॥ ५.४.१ ॥
श्री-शुक उवाच—
अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः।
**श्रीधरः : **
चतुर्थादित्रिभिः प्रोक्तम् ऋषभस्येहितं महत् ।
लोकार्थं येन सत्-कर्म नैष्कर्म्यं च निदर्शितम् ॥
चतुर्थे शत-पुत्रस्य राज्यं तस्योपवर्णये ।
यस्य राज्ये जनः सर्वः सन्तोषामृत-निर्वृतः ॥
अभिव्यज्यमानानि भगवल्-लक्षणानि पाद-तलादिषु वज्राङ्कुशादीनि यस्य । महा-विभूतिः सर्व-संपत्तिः । साम्यादिभिः सह वर्धमान-प्रभावम् । प्रकृतयोऽमात्यादयः । जगृधुर् अभिकाङ्क्षन्ति स्म ॥१॥
चैतन्य-मत-मञ्जुषा : अस्याध्ययस्य न कोऽपि श्लोको व्याख्यातः।
**क्रम-सन्दर्भः : **साम्यादिभिः पूर्वस्यैवान्वयः ॥१॥
**विश्वनाथः : **
चतुर्थे पुत्र-शतकं भरत-प्रवरं प्रभुः ।
जनयित्वा व्यधाद् राज्यं प्रजानां सार्वकामिकम् ॥
जगृधुर् अभिचकाङ्क्षुः ॥१॥
—ओ)०(ओ—
॥ ५.४.२ ॥
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार।
**श्रीधरः : **वर्ष्मणा देहेन । तस्य विशेषण-द्वयम् । वरीयसा श्रेष्ठतमेन । बृहन्तः श्लोकाः पद्यानि कवीनां यस्मिंस् तेन च । ओजस् तेजः । वीर्यं प्रभावः । शौर्यम् उत्साहः । एतैर् गुणैर् अति-श्रेष्ठत्वाद् ऋषभः श्रेष्ठ इति नाम चकार ॥२॥
**क्रम-सन्दर्भः : **वर्ष्मादिभिः ऋषभः श्रेष्ठ इति हेतोर् इदम् ऋषभ इत्य् एतन् नाम चकार॥२॥
**विश्वनाथः : **वर्ष्मणा देहेनेत्य् अस्य विशेषण-द्वयम् । वरीयसा श्रेष्ठेन । बृहन्तः श्लोकाः कवीनां यस्मिंस् तेन । वीर्यं प्रभावः । शौर्यम् उत्साहः । ऋषभ इति श्रेष्ठत्वाद् इत्य् अर्थः ॥२॥
—ओ)०(ओ—
॥ ५.४.३ ॥
यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत्।
**मध्वः : **दुष्टानां मोहनार्थाय यज्ञ इन्द्र-पदे स्थितः ।
पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम् ॥ इति वाराहे ॥३॥
**श्रीधरः : **तस्य वर्षे मण्डले ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अजः श्री-ऋषभदेवः नाभिस् तत्-पिता ताभ्यां रक्षितत्वाद् अजनाभ-संज्ञम् इत्य् अर्थः। वृद्ध्य्-अभाव आर्षः ॥३॥
—ओ)०(ओ—
॥ ५.४.४ ॥
नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः।
**श्रीधरः : **अवरुद्ध्य प्राप्य । स्वैरम् इच्छया गृहीतो नर-लोक-समान-धर्मो मनुष्याकारो येन तम् । अत एव मायया स्व-पुत्र इति विलसिता मतिर् यस्य ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अवरुद्ध्य प्राप्य । मायया पुत्र-ज्ञानेन विलसिता मतिर् यस्य सः । स्यान् माया शाम्बरी-बुद्ध्योर् त्रिकाण्ड-शेषः ॥४॥
—ओ)०(ओ—
॥ ५.४.५ ॥
विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप।
**श्रीधरः : **आ-पौर-प्रकृति पौरान् प्रकृतीश् चाभिव्याप्य । विदितोऽनुरागो यस्मिन् । कथं-भूतो नाभिः ? जन-पदः जनाः पौरादयः पदं प्रमाणं यस्य सः । आत्म-जं धर्म-मर्यादा-रक्षणार्थम् अभिषिच्य । ब्राह्मणानाम् उत्सङ्गे निधाय । विशालायां बदरिकाश्रमे । प्रसन्नं परानुद्वेजकं निपुणं च तीव्रं तेन । उपासीनः कालेन तन् महिमानं जीवन् मुक्तिम् अवाप ॥५॥
**क्रम-सन्दर्भः : **समय-सेतु-रक्षायां, न तु राजत्वे इति ज्ञेयम् । तदा हि1 तद्-उचित-गार्हस्थ्याश्रम-परिग्रहाभावात् राज्याभिषेकस् तु पश्चात् ब्राह्मणैर् एव कर्तव्य इति ज्ञेयम्॥५॥
**विश्वनाथः : **आ-पौर-प्रकृति पौरान् प्रकृतीश् चाभिव्याप्य । विदितोऽनुरागो यस्मिंस् तम् । कथं-भूतो नाभिः ? जन-पदः जनाः पौरादय एव पदम् आत्मजाभिषेके प्रमाणं यस्य सः । समयानां सद्-आचाराणां या या मर्यादास् तद्-रक्षणाय । विशालायां बदरिकाश्रमे । प्रसन्नेन सर्वत्र प्रसादवता सर्व-सुखदेनेत्य् अर्थः । निपुणेन फल-साधन-सामर्थ्येन । तस्यैव महिमा यत्र तं वैकुण्ठम् ॥५॥
—ओ)०(ओ—
