०३ ऋषभदेवाविर्भावः

॥ ५.३.१ ॥

श्री-शुक उवाच—

**नाभिर् अपत्य-कामोऽप्रजया मेरु-देव्या भगवन्तं **

यज्ञ-पुरुषम् अवहितात्मायजत ।

**श्रीधरः : **

तृतीये चरितं नाभेः परं मङ्गलम् ईर्यते ।

यस्य यज्ञे प्रतीतः सन् पुत्रोऽभूद् ऋषभो हरिः ॥

नाभिर् आग्नीध्र-सुतः । अपुत्रया मेरुदेव्या भार्यया सह ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

तृतीये नाभिनेष्टोऽभूद् यज्ञे तुष्टोऽस्य नन्दनः ।

त्वत्-समो मे सुतोऽस्त्व् एतद् वरं श्रुत्वा हरिः स्वयम् ॥

नाभिर् आग्नीध्रस्य प्रथम-पुत्रः ॥१॥

—ओ)०(ओ—

॥ ५.३.२ ॥

तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्रर्त्विग्-दक्षिणा-विधान-योगोपपत्त्या दुरधिगमोऽपि भगवान् भागवत-वात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निज-जनाभिप्रेतार्थ-विधित्सया गृहीत-हृदयो हृदयङ्गमं मनो-नयनानन्दनावयवाभिरामम् आविश्चकार ।

**श्रीधरः : **प्रवर्ग्य-संज्ञकेषु कर्मसु क्रियमाणेषु द्रव्यादयः सप्त ये योगा उपायास् तेषाम् उपपत्त्या संपत्त्या दुरधिगमो दुष्प्रापोऽपि भागवतेषु कृपालुतया सुप्रतीकः शोभनावयवः सन्न् आत्मानम् आविश्चकार । अपराजितं स्व-तन्त्रम् । निज-भक्तानां येऽभिप्रेतार्थास् तेषां विधित्सया गृहीतम् आकृष्टं हृदयं चित्तं यस्य । हृदयङ्-गमं सुख-करम् । यतो मनो-नयनान्य् आनन्दयन्ति येऽवयवास् तैर् अभिरामं सुन्दरम् ॥२॥

**क्रम-सन्दर्भः : **वक्ष्यमाण-मनो-नयनानन्दनावयवाभिरामत्वेऽपि भागवत-वत्सलतया सुप्रतीकः सुप्रतीकः परम-सुन्दरः ॥२॥

**विश्वनाथः : **प्रवर्ग्य-संज्ञकेषु कर्मसु प्रचरत्सु सम्पद्यमाणेषु द्रव्यादिभिः सप्तभिः शुद्धैः सह योगो भक्ति-योगस् तस्य उपपत्त्या निष्पत्त्या सुप्रतीकः सुन्दराङ्गः आत्मनं स्व-देहम् आविश्चकार । अपराजितम् अन्यैर् वशीकर्तुम् अशक्यम् अपि गृहीत-हृदय आकृष्ट-चित्त मनो-नयनानन्दनैर् अवयवैः श्री-मुखाब्जादिभिर् अभिरामम् अतिरमणीयम् ॥२॥

—ओ)०(ओ—

॥ ५.३.३ ॥

अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं कपिश-कौशेयाम्बर-धरम् उरसि विलसच्-छ्रीवत्स-ललामं दरवर-वनरुह-वन-मालाच्छूर्य्-अमृत-मणि-गदादिभिर् उपलक्षितं स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटि-सूत्र-हार-केयूर-नूपुराद्य्-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृह-पतयोऽधना इवोत्तम-धनम् उपलभ्य सबहु-मानम् अर्हणेनावनत-शीर्षाण उपतस्थुः ।

