अथैकोनत्रिंशोऽध्यायः
विषयः
पुरञ्जनोपाख्यानस्य तात्पर्ये नारदोपदेशः, प्राचीनबर्हिषो मुक्तिश् च ।
॥ ४.२९.१ ॥
प्राचीनबर्हिर् उवाच—
भगवंस् ते वचोऽस्माभिर् न सम्यग् अवगम्यते ।
कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ऊनत्रिंशे परोक्षार्थ-व्याख्यानेनोपसंहृतम् ।
स्त्री-सङ्गतो भवस् त्व् ईश-सङ्गान् मुक्तिर् इति स्फुटम् ॥*॥
कवयोऽध्यात्म-विदः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्त्री-सङ्गात् संसारः । यद् वा, सङ्गतः स्त्र्य् अभवत् । भगवन्न् इति भगवद्-अभिप्रायस्य दुर्ज्ञेयत्वं कृपालुत्वं च द्योतयतीति । अज्ञाने हेतुः—कर्म-मोहिता इति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न सम्यग् इति कथा-रीतेर् बुद्धत्वात्, न त्व् अध्यात्म-रीतेः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकोनत्रिंशकेऽध्यात्म-पक्ष-व्याख्यानम् उच्यते ।
कर्म-प्रश्नोत्तरं राज्ञो वैराग्यार्थं कथा परा ॥*॥
सम्यग् इति किञ्चिद् अवगतं चेत्य् अर्थः ॥१॥
॥ ४.२९.२ ॥
नारद उवाच—
पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् ।
एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यनक्ति लिम्पति, चेतनीकरोतीत्य् अर्थः । यद् वा, व्यनक्ति प्रकटयति । ततश् च स्व-कर्मणा पुरं जनयतीति पुरञ्जन-पदं व्याख्यातं भवति । एक-द्व्य्-आदयः पादा यस्य ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । चेतनीकरणम् एवात्र म्रक्षण-पदार्थत्वेनोक्तं लेपनम् इति भावः । येन चेतयते विश्वम् [भा।पु। ८.१.९] इत्य्-आद्य्-उक्तेश् चेतनीकरणम् ईश्वर एव पर्यवस्यति, न तु जीव इति चेद् आह—यद् वा इति । एकः पादः पिशाचादेः । द्वौ मनुष्यादेः । त्रयो ज्वरादेः । चत्वारः पश्व्-आदेः । बहवः खार्जूर्य्-आदेः । अपादः सर्पादिर् इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषं जीवम् ॥२॥
॥ ४.२९.३ ॥
योऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः ।
यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविज्ञात-शब्देन आहृतो व्याहृत उक्तो यः, स ईश्वरः । अविज्ञात-नाम-निरुक्तिः यद् यस्मात् पुम्भिर् नामादि-योगेन न विज्ञायते ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नामभिर् ईश्वरादिभिः । क्रियाभिर् जीव-प्रेरणादिभिः । गुणैः सर्वज्ञत्वादिभिः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आहृत इत्य् अत्र ह्वय इति चित्सुखः । पुम्भिर् अशास्त्र-ज्ञैः नामादीनां शास्त्रैक-वेद्यत्वात् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविज्ञात-शब्देन आहृतो व्याहृतो यः स ईश्वरः ॥३॥
॥ ४.२९.४ ॥
यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् ।
नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तेषू पुरेषु मध्ये ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्त्स्न्येन सामस्त्येन । प्रकृतेर्गुणान्स्रक्चन्दनादिविषयान् । तत्र तदा । अङ्घ्रिमित्यार्षं पुंस्त्वम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तेषू पुरेषु तिर्यग्-आदिषु मध्ये ॥४॥
॥ ४.२९.५ ॥
बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् ।
याम् अधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर् गुणान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्षभिर् इन्द्रियैः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बुद्धिर् ममाहम् इति जाग्रद्-गतम् एव ज्ञेयं स्वप्न-गतानां तद्-अनुगतत्वात् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्धिम् अविद्याम् । अक्षभिर् इन्द्रियैः ॥५॥
॥ ४.२९.६ ॥
सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् ।
सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च-वृत्तित्वात् पञ्च-शिराः सर्प इव प्राणः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणान् विषयान् ॥५-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्च-वृत्तित्वात् पञ्च-शिराः सर्प इव ॥६॥
॥ ४.२९.७ ॥
बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् ।
पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकादश-महा-भट इत्य् अनेन एकादशो महा-भटो नायक इत्य् उक्तस् तं दर्शयति बृहद्-बलं यस्य तन्-मनः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बृहद्बलं मनसा वा अग्रे सङ्कल्पयत्यथ वाचा वदति इति श्रुतेः । ज्ञान-कर्मेन्द्रियाणां विषयं प्रति नेतृत्वादुभयेन्द्रियनायकम् इत्य् उक्तम् आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियं विषयेण ततः प्रत्यक्षम् इति तान्त्रिकोक्तेः । येषां विषयाणां मध्ये । खं शून्याकाशच्छिद्रेषु इत्य् अभिधानात् । विषयैरावृतत्वाद्यन्मध्य इत्य् उक्तम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकादश महा-भट इत्य् अनेनैकादशो महा-भटो नायक इत्य् उक्तम् । तत् व्याचष्टे—बृहद्-बलं यस्य तन्-मनः । नव खानि द्वाराणि यस्य ॥७॥
॥ ४.२९.८ ॥
अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति ।
