एकत्रिंशोऽध्यायः
विषयः
गृहात् प्रव्रजितानां प्रचेतसां नारदोपदेशान् मुक्तिः ।
॥ ४.३१.१ ॥
मैत्रेय उवाच—
तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-भाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एक-त्रिंशे सुते दक्षे धुरं न्यस्य वने सताम् ।
नारदोक्तेन मार्गेण मुक्तिर् उक्ता प्रचेतसाम् ॥
ततो दिव्य-वर्ष-सहस्राणां सहस्रस्यान्ते उत्पन्न-विवेक-ज्ञानास् ते उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः इत्य् अधोक्षज-भाषितं स्मरन्त आशु प्राव्रजन् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धुरं राज्यादिभारम् । ततो दक्षाभिषेकानन्तरं वा ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततो दक्षाभिषेकाद् अनन्तरम् ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एक-त्रिंशे तु निर्विद्य राज्याद् गत्वा वनं पुनः ।
नारद-प्रोक्तया भक्त्या कृष्णं प्रापुः प्रचेतसः ॥
उपयास्यथ मद्-धाम निर्विद्य इत्य् अधोक्षज-भाषितम् ॥१॥
॥ ४.३१.२ ॥
दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-सत्रेणात्म-विमर्शेन दीक्षिताः कृत-सङ्कल्पा बभूवुः । सर्वेषु भूतेष्व् आत्मेति मेधा ज्ञानं यस्मिंस् तेन । क्व ? वेलायां समुद्र-तटे । जाजलिर् नाम ऋषिः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मविमर्शेन परस्परं मिलित्वा ब्रह्मविचारेण यद्वा—वेदविचारेण श्रुतितात्पर्यालोचनेन वेदस्तत्त्वं तपो ब्रह्म इत्य् अमरः । जाजलिर्जाजलात्मजः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म-सत्रेण परस्परं मिलित्वा सामान्यतः परम-तत्त्व-विचारेण वेलायां समुद्र-तट इति प्रियव्रत-कृत-समुद्राणां पूर्वजातत्वेन तद्-राज्यस्यापि पूर्वत्वं गम्यते । तथैव पञ्चमादौ व्याख्यास्यते ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-सत्रेण स्वायम्भुव ब्रह्म-सत्रं जन-लोकेऽभवत् पुरेतिवत् कृतेन वेद-तात्पर्य- विमर्शेन—वेदस् तत्त्वं तपो ब्रह्म इत्य् अमरः । दीक्षिताः कृत-सङ्कल्पाः । सर्वेषु भूतेष्व् आत्मन इव मेधा बुद्धिर् यतस् तेन । वेलायां समुद्र-तटे । जाजलिर् नाम ऋषिः ॥२॥
॥ ४.३१.३ ॥
तान् निर्जित-प्राण-मनो-वचो-दृशो
जितासनान् शान्त-समान-विग्रहान्।
परेऽमले ब्रह्मणि योजितात्मनः
सुरासुरेड्यो ददृशे स्म नारदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्जिताः प्राण-मनो-वचो-दृशो यैस् तान् । शान्ता उपरताः समाना मूलाधाराद् आरभ्य ऋजवो विग्रहा येषाम् । ब्रह्मणि योजित आत्मा यैः । सुरासुरैर् ईड्यो दृष्टवान् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् प्रचेतसः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परेऽमले ब्रह्मणि श्री-रुद्र-गीतोक्ते स्निग्ध-प्रावृट्-घन-श्याम-स्वरूपे ददृशे स्म ददर्श ॥३॥
॥ ४.३१.४ ॥
तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्थाय प्रणिपत्य यथादेशं यथा-विधि पूजयित्वा ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नारदम् । ते प्रचेतसः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथादेशं यथा-विधि ॥४॥
॥ ४.३१.५ ॥
प्रचेतस ऊचुः—
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।
तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुरर्षे इति । सुरैः सर्वतः शुद्धैर् अपि त्वं पूज्यसे किमुतास्माभिरहो भाग्यं मादृशां मनुष्याणां देवपूज्यस्य भवतो दर्शनं जातम् इति भावः । यथा रवेर्दर्शनेन चौरादिभयमपगच्छति तथा तव दर्शनेन संसारभयम् इति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा रवेर् इति । यथा रवि-दर्शनेन चौरादि-भयम् अपगच्छति, तथा तव दर्शनेन संसार-भयम् इत्य् अर्थः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा रवेर् दर्शनेन चौरादि-भयम् अपगच्छति, तथा तव दर्शनेन संसार-भयम् इति ॥५॥
॥ ४.३१.६ ॥
यद् आदिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदिष्टम् उपदिष्टं यद् आत्म-तत्त्वम् । क्षपितं विस्मृतम् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञानं तु भवद्भ्यः शिवाधोक्षजाभ्याम् एवोपदिष्टं मयाधुना तदर्थं न किम् अप्यनुष्ठेयम् इति तत्राह—यदादिष्टम् इति । प्रभो इति । योगसामर्थ्येन त्वं जानास्येवेति भावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् आदिष्टम् इत्य् अत एवापाततो ब्रह्मानुसन्धानम् एव कुर्वन्तः स्म इति भावः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्
॥ ४.३१.७ ॥
तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भव-सागरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् ताभ्यामुपदिष्टज्ञानम् । अध्यात्मज्ञानमात्मनि यज्ज्ञानं विभक्त्यर्थे\ऽव्ययीभावः । जीवात्मनो यज्ज्ञातुमुचितं तदस्माकं जातम् एवासीत्तद् एव त्वं प्रद्योतयोद्दीपयेत्य् अर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव सामान्याकारेण पृच्छन्ति—तन् न इति ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यात्म-ज्ञानेन आत्मनि यज् ज्ञानम् इति विभक्त्य्-अर्थेऽव्ययीभावः । जीवात्मनो यज् ज्ञातुम् उचितं तद् अस्माकं ज्ञातम् एवासीत्, तद् एव त्व्ं प्रद्योतयेत्य् अर्थः ॥७॥
