अथ त्रिंशोऽध्यायः
विषयः
दश-प्रचेतसां भगवद्-दर्शनं वर-प्राप्तिश् च, तेभ्यो मारिषा-गर्भाद् दक्षोत्पत्तिश् च ।
॥ ४.३०.१ ॥
विदुर उवाच—
ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।
ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
प्रसङ्गात् पञ्चभिः प्रोक्तं वृत्तं प्राचीनबर्हिषः ।
वर्ण्यते च पुनर् द्वाभ्यां प्रस्तुतं तत् प्रचेतसाम् ॥
तत्र त्रिंशे तपस् तुष्टादीशाल् लब्ध-वरास् ततः ।
आगत्य वार्क्षीम् उद्वाह्य राज्यं चक्रुर् इतीर्यते ॥
हरिं प्रतोष्य कां सिधिम् आपुः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रसङ्गात् प्रचेतःकथाप्रसङ्गात् । प्रस्तुतं प्रकृतं तद्वृत्तम् । तत्र द्वयोर्मध्ये । ततः तपः स्थलात् । वार्क्षीं वृक्षैः पालितां कण्डुतः प्रम्लोचोद्भवाम् । उद्वाह्य परिणीय । रुद्रगीतेन शिवोपदिष्टयोगादेशाख्यस्तवेन ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रिंशे प्रचेतसो लब्ध-वराः स्तुत्या हरेर् जलात् ।
गत्वा दग्ध्वा तरून् वार्क्षीं लब्ध्वा राज्यं मुदा व्यधुः ॥
प्रचेतसां कथा-मध्ये एव तत्-पितुः प्राचीनबर्हिषो नारदोपदेशाद् उद्धारम् आकर्ण्य पुनस् तेषाम् एवावशिष्टां कथां शुश्रूयते—ये इति । हरिं प्रतोष्य कां सिद्धिम् आपुः ॥१॥
॥ ४.३०.२ ॥
किं बार्हस्पत्येह परत्र वाथ
कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः ।
आसाद्य देवं गिरिशं यदृच्छया
प्रापुः परं नूनम् अथ प्रचेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे बार्हस्पत्य ! कस्याञ्चिद् विद्यायां बृहस्पतेर् मैत्रेयः शिष्य इति ज्ञातव्यम् । ते यदृच्छया गिरिशं प्राप्य तस्यैव कैवल्य-नाथ-प्रियस्य गिरिशस्य पार्श्व-वर्तिनस् तद्-अनुगृहीताः सन्तो नूनं परं मोक्षं प्रापुर् एव । ततः पूर्वं त्व् इहाथवा परत्र किं प्रापुः ? ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कैवल्यनाथो विष्णुः वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः। इति कैवल्यनाथो भगवान्विष्णुरे व न संशयः इति मुचुकुन्दं सर्वदेवोक्तः । स प्रियो यस्य शिवस्य अहं च भगवत्प्रियः इति चित्रकेतूपाख्याने सतीं प्रति साक्षाच्छ्रीरुद्रोक्तेः । ततो मोक्षात् । गिरिशं ज्ञानदातृषु मुख्यं गिरिणा ब्रह्मणा शं सुखं यस्य स गिरिशः तं ब्रह्मगिरिरित्याचक्षते इति श्रुतेः । यद्वा—गिरिमज्ञानपर्वतं श्यति नाशयतीति गिरिशः । गिरौ कैलासे शेते तिष्ठतीति वा गिरिशः । एतेन ब्रह्मनिष्ठैकान्तवासित्वादिका गुरुधर्मा अप्यत्र दर्शिताः । बार्हस्पत्येति । बृहस्पतिवत्तवापि त्रैकालिकज्ञानवत्त्वेन सर्वज्ञत्वात्सर्वकथनसामर्थ्यमस्तीति भावः । प्रचेतस इति । प्रकृष्टचेतस्त्वात्ते तु मोक्षाधिकारिण एवेति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे बार्हस्पत्य ! कस्याञ्चिद् विद्यायाम् उद्धव-मैत्रेयौ बृहस्पतेः शिष्याव् इति प्रसिद्धेः । प्रचेतस इह-लोके परत्र च किं परं श्रेष्ठं वस्तु प्रापुः, किं कृत्वा यदृच्छयैव गिरिशं देवम् आसाद्य, कीदृशाः कैवल्य-नाथस्य प्रियाः पार्श्व-वर्तिनश् च ॥२॥
॥ ४.३०.३ ॥
मैत्रेय उवाच—
प्रचेतसोऽन्तर् उदधौ पितुर् आदेश-कारिणः ।
अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पुरेषु त्व् अञ्जनाज् जीवः पुरञ्जन इतीरितः ।
पुराणां जननाद् विष्णुर् व्यञ्जकत्वं द्वयोर् अपि ॥ इति तन्त्र-भागवते ॥३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद्र-गीत-जप-रूपेण यज्ञेन तपसा च । पुरञ्जनं हरिम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरं सर्वसमूहं जनयतीति पुरंजनः । यद्वा—पिपर्तीति पुरः जनयतीति जनः पुरश्चासौ जनश्चेति पुरंजनः । आर्षो मुम् । सर्वोत्पत्तिस्थितिकर्तारमीश्वरम् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुद्र-गीत-रूपेण जप-यज्ञेन पुरञ्जनं हरिम् ॥३॥
॥ ४.३०.४ ॥
दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः ।
तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां कृच्छ्रं तपः-क्लेशं रुचा कान्त्या शमयन् शान्तेन शुद्ध-सत्त्वेन वपुषा आविर्भूतः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शान्तेन शान्तया रुचा ॥४॥
॥ ४.३०.५ ॥
सुपर्ण-स्कन्धम् आरूढो मेरु-शृङ्गम् इवाम्बुदः ।
पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपर्ण-स्कन्धम् आरूढ इत्य्-आदीनां बर्हिष्मतः सुतानाहेति तृतीयेनान्वयः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां प्रचेतसाम् ॥४-५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुपर्णेति त्रिकम् । काशिष्णुना भ्राजमानेन कनक-वर्णेनालौकिकत्वात्, न तु कनक-मयेनेत्य् अर्थः । तेन विभूषणेन कुण्डलादिना पूर्वं श्री-रुद्रोपदिष्ट-परम-व्योमाख्य-महा-वैकुण्ठाधिप-चतुर्भुजत्वेन ध्यातस्यापि श्री-भगवतोऽष्ट-भुजत्वेन आविर्भावस्याभिप्रायोऽयम-नाधुना भवद्-अत्यन्त-मिष्ट-दानार्थम् अहम् आविर्भूतः, किन्तु आपात-सान्त्वनाद्य्-अर्थम् एवेति ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.६ ॥
काशिष्णुना कनक-वर्ण-विभूषणेन
भ्राजत्-कपोल-वदनो विलसत्-किरीटः ।
अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर्
आसेवितो गरुड-किन्नर-गीत-कीर्तिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कनक-मयेन वर्णवता विभूषणेन भ्राजमानं कपोलं वदनं च यस्य । अष्टभिर् आयुधैः । गरुड एव किन्नरस् तेन पक्ष-स्वनैर् गीता कीर्तिर् यस्य ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काशृ-दीप्तौ इति इष्णुप्रत्ययः । वर्णवता शोभनवर्णेन । सन्दर्भस्तु—कनकवर्णेनेत्यलौकिकत्वान्न तु कनकमयत्वेनेत्य् अर्थः । विभूषणेन कुण्डलादिना । भ्राजद् इति शत्रन्तत्वमार्षम् । किन्नरो गायको देवयोनिभेदः । वर्णानि रूपभेदास्तानि संन्यस्मिन्न् इति वर्णं मत्वर्थीयोच् बहुवर्णयुतम् । भूमार्थे\ऽपि मतुबादयः सन्ति । सुवर्णस्य वर्णानि बहूनि सन्ति तानि च रत्नपरीक्षाग्रन्थतो\ऽवसेयानि । लोकव्यवहारो\ऽपि द्वादशवर्णमिदमेकादशवर्णमिदं स्वर्णम् इति दृश्यते, तथा च कनकं च तद्वर्णं च इति कनकवर्णं तस्य विभूषणेनेति
वा ज्ञेयम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कनक-मयेन वर्णवता नाना-रत्न-जटितत्वेन नाना-वर्णवता विभूषणेन कुण्डलादिना, भुज-मण्डल-मध्ये लक्ष्मीः शोभा यस्यास् तया । स्पर्धन्ती स्पर्धमाना श्री-लक्ष्मीर् यया तया । आद्यः पुरुषः । पर्जन्य-नाद इव कृतं नादो यस्यास् तया वाचा आह । स-कृपावलोकः ॥५॥
॥ ४.३०.७ ॥
पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या
स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः ।
बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्
पर्जन्य-नाद-रुतया सघृणावलोकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पीनाश् च ते आयता अष्टौ भुजास् तेषां मण्डलं समूहस् तन् मध्ये स्थितया लक्ष्म्या स्पर्धमाना श्रीः शोभा यस्यास् तया वनमालया परिवृत आद्यः पुरुष आह । पर्जन्यस्य नाद इव रुतं नादो यस्यास् तया वाचा । स-घृणोऽवलोको यस्य ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्पर्द्धद् इति प्रयोगस्त्वश्ववदाचरतीत्यश्वन्नित्य्-आदिवदौपचारिक एव । न हि हरेर्वक्षसि नित्यस्थितयोर्लक्ष्मीवनमालयोरौत्सर्गिकी स्पर्धा संजाघटीति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**पूर्व-श्लोको द्रष्टव्यः।
॥ ४.३०.८ ॥
श्री-भगवान् उवाच—
वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः ।
सौहार्देनापृथग्-धर्मास् तुष्टोऽहं सौहृदेन वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यूयं मे मत्तो वृणीध्वम् । सौहार्देन हेतुनाऽपृथग् धर्मो येषां तेषां संबोधनम् । वः परस्परं सौहृदेन तुष्टोऽहम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वो युष्माकं सौहृदेन वैशिष्ट्यं प्राप्तेन सुहृत्त्वेन यथा तुष्टो न तथा मदुपासनयापीति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.९ ॥
योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः ।
तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतेषु सौहृदं च भविष्यति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्ध्यायां प्रातरादौ आत्मसाम्यमात्मनीव परमस्नेहः सौहृदं प्रीतिः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.१० ॥
ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः ।
स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेभ्यो दास्ये, किं पुनर् युष्मभ्यम् इति शेषः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शोभनामैहिकयशो\ऽमुत्र सुखदाम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेभ्यो दास्ये, किं पुनर् युष्मभ्यम् इति भावः ॥१०॥
॥ ४.३०.११ ॥
यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः ।
अथो व उशती कीर्तिर् लोकान् अनु भविष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्रहीष्ट गृहीतवन्तः । अथो इति हेतोः । लोकान् अनु लोकेषु भविष्यति । यद् वा, लोकान् अनु भविष्यति द्रक्ष्यति व्याप्स्यतीत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोकान् अन्व् अत्र सप्तम्य्-अर्थे\ऽव्ययीभाव-कल्पने\ऽउन् पूर्व-भवतः सकर्मकत्वेन प्रसिद्धस्याकर्मकत्व-कल्पने गौरवं मत्वाह—यद् वेति । इत्य् अर्थ इति । धातूनाम् उपसर्गाणां चानेकार्थत्वाद् अनु पूर्वो भवतिर् व्याप्त्य्-अर्थकोऽपीति भावः । एतेन विपुल-कीर्ति-कामैर् नरैर् गुर्व्-आदेशो\ऽवश्यम् अनुष्ठेय इति ध्वनितम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकान् अनु लक्ष्मी-कृत्य ॥११॥
॥ ४.३०.१२ ॥
भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।
य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो वीर्येण सन्तानेन ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणैर्ब्रह्मणो\ऽन्यूनः समः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणैर् ब्रह्मणः सकाशाद् अनवमः अन्यूनः ॥१२॥
॥ ४.३०.१३ ॥
कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना ।
तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रार्थम् आदौ भार्यां सम्पादयति भगवान् कण्डोर् इति त्रिभिः । तपो-नाशार्थम् इन्द्र-प्रेषितया प्रम्लोचया कण्डुर् नाम ऋषिर् बहु-कालं रेमे । सा च ततः स्वर्गं गच्छन्ती कण्डोर् जातं गर्भं वृक्षेषु त्यक्त्वा जगाम तद् एतद् उक्तम् । अपविद्धां त्यक्ताम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कस्यां भार्यायां पुत्रो भवितेत्येतदर्थम् । कन्यात्यागे हेतुर्मातृपितृमृतिप्रदयोगजनिरेवेति ध्येयम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कस्यां भार्यायां पुत्रो भवितेत्य् अत आह—कण्डोर् इति त्रिभिः । तपो-नाशार्थम् इन्द्र-प्रेरितया प्रम्लोचया कण्डुर् नाम ऋषिर् बहु-कालं रेमे । सा च ततः स्वर्गं गच्छन्ती कण्डोर् जातं गर्भं वृक्षेषु त्यक्त्वा जगामेत्य् अत आह—अपविद्धां त्यक्ताम् । हे नृप-नन्दनाः ! ॥१३॥
॥ ४.३०.१४ ॥
क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् ।
देशिनीं रोदमानाया निदधे स दयान्वितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स प्रसिद्धो वनस्पतीनां राजा सोमोऽमृत-स्राविणीं देशिनीं तर्जनीं रुदत्यास् तस्या मुखे निदधे । अनेनाप्सरो-गर्भ-संभवे वामृताहारेण च तस्या लावण्यं क्लम-स्वेद-दौर्गन्ध्यादि-राहित्यं चोक्तम् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षुत्क्षामायाः क्षुत्पीडितायाः । निदधे स्थापितवान् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोमो वनस्पतीनां राजा स प्रसिद्धः ॥१४॥
॥ ४.३०.१५ ॥
प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता ।
तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : माम् अनुवर्तमानेन पित्रा नियुक्ताः सन्तस् तत्र प्रजा-विसर्गे निमित्ते ताम् उद्वहत ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पित्रा प्राचीनबर्हिषा । नियुक्ताः प्रेरिताः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पित्रा प्राचीनबर्हिषा माम् अनुवर्तमानेन तत्र गत्वा ॥१५॥
॥ ४.३०.१६ ॥
अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा ।
अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु बहूनां कथम् एका भार्या स्यात् ? तत्राह । अपृथग् धर्मः शीलं येषां तेषां वः पत्नी भूयात् । अर्पितो भवत्सु आशयो यया धर्म-शीलयोर् ऐक्यान् मद्-वाक्याच् च न दृष्टादृष्ट-विरोध इति भावः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । मदाशीर्वाद एव दृष्टादृष्टदोषमुपशमयिष्यतीति तात्पर्यम् । दृष्टविरोधो लोके बहूनामेकभार्यत्वे व्यभिचारकल्पनया निन्दा दातव्यैका सुतैकस्मै बहुभ्यो न कदाचन इति विहितमर्यादाभङ्गेनादृष्टविरोधोपीति द्वयोद्भवं पापं युष्मान्न स्प्रक्ष्यतीति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु बहूनां कथम् एका भार्या स्यात् ? तत्राह । अपृथग् इति । भूयाद् इति मद्-आशीर्वाद एव दृष्टादृष्ट-दोषम् उपशमयिष्यतीति भावः ॥१६॥