द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्युमत्-सख इत्य्-आदेर् अर्थं सङ्क्षेपेणाह । यस् तद् इन्द्रिय-संयुतः स आत्मा ताभिर् द्वार्भिर् बहिर् यातीति ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वे द्वे इति मुखस्यापि वाग्रसना-भेदेन द्वित्वात् ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वे द्वे द्वारौ मुखादिकम् एकैका च द्वास् ताभिर् द्वाभिर् बहिर् याति कः यस् तत्-तद्-इन्द्रिय-युक्तो जीव इत्य् अर्थः ॥८॥
॥ ४.२९.९ ॥
अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः ।
दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ।
पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरः पूर्व-भागे कृताः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वे द्वे इति । मुखातिरिक्तश्रोत्राद्यूर्द्ध्वद्वारापेक्षयोक्तं द्वाभ्यां द्वाभ्यां द्वार्भ्याम् इत्य् अर्थः । तृतीयार्थे द्वितीया । बहिर्याति कः यस्तदिंद्रियसंयुतो जीव इत्य् अर्थः ॥८-९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अक्षिणी नासिके इति सार्धकम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरः प्राङ्-मुखस्य पुरञ्जन-पुरस्य पूर्व-भागे कृताः ॥९॥
॥ ४.२९.१० ॥
खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नेत्रे इति रूपम् इति चक्षुषेति खद्योतादीनां व्याख्यानम् । शेषोऽनुवादः । ईश्वरः पुरञ्जनः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र प्रकृते चक्षुषेति द्युमत्सख इत्यस्य व्याख्यानम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चक्षुषेति द्युमत्-शब्दस्य व्याख्यानम् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खद्योतादीनां व्याख्या । नेत्रे इति रूपम् इति चक्षुषेति द्युमद् इत्य् अस्य व्याख्या ॥१०॥
॥ ४.२९.११ ॥
नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।
घ्राणोऽवधूतो मुख्यास्यं विपणो वाग् रस-विद् रसः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नासे इति व्याख्या । अवधुनोतीत्य् अवधूतो वायुस् तद्-आत्मकेनोच्छ्वासेन सहैक-स्थानत्वाद् घ्राणोऽवधूतः । आस्यम् इति व्याख्या । रसज्ञा-विपणान्वित इत्य् अत्र रस-ज्ञ-शब्द-निर्दिष्टस्य रस-विद् इत्य् अनुवादः रस इति व्याख्या । रसनेन्द्रियम् इत्य् अर्थः । विपणो वाग् रसविद् रस इत्य् एव पाठः । आर्षत्वान् न दोषः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आर्षत्वान्नवाक्षरपादो\ऽपि न दोषाय, व्याख्या तु रसनेन्द्रियम् इति । यद् वा, रसो\ऽस्ति विषयत्वेनास्येति रस इति पुंस्त्वमिन्द्रियवाचकत्वे\ऽप्यार्षत्वान्न दुष्टम् इत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवधुनोतीत्य् अवधूतो वायुस् तद्-आत्मकेनोच्छ्वासेन सहैक-स्थानत्वाद् घ्राणोऽवधूत उच्यते । मुख्या इत्य् अस्य व्याख्या आसाम् इति । रसन-विपणान्वित इत्य् अस्य व्याख्या वाग् इति । रसज्ञ इत्य् अस्य व्याख्या रस-विद् इत्य् अनुवादः रस इति व्याख्या तु रसो रसनेन्द्रियम् । नवाक्षरैर् उपादोऽयम् अनुष्टुब्-भेदः ॥११॥
॥ ४.२९.१२ ॥
आपणो व्यवहारोऽत्र चित्रम् अन्धो बहूदनम् ।
पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्धोऽन्नम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यवहारो वाक्यप्रयोगलक्षणः । चित्रं चतुर्विधं भक्ष्यादि ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चित्रम् अन्धश् चतुर्विधम् अन्नम् ॥१२॥
॥ ४.२९.१३ ॥
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् ।
पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याति श्रुतधरान्वितः श्रुतधर-पद-व्याख्या श्रोत्राद् इति ॥१३॥
॥ ४.२९.१४ ॥
आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः ।
उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रामकम् इत्य् अस्यानुवादो ग्रामिणां रतिर् इति । तस्य व्याख्या, व्यवाय इति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दुर्मद इति चित्सुखः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रामकं नाम विषयम् इत्य् अत्र ग्रामकम् इत्य् अस्य ग्रामिणां रतिर् इत्य् अनुवादः । व्याख्या तु व्यवाय इति ॥१४॥
॥ ४.२९.१५ ॥
वैशसं नरकं पायुर् लुब्धकोऽन्धौ तु मे शृणु ।
हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रोत्राद् इति ल्यब्लोपे पञ्चमी । श्रोत्रमालम्ब्येत्यर्थः—
इह वामुत्र वा काम्यं प्रवृत्तमभिधीयते । > वैराग्यज्ञानपूर्वं तु निवृत्तमभिधीयते ॥ इति स्मृतेः ।
काम्यकर्मबोधकं प्रवृत्तं शास्त्रं, वैराग्यज्ञानपूर्वकमोक्षबोधकं निवृत्तम् इत्य् अर्थः ॥१३-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा विक्रियते गुणाक्त इत्य् एव पाठः ॥१५॥
॥ ४.२९.१६ ॥
अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते ।
तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विषूचीन-पदार्थानुवादो विषूचिर्1 इति । तद्-गुणैर् मनो-गुणैस् तमः-सत्त्व-रजोभिः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र हृदये ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषूचीन इत्य् अनुवादो विषूचिर् इति व्याख्या तु मन इति । तद्-गुणैर् मनो-गुणैस् तमः-सत्त्व-रजोभिः ॥१६॥
॥ ४.२९.१७ ॥
यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : महिषी यद् यद् ईहेत [भा। ४.२५.५६] इत्य्-आदेर् अर्थं सङ्गृह्याह । यथा यथा बुद्धिः स्वप्ने विक्रियते जाग्रति विकरोति वा इन्द्रियणि परिणमयति । तस्या गुणैर् अक्तो लिप्त आत्मा तथा तस्या वृत्तीर् दर्शन-स्पर्शनाद्याः । केवलम् उपद्रष्टैव सन् बलाद् अनुकार्यते ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वप्ने यथा करि-तुरगादि-दृष्ट-श्रुत-वस्तु-वासना-वासिता बुद्धिर् विक्रियते, दैवेनेति शेषः । तस्या बुद्ध्याः । अनुकार्यते बुद्धि-सङ्गाद् अकर्तर्य् अप्य् आत्मनि कर्तृत्वं प्रतीयत इति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महिषी यद् यद् ईहेत [भा। ४.२५.५६] इत्य्-आदेर् व्याख्यानम् आह—यथा बुद्धिः स्वप्ने विक्रियते जागरे विकरोति इन्द्रियणि विपरिणमयति, तथा तथा तस्या गुणाक्तस् तस्या गुणैर् लिप्त आत्मा तस्या वृत्तीर् दर्शन-स्पर्शनाद्याः केवलम् उपद्रष्टैवापि सन् बलाद् अनुकार्यते बुद्ध्यैव हेतु-कर्त्रयेत्य् अर्थः ॥१७॥
॥ ४.२९.१८ ॥
देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयोऽगतिः2 ।
द्वि-कर्म-चक्रस् त्रि-गुण-ध्वजः पञ्चासु-बन्धुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आशु-गम् इत्य् एतद् व्याचष्टे । संवत्सरस्येवाप्रतिहतो रयो वेगः प्रतीतितो यस्य स संवत्सर-रयः । वस्तुतस् त्व् अगतिः । स्वप्न-शरीरादेर् बुद्धाव् एव विवृतत्वेन देशान्तर-गत्य्-अभावात् । पाठान्तरे, संवत्सरश् च तत् कृतं वयश् च ताभ्यां गतिर् यस्येति । द्वीपम् इत्य् अस्य व्याख्या नारदेन न कृता । द्वि-चक्रम् इत्य् अस्य व्याख्या द्वि-कर्म-चक्र इति । त्रि-गुण-ध्वज इति त्रि-वेणु-पद-व्याख्या ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवृतत्वेनातात्त्विकप्रतीतत्वे । पाठान्तरे संवत्सर-वयो-गतिः इति पाठे । द्वे कर्मणी सुखदुःख-रूपे चक्रे यस्य स तथा । त्रयो गुणाः सत्त्वादयो ध्वजा यस्य स तथा । पञ्चासवः प्राणाद्या बन्धुरा यस्य साम्ये बन्धे च बन्धुरः इत्य् अभिधानात् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संवत्सरस्य रयो वेग एव गतिर् इत्य् आशुग-पद-व्याख्या । पाठान्तरे, संवत्सरश् च तत् कृतं वयश् च त एव गतिर् यस्य त्रि-गुण-ध्वज इति त्रि-वेणु-पद-व्याख्या । त्रयो गुणाः सत्त्वादयः ध्वजो यस्य, पञ्च-प्रहरण इत्य् अस्य व्याख्या ॥१८॥
॥ ४.२९.१९ ॥
मनो-रश्मिर् बुद्धि-सूतो हृन्-नीडो द्वन्द्व-कूबरः ।
पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च-प्रहरणम् इत्य् एतद् व्याचष्टे पञ्चेन्द्रियार्थ-प्रक्षेप इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रश्मिः प्रग्रहः । नीडमुपवेशस्थानम् । पञ्चानामिन्द्रियाणामर्थेषु शब्दादिषु स्वस्वव्यापाराणां प्रक्षेपः । शब्दादीनि पञ्चप्रहरणानीत्य् अर्थः । सप्त धातवस्त्वगाद्या वरूथा यस्य स तथा । रथगुप्तिर्वरूथो ना इत्य् अमरः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चानाम् इन्द्रियाणाम् अर्थेषु शब्दादिषु स्व-स्व-व्यापाराणां प्रक्षेपः । चरणारविन्दादीनि पञ्च प्रहरणानीत्य् अर्थः ॥
॥ ४.२९.२० ॥
आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति ।
एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत् ।
संवत्सरश् चण्डवेगः कालो येनोपलक्षितः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सुखवद् दूरतो दृश्यं तत् काले दुःखम् एव यत् ।
मृग-तृष्णेत्य् अतः प्राहुर् भोगं वैषयिकं बुधाः ॥ इति > शब्द-निर्णये ॥२०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्चेन्द्रियैः सूना-विनोदम् इवान्यायेन विषय-सेवां करोतीति पञ्च-सूना-विनोद-कृत् । अनेन चचार मृगयां तत्रेत्य्-आदि व्याख्यातम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृगतृणा प्रातीतिकसुखम् । तद् उक्तं—
सुखवद्दूरतो दृश्यं तत्काले दुःखम् एव यत् । > मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः ॥ इति ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आकूतिः कर्मेन्द्रिय-पञ्चकं संवत्सर इत्य् अर्धकम् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकूतिः कर्मेन्द्रिय-पञ्चकं विर्कमम् इति पञ्च-विक्रमम् इत्य् अस्य व्याख्या पञ्चेन्द्रियैः सूनाविनोदम् इवान्यायेन विषय-सेवां करोति इति पञ्च-सूनाविनोद-कृत् । अनेन चचार मृगयां तत्र व्याख्यातम् ॥२०॥
॥ ४.२९.२१ ॥
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।
हरन्त्य् आयुः परिक्रान्त्या**3 षष्ट्य्-उत्तर-शत-त्रयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिक्रान्त्या परिभ्रमणेन ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य चण्डवेगस्य ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : संवत्सर इत्य् अर्धकम् । परिसृत्येत्य्4 अत्र परिक्रान्त्येति क्वचित् ॥२१॥
॥ ४.२९.२२ ॥
काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति ।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगिनीत्वेन जगृहे । लोकानां क्षयाय ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे स्वस्य क्षयाय स्वसारम् अपि तां जगृहे अधर्मवंशोद्भवत्त्वात्स्वसुर् अपि तस्याः स्वयम् एव पतिरभूद् इति । कालकन्या वैष्णवजनेष्वतिकृपालोर्नारदस्याज्ञया मृत्यम् एव जरयतीति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकानां क्षयाय स्वसारं ससृत्वेन जगृहे । पक्षे, स्वस्य क्षयाय, स्वसारम् अपि तां जगृहे अधर्म-वंशोद्भवत्वात् । स्वसुर् अपि तस्याः स्वयम् एव पतिर् अभूद् इति । काल-कन्या वैष्णव-जनेष्व् अतिकृपालोर् नारदस्याज्ञया मृत्युम् एव तरयतीति ॥२२॥
॥ ४.२९.२३ ॥
आधयो व्याधयस् तस्य सैनिका यवनाश् चराः ।
भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चराः सञ्चारिणः । भूतानाम् उपसर्गे पीडायाम् आशु शीघ्रो मृत्यु-हेतू रयो वेगो यस्य प्रज्वारस्येति प्र-शब्द-व्याख्या । पाठान्तरे भूत-कृता अरयः । अनेन चारिभिर् उपरुद्ध इत्य् अरि-पदं व्यख्यातम् । द्वि-विधः शीतोष्ण-रूपेण प्रवेश-निर्गम-भेदात् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे भूतोपसर्गा ह्यरयः इति पाठे भूतै राजचौरकृमिजलादिकृता उपसर्गा अरय इत्य् अर्थः । यद् वा, भूतसम्बन्ध्युपसर्गाः पवनजलहिमाग्निसूर्यातपकुपथ्यादिकृताः श्वासतन्द्राप्रलापादयः आशुरयाः शीघ्रवेगा यस्य स तथा ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चराः सञ्चारिणः । भूत-सम्बन्ध्य्-उपसर्गाः पवन-जल-हिमाग्नि-सूर्यातप-कुपथ्यादि-कृताः श्वास-तन्द्रा-प्रलापादयः आशु रयाः शीघ्र-वेगा यस्य सः । द्विविधो ज्वरः शीतोष्ण-भेदात् । भूतोपसर्गास् त्वरयः इति पाठे भूत-कृता राज-चौर-कृमि-जलादि-कृता उपसर्गाः पीडास् तु अरयः । अनेन अरिभिर् उपरुद्ध इत्य् अरि-पद-व्यख्या ॥२३॥
॥ ४.२९.२४ ॥
एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः ।
क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं परोक्षत्वेनोक्तम् अर्थं व्याख्याय सर्व-कथा-तात्पर्यम् आह—एवम् इत्य्-आदि-विरम-क्रमेणेत्य् अन्तेन । आधिदैविकादिभिर् दुःखैः क्लिश्यमानो ममाहम् इति देहे शतं वर्षाणि शेते वर्तत इति द्वयोर् अन्वयः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दैवेति । आधिदैवाधिभूताध्यात्मिकैः । तमोवृतो\ऽज्ञानावृतस्तत्परिहारोपायमजानन्न् इत्य् अर्थः । शतम् इत्य् उक्तिस्तु न्यूनातिरेकसंभवे\ऽपि शतायुर्वै पुरुषः इति श्रुत्यनुरोधतो ज्ञेया ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति युग्मकम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथेयं वैराग्यथार्थएत्य् आह—एवम् इति । देवेत्य् आधिदैविकादिभौतिकाध्यात्मिकैः ॥२४॥
॥ ४.२९.२५ ॥
प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः ।
शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अशनापिपासादीन् प्राण-धर्मान् अन्धत्वादीन् इन्द्रिय-धर्मान् कामादीन् मनो-धर्मांश् च निर्गुणो\ऽप्य् आत्मन्य् अध्यस्य काम-लवान् विषय-सुख-लेशान् ध्यायन् कर्म-कृत् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्यस्य बुभुक्षितोहमन्धो\ऽहं मुग्धोहमित्यात्मन्यारो\ऽप्य् अ ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राण-धर्मान् क्षुत्-पिपासादीन् इन्द्रिय-धर्मान् अन्धत्वादीन् मनो-धर्मान् कामादीन् । निर्गुणेऽप्य् आत्मन्य् अध्यस्य ॥२५॥
॥ ४.२९.२६ ॥
यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् ।
पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? अत आह—यदेति द्वाभ्याम् । स्व-दृक् स्व-प्रकाश-स्वभावोऽपि ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सज्जेत आसक्तो भवेत् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यदेति युग्मकम् ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं परमात्मानम् ॥२६॥
॥ ४.२९.२७ ॥
गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।
शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुक्लं सात्त्विकम्, कृष्णं तामसम्, लोहितं राजसम् । यथा कर्म तथा जायते ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवशः पूर्वसंस्काराधीनः वासुदेवाधीनो वा ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुक्लं सात्त्विकम्, कृष्णं तामसम्, लोहितं राजसम् ॥२७॥
॥ ४.२९.२८ ॥
शुक्लात् प्रकाश-भूयिष्ठान् लोकान् आप्नोति कर्हिचित् ।
दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—शुक्लाद् इति द्वाभ्याम् । प्रकाशो भूयिष्ठो येषु । दुःखम् उदर्क उत्तर-फलं येषु । क्रियया आयासो येषु तान् लोहितान् । तमः-शोकाव् उत्कटौ येषु तान् कृष्णाद् इति ज्ञेयम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव कर्मानुगुणजन्मैव । शुक्लात्सात्त्विकाकर्मणः । प्रकाशभूयिष्ठांस्तेजोमयान्देवादिलोकान् । लोहिताद्राजसात् । क्रियया सर्वदा व्यापारासक्त्या मनुष्यादीन् । कृष्णात्तामसात् । तमःशोकोत्कटान् तिर्यगादीन् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुःखम् उदर्क उत्तर-फलं येषु । सुख-पदार्थेषु तान् क्रियया आयासश् च येषु तान् लोहितान् आप्नोति । तमः-शोकाव् एव उत्कटौ येषु तान् कृष्णान् इति ज्ञेयम् ॥२८॥
॥ ४.२९.२९ ॥
क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः ।
देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नोभयं नपुंसकम् । यथा-कर्म-गुणं कर्म-गुणाव् अनतिक्रम्य ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरंजनः परस्मिञ्जन्मनि स्त्री कथं बभूवेत्यत आह—कचिद् इति । कर्माणि च गुणाश् च कर्मगुणास्ताननतिक्रम्य वर्तत इति यथाकर्मगुणम् । पदार्थानतिवृत्तिरूपयथार्थे\ऽव्ययीभावः । भव उत्पत्तिर्देवादिरूपास्तीत्य् अर्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरञ्जनः परस्मिन् जन्मनि स्त्री कथं बभूव ? इत्य् अत आह—क्वचिद् इति । नोभयं नपुंसकं, कर्म-गुणाव् अनतिक्रम्य यथा-कर्म-गुणम् ॥२९॥
॥ ४.२९.३० ॥
क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् ।
**चरन् विन्दति यद् दिष्टं दण्डम् ओदनम् एव वा ॥\
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषु दैव-वशेन सुख-दुःखे प्राप्नोतीति स-दृष्टान्तम् आह द्वाभ्याम् । क्षुधा परीतो व्याप्तः सारमेयः श्वा । दण्डं दण्डेन ताडनम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षुद् इति युग्मकम् ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषु जन्मसु दैव-वशाद् एव सुख-दुःखे प्राप्नोतीति सदृष्टान्तम् आह द्वाभ्याम्। दीन इति राजकीय-सारमेय-व्यावृत्त्य्-अर्थं, सारमेयः श्वा ॥३०॥
॥ ४.२९.३१ ॥
तथा कामाशयो जीव उच्चावच-पथा भ्रमन् ।
उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : काम-व्याप्त आशयो यस्य ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दीन इति । राजकीयसारमेयव्यावृत्त्यर्थम् । श्वा सारमेयः इति कोशात् ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२९.३२ ॥
दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु ।
जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्-प्रतिक्रियापि दुःखम् ॥३२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि सुखस्य संभवाद् दुःखस्य च प्रतीकार-सम्भवान् एकान् ततो हेयत्वं ? तत्राह—दुःखेष्व् इति । दुःखस्य प्रतीकारस् तावन् नास्ति । स्याच् चेत् तस्य प्रतिक्रिया तथापि त्रि-विधेषु दुःखेषु मध्ये एकतरेणापि दुःखेन व्यवच्छेदो वियोगो नास्ति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र निर्बुद्धिः श्वा दण्डप्रहारं प्राप्नोति बुद्धिमांस्तु दुःखस्य कारणम् एव न करोति दैवात्प्राप्तरोगादिदुःखस्य प्रतीकारं च करोतीत्याशङ्कते—नन्व् इति । एकान्ततो नियमेन कर्मणो हेयत्वं न । तथापि प्रतिक्रियासत्त्वे\ऽपि । वियोगो नास्तीति दुःखस्य चादृष्टाधीनत्वात् तस्य च दुःखप्राप्तेः प्रागशक्यज्ञानत्वात्तत्प्रतीकारकरणासंभवात्प्राप्तदुःखप्रतीकारकरणस्यापि भिषक्सेवामन्त्रानुष्ठानादिरूपत्वेन दुःखात्मकत्वाद् दुःखवियोगस्यासंभव एवेति भावः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निर्बुद्धिः श्वा दण्ड-प्रहारं प्राप्नोति, बुद्धिमांस् तु दुःखस्य कारणम् एव न करोति । दैवात् प्राप्तो रोगादि-दुःखस्य प्रतीकारं च करोति ? इति तत्राह—दुःखेषु त्रि-विधेषु दुःखेषु मध्ये एकतरेणापि न व्यवच्छेदो न विरहः । तद्-दुःखस्य प्रतिक्रियापि स्याच् चेत्, तद् अपि न प्रतिक्रियाणाम् अपि दुःख-रूपत्वाद् इति भावः ॥३२॥
॥ ४.२९.३३ ॥
यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् ।
तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिक्रियाणाम् अपि दुःख-रूपत्वाद् इति स-दृष्टान्तम् आह—यथा हीति ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरुं दुर्भरम् गुरुस्तु गीष्पतौ श्रेष्ठे गुरुः पितरि दुर्भरे इत्युज्ज्वलः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र दृष्टान्तः—यथा हीति ॥३३॥
॥ ४.२९.३४ ॥
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।
द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुःखस्य मूल-भूतानि कर्माणि प्रतिक्रियादि-कर्मभिर् नैव निवर्तन्त इत्य् आह । नैकान्ततोऽत्यन्तं स-वासनम् । केवलं ज्ञान-रहितम् । अविद्ययोपसृतं प्राप्तम् । अतोऽविरोधान् न निवर्तकत्वम् इति भावः । अत्र दृष्टान्तः—स्वप्ने दृष्टः स्वप्नः प्रबोधं विना यथा तं स्वप्नम् अत्यन्तं न प्रतिकरोतीत्य् अर्थः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो द्वयम् एवाविद्योपसृतमतो हेतोरविरोधात् । इति भाव इति । निवर्त्यनिवर्तकत्वं हि तेजस्तिमिरयोरिव विरोधिनोरे व भवतीति तात्पर्यम् । अत्र अविद्याया अविद्यानिवर्त्तकत्वाभावे । इत्य् अर्थ इति । स्वप्नगतजागरस्य स्वप्न-रूपत्वान्न तस्य मुख्यं स्वप्ननिवर्तकत्वम् इति भावः । अत्र विश्वनाथः—ननु यस्माद् दुःखस्य कारणं दुष्कृतम् एव तस्मात्सर्वदुष्कृतक्षयकामनया कस्मिंश्चिद् बृहति यागकर्मणि कृते सर्वदुःखनाशः स्याद् एवेति तत्राह—नेति । द्वयं दुष्कृतं कर्म दुष्कृतनिवर्तकं च कर्मेति द्वितयमविद्यामुपाश्रितमाश्रितं तद्द्वयस्य तमोरजोगुणजनकत्वाद् इति भावः । तद्यथा रजसि सत्त्वांशेन तमसो निवर्तके\ऽपि तमोंशस्तिष्ठति तथा सर्वदुष्कृतनिवर्तके\ऽपि यागकर्मणि पशुहिंसालक्षणं दुष्कृतं तिष्ठत्येवेत्यत्र दृष्टान्तः—स्वप्ने पुत्रो मृत इति दुःखप्राप्तिस्तत्स्वप्नमध्य एव पुनः स्वप्ने पुत्रो जीवतीति तद्दुःखोपशमः । किञ्च—तदैव तं पुत्रं सर्पो दशतीति पुनर् दुःखप्राप्तिर् इति