॥ ४.३१.८ ॥
मैत्रेय उवाच—
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।
भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इति प्रचेतोभिः पृष्टः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रचेतसां प्रचेतोभिः । नृपान् प्रचेतसः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आविष्टात्मेति । स्वभावत एव वा तत्-प्रश्नेन तेषु प्राचीन-भगवत्-कृपाम् अनुस्मृत्य वा उभयथापि कथम् असाव् अन्यथोपदिशेद् इति भावः ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रचेतसांप्रचेतोभिः ॥८॥
॥ ४.३१.९ ॥
नारद उवाच—
तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः ।
नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो गृह-प्रसक्त्या हरि-सेवां विना सर्वं जन्म-कर्मादिकं व्यर्थी-कृतम् इति तान् शोचन्न् आह—तज् जन्मेति चतुर्भिः । यतो जन्मादेर् हरि-सेवैव फलम् अतस् तद्-विहीनं सर्वं व्यर्थम् इत्य् अर्थः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देहं धृत्वा जीवात्मनो यद्यद्वस्तु स्वतः प्राप्तं तत्तद्धरिसेवायाम् एव नियुंजीतेत्येतद् एवाध्यात्मज्ञानमित्य् अभिप्रेत्याह स्वामी—अहो गृहेत्यादि । इत्य् अर्थ इति । तद् एव जन्म येन जन्मना हरिः सेव्यते । एवमग्रे\ऽपि योज्यमन्यथा मुधैवाखिलं शूकरादितुल्यत्वाद् इति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्री-नारदः प्रचेतस उपदिशति—तज् जन्मेत्य्-आदि । येन जन्मना यैः कर्मभिर् येनायुषा, येन मनसा, येन वचसा, हरिः सेव्यते, तद् एव तद् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तेषां ब्रह्म-निष्ठां त्याजयितुं श्री-भगवन्-निष्ठां प्रशंसति—तज् जन्मेति ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहं धृत्वा जीवात्मना यद् यद् वस्तु स्वतः प्राप्तम् अभूत् तद् एव भगवत्-सेवायाम् एव नियुञ्जीतेत्य् एतद् एवाधात्म-ज्ञानम् इत्य् आह—तज् जन्मेति त्रयोदशभिः । तद् एव जन्म जन्म येन जह्रिः सेव्यते, तान्य् एव कर्माणि यैर् हरिः सेव्यते इत्य् एवं सर्वत्र योज्यम् । मनो वच इत्य् उपलक्षणं बुद्धीन्द्रिय-बल-तपः-श्रुत-योग-साङ्ख्य-सन्न्यास-ब्रह्मचर्यादीनाम् अप्य् उत्तर-श्लोकार्थ-दृष्ट्या ज्ञेयम् । नृणाम् इति तत्-सेवोपयोगिन्य् एव जन्मादीन मनुष्य-सम्बन्धीन्य् उच्यते, अन्यथा तु शूकरादि-पशु-सम्बन्धीनीत्य् अर्थः ॥९॥
॥ ४.३१.१० ॥
किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः ।
कर्मभिर् वा त्रयी-प्रोक्तैः पुंसोऽपि विबुधायुषा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुक्ल-संबन्धि जन्म विशुद्ध-माता-पितृभ्याम् उत्पत्तिः । सावित्रम् उपनयनेन । याज्ञिकं दीक्षया । विबुधानाम् इव दीर्घायुषापि ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्वयं विवृत्य व्यतिरेकं विवृणोतिकिम् इति । त्रिविधं ब्रह्म जन्मापि न तन्नु जन्म किं तु शूकरादिजन्मैव फलतस्तुल्यत्वात् । चाण्डालादिजन्मापि हरिसेवानुकूलं साधु नृजन्म भगवत्प्रापकत्वाद् इत्य् एवं कर्मादिष्वपि भावो व्याख्येयः । त्रयीप्रोक्तैर् अपि किं पुनर् व्यावहारिकैः । विबुधायुषापि किं पुनः शतायुषा ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विपक्षे निन्दाम् आह—किं जन्मभिर् इत्य्-आदि । न यत्रात्मात्मदो हरिः [भा।पु। ४.३१.१२] इत्य्-अन्तम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव व्यतिरेकेण दर्शयति त्रिकेण ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वयं विवृत्य व्यतिरेकं विवृणोति—किम् इति त्रिभिः । शौक्रं विशुद्ध-माता-पितृभ्यां जन्म, सावित्रम् उपनयनेन, याज्ञिकं दीक्षयेति त्रिविधं ब्रह्म-जन्मापि न तन् नु जन्म, किन्तु शूकरादि-जन्मैव फलतस् तुल्यत्वात् । चण्डालादि-जन्मापि भगवत्-सेवानुकूलं साधु नृ-जन्म भगवत्-प्रापकत्वात्, इत्य् एवं कर्मादिष्व् अपि भावो व्याख्येयः । त्रयी-प्रोक्तैर् अपि किं पुनर् व्यवहारिकैः, विबुधायुषापि किं पुनः शतायुषा ॥१०॥
॥ ४.३१.११ ॥
श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वचोभिर् वाग्-विलासैः । चित्त-वृत्तिभिर् नानावधान-सामर्थ्यैः । इन्द्रियाणां राधसा पाटवेन ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रुतेन वेदान्तादिश्रवणेन । वाग्विलासैः शास्त्रव्याख्यानचातुर्यैः । नानाशास्त्रार्थावधारणं नानावधानम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र शुद्ध-जीवात्म-ब्रह्मात्मनोर् भावनाम् अपि परित्यज्य श्री-हराव् एव निष्ठापयितुम् आह—श्रेयसाम् अपीति । सर्वेषां हरिर् एवात्मा मूलं शुद्ध-जीवानां तदीय-तटस्थांशत्वात् ब्रह्मणस् तन्-निर्विशेषाविर्भाव-रूपत्वाद् इति भावः । अतो विलक्षणत्वेन निज-भक्तेभ्यः स्पष्टम् अप्य् आत्मानं ददाति । ततस् ततोऽपि परम-प्रेमास्पदं भवतीत्य् अर्थः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रुतेन वेदान्तादि-चरणारविन्देन वचोभिः शास्त्र-व्याख्यान-चातुर्यैः चित्त-वृत्तिभिर् नाना-शास्त्रार्थावधारण-सामर्थ्यैः । इन्द्रियाणां राधसा पाटवेन ॥११॥