॥ ४.३०.१७ ॥
दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
दिव्य-सहस्राणाम् इति सहस्र-शब्दो बहुत्व-वाची ।
मानुष्याणां वत्सराणां लक्ष-द्वादशकं पुरा ।
प्रचेतोभिर् इयं पृथ्वी पालिता व्याहतेन्द्रियैः ॥ इति ब्रह्माण्डे ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहतौजसोऽप्रतिहत-बलाः सन्तः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिव्यवर्षसहस्राणां सम्बन्धिनं कालमभिव्याप्य सहस्रमनन्तान्भोगान्भोक्ष्यथेति । सहस्राणामिति—कपिंजलानालभेत इतिवत् त्रयाणाम् इत्य् अर्थः । अत एव तीर्थेनोक्तं—
मानुषाणां वत्सराणां लक्षद्वादशकं पुरा ।
प्रचेतोभिरियं भूमिः पालिताव्याहतेन्द्रियैः ॥ इति ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिव्यानां वर्ष-सहस्राणां सम्बन्धिनं कालम् अभिव्याप्य सहस्रम् अनन्तान् भोगान् भोक्ष्यथेत्य् अन्वयः । सहस्राणाम् इति कपिञ्जलानालभेतेतिवत् त्रयाणाम् इत्य् अर्थः ॥१७॥
॥ ४.३०.१८ ॥
अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः ।
उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पक्व-गुणो दग्ध-कामादि-मल आशयो येषाम् । अतो लोक-द्वय-भोगान् निरय-प्रायान् निर्विद्य मत्-स्थानं प्राप्स्यथ ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे भक्त्या पक्वगुणाशयाः । अथ भौमभोगान्ते । मद्धाम यास्यथेति योज्यं, न तु भविष्यन्त्या भक्त्त्या पक्वगुणाशयाः सन्त एवेति व्याख्येयम् । अपक्वकषायाणां भगवद्-दर्शनासम्भवात् । अविपक्वकषायाणां दुर्दर्शोहं कुयोगिनाम् इति नारदं प्रत्यशरीरवागुक्तेः । अत इदङ्कारास्पदात्पारमेष्ठ्यादिपदाद् अपि निर्विद्य निरयान्निरयतुल्यान्निर्गतो\ऽयः शुभावहो विधिर्यत्र स निरय इति निरुक्तेः । आब्रह्मभुवनाल्लोकाः पुनर् आवर्तिनोर्जुन इति श्रीमुखोक्तेः पारमेष्ठ्यादिपदेभ्यो\ऽप्यावृत्तिश्रवणेन तत्र शुभावहविधित्वाभावान्निरयतुल्यत्वम् एवेति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेभक्त्या पक्व-गुणाशयाः । अथ भौम-भोगान्ते मद्-धामयास्यथेत्य् अन्वयः । न तु भविष्यन्त्या भक्त्या पक्व-गुणाशयाः सन्त एवेति व्याख्येयम् । अपक्व-कषायाणां भगवद्-दर्शनासम्भवात् । तद् उक्तम्—अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनां [भा।पु। १.६.२९] इति । अतः इदन्तास्पदत्वात् पारमेष्ठ्यादि-पदाद् अपि निरय-तुल्यान् निर्विद्य ॥१८॥
॥ ४.३०.१९ ॥
गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् ।
मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गृहेषु प्रविष्टानाम् अस्माकं तद् आसक्त्या बन्ध एव स्यात् कुतस् त्वद्-भक्तिर् निर्वेदो वा तत्राह—गृहेष्व् इति । कुशलं मय्य् अर्पितं कर्म येषाम् । मद्-वार्तया यातो यामः कालो येषाम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु भौमान्भोक्ष्यथ इत्याद्युक्त्या निरयतुल्ये विषयभोगे त्वद्-भक्तिप्रतिकूले कथमस्मान्निक्षिपसीति भावेनाह—गृहेष्व् इति । आविशतां प्राप्तावेशानाम् अपि कुशलं मत्परिचरणम् एव कर्म येषां मत्कथया यातो यामः प्रहरो\ऽपि येषां प्रहरमध्ये मत्कथा येषामवश्यम् एव भवतीत्य् अर्थः । अयमर्थः—कर्मजन्यानाम् एव भागानां बन्धकत्वं निरयतुल्यत्वं भक्तिप्रातिकूल्यञ्च न तु मदनुग्रहजन्यानामत एव मदनुग्रहाद्भौमान्भोक्ष्यथेति मयोक्तमतो\ऽन्यत्रापि यत्र विषयभोगे\ऽपि मद्भक्तरसङ्कोचः प्रत्युत वृद्धिरे व दृश्यते चेत्तदा स विषयभोगो मदनुग्रहजन्य एवानुमेयो न बन्धकः पृथुप्रह्लादध्रुवमन्वादिषु तथा दर्शनात् । अविपक्वकषायेषु तु भक्तेषु मदनुग्रहो भोगाच्च्यावक एव द्रष्टव्यः । यदुक्तम् यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः इति । गृहाः पुंसि च भूम्नि इत्य् अमरः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि भौम्यं भोक्ष्यथ भोगान् इत्य् उक्त्या निरय-तुल्ये विषय-भोगे त्वद्-भक्ति-प्रतिकूले कथम् अस्मान् निक्षिपसि ? इति तत्राह—गृहेषु आविशतां प्राप्तावेशानाम् अपि कुशलं मत्-परिचरणम् एव कर्म येषाम् । मत्-कथया यातो यामो प्रहरोऽपि येषां प्रहर-मध्ये मत्-कथा येषाम् अवश्यम् एव भवतीत्य् अर्थः ।
अयम् अर्थः—कर्म-जन्यानाम् एव भोगानां बन्धकत्वं निरय-तुल्यत्वं भक्ति-प्रातिकूल्यं च, न तु मद्-अनुग्रह-जन्यानां, अत एव मद्-अनुग्रहाद् भौम्यान् भोक्ष्यतेति मयोक्तम् अतोऽन्यत्रापि यत्र विषय-भोगेऽपि मद्-भक्तेर् असङ्कोचः प्रत्युत वृद्धिर् एव दृश्यते चेत् तदा स विषय-भोगो मद्-अनुग्रहो भोग-च्यावक एव द्रष्टव्यः, यद् उक्तं—यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः [भा।पु। १०.८८.५] इत्य्-आदि ॥१९॥
॥ ४.३०.२० ॥
नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यज्ञो ब्रह्म-विष्ण्व्-आख्यं ब्रह्म यथानुभवं न व्यवह्रीयते । सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुम इति भारते ॥२०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-वार्ता-श्रोतॄणां गृहैर् न बन्ध इति कुतः ? तत्राह—नव्यवद् इति । यद् यस्मात् कथा-श्रवणात् ज्ञः सर्व-ज्ञोऽहम् ईश्वरो ब्रह्म-वादिभिः प्रवक्तृभिर् निमित्त-भूतैः श्रोतॄणां हृत् हृदयं नव्यवत् प्रतिपदं नूतनवत् अये प्राप्नोमि । ब्रह्म-साक्षात्कारो भवतीत्य् अर्थः ।
ननु त्वत्-कथा-श्रवणे कथं ब्रह्म-साक्षात्कारः ? तत्राह । योऽहम् एतद् एव ब्रह्म । तत्र हेतुः—यतो गताः**,** यं मां प्राप्ताः सन्तो मोह-शोक-हर्षान् न प्राप्नुवन्ति, अतो मत्-कथा-श्रवणेन नव्यवन् मम हृद्य् आविर्भावाद् अस्येव ब्रह्म-साक्षात्-कारत्वाद् गृहेषु वसताम् अपि न बन्ध इत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां भक्तानां कुतो बन्धदुःखं यतस् तेषां हृदये\ऽहं सुखं प्राप्तुं नित्यं वसामीत्यभिप्रेत्याह—त्वद्-वार्तेति । इत्य् अर्थ इति । सर्वदा तदा तच्छ्रवणादिना तदाकारवृत्तेरे व ब्रह्मसाक्षात्कारत्वम् इति भावः । अत्राक्षिपति—नन्व् इति । उच्यते इति शेषः । तत्र ब्रह्मत्वे । अतो हर्षशोकाद्य्-अभावात् । इत्य् अर्थ इति । बन्धनिवर्तकब्रह्मज्ञानवत्त्वान्न बन्ध इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां भक्तानां कुतो बन्ध-दुःखं यतस् तेषां हृदयेऽहम् अपि सुखं प्राप्तुं नित्यं वसामीत्य् आह—नव्येति । एतन्-महत्-स्वरूपं ब्रह्म-वादिभिर् ब्रह्म उच्यते इति शेषः । यतो यत्र ब्रह्मणि गता लीना न मुह्यन्ति मोह-शोक-हर्षाय प्राप्नुवन्ति, सोऽहं ज्ञो विज्ञोऽपि यद् यस्मात् तेषां कुशल-कर्मणां हृत् हृदय-कमलं नय्ववत् प्रतिपदं नूतनवत् अये प्राप्नोमि जानामीति वा—तेषां हृदये नव्यवद् अहं भामि इति सन्दर्भः ॥२०॥