प्रबोधं विना यथा स्वाप्निकं दुःखं न निवर्तते तथा सांसारिकदुःखं न निवर्त्तत इत्य् उक्तम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यस्माद् दुःखस्य कारणं दुष्कृत-कर्मैव, तस्मात् सर्व-दुष्कृत-क्षय-कामनया कस्मिंश्चिद् बृहति याग-कर्मणि कृते सर्व-दुःख-नाशः स्याद् एव ? इति तत्राह—नैकान्तत इति । द्वयं दुष्कृतं कर्म दुष्कृत-निवर्तकं च कर्मेति द्वितयम् अविद्याम् उपसृतम् आश्रितम्, तद्-द्वयस्य तमो-रजो-गुण-जनकत्वाद् इति भावः । तद् यथा रजसि सत्त्वांशेन तमसो निवर्तकेऽपि तमोऽंशस् तिष्ठति, तथा सर्व-दुष्कृत-निवर्तकेऽपि याग-कर्मणि पशु-हिंसा-लक्षणं दुष्कृतं तिष्ठत्य् एवेत्य् अत्र दृष्टान्तः । स्वप्ने पुत्रो जीवतीति तद्-दुःखोपशमः । किं च, तदैव तं पुत्रं सर्पो दशतीति पुनर् दुःख-प्राप्तिर् इति प्रबोधं विना यथा तं स्वाप्निकम् दुःखं न निवर्तते इत्य् उक्तम् ॥३४॥
॥ ४.२९.३५ ॥
अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते ।
मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : संसृतेः स्वप्न-साम्यस् तु यथार्थ-ज्ञान-वर्जनम् इति च ।
जाग्रत्य् अविद्यमानस् तु देहात्मत्वं तु केवलम् । > अविद्यमानं स्वप्ने तु जाग्रत्व-ज्ञानम् एव च ॥ इति षाड्गुण्ये > ॥३५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्ह्य् अज्ञान-विलसितत्वेन संसृति-हेतोर् देहादेर् अप्य् असत्त्वात् किं तन् निवर्तन-प्रयासेन ? तत्राह—अर्थे हीति । लिङ्ग-रूपेणोपाधि-भूतेन ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, सुखदुःखादेर्देहधर्मत्वाद्वस्तुतस् त्वसङ्गस्य जीवात्मनो दुःखादिकं नैव विद्यते\ऽतो\ऽविद्यमानस्य दुःखस्य किं निवर्त्तनोद्यमैरित्याशङ्कते—नन्व् इति । अर्थे दुःखादौ जीवात्मनो\ऽवस्तुभूते\ऽपि तन्निवर्तनं विना संसृतिर्न निवर्तते । यथा स्वप्ने लिङ्ग-रूपेणोपाधिभूतेन मनसा सह विचरतो जीवस्यासत्यम् अपि सर्पात्मकं वस्तु दुःखदम् एव प्रबोधं विनेति ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सुख-दुःखादेर् देह-धर्मत्वाद् वस्तुतस् त्व् असङ्गस्य जीवात्मनो दुःखादिकं नैव विद्यत इत्य् अविदमानस्य दुःखस्य किं निवर्तन-प्रयासेनेत्य् आह—अर्थे दुःखादौ जीवात्मनोऽवस्तु-भेदेऽपि तन्-निवर्तनं विना संसृतिर् न निवर्तते । यथा स्वप्ने लिङ्ग-रूपेणोपाधि-भूतेन मनसा सह विचरतो जीवस्यासत्यम् अपि सर्पादिकं वस्तु दुःखदम् एव प्रबोधं विना ॥३५॥
॥ ४.२९.३६ ॥
अथात्मनोऽर्थ-भूतस्य यतोऽनर्थ-परम्परा ।
संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं संसृति-प्रकारम् उक्त्वा तन् निवृत्ति-प्रकारम् आह । अथ तस्मात् पुरुषार्थ-भूतस्यैवात्मनो यतोऽज्ञानान् मनसो वाऽनर्थ-परम्परा-रूपा संसृतिर् भवति तस्य व्यवच्छेदो गुरु-रूपे वासुदेवे भक्त्यैव ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत आत्मा सत्यः संसृतिरसत्या । अथ तस्माद्धेतोः । अथाव्ययं हेतावत्र । चक्रवर्ती तु—गुरौ भक्त्येति गुरुर्न स स्यात् इत्य्-आदिना हरिभक्त्युपदेष्टुरे व गुरुत्वविधानाद् गुरौ हरौ च भक्त्येत्यायातं, ततश् च पुरंजनस्यापरस्मिन् जन्मनि गुरौ हरौ च भक्त्यैव निस्तारो व्याख्यात इत्य् आह ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं पुरञ्जनोपाख्याने विषयेषु वैराग्यं जनयन् श्री-वासुदेव-भजनं विरक्तेर् ज्ञानस्य च सम्पादकम् अत्यान्तिक-निःश्रेयस-करम् इति दर्शयति—अथात्मन इति बहुभिः । गुरौ श्री-वासुदेवे, स एव गुरुः । उक्तं च तेनैव, ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [गीता १०.१०] इत्य्-आदि ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि संसार-निवृत्तिर् एव कथं भवेत् तत्राह—अथेति । भक्ति-प्रकरणारम्भे आत्मनो जीवस्य परमार्थ-भूतस्य यत एवाविद्यातोऽनर्थ-परम्परा संसृतिस् तस्या विच्छेदो गुरौ भक्त्येति, गुरुर् न स स्यात् [भा।पु। ५.५.६] इत्य्-आदिना हरि-भक्त्य्-उपदेशकस्यैव गुरुत्व-विधानाद् गुरौ हरौ च भक्त्येत्य् आयातम् ॥३६॥
॥ ४.२९.३७ ॥
वासुदेवे भगवति भक्ति-योगः समाहितः ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु संसृति-निवृत्तिर् वैराग्य-पूर्वकाज् ज्ञानाद् एव न तु भक्त्या, तरति शोकम् आत्म-वित् इत्य्-आदि-श्रुतेः ? तत्राह—वासुदेव इति । सध्रीचीनेन समीचीनेन प्रकारेण ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । चक्रवर्ती—साधनभक्त्या प्रेमपर्यन्ता भक्तिर्भवतीत्य् आह—भक्तियोगः प्रेमा भगवत्येव सम्यगाहित इति भजनस्य तत्सुत्रे तात्पर्यं न तु स्वसुखे । सध्रीचीनेनेत्युक्त्या सायुज्यप्रयोजकयोर्ज्ञानवैराग्ययोर्व्यावृत्तिः । तद् उक्तं—
वासुदेवे भगवति भक्तियोगः प्रयोजितः । > जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ इति ।
इहाहैतुकपदोपन्यासेन अत एव ज्ञानवैराग्ययोर्भक्त्युत्थत्वात्तदर्थं भक्तः पृथग्न प्रयतितव्यम् इति द्योतितम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एव प्रपञ्चयति—वासुदेवे भगवतीत्य्-आदि । सध्रीचीनेन समीचीनेन प्रकारेणाहैतुकेनेति यावत् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च पुरञ्जनस्यापरस्मिन् जन्मनि गुरौ हरौ च भक्त्या निस्तारो विख्यातः । साधन-भक्त्या प्रेम-पर्यन्ता भक्तिर् भवतीत्य् आह—वासुदेव इति द्वाभ्याम् ।