॥ ४.३१.१२ ॥
किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो1 हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योगेन प्राणायामादिना । साङ्ख्येन देहादि-व्यतिरिक्तात्म-ज्ञान-मात्रेण । सन्न्यास-वेदाध्ययनाभ्याम् अपि । अन्यैर् अपि व्रत-वैराग्यादिभिः श्रेयः साधनैः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना तीर्थयात्रादिग्रहः । यत्र येषु सत्सु हरिरात्मप्रदो न भवतीति योगिप्रभृतयो\ऽपि योगादिभिः परमात्माद्यनुभवं न प्राप्नुवन्तीत्य् अर्थः । हरिः खल्वात्मानं च भक्तिं विना न प्रददातीत्येषां भक्तित्वाभावाद्भक्तिकारणत्वाभावाच् च वैयर्थ्यम् एव । प्रकारान्तरेण भक्तिसद्भावे त्वेषां भक्ति-मिश्रत्वेनैव सार्थक्यं न तु स्वत इति भावः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेनाष्टाङ्गेन सन्न्यास-वेदाध्यायनाभ्याम् च अन्यैर् अपि व्रत-वैराग्यादिभिः श्रेयः-साधनैः यत्र येषु सत्सु हरिर् आत्म-प्रदो न भवतीति योगि-प्रभृतयोऽपि योगादिभिः परमात्माद्य्-अनुभवं न प्राप्नुवन्तीत्य् अर्थः । हरिः ख्लव् आत्मानं च भक्त्या विना न प्रददात्य् एषां भक्तित्वाभावात् भक्ति-कारणत्वाभावाच् च वैयर्थ्यम् एव । प्रकारान्तरेण भक्ति-सद्-भावे त्व् एषां भक्ति-मिश्रत्वेनैव सार्थकत्वं, न तु स्वत इति भावः ॥१२॥
॥ ४.३१.१३ ॥
श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः ।
सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तावत् पर्यन्तम् एव फलम् इति अवधिः ॥१३ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एषां नाना-फल-साधनानां हरि-सेवा-भाव-मात्रेण कुतो वैयर्थ्यम् ? तत्राह । श्रेयसां फलानाम् आत्मैवावधिः परा काष्ठा । अर्थतः परमार्थतः आत्मार्थत्वेनैवान्येषां प्रियत्वाद् इत्य् अर्थः ।
भवत्व् आत्मावधिर् हरेः किम् आयातम् ? तत्राह—सर्वेषाम् अपीति । आत्मा आत्म-दश् चाविद्या-निरासेन स्वरूपाभिव्यञ्जकः । ऐश्वरेणापि रूपेण बलि-प्रभृतिभ्य इवात्म-प्रदः प्रियश् च, परमानन्द-रूपत्वात् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । तत्र युक्तिम् आह—इत्य् अर्थ इति । आत्मनस्तु कामाय सर्वं प्रियं भवति इति श्रुतेर् अयं भावः । पुनर् आक्षिपति—भवत्व् इति । सर्वेषामात्मनां हरिरेवात्मा जीवात्मनां तस्य तटस्थशक्तित्वात्स च हरिः प्रियः केवलया भक्त्या प्रीणाति चेदात्मदः—
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ इति श्रुतेः ।
सन्दर्भस्तु—तत्र शुद्धजीवात्मब्रह्मात्मनोः भावनाम् अपि परित्यज्य श्रीहरावेव निष्ठापयितुम् आह—श्रेयसाम् इति । सर्वेषां हरिरेवात्मा मूलं स्वरूपम् । शुद्धजीवानां तदीयतटस्थशक्तित्वात् । ब्रह्मणस्तन्निर्विशेषाविर्भाव-रूपत्वाद् इति भावः । ततो विलक्षणत्वेन निजभक्तेभ्यः स्पष्टमात्मानं ददाति ततस्ततो\ऽपि परमप्रेमास्पदं भवतीत्य् अर्थः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं वा श्रेयोभिर् अन्यैश् चेति । सर्व-श्रेष्ठ-नैरपेक्ष्यं कथम् इष्टम् ? तत्राह—श्रेयसाम् इत्य्-आदि । हरि-प्रीत्यैव सर्वेषां प्रीतिर् भवतीति तस्य सर्वात्मकत्वात् । तस्माद् एकस्याराधने सर्व एवाराधिता भवन्ति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-भक्तिं विना सर्वेषां तु श्रेयः-साधनानां वैफल्ये युक्तिम् आह—श्रेयसां फलानाम् आत्मैवावधिः । तेषाम् आत्म-प्रीत्य्-अर्थकत्वात् सर्व-भूतानाम् आत्मनां तु हरिर् एवात्मा जीवात्म्नआं तेषां तदीय-तटस्थ-शक्तित्वात् । स च हरिः प्रियः केवलया भक्त्या प्रीणाति चेद् आत्मदः—
नायम् आत्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क।उ। १.२.२३] इति श्रुतेः॥१३ ॥
॥ ४.३१.१४ ॥
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, नाना-कर्मभिस् तत्-तद्-देवता-प्रीति-निमित्तान्य् अपि फलानि हरि-प्रीत्या भवन्ति, केवलं तत्-तद्-देवताराधनेन तु न किञ्चिद् इति स-दृष्टान्तम् आह—यथेति । मूलात् प्रथम-विभागाः स्कन्धाः । तद्-विभागा भुजाः । तेषाम् अप्य् उपशाखाः । उपलक्षणं पत्र-पुष्पादयोऽपि तृप्यन्ति, न तु मूल-सेकं विना ताः स्व-स्व-निषेचनेन । प्राणस्योपहारो भोजनं तस्माद् एवेन्द्रियाणां तृप्तिः, न तु तत्-तद्-इन्द्रियेषु पृथक् पृथग् अन्न-लेपनेन । तथाच्युताराधनम् एव सर्व-देवताराधनं, न पृथग् इत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाधिक्यमाह-किं च इति । इत्य् अर्थ इति । अच्युतस्य पूजायां सर्व एव पूजिताः स्युरित्य् अर्थः । नन्वशक्तस्यैव भवत्वेतच्छक्तेन तु अच्युतस्य पूजा कर्त्तव्या देवादीनां च, यथा मूलस्य स्कन्धादीनां च सेके न दोषः प्रत्युत गुण एवेत्याशङ्क्य दृष्टान्तान्तरम् आह—प्राणोपहारेति । पृथक्पृथगन्नलेपेनान्ध्यबाधिर्योत्पादनाद्दोष एव । इत्य् अर्थ इति । अच्युतस्य सर्वाधिष्ठानत्वेन सर्वदेवमूलत्वं मूलं विष्णुर्हि देवानाम् इत्याद्युक्तेर् इति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं प्रत्येकाराधन-परिश्रमैर् इत्य् आह—यथा तरोर् मूलेत्य्-आदि । स्व-मते सुसमम् ॥१४॥
