०२ आग्नीध्र-वर्णनं

॥ ५.२.१ ॥

श्री-शुक उवाच—

एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत्।

**श्रीधरः : **

द्वितीये प्रोक्तम् आग्नीध्र- चरित्रं स्त्रैण-संमतम् ।

पत्न्यां हि पूर्व-चित्त्यां यो नाभिमुख्यानजीजनत् ॥

अस्मिन् वंशे प्रसिद्धोऽयम् आग्नीध्रः स्त्रैण-पुङ्गवः ।

विहसन्न् इव तस्येदं चरितं मुनिर् अब्रवीत् ॥

जम्बू-द्वीपम् ओको यासां ताः प्रजाः पुत्र-वत् पालयाम् आस । धर्मावेक्षमाणः धर्मम् अवेक्षमाणो धर्मेणेत्य् अर्थः ॥१॥

**क्रम-सन्दर्भः : **पितृलोककाम इति तस्य स्त्रिया वन्ध्यात्वं गम्यते ॥१॥

**विश्वनाथः : **

द्वितीये तपसा प्राप्य पूर्व-चित्तिम् अजिज्ञपत् ।

आग्नीध्रो निज-लाम्पट्यं पुत्रांश् चास्याम् अजीजनत् ॥

धर्म एव अवेक्षणं यस्य सः ॥१॥ \

—ओ)०(ओ—

॥ ५.२.२ ॥

स च कदाचित् पितृलोक-कामः सुर-वर-वनिताक्रीडाचल-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्मैकाग्र्येण तपस्व्य् आराधयां बभूव।

**श्रीधरः : **पितृ-लोक-कामः पुत्र-कामः सुर-वराणां वनितास् तासाम् आक्रीडाचलो मन्दरस् तस्य द्रोण्याम् । आभृतानि संपादितानि परिचर्योपकरणानि पुष्पादीनि येन ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पितृ-लोक-कामः पुत्र-कामः । विश्व-सृजां पतिं ब्रह्माणम् । आभृतानि सम्पादितानि परिचर्योपकरणानि पुष्पादीनि येन ॥२॥

—ओ)०(ओ—

॥ ५.२.३ ॥

तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस।

**श्रीधरः : **तद् उपलभ्य ज्ञात्वा ब्रह्माऽभियापयामास सम्भोगार्थं प्रस्थापयामास ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ५.२.४ ॥

सा च तद्-आश्रमोपवनम् अतिरमणीयं विविध-निविड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-लतारूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम।

**श्रीधरः : **सा च तद्-आश्रमोपवनम् उपबभ्रामेत्य् अन्वयः । रमणीयत्वम् एवाह—विविधाश् च निविडाश् च ये विटपिनः, तेषां विटपाः शाखाः, तेषां निकराः, तैः संश्लिष्टाः पुरट-लताः स्वर्ण-वल्ल्यस् तास्व् आरूढाः स्थल-विहङ्गमा मयूरादयः, तेषां मिथुनैः प्रोच्यमानाभिः श्रुतिभिर् उच्चार्यमाणैः षड्जादि-स्वरैः प्रतिबोध्यमाना ये सलिल-कुक्कुटादयः, तैर् विचित्रं यथा तथोपकूजिता नादिता अमला जलाशयाः, तेषु कमलानि, तेषाम् आकरम् उपवनम् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सा च तद्-आश्रमोपवनम् उपबभ्रामेत्य् अन्वयः । विविधाश् च निविडाश् च ये विटपिनः, तेषु विटपाः स्कन्धास् तेषु निकटास् तैः संश्लिष्टाः पुरट-लताः स्वर्ण-वल्ल्यः, यासां तासु निकटस्थ-पुरट-लतासु आरूढाः स्थल-विहङ्गाः कोकिलादयः, तेषां मिथुनैः प्रोच्यमानाभिः श्रुतिभिर् उच्चार्यमाणैः पञ्चमादि-स्वरैः प्रतिबुद्ध्यमाना ये सलिल-कुक्कुटादयः, तैर् विचित्रं यथा स्यात् स्थितात्म उपकूजिता नादिता अमला जलाशया वाप्य्-आदयः कमलाकराः कासाराश् च यस्मिंस् तत् ॥४॥