॥ ५.४.६ ॥
यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति—
को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् ।
अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा ॥
**श्रीधरः : **नाभेस् तत् प्रसिद्धं कर्म । अनु तद्-अनन्तरं को नु पुमान् आचरेत् ? न कोऽपीत्य् अर्थः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शुद्धेन कर्मणा भक्ति-योगेन ॥६॥
—ओ)०(ओ—
॥ ५.४.७ ॥
ब्रह्मण्योऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा ॥
**श्रीधरः : **मङ्गलैर् दक्षिणाभिः पूजिताः सन्तः । ओजसा मन्त्र-बलेन ।
**क्रम-सन्दर्भः : **मङ्गलम् अत्र सुस्वभावः ॥७॥
**विश्वनाथः : **मङ्गलं यथा स्यात् तथा दक्षिणादिभिः प्रसादिताः । भक्तत्वान् मङ्गलेनैव कर्त्रा पूजिता इति वा, ओजसा भक्ति-बलेन ॥७॥
—ओ)०(ओ—
॥ ५.४.८ ॥
अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृह-मेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस।
**श्रीधरः : **अन्येषां ग्रहणाय प्रदर्शितो गुरुकुल-वासो येन । अनुशिक्षमाणोऽनुशिक्षयन् । उभय-विधं श्रुति-स्मृति-लक्षणं कर्म-वधिम् अभियुञ्जन्न् अनुतिष्ठन् जयन्त्यां भार्यायाम् आत्म-जानां शतं जनयाम् आस ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनुमन्यमानो जानन् । प्रदर्शितेत्य् अन्येषां ग्रहणायेत्य् अर्थः । लब्ध-वरैर् लब्ध-दक्षिणैः । अनुशिक्षमाणः शिक्षयन् उभय-विधं श्रुति-स्मृति-लक्षणम् उभय-लक्षणम् इति पाठः । सम्यग् आम्नायेन ब्राह्मणोपदेशेनाम्नातम् अभ्यस्तम् अभियुञ्जन् अनुतिष्ठन्, आम्नायो निगमेऽपि च उपदेशेऽपि इति मेदिनी ॥८॥
—ओ)०(ओ—
॥ ५.४.९-१० ॥
**येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति। तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्र-स्पृग् विदर्भः कीकट इति नव नवति प्रधानाः। **
**श्रीधरः : **तं भरतम् अनु कुशावर्तादयो नव पुत्रा नवतेः प्रधाना ज्येष्ठः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तं भरतम् अनु भरतस्य कनिष्ठा इत्य् अर्थः । नवति प्रधानाः नवतेर् ज्येष्ठा इत्य् अर्थः । पुंस्त्वम् आर्षम् ॥१०॥
—ओ)०(ओ—
॥ ५.४.११ ॥
कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश् चमसः करभाजनः ॥
इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः।
**श्रीधरः : **तद्-अनन्तरं कवि-प्रमुखा नव भागवत-धर्म-प्रदर्शकाः । वसुदेव-नारदयोः संवादो यस्मिन् । उपरिष्टाद् एकादश-स्कन्धे ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उपरिष्टाद् एकादश-स्कन्धे ॥११॥
—ओ)०(ओ—
॥ ५.४.१२ ॥
यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः।
**श्रीधरः, विश्वनाथः : **महा-शालीना अतिविनीताः ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.४.१३ ॥
भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत्।