॥ ४.३०.२१ ॥
मैत्रेय उवाच——
एवं ब्रुवाणं पुरुषार्थ-भाजनं
जनार्दनं प्राञ्जलयः प्रचेतसः ।
तद्-दर्शन-ध्वस्त-तमो-रजो-मला
गिरागृणन् गद्गदया सुहृत्तमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषार्थं भाजयति प्रापयतीति तथा तम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषार्थानां भाजनं पात्रं, ध्वस्त-तमो-रजसोऽपि यद्-दर्शनात् अमलाः—अदर्शन-दुःख-मालिन्य-रहिता इत्य् अर्थः ॥२१॥
॥ ४.३०.२२ ॥
प्रचेतस ऊचुः—
नमो नमः क्लेश-विनाशनाय
निरूपितोदार-गुणाह्वयाय ।
मनो-वचो-वेग-पुरो-जवाय
सर्वाक्ष-मार्गैर् अगताध्वने नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वेदैः सकल-श्रेयः-साधनत्वेन निरूपिता उदार-गुणा आह्वया नामानि च यस्य । मनो-वचसोर् वेगाद् अपि पुरोऽरतो जवो वेगोऽस्य । मनो-वचसोर् अगोचरायेत्य् अर्थः । अत एव सर्वेषाम् अक्षाणां मार्गैर् अगतोऽनव-गतोऽध्वा यस्य तस्मै ते नमः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । तद्धावतो\ऽन्यानत्येति इति श्रुतेर् इति भावः । अत एव मनोवचो\ऽगोचरत्वाद् एव । यतो वाचो निवर्तन्ते इत्य्-आदिश्रुतेः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विरूपिता वेदैर् उक्ता उदारा गुणा आह्वया नामानि च यस्य तस्मै, मनो-वचसोर् वेगाद् अपि पुरोऽग्रतो जवो वेगो यस्य तस्मै ॥२२॥
॥ ४.३०.२३ ॥
शुद्धाय शान्ताय नमः स्व-निष्ठया
मनस्य् अपार्थं विलसद्-द्वयाय ।
नमो जगत्-स्थान-लयोदयेषु
गृहीत-माया-गुण-विग्रहाय ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सु अनिष्ठ-मनसि ।
अनवस्थित-बुद्धीनां द्वितीयं दृश्यते हरेः ।
सम्यक् स्वः-स्थित-बुद्धीनाम् इदं सर्वं हरेर् वशः ॥ इति ।
नित्यं गृहीत-सत्त्वाद्य्-अविग्रहाश् चात्र यः सदा ।
ज्ञानानन्दात्मकास् ते तु विग्रहा निर्गुणास् तथा ।
दौ तत्र ब्रह्म-रुद्र-स्थाव् एको वैकुण्ठ-धामगः ॥
इति प्रवृत्त-संहितायाम् ॥२३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-निष्ठया स्वरूप-स्थित्या शुद्धाय । अतः शान्ताय । मनसि निमित्ते सत्य् अपार्थं व्यर्थम् एव विलसद्-विस्फुरितं द्वयं यस्मिन् । गृहीता माया-गुणैर् विग्रहा ब्रह्मादि-मूर्तयो येन ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनसि अपार्थं निष्प्रयोजनं विलसत् देदीप्यमानम् अपि द्वयं द्वैतं यस्मात् तस्मै, यं प्राप्तानां मनसि विविध-भोग-युक्तम् अपि जगन्-निष्प्रयोजनम् एव स्याद् इत्य् अर्थः । गृहीता माया-गुणमया ब्रह्मेन्द्र-रुद्र-रूपा विग्रहा येन तस्मै ॥२३॥
॥ ४.३०.२४ ॥
नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : हरणात् ज्ञान-रूपत्वात् हरि-मेधा विभोः स्मृत इति च । हेतुआत्म-रूपिनांआनन्द् सर्व-गुणात्मत्वात् सत्त्व इत्य् अभिधीयते इति षाड्गुण्ये ॥२४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वतस् तु विशुद्ध-सत्त्व-रूपाय । संसारं हरति मेधा ज्ञानं यस्य तस्मै ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः शुद्धत्वात् । द्वयं द्वैत-रूपं विलसद्देदीप्यमानम् अपि द्वैतं यस्मात्तस्मै यं प्राप्तानां मनसि विविधभोगयुक्तम् अपि जगन्निष्प्रयोजनम् एव स्याद् इत्य् अर्थः ॥२३-२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.२६ ॥
नमः कमल-नाभाय नमः कमल-मालिने ।
नमः कमल-पादाय नमस् ते कमलेक्षण ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कमलेक्षणेति कृपालुतामाहुः ॥२५-२६॥
न कतमेन व्याख्यातम्।
॥ ४.३०.२७ ॥
नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे ।
सर्व-भूत-निवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयुङ्क्ष्महि कृतवन्तो वयम् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । त्वद्-दर्शनात्पूर्णकामः सत्यकामो भवेत्पुमान् इत्य् उक्तेः । कृतार्था वयम् इति भावः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नमोऽयुङ्क्ष्महि कृतवन्तः ॥२७॥
॥ ४.३०.२८ ॥
रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् ।
आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं वरं वृणीध्वम् इति तन् मनसि निधायाहुः—रूपम् इति । समस्तानां क्लेशानां सङ्क्षयो यस्मात् । नः आविष्कृतं प्रकटितम् । अतोऽयत् किम् अनुकम्पितम् अनुकम्पा । इयम् एवास्माकं परमानुकम्पेत्य् अर्थः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परमानुकम्पात्वे हेतुमाशङ्क्य समाधत्ते—कुत इति । अभद्ररन्धनेति । पापनिवृत्तिस्तु त्वद्-दर्शनाद् एव जाता तदर्थम् अपि नास्माभिस्त्वं प्रार्थ्य इति भावः । त्वप्रत्ययस्य विवक्षितत्वे तु ब्राह्मणत्ववदन्यत्रापि तत्तुल्यत्वापत्तेः तद्वारणाय स्वामिचरणैर्व्याख्यातमेतावदेवेति । इयत्प्रमाणकम् एव नातोधिकम् इत्य् अर्थः । इति भाव इति । त्वया तु परमकृपालुना परमप्रभुत्वम् एव स्फुटितमित्याशयः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.२९ ॥
एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः ।
यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह । हे अभद्र-रन्धन अमङ्गल-नाशन ! त्व-प्रत्ययोऽत्र न विवक्षितः । एतावद् एव दीनेषु वत्सलैः प्रभुभिर् भाव्यं कार्यम् । किं तत् ? तद् आह—यद् इति । अस्मादीया एत इति बुद्ध्या उचिते कालेऽनुस्मर्यत इति यत् । त्वया तु रूपम् अपि कर्शितम् इति भावः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येन त्वत्कर्तृकानुस्मरणेन । स्मृतानां स्वीयत्वेन चिन्तितानाम् । अन्यदाह—किं चेति । क्षुल्लकानां सकामत्वेन तुच्छानाम् । इत्य् अर्थ इति । नहि परमसर्वज्ञस्य तव किञ्चिदप्यज्ञातमस्तीति भावः । क्षुल्लकस्त्रिषु नीचेल्पे इति मेदिनी । यद्वान्तोन्तःकरणस्य हितं शुद्धिर्यस्मात्स तथा ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावत्वम् एतावद् एव विभुभिः प्रभुभिस् तत्र भवद्भिः यत्-काले स्वीय-सेवा-काले दास-सौभाग्या स्मर्यते, हे अभद्र-हन्तः ॥२९॥
॥ ४.३०.२९ ॥
येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् ।