—ओ)०(ओ—

॥ ५.२.५ ॥

तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट।

**श्रीधरः : **सुललिते गमने ये पद-विन्यासास् तैर् गतौ विलासो यस्याः । चकारस् तस्याश् चेत्य् एक-वाक्यत्वाय । अनुपदं प्रतिपदम् । खण-खणेति ध्वनिं कुर्वतो रुचिर् अस्य चरणाभरणस्य स्वनम् । आमीलिते नयने एव नलिन-मुकुले तयोर् युगलम् ईषद् विकचय्य किञ्चिद् उन्मील्य व्यचष्ट ददर्श ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्याः सुललिते गमने ये पदयोर् विन्यासास् तैर् एव गतिश् चेष्टा विलासश् च सर्वाङ्ग-गतो यस्याः ॥५॥

—ओ)०(ओ—

॥ ५.२.६ ॥

ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-व्रीडा-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-भाषणामोद-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच।

**श्रीधरः : **ताम् एव देवीं मकरध्वजस्य वशम् उपनीतः सन् जडवद् इति ह वक्ष्यमाणान् दश श्लोकान् उवाच । जाड्यानुकरणं च वैदग्ध्येन तद्-वशीकारार्थम् । दिविजानां देवानां मनुजानां च यानि मनांसि नयनानि च तेषाम् आह्लाद-दुघैर् गत्य्-आदिभिर् नृणां मनसि कामस्य विवरं प्रवेश-द्वारं विदधतीम् । गतिश् च विहारश् च व्रीडा विनय-युक्तोऽवलोकश् च सुस्वराण्य् अक्षराणि चावयवाश् च नेत्रादयस् तैः । निज-मुखाद् विगलितम् अमृतम् इव स्वादु आसव इव मादकं च यत् सहासं भाषणं तस्मिन्न् आमोदो निःश्वास-गन्धस् तेन मदान्धा ये मधुकर-निकरास् तैर् उपरोध आवरणं तेन भयाद् द्रुतः शीघ्रो यः पद-विन्यासः, तेन वल्गु स्पन्दनं किञ्चिच् चलनं स्तन-कलशयोः कबर-भारे रशनायां च यस्यास् ताम् । तस्या अवलोकनेन विवृतावसरस्य दत्तावकाशस्य ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ताम् एव देवीं मकरध्वजस्य वशम् उपनीतः सन् जडवद् इति वक्ष्यमाणां दश-श्लोकीम् उवाच—जाड्यानुकरणं च वैदग्ध्य-विशेष-द्योतनार्थम् । विवरं मनोऽन्तः-प्रवेश-द्वारं विदधतीं निज-मुखाद् विगलितम् अमृतम् इव स्वादु आसव इव मादकं यत् स-हासं भाषणं तस्मिन् सति य आमोदो गन्धस् तेन मदान्धा मधुकर-निकरास् तैर् उपरोध आवरणं तेन भयाद् द्रुतः शीघ्रो यः पद-विन्यासः, तेन वल्गु-स्पन्दनं किञ्चिच् चलनं स्तन-कलशयोः कबर-भारो रशनायां च यस्यास् ताम् ॥६॥ \

—ओ)०(ओ—

**॥ ५.२.७ ॥ **

का त्वं चिकीर्षसि च किं मुनि-वर्य शैले
मायासि कापि भगवत्-पर-देवतायाः ।
विज्ये बिभर्षि धनुषी सुहृद्-आत्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥

**श्रीधरः : **का त्वं शैले गिराव् अस्मिन् किं चिकीर्षसि ? मुनि-वर्येत्य्-आदि-पुंस्त्वेन सम्बोधनादि जाड्यानुकरणार्थम् । हे मुनि-वर्य ! नूनं भगवतः पर-देवता-भूतस्य मायासि । भ्रुवाव् आलक्ष्याह—हे सुहृत् सखे ! विज्ये निर्गुणे धनुषी बिभर्षि किम् आत्मनोऽर्थे तवैव, आभ्यां किं कार्यम् अस्ति ? किं वा, प्रमत्तान् अजितेन्द्रियान् मृग-तुल्यान् अस्मद्-आदीन् मृगयसे । तान् वशीकर्तुं धनुषी धारयसीत्य् अर्थः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **का त्वम् इत्य् उक्त्वा स-सम्भ्रमम् अतिबाल्यम् आरभ्यैव तपस्यतो मम स्त्री-पुं-विशेष-ज्ञानं नास्तीति द्योतयन्न् आह—हे मुनि-वर्येति । अहम् इव त्वम् अपि तपोऽर्थम् एवात्र तिष्ठसि किम् इति भावः । किं च, त्वं मुनि-वर्यो भूत्वा मुनिं मां यन् मोहयस्य् अत्र किं कारणम् इति क्षणं विभाव्य, आं ज्ञातम् इत्य् आह—मायासीति । भगवान् एव पर-देवता तस्याः मायैव त्वं मुनि-वर्य-रूपेणात्र वर्तसे इति भावः । किं च, भ्रुवाव् आलक्ष्याह—विज्ये निर्गुणे धनुषी बिभर्षि । हे सुहृत् सखे ! किम् आत्मनोऽर्थे स्वस्य कृते । तवैताभ्यां किं कार्यम् अस्ति ? किं वा, मृगान् अस्मद्-आदीन् इति गूढोऽर्थः ॥७॥

