॥ ५.१.१ ॥
राजोवाच—
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहे1ऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥
**श्रीधरः : **श्री-गणेशाय नमः । नमः श्रीमत्-परमहंसास्वादित-चरण-कमल-चिन्-मकरन्दाय भक्त-जन-मानस-निवासाय श्री-रामचन्द्राय ॥
अथातः पञ्चम-स्कन्ध-व्याख्यानेक-विशेषवान् ।
प्रियव्रतान्वयो यत्र स-प्रपञ्चः प्रपञ्च्यते ॥
षड्-विंशत्याधुनाध्यायैः पञ्चमे स्थानम् ईर्यते ।
लोक-द्वीपादि-मर्यादा पालनाख्यम् अनेकधा ॥
पृथिव्य्-उपर्य्-अधो-लोकैर् मर्यादा त्रिविधा मता ।
पुनश् चैकैकशस् तेषु मर्यादा बहुधा मता ॥
भुवि द्वीपादि-मर्यादाः पाल्यन्ते राजभिः पृथक् ।
भूमेर् उपरि देवाद्यैस् ततश् चाधोऽसुरादिभिः ॥
तत्राध्यायैस् तु विंशत्या प्रियव्रत-पुरः-सरैः ।
भुवि द्वीपादि-मर्यादाः पालिता इति वर्ण्यते ॥
त्रिभिः सूर्यादिभिर् ज्योतिश् चक्रादिष्व् इति कीर्त्यते ।
अतलादिषु दैत्याद्यैः पालनं च ततस् त्रिभिः ॥
तत्र तु प्रथमेऽध्याये ज्ञानिनो राज्य-निर्वृतिः ।
पुनश् च ज्ञान-निष्ठेति प्रियव्रत-कथाद्भुता ॥
वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम ।
यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ [भा।पु। ४.३१.२६-२७]
इति पूर्व-स्कन्धान्ते प्रियव्रतस्य प्रथमम् आत्म-विद्या, ततो गृहाश्रमः, ततः सर्व-सङ्ग-त्यागेन मोक्ष इत्य् उक्तम् । तत्र विस्मितः पृच्छति । प्रियव्रतो भागवतोऽत एव आत्मारामो गृहे कथम् अरमत ? ननु रमतां को दोषः ? इति चेत्, अत आह । कर्मणां बन्धः पराभवश् च स्वरूप-तिरस्कारो यन्-मूलो भवति, यद् गृहं मूलं कारणं यस्य ॥१॥
**क्रम-सन्दर्भः : **
पञ्चम-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
अथ पञ्चम-स्कन्धस्य क्रम-सन्दर्भः—
स्वामि-पादैर् न यद् व्यक्तं यद् व्यक्तं चास्फुटं क्वचित् ।
तत्र तत्रैव लेख्योऽयं सन्दर्भः क्रम-नामकः ॥
वैष्णवापरितोषः स्याद् यत्र यत्र ततस् ततः ।
लेख्यं वैष्णव-सिद्धान्त-दाक्षिण्येनैव किञ्चन ॥
भागवत आत्माराम इति भवद्-आदिवद् आत्मारामेष्व् अपि भागवत इत्य् अर्थः । अत एवाग्रेऽप्य् अस्य मुख्यं भागवतत्वम् एवानुवदिष्यते, न तु गौणम् आत्मारामत्वम् । ततश् चात्मारामत्वेऽपि गृहारामत्वं न सम्भवति, कुतस्तरां भागवतत्वेऽपीत्य् आह—कथं मुन इति । ततश् च सुतरां मोक्षोऽपि न सम्भवतीत्य् आह—यन्-मूल इति । कर्मणां बन्धः पराभवश् च स्वरूप-तिरस्कारो यतो भवति, यद् गृहं मूलं यस्य ॥१॥
**विश्वनाथः : **
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
त्रिभिः प्रियव्रताग्नीध्र-नाभीनां चरितं क्रमात् ।
आर्षभं त्रिभिर् अध्यायैर् भरतस्य तथाष्टभिः ॥
गयोपाख्यानम् एकेन चतुर्भिर् जम्बु-संज्ञितः ।
द्वीपो निरूप्यते द्वीपान्तर-शैल-नगादिकम् ॥
एकेन ज्योतिश्चक्रादि द्वाभ्याम् ध्रुव-पदं ततः ।
एकेन द्वाभ्याम् सूर्याध आशेष-स्थानम् उच्यते ॥
एकेन नरकं चैव पञ्चम-स्कन्ध-सङ्ग्रहः ॥
तत्र स्थानं तच् च देवादिभिः पालनम् उच्यते ।
देवासुर-नरादीनाम् ऊर्ध्वाधो-मध्य-वर्तिनाम् ॥
तत्र तु प्रथमे ब्रह्म-गिरं सम्मानयन् व्यधात् ।
राज्यं प्रियव्रतः पश्चाद् विरज्यावाप माधवम् ॥
वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम ।
यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ [भा।पु। ४.३१.२६-२७]
इति पूर्व-स्कन्धान्ते प्रियव्रतस्य प्रथमम् आत्मारामत्वं ततो विषय-भोग इति श्रुत्वा विस्मितः पृच्छति—प्रियव्रत इति । भागवत इत्य् आत्मारामत्वेऽपि भवान् इवातिविशीष्ट इत्य् अर्थः । यन्-मूलः गृहासक्ति-हेतुकः कर्म-बन्धो भवति, स च शुद्धः शुद्ध-जीवस्य तस्य पराभव-प्रदत्वात् पराभवः ॥१॥
—ओ)०(ओ—
**॥ ५.१.२ ॥ **
न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्व् अभिनिवेशोऽयं पुंसां भवितुम् अर्हति ॥
**श्रीधरः : **गृहेषु रतिश् च तत्राभिनिवेशात् स्यात्, स च भागवतानाम् आत्मारामाणां न सम्भवतीत्य् आह—न नूनम् इति ॥२॥
**क्रम-सन्दर्भः : **तद् एव स्पष्टयति—न नूनम् इत्य्-आदि ॥२॥
**विश्वनाथः : **भागवतत्वे सत्य् अन्यत्रासक्तिर् न सम्भवतीत्य् आह—न नूनम् इति ॥२॥
—ओ)०(ओ—
**॥ ५.१.३ ॥ **
महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः ।
छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः ॥
**श्रीधरः : **गृहासक्तिर् हि कुटुम्बादि-स्पृहया भवति, सा च तेषां नास्तीत्य् आह—महताम् इति । उत्तम-श्लोक-पादयोश् छाया कामादि-सन्ताप-हारिणी तया निर्वृतं चित्तं येषां स्पृहा-युक्ता मतिर् नास्ति ॥३॥
क्रम-सन्दर्भः : छाया आश्रयः कान्तिर् वा । स्पृहा तावन् नास्त्य् एव । मतिस् तद्-अनुसन्धानं च नास्तीत्य् अर्थः ॥३॥
**विश्वनाथः : **भगवत्य् आसक्तेर् हेतुम् आह—महताम् इति । छाया संसार-सन्ताप-निवर्तिका तयेति येषां चित्तं सदा भगवच्-चरणानुगामीति ध्यान-युक्तो भवति । **स्पृहा **सैव अमतिर् अज्ञानम् ॥३॥
—ओ)०(ओ—
**॥ ५.१.४ ॥ **
संशयोऽयं महान् ब्रह्मन् दारागार-सुतादिषु ।
सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥
**श्रीधरः : **दाराद्य्-आसक्तस्य तु मोक्षः श्री-कृष्णेऽस्खलिता मतिश् चाभूद् इति यद् अयं च महान् संशय इत्य् आह—संशय इति ॥४॥
क्रम-सन्दर्भः : सिद्धिर् भगवत्-सामीप्यादि-रूपा । न केवलं तस्याम् एव संशयः, अपि तु तत्-साधन-रूपायां तादृश-तन्-मताव् अपीत्य् आह—कृष्णे चेति ॥४॥
**विश्वनाथः : **भवतु वा कथञ्चिद् अपराध-वशात्, किन्तु तत्रापि तस्य सिद्धिः कृष्णासक्तिश् च न च्युतेति कथम् ? ॥४॥
—ओ)०(ओ—
॥ ५.१.५॥
श्री-शुक उवाच—
बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद्-अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति।