**श्रीधरः : **अथ हेत्य्-आदि-निपात-बाहुल्यं वाक्यालङ्काराय । आविष्कृतं भुजानां युगल-द्वयं चतुष्टयं येन । हिरण्मयं तेजोमयम् । पुरुषेषु विशिष्यत इति तथा पुरुषोत्तमम् इत्य् अर्थः । अर्हणेनार्ध्येण सहोपतस्थुरभजन्न् इत्य् अन्वयः । विलसन् श्रीवत्स एव ललामं चिह्नं यस्य । दर-वरः शङ्ख-श्रेष्ठः, वन-रुहं पद्मम्, अच्छूरि चक्रम्, अमृत-मणिः कौस्तुभः, एवम् आदिभिर् उपलक्षितम् । स्फुट-किरणा ये प्रवरा मणयस् तन् मयानि यानि मुकुटादीन्य् अङ्गानां भूषणानि तैर् विभूषितम् । बहु-माने दृष्टान्तः, अधना इवोत्तम-धनं निधिम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हिरण्मयं प्रकाश-बहुलं, पुरुषेषु विशिष्यत इति पुरुषोत्तमम् इत्य् अर्थः । कपिशेति तेन श्यम-वर्णम् इति बुद्ध्यते । पीतांशुकं वक्षसि लक्षितं श्रिया इत्य् अत्र पीतांशुक-पदेनात्र ध्वन्यते श्याम-वर्णतेति भागवतामृतोक्तेः । दर-वरः शङ्ख्यः वनरुहं पद्मम् अच्छुरि चक्रम् अमृत-मणिः कौस्तुभः ॥३॥

—ओ)०(ओ—

॥ ५.३.४ ॥

ऋत्विज ऊचुः—

अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्-उपशिक्षितं कोऽर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिर् अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोर् अर्वाक्तनाभिर् नाम-रूपाकृतिभी रूप-निरूपणम्; सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गणैक-देश-कथनाद् ऋते ।1

**श्रीधरः : **अर्हसीत्य्-आदिना निगदेन स्तुवन्ति । हे अर्हत्तम, परिपूर्णोऽपि त्वमनुपथानां भृत्यानाम् अस्माकम् अर्हणं मुहुः स्वयम् एव स्वीकर्तुम् अर्हसि । न तु वयं स्तोतुं शक्ता इत्य् आहुः । नमो नम इत्य् एतावद् एवास्माकं सद्भिर् उपशिक्षितम् । त्वद्-रूपस्य दुर्ज्ञेयत्वात् । तद् एवाहुः, कोऽर्हतीति । प्रकृति-गुणानां व्यतिकरः प्रपञ्चस् तस्मिन्न् एव मतिर् यस्यात एवानीशः । प्रकृति-पुरुषयोः परस्यात एवेश्वरस्यार्वाक्तनाभिस् त्वाम् अस्पृशन्तीभिः प्रपञ्चान्तर्-गताभिर् नाम च रूपं चाकृतिश् चाकारस् ताभिस् तव रूप-निरूपणं कर्तुं को नाम पुमान् अर्हति ॥४॥

वाङ् मनसाऽगोचरोऽपि त्वं भक्तानां सुखाराध्य एवेत्य् आहुः । हे परम, परिजनैर् अनुरागेण विरचिता ये शबल-संशब्दा गद्गदाक्षर-स्तुतयः सलिलं च सित-किसलयाश् च शुद्ध-पल्लवाः । शिलेति पाठे शिलं कुशादि-मञ्जरी । एवम् आदिभिः सम्भृतया संपादितया पूजया परितुष्यसि ॥४॥

**क्रम-सन्दर्भः : **अर्हसीत्य्-आदि-गद्यानाम् इति निगदेनाभिष्टूयमान इति त्रयोदश-गद्येनान्वयः । टीकायां निगदेन गद्यात्मक-स्तोत्रेण स्तुवन्ति न तु वयं स्तोतुं शक्ता इति येन च स्तवेन तद् अङ्गीकुर्यास् तम् अपि कर्तुम् इत्य् अर्थः । पन्थानं भक्ति-मार्गम् अनुगतास् तत्-सामीप्यम् आगताः, न तु तम् एव साक्षात् प्राप्ताः, सकामत्वात् । तथभूता ये तेऽनुपथास् तेषाम् अपि पूजां मुहुर् अर्हसि स्वीकर्तुं योग्योऽसि, तव कृपालुत्वाद् एव न तु वयं योग्य इति भावः । तवोत्कर्षे विचार्यमाणे तु सर्व एवायोग्या इत्य् आहुः—नमो नम इति।

