आचरती ये शिशिर-तारे ताप-हारि-कनीनिके अरुणे आयते नयने, ताभ्यां रुचिरः । तथा सदृशा अन्यूनाधिकाः सुभगाश् च कपोल-कर्ण-कण्ठ-नासिका यस्य । तथा विगूढ-स्मितं यद् वदनं, तस्य महोत्सवेन विभ्रमेण पुराङ्गनानां मनसि कामम् उद्दीपयन् । एवं-भूतोऽपि तथादृश्यतेत्य् अन्वयः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सदृशा अन्यूनातिरिक्ताः । अत एव सुभगा मनोहरा कपोलादयो यस्य सः ॥३१॥

—ओ)०(ओ—

॥ ५.५.३२ ॥

यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ।

**श्रीधरः : **यर्हि यदा लोकम् जनं योगस्य प्रतिप-कामाचक्षाणः पश्यन् बभूव । तस्य प्रतिक्रियाकरणं कर्म च निन्दितम् इत्य् आचक्षाणस् तद् आजगरं व्रतम् आस्थितः सन् शयान एवाश्नाति स्मेत्य् अन्वयः । आजगरं व्रतं नामैकत्रैव स्थित्वाप्रारब्ध-कर्मोपभोगः । अवमेहति मूत्रयति । हदति पुरीषम् उत्सृजति । उच्चरिते पुरीषे चेष्टमानो विलुठन् तेनैवादिग्धा आलिप्ता उद्देशा देह-प्रदेशा यस्य सः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रतीपं क्षुत्-पिपासा-लोकोपद्रवाद्यैर् विक्षेप-कारणैः प्रतिकूलं, इवेत्य् आरूढ-योगानां प्रायः प्रातिकुल्याभावात् । आजगरं व्रतं नामैकत्रैव स्थित्वा प्रारब्ध-कर्मोपभोगः । एकत्रावस्थाने सति परिचितत्वादेर् लोकोपद्रवाद्य्-अधिकं न स्याद् इति भावः । अवमेहति मूत्रयति हदति पुरीषम् उत्सृजति । उत्सर्गिते पुरीषे चेष्टमाने विलुठन् तेनैव दिग्धा आलिप्ता उद्देशा देह-प्रदेशा यस्य सः ॥३२॥

—ओ)०(ओ—

॥ ५.५.३३ ॥

तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार ।

**श्रीधरः : **बीभत्सम् इवाशङ्क्याह—तस्येति । पुरीषस्य सुरभिणा गन्धेन सौगन्ध्येन सौगन्ध्यं यस्य स वायुः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्य चिन्-मय-शरीरस्यैतद्-बीभत्सितम् इत्य् आशङ्क्याह—तस्येति । पुरीषस्य सुरभिना गन्धेन सौगन्ध्यं यस्य स वायुः ॥३३॥

—ओ)०(ओ—

॥ ५.५.३४ ॥

एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म ॥

**श्रीधरः : **एवं गवादि-चर्यया पानादि-करोति स्म । तद् एवाह—व्रजन्न् इत्य्-आदिना । काक-मृग-गवाम् इवान्यद् अपि चरितं वृत्तिर् यस्य ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काक-मृगाणां पशु-तुल्य-लोकानां गोचरितः तादृश-स्वभावत्वेन दृष्टि-विषयीभूत इत्य् अर्थः ॥३४॥

—ओ)०(ओ—

॥ ५.५.३५ ॥

इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभोऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-पर-काय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥

**श्रीधरः : **नाना-योग-चर्या आचरतीति तथा । लोक-यात्रा-परिहाराय योगिभिर् एवं वर्तितव्यम् इति प्रदर्शनाय तथा कृतवान् । वस्तुतस् तु भगवान् यतोऽविरतः परम-महान् उत्तरोत्तर-शत-गुणत्वेनोक्तो य आनन्दः, तद्-अनुभव-स्वरूपः । किं च, वासुदेवे आत्मनोऽव्यवधानेनाभेदेन न विद्यतेऽन्येषाम् इवान्तरा मध्ये उदरस्य देहोपाधेर् भावः, तेन, नित्य-निवृत्तोपाधित्वेनेत्य् अर्थः । स्वत एव सिद्धैः समस्तैर् अर्थैः फलैः परिपूर्णत्वाद् योगैश्वर्याणि नाभ्यनन्दत् । वैहायसं खेचरत्वम् । मनो-जवं मनस इव देहस्य वेगम् । दूर-ग्रहणं दूर-दर्शनम् । हे नृप ! हृदयेन मनसा ॥३५॥

**क्रम-सन्दर्भः : **आत्मनि निजांशिनि ॥३५॥

**विश्वनाथः : **कैवल्य-पतिर् इत्य् अन्येभ्योऽपि कृपया यः कैवल्यं ददाति, तस्येयं योगि-जन-शिक्षणार्था लीला ध्येयैव, न तु अनुचिकीर्षणीया इति भावः । भगवान् अपि भगवति वासुदेवे वसुदेव-नन्दने तस्यैव सर्वावताराणाम् अप्य् आराधनीयत्वात् । यद् उक्तं भीष्मेण—

अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।
देवर्षिर् नारदः साक्षाद् भगवान् कपिलो नृप ॥ [भा।पु। १.९.१९] इति ।

ईश्वर-बाहुल्यं वारयति—आत्मनि अस्यांशित्वात् स्वस्मिन्न् एवेत्य् अर्थः । आत्मनः स्वस्याव्यवधानः साक्षाद्-भूतम् । अनन्तः अपारः रोदं रोदनम् अश्रु राति आददातीति रोदरो भावः प्रेमा, तेनैव सिद्धैः समस्तैर् अर्थैः परिपूर्णः । वैहायसं खेचरत्वम् । मनो-जवं मनस इव देहस्य वेगम् । दूर-ग्रहणं दूर-दर्शनम् । हे नृप ! हृदयेन मनसा ॥३५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ऋषभ-देवानुचरिते
पञ्चमोऽध्यायः ।

॥ ५.५ ॥

(५.६)


  1. केषुचित् संस्कारेषु केवलोऽयम् एव पाठः- ब्रह्म-सौख्यस्य निर्विशेष-सविशेषता-भेदेन द्वैविध्य-प्रतिपादकं महतां द्वैविध्यम् आह—सम-चित्ताः अभेद-दर्शिनः। तेषां साधनान्य् आह—प्रशान्ता इत्य्-आदिना । उत्तरेषाम् अपि साधनान्य् आह—जनेष्व् इत्य्-आदिना । यावान् अर्थो मत्-सौहृद-मय-भक्तिः, तावान् तद्-अनुरूप एव न त्व् अधिक-न्यूनः, अर्थो धनं येषां ते ।_। _इति। ↩︎

  2. तत्र यादृशः सत्-परिचर्या-रूपः सत्-प्रसङ्गस् तादृशम् एव पर-तत्त्व-साम्मुख्यं, तत्-सर्व-श्रेष्ठ-फलत्वेन पर-तत्त्व-साक्षात्कारात्मक-विमुक्ति-लक्षण-तद्-वशीकारत्वे च पर्यवसीयते । अस्याः [महत्-परिचर्यायाः] श्रवणादि-सश्रद्ध-साधन-भक्ति-याज्नतः पूर्वत्वम् आह—महद् इत्य् अर्धेन ॥ इति पुरी-दास-संस्कारे पाद-टीका। ↩︎

  3. तद्-धारणे च इति पुरी-दास-निर्वाचित-पाठः। ↩︎