**श्रीधरः : **अङ्गीकृत्य परिहरति—बाढम् इति । बाढम् अभिनिवेशादिकं नास्तीति सत्यम् एव, तथापि विघ्न-वशेन तेषां प्रवृत्तिः पूर्वाभ्यास-बलेन पुनर् निवृत्तिश् च सङ्गच्छत इत्य् आह—भगवतः श्रीमच्-चरणारविन्द-मकरन्द-रूपो यो रसस् तस्मिन्न् आवेशितं चेतो यैस् तेऽपि केनचिद् अन्तरायेण विघ्नेन विहताम् अपि स्वां शिवतमां पदवीं मार्गं न हिन्वन्ति, न त्यजन्ति । काम् ? भागवता एव परमहांसास् तेषां दयितस्य प्रियस्य श्री-वासुदेवस्य कथाम् ॥५॥
**क्रम-सन्दर्भः : **भागवता ये परमहंसा इति पूर्ववत् । शिवतमाम् अन्तरायेष्व् अपि भगवच्-चित्त-तापादनेन परम-कल्याण-रूपाम् इत्य् अर्थः ॥५॥ [प्रीति-सन्दर्भ ७७]
**विश्वनाथः : **अङ्गीकृत्य परिहरति—बाढम् इति । आत्मारामस्य गृहारामता, गृहासक्तस्य च कृष्णासक्तिर् इत्य् उभे न सम्भवत इति सत्यम् एव, तद् अप्य् अतिमहतां दुर्वितर्क्य-चरितानां कापि कादाचित्की विषयासक्तिस् त्वया न विश्वसनीयेत्य् आह—भगवत इति । आवेशित-चेतसो जना भागवती भगवतः सम्बन्धिनी चासौ परमहंसानां दयिता प्रियतमा च या कथा, तां किञ्चिन्-मात्रेण अन्तरायेण विघ्नेन विहतां स्थगितीकृतां न प्रायेण हिन्वन्ति न त्यजन्ति । कीदृशीं ? स्वां शिवतमां पदवीम् इति तत्-कथैव भक्तानां पदवी सुख-मयं वर्त्म, तयैव गम्यो भगवान् इत्य् अर्थः ।
ननु,
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥ [भा।पु। १०.२.३३]
इत्य्-आद्य्-उक्तेर् भक्तानाम् अन्तरायो नास्त्य् एव ? सत्यं, काल-कर्मादि-हेतुकोऽसौ नास्त्य् एव । किन्त्व् अन्तरायो हि भक्तानां द्विविधः, महद्-अपराध-हेतुको भगवद्-इच्छा-हेतुकश् च । तत्र महद्-अपराधो हि समुचित-कष्ट-भोगेन चिर-कालत एव, तस्यैव महतः कृपया सद्य एव च शाम्यति । यथा द्विविदादीनां रहूगणादीनां च । भगवद्-इच्छा च स्व-भक्त-सदाचार-शिक्षणार्था । तद्-उत्थो विघ्नस् तु प्रेम-वर्धनार्थ एव, यथा भरतादीनाम् । तत्र प्रियव्रतस्यापराधाभावाद् भगवद्-इच्छा-निबन्धन एव विघ्नोऽयम् । तत्र गुण-बुद्ध्यापि भक्तैः क्वापि ममता न कर्तव्येति यथा भरतस्य मृग-पोषण-प्रदर्शनया स्व-भक्ता भगवता शिक्षिताः, तथा महद्-आज्ञा हि भक्त्य्-अनुपयोगिन्य् अपि भक्तैः प्रतिपालनीयैवेति प्रियव्रत-कर्तृक-ब्रह्माज्ञा-प्रतिपालन-प्रदर्शनया शिक्षिता इति ज्ञेयम् ॥५॥
—ओ)०(ओ—
॥ ५.१.६ ॥
**यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो **
**नारदस्य चरणोपसेवयाञ्जसावगत-परमार्थ-सतत्त्वो **
ब्रह्म-सत्रेण दीक्षिष्यमाणोऽवनि-तल-परिपालनाय
**आम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन **
**समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दत्, **
**यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण **
आत्मनोऽन्यस्माद् असतोऽपि पराभवम् अन्वीक्षमाणः ।
श्रीधरः : प्रियव्रतस्य ब्रह्माज्ञैवान्तराय-रूपा बभूवेति स-प्रसङ्गम् आह—यर्हीत्य्-आदिना, विमुक्त-सङ्गः प्रकृतिं भजस्व [भा।पु। ५.१.१९] इत्य्-अन्तेन । यर्हि वाव ह यदा हि । वावेति प्रसिद्ध्य्-आदौ, ह इति च । स स्व-पित्रा मनुनाऽवनि-तल-परिपालनायोपामन्त्रितो नियुक्तो नैवाभ्यनन्दन् नैच्छत् । अथ ह तदैव** भगवान् अदि-देवो ब्रह्मा स्व-भवनाद् अवततार **[७] इत्य् अन्वयः ।
उपामन्त्रणे हेतुः—आम्नाता राज्ञां शास्त्रेणोक्ता ये प्रवराः श्रेष्ठा गुणस्यैकान्त-भाजनतया नियताश्रयत्वेन ।
अनिच्छायां हेतुः—परमार्थ-स-तत्त्वम् आत्म-याथात्म्यम् अवगतं तद् येन स तथा । अतो ब्रह्म-सत्रेण आत्म-ध्यानेन कार्येण दीक्षिष्यमाणो नियमं ग्रहीष्यन् । प्राग् अपि वासुदेव एव निरन्तर-समाधि-योगेन चित्तैकाग्र्येण समावेशितः समर्पितः सकल-कारकाणाम् इन्द्रियाणां याः क्रियास् तासां कलापो येन सः । यद्यपि तत् पित्रोक्तं न [अप्रत्याम्नातव्यं] प्रत्याख्येयं, तथापि तद्-अधिकरणे राज्याधिकारेऽसतोऽपि मिथ्या-भूताद् अपि राज्य-प्रपञ्चाद् आत्मनः पराभवम् [अन्वीक्षमाणः] आलोचयन् नाभ्यनन्दत् ॥६॥
क्रम-सन्दर्भः : राज-पुत्र इति नव-वयस्त्वं ज्ञापितम् । तत्र स्वभावत एव परम-भागवतः । ततो नारदस्य इत्य्-आदि । ततो भगवति वासुदेव इत्य्-आदि । ततो ब्रह्म-सत्रेण इत्य्-आदि । ततोऽवनि-तल-परिपालनाय इत्य्-आदि । ततो नैवाभ्यनन्दद् इति योज्यम् । तत्र परमार्थ-स-तत्त्वं भगवत्-तत्त्वम् । कारकाणि स्वाभाविकेन्द्रिय-चेष्टाः । क्रिया-कलापाश् च शास्त्रोक्ताः । तेषां समर्पणं च—यत् करोषि यद् अश्नासि [गीता ९.२१] इत्य्-आदिना, ब्रह्मार्पणं ब्रह्म-हविः [गीता ४.२४] इत्य्-आदिना च श्री-गीतोक्त-प्रकारेण ज्ञेयम् । ब्रह्म-सत्रेणेत्य् अतः परं भगवत्-तत्त्व-मात्रं परस्परं विचारयितव्यम् । नान्यत् किम् अपि कर्तव्यम् इति सङ्कल्पेन दीक्षिष्यमाणो नियमं कर्तुम् उद्यत इत्य् अर्थः ॥६॥
**विश्वनाथः : **प्रियव्रतस्यात्मारामत्वम् औत्पत्तिकम् एव श्री-नारद-कृपया परम-भागवतत्वं श्री-ब्रह्माज्ञया गार्हस्थ्यं चाह—यर्हीत्य्-आदिना । वाव इत्य् एवार्थे । यर्ह्य् एव प्रियव्रतः स्व-पित्रा अवनि-तल-परिपालनाय उपामन्त्रितो नियुक्तोऽपि, तन् नैवाभ्यनन्दत्, तदा ब्रह्मा स्व-भवनाद् अवततार [७] इत्य् अन्वयः ।
अञ्जसा शीघ्रं स-तत्त्वं ब्रह्म-सत्रेण आत्म-ध्यानेन दीक्षिष्यमाणो दीक्षां प्राप्स्यन्, अतः परं सच्-चिद्-आनन्द-मात्रं यद् वस्तु तद् एवानुभवनीयं, न तु प्राकृतं किम् अपीति सङ्कल्पेन नियमं कर्तुम् उद्यत इत्य् अर्थः । तत्-क्षण एव पित्रा मनुना आम्नाता राज्ञां शास्त्रेणोक्ता ये प्रवरा गुणास् तेषां गणस्य एकान्त-भाजनतया नियताश्रयत्वेन हेतुना । “हे प्रियव्रत ! सम्प्रति त्वम् अवनिं पालय” इत्य् उपामन्त्रितस् तैस् तन् नाभ्यनन्दत् स्वस्याभद्रम् अमन्यतेति नैच्छद् इत्य् अर्थः । कुतः ? भगवति अव्यवधान-समाधि-योगेन निरन्तर-चित्तैकाग्र्येण सम्यग् निवेशितः सकलानां कारकाणाम् इन्द्रियाणां व्यापार-समूहो येन सः। यद्यपि तत् पित्रोक्तम् अप्रत्याम्नातव्यम् अप्रत्याख्येयं, तद् अपि नाहं राज्यं करोमीति प्रत्याख्यातवान् एवेत्य् अर्थः ।
कुतः ? तद्-अधिकरणे राज्याधिकारे आत्मनः स्वस्य अंशतोऽसाधु-भूताद् अपि काम-क्रोधादेः सकाशात् पराभवं पर्यालोचयन् ॥६॥
—ओ)०(ओ—
॥ ५.१.७ ॥
**अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य **
**परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय **
**आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः **
स्व-भवनाद् अवततार।
श्रीधरः : गुण-विसर्गस्य गुण-सृष्टेः परिबृंहणं समृद्धिस् तद्**-अनुचिन्तया व्यवसितः सकल-जगताम् अभिप्रायो** येन सः । यथा राज्ञा चरैर् मण्डलेश्वराणाम् अभिप्रायो निश्चीयते, तद्वत् । अखिलैर् निगमैर् मूर्तिमद्भिर् वेदैर् निज-गणैश् च मरीच्य्-आदिभिः परिवृतः सत्य-लोकाद् अवतीर्णः ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अथ ह ततश् च **आदि-देवो **ब्रह्मा गुण-विसर्गस्य जगत्-सृष्टेः परिबृंहणं समृद्धिस् तद्-अनुचिन्तया व्यवसितः सकल-जगताम् अभिप्रायो येन सः । यथा राज्ञा चारैर् मण्डलेश्वराणाम् अभिप्रायो निश्चीयते, तद्वत् । अखिलैर् निगमैर् मूर्तिमद्भिर् वेदैर् निज-गणैश् च मरीच्य्-आदिभिः परिवृत इति प्रियव्रतं प्रत्युपदेष्टव्ये धर्मे प्रमाणीकरणार्थं सत्य-लोकाद् अवतीर्णो भू-तलम् इति शेषः ।
तत्र प्रियव्रतं बाल्यम् आरभ्यैव विरक्तं गृहान् निर्विद्य वन एव कृत-वासं ज्ञात्वा, तद्-आज्ञया कनिष्ठोऽप्य् उत्तानपादो राज्यं चकार । तद्-वंश्याश् च प्रचेतः-पर्यन्ता यथा-समयं राज्यं चक्रुः । एवं च स्वायम्भुव-मन्वन्तरस्यार्धाद् अप्य् अधिकः कालो गच्छति स्म । प्राचेतसो दक्षस् तु स्वायम्भुवे मन्वन्तर एव लब्ध-जन्मा पौर्वभविकैश्वर्य-कामनया तपसे जगाम, ततश् चाराजकं वीक्ष्य मनुर् उपायान्तरम् अनालोच्य विरक्तम् अपि प्रियव्रतं वनाद् आनिनीषन्न् अप्य् आनेतुं यदा न शशाक, तदा ब्रह्मैवागत्य प्रियव्रतं राज्ये प्रवर्तयामास । ततश् च प्रथम-मन्वन्तर-पर्यन्तं क्रमेण प्रियव्रतस्य तद्-वंश्यानां राज्ञां चाधिकारः, तृतीय-चतुर्थ-पञ्चम-मनूनाम् उत्तम-तामस-रैवतानां प्रियव्रत-पुत्रत्वात् द्वितीय-मनोः स्वारोचिषस्यापि तद्-अन्तः-पातात् । तत्-तन्-मनु-पुत्र-पौत्राद्यास् तु प्रैयव्रता एव राज्ये खण्ड-मण्डलेश्वर-रूपा राजानो बभूवुः ।
ततश् च षष्ठस्य चाक्षुष-मन्वन्तरस्यारम्भे तपसो निवृत्तेन दक्षेण प्रजा-सृष्टिस् तत्रैव तस्य साम्राज्यं च । यद् उक्तं—
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ [भा।पु। ४.३०.४९] इति ।
चाक्षुषस्य मनोर् उत्तानपाद-वंश्यत्वात् तन्-मन्वन्तर-पर्यन्तम् एव स्वायम्भुव-मनोर् अधिकार इति ज्ञेयम् ॥७॥
—ओ)०(ओ—
॥ ५.१.८ ॥
**स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् **
**अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः **
**पथि पथि च वरूथशः **
**सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो **
गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प।
**श्रीधरः : **स च ब्रह्मा तत्र तत्र उडु-पतिश् चन्द्र इव प्रकाशमानो गन्धमादनस्य द्रोणीं दरीम् अवभासयन्न् उपससर्प इत्य् अन्वयः । अमर-परिवृढैः देवेन्द्रादिभिः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भू-तलं प्रति तस्यावतरणे शोभाम् आह—स ब्रह्मा । परिवृढैर् मुख्यैः कीदृशैः ? विमानानाम् आवलिर् येषां तैः ॥८॥
—ओ)०(ओ—
॥ ५.१.९ ॥
**तत्र ह वा एनं देवर्षिर् हंस-यानेन **
**पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् **
अवहिताञ्जलिर् उपतस्थे।
श्रीधरः : हंस-यानेन उपलक्षणेन एनं पितरम् उपलभमानो मत्-पितायम् इति लक्षयन् पिता-पुत्राभ्यां मनु-प्रियव्रताभ्यां सह नारदः कृताञ्जलिः सन् सहसैव अभ्युत्थाय अर्हणेन पूजया सह उपतस्थे तुष्टाव । प्रियव्रतं तदा मन्दर-द्रोण्यां नारद उपदिशति, मनुश् च तं नेतुम् आगतोऽस्तीति ज्ञातव्यम् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हंस-यानेन उपलक्षणेन, पिता-पुत्राभ्यां मनु-प्रियव्रताभ्याम् ॥९॥
—ओ)०(ओ—
॥ ५.१.१० ॥
**भगवान् अपि भारत तद्-उपनीतार्हणः **
**सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः **
प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच।
**श्रीधरः : **हे भारत ! भगवान् आदि-पुरुषो ब्रह्मापि तं प्रियव्रतम् इति होवाच इत्य् अन्वयः। तेन नारदेन उपनीतम् अर्हणं यस्य सः । सूक्त-वाकेन यथोचित-वाक्येन । अतिशयेन उदिता वर्णिता गुण-गणा अवताराः सुजयाः सर्वोत्कर्षाश् च यस्य ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तदा नारदस् तत्र प्रियव्रतम् उपदिशति—मनुस् तं नेतुम् आगतोऽस्तीति ज्ञेयम् । भगवान् ब्रह्मापि प्रियव्रतम् उवाच—तैर् नारद-मनु-प्रियव्रतैर् **उपनीतम् अर्हणं **यस्मै सः । उदितो वर्णितो गुण-गणः स्व-प्रजासु वात्सल्यादिः, तत एव हेतोर् अवतारः सत्य-लोकाद् अवतरणं, तत एव सुजय अत्युत्कर्षो यस्य सः ।
सदयेति । अस्याभिवाञ्छित-भक्ति-ज्ञान-वैराग्याणाम् अहम् एव प्रतिबन्धकोऽभूवं, तद्-गार्हस्थ्येऽप्य् अस्य भक्तिर् वर्धताम् एवेत्य् आशीर् व्यञ्जकः सदयावलोकः । अहं राज्यं न करोमीति तव प्रौढिः, त्वाम् अहं राज्यं कारयामीति मम प्रौढिस् तत्र पश्यामः कस्याद्य प्रौढिस् तिष्ठतीति नप्तरि प्रियव्रते सहासावलोकश् च यस्य सः ॥१०॥
—ओ)०(ओ—
॥ ५.१.११ ॥
श्री-भगवान् उवाच—
निबोध तातेदम् ऋतं ब्रवीमि
मासूयितुं देवम् अर्हस्य् अप्रमेयम् ।
वयं भवस् ते तत एष महर्षिर्
वहाम सर्वे विवशा यस्य दिष्टम् ॥