तर्हि मद्-उत्कर्षोऽपि वर्ण्यतां तत्राहुः—कोऽर्हतीति । अर्वाक्तनाभिः प्रपञ्चान्तर्गत-सादृश्येन स्फुरन्तीभिर् इत्य् अर्थः । नाम च रूपं च आकृतिश् च जातिः ताभिस् तव रूप-निरूपणं याथार्थ्येन प्रतिपादनं कर्तुं को नाम पुमान् अर्हति ? तत्र हेतुः प्रकृति-गुणेति । प्रकृति-गुणानां व्यतिकर आसङ्गः तदीय-मानादीनां तद्-अतीतत्वे हेतुः । ईश्वरस्य परस्येति ।

ननु तादृशत्वम् अनुसन्धायैव निरूप्यताम्, तत्राहुः—अनीश इति । रूप-निरूपणं याथार्थ्येन प्रतिपादनं तर्हि तादृशेन जनेन तन्निरूपणं कीदृशम् ? किं माहात्म्यं वा ? तत्राहुः—एक-देशत्वं यत्-किंचित्त्वं तद्-आभास इति यावत् । तादृशत्वेऽपि सकलेत्य् आदि-माहात्म्योऽसाव् इत्य् अर्थः । तस्माद् ऋत इति । तद् एव निरूपयितुम् अर्हतीत्य् अर्थः । अथवा अर्वाक्तम् आभिः स्वल्प-प्रमाणाभिः । अनन्तानां स्फुरणासम्भवात् रूपनिरूपणं सम्यक् स्वरूपप्रतिपादनं किं तर्हि तत्राहुः—सकलेति । यद् वा, अर्वाक्तनाभिर् इति कर्मोपासनादौ तत्-तद्-देवता-सम्बन्धिनीभिर् इत्य् अर्थः । तर्हि केन निरूपणं स्यात् ? तत्राहुः—सकलेति ॥४॥

**विश्वनाथः : **अर्हसीत्य्-आदि गद्यानाम् इति निगदेनाभिष्टूयमान इत्य् अनेनान्वयः । त्वं परिपूर्णोऽप्य् अस्माकम् अप्य् अर्हणम् अङ्गीकर्तुम् अर्हसि । तत्र हेतुः—अनुपथानां पन्था भक्ति-योगः, तम् अनुवर्तमानानां न तु साक्षात् तं प्राप्तानां सकामत्वात्, तद् अपि तव भक्ति-सम्बन्ध-गन्धवत्य् अपि वात्सल्याद् एवेति भावः । अस्माकम् अनुपथत्वेऽप्य् एतावद् एव लक्षणम् अस्ति नाधिकम् इत्य् आहुः—नमो नम इति ।

सद्भ्यः सकाशात् शिक्षितं, न तु पूजा-परिचर्या-स्तुत्य्-आदिकं जानीम इति भावः । ननु विद्वांसो मद्-भक्ताश् च यूयं सर्वं जानीथैव, तत् किं स्तोतुं सङ्कुचथेति ? तत्राहुः—कोऽर्हतीति । लोके हि मुखाद् अङ्गानां चन्द्राद्य्-उपमाभिः स्तुतिर् भवति । तव तु अर्वाक्तनाभिः प्रपञ्च्पूर्वान्तर्-गताभिः नाम इन्द्रनील-मण्य्-आदि-रूपं तच्-छ्यामताकृतिस् तत्-प्रतिमा ताभिः रूपस्य निरूपणम् अपि कर्तुं कोऽर्हति स्तुतेर् वार्ता तु दूरे वर्तताम् इत्य् अर्थः । तव कीदृशस्य ?प्रकृति-पुरुषयोर् अपि परस्य । न हि प्रकृति-पुरुषातीतं रूपं प्राकृतेन्द्रनीलमण्य्-आदिभिः सदृशीकर्तुम् उचितम् इति भावः ।

नन्व् अप्राकृत-पदार्थैर् एव मद्-रूपम् उपनीयतां, तत्राहुः—गुणानां यो व्यतिकरः प्रपञ्च्पूर्वस् तस्मिन् एव मतिर् यस्य सः । प्राकृत-जीव-लोकस्याप्राकृत-पदार्थेषु बुद्धि-प्रवेशासम्भवाद् इति भावः । अत एव भक्त-वात्सल्य-गुणानां केनाप्य् अंशेन कीर्तन-मात्रं कर्तुम् अर्हतीत्य् आहुः—सकलेति । भक्त-वात्सल्यम् एवाहुः ॥४॥