अन्तर्हितोऽन्तर्-हृदये कस्मान् नो वेद नाशिषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : येनानुस्मरणेन स्मृतानां तेषाम् उपशान्तिः सुखं भवति । किं च क्षुल्लकानाम् अपि भूतानाम् अन्तर्-हृदयेऽन्तर्हितोऽन्तर्यामित्वेन स्थितो भवानीहताम् इच्छतां त्वद्-उपासकानां नोऽस्माकम् आशिषः कस्माद् धेतोर् न वेद । जानात्य् एवेत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येन त्वत्कर्तृकानुस्मरणेन । स्मृतानां स्वीयत्वेन चिन्तितानाम् । अन्यदाह—किं चेति । क्षुल्लकानां सकामत्वेन तुच्छानाम् । इत्य् अर्थ इति । नहि परमसर्वज्ञस्य तव किञ्चिदप्यज्ञातमस्तीति भावः । क्षुल्लकस्त्रिषु नीचेल्पे इति मेदिनी । यद्वान्तोन्तःकरणस्य हितं शुद्धिर्यस्मात्स तथा ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन त्वत्-कर्तृकानुस्मरणेनैव तेषाम् उपशान्तिः सुखं क्षुल्लकानाम् क्षुद्राणाम् अपि ईहतां सकामानाम् अपि नोऽस्माकम् अन्तर्-हृदय-मध्ये वर्तमानः सन्न् अस्माकम् आशिषः कामान् कस्मान् न वेद । कीदृशः ? अतः अन्तः-करणानां हितं शुद्धिर् यस्मात् सः ॥२९॥
॥ ४.३०.३० ॥
असाव् एव वरोऽस्माकम् ईप्सितो जगतः पते ।
प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि वक्तव्यं चेत्, तर्हि येषाम् अस्माकं भगवान् प्रसन्नोऽसाव् एव वरः । भगवत्-प्रसाद एवास्माकम् ईप्सितो वर इत्य् अर्थः । अपवर्ग-गुरुः मोक्ष-मार्ग-प्रदर्शकः । गतिः स्वतश् च पुरुषार्थ-भूतः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यप्यहं जानामि तथापि भवद्भिरे व वक्तव्यम् इति चेत् । इत्य् अर्थ इति । अत उत्कृष्टवरस्याभावाद् इति भावः । अत्र हेतुः—अपवर्गेति । अपवर्गान्मोक्षाद् अपि गुरुस्त्वम् एव यदि प्राप्तस्तदा मोक्षपर्यन्तैर्वरैरलम् इति भावः । जगतः पते इति । सर्वपालकस्य तवास्माकं पालनं विनैव प्रार्थनम् अपि कार्यम् एवेति भावः ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्य् अपि दौरात्म्ये विचारतस् त्व् इदम् उपलभामह इत्य् आहुः—असाव् इति । भवत्-प्रसाद एवास्माकम् ईप्सितो वर इत्य् अर्थः । अपवर्गतो ब्रह्म-कैवल्याद् अपि गुरुर् महती या गतिः फलं तद्-रूपः । यद् वा, अपवर्गस्य भक्ति-योगस्य गुरुर् उपदेष्टा तद्-उचिता गतिश् च ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि वाचाप्य् उच्यते इत्य् आहुः—असाव् इति । अपवर्गान् मोक्षाद् अपि गुरुस् त्वम् एव यदि प्राप्तस् तदा मोक्सा-पर्यन्तैर् वरैर् अलम् इति भावः ॥३०॥
॥ ४.३०.३१ ॥
वरं वृणीमहेऽथापि नाथ त्वत् परतः परात् ।
न ह्य् अन्तस् त्वद्-विभूतीनां सोऽनन्त इति गीयसे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अप्य् एवं, तथापि हे नाथ ! त्वत् त्वत्तो वरम् एकं वृणीमहे । कथं-भूतात् ? परतः कारणाद् अपि परात् । अक्षरात् परतः परः इति श्रूतेः । अतो यद्य् अपि त्वं दातुं समर्थो न च देयानां त्वद्-विभूतीनाम् अन्तोऽस्ति यतोऽनन्त-विभूतित्वाद् अनन्त इति गीयसे ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परतः सर्व-श्रेष्ठ-रूपत्वाद् ब्रह्म-तत्त्वाद् अपि परस् तस्मात् ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्योऽपि कश्चिद् एको वरोऽस्माकम् ईप्सितोऽस्तीत्य् आहुः—वरम् इति । हे नाथ ! यस्मात् त्वद्-विभूतीनां देयानाम् अन्तो नास्तीत्य् अतः स वरस् त्वयावश्य देय एवेति भावः ॥३१॥
॥ ४.३०.३२ ॥
पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन् न सेवते ।
त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि यथा सारङ्गो भ्रमरः पारिजाते सुखेन लब्धे सति सुलभम् अप्य् अन्यद् वृक्षान्तरं न सेवते तथा वयम् अपि साक्षात् त्वद्-अङ्घ्रि-मूलं प्राप्य किं किं वृणीमहि । न किञ्चिद् इत्य् अर्थः । यद् वा, किम् अप्य् अन्यत् तुच्छं किम् अर्थं वृणीमहि । यद् वा, यदि वृणीमहि तर्हि किं किं वृणीमहि । अनन्तत्वेन मनो-रथानाम् अनवस्थानाद् इत्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्रियन्तो तर्हि बहवो वरा यथेष्टम् इति चेन्मैवं त्वच्चरणांबुजम् एवास्माकं वरणीयं तन्माधुर्यास्वादप्राप्त्यर्थम् एव कश्चिदेको वरो\ऽभीष्टो\ऽस्ति तं विना बहूनन्यान्वरान्न वृणीम इत्याहुः पारीति त्रिभिः । यद्यपि त्वं बहुवरदोसि तथापीति । ननु पारिजाताद् एव बहूनभिलषितार्थान्प्रकामं गृह्णातु तत्राह—सारङ्ग इति । सारङ्गस्य मकरन्दमात्रग्राहित्वाद्वस्त्वन्तरेषु वांछैव नोदेति यथा तथैव त्वद्-अङ्घ्रिमूलं प्राप्य किं किम् इति । इत्य् अर्थ इति । किं तु त्वच्चरणमकरन्दं विना न किंचिद् इति भावः । तथापि व्यवहारसिद्ध्यर्थं किञ्चिदन्यदपि वरणीयम् एवेति चेदाह—यद्वेति । एककिंशब्दस्य तुच्छम् इत्य् अर्थः । द्वितीयस्य तादर्थ्यम् इति । किं च नैकेन वरेण सांसारिकव्यवहारः सेत्स्यतीति चेत् तर्हि बहवो वरणीयास् तत्र पुनर् आह—यद्वेति । इत्य् अर्थ इति । वरणीयानवस्थानादेका त्वच्चरणांबुजसेवैव सुष्ठु वरणीया भातीति भावः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रियन्तां तर्हि यथेष्टम् अनेके एव वरा इति चेन् मैवं त्वच्-चरणाम्बुजम् एवास्माकं वरणीयं तन्-माधुर्यास्वाद-प्राप्त्य्-अर्थम् एव कश्चिद् एको वरोऽभीष्टोऽस्ति तं विना बहून् अन्यान् वरान् न वृणीम इत्य् आहुः—पारीति त्रिभिः । सारङ्गो भ्रमरः । अन्यद् वृक्षान्तरम् ।
ननु पारिजातात् कल्प-द्रुमाद् एव प्रकामम् अभिवाञ्छितान् बहून् अर्थान् गृह्णातु, तत्राह—सारङ्ग इति । सारङ्गस्य मकरन्द-मात्र-ग्राहित्वाद् वस्त्व् अन्तरेषु वाञ्छैव नोत्पद्यते यथा तथैव त्वद्-अङ्घ्रि-मूलं प्राप्य किं किं वृणीमहि । अपि च त्वच्-चरण-मकरन्दं विना न किम् अपीत्य् अर्थः ॥३२॥
॥ ४.३०.३३ ॥
यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एतावद् एव प्रार्थयाम इत्य् आहुः—यावद् इति । स्पृष्टा व्याप्ताः । भवति प्रकृष्टः सङ्गो येषां, तेषां सङ्गोऽस्माकं स्यात् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव मनोरथानवस्थानाद् एव । तेषां भवद्भक्तानाम् अयम् एवास्माकमीप्सिततमो वर इति भावः ॥३३॥
सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२९२] स्पृष्टा व्याप्ताः । सन्तो वयं कर्मभिर् यावद् इह [परम्परा]{।मर्क्}-मध्ये भ्रमामः, तावद् भवति प्रकृष्टः सङ्गो येषां, तेषां सङ्गोऽस्माकं जन्मनि जन्मनि स्यात् । यावद् भ्रमामस् तावद् इति श्री-वैकुण्ठ-लोक-प्राप्तौ स्वत एव भगवद्-भक्तानां सङ्ग-सिद्धेः । यद् वा, यावत् कर्मभिर् भ्रमामो मायया अस्पृष्टा मुक्ता वा भवामः । एवं भवे संसारे अभवे च मोक्षे सङ्गः स्यात् । अन्यत् समानम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईप्सितस् त्वम् अस्माकम् एकोऽयम् एव वर इत्य् आहुः—यावत् ते इति । भवत्-प्रसङ्गानां भक्त-जनानाम् ॥३३॥