**श्रीधरः : **प्रवृत्ति-निष्ठं मद्-वाक्यं प्रतिकूलं मत्वा मय्य् असूयां करिष्यतीति शङ्कमानो नाहम् एवं वदामि, किन्तु मन्-मुखेन हरिर् एव त्वाम् आज्ञापयतीति वदन् प्रवृत्ति-निवृत्ति-रहस्यम् आह—निबोधेति नवभिः । ऋतं सत्यम् । अप्रमेयं देवम् असूयितुं दोषारोपेण द्रष्टुं नार्हसि । ते तव ततस् तात एष त्वद्-गुरुश् च महर्षिः । दिष्टम् आदिष्टम् आज्ञां विवशा अस्वतन्त्राः सन्तो वहाम ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रवृत्ति-निष्ठं मद्-वाक्यं स्वासह्यं मत्वा मय्य् असूयां मा कृथाः । भोः प्रियव्रत! अहं तु त्वत्-प्रभोर् एवाधीनः, तस्यैवाभिप्रेतं वच्मीत्य् आह—निबोध स्व-बुद्ध्यैवेदं परामृशेत्य् अर्थः । हे तात ! इति नाहं तव शत्रुर् यत् त्वां दुःखयामीति भावः। ऋतं सत्यम् एव, न त्वाम् अहं प्रतारयामीति भावः । ब्रवीमि इत्य् अहं ब्रह्मा, न तु स्व-पितेवाहम् अप्य् अप्रमाणीकर्तव्य इति भावः ।
किं सत्यम् ? तत्राह—वयम् इति । भवो रुद्रोऽपि, ते तव ततस् तातो मनुर् महर्षिर् नारदोऽयं तव गुरुर् इत्य् अतो वयं यस्य दिष्टम् आज्ञाम् एव वहाम, स खलु यस्मै यस्मै हृदा यद् यद् आदिशति तथैव चेष्टते इति तद्-आज्ञयैव त्वाम् अहं राज्ये प्रवर्तयामीति भावः । यम् अहं सर्वात्मना भजे, स प्रभुर् एव मां संसार-सिन्धौ निमज्जयतीति स्वेष्ट-देवेऽपि दोष-दर्शी मा भूर् इत्य् आह—मासूयितुम् इति । अप्रमेयं प्रमातुम् अशक्यं कम् अपि संसारेऽपि प्रवर्त्य शीघ्रम् उद्धरति, कम् अपि वनेऽपि प्रस्थाप्य नोद्धरतीति कस् तस्य चरितं वेद ? इति भावः ॥११॥
—ओ)०(ओ—
**॥ ५.१.१२ ॥ **
न तस्य कश्चित् तपसा विद्यया वा
न योग-वीर्येण मनीषया वा ।
नैवार्थ-धर्मैः परतः स्वतो वा
कृतं विहन्तुं तनु-भृद् विभूयात् ॥
**श्रीधरः : **विवशत्वम् एवाह चतुर्भिः—नेति । तस्य कृतं तेन निर्मितं तनु-भृज् जीवस् तप-आदिभिर् विहन्तुम् अन्यथा कर्तुं न विभूयात्, प्रभूर् न भवेत् । मनीषया सामादि-बुद्धि-बलेन । परतो बलवद् आश्रयात् ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न चात्र स्व-हठं रक्षितुम् आत्मनस् तपो-विद्या-योग-बलं प्रदर्शयितव्यम् इत्य् आह—नेति । तस्य कृतं तेन निर्मितं तप-आदिभिर् विहन्तुम् अन्यथा कर्तुं तनु-भृज् जीवो न विभूयात् न प्रभवेत् ।
ननु त्वद्-द्वारा मां राज्ये प्रभुः प्रवर्तयति यथा, तथा महर्षि-द्वारा मां राज्यात् प्रव्राजयति चेति । किम् अत्र निश्चिनोमि ? इति चेत्, बुद्धि-बलेन मां परमेश्वरं विजिगीषस्वेत्य् आह—मनीषया वेति । तेनोभयम् अपि भगवद्-आदिष्टं मत्वा राज्यं चिकीर्षस्व नापीमां विपदं बहु-धर्मैर् बलवद्-आश्रयेण वा स्व-बाहु-बलेन वोत्तितीर्षेत्य् आह—नैवार्थ- इत्य्-आदि ॥१२॥
—ओ)०(ओ—
**॥ ५.१.१३ ॥ **
भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देह-योगम्
अव्यक्त-दिष्टं जनताङ्ग धत्ते ॥
**श्रीधरः : **तत्र देह-योगे तावत् पारतन्त्र्यं प्रसिद्धम् इत्य् आह—भवायेति । भवो जन्म। भवाद्य्-अर्थम् अव्यक्तेन ईश्वरेण दिष्टं दत्तं देह-योगं जनता जीव-समूहः सदा धत्ते, न त्व् अन्यथा कर्तुं शक्नोति । अङ्ग ! हे प्रियव्रत ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नात्र किम् अपि शोचनीयं यतो देह-धारिण ईश्वराधीना भद्रम् अभद्रं वा स्वेच्छया परेच्छया वा सर्वं सहन्त एवेत्य् आह—भवायेति । भव-नाशौ पुनः पुनर् जन्म-मृत्यू तद्-आद्य्-अर्थं जनता जीव-समूहः । अव्यक्तेन ईश्वरेण दिष्टं दत्तं देह-योगं सदा धत्ते, स्व-कर्मोपार्जितम् अपि देहम् ईश्वराज्ञां विना न प्राप्नोति, यथा साध्व्-असाधु-क्रियाद्य्-उपार्जितम् अपि शालि-क्षेत्र-कारागारादिकं नृपाज्ञां विना प्रजा न प्राप्नोति, नृपः खल्व् अन्यथापि कुर्याद् इत्य् अतो हेतोः ॥१३॥
—ओ)०(ओ—
**॥ ५.१.१४ ॥ **
यद्-वाचि तन्त्र्यां गुण-कर्म-दामभिः
सुदुस्तरैर् वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिम् ईश्वराय
प्रोता नसीव द्विपदे चतुष्पदः ॥
**श्रीधरः : **कर्म-करणेऽपि पारतन्त्र्यम् आह—यद्-वाचीति । यस्य वाचि वेद-लक्षणायां तन्त्र्यां दामन्यां गुणाः सत्त्वादयस् तत्-पूर्वकाणि च यानि कर्माणि तन् निबन्धनैर् दामभिर् ब्राह्मणादि-शब्दैः सुदुस्तरैः सुदृढैः, हे वत्स ! वयं सर्वे सुयोजिता निबद्धाः सन्तस् तस्मै ईश्वराय बलिं वहामस् तद्-इच्छया कर्म कुर्मः । नसि नासिकायां प्रोता बद्धाः सन्तश् चतुष्पदो बलीवर्दा यथा द्विपदे पुरुषाय ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कर्म-करणेऽपि पारतन्त्र्यम् आह—यद् वाचीति । यस्य वाचि वेद-लक्षणायां तन्त्र्यां दामन्यां गुणाः सत्त्वादयस् तत्-पूर्वकाणि च यानि कर्माणि तन्-निबन्धनैर् दामभिर् ब्राह्मणादि-शब्दैः सुदुस्तरैः सुदृढैर् हे वत्स, वयं सर्वे सुयोजिता निबद्धाः तस्मै ईश्वराय बलिं वहामः, तद्-आदिष्टं कर्म कुर्मः । अत्र दृष्टान्तः—नसि नासिकायां प्रोता बद्धाः सन्तश् चतुष्पदो बलीवर्दा द्विपदे मनुष्याय, ते यथा मनुष्य-दत्तस्य भारस्यावहने गमनागमन-क्रियादिषु स्वातन्त्र्ये च दण्डं प्राप्नुवन्ति, तथा च वयम् अपीति भावाह् ॥१४॥
—ओ)०(ओ—
**॥ ५.१.१५ ॥ **
ईशाभिसृष्टं ह्य् अवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुण-कर्म-सङ्गात् ।
आस्थाय तत् तद् यद् अयुङ्क्त नाथश्
चक्षुष्मतान्धा इव नीयमानाः ॥
श्रीधरः : भोगेषु पारतन्त्र्यम् आह—ईशा ईश्वरेण अभिसृष्टं दत्तम् एव अङ्ग ! हे प्रियव्रत! अवरुन्ध्महे स्वीकुर्मः । यथा स्वामिना दत्तम् एव कणिशादि बलीवर्दा भक्षयन्ति, न स्वेच्छया तद्वत् । न चैवं वैषम्यम् ईश्वरस्य । यतो गुण-कर्म-सङ्गान् नाथो यद् यद् देव-तिर्यग्-आदि-लक्षणं देहम् अयुङ्क्त योजितवांस् तत् तद् आस्थाय स्वीकृत्य । यथाऽन्धाश् चक्षुष्मता छायाम् आतपं वा नीयमानाः सन्तस् तत्रैव गच्छन्ति, तद्वत् ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कर्म-फल-भोगेऽपि पारतन्त्र्यम् आह—ईशा ईश्वरेण अभिसृष्टं दत्तम् एव, अङ्ग ! प्रियव्रत ! अवरुन्ध्महे प्राप्नुमः दुःखं सुखं वेति न चात्र वैषम्यम् ईश्वरस्येत्य् आह—गुणेति । तम-आदि-गुण-निबन्धनानि यानि कर्माणि तेषु सङ्गाद् आसक्यत्वात् । यथा स्वीयत्वात् समेष्व् अपि बलीवर्देषु मध्ये साध्व्-असाधु-कर्म-करण-तारतम्यानुरूपम् एव केभ्यश्चिद् उत्तम-गृहाभ्यन्तरे स्थापितेभ्यः स-घृत-दुग्धोदनादिकं तत्-स्वामी दत्ते, केभ्यश्चन रूक्ष-रन्धि-चणक-माषादिकं, केभ्यश्चन कणिश-घासादिकं, केभ्यश्चन नीहारातप-पङ्कादिमतिः बहिः-स्थले स्थापितेभ्यः साक्रोश-दण्ड-प्रहारं विरसं दल-पलालादिकम् इति ।