—ओ)०(ओ—

॥ ५.३.५ ॥

परिजनानुराग-विरचित-शबल-संशब्द-सलिल-सित-किसलय-तुलसिका-दूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि ।

**श्रीधरः : **स ह्य् एतन्-मात्रम् एवार्हति नाधिकम् इत्य् आहुः । सकल-जन-निकायस्य वृजिनं निरस्यन्तीति तथा शिवतमाः प्रवराश् च ये गुण-गणास् तेषाम् एक-देशस् तस्य कथनाद् विनाधिकं नार्हति ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **परिजनैर् भक्त-जनैर् अनुरागेण विरचिता शवल-सं-शब्दा गद्गदाक्षर-स्तुतयश् च सलिलादयश् च तैर् अपि सम्पादितया, शिलेति पाठे शिलं मञ्जरी, हे परम ॥५॥

—ओ)०(ओ—

॥ ५.३.६ ॥

अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम् इहोपलभामहे ।

**श्रीधरः : **अथेति प्रकारान्तरे । अन्यथा त्वनयेज्यया यागेनाप्य् उरु-भऋअ-भरयानेकाङ्ग-समृद्धयापि भवतः समुचितम् अपेक्षितं प्रयोजनं नैव पश्यामः ॥६॥

**क्रम-सन्दर्भः : **अशेष-पुरुषार्थ-स्वरूप एवासाव् इति स्फुटम् एवाहुर् गदेय्न—अथेति । अव्यतिरेकेण विच्छेद-राहित्येन बोभूयमानातिशयेनाव्रिभवन्त इत्य् अर्थः । श्रुतिश् च—सर्व-कामः सर्व-गन्धः सर्व-रसः [छा।उ। ३.१४.२] इत्य् आद्या ॥६॥

**विश्वनाथः : **अस्माकं तु भक्तिर् नास्तीत्य् अतः कथन्ते, परितोषो भविष्यतीत्य् आहुः—इज्यया यागेन उरु-भार-भरया अनेकाङ्ग-समृद्धयापि भवतः समुचितम् अपेक्षितं प्रयोजनं नोपलभामहे ॥६॥

—ओ)०(ओ—

॥ ५.३.७ ॥

आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधन-मात्रं भवितुम् अर्हति ।

**श्रीधरः : **अत्र हेतुः, आत्मनः स्वत एवानुसवनं सर्वदाऽञ्जसा साक्षाद् अव्यतिरेकेण समन्वयेन बोभूयमाना अतिशयेन भवन्तो येऽशेषाः पुरुषार्थाः, ते स्वरूपं यस्य परमानन्दस्य । न चैवं सत्य् अपि यागान् अर्थक्यम् इत्य् आहुः, किन्त्व् इति । स-कामानाम् अस्माकम् एवैतद् उपपद्यते न तवेत्य् अर्थः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्र हेतुः—आत्मनः स्वत एवानुषवनं प्रतिक्षणम् एव अञ्जसा साक्षाद् एव अव्यतिरेकेण व्यतिरेकं विच्छेदं विनैव बोभूयमाना अतिशयेन भवन्तो येऽशेषाः पुरुषार्थाः फल-भूता आनन्दास् ते स्वरूपं यस्य । न चैवं सत्य् अपि यागानर्थक्यम् इत्य् आहुः—किन्त्व् इति । स-कामानाम् अस्माकम् एव संराधन-मात्रम् इति अस्मत्-कर्तृकम् एव, न तु वस्तुतो भवत्-कर्मकम् इत्य् अर्थः ॥७॥

—ओ)०(ओ—

॥ ५.३.८ ॥

तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः ।

**श्रीधरः : **स्वोपयोगम् एव प्रदर्शयन्ति—तद् यथेति । परमेभ्योऽपि हे परम-पुरुष ! प्रकर्ष-युक्तया करुणया । उपकल्पयिष्यन् संपादयिष्यन् । च-कारात् कामितं च । नापचितोऽनपचितोऽपूजित एव पूजानपेक्षत्वात् स्वययेवोपलक्षितो दृष्टोऽसि । इतर-वत् सापेक्ष-वत् ॥८॥