सनातन-गोस्वामी : [ह।भ।वि। ११.२५७] श्री-भगवद्-अर्चनेनैव जगतः सन्तोष इति स-दृष्टान्तम् आह—यथेति । मूलात् प्रथम-विभागाः स्कन्धाः, तद्-विभागा भुजाः, तेषाम् अप्य् उपशाखाः उपलक्षणम् एतत्, पत्र-पुष्पादयोऽपि तृप्यन्ति, न तु मूलम् एकं विना स्व-स्व-निषेचनेन । प्राणस्योपहारो भोजनम् । तस्माद् एवेन्द्रियाणां तृप्तिः, न तु तत्-तद्-इन्द्रियेषु पृथक्-पृथग्-अन्न-लेपनात् । तथा चाच्युताराधनम् एव सर्व-देवताराद्धनं, न पृथग् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं कर्म-ज्ञान-काण्डयोः श्री-हराव् एव पर्यवसानम् उक्त्वोपासना-काण्डस्याप्य् आह—यथेति ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कर्म-ज्ञानादीनां यथा भक्ति-मिश्रत्वम् आवश्यकं, तथा भक्तेर् अपि कर्म-मिश्रत्वम् आवश्यकम् एव । देवर्षि-पित्राद्य्-अर्हण-लक्षणस्य नित्य-कर्मणोऽकरणे प्रत्यवाय-श्रवणाद् इत्य् अत आह यथेति । मूलात् प्रथम-विभागाः श्कन्धाः । तद्-विभागा भुजास् तेषाम् अप्य् उपशाखा उपलक्षणं पत्र-पुष्पादयोऽपि तृप्यन्ति । न तु मूल-सेकं विना स्व-स्व-निषेचनेन । तथैव अच्युतेज्यैव सर्वार्हणम् । अच्युतस्य पूजायां सर्व एव पूजिताः स्युर् इत्य् अर्थः ।
नन्व् अशक्तस्यैव भवत्व् एतत् । शक्तेन तु अच्युतस्य पूजा कर्तव्या । देवादीनां च यथा मूलस्य स्कन्धादीनां च सेके न दोषः, प्रत्युत गुण एवेत्य् आशङ्क्य दृष्टान्तान्तरम् आह प्राणस्योपहारो भोजनं तस्माद् एवेन्द्रियाणां तृप्तिः । न तु तत्-तद्-इन्द्रियेषु पृथक् पृथग् अनुलेपात्, प्रत्युत नयन-कर्णादिष्व् आन्ध्यावधिर्याद्य्-उत्पादनात् दोष एव ॥१४
॥ ४.३१.१५ ॥
यथैव सूर्यात् प्रभवन्ति वारः
पुनश् च तस्मिन् प्रविशन्ति काले ।
भूतानि भूमौ स्थिर-जङ्गमानि
तथा हराव् एव गुण-प्रवाहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः सर्व-मूलत्वात् ? इति स-दृष्टान्तान्तरम् आह—यथैव वारो जलानि वर्षा-काले सूर्याद् उद्भवन्ति ग्रीष्मे तस्मिन्न् एव प्रविशन्ति । अस्याप्रसिद्धत्वेन दृष्टान्तान्तरम् आह—यथा भूतानि भूमाव् इति । गुण-प्रवाहश् चेतनाचेतनात्मकः प्रपञ्चः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अच्युताराधने कुतः सर्वाराधनमित्याशङ्कते—कुत इति । स शुको दृष्टान्तान्तरम् आह—यद् वा, । दृष्टान्तान्तरेण सहितं सदृष्टान्तान्तरं दृष्टान्तान्तरं भूतानि भूमाव् इति यथैव सूर्यादित्युपादानकारणत्वमुक्तम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथैवेति पद्यस्यान्ते एतत् पदम् [भा।पु। ४.३१.१६] इत्य्-आदि-पद्यं पुण्यारण्य-चित्सुखयोः सम्मतं, न तु स्वामिनः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युतस्य सर्व-मूलत्वं दृष्टान्त-द्वयेनाह—यथैव वारो जलानि वर्षा-काले सूर्याद् उद्भवन्ति ग्रीष्मे तस्मिन्न् एव प्रविशन्तीत्य् उपादान-कारणम् । यथा च भूतानि भूमाव् इति । गुण-प्रवाहः गुण-मयः प्रपञ्चः ॥१५॥
॥ ४.३१.१६ ॥
एतत् पदं तज् जगद्-आत्मनः परं
सकृद् विभातं सवितुर् यथा प्रभा ।
यथासवो जाग्रति सुप्त-शक्तयो
द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
आत्म-भावः शरीरेषु द्रव्य-भ्रम उदाहृतः ।
क्रिया-भ्रमस् त्व् अहं कर्ता मदीयानीन्द्रियाणि तु ॥
कारक-भ्रम इत्य् उक्तस् तु एते विभ्रमा यदा ।
श्वासादि-वृत्ति-लोपेन प्राणा उद्योगिनस् तदा ॥
विलीयन्ते प्राण-भक्त्या नित्यं स्वापवतां स्फुटम् ।
उद्योग एव जाग्रत् स्याद् योगिनां मुक्ति-सिद्धयः ॥ इति अध्यात्मे ॥१६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु हराव् एव गुण-प्रवाह इत्य् उक्ते तद्-आधारत्वेन सोपाधिकत्वं हरेः स्याद् इत्य् आशङ्क्याह—एतद् इति । एतद् विश्वं विष्णोस् तत् सर्व-शास्त्र-प्रसिद्धं पदं परं सर्वोपाधि-रहितम् । तद्-उत्पन्नत्वान् न ततः पृथग् इत्य् अर्थः ।
तर्हि कथम् अन्यथा भाति ? तत्राह—सकृद् इति । सकृत् कदाचिद् विभातं स्फुरितं गन्धर्व-नगर-वत् । यथा सवितुः प्रभा न ततो भिन्ना, यथा च जाग्रत्य् असव इन्द्रियाणि स्फुरन्ति सुषुप्तौ तु सुप्त-शक्तयो भवन्तीत्य् अर्थः ।
कथं-भूतोऽसौ हरिः ? द्रव्यादीनां त्रि-विधाहङ्कार-कार्याणां तन्-निमित् तस्य भेद-भ्रमस्य चात्ययो यस्मात् सः । यद् वा, अजाग्रति सुषुप्ताव् असवः सुप्ताः शक्तयो येषां ते भवन्ति द्रव्यादेर् अप्य् अत्ययो भवति । सवितुः प्रभेत्य् उद्गतौ दृष्टान्त इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते । इत्य् अर्थ इति । स्वर्णादुत्पन्नं कुण्डलं यथा स्वर्णाभिन्नम् इति भावः । इत्य् अर्थ इति । कारणे लीनत्वाद् इति भावः । पूर्वव्याख्याने सुषुप्तावित्यस्यानेयत्वादाह—यद्वेति । द्रव्यादेर्महाभूतादेः । केचित्तु—तदेतद्विष्णोः पदं तस्मादुत्पन्नत्वाज्जगदात्मन उपाधेः परं तत्संबद्ध आधाराधेय-भावो\ऽपि गगनगन्धर्वनगरवद्बोध्यः । तर्हि शून्यं स्यात्तत्राह—सकृद्विभातं न दीपादिवद्विच्छिद्य प्रज्ञानघनम् इत्य् अर्थः । यथा सवितुः प्रभा सकृत्प्रभाता तद्वत् यज्ज्ञानाच् च द्रव्यक्रियाज्ञानानि तामसतैजसवैकारिकाहङ्कारभेदास्तन्निमित्तो भेदभ्रमस्तस्यात्ययो निवृत्तिर्भवति । किंलक्षणो हरिरित्याशङ्क्य लक्षणं वा तस्येदं द्रव्यक्रियेत्यादि नोच्यते इत्याहुस्तन्न ग्राह्यं स्वामिचरणैरप्यस्यैवार्थस्योक्तत्वात् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परे ब्रह्मणि श्री-भगवति ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.१७ ॥