किं कृत्वा अवरुन्ध्महे ? नाथः स्वामी यद् यद् अयुङ्क्त अभद्रं भद्रं वा फलं ददौ, तत् तद् आस्थाय अस्मद्-वैगुण्य-सादृग्-गुण्यानुरूपम् एव ददाति, “स्वामिनः को दोषः ?” इति मनसि विश्वस्येत्य् अर्थः । प्रत्युत परमेश्वरस्यात्र गुण एव द्रष्टव्य इति दृष्टान्तेनाह—चक्षुष्मतेति । शीतलम् आतप-तप्तं वा वर्त्म नीयमानास् तत्र कदाचित् शीतले वर्त्मनि कण्टक-कूर्पादिकं दृष्ट्वा यदा तप्तं वर्त्म नीयन्ते, तेन किम् अन्धैश् चक्षुष्मान् उपालभ्यते ? अपि तु हितकृद् अयम् इति विश्वस्य प्रशस्यत एवेति भावः ॥१५॥
—ओ)०(ओ—
**॥ ५.१.१६ ॥ **
मुक्तोऽपि तावद् बिभृयात् स्व-देहम्
आरब्धम् अश्नन्न् अभिमान-शून्यः ।
यथानुभूतं प्रतियात-निद्रः
किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते ॥
श्रीधरः : नन्व् एतत् सर्वम् अविदुष एव न त्व् आत्म-विद इत्य् आशङ्क्याह—मुक्तोऽपीति । यावत् प्रारब्धं कर्म तावत् । यथा स्वप्नेऽनुभूतं प्रतियात-निद्रो गत-निद्रोऽभिमान-शून्य एवानुस्मरति, तर्हि भोग-वासनया पुनर् जन्म भवेत्, तत्राह । किन्तु देहान्तरारम्भकान् गुणान् कर्माणि वासनाश् च न वृङ्क्ते न संयजते ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नन्व् एतत् सर्वम् अविदुषः कर्मिण एव, न तु कर्म-प्रस्थित उत्तीर्णस्यात्म-ज्ञानिन इत्य् आशङ्क्याह—मुक्तोऽपीति । यावत् प्रारब्धं कर्म तावत् । यथा स्वप्नेऽनुभूतं प्रतियात-निद्रो गत-निद्रोऽभिमान-शून्य एवानुस्मरति । तर्हि भोग-वासनाय पुनर् जन्म स्यात्, तत्राह—किन्त्व् अन्य-देहाय देहान्तरं प्राप्तुं गुणान् कर्माणि वासनाश् च न वृङ्क्ते न सम्भजते ॥१६॥
—ओ)०(ओ—
**॥ ५.१.१७ ॥ **
भयं प्रमत्तस्य वनेष्व् अपि स्याद्
यतः स आस्ते सह-षट्-सपत्नः ।
जितेन्द्रियस्यात्म-रतेर् बुधस्य
गृहाश्रमः किं नु करोत्य् अवद्यम् ॥
**श्रीधरः : **ननु गृहे वर्तमानस्य भोगान् भुञ्जानस्य कुतोऽभिमानाभावो मोक्षो वा ? अतस् तत्-त्यागेन वन-वास एव युक्तः, तत्राह—भयं संसारः स्याद् एव । प्रमत्तस्य अजितेन्द्रियस्य । वनेष्व् इति सङ्ग-भिया वनाद् वनान्तरं गच्छतोऽपीत्य् अर्थः । सहैव षट् सपत्नः शत्रवो मनो-बुध्दीन्द्रियाणि च यस्य स तथा-भूत एव वनेष्व् अपि, यत आस्ते बुधत्वेन जितेन्द्रियत्वाद् आत्मरतेर् आत्मारामस्य अवद्यं रागादि-दोषं किं नु करोति ? न करोत्य् एव ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु तद् अपीश्वराधीनत्वेऽपि मम सांप्रतिकाद् वन-वासात् भाविनि गृहे स्थितिर् अपकारं करिष्यत्य् एवेत्य् आशङ्क्याह—भयं संसारः सह-षट्-सपत्नः षड्-इन्दिर्य-शत्रु-सहितः । जितेन्द्रियस्य, तत्राप्य् आत्म-रतेर् आत्मारामस्य, तत्रापि बुधस्य वन-गृहयोस् तारतम्याभावं बुध्यमानस्य किम् अवद्यं रागादि-दोषम् ॥१७॥
—ओ)०(ओ—
**॥ ५.१.१८ ॥ **
यः षट् सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद् विपश्चित् ॥
**श्रीधरः : **ननु गृहे वसतः पुरुसास्य रागादयः सम्भवन्ति, न तु वन इत्य् आशङ्क्याह—य इति । यः षट् वैरिणः षड् इन्द्रियाणि विजिगीषमाणः, स पूर्वं गृहेषु स्थित्वा, तेषाम् अत्यन्तं निरोधम् अकुर्वन् जेतुं यतेत । क्षीणेष्व् अरिषु कामं गृहेऽन्यत्र वा विचरेत् । यतो लोके ऊर्जितारीन् दुर्गाश्रित एव अत्येति जयति । पश्चाद् दुर्गे वान्यत्र वा वर्तेत । युध्येतेति पाठे प्रहरेद् इत्य् अर्थः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अजितेन्द्रियो जितेन्द्रिय इन्द्रिय-जयेच्छुर् इत्य् अत्र लोके त्रिविधो जनः । तत्राद्ययोर् गृहाश्रमो न दोष इत्य् उक्तम् । अन्त्यस्य तु प्रत्युत गुण एवेत्य् आह—यो विजिगीषमाणः विजेतुम् इच्छति, स पूर्वं गृहेषु स्थित्वा, तेषाम् अत्यन्तं निरोधम् अकुर्वन् जेतुं यतेत । यतो लोके ऊर्जितान् बलिष्ठान् अरीन् दुर्गाश्रित एव अत्येति जयति । ततश् च क्षीणेष्व् अरिषु कामं गृहेष्व् अन्यत्र वा विचरेत् । युध्येतेति पाठे प्रहरेद् इत्य् अर्थः ॥१८॥
—ओ)०(ओ—
**॥ ५.१.१९ ॥ **
त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश-
दुर्गाश्रितो निर्जित-षट्-सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्त-सङ्गः प्रकृतिं भजस्व ॥
**मध्वः : **श्री-वेदव्यासाय नमः ।
विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना ।
तेन मुक्तिर् भवेत् तस्य तं गुरुर् वेद-सर्व-वित् ॥ इति प्रवृत्त-संहितायाम् ॥१९॥
**श्रीधरः : **इदं च गृह-दुर्गाश्रयणं प्राकृतानां, त्वं त्व् **अब्ज-नाभस्याङ्घ्रि-सरोज-कोश **एव दुर्गं तद्-आश्रितोऽत एव निर्जित-षट्-सपत्नश् च, तथापि पुरुषेण इशरेण अतिदिष्टान् दत्तान् सम्भोगांस् तावद् भुङ्क्ष्व । पश्चाद् विमुक्त-सङ्गः सन् प्रकृतिं स्वरूपं भजस्व । आत्म-निष्ठो भवेत्य् अर्थः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वं तु तेषु त्रिषु मध्ये न कोऽपीत्य् आह—त्वम् इति । तुर् भिन्नोपक्रमे, अब्जनाभेति, न त्व् अन्य-प्राकृतवद् गृह-दुर्गाश्रितः । न चान्य-वर्जितेन्द्रियश् च यतो निर्जितेति जित-षट्-सपत्नेभ्यो निर्गतः । तव षड्-इन्द्रियाणि भगवत्-सौन्दर्यादिष्व् आसक्तानि परम-मित्राण्य् एव, न तु शत्रवः । अतः पुरुषेण स्व-प्रभुणैवातिशयेन दिष्टान् दत्तान् भोगान् इति कर्म-जन्यानाम् एव भोगानां बन्धकत्वं, न त्व् ईश्वर-दत्तानाम् इति भावः । प्रकृतिं भजस्वेति पश्चाद् राज्य-भारं स्व-पुत्रे विन्यस्य वनेऽपि गत्वा तिष्ठ ॥१९॥
—ओ)०(ओ—
॥ ५.१.२० ॥
**इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् **
**अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो बाढम् इति **
स-बहु-मानम् उवाह।
श्रीधरः : आत्मनस् ततो लघुतयाऽल्पतया तच्-छासनम् अङ्गीचकार । यद् वा, आत्मनो यद् अनुशासनं तद् अलघुतया गौरवेण बाढं तथा करिष्यामीत्य् अवनत-कन्धरः सन् जग्राह ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आत्मनः स्वस्य लघुतया तत्-पौत्रत्वाद् इत्य् अर्थः ॥२०॥
—ओ)०(ओ—