**क्रम-सन्दर्भः : **स्वस्य महिमानम् ऐश्वर्य-सम्पत्तिम् अपवर्गाख्यम् इति तस्यैवापवर्ग इति संज्ञेत्य् अर्थः । उपकल्पयिष्यन् साक्षात्कारयिष्यन् नापचित एवेति । पूजा-सम्पादक-भक्त्य्-अभावाद् इति भावः ॥८॥

**विश्वनाथः : **ननु तर्हि कथं सन्तुष्टोऽहं युष्मत्-प्रत्यक्षीभूतोऽस्मि ? इति तत्राहुः—तत् तस्मात् यथा बालिशानाम् अज्ञानाम् अपि समीपम् अनाहूतोऽप्य् अपूजितोऽपि विज्ञः कृपा-वशात् तान् उद्धर्तुम् आयाति, तथैव त्वं परमेभ्योऽपि परमः पुरुषः प्रकर्ष-युक्तया निरूपाधिकया करुणया स्व-महिमानं स्व-महैश्वर्यं तद्-अनुभवम् इत्य् अर्थः । अपवर्ग इत्य् आख्या यस्य तं, च-कारात् कामितं वस्तु च उपकल्पयिष्यन् दास्यन् स्वयं नापचरित एवास्मद्-भक्त्य्-अभावाद् अपूजित एव इतरवत् यज्ञ-कौतुक-दर्शी इतरजन इव ॥८॥

—ओ)०(ओ—

॥ ५.३.९ ॥

अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरद-र्षभो भवान् निज-पुरुषेक्षण-विषय आसीत् ।

**श्रीधरः : **यद्य् अपि त्वं वरान् दातुम् आविर्भूतोऽसि तथापि, हे अर्हत्तम ! राजर्षेर् बर्हिषि यज्ञे निज-पुरुषाणां त्वद्-भक्तानाम् अस्माकम् ईक्षण-विषयो भवान्यर्हि यदा आसीत्, तदा ह्य् अयम् एव वरः सञ्जातः ॥९॥

क्रम-सन्दर्भः : अथायेत्य् अत्र अथ हायेति क्वचित् । निज-पुरुषेक्षण-विषयोऽपि भवान् इह बर्हिषि यज्ञ-मात्रे यर्हि यदा आसीद् अयम् एव वर इत्य् अर्थः ॥९॥

**विश्वनाथः : **यथा तथा भवतु, यूयं वरं वृणुथेति चेत्, तत्राहुः—अथायम् इति । निज-पुरुषाणां स्व-भक्तानाम् ईक्षण-विषयोऽपि भवान्यर्हि यदा वा राजर्षेर् बर्हिषि यज्ञेऽप्य् आसीत् आविरभूद् अयम् एव वर इत्य् अन्वयः ॥९॥

—ओ)०(ओ—

॥ ५.३.१० ॥

असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनोऽसि ।

**श्रीधरः : **दर्शनस्य दुर्लभताम् आहुः । असङ्गेन वैराग्येन निशितं यज् ज्ञानं स एवानलस्तेन विधूता अशेषा मला येषाम् । अतो भवत इव स्वभावो येषाम् । तान् एवाहुः । आत्मारामाणाम् एवं भूतानां मुनीनाम् अपि परम-मङ्गलायनं गुण-गण-कथनम् एव नतु दर्शनं यस्य । अतस् तैर् अनवरतं परिगुणिता अभ्यस्ता गुण-गणा यस्येति सम्बोधनम् ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सर्वैर् अतिदुर्लभात् त्वद्-दर्शनाद् अप्य् अधिको वरो वरणीय इति मूढानाम् एव मतं, न तु विज्ञानाम् इत्य् आह—असङ्गेन वैराग्येन निशितं यज्-ज्ञानं स एवानलः, तेन निर्धूताशेष-सकामत्व-मलानां, भवत्य् एव स्वीयो भावो दास्यादिर् येषाम् अत एवात्मनि त्वय्य् एव आ सम्यग् एव रममाणानां मुनीनां परम-मङ्गलायनं गुण-गण-कथनम् एव, न तु दर्शनं यस्य । अतस् तैर् अनवरतं परिगुणिता अभ्यस्ता गुण-गणा यस्येति सम्बोधनम् ॥१०॥