॥ ४.३०.३४ ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु राज्य-भोगान् स्वर्गापवर्गौ च विहाय किम् इदं प्रार्थ्यते ? तत्राहुः— तुलयामेति । भगवत्-सङ्गिनां सङ्गस्य लवेनापि ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । अत्र चक्रवर्ती—ननु मायया स्पृष्टा इत्य् उक्त्या मायाजयार्थं साधुसङ्गं प्रार्थयध्वे चेन्मोक्षार्थम् एव साक्षात्किन्न गृह्णीतेत्यत आहुस्तुलयामेति । यावन्तो वरणीया वरास्ते सर्वे स्वर्गमोक्षान्तःपातिन एवानुभूताः, साधुसङ्गस्य तु स्वर्गमोक्षाभ्यां परः सहस्राधिक्यमवगम्यते । यतः साधुसङ्गे सति त्वद्-रूपगुणकथामाधुर्यास्वादो भवेत् । स च स्वर्गसुखात् त्वदीय-निर्विशेषब्रह्मसुखाद् अपि कोटिकोटिगुणाधिको—
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
इति त्वद्-उक्त्या सर्वसुखदातुस्तवापि परमसुखप्रद इत्यत एकः साधुसङ्ग एव व्रियते इति । किं च—
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमो\ऽनुग्रह एष नस्तव ॥
इति वचनात्परमोत्कृष्टमहादेवेनापि प्रार्थ्यत्वात्साधुसङ्ग एव सर्वतो\ऽधिकवर इति भावः ॥३४॥
सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२८४] भगवत्-सङ्गिनो भगवद्-भक्ताः । तेषां सङ्गस्य यो लवः, अत्यल्पः कालः, तेनापि स्वर्गं न तुलयाम, समं न पश्याम, मर्त्यानां तुच्छा आशिषो राज्याद्या न तुलयामेति, किम् उत वक्तव्यम् । एवं फल-रूपात् स्वर्गात् अपवर्गाद् अप्य् अधिकत्वेन सत्-सङ्गस्य परम-फलत्वं सिद्धम् ॥३४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३१: तद्-बहिर्मुखता-प्राप्त्य्-आशङ्कया तत्-परिहार-कारणं प्रार्थयन्ते—यावद् इति । नैतावत्त्वं तत्-सङ्गस्य किन्त्व् अपार-महिमत्वम् एवेत्य् आहुः—तुलयाम लवेन इति । अतो यावद् इत्य्-आदिकं प्रेम्णैव भगवच्-चरण-सामीप्य-प्राप्त्य्-आशयोक्तं न सामीप्याद्-मुक्ति-सम्पत्त्याशयेति ज्ञेयम् ॥३३-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नैतावत्त्वं, किन्त्व् अपार-महिमत्वम् एवेत्य् आहुः—तुलयामेति । यद् वा, न चैवम् अस्य गौणत्वम् आशङ्क्यं, यतस् तुलयामेति । स्वर्गः संसारिक-भोग-सुखम् ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मायया स्पृष्टा इत्य् उक्त्या माया-जयथार्थं साधु-सङ्ग प्रार्थयध्वे चेन् मोक्षम् एव साक्षात् किं न गृह्णीतेत्य् अत आहुः—तुलयामेति ।
अयम् अर्थः—यावन्तो वरणीया वरास् ते सर्वे स्वर्ग-मोक्षान्तः-पातिन एवानुभूताः साधु-सङ्गस्य तु स्वर्ग-मोक्षाभ्याम् परः सहस्राधिक्यम् अवगम्यते, यतः साधु-सङ्गे सति त्वद्-रूप-गुण-कथा-माधुर्यास्वादो भवेत्, स च स्वर्ग-सुखात् त्वदीय-निर्विशेष-स्वरूप-ब्रह्म-सुखाद् अपि कोटि-कोटि-गुणाधिको,
नाहम् वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
इत्य्-आदि त्वद्-उक्त्या सर्व-सुख-दातुस् तवापि परम-सुख-प्रद इत्य् अत एक साधु-सङ्ग एव व्रियते इति ॥३४॥
[अत्र यथा-श्लोकं १,१८.१३-पद्यं, ४.२४.६१-तमं क्षणार्धेनापि इत्य् अनुरूपार्थकं पद्यं च द्रष्टव्यम् ॥]
॥ ४.३०.३५-३६ ॥
यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥
यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।
संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्गस्य श्रैष्ठ्यं प्रपञ्चयति—यत्रेति त्रिभिः । यत्र येषु । यतो याभ्यः कथाभ्यः । निर्वैरं वैराभावः । उद्वेगो भयम् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च साधुसङ्गः सिद्धभक्तानां साधकभक्तानां च सर्वदैव सर्वथैव परमोपादेय इत्याहुः । येषु भक्तेषु मृष्टाः पवित्राः । उद्वेगः त्रासः । तासां च परमास्वाद्यत्वात्कथा-श्रवणात्तृष्णानिवृत्तिरुचितैव, अत एव वैराभावस्ततश् च त्रासाभाव इति ध्येयम् ॥ यत्र यासु सत्कथासु । न्यासिनां कर्मफलत्यागिनां न तु कर्मत्यागिनां यज्ञादिविहितकर्मणां त्यागानौचित्यात् यज्ञो दानं तपः कर्म न त्याज्यं कार्यम् एव तत् इति श्रीमुखोक्तेः । मुक्तसङ्गैर्नारदाद्यैः । पुनः पुनर् इत्य् उक्त्या मुहुर्मुहुर्हरि-कथा-श्रवणं ध्वनितम् ॥३५-३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तस्य सर्वतः परम-साधन-साध्यत्वं दर्शितं, तद् एवं दर्शयति—यत्रेति त्रिकेण । तृष्णायाः प्रशम इति तासां सर्वोपरि-स्वाद्यत्वात्, अत एव निर्वैरम् ।*।*३५॥ वैराभावः सर्वोपरि स्वाद्यत्वम् एव दर्शयति—यत्र नारायण इति ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च साधु-सङ्गः सिद्ध-भक्तानां साधक-भक्तानां च सर्वदैव सर्वथैव परमोपदेय इत्य् आहुः—यत्र येषु भक्तेषु यतो याभ्यः कथाभ्यः ॥३५-३६॥
॥ ४.३०.३७ ॥
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पद्भ्यां पावनेच्छया । संसाराद् भीतस्य ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परमदुर्लभानाम् अपि भक्तानां सुलभत्वमाहुः—तेषाम् इति । तेषां तावकानां तीर्थानां पावनेच्छया स्नानादिभिरस्मान्पुनन्त्व् इति तीर्थकर्तृका या पावनेच्छा तया हेतुभूतया तीर्थानां शुभादृष्टवशादेवेत्यर्थः, किं न रोचेतापि तु रोचेतैवेत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं परम-दुर्लभानाम् अपि तेषां सुलभत्वम् आहुः—तेषाम् इति । पावनेच्छयेत्य् उत्प्रेक्षा गम्या, तीर्थानां या स्व-पावनेच्छा तया तदाकृष्टतयैव चरताम् इति वा तत्-पाद-लग्नानां तीर्थानां पावनीया इच्छा तत्र तत्र जिगमिषा तयेति वा तीर्थानां पावनो भगवान् तद्-इच्छया तत्-प्राप्तीच्छयेति वा तत्-तीर्थं पावयितुं तत्-कर्तृकेच्छयेति वा । तीर्थ-भूतानां तेषां संसारि-पावनेच्छयेति वा । भीतस्यापि किम् उत तद्-रसज्ञस्येत्य् अर्थः*।*।३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तीर्थानां पावनेच्छया स्नानादिभिर् अस्मान् पुनस् त्व् इति तीर्थ-कर्तृका या पावनेच्छा तया हेतु-भूतया तीर्थानां शुभादृष्ट-वशाद् एवेत्य् अर्थः । भक्तानां तु तीर्थेभ्यः स्व-पावनेच्छयैव प्रयोजनं सम्मतं ज्ञेयम् । भीतस्य संसारात् ॥३७॥
॥ ४.३०.३८ ॥
वयं तु साक्षाद् भगवन् भवस्य
प्रियस्य सख्युः क्षण-सङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर्