॥ ५.१.२१ ॥
**भगवान् अपि मनुना यथावद् उपकल्पितापचितिः **
**प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् **
**आत्म-समवस्थानम् अवाङ्-मनसं क्षयम् **
अव्यवहृतं प्रवर्तयन्न् अगमत्।
श्रीधरः : मनुना सन्तुष्टेन उपकल्पिता पूजा यस्य । प्रियव्रतस्य योग-भ्रंशान् नारदस्य च शिष्य-नाशात् कुटिलम् ईक्षणं सम्भवति, तत् तु नास्तीत्य् आह । अविषमं यथा तथा तयोर् अभिसमीक्षमाणयोः सतोर् आत्मनः सम्यग्**-अवस्थानम्** अवाङ् मनसं वाङ्-मनसयोर् अविषयं क्षयं निवासं जगाम ।
पाठान्तरे अवाग्-वाचाम् अगोचरं कथञ्चिन् मनसः क्षयं विषयम्, अतोऽ**व्यवहृतं **व्यवहार-शून्यं ब्रह्म-निवृत्तं प्रवर्तयन् । व्यवहाराद् विषण्णः सन् व्यवहारातीतं स्वरूपं चिन्तयन्न् अन्तर्हित इत्य् अर्थः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : यथावद् **इति तत्-काल-देशोचित-सपर्यया इत्य् अर्थः । अत्र प्रियव्रतस्य योग-भ्रंशात् नारदस्य च शिष्य-गत-मनोरथ-ध्वंसात् कुटिलम् ईक्षणं सम्भवति, तत् तु नास्तीत्य् आह—अविषमं यथा स्यात् तथा तयोर् अभिसमीक्षमाणयोः सतोर् आत्मनः परमात्मनः सम्यग् अवस्थानं स्वरूपं स्व-ह्र्डि प्रवर्तयन् स्मरन् । कीदृशम् ? वाङ्-मनसोः प्राकृतयोर् अविषयं क्षयं सर्व-निवास-स्थानत्वाद् आश्रयत्वम् इत्य् अर्थः । पाठान्तरे अवाङ् न विद्यन्ते, वाचस् त्रैगुण्य-विषया विधि-निषेधात्मिकाः श्रुतयो यत्र, तथा-भूतं यन्-मनः, तस्य क्षयं निस्त्रैगुण्यं मनो-विषयम् इत्य् अर्थः । अव्यवहृतं व्यवहार-शून्यम् । यद् वा, अव्यवहृतं प्रियव्रतं व्यवहारे प्रवर्तयन् क्षयं सत्य-लोकम् अगमत् । कीदृशम् ? आत्मनः स्वस्य सम्यग् अवस्थानं यत्र तत् । प्रियव्रतं कीदृशम् ? अवाङ्-मनसम् आत्मारामं महा-भागवतत्वात् प्राकृत-वाङ्-मनस-शून्यम् इत्य् अर्थः ॥२१॥
—ओ)०(ओ—
॥ ५.१.२२ ॥
**मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः **
**सुरर्षि-वरानुमतेनात्मजम् **
**अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य **
स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम।
**श्रीधरः : **पुत्रं राज्येऽभिषिच्य वनं यास्यामीत्य् एवं यो मनोरथः स परेण ब्रह्मणैव प्रतिसन्धितः सम्पादितो यस्य सः । नारदस्यानुमतेन राज्ये स्थापयित्वाऽतिविषमो दुस्तरो यो विषय-विष-जलाशयो गृहं तस्याशा दिक् प्रवृत्ति-वासना भोगेच्छा वा तस्या उपरतोऽभूत् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **परेण ब्रह्मणैव प्रतिसन्धितः सम्पादितो मनोरथो यस्य सः । स्थिति-गुप्तये मर्यादा-पालनाय विषम-विषय एव विष-जलाशयः विष-समुद्रस् तत्र या आशा प्रवृत्ति-वासना तस्याः सकाशात् ॥२२॥
—ओ)०(ओ—
॥ ५.१.२३ ॥
इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारोऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयोऽवदातोऽपि मान-वर्धनो महतां मही-तलम् अनुशशास।
**श्रीधरः : **यत् पृष्टं गृहे कथम् अरमत ? तत्रोक्तम् उत्तरम् उपसंहरति—इति ह वाव इत्थम् एव हि अधिनिवेशितः प्रापितः कर्माधिकारो यस्य । अखिलस्य जगतो बन्ध-ध्वंसनः परोऽनुभावो यस्य तस्य । यद् अङ्घ्रि-युगलं तस्यानवरतं ध्यानं तद्-अनुभावेन परिरन्धित-कषायो दग्ध-रागादि-मल आशयो यस्य । अतोऽवदातः शुद्धोऽपि महतां ब्रह्मादीनाम् आज्ञा-पालनेन मान-वर्धनः ॥२३॥
**क्रम-सन्दर्भः : **रागडि-दोषा-राहित्येन शुद्धोऽपि मही-तलम् अनुशशास । महतां मान-वर्धनः सन्, तत्रापि तद्-अर्थम् एवेत्य् अर्थः ॥२३॥
**विश्वनाथः : **गृहे कथम् अरमतेत्य् अस्योत्तरम् आह—इति ह वाव इत्थम् एवेत्य् अर्थः । बन्ध-ध्वंसेन एव परानुभावः प्रकात-प्रभावो यस्य तस्य । परिरन्धित-कषायो दग्ध-रागादि-मलः आशयो यस्य सः । अत एवावदातः परम-शुद्धोऽपि महतां ब्रह्मादीनाम् आज्ञा-पालनेन मानम् आदरं वर्धयतीति सः ॥२३॥
—ओ)०(ओ—
॥ ५.१.२४ ॥
अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम।
**श्रीधरः : **उ इति विस्मये । ह इति प्रसिद्धौ । वावेति निश्चये । आत्मनः समानैः शीलादिभिर् ऊदारान् महतो दश पुत्रान् जनयाम् आस ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शीलादिभिर् उदारान् भावयाम्बभूव उत्पादयामास ॥२४॥
—ओ)०(ओ—
॥ ५.१.२५ ॥
आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः।
**श्रीधरः : **तान् आह । आग्नीध्र इध्मजिह्वो यज्ञबाहुर् महावीरो हिरण्यरेता घृतपृष्ठः सवनो मेधातिथिर् वीतिहोत्रः कविश् चेत्य् अग्नीनां नामानि येषां ते ॥२५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१.२६ ॥
एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन्।
**श्रीधरः : **अर्भ-भावात् बाल्याद् आरभ्य ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ५.१.२७-२८ ॥
तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः। अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः।
**श्रीधरः : **तस्मिन् पारमहंस्याश्रमे श्रीमच्-चरणारविन्दयोर् अविरत-स्मरणेनाविगलितोऽखण्डितो यः परमो भक्ति-योगस् तस्यानुभावेन विशोधितान्तः करणे प्रतीतो यो भगवांस् तस्मिन्न् आत्मनस् त्वं-पदार्थस्य तादात्म्यम् अविशेषेण विशेषो देहाद्य्-उपाधिस् तद्-अपोहेन प्रापुः ॥२७-२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्मिन्न् उ ह वै पारमहंस्याश्रम एव अविगलितो निश्चलो यः परम-भक्ति-योगस् तस्यानुभावेन प्रब्रह्मा परिशोधितं यद् अन्तर् हृदयं तत्राधिगतः प्रतीतो भगवांस् तस्मिन्न् आत्मनस् त्वं-पदार्थस्य तादात्म्यम् लयम् अविशेषेण विशेषो देहाद्य्-उपाधि-कृत-पृथग्-भावस् तद्-अपोहेन ॥२७-२८॥
—ओ)०(ओ—
॥ ५.१.२९ ॥
एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-युगलापीडित-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-व्रीडा-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे।