वासुदेवे भगवति भक्ति-योगः प्रयोजितः । > जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ [भा।पु। १.२.७] > इति ।
तत्राप्य् अहैतुक-पदोपन्यासेन, अत एव ज्ञान-वैराग्ययोर् भक्त्य्-उत्थत्वात् तद्-अर्थं भक्तैर् न पृथक् प्रयतनीयत्वम् इति द्योतितम् ॥३७॥
॥ ४.२९.३८ ॥
सोऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः ।
शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् असौ महा-फलो भक्ति-योगः कथं स्याद् अत आह । स त्व् अच्युतस्य कथाम् आश्रित्य वर्तमानोऽचिरात् स्यात् । कस्य स्यात् ? तद् आह—शृण्वतोऽधीयान् अस्य च ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र पृच्छति—नन्व् इति । श्रवणादित्र् अयं कुर्वता भक्तियोगः प्राप्य इत्य् उक्तम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स दुर्लभो भक्ति-योगः कथं झटिति श्रूयते, यदि तदैव भवतीत्य् आह—शृण्वतः इत्य्-आदि । श्रद्धया चेन् नित्यं शृणोति, तदैव भवतीति भावः । वक्ता चेन् न मिलति, तदा कथं चरणारविन्दम् ? तत्राह—अधीयतोऽधीयमानस्य श्री-भागवतादेः सकाशात् स्वयम् एव कथा श्रोतव्या । अथवा यत्र भागवताः सन्ति, तत्रैव गत्वा श्रोतव्याध्येतव्या चेत्य् आह—यत्र भगवाना इत्य्-आदि ॥३८-३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य भक्ति-योगस्य साधनम् अपि भक्ति-योग एवेत्य् आह—सोऽचिराद् इति । अच्युत-कृतष्टम् आश्रयत इति तज्-जन्य इत्य् अर्थः । कस्य स्यात् तद् आह—शृण्वत इति । अधीयतः भावत्व्-धर्मान् अधीयानस्य चरणारविन्दादि-भक्ति-त्रयात्मक-मात्रं ज्ञेयम् ॥३८॥
॥ ४.२९.३९ ॥
यत्र भागवता राजन् साधवो विशदाशयाः ।
भगवद्-गुणानुकथन-श्रवण-व्यग्र-चेतसः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत्र स्यात् तद् आह—यत्रेति । भगवतो गुणानुकथने श्रवणे च व्यग्रं सत्वरं चेतो येषां ते ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव गृहासक्ता गृहकर्मव्यग्रास्तथैव हन्तायमनुकथनस्य समयः हा हा श्रवणस्य समयो व्यतीतः, संप्रति कीर्तनस्य समयोभ्येति हा हन्त मन्दभाग्यो\ऽहं निद्रालस्यदुर्दैहिककृत्यगमितसमयः शीघ्रगतिरे व भक्तसमाजं केन प्रकारेण गच्छामीत्येवं व्यग्रं विवशं लग्नं वा चेतो येषां ते । तथा व्यग्रं वैवश्यसंलग्नाग्रहीनसत्वरेषु च इति धरणिः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवद्-गुणानाम् अनुकथने अनुश्रवणे च व्यग्रं विवशं चेतो येषां ते ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुत्र स्यात् ? तद् आह—यत्रेति । यथैव गृहासक्ता गृह-कर्म-व्यग्रास् तथैव हन्तायम् अनुकथनस्य समयः हा हा श्रवणस्य समयो व्यतीतः, सम्प्रति कीर्तनस्य समयो\ऽभ्येति । हा हन्त मन्द-भाग्यो\ऽहं निद्रालस्य-दुर्दैहिक-कृत्य-गमित-समयः शीघ्र-गतिर् एव भक्त-समाजं केन प्रकारेण गच्छामीत्य् एवं व्यग्रं चेतो येषां ते ॥३९॥
॥ ४.२९.४० ॥
तस्मिन् महन्-मुखरिता मधुभिच्-
चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु साधु-सङ्गं विना स्वयम् एव हरि-कथा-चिन्तनादिना भक्तिर् भवेद् एवेत्य् आशङ्क्याह द्वाभ्याम् । तस्मिन् स्थाने महद्भिर् मुखरिताः कीर्तिताः । मधुभिदश् चरित्रम् एव पीयूषं तद् एव शिष्यत इति शेषो यासु । आसाराशरहित-शुद्धामृत-वाहिन्य इत्य् अर्थः । अवितृषो\ऽऌअं-बुद्धि-शून्याः सन्तो गाढैः सावधानैः कर्णैर् ये ताः सरितः पिबन्ति सेवन्ते । अशन-शब्देन क्षुल् लक्ष्यते । अशनादयस् तान् न स्पृशन्ति । भक्ति-रसिकान् न बाधन्त इत्य् अर्थः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र भागवतास् तत्रैव हरि-कथेति को\ऽयं नियम इत्याशङ्कते—नन्व् इति । इत्य् अर्थ इति—पिबत भागवतं रसमालयम् इत्य् अत्र व्याख्यातरीत्या सारांशो विषयवैचित्र्यवर्णनादिस्तद्धीनाः केवलशुद्धभगवद्-भक्तिविषया इति भावः । इत्य् अर्थ इति । भक्त्यावेशाच्छरीराधननुसन्धानाद् इति भावः । अत्र विश्वनाथः—तस्मिन्महत्सदसि । मुखं रान्ति गृह्णन्तीति मुखराः महद्भिर्मुखराः कृताः मुखरिताः स्वयम् एव मुखप्राप्तीकृता या महतां मुखे सदा तिष्ठन्तीत्य् अर्थः । ता एव कास् तत्राह—मध्व् इति । मधुभिच्चरित्रपीयूषाणां ये शेषा महद्भिरास्वाद्या स्वाद्य महाप्रसादीकृतास्त एव सरितो महानद्यः परितश्चतुर्दिक्षु प्रतिभक्ताग्र एव स्रवन्ति, ता ये पिबन्तीति तासां स्वादाधिक्यात्तेषां च तृष्णाधिक्यं सूचितम् । ता इति तासामेकम् अपि कणं परित्यक्तुं न शक्नुवन्तीत्यनुरागो व्यञ्जितः । ते न स्मरन्त्यतितराम् इत्याद्युक्त्या विस्मृतममतास्पदत्वेनैव शोकमोहाद्य्-अभावात् ॥४०॥
कैवल्य-दीपिका : तस्मिन्न् इति । तस्मिन् भागवत-सदसि महद्भिर् मुखरिता वाचालीकृता स्वयम् एवात्मानं यथा प्रकाशयन्ति तथोच्चारिता महन्-मनो-ह्लादापूरणस्य तद्-अवस्थत्वाच् चेशत्वम् । परितः सर्वान् श्रोतॄन् प्रति अवितृषः विविध-तृष्णा-रहिताः, तद्-एकाभिलाषा इत्य् अर्थः । अशनं क्षुद् भयम् जरा-मरणं चेति षड् ऊर्मयः ।
मनसः शोक-मोहौ च प्राणस्य च तृषा क्षुधा ।