—ओ)०(ओ—

**॥ ५.२.८ ॥ **

बाणाव् इमौ भगवतः शत-पत्र-पत्रौ
शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः
क्षेमाय नो जड-धियां तव विक्रमोऽस्तु ॥

**श्रीधरः : **कटाक्षाव् आलक्ष्याह । बाणाव् इमौ शत-पत्रे नेत्र-कमले ते एव पत्राणि पिच्छानि ययोः । शान्तौ विभ्रमेण मन्थरौ । पुङ्खाभ्यां विनापि रुचिरौ । पत्रतया कल्पित-नेत्राभ्यां पर-भागस्य पुङ्ख-स्थानीयस्याभावात् । अतितिग्मौ तीक्ष्णौ दन्ताव् अग्र-भागौ ययोस् तौ । क्षेमायेति यद्य् अस्मान् प्रतियोक्ष्यसे तर्ह्य् अनयोर् ज्वालया नैव जीविष्याम इति भावः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कटाक्षाव् आलक्ष्याह । बाणौ शत-पत्रे नेत्र-कमले एव पत्रे ययोस् तौ शान्तौ विभ्रमेण मन्थरौ पुङ्खाभ्यां विनापि रुचिरौ अतितिग्मौ तीक्ष्णौ दन्ताव् अग्र-भागौ ययोस् तौ कस्मै प्रयोक्तुम् इच्छसीति न विद्मः । अतो भयाद् एतावत् प्रार्थयामहे, तवायं विक्रमोऽस्माकं क्षेमायास्तु ॥८॥

—ओ)०(ओ—

**॥ ५.२.९ ॥ **

शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यम् अजस्रम् ईशम् ।
युष्मच्-छिखा-विलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः ॥

**श्रीधरः : **तद्-अङ्ग-परिमल-लोभेनानुगच्छतो भ्रमरानालक्ष्याह—शिष्या इति । अजस्रं सन्ततं युष्मच्-छिखातो विलुलिता विगलिताः सुमनसाम् अभितो वृष्टीर् गलितानि कुसुमानि भजन्तीत्य् अर्थः । शुद्धत्वेनोपमा, वेद-शाखा इवेति ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्याः सौरभ्य-लोभेनानुगच्छतो भ्रमरान् आलक्ष्याह—शिष्या भ्रमरा इति ॥९॥

—ओ)०(ओ—

**॥ ५.२.१० ॥ **

वाचं परं चरण-पञ्जर-तित्तिरीणां
ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् ।
लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे
यस्याम् अलात-परिधिः क्व च वल्कलं ते ॥