**श्रीधरः : **उपशमाश्रयेषु सत्सु, दश-कोटिभिर् एकम् अर्बुदम् । एतादृशानि वर्षाणाम् एकादशार्बुदानि जगतीं बुभुज इत्य् अन्वयः । राज्ञो धर्म-पालन-विषय-भोग-प्रभावैर् भाव्यम् । तत्रानायासेनैव धर्म-पालनम् आह । अव्याहता अखिलाः पुरुष-काराः पौरुषाणि यस्मात् तेन सारेण बलेन सम्भृतौ पूर्णौ दोर्दण्डौ तयोर् युगलं येनापीडित आकृष्टो मौर्वी-गुणस् तस्य स्तनितं टङ्कारस्तेनैव युद्धं विना विरमिता निरस्ता धर्म-प्रतिपक्षा येन । भोगातिशयम् आह । बर्हिष्मत्याः स्व-भऋयाया अनु-दिनम् एधमानैः प्रमोदादिभिः पराभूयमान-विवेक इवात एव विषयासक्त्य्-आत्मानम् अनवबुध्यमान इव बुभुजे । तत्र प्रमोद आयान्तं पतिं दृष्ट्वा हर्षस् ततः प्रसरणम् अभ्युत्थानादि-लीला ततो यौषिण्यं योषित्-स्वभाव-कृत-शृङ्गारानुभाव-प्रकाशनं ततो व्रीडया प्रमुषिताः सङ्कुचिता हासावलोकास् ततो रुचिर-क्ष्वेल्य्-आदयः परिहास-वाक्यादीनि तैः ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उपशमाश्रयेषु सत्सु, दश-कोटीभिर् एकम् अर्बुदम् इति श्री-स्वामि-चरणाः । अर्बुदं कोटि-पर्यायम् इति सन्दर्भः । एकादशार्बुदानि परिवत्सरान् जगतीं बुभुज इत्य् अन्वयः । राज्ञां खलु यशःसु प्रताप-विषय-भोग-प्रभावेष्व् आवश्यकेषु मध्ये प्रथमं तस्य प्रतापातिशयं वर्णयति—अव्याहता अखिलाः पुरुष-काराः पौरुषाणि यस्मात् तेन सारेण बलेन सम्भृतं पूर्णं यद् दोर्-दण्ड-युगलं, तेन आपीडित आकृष्टो मौर्वी-गुणस् तस्य टङ्कारः, तेनैव युद्धं विनैव विरमिता निरस्ता धर्म-प्रतीक्षा शत्रवो येन सः । बर्हिष्मत्याः स्व-भऋयाया अनुदिनम् एधमानैः प्रमोदादिभिः पराभूयमान-विवेक इव । अत्र प्रमोद आयान्तं पतिं दृष्ट्वा हर्षः । ततः प्रसरणम् अभ्युत्थान-स्वादावरण-विवर्तन-स्थानान्तर-गमनादि । ततो यौषिण्यं योषित्-।स्वभाव-धर्मोऽपाङ्ग-चालन-नासामुक्तोन्नमन-कर्ण-कण्डूयनादि स्वयं दूत्यम् । ततः पत्युर् औत्सुक्यम् आलक्ष्य व्रीडया प्रमुषिताः सङ्कोचिता हासावलोकास् ततो रुचिराः क्ष्वेल्य्-आदयः परिहास-वाक्यादीनि तैः । अत एव विषयासक्त्या आत्मानम् अनवबुद्ध्यमान इव । अत्र इव-द्वयेन तस्य विवेक-ज्ञानयोः सम्पूर्णयोर् अक्षुण्णयोर् अपि वैषयिक-लोकैर् दुर्गमत्वं व्यञ्जितं, तत्र हेतुर् महा-मनाः विषयासक्ति-तद्-अभावयोर् यौगपद्येन सद्-भावाद् दुस्तर्क-मनस्-तत्त्व इत्य् अर्थः ॥२९॥
—ओ)०(ओ—
॥ ५.१.३० ॥
यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः।
**श्रीधरः : **प्रभावातिशयम् आह । यावद् वसुधा-तलं लोकालोक-पर्यन्तम् अवभासयति मेरुं प्रदक्षिणी-कुर्वन्न् आदित्यस् तस्मिन्न् अर्धेनैवोपलक्षितं प्रतपति प्रकाशयत्य् अर्धेन चावच्छादयति तमसावृणोति तदा द्वितीयः पतङ्गः सूर्य इव पर्यक्रामत् । न चेदम् असम्भावितम् । यतो भगवद् उपासनेनोपचितोऽति-पुरुषः पुरुषान् अतिक्रान्तः प्रभवो यस्य ॥३०॥
**क्रम-सन्दर्भः : **यावद् इति । प्रजाभ्यः सुख-दानेच्छयैव, न तु स्पर्धयेति ज्ञेयम् _। _गद्यान्ते—एवं कुर्वाणं प्रियव्रतम् आगत्य चतुराननस् तवाधिकारो न भवतीति निवारयामास इत्य् अधिकं क्वचित् ॥३०॥
**विश्वनाथः : **प्रभावातिशयम् वर्णयति । यावद् वसुधा-तलं लोकालोक-पर्यन्तम् आदित्योऽवभासयति मेरुं प्रदक्षिणी-कुर्वन्न् तत्र अर्धेन अर्धावर्तेन प्रतपति प्रकाशयति इति तमसा रात्रिर् भवति । तदा हि प्रियव्रत-राज्याधिकार-समय इत्य् अर्थः । भगवद्-उपासनेन उपचितः अतिपुरुषः पुरुषानतिक्रान्तः प्रभावो यस्य सः । तद् अभिनन्दन् अर्धेनाच्छादनम् अप्रशंसन् । तरणिम् अनु लक्ष्यीकृत्य तरणेर् अस्ताचलावरोह-समये स्वयम् उदयाचलम् आरोहन्न् इत्य् अर्थः । पतङ्गः सूर्यः पर्यक्रामत् परिक्रान्तवान् प्रजाभ्यः सुख-दानेच्छयैव, न तु सूर्य-स्पर्धया । तेन ज्यैष्ठादि-मासेषु प्रियव्रताख्य-सूर्यस्य चन्द्राद् अप्य् अतिशीतलत्वं, मार्गशीर्षादि-मासेषु तु सूर्याद् अपि प्रातः सायं-कालयोर् औष्ण्यम् अधिकम् इति ज्ञेयम् । एवं च प्रियव्रतस्य सौभर्यादेर् इव योग-बलेनैव राजत्व-सूर्यत्वे काय-द्वैतेनैव ज्ञेये ॥३०॥
—ओ)०(ओ—
॥ ५.१.३१ ॥
ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः।
**मध्वः : **पूर्व-सृष्टान् रथावृत्ता स्थूलं चक्रे प्रियव्रतः ।
समुद्रांस् तेन तत्-कर्तेत्य् आहु एनं प्रियव्रतम् ॥ इति गारुडे ॥३१॥
**श्रीधरः : **ये वै उ ह अति-प्रसिद्धास् तस्य रथ-चक्राग्र-कृताः परिखाता गर्ताः यतो यैर् एव कृताः ॥३१॥
**क्रम-सन्दर्भः : **ये वै इति । रथोऽयम् एक-चक्रस् तद्-इच्छा-परिमाणश् च ज्ञेयः _॥_३१॥
**विश्वनाथः : **ये वै उ ह अति-प्रसिद्धास् तस्य रथ-चक्राग्र-कृताः परिखाता गर्ताः यतो यैर् एव कृताः ॥३१॥
—ओ)०(ओ—
॥ ५.१.३२ ॥
जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपकॢप्ताः।
**श्रीधरः : **तान् आह—जम्ब्व् इति । तेषां परिमाणं शृण्व् इति शेषः । पूर्वस्य यद् विस्तारमानम् उत्तरस् ततो द्वि-गुणेन विस्तारमानेनेत्य् एवं सिन्धुभ्यो बहिः समन्तत उपकॢप्ता रचिताः ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **परिमाणं शृण्व् इति शेषः । द्वि-गुण-विस्तारमाणेन एकैकस्मात् सिन्धोर् बहिः समन्तत चत्सृष्व् एव दिक्षु ॥३२॥
—ओ)०(ओ—
॥ ५.१.३३ ॥
क्षारोदेक्षु-रसोद-सुरोद-घृतोद-क्षीरोद-दधि-मण्डोद-शुद्धोदाः सप्त जलधयः सप्त-द्वीप-परिखा इवाभ्यन्तर-द्वीप-समाना एकैकश्येन यथानुपूर्वं सप्तस्व् अपि बहिर् द्वीपेषु पृथक् पृथक् परित उपकल्पिताः । तेषु जम्ब्व्-आदिषु बर्हिष्मती-पतिर् अनुवृत्तान् आत्मजान् आग्नीध्रेध्मजिह्व-यज्ञबाहु-हिरण्यरेतो-घृतपृष्ठ-मेधातिथि-वीतिहोत्र-संज्ञान् यथा-सङ्ख्यानैकैकस्मिन्न् एकम् एकम् एवाधिपतिं विधते ॥