भिषक्तमं त्वाद्य गतिं गताः स्मः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्ग-फलम् अस्माभिर् एवानुभूतम् इत्य् आहुः—वयं त्व् इति । तव यः प्रियः सखा, तस्य भवस्य । अत्यन्तम् अचिकित्स्यस्य भवस्य जन्मनो मृत्योश् च भिषक्तमं सद्-वैद्यं त्वां गतिं प्राप्ताः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र न वयं भीतत्वेन सत्सङ्गं प्रार्थयामहे किन्तु परमपुमर्थबुद्ध्यैव क्षणिकेनैव सच्छिरोमणिसङ्गलाभेन सर्वभयापवर्गस्य तव लब्धत्वात् । एवं चाभीष्टवरस्त्वत्प्राप्तिरे व तस्याः फलं साधुसङ्ग एवास्माकं त्वत्प्राप्तिसाधनं च साधुसङ्ग एवेत्याहुः—सत्सङ्गफलमस्माभिर् इति । वयं त्व् इति । सद्वैद्यं समूलरोगनिर्मूलनक्षमम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र न वयं भीतत्वेन सत्-सङ्गं प्रार्थयामहे, किन्तु परम-पुरुषार्थ-बुद्ध्यैव क्षणिकेनैव सच्-छिरोमणि-सङ्ग-लाभेन सर्व-भयापवर्गस्य तव लब्धत्वाद् इत्य् आहुः—वयं त्व् इति । तु-शब्दाद् अन्यतो वैशिष्ट्य-द्योतनाय प्रियस्य सख्युर् इति । गुर्व्-ईश्वरयोर् महेश्वरयोश् चाभेदापदेशेऽपीत्थम् एव तैः शुद्ध-भक्तैर् मतम् ॥३८॥
भक्ति-सन्दर्भः २१३- शुद्ध-भक्तास् त्व् एके श्री-गुरोः श्री-शिवस्य च भगवता सहाभेद-दृष्टिं तत्-प्रियतमत्वेनैव मन्यन्ते । यथा—वयं त्व् इति । टीका च—तव यः प्रियः सखा तस्य भवस्य । अत्यन्तम् अचिकित्स्यस्य भवस्य जन्मनो मृत्योश् च भिषक्तमं सद् वैद्यं त्वां गतिं प्राप्ता इत्य् एषा । श्री-शिवो ह्य् एषां वक्तॄणां गुरुः ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं चाभीष्ट-वरस् त्वत्-प्राप्तिर् एव तस्यास् त्वत्-प्राप्तेः फलं साधु-सङ्ग एवास्माकं तत्-प्राप्तेः साधनं च साधु-सङ्ग एवेत्य् आहुः—वयं त्व् इति । तव यः प्रियः सखा तस्य । भवस्य जन्मनः मृत्योर् मरणस्येति रोग-द्वयस्य सद्-वैद्यं त्वां गतिं प्राप्ताः ॥३८॥
॥ ४.३०.३९ ॥
यन् नः स्वधीतं गुरवः प्रसादिता
विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या ।
आर्या नताः सुहृदो भ्रातरश् च
सर्वाणि भूतान्य् अनसूययैव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरान्तरं वृणते, यन् न इति द्वाभ्याम् । नताः नमस्कृताः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वयमज्ञास्त्वत्परितोषसाधनं न जानीमस्तदपि स्वेच्छया यद्यत्कृतं तेनापि त्वं प्रसीदेत्याशास्महे यन्न इति । स्वधीतं सम्यगध्ययनविधिना वेदाद्यधीतम् । गुरवः दक्षोपाख्याने लिखिताः पित्रादयः । वृद्धा ज्ञानादिना वृद्धाः । आर्या भक्तिवृद्धाः । भूतानि मानितानीति शेषः ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव यन् न इति युग्मकं परितोषणायेति स्व-विषय-सन्तोषणैक-परत्वात् प्रीति-जातेः ।*।*३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयम् अज्ञास् त्वत्-परितोष-साधनं नैव जानीमस् तद् अपि स्वेच्छया यद् यत् कृतम् तेनापि त्वं प्रसीदेत्य् आशासते**—**यन् न इति । वृद्धा ज्ञानाधिका आर्या भवत्य्-अधिकाः भवतानि प्रसादितानीति शेषः । निरन्धसां निरन्नानाम् अदभ्रम् अनल्पं कालम् ॥३९॥
॥ ४.३०.४० ॥
यन् नः सुतप्तं तप एतद् ईश
निरन्धसां कालम् अदभ्रम् अप्सु ।
सर्वं तद् एतत् पुरुषस्य भूम्नो
वृणीमहे ते परितोषणाय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरन्धसां निरन्नानाम् । अदभ्रं बहु-कालम् । ते परितोषणाय भवत्व् इति वृणीमहे ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे ईशेति । स्वामित्वात्तव नास्मत्कृतबहुसेवाद्यपेक्षास्तीति भावः । न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः इति कायाधवोक्तेः । ईशः स्वामिनि शङ्करे इत्य् अभिधानात् । भम्न इति । सर्वथा सर्वाधिकस्य तव किंचिदपेक्षया न परितोषः, किन्तु भूमत्वादेवेति भावः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरन्धसां निरन्नानाम् । अदभ्रम् अनल्प-कालम् ॥४०॥
॥ ४.३०.४१ ॥
मनुः स्वयम्भूर् भगवान् भवश् च
येऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः ।
अदृष्ट-पारा अपि यन्-महिम्नः
स्तुवन्त्य् अथो त्वात्म-समं गृणीमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञानाम् अप्य् अस्माकं त्वत्-स्तुतिर् नायुक्तेत्य् आहुः—मनुर् इति । यस्य तव महिम्नो न दृष्टं पारम् यैस् तेऽपि त्वाम् आत्म-समं स्व-मत्य्-अनुरूपं यथा स्तुवन्ति, अथो अतो वयम् अपि गृणीमः ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते\ऽपि तव महिमनि सर्वात्मनाज्ञा एव यथा स्तुवन्ति ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इदम् अप्य् अस्माकं निवेदनम् आत्म-बुद्ध्य्-अनुरूपम् एव, न तु तद्-अनुरूपम् इत्य् अवधार्य यथायथम् एव कृपयोत्पादनीयः तथेत्य् आहुः—मनुर् इति ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज्ञानाम् अप्य् अस्माकं त्वत्-स्तुतिर् नायुक्तेत्य् आहुः—मनुर् इति । त्वन्-महिम्नो न दृष्ट-पारा इति परम-विज्ञा अपि ते त्वन्-महिमन्य् अज्ञा एव यथा स्तुवन्ति, तथैव वयम् अप्य् अज्ञतमा अपि आत्म-समं स्व-शक्त्य्-अनुरूपम् एव स्तुमः ॥४१॥
॥ ४.३०.४२ ॥
नमः समाय शुद्धाय पुरुषाय पराय च ।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्त्व-मूर्तये वासुदेवाय ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समाय वैषम्यनैर्घृण्यरहिताय मा लक्ष्मीस्तया सहिताय वा । शुद्धाय सर्वपापनाशकाय । पुरुषाय सर्वदेहस्थाय । पराय सर्वोत्कृष्टाय । वासुदेवाय बलज्ञानात्ममुख्यप्राणप्रवर्तकाय । सत्त्वाय पराक्रम-रूपाय । भगवते सौभाग्य-रूपाय ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वाय शुद्ध-सत्त्व-मूर्तये ॥४२॥
॥ ४.३०.४३ ॥
मैत्रेय उवाच—
इति प्रचेतोभिर् अभिष्टुतो हरिः
प्रीतस् तथेत्य् आह शरण्य-वत्सलः ।
अनिच्छतां यानम् अतृप्त-चक्षुषां
ययौ स्व-धामानपवर्ग-वीर्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तथेति तद्-अनुमोदनं तद्-वरश् च ज्ञेयः । अनिच्छितम् अपि ययाव् इत्य् अत्र हेतुः—स्व-धामेति । अनन्तानां स्व-भक्तानाम् अपेक्षणीयत्वाद् इति भावः ॥४३॥
यानं स्व-प्रयाणम् अनिच्छताम् अपि सतां स्व-धाम ययौ भक्त-हृदयं विवेश । अनपवर्ग-वीर्योऽकुण्ठित-प्रभावः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथेत्यनुमोदनं तद्वरस्य ज्ञेयम् । स्वधाम वैकुण्ठम् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनपवर्ग-वीर्यः अकुण्ठ-प्रभावः ॥४३॥
॥ ४.३०.४४ ॥
अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।
वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उदन्वतः सिन्धोः सलिलान् निर्याय निर्गत्य गां स्वर्गं रोद्धुम् इवोच्छ्रितैर् द्रुमैर् गां महीं छन्नां वीक्ष्य द्रुमेभ्योऽकुप्यन् । तदा हि प्राचीनबर्हिषः प्रव्रजितत्वाद् अराजके कर्षणाद्य्-अभावाद् द्रुमैर् भूमिश् छन्नाभूत् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भगवद्-गमनोत्तरम् । अकुप्यन्न् इति । अहो भगवद्-आदिष्टं राज्यं क्व करवाम तदाज्ञापालनं च भृत्या वयं कथं जिहासाम इह पुनर् अमी वृक्षा एव पृथ्वीमावव्रुः स्वर्गं च जिधृक्षन्ति तर्हि मनुष्याः क्व स्थास्यन्तीत्यनय एव कोपे हेतुः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अकुप्यन्न् इति । श्री-भगवद्-आदिष्ट-राज्य-शासन-प्रतीघातात् तद्-आदेश-पालनं च भृत्यानां योग्यत्वात् ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गां पृथ्वीं गां स्वर्गं रोद्धुम् आवरितुम् इव अकुप्यन्न् इत्य् अहो श्री-भगवद्-आदिष्टं राज्यं क्व करवाम तद्-आज्ञा-पालनं च भृत्या वयं कथं जिहासाम इह पुनर् अमी वृक्षा एव पृथ्वीम् आवब्रुः स्वर्गं चेति जिघृक्षन्ति तर्हि मनुष्याः क्व स्थास्यन्तीत्य् अनय एव कोपे हेतुः ॥४४॥
॥ ४.३०.४५ ॥
ततोऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा ।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरस्ता वीरुधोऽपि यस्यास् तथा-भूतां कर्तुम् । संवर्तकः कालाग्नि-रुद्रः । अत्यये प्रलये ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति । जितकोपत्वाद्भक्त्या विराजमान हे विदुरेत्य् अर्थः । ततो द्रुमाच्छन्नभूमिदर्शनोत्तरम् । अत्यये प्रलये ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजन् ! जित-कोपत्वात् भक्त्या विराजमान ! हे विदूर ॥४५॥
॥ ४.३०.४६ ॥
भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः ।
आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नयैर् युक्तिभिः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नयो नीतिद्यूतविशेषयोः इति मेदिनी ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.३०.४७ ॥
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उज्जह्रुः समर्पयाम् आसुः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र देशे । वृक्षाः सोमद्वारा उज्जह्रुः षष्ठे राजोवाच महान्सोमः इत्याद्युक्तेः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वृक्षाः तद्-अधिष्टातृ-देवताः ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.३०.४८ ॥
ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे ।
यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मारिषां वार्क्षीम् । अजन-योनिर् ब्रह्मा तस्माज् जातो दक्षः महतः श्री-महा-देवस्यावज्ञानात् पूर्वम् अजन-योनि-जो ब्रह्म-पूत्रोऽपि सन् क्षत्रिय-जातौ यस्याम् अजनि जातः ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु ते प्रतिपक्षीभूतवृक्षदत्तां कन्यां कथं जगृहुर् इति तत्राह—ब्रह्मण आप्तस्यादेशाद् इति । अजनि गर्भवासजदुःखं प्राप पूर्वं वीरभद्रहस्तात् पुनश् च कालतश्चेति मरणद्वयं प्राप्येति ज्ञेयम् ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मारिषां वार्क्षीम् । अजन-योनिर् ब्रह्मा तस्माज् जातोऽपि दक्षः क्षत्रिय-जातौ यस्याम् महतः श्री-महा-देवस्यावज्ञानात् अजनि क्षत्रिय-वीर्यतः गर्भ-वासज स्व-दुःखं प्राप । पूर्वं वीर-भद्र-हस्तात् पुनश् च कालतश् च मरण-द्वयं प्राप्तेति ज्ञेयम् ॥४८॥
॥ ४.३०.४९ ॥
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राक्-सर्गे पूर्व-देहे कालेन विद्रुते गते दैवेनेश्वरेण चोदितः सन्निष्टाः प्रजाः ससर्ज स दक्ष इति प्रसिद्धः ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनश्चाशुतोषस्य तस्यैव स्तुत्युत्थादनुग्रहादैश्वर्यं स्वीयमवापेत्याह—चाक्षुष इति । प्रायः प्राचीनदेवादीनां तदानीं भोगकर्मक्षयात्पञ्चममन्वन्तरावसाने मर्त्यलोकस्य दैवाज्जलाप्लुतत्वाच्चेति सन्दर्भः । प्राक्सर्गे कालतो दैवान्नष्टे सतीत्य् अर्थः । जन्मत्वस्य स्वायंभुवमन्वन्तर एव पौर्वकालिकैश्वर्यप्राप्तिकामनया पञ्चमन्वन्तरपर्यन्तमस्य तपः षष्ठे चाक्षुषमन्वन्तरे\ऽस्य तपःफलप्राप्तिर्ज्ञेयेति केचित् । तत्र यस्यां महदवज्ञानात् इत्याद्युक्तिविरोधपरिहाराय द्वितीयजन्म प्राप्यैव पौर्वकालिकमैश्वर्यं लेभे इति व्याख्येयम् ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राक्-सर्गे काल-विद्रुत इति प्रायः प्राचीन-देवादीनां तदानीं भोग-कर्म-क्षयात् पञ्चमे मन्वन्तरावसाने मर्त्य-लोकस्य जलाप्लुतत्वाच् च ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनश् चाशुतोषस्य तस्यैव स्तुत्य्-उत्थाद् अनुग्रहाद् ऐश्वर्यं च स्वीयम् एवापेत्य् आह—चाक्षुष इति । पञ्चम-मन्वन्तरावसाने प्राचीन-सर्गे कालतो दैवाद् एव नष्टे सतीत्य् अर्थः । जन्म त्व् अस्य स्वायम्भुव-मन्वन्तर एव पौर्वकालिकैश्वर्य-प्राप्ति-कामनया पञ्चम-मन्वन्तरेऽस्य तपः-फल-प्राप्तिर् ज्ञेया ॥४९॥
॥ ४.३०.५० ॥
यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा ।
स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वया रुचा प्रभया तेज उपादत्ताच्छादितवान् यं च कर्म-दाक्ष्याद् दक्षम् अब्रुवन् ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदैश्वर्यम् आह—य इति । अज इवाचरतीत्यजायते\ऽजायत इत्यजायमानः ब्रह्मतुल्य इत्य् अर्थः । यद्वा—अजायमानो न जायमानः श्रीवशिष्ठवत्केवलं नन्दीश्वरशापपूर्तये जन्मानुकृतिम् एव भेजे न तु मुख्यं जन्मेत्य् अर्थः । यद् वा, जायमान उत्पद्यमान इत्य् अर्थः ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यैश्वर्यम् आह—य इति अजायमानः अजो ब्रह्मा तत्-तुल्यः स्वया रुचा प्रभया तेज उपादत्त आच्छादितवान् ॥५०॥
॥ ४.३०.५१ ॥
तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च ।
युयोज युयुजेऽन्यांश् च स वै सर्व-प्रजापतीन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् अभिसिच्यानादिर् ब्रह्मा प्रजा-सर्ग-रक्षायां युयोज । स च दक्षोऽन्यान् मरीच्य्-आदींस् तत्-तद्-व्यापारेषु नियुक्तवान् ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दक्षम् ॥५१॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे त्रिंशो\ऽध्यायः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनादिर् ब्रह्मा तं दक्षं प्रजानां सर्गे रक्षायां च युयोज । स च दक्षोऽन्यान् मरीच्य्-आदीन् ॥५१॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रिंशोऽध्यायश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
प्रचेतसां चरिते त्रिंशोऽध्यायः ।
॥४.३०॥
(४.३१)