**श्रीधरः : **नूपुर-स्वनम् आकर्ण्याह—वाचम् इति । तुभ्यं तव चरण-गत-पञ्जरयोर् नूपुरयोस् तित्तिरीणाम् अन्तर्-गत-रत्नानां परं केवलं वाचं शृणुमः । कथं-भूताम् ? अरूपा अदृष्ट-वक्तृका मुखरा अति-प्रकटा च तां च तां च । पीतं परिधान-वस्त्रं नितम्ब-कान्तित्वेन प्रकल्प्याह । कदम्ब-कुसुमस्य रुचिर् दीप्तिर् अङ्क-विटङ्क-बिम्बे नितम्बस्य सुन्दर-मण्डले क्व लब्धा ? पाठान्तरे अङ्गेति सम्बोधनम् । मेखलाम् आलक्ष्याह । यस्याम् अलात-परिधिर् वर्तते । वस्त्रं नितम्ब-कान्तित्वेन प्रकल्प्य वस्त्रम् अदृष्ट्वैव पृच्छति । क्व च ते वल्कलम् इति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नूपुर-स्वनम् आस्वाद्याह—वाचम् इति । तुभ्यं त्वाम् आनन्दयति तव चरण-स्थयोः पञ्जरयोर् अन्तर्-गतास् तित्तिरि-पक्षिणो वर्तमाना अनुमीयन्ते यस्माद् अरूपाम् अदृष्ट-वक्तृकां मुखरां पारस्परिक-कलह-मयीं वाचं शृणुवामहे । ब्रह्मन्न् इति तव तपो-योग-बल-विलसितम् एवैतद् इति भावः । परिधानीयातिसूक्ष्म-पीत-वस्त्रस्य नितम्ब-लग्नत्वेन लावण्यम् आस्वाद्याह— अङ्क-विटङ्क-बिम्बे नितम्बस्य सुन्दर-मण्डले । कदम्ब-रुचिः पीत-कान्तिर् लब्धा, श्यामस्यापि तव नितम्बः पीत इत्य् आश्चर्यम् । अङ्ग-विटङ्क-बिम्बे इति पाठे अङ्गेति सम्बोधनम् । रत्न-मेखलाम् निर्वर्ण्याह—यस्यां पीत-कान्तौ अलात-परिधिर् ज्वलद्-अङ्गार-मण्डलम् अहो ते तपस् तीव्रतेति भावः । क्व च ते वल्कलम् ते इति किं स्वाश्रम एव वल्कलं भ्रमाद् एवापहाय मन्-निकटं नग्न एवायातोऽसीति भावः । भङ्ग्या सुरत-प्रार्थना च द्योतिता ॥१०॥

—ओ)०(ओ—

**॥ ५.२.११ ॥ **

**किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते **
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।
**पङ्कोऽरुणः सुरभिर् आत्म-विषाण ईदृग् **
येनाश्रमं सुभग मे सुरभी-करोषि ॥

**श्रीधरः : **स्तनाव् आलक्ष्याह । शृङ्गयोः स्तनयोः किं सम्भृतं किं पूर्णम् अस्ति ? मनो-हरं किञ्चिद् अस्तीत्य् एतावत् तु जानामि । यतो मध्ये कृशोऽपि त्वं कृच्छ्रेण वहसि धारयसि । यत्र च मे दृशिर् दृष्टिः श्रिता संलग्नास्ति । अन्यथेदं द्वयं न घटत इति भावः । स्तन-गतं कुङ्कुमम् आलक्ष्याह । पङ्कोऽरुण आत्मनस् तव विषाणे शृङ्गे ईदृग् अत्य् अपूर्वः कुतः ? इत्य् अत आह । येन पङ्केनाश्रमं सुरभी-करोषि सुगन्ध-युक्तं करोषीति ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्तनाव् आलक्ष्याह—हे द्विज ! शृङ्गयोः किं सम्भृतं किम् अद्भुतं बहु-मूल-रत्नं वस्तु धृतं वर्तते । यन् मद्-दृष्टि-पात-समय एव मुहुर् आच्छादयसीति भावः । ब्राह्मणो भूत्वापि शृङ्ग-द्वयं ढत्से यतो मध्ये कृशोऽपि कृच्छ्रेणापि वहसि यत्र दृशिर् मद्-दृष्टिः श्रिता लग्नेति मद्-दृष्टिर् एवात्र प्रमाणम् इति भावः । तेनाच्छादनम् उद्घाट्य स्वयम् एव दर्शयित्वा मत्-सन्देहम् अपाकुरु । किं वा आज्ञापयसि चेत् सौहार्देनाहम् एवोद्घाटयामि । तपस्विनो मम वस्तुनि प्रयोजनं नास्ति केवलं दर्शन एवेति भावः । स्तनस्य शृङ्गत्वं तुङ्गत्वातिशय-विवक्षया ज्ञानम् । स्तन-गतं कुङ्कुमम् आलक्ष्याह—आत्मनः स्वस्य विषाणे शृङ्गे ईदृक् पङ्को धृतः कस्य सरोवरस्य सुरभिर् अरुणश् च पङ्कस् तम् अहम् अपि वक्षसि धित्सामीति भावः ॥११॥