**श्रीधरः : **यथा सिन्धुभ्यो बहिर् एकैकशो द्वीपा एवं द्वीपानाम् अपि बहिः सिन्धव इत्य् आह—क्षारोदेति । दधि-मण्डो मथितं दधि । एते सप्त जलधयः सप्त-द्वीपानां परिखा इवाभ्यन्तरे तैः संवेष्टिता ये द्वीपास् तैः समाना विस्तारतः । बहिर् नान्तः पृथग् असङ्कीर्णतया ॥३३॥
**क्रम-सन्दर्भः : **अतो बहि बहिर् मण्डलस्याधिक्यात् तादृश-तद्-इच्छया समुद्राणाम् उत्तरोत्तराधिक्यम् _॥_३३॥
**विश्वनाथः : **यथैवैकैकशः सिन्धोर् बहिर् एकैको द्वीपस् तथैवैकैकस्माद् द्वीपाद् बहिर् एकैकः सिन्धुर् इत्य् आह—क्षारोदेति । दधि-मण्डो मथितं दधि । अभ्यन्तरे वर्तमाना ये द्वीपास् तैः समान-विस्तारत एव एकैकश्येनेति एकस्माद् एकस्माद् बहिर् एकैकः सिन्धुर् इत्य् एवं सप्तस्व् अपि द्वीपेषु यथानुपूर्वेण पृथग् असङ्कीर्णतया बहिर् बहिर् एव नान्तः ॥३३॥
—ओ)०(ओ—
॥ ५.१.३४ ॥
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता।
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ५.१.३५ ॥ **
नैवं-विधः पुरुष-कार उरुक्रमस्य
पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् ।
चित्रं विदूर-विगतः सकृद् आददीत
यन्-नामधेयम् अधुना स जहाति बन्धम् ॥
**श्रीधरः : **अहो आश्चर्यं राज्ञः सामर्थ्यम् इति परीक्षिद्-अभिप्रायज्ञो भगवान् बादरायणिर् आह—नैवम् इति । जिताः षड्-गुणा इन्द्रियाणि षड्-ऊर्मयो वा यैस् तेषाम् एवंविधः पुरुषकार इति न चित्रं नासम्भावितम् । यतो विदूर-विगतोऽन्त्यजोऽपि यस्योरुक्रमस्य नाम सकृद् उच्चारयेद् यः सोऽधुना तत्-क्षणम् एव बन्धं संसारम् । तन्वम् इति पाठेऽप्य् अयम् एवार्थः । पाठान्तरे तत्त्वम् चाण्डालत्वं जहाति । शुद्धो भवतीतिय् अर्थः ॥३५॥
**क्रम-सन्दर्भः : **बहिर् बहिर् गमनं चान्तरालान्तरावकाश-नाशाशङ्कया ज्ञेयम् ॥३५॥
**विश्वनाथः : **एवं-विधः पुरुषकारः पौरुषः प्रभावो न चित्रम् । तद्-अङ्घ्रि-रजसेति रजसापि यैर् दुर्जेयानि षड्-इन्द्रियाणि जीयन्ते इति विरोधः । यतो विदूर-विगतोऽन्त्यजोऽपि अधुना नामोच्चारण-क्षण एव बन्धं तन्वं तत्त्वम् इति त्रय एव स्वामि-सम्मताः पाठास् तत्र बन्धं कर्म-बन्धम् । तन्वं तनुं तत्-क्षण एव तनूत्यागादर्शनात् तन्वारम्भकं कर्मेति प्रारब्ध-कर्म-क्षय उक्तः । तत्त्वं महद्-आदि-पृथिव्य्-अन्तं स्थूलस्-सूक्ष्म-देहाव् इत्य् अर्थः । तद् अपि तद्-देह-स्थितिर् नाम्न एवाचिन्त्य-प्रभावत्वाद् इति ज्ञेयं गत्य्-अन्तराभावात् ॥३५॥2
—ओ)०(ओ—
॥ ५.१.३६ ॥
स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह।
**श्रीधरः : **तस्य पराक्रमम् उपसंहरन् निवृत्ति-क्रमम् आह—स एवम् इति । देवर्षि-चरणयोर् अनुशयनम् उपसत्तिस् तद् अनुपतितो यो गुण-विसर्गो राज्यादि-प्रपञ्चस् तत् संसर्गेण । आत्मनि मनसि निर्वेदो यस्य ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भोग-प्रभावम् उपसंहरंस् तस्य वैराग्य-प्रभावम् आह—स एवम् इति । देवर्षि-चरणयोर् अनुशयनानि गुरुत्वेन दण्डवत्-प्रणामास् तान् अनुपतित एव गुण-विसर्गो राज्यादि-परम्पर्स् तत्-संसर्गेण अनिर्वृतम् इवेति यद्यपि राज्योऽप्य् अनासक्त्यैवान्तर्-निर्वृतिर् आसीत् तद् अपीत्य् अर्थः ॥३६॥
—ओ)०(ओ—
॥ ५.१.३७ ॥
अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितोऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार।
**श्रीधरः : **तम् आह । मयाऽसाध्व् अनुष्ठितम् । यद् यतोऽभिनिवेशितः, तत् ततः अलम्, अलं विषयैः । विनोद-मृगं मर्कटम् ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विनोद-मृगं मर्कटम् ॥३७॥
—ओ)०(ओ—
॥ ५.१.३८ ॥
पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार।
**श्रीधरः : **पर-देवताया हरेः प्रसादेनाधिगतः प्राप्तो ये आत्म-प्रत्यवमऋशो विवेकस् तेन नारदस्य पदवीं तद् उपदिष्ट-मार्गम् एव पुनर् अनुससारेत्य् अन्वयः । किं कृत्वा ? अनुगतेभ्यः पुत्रेभ्य इमां पृथ्वीं विभज्य । भूक्तो भोगो यस्यास् तां भार्यां महा-विभूतिः साम्राज्य-संपत्-तत्-सहितां महिषीं मृत-शरीरम् इव परित्यज्य । तत्र हेतुः, हृदि निहितो निर्वेदो येन । हृदीत्य् अस्योत्तरत्राप्य् अन्वयः । हृदि गृहीतो निश्चितो हरि-विहारस् तेनानुभावस् त्याग-सामर्थ्यं यस्य ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पर-देवताया हरेः प्रसादेनाधिगतः प्राप्तो य आत्म-प्रत्यवमऋशो विवेकस् तेन नारदस्य पदवीं तद्-उपदिष्ट-मार्गम् एव पुनर् अनुससारेत्य् अन्वयः । किं कृत्वा ? अनुप्रवृत्तेभ्यः अनुगतेभ्यः हृदीत्य्-आदि हृदि गृहीतो योउ हरेर् विहारो लीला-विलासस् तेनानुभावा अश्रु-पुलकादयो यस्य सः ॥३८॥
—ओ)०(ओ—
॥ ५.१.३९ ॥
तस्य ह वा एते श्लोकाः——
प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् ।
यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् ॥
**श्रीधरः : **तस्य महिमोपनिबन्धन-श्लोकाः पूर्व-सिद्धाः कथ्यन्ते । अथा वेदे, तद् अप्य् एष श्लोको भवति इति । को नाम कुर्यात् ? छायां घ्नन् तमो निरस्यन् ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्लोकाः पूर्व-सिद्धा एव कथ्यन्ते छायां रात्रिम् ॥३९॥
—ओ)०(ओ—
**॥ ५.१.४० ॥ **
भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः ।
सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः ॥
**श्रीधरः : **भू-संस्थानं द्वीपैः कृतम् । सरिद्-गिरि-वनादिभिः सीमा च येन कृता । भूतानां निर्वृत्त्यै सुखायाविवादाय ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भुवः संस्थानं द्वीपैः कृतम् । सरिद्-आदिभिः सीमा च भूतानां जनपद-ग्रामाद्य्-अधिपतीनां निर्वृत्यै निर्विवाद-सुखाय ॥४०॥
—ओ)०(ओ—
**॥ ५.१.४१ ॥ **
भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् ।
यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः ॥
**श्रीधरः : **भौमं पाताल-जं दिव्यं स्वर्ग-जं मानुषं मर्त्य-लोक-जं महित्वं वैभवं यो निरय-तुल्यं मेने । पुरुषानुजना विष्णु-भक्तास् त एव प्रिया यस्येति ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भौमं पाताल-जं, दिव्यं स्वर्ग-जं, मानुषं मर्त्य-लोक-जं, महित्वं वैभवम् ॥४१॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां पञ्चम-स्कन्धे
प्रियव्रत-विजये प्रथमोऽध्यायः ।
॥ ५.१ ॥
(५.२)