यथा नभस्य् अभ्र-तमः-प्रकाशा
भवन्ति भूपा न भवन्त्य् अनुक्रमात्।
एवं परे ब्रह्मणि शक्तयस् त्व् अमू
रजस् तमः सत्त्वम् इति प्रवाहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् असङ्गे हरौ कथं प्रपञ्चोत्पत्ति-लयौ ? तत्राह—यथेति । अभ्र-तमः- प्रकाशा आगमापायिनो रजस्-तमः-सत्त्व-स्थानीयाः । हे भू-पाः प्रचेतसः ! अमूः शक्तय उद्भवन्ति न भवन्ति लीयन्ते इत्य् एवम् अयं जगत्-प्रवाहः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति अत्र विश्वनाथः—ननु गुणमयस्य विश्वस्य गुणातीतो हरिः कथं कारणं न हि मृन्मयस्य घटस्य मृदतीतं वस्तूपादानकारणं भवितुमर्हति । उपादानत्वे च हरेः कथं वा निर्विकारत्वमित्यत आह—यथेति । अभ्रतमःप्रकाशा नभसि दृश्यमानाः सूर्याद् एव भवन्ति तत्रैव लीयन्ते च । सूर्याद् इति पूर्वेणानुषङ्गः । हिमो\ऽपि सूर्यादेवेति यद्वक्ष्यते च प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सुर्यम् इव मेघहिमोपरागैः इति । उपरागशब्देन दुष्टजीवाविष्टं तमःखण्डम् एवात्रोच्यते । हे भूपा इति । रजसाविष्टचेतसामेतच्चेतः प्रणिधानेन ज्ञेयम् इति भावः । सूर्यो यथा मेघहिमाद्यतीतो\ऽपि तेषामुपादानकारणं तदपि यथा निर्विकारो भवति तथेत्य् अर्थः । यथैवाभ्रादिरहितोऽपि सूर्ये कारणत्वादभ्रादयः सन्तीत्युच्यते तथैव हरौ गुणरहिते\ऽप्य् अमूः शक्तयो रज-आद्याः इत्य् एवं प्रकारेणायं जगत्प्रवाहः । अत्र यथाभ्रतमसी सूर् यस्य शुद्धज्योतिर्मात्रस्य न स्वरूपं दूरवर्तिमलिनः प्रकाशो\ऽपि न स्वरूपं तथैव हरे रजस्तमसी शुद्धचित् तस्य तस्य सत्त्वं च न स्वरूपमित्य् एवं श्रीनारदस्य मते भगवतो गुणमयजगदुपादानत्वं निर्विकारत्वं च सिद्धमत एव आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि हरसि पासि इति देवैर्वक्ष्यते यत उदयास्तमयौ विकृतेर् मृद् इवाविकृतात् इति श्रुतिभिश् च नमो नमस् ते\ऽखिल-कारणाय निष्कारणायाद्भुत-कारणाय इति गजेन्द्रेण च कारणस्य तद् एवाद्भुतत्वं यद् उपादानत्वे\ऽपि निर्विकारत्वं विवर्ताङ्गीकारे च युक्ति-सद्भावाद् अद्भुतत्वं न स्यात् । व्याख्यातं तत्रैव स्वामिभिश् च कारणत्वे च मृदादिवद्विकारं वारयति अद्भुतकारणायेति ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु गुण-मयस्य विश्वस्य गुणातीतो हरिः कथं कारणम् ? न हि मृण्मयस्य घटस्य मृद्-अतीतं वस्तूपादान-कारणं भवितुम् अर्हति उपादानत्वे च हरेः । कथं वा निर्विकारित्वम् ? इत्य् अत आह—यथा अभ्र-तमः-प्रकाशा नभसि दृश्यमानाः सूर्याद् एव भवन्ति न भवन्ति तत्रैव लीयन्ते च सूर्याद् एव भवति, यद् वक्ष्यते—
प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो
मन्येत सूर्यम् इव मेघ-हिमोपरागैः ॥ [भा।पु। १०.८४.३३] इति
उपराग-शब्देन दुष्ट-जीवारिष्टं तमः-खण्डम् एव तत्रोच्यते—हे भूपाः ! सूर्यो मेघ-हिमाद्य्-अतीतोऽपि यथा तेषाम् उपादान-कारणं, तद् अपि यथा निर्विकारो भवति, तथेत्य् अर्थः । यथैवाभ्रादि-रहितेऽपि सूर्यो कारणत्वाद् अभ्रादयः सन्तीत्य् उच्यते, तथैव हरौ गुण-रहितेऽपि अमूः शक्तयो रज-आद्याः । इत्य् एवं-प्रकारेणायं जगत्-प्रवाहः । तत्र यथाभ्र-तमसी सूर् यस्य शुद्ध-ज्योतिर्-मात्रस्य न स्वरूपम् । दूरवर्ति-मलिनः प्रकाशोऽपि न स्वरूपम् । तथैव हरे रजस्-तमसी शुद्ध-चिन्मात्रस्य तस्य सत्त्वं च न स्वरूपम् इत्य् एवं श्री-नारदस्य मते भगवतो गुणमय-जगद्-उपादानत्वं निर्विकारत्वं च सिद्ध-मत एवात्मनैवाविक्रियमानेन सगुणम् अगुणः सृजसि हरसि पासीति देवैर् वक्ष्यते—यत उदयास्त-मयौ विकृतेर् मृदि वाविकृतात् [भा।पु। १०.८७.१५] इति विश्रुतिभिश् च,
नमो नमस् तेऽखिल-कारणाय
निष्कारणायाद्भुत-कारणाय । [भा।पु। ८.३.१५]
इति गजेन्द्रेण च कारणस्य तद् एवाद्भुतत्वं यद् उपादानत्वेऽपि निर्विकारत्वं विवर्ताङ्गीकारे युक्ति-सद्भावाद् भूतत्वं न स्यात् । व्याख्यातं तत्रैव स्वामिभिश् च—कारणत्वेऽपि मृदादि-वद् विकारं वारयति, अद्भुत-कारणायेति ॥१७॥
॥ ४.३१.१८ ॥2
तेनैकम् आत्मानम् अशेष-देहिनां
कालं प्रधानं पुरुषं परेशम् ।
स्व-तेजसा ध्वस्त-गुण-प्रवाहम्
आत्मैक-भावेन भजध्वम् अद्धा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पूर्णो विष्णुः स एवैक इति भावो य ईरितः ।