—ओ)०(ओ—

**॥ ५.२.१२ ॥ **

लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ ।
अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति
बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे ॥

श्रीधरः : लोकं स्थानम् । यत्रत्यो जन उरसा इत्थम् अपूर्वाव् अवयवौ बिभर्तिमनस उन्नयनौ क्षोभकौ । पाठान्तरे इत्थं-भूत-लक्षणे तृतीया । वक्त्रेबह्व् अद्भुतं बिभर्ति । किं ? तद् आह । रसो मधुरालापः रासो विलासस् ताभ्यां सहिता सुधा अधरामृतम् । आदि-शब्दात् स्मित-नर्मादि ॥१२॥

**क्रम-सन्दर्भः : **लोकम् इति । उन्नयनैर् इति पाठे क्षोभणैर् अपूर्वत्व-प्रकारं प्राप्ताव् इत्य् अर्थः ॥१२॥

**विश्वनाथः : **अस्मद्-देशे मनुष्योऽपि वक्षसि शृङ्ग-द्वयं धत्त इति चेत् तत्रैव गत्वा तपश् चिकीर्षामीत्य् आह—लोकम् इति । हे सुहृत्तम ! इति सौहार्देनैवेति भावः । नन्व् एते शृङ्गे न भवत इत्य् अत आह—यत्रत्यो जन इत्थम् उरसा वक्षसा मनस उन्नयनौ क्षोभकौ । उन्नयनैर् इति पाठे उत्कर्षेण ग्रहणैः । वक्त्रेबह्व् अद्भुतं बिभर्ति । किम् ? तद् आह—सरसो मधुरालापः रासो विलासः ताभ्याम् सहिता सुधा अधरामृतम् । आदि-शब्दाद् आमोद-मकरन्दादिकं स्मित-नर्मादि ॥१२॥

—ओ)०(ओ—

**॥ ५.२.१३ ॥ **

का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति
विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ ।
उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर्
आसन्न-भृङ्ग-निकरं सर इन् मुखं ते ॥

श्रीधरः : का वा तव लोके आत्मनो देहस्य वृत्तिर् आहारः । अङ्ग हे सखे, अदनाच् चर्वणाद् धविर् इति तत्-सम्बन्धी गन्धो वात्य् आगच्छति । इति ताम्बूलाभिप्रायम् । अदनाद् बहिरङ्ग भातीति पाठे मम तावद् भोजनाद् बहिर् भूतैव वृत्तिर् भातीत्य् अर्थः । यतस् त्वं विष्णोः कलाऽसि । विष्णुश् च नाश्नाति, अनश्नन्न् अन्यो अभिचाकशीति1 [श्वे।उ। ४.६] इति श्रुतेः । विष्णोः कलाऽसीत्य् अत्र हेतुः, तव च कर्णौ विष्णोर् इव अनिमिषोन्मकरौ । अनिमिषौ रत्न-नेत्रत्वेन निमेष-शून्याव् उल्लसन्तौ मकरौ तद्-आकारे कुण्डले ययोस् तौ ।

किं च, तव मुखं सर इत् सर इव । तद् एवाह—उद्विग्नं चञ्चलं मीन-युगलम् इव नेत्र-द्वयं यस्मिन् । द्विजा दन्तास् तेषां पङ्क्त्या शोचिः शोभा यस्मिन् । सरसि तु द्विजा राज-हंसाः । आसन्नो भृङ्ग-निकर इव केश-स्तोमः परिमल-लुब्ध-भृङ्ग-स्तोमो वा यस्मिन् ॥१३॥

**क्रम-सन्दर्भः : **ननु निराहार एवाहम् ? तत्राह । अदनाच् चर्वणाद् धेतोः हविर् यज्ञीय-द्रव्यम् इव परम-पवित्रं किम् अपि वाति तत्-सम्बन्धि-गन्धः प्रसरतीत्य् अर्थः । पूर्व-पाठे विष्णोः कलासि इति हेतुत्वं तु विष्णोर् यज्ञ-भोक्तृत्वाद् इति ज्ञेयम् । इद् इत्य् अव्ययम् एवार्थे एवार्थश् चात्र सादृश्यम् इति ज्ञेयम् । उद् इति तु कल्पितम् एव ॥१३॥