—ओ)०(ओ—

॥ ५.३.११ ॥

अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण-दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु ।

**श्रीधरः : **दर्शनेनैव कृतार्था अपि वरम् एकं प्रार्थयन्ते—अथेति । स्मरणाय विवशानां त्वां स्मर्तुम् अशक्तानां नः ॥११॥

**चैतन्य-मत-मञ्जुषा : **अथ कथञ्चिद् इत्य्-आदि । तव कृतं कर्म गोवर्धनोद्धरणादि-रूपम् । गुणा भक्त-वत्सलताद्याः । नाम-धेयानि श्री-कृष्ण-गोविन्दादीनि । वचनम् एव गोचरो विषयो येषां, तानि तथा भवन्त्व् इति । अयम् अर्थः—अर्थानुसन्धानादिना मनो-विषयत्वं तावद् बहुभिर् एव पुण्यैर् भवति । तावद् भाग्यं क्वास्माकं वचन-गोचराण्य् एव भवन्त्व् इत्य् अर्थः ॥११॥

क्रम-सन्दर्भः : गुण-कृतानि च लीला-नाम-धेयानि च ॥११॥

**विश्वनाथः : **अस्माकं त्व् अस्थिर-मनसां मन्दानाम् एतावत् तु भवत्व् इत्य् आहुः—अथेति । त्वद्-दर्शन-प्राप्त्य्-अनन्तरम् इत्य् अर्थः । स्मरणाय विवशानां त्वां स्मर्तुम् असमर्थानाम् ॥११॥

—ओ)०(ओ—

॥ ५.३.१२ ॥

किं चायं राजर्षिर् अपत्य-कामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययो धनदम् इवाधनः फलीकरणम् ।

**श्रीधरः : **अन्यच् च प्रार्थनीयम् अस्तीत्य् आहुः—किं चेति । आशिषाम् ऐहिकानां स्वर्गापवर्गयोर् अपीश्वरं त्वम् उपधावति । प्रजायाम् एव पुरुषार्थ इति प्रत्ययो यस्य । अधनो यथा फली-करणं तुष-कणादिकम् आशासानो धन-दम् उपधावति ॥१२॥

**क्रम-सन्दर्भः : **यजमानस्य स्वापराधम् अपि निवेदयितुं सङ्कुचन्तः परमात्मीयत्वेनाभिप्रायेण च तन्-निवेदनीयम् एव निवेदयन्ति—किं चेति । प्रथमं तावत् प्रजाम् आशासानः आशिषाम् ऐहिकीनां स्वर्गापवर्गयोर् अपीश्वरं त्वाम् उपधावति यथा फलीकरणम् आशासानो धनदम् उपधावति तद्वद् इति परम-मौढ्यं न च तावतैव स्थितिः, किन्तु भवादृशीम् आशासान इति धार्ष्ट्य चेत्य् अर्थः ॥१२॥

**विश्वनाथः : **किं चेति । निवेदयितुम् अयोग्यम् अप्य् अवश्यकत्वेनैकं निवेदयाम् एवेत्य् अर्थः । अयम् अस्मद्-यजमानो राजर्षिर् अपत्य-कामः, अपत्यस् तु देवतान्तर-यजनेनापि भवति, तद् अपि त्वां भगवन्तम् उपधावति ।

ननु तद् अप्य् अहं स्वर्गापवर्गादिकं दास्यामीत्य् आशङ्क्याहुः—आशिषाम् ऐहिकानां स्वर्गापवर्गयोर् ईश्वरम् अप्य् उपधावति । अथ च प्रजायाम् एव अर्थः पुरुषार्थः । इति प्रत्ययो, न त्व् अपवर्गादिषु यस्य स इति मौढ्यम् अधनो यथा फलीकरणं तूषकणादिकम् आशासानो धनदम् उपधावतीति तत्रापि प्रजां भवादृशीम् आशासान इति धार्ष्ट्यं च पश्येति भावः ॥१२॥

—ओ)०(ओ—

॥ ५.३.१३ ॥

को वा इह तेऽपराजितोऽपराजितया माययानवसित-पदव्यानावृत-मतिर् विषय-विष-रयानावृत-प्रकृतिर् अनुपासित-महच्-चरणः ।