आत्मैक-भाव इति तं विदुर् ब्रह्मआत्म-दर्शिनः ॥ इति सत्य-संहितायाम् ॥१८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन सर्व-कारणत्वेन हेतुना । कालो निमित्तम् । प्रधानम् उपादानम् । पुरुषः कर्ता । एतत् त्रितयात्मकत्वात् सर्व-कारणं परमेश्वरम् अद्धा साक्षाद् भजध्वम् । कथम् ? आत्मन एक-भवेनाभिन्नत्वेन ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मैक-भावेन सर्वेषां मूल-स्वरूपम् इत्य् अव्यभिचारि-भावनया वा । यद् वा, आत्मनो यो भावान्तरामिश्रो भावो दास्यादीनाम् एकतरस् तेन ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन सर्व-कारणत्वेन हेतुना कालो निमित्तं प्रधानम् उपादानं पुरुषः कर्ता एतत्-त्रितयात्मकत्वात् सर्व-कारणं परम् ईशम् अद्धा साक्षाद् एव भजध्वं तद्-भजनेनैव देव-पित्रादि-सर्व-भजनं भवेद् इति आत्मना मनसा एक-भावेन मनस ऐकाग्र्येणेवेति वा—आत्मनो यो भावान्तरामिश्रो भावो दास्यादीनाम् एकतरस् तेन इति सन्दर्भः ॥१८॥
॥ ४.३१.१९ ॥
दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साधनम् आह । दयादिभिः शीघ्रं तुष्यति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भजध्वं तद्भजनम् एव देवपित्रादिसर्वभजनं भवेद् इति । एकभावेनैकारयेण । आत्मनो यो भावान्तरामिश्रो भावो दास्यादीनामेकतरत्वेनेति सन्दर्भः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रानुकूलान् धर्मान् आह—दययेति ॥१८-१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रानुकूलान् कांश् च धर्मान् आह—दययेति ॥१९॥
॥ ४.३१.२० ॥
अपहत-सकलैषणामलात्मन्य्
अविरतम् एधित-भावनोपहूतः ।
निज-जन-वश-गत्वम् आत्मनोऽयन्
न सरति छिद्रवद् अक्षरः सतां हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो न कदाचित् त्यजतीत्य् आह—अपहता निरस्ताः सकला एषणाः कामा यस्मात् स चासाव् अमल आत्मा मनस् तस्मिन् सतां मनसि निरन्तरं समेधिततया भावनयोपहूतः सन्निधापितः सन्न् अक्षरो हरिश् छिद्रवत् तत्रत्याकाशवत् ततो न सरति नापयाति हि । किं कुर्वन् ? आत्मनो निज-जन-वश-गत्वं स्व-भक्ताधीनत्वम् अयन्न् अवागच्छन् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः स्वतोषे सति । एवमुक्तप्रकारया भक्त्या भक्तेभ्यो भगवान्स्वात्मप्रदो भवतीति पूर्वमुपपादितं तल्लक्षणं विवृणोति—अपहतेति । अवगच्छन्स्वनिष्ठां रक्षितुम् इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यन् सदैव सङ्गतः सन् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उक्त-प्रकारया भक्त्या भक्तेभ्यो भगवान् स्वात्म-प्रदो भवतीति पूर्वम् उपपादितं, तल्-लक्षणं विवृणोति—अपहता निरस्ताः सकला एषणाः कामा यस्मात् स चासाव् अमल आत्मा मनश् च यस्मिन् सतां मनसि निरन्तरम् एधिततया भावनयोपहूतः सन्निधापितः सन्न् अक्षरो हरिर् न सरति । छिद्रवत् तत्रत्याकाशवत् ततः सकाशात् नापसरति । कीदृशः ? आत्मनः स्वस्य स्व-भक्त-जन-वश-गत्वम् अयन् जानन् स्वीयां निष्ठां रक्षितुम् इति भावः ॥२०॥
॥ ४.३१.२१ ॥
न भजति कुमनीषिणां स इज्यां
हरिर् अधनात्म-धन-प्रियो रस-ज्ञः ।
श्रुत-धन-कुल-कर्मणां मदैर् ये
विदधति पापम् अकिञ्चनेषु सत्सु ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अधनाश् च त एव आत्म-धनाश् च अधनात्म-धनाः ॥२१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सताम् एव वश्योऽसाव् असतां तु पूजाम् अपि न गृह्णातीत्य् आह—नेति । कुमनीषिणां कुत्सित-मतीनाम् । अघनाश् च ते आत्म-धनाश् च भगवद्-धनास् ते प्रिया यस्य । रस-ज्ञो भक्ति-सुख-ज्ञः । के कुमनीषिणः ? तान् आह—श्रुतादि-निमित्तैर् मदैः ये सत्सु पापं तिरस्कारं कुर्वन्ति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्वा—अधुना अकिंचना निष्कामा एवात्मनो धनानि प्रियाश् च यस्य सः । धनपुत्रादिषु ममतां परित्यज्य मय्येवामी ममतां दधत इति भक्तानां प्रेमरसं जानातीति रसज्ञः । पापं निन्दापि तद्वक्ष्यते सकर्मण उद्दिश्य सतो विनिन्दन्ति हरिप्रियान् खलाः इति ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न भजतीत्य्-आदि । कुमनीषिणाम् इज्यां स न भजति, न गृह्णाति । अधुना न विद्यते कृष्ण-व्यतिरिक्तं धनं येषां ते, आत्मा श्री-कृष्ण एव धनं येषां ते, तथा ते च ते च तथा एकान्त-भक्तास् तेषां प्रियः, यतो रसज्ञः । इज्यायां रसो नास्ति, अतः कुमनीषिण एव ते । त एव के ? इत्य् आह—श्रुत-धन-कुल-कर्मणां मदैर् ये सत्सु भक्तेषु पापं निन्दां कुर्वन्ति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यम् एवायं वश्य एवम् एव असतां तु पूजाम् अपि न गृह्णातीत्य् आह—अधनाश् च ते आत्म-धना भगवद्-धनास् ते प्रिया यस्य सः । यद् वा, अधनात्म अकिञ्चना निष्कामा एवात्मनो धनानि प्रियाश् च यस्य सः । धन-पुत्रादिषु ममतां परित्यज्य मय्य् एव ममताम् अमी दधते इति भक्तानां प्रेम-रसं जानातीति रसज्ञः । कुमनीषित्वम् आह—श्रुतेति । श्रुत-धन-कुलैर् यानि कर्माणि यागादीनि तेषां मदैः, पापं निन्दादिकम् । यद् वक्ष्यते कर्मिण एवोद्दिश्य—सतो विनिन्दन्ति3 हरि-प्रियान् खलाः [भा।पु। ११.५.९] इति ॥२१॥
॥ ४.३१.२२ ॥4
श्रियम् अनुचरतीं तद्-अर्थिनश् च
देवान् अत्युत्तम-मुनीन् विना के शैंशुमारकम् ।
हरेर् गृहं प्रविष्टास् तु ध्रुवो देवाश् च तद्-गताः ॥ इति मात्स्ये
द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः ।
न भजति निज-भृत्य-वर्ग-तन्त्रः
कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः5 ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
श्रिये देवाश् च भृत्यत्वात् मनुते बहु केशवः ।