**विश्वनाथः : **का वा तव लोके आत्मनो देहस्य वृत्तिर् जीविका । ताम्बूल-गन्धम् अनुभूतं व्यञ्जयन्न् आह—हविर् इति । अदनात् भक्षणाद् धेतोः हविर् इति तत्-सम्बन्धी गन्धो वात्य् आगच्छति । देशान्तरे लोका हविर्-भोजिनः श्रूयन्ते, तस्माद् एष हविष एव गन्धोऽनुमीयत इति ताम्बूल-हविषोः स्वापरिचितत्वं व्यञ्जितम् । अदनाद् बहिरङ्ग भातीति पाठे भोजनाद् बहिर्भूतैव वृत्तिर् भातीत्य् अर्थः । यतस् त्वं विष्णोः कलाऽसि । विष्णुश् च नाश्नाति, अनश्नन्न् अन्यो अभिचाकशीति [श्वे।उ। ४.६] इति श्रुतेः । अत्र लिङ्गं विष्णोर् इव अनिमिषोन्मकरौ रत्न-नेत्रत्वेन निमेष-शून्याव् उत्कृष्ट-मकरौ कुण्डलाकारौ ययोस् तौ ।

किं च, तव मुखं सर इत् सर इव । उद्विग्न-मीन-युगलम् इव नेत्र-द्वयं यत्र तत् । द्विजा हंसा दन्ताश् च, तेषां पङ्क्त्या शोचिः शोभा यस्मिंस् तत् । आसन्नो भृङ्ग-निकर इवालक-समूहो यस्मिंस् तत् ॥१३॥

—ओ)०(ओ—

**॥ ५.२.१४ ॥ **

योऽसौ त्वया कर-सरोज-हतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे ।
मुक्तं न ते स्मरसि वक्र-जटा-वरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥

**श्रीधरः : **पतङ्गः कन्दुको भ्रमतो भ्रमच्-चित्तस्य मेऽक्षिणी एजयते चञ्चलतां नयति। वक्र-केश-समूहं मुक्त-बन्धनं न स्मरसि न सम्भावयसि किम् ? कष्टो धूर्तोऽनिलो नीवीं हरत्य् एतन् न स्मरसि किम् ? ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कन्दुक-क्रीडाम् आलक्ष्याह—पतङ्गः कन्दूको भ्रमतो भ्रमच्-चित्तस्य मेऽक्षिणी एजयते चञ्चली-करोति। वक्रं जटा-वरूथं केश-समूहं मुक्तं मुक्त-बन्धनं न स्मरसि । कष्टो धूर्तः । नीवीं हरति एतच् च न स्मरसि किम् ? एतावांस् तव कन्दुक-क्रीडायाम् आवेश इति भावः ॥१४॥

—ओ)०(ओ—

**॥ ५.२.१५ ॥ **

रूपं तपोधन तपश् चरतां तपोघ्नं
ह्य् एतत् तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भव-भावनो मे ॥

**श्रीधरः : **उपलब्धं प्राप्तम् । मह्यं मम, हे मम मित्र, मया सह तपश् चर्तुम् अर्हसि । किं च, स वै भव-भावनः संसृति-विस्तारको ब्रह्मा मे प्रसीदति, त्वां भार्यां कल्पयतीत्य् अर्थः ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तपस्विनो मम तपस्वि-सङ्गोऽपेक्षित एवेत्य् आह—रूपम् इति । हे तपोधन! उप आधिक्येन लब्धम् । मह्यं मम सुखयितुम् मया सह तपश् चरितुम् अर्हसि । मे मां पूर्ण-मनोरथी-कर्तुं भव-भावना ब्रह्मा ॥१५॥

—ओ)०(ओ—

**॥ ५.२.१६ ॥ **

**न त्वां त्यजामि दयितं द्विज-देव-दत्तं **
यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् ।
मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥

**मध्वः : **परिहास-प्रलापादिषु अनर्थ-वचनं भवेत् ॥ इति शब्द-निर्णये ॥१६॥

**श्रीधरः : **द्विज-देवेन ब्रह्मणा दत्तम् । दृक् मनश् च लग्नं सन् नापयाति । हे चारु-शृङ्गि, यतस् ते चित्तं तत्र मां त्वद्-अधीनं नेतुम् अर्हसि । सचिव्यस् तव सख्योऽपि शिवा अनुकूलाः सत्यो मां प्रतिसरन् त्व् अनुवर्तन्ताम् । यद् वा, एतावत् पर्यन्तं मे याः सचिव्यः सख्यः शिवाः फेरवस् ताः प्रतिसरन्तु निर्यान्तु । यद् वा, वन-वासे सह-चर्यो हरिण्यः शिवाः प्रतिसरन्तु प्रदक्षिणं गच्छन्तु ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु त्वया मम किं फलं तद् इतो यामीत्य् आशङ्क्याह—न त्वाम् इति । यतो द्विज-देवेन ब्रह्मणा, यस्मिंस् त्वयि लग्नं न वियाति न विगतं भवति । हे चारु-शृङ्गि ! उन्नत-स्तनीति स्त्री-लिङ्गेन सम्बोधनम् अतिकाम-वैवश्येनावहित्थाया नाशं द्योतयति । यतः यत्र देशे तव चित्तं, तत्रैव । सचिव्यस् तव सख्योऽपि शिवाः अनुकूलाः सत्यः मां प्रत्सरन्तु अनुवर्तताम् ॥१६॥

—ओ)०(ओ—

**॥ ५.२.१७ ॥ **

श्री-शुक उवाच—

इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया परिभाषया तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस।

**श्रीधरः : **ग्राम्येषु वैदग्ध्यं यस्याः, तया परिभाषया वाचा । सभाजयामास पूजयामास। संमुखी-चकारेत्य् अथः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ग्राम्याणाम् इव वैदग्ध्यं यस्यां तया ॥१७॥

—ओ)०(ओ—

**॥ ५.२.१८ ॥ **

सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे।

**श्रीधरः : **बुद्ध्य्-आदीनां द्वन्द्वैक्यम् ॥१८-१९॥

**क्रम-सन्दर्भः : **अयुतायुतं न्यर्बुदम् । नृपत्वे भौम-भोगान् देवत्वे स्वर्ग-भोगांश् च ॥१८॥

**विश्वनाथः : **बुद्ध्य्-आदीनां द्वन्द्वैक्यम् गालव-मते य-कारः अयुतायुतं न्यर्बुदम् ॥१८॥

—ओ)०(ओ—

**॥ ५.२.१९ ॥ **

तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत्।

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ५.२.२० ॥ **

सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे।

**श्रीधरः : **सूत्वा प्रसूय । उपतस्थेऽभजत् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **गृहे राज्ञो भवन एवापहाय अप्सरस्त्वात् तेषु वात्सल्यम् अपि पूर्व-कृतं त्यक्त्वा ॥२०॥

—ओ)०(ओ—

**॥ ५.२.२१ ॥ **

आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः।

**श्रीधरः : **औत्पत्तिकेनैव स्वभावेन । संहननं दृढाङ्गत्वम् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मातुर् अनुग्रहात् तदीय-स्तन-पानात् औत्पत्तिकेनैव स्वाभाविकेन संहननं दृढाङ्गत्वं, बुभुजुः पालयामासुः ॥२१॥

—ओ)०(ओ—

**॥ ५.२.२२ ॥ **

आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते।

**श्रीधरः : **कामानां भोगैः । अध्य् अधिकं मन्यमानः । श्रुतिभिर् वेदोक्तैः कर्मभिः । अवारुन्ध प्राप । मादयन्ते मोदन्ते ॥२२॥

**क्रम-सन्दर्भः : **यत्र पितर इति तत्र पितॄणाम् अधिकारित्वं वर्तत इति ज्ञेयम् ॥२२॥

**विश्वनाथः : **कामानां कामैः श्रुतिभिः श्रुत्य्-उक्त-तादृश-कर्मभिः । अवारुन्ध प्राप । मादयन्ते मोदयन्ते मोदन्ते ॥२२॥

—ओ)०(ओ—

**॥ ५.२.२३ ॥ **

सम्परेते पितरि नव भ्रातरो मेरु-दुहितॄर् मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन्।

**श्रीधरः : **इत्य् एवं भूताः संज्ञा यासां ताः परिणीतवन्तः ॥२३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चमे द्वितीयोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
आग्नीध्र-वर्णनं द्वितीयोऽध्यायः ।

॥ ५.२ ॥

(५.३)


  1. द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति ॥ ↩︎