**श्रीधरः : **इदं च नाति-चित्रम् इत्य् आहुः । इह संसारे तेऽपराजितया माययाऽनव-सित-पदव्यालक्षित-मार्गयापराजितः को वै ? न कोऽपि । अतस् तयाऽनावृत-मतिः कः ? अत एव विषय एव विषं तस्य रया वेगास् तैर् अनावृता प्रकृतिर् यस्य स कः । यद्य् अनुपासित-महच्-चरणः । अतस् त्वन्-मायया मोहितस्यैवम् आशंसा घटत इत्य् अर्थः ॥१३॥

**क्रम-सन्दर्भः : **अनुपासित-महच्-चरण इति सम्प्रति तेनोपास्यमानं स्वम् अपि तुच्छी-कुर्वन्ति ॥१३॥

**विश्वनाथः : **न चास्य दोष इत्य् आहुः—को वेति । इह संसारे अपराजितया केनापि पराजेतुम् अशक्तया अनवसित-पदव्या केनाप्य् अलक्षित-मार्गया मायया को वा अनावृत-मतिः ? न कोऽपीत्य् अर्थः । ते तव कीदृशस्य ? पराजितः, मायां पराजयत इति पराजित् किब्-अन्तं तस्य । अनुपासितेत्य् उपासित-महच्-चरण एवैको मायां निस्तरति, राजर्षिर् अयं तु न तादृश इति भावः ॥१३॥

—ओ)०(ओ—

॥ ५.३.१४ ॥

यद् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतस् तत्रार्थ-धियां मन्दानां नस् तद् यद् देव-हेलनं देव-देवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम् ।

**श्रीधरः : **अदभ्र-कर्तः ! हे बहु-कार्य-कारिन् ! अल्पीयसे कार्याय त्वं यद्य् अस्माद् इह समाहूतोऽसि । तत्र प्रजायाम् अर्थे धीर् येषां मन्दानां तेषां नो यद् देव-हेलनम् अवज्ञानं, तत् सर्वान् प्रति तव साम्येन हेतुना प्रतिवोढुं सोढुम् अर्हसि ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यजनस्य सकामत्व-लक्षणम् अपराधं क्षमयन्तः स्तोत्रम् उपसंहरन्ति—यद् उ हेति । हे अदभ्र-कर्तः ! अनल्प-कारिन् ! ब्रह्मादि-दुर्लभं त्वद्-दर्शनम् अपि सकामेभ्योऽप्य् अस्मभ्यम् अदा इति भावः । यत् त्वम् इह समाहूतस् तत् तेन अर्थ-धियां सकामानाम् अस्माकं यद् देवस्य तव हेलनम् अवज्ञानं, तत् प्रतिवोढुं सोढुम् अर्हसि । तत्र हेतुः—हे देव-देव ! सर्वान् प्रति यत् तव साम्यं, तेन ॥१४॥

—ओ)०(ओ—

॥ ५.३.१५ ॥

श्री-शुक उवाच—

इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्ष-धराभिवादिताभिवन्दित-चरणः सदयम् इदम् आह ।

**श्रीधरः : **इति निगदेन गद्यात्मक-स्तोत्रेण । वर्ष-धरो भारत-वर्ष-पतिर् नाभिस् तेनाभिवादिता ये ऋत्विजस् तैर् अभिवन्दितौ चरणौ यस्य ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **निगदेन गद्यात्मक-स्तोत्रेण । वर्ष-धरो भारत-वर्ष-पतिर् नाभिस् तेनाभिवादिता ये ऋत्विजः, तैर् अभिवन्दितौ चरणौ यस्य ॥१५॥

—ओ)०(ओ—

॥ ५.३.१६ ॥

श्री-भगवान् उवाच—

अहो बताहम् ऋषयो भवद्भिर् अवितथ-गीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्म-वादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विज-देव-कुलम् ।

**श्रीधरः : **असुलभत्वे हेतुः—ममाहम् एवाभिरूपः सदृशः । कैवल्याद् अद्वितीयत्वात् । द्विजेषु देवा इव ये ब्राह्मणास् तेषां कुलम् ॥१६॥