नात्मार्थाय यतन्ते तु भक्त्या सर्वोत्तमोत्तमाः ॥ इति च ॥२२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ताधीनत्वं प्रपञ्चयन्न् आह—अनुवर्तमानाम् अपि श्रियं तद्-अर्थिनः स-कामान् द्वि-पद-पतीन् नरेन्द्रान् विबुधान् देवान् अपि यो नानुवर्तते । यतः स्वेनैव पूर्णोऽतः स्व-भृत्य-वर्गानुरक्त एव । एवं-भूतम् अमुम् उत् ईषद् अपि कथं परित्यजेत् ? ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्तानां भगवत्येव ममता नान्यत्र तथैव भगवतो भक्तेष्वेव ममतेति भक्ताधीनत्वं प्रपञ्चयति । श्रियं समष्टिसम्पत्तिरूपाम् । अनुचरन्तीं स्वसम्पत्तिवृद्ध्यर्थमनुवर्तमानाम् । तदर्थिनः व्यष्टिसम्पदर्थिनो द्विपदपतीन्नरेन्द्रान्विबुधान्देवानपि न भजन्ति नापेक्षन्ते यतः स्वेनैव पूर्णः स्वरूपत्वे\ऽपि निजभृत्यवर्गतन्त्र इत्यधीनत्वमप्यन्यस्येवास्य वास्तवं न सोपाधिकम् इत्य् अर्थः । अमुम् एवंभूतमुदीषदपि कथं विसृजेत् । रसज्ञ इति । यथा प्रेमरसज्ञो भगवानुक्तस् तथा भक्तो\ऽपि भगवत्प्रेमरसज्ञ इत्युभावेव जगत्यस्मिन् रसज्ञाव् इति भावः । ननु तर्हि भक्तस्य भगवद्-वशत्वमुचितम् एव भगवतो\ऽपि भक्तवश्यत्वे रस एवोपाधिर् अभूत् । मैवम् । रसो हि विभावादिसंवलितः स्थायिभावः स्थायी च प्रेमा रसापरपर्यायः स च स्वाभाविकममत्वातिशयविषयीभूतभगवत्सुखकामिता भक्ताश्रयैव तस्याश् च निर्निमित्तत्वात् । भगवतश् च सुखपूर्णत्वे\ऽपि तस्याः सुखातिशयप्रदत्वं श्रुतिस्मृतिप्रसिद्धं निष्कारणकम् एवातः कथमुपाधित्वं तेन भगवतः स्वाभाविकम् एव प्रेमवशत्वमायातम् । प्रेमा च स्वाधारं स्वीकृतीकरोतीति भक्तवश्यत्वम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रियं जगत्-सम्पत्ति-रूपाम् अनुचरन्ती स्व-सम्पत्ति-वृद्ध्य्-अर्थम् अनुवर्तमानां, न तु भगवल्-लक्ष्मीवन् निष्कामां तद्-अर्थिनश् च । ब्रह्मादीन् द्विपद-पतीन् विबुधान् देवान् अपि यो नानुवर्तते यत् स्वरूप-वैभवेनैव पूर्णः, तथापि निज-भृत्य-वर्ग-तन्त्रः भक्त-मात्रे दया-परवश इत्य् अर्थः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तानां भगवत्य् एव ममता नान्यत्र यथा तथैव भगवतोऽपि भक्तेष्व् एव ममतेति भक्ताधीनत्वं प्रपञ्चयति—श्रियं समष्टि सम्पत्ति-रूपाम् अनुचरतीं स्व-सम्पत्ति-वृद्ध्य्-अर्थम् अनुवर्तमानाम् । तद्-अर्थिनो व्यष्टि-सम्पद्-अर्थिनः, द्विपद-पतीन् नरेन्द्रान्, विबुधान् देवान् अपि न भजति नापेक्षते । यतः स्वेनइव पूर्णः । स्व-पूर्णत्वेऽपि निज-भृत्य-वर्ग-तन्त्र इत्य् अधीनत्वम् अप्य् अन्यस्येवास्य वास्तवं न सोपाधिकम् इत्य् अर्थः ।
अमुम् एवं-भूतेषु उत् ईषद् अपि कथं विसृजेत् ? रसज्ञ इति । यथा भक्त-प्रेम-रसज्ञो भगवान् उक्तस् तथा भक्तोऽपि भगवत्-प्रेम-रसज्ञ इत्य् उभाव् एव जगत्य् अस्मिन् रजज्ञाव् इति भावः ।
ननु तर्हि भक्तस्य भगवद्-वशत्वम् उचितम् एव भगवतोऽपि भक्त-वश्यत्वे रस एवोपाधिर् अभूत् ? मैवं, रसो हि विभावादि-संवलितः स्थायि-भावः स्थायी च प्रेमा रत्य्-अपर-पर्यायः स च स्वाभाविक-ममत्वातिशय-विषयीभूत-भगवत्-सुख-कामिता भक्त्य्-अश्रयैव तस्याश् च निर्निमित्तत्वात् भगवतश् च सुख-पूर्णत्वेऽपि तस्याः सुखातिशय-प्रदत्वं श्रुति-स्मृति-प्रसिद्धं निष्कारणकम् एवातः कथम् उपाधित्वं, तेन भगवतः स्वाभाविकम् एव प्रेम-वश्यत्वम् आयातम् । प्रेमा च स्वाधारं स्वाकारीतीति भक्त-वश्यत्वं च ॥२२॥
॥ ४.३१.२३ ॥
मैत्रेय उवाच—
इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः ।
श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रचेतसः कर्म-भूतान् । अन्याश् च नूनं सुनीतेर् इत्य्-आदि-ध्रुव-चरिताद्याः । सत्रेऽगायत् प्रचेतसाम् इत्य् उक्तत्वात् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति । भक्तिरसेन दीप्यमान हे विदुरेत्य् अर्थः । अन्याश् च ध्रुवादिसम्बन्धिनीः कथाः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.२४ ॥
तेऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् ।
हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेऽपि प्रचेतसः । तद् गतिं विष्णु-लोकम् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेऽपि प्रचेतसो\ऽपि । तन्मुखान्नारदास्यात् । निर्यातं निर्गतम् । हरेर्यशः उभयत्र तत्पदं हरिं ब्रूते । गतिरत्र पार्षदादिरूपैव ज्ञेया ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.२५ ॥
एतत् तेऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरि-कीर्तनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रचेतसां नारदस्य संवाद-रूपम् एतद् आख्यानं तेऽभिहितम् । हरेः कीर्तनं यस्मिंस् तत् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षत्तर् इति । न जातिस्मारणम् अपि तु त्वमधुना शकलीकृताखिलाघो जात इति भावः । क्षद-शकली करणे धातुः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.२६ ॥
श्री-शुक उवाच—
य एष उत्तानपदो मानवस्यानुवर्णितः ।
वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : य एष वंशः सोऽनुवर्णितः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष इति । तात्कालिकवर्णितत्वेन बुद्धिसंनिहितत्वादुक्तम् । नृपसत्तमेति । अहो धन्यो\ऽयं मानवो वंशो यत्रैतादृशा ध्रुवादयो हरिभक्ता आसन्नहं तु तद्वंशकीर्तिं प्राप्तुमसमर्थ एवेति शोचमानं परीक्षितमुत्साहयति—त्वम् अपि नृपेषु सत्तमोसि यद्रक्षायै स्वयम् एव विष्णुर्ब्रह्मास्त्रं ददाहेति भावः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.२७ ॥
यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यः प्रियव्रतः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रोतृजनप्रीत्यर्थं प्रियव्रतचरितं प्रस्तौति—य इति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३१.२८ ॥
इमां तु कौषारविणोपवर्णितां
क्षत्ता निशम्याजित-वाद-सत्-कथाम् ।
प्रवृद्ध-भावोऽश्रु-कलाकुलो मुनेर्
दधार मूर्ध्ना चरणं हृदा हरेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजितस्य हरेर्वादो यस्यां सत्कथायां ताम् यद्वा—अजितस्य हरेर्वादः कथनं येषां ते\ऽजितवादा ध्रुवाद्यास् तेषां सत्कथाम् । मुनेश्चरणं मूर्ध्ना हरेश् च हृदा दधार । यद् वा, हरेर्हृदा हरिसम्बन्धिदृष्ट्या साक्षाद्धरिरेवायम् इति दृष्ट्या हृच्छब्दस्य दृष्टिवाचकत्वे मानमाद्यपद्यमत्कृतव्याख्याशतके\ऽवलोक्यम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इमां मद्-भक्त-स्वीकार-रूपां तेनेत्य् अत्र तातेति क्वचित् ॥२८॥
॥ ४.३१.२९ ॥
विदुर उवाच—
सोऽयम् अद्य महा-योगिन् भवता करुणात्मना ।
दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-योगिन्न् इति । सर्व-सामर्थ्य-बोधनाय योगिनो\ऽपि परोद्धरणे समर्थाः किं पुनर् महायोगी त्वम् इति भावः । तमसः संसार-समुद्रस्य यत्र पारे । हरिर् अकिञ्चनं प्राप्नोति, किं पुनर् वक्तव्यम् अकिञ्चनो हरिं प्राप्नोतीति । यद् वा, अकिञ्चनैर् निरस्त-देहादि-भावैर् गीयत इत्य् अकिञ्चनगः । पारो\ऽत्र भक्ति-मार्ग एव, तस्यैव भगवत्-प्रापकत्वात् । भक्त्याहम् एकया लभ्यः [भा।पु। ११.१४.२१] इत्य्-आद्य्-उक्तेः ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसः संसार-समुद्रस्य पारः । यत्र हरिर् अकिञ्चनं प्राप्नोति, किं पुनर् वक्तव्यम् अकिञ्चनो हरिं प्राप्नोतीति ॥२९॥
॥ ४.३१.३० ॥
श्री-शुक उवाच—
इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वान् ज्ञातीन् दिदृक्षुः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तुत्वा नत्वा च पुनः किमकार्षीद् अत्राह—इतीति । इत्य् उक्त्वा । स्वानाम् इति कर्मणि षष्ठी । निर्वृताशयः मैत्रेयद्वारा श्रीभगवद्-अङ्गीकारानुसन्धानेनेति भावः । ज्ञातव्यांशाभावाद्वा जातानन्दः—
यावतः कृतवान्प्रश्नान् क्षत्ता कौषारवाग्रतः ।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ इत्य् उक्तेः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रथम-स्कन्धोक्तं योजयति । इति निर्वृताशय इति मैत्रेय-द्वारा श्री-भगवद्-अङ्गीकारानुसन्धानेन इति भावः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वानां स्वान् ज्ञातीन् ॥३०॥
॥ ४.३१.३१ ॥
एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् ।
आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञां चरितम् इति शेषः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच्छ्रोतुरैहिकामुष्मिकफलम् आह—एतद् इति ॥३१॥
इति श्रीखरडनगरवासि श्रीवंशीधरशर्मगौडनिर्मिते श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे एकत्रिंशो\ऽध्यायः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परमानन्देन सकाम-श्रोतॄन् अप्य् आशिषयति एतद्व्य इति ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकत्रिइंशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
प्रचेतसोपाख्यानं नाम
एकत्रिंशोऽध्यायः ।
॥ ४.३१ ॥
-
न यत्रात्मात्मदः इति पाठान्तरम्। ↩︎
-
अस्याध्यायस्य तत्त्ववादिनां सम्प्रदायस्य पाठानुसारेण [मध्व-कृत भागवत्-तात्पर्ये, विजय-ध्वज-कृत पद-रत्नावई-टीकायां च। केचित् श्लोका अधिक-पाठ-रूपेण प्राप्यन्ते। अत्र—
निरस्त-सङ्कल्प-विकल्पम् अद्वयं
द्वयापवादोपरमोपलम्भनम् ।
अनादि-मध्यान्तं अजस्र-निर्वृतिं
संज्ञप्ति-मात्रं भजतामुया दृशा ॥
माध्व-तात्पर्ये—सङ्कल्प-विकल्पश् च ऋते विष्णु-प्रसादतः ।
नैव सम्भवतो विष्णोः समाभावात् तु सोऽद्वयः ॥ इति तन्त्र-भागवते ॥ ↩︎
-
सतोऽवमन्यन्त इति पाठः। ↩︎
-
अस्य श्लोकस्य पश्चात् द्वैत-वादिनां सम्प्रदायस्य पाठः—
भवतां वंश-धुर्योऽभूद् ध्रुवश् चित्ररथः स्वराट् ।
गुरु-दार-वचो-बाणैर् निर्भिन्न-हृदयोऽर्भकः ॥
त्यक्त्वा स्त्रैणं च तं गच्छन् दृष्टो मे पथ्य् उदारधीः ।
पञ्च-वर्षो मद्-आदेशैः संराध्य पुरुषेश्वरम् ॥
तत्-परं सर्व-धिष्णेभ्यो मायाधिष्ठितम् आरुहत् ।
मुनयोऽद्याप्य् उदीक्षन्ते परं नापुर् अवाङ्-मुखाः ॥
तं यूयं सर्व-भूतानां अन्तर्यामिणम् ईश्वरम् ।
रुद्राद् इष्टोपदेशेन भजध्वं भवनुत्तये ॥ इति ॥
अत्र मध्वस्य तात्पर्ये—
सर्वोत्तमत्वाद् विस्णुर् हि माय इत्य् एव शब्द्यते इति व्योम-संहितायाम् ↩︎
-
रसज्ञ इति केचित् पठन्ति। ↩︎