**श्रीधरः : **केवलः शुद्धः विपरीतवत् अनीश्वरवत् कर्माणि कुर्वन् । नियमयत् नियमितवण्। पाठान्तरे नितराम् अरमयत् । कर्म-करणे हेतुः—अनुगतम् उत्सन्नं धर्मं स्वयम् आचरणेनातद्-विदाम् उपशिक्षयन् । कथम् ? धर्मादीनाम् अवरोधेन सङ्ग्रहेण । आनन्दो भोगः । अमृतं मोक्षः ॥१३॥
**क्रम-सन्दर्भः : **कालेन संहारकेण अनुगतम् उत्सन्नम् इत्य् अर्थः ॥१३॥
**विश्वनाथः : **विपरीतवत् अनीश्वरो जीव इव, अतद्विदां द्वितीयथार्थए षष्ठी धर्म-विदुषे इत्य् अर्थः । धर्मादीनाम् अवरोधेन प्राप्त्या हेतुना न्ययमयत् नियमितान् न्यरमयद् इति च पाठः ॥१३॥
—ओ)०(ओ—
॥ ५.४.१४ ॥
यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः।
**श्रीधरः : **शीर्षण्यः श्रेष्ठः, तेनाचरितम् । तत् तद् अनुवर्तते यतः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शीर्षण्यः श्रेष्ठः ॥१४॥
—ओ)०(ओ—
॥ ५.४.१५ ॥
यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास।
**श्रीधरः : **सकलो धर्मो यस्मिंस् तद् ब्राह्मं गुह्यं वेद-रहस्यं यद्य् अपि स्वेनैव विदितं तथापि ब्राह्मणान् पृष्ट्वैव करोतीत्य् अर्थः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सकला धर्मा यस्मिंस् तद् ब्राह्मं गुह्यं वेदोक्तं रहस्यं यद्यपि स्वेनैव विदितं, तद् अपि ब्राह्मणैर् दर्शितेनैव ॥१५॥
—ओ)०(ओ—
॥ ५.४.१६ ॥
द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज।
**श्रीधरः : **द्रव्यादिभिर् उपचितैर् यज्ञैर् इष्टवान् । तत्र वयो यौवनम् । युवैव धर्मम् अन्विच्छेत् इति वचनात् । विविधोद्देशा नाना-देवतोद्देशाः । यथोपदेशं यथाविधि ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्रव्यादिभिर् उपचितैः । वयो यौवनम् । युवैव धर्मम् अन्विच्छेत् इति वचनात् । विविधोद्देशा नाना-देवतोद्देशाः ॥१६॥
—ओ)०(ओ—
॥ ५.४.१७ ॥
भगवत र्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्य् अविद्यमानम् इवात्मनोऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण।
**श्रीधरः : **अन्यस्मात् सकाशाद् आत्मनः कश्चिद् अपि किम् अपि कथञ्चनापि न वाञ्छति । इच्छानुदये दृष्टान्तः, अविद्यमानं ख-पुष्पादिकम् इव । न चान्य-दीयम् अवेक्षतेऽपीत्य् अर्थाः । भर्तरि ऋषभदेवे प्रतिक्षणम् उल्लसित-स्नेहोद्रेकं विनान्यन् न वाञ्छति ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कश्चन कश्चिद् अपि पुरुषोऽविद्यमानं ख-पुष्पम् इव कम् अपि आत्मनः स्वस्य अन्यस्मात् सकाशात् न वाञ्छति । भर्तरि ऋषभ-देवे स्नेहातिशयं केवलम् एवेक्षते । अन्तरेणात्मना । अन्तरम् अवकाशावधि परिधानान्तर्धि भेद-तादर्थ्ये छिद्रात्मीय विना बहिर् अवसर मध्येऽन्तर् आत्मनि च ॥ इत्य् अमरः ॥१७॥
—ओ)०(ओ—
॥ ५.४.१८ ॥
स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच।
**श्रीधरः : **अवहितात्मनः संयत-चित्तानपि प्रजानुशासनार्थम् उपशिक्षयन्न् इति ह वक्ष्यमाणम् उवाच ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमे चतुर्थोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ऋषभदेवानुचरिते
चतुर्थोऽध्यायः ।
॥ ५.४ ॥
(५.५)
-
तथापि इति ग-घ-पुस्तकयोः। ↩︎