**चैतन्य-मत-मञ्जुषा : **ममाहम् एवेत्य्-आदि । मम अहम् एवाभिरूपः सदृशः । कैवल्याद् अद्वैतान् मम सदृशोऽहम् एव । यद्यपि कला-कलावतोर् भेद एव, तथापि कलाया मद्-अभेद विवक्षा । एवं चेज् जीवेन किम् अपराद्धम्, तस्याप्य् अंशत्वात् ? सत्यं, मायोपहितत्वं जीवत्वं, तेनैव भेदः । लीलोपहिताः खलु कलावताया इति जीवात् कलावताराणां भूयान् भेदः ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अवितथ-गीर्भिर् अमोघ-वाग्भिः । अभिरूपः सदृशः कैवल्याद् इति । अहं खलु जगद्-ईश्वरः, न हि जगद्-ईश्वरोऽन्यः कश्चिद् अस्तीत्य् अर्थः । द्विजेषु देवा इव ब्राह्मणास् तेषां कुलम् ॥१६॥

—ओ)०(ओ—

॥ ५.३.१७ ॥

तत आग्नीध्रीयेऽंश-कलयावतरिष्याम्य् आत्म-तुल्यम् अनुपलभमानः ।

**श्रीधरः : **आग्नीध्रीये नाभौ ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आग्नीध्रीये आग्नीध्र-पुत्रे ॥१७॥

—ओ)०(ओ—

॥ ५.३.१८ ॥

श्री-शुक उवाच—

इति निशामयन्त्या मेरु-देव्याः पतिम् अभिधायान्तर्दधे भगवान् ।

**श्रीधरः : **पतिं नाभिम् ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.३.१९ ॥

बर्हिषि तस्मिन्न् एवं विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाभेः प्रिय-चिकीर्षया तद्-अवरोधायने मेरु-देव्यां धर्मान् दर्शयितु-कामो वात-वसनानां श्रमणानाम् ऋषीणाम् ऊर्ध्व-मन्थिनां शुक्लया तनुवावततार ॥

**श्रीधरः : **हे विष्णु-दत्त, तस्यावरोधायनेऽन्तः-पुरे मेरुदेव्यां शुक्लया शुद्ध-सत्त्व-रूपया भूर्त्याऽवततार । केषां धर्मान् । वात-वसनानां दिग्-वाससाम् । पाषण्डि-व्यावृत्त्य्-अर्थम् आह । श्रमणानां तपस्विनाम् । ऋषीणां ज्ञानि-ज्नाम् । ऊर्ध्व-मन्थिनां नैष्ठिक-ब्रह्मचारिणाम् ॥१९॥

**क्रम-सन्दर्भः : **वात-वसनानां सन्न्यासिनां श्रमणानां वानप्रस्थानाम् ऋषीणां तत्-तन्-मन्त्र-दर्शन-मय-याज्ञिकानां गृहस्थानाम् इत्य् अर्थः । ऊर्ध्व-मन्थिनां ब्रह्मचारिणाम् अपि तच्-चरिते तस्य दर्शयिष्यमाणत्वात् ॥१९॥

**विश्वनाथः : **हे विष्णु-दत्त ! तद्-अवरोधायनेऽन्तः-पुर-स्थले या मेरुदेवी तस्यां वात-वसनानां दिग्-वाससाम् । दिग्-वाससो बाला अपि भवन्तीत्य् अत आह—श्रमणानां तपस्विनाम् । तथा-भूताः पाषण्डिनोऽपि भवन्तीत्य् अत आह—ऋषीणां शास्त्र-ज्ञानवताम् । तेषां ब्रह्मचर्याद् अभ्रंशम् आह—ऊर्ध्व-मन्थिनाम् ऊर्ध्व-रेतसां, शुक्लया शुद्ध-सत्त्व-रूपया तनुवा तन्वा ॥१९॥2

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
ऋषभदेवाविर्भावो नाम
तृतीयोऽध्यायः ।

॥५.३॥

(५.४)


  1. अयं गद्यः क्वचिद् द्वि विभक्तः। ↩︎

  2. चैतन्य-गौडीय-मठ-संस्करणे अत्र विश्वनाथस्य अध्याय-समाप्ति-चिह्नः “इति सारार्थ-दर्शिन्याम्” इत्य्-आदि-श्लोको न प्राप्यते। ↩︎