जरा-मृत्यू शरीरस्य षड्-ऊर्मि-रहितः शिवः ॥ इति वचनात्5 ॥४०॥ [मु।फ। ८.११]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत्र अत्वाः सन्ति, तत्र किं भवतीत्य् आह—तस्मिन्न् इत्य्-आदि । महद्भिर् भागवतैर् मुखरिताः कीर्तिताः सत्यो मधुभिच्-चरित्र-पीयूष-शेष-सार-भागा यासां ताः सरितः स्रवन्ति, तासां पानेऽशनादीनां क्वावसरः ? अतः भागवत-मुखाद् एव श्रोतव्या भागवत-कथा, स्वतः-पाथे चरणारविन्दे बालस्यादिकम् अशनादिकं च कदाचित् प्रभवति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न च तत्-कथा तत्र स्व-यत्न-सापेक्षा, न च साधनानन्तरस्य व्यपेक्षा, न च परिच्छिन्नेत्य् आह—तस्मिन्न् इति । महान्तो मुखरिता याभिर् इति आहिताग्न्य्-आदित्वान्न् इष्टायाः पर-निपातः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्र भागवतास् तत्रैव भगवत्-कथा इति को\ऽयं नियमः ? इति चेत् तत्राह—तस्मिन् महत्-सदसि मुखं रान्ति गृह्णन्तीति मुखरा महद्भिर् मुखराः कृता इति मुखरिताः स्वयम् एव मुख-प्राप्तीकृता या महतां मुखे सदा तिष्ठन्तीत्य् अर्थः । ता एव काः ? तत्राह—मधुभिच्-चरित्र-पीयूषाणां ये शेषाः महद्भिर् आस्वाद्यास्वाद्य महा-प्रसादी-कृतास् त एव सरिओत् महा-नद्यः परितश् चतुर्दिक्षु प्रतिभक्ताग्रे एव स्रवन्ति ता ये पिबन्तीति तासां स्वादाधिक्यात् तेषां च तृष्टाधिक्यं सूचितम् । ता इति तासाम् एकम् अपि कणं परित्यक्तुं न शक्नुवन्तीत्य् अनुरागो व्यञ्जितः । अवितृषः अलं-बुद्धि-शून्या गाढैर् इति दृढत्वेन सर्व-सम्भावना-शून्यैः । अशन-तृट् कुत्राद्य भुञ्जे इति भोजनाकाङ्क्षा भयादयश् च न स्पृशन्तीति भक्तैर् एव कृपया परस्परं भोजितत्वात्, आकिञ्चन्येनैव भयाभावात्, ते न स्मरन्त्य् अतितरां प्रियम् [भा।पु। ४.९.१२] इत्य्-आद्य्-उक्त्या विस्मृत-ममतास्पदत्वेनैव शोक-मोहाद्य्-अभावाद् इति ॥४०॥
॥ ४.२९.४१ ॥
एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः ।
न करोति हरेर् नूनं कथामृत-निधौ रतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्गम् अन्तरेण स्वयम् एव कथा-चिन्तनादाव् आलस्यादिन रसावेशाभावाच् च क्षुत्-पिपासाद्य्-अभिभूतस्य भक्तिर् न संभवतीत्य् आह—एतैर् इति ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतैरशनादिभिः स्वभावजैः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्यथा तैर् अशनादिभिर् उपद्रुतोऽपि भवतीत्य् आह—एतैर् इत्य्-आदि । एतैर् अशनादिभिर् यतः स्वभावजैः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एतैर् इति । महत्-सङ्ग-प्रभावेनैव सा कथा तद्-विघ्न-नाशिकां रतिं जनयतीति भावः ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्-सङ्गम् अन्तरेण स्वयम् एव हरि-कथा-चिन्तनाद् आलस्यादिन रसावेशाभावाच् च क्षुत्-पिपासाद्य्-अभिभूतस्य भक्तिर् न प्रायो विकसतीति व्यञ्जितम् एवार्थम् अभिधयाप्य् आह—एतैर् इति ॥४१॥
॥ ४.२९.४२ ॥
प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः ।
दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥**
**मध्वाचार्यः (भागवत-तात्पर्यम्) :**प्रजापति-पतिर् ब्रह्मा विरिञ्चश् चेति कथ्यते इति शब्द-निर्णये ॥४२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-अनुग्रहम् अन्तरेण तु न कस्यापि ज्ञान-संभव इति कैमुत्य-न्यायेनाह चतुर्भिः । प्रजापति-पतिर् ब्रह्मा ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु तरति शोकमात्मवित् इति श्रुतेर्ज्ञानिना किं भक्त्येति तत्र कैमुत्यन्यायेन ज्ञानिनो नैव जानन्तीत्य् आह—प्रजेति चतुर्भिः । भगवान्सर्वज्ञः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवान-सङ्गेन भगवद्-अनुग्रहो जायते, भगवद्-अनुग्रहं विना न कोऽपि तं द्रष्टुम् अर्हतीत्य् आह—प्रजापति-पतिर् इत्य्-आदि । तपो विद्या-सर्व्हिभिः पश्यन्तोऽपि दिदृक्षुमाणा अपि न पश्यन्ति, स्वरूपेण न पश्यन्तीत्य् अर्थः । स तु सर्वम् एव पश्यन्तीत्य् आह—पश्यन्तं, यतः परमेश्वरम् ॥४२-४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तां विना साधनान्तरैस् त्व् अस्मद्-विधानाम् अपि भगवज्-ज्ञानं न स्यात् किम् उतान्येषाम् इत्य् आह—चतुर्भिः । तत्र प्रजापतीति त्रिकं तपः कृच्छ्रादि विद्या उपासना समाधिश् चित्तैकाग्र्यं पश्यन्तोऽपीति यथार्थ-ज्ञानात् ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तरति शोकम् आत्मवित् इति श्रुतेर् ज्ञानिनां किं भक्त्येति तत्र कैमुत्य-न्यायेन ज्ञानिनो नैव जानन्तीत्य् आह—प्रजेति चतुर्भिः ॥४२॥
॥ ४.२९.४३-४४ ॥
मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः ॥**
अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः ।
पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-अन्ताः अहं नारदोऽन्ते येषाम् ॥४३॥ वाचां पतयोऽपि तपो-विद्या-समाधिभिर् उपायैः पश्यन्तो विचिन्वन्तोऽपि पश्यन्तं सर्व-साक्षिणं न पश्यन्ति ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मदन्ता इति । न केवलं तानेव निन्दाम्यपि त्वात्मानम् अपि ॥ एते तपोविद्यासमाधिभिर्न पश्यन्ति भक्त्या तु पश्यन्ति । भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः इति श्रीमुखोक्तेः । एतेषां भक्तिमत्त्वस्य प्रसिद्धः । एते वयं भक्त्या विना के वराका इति भावः । वाचस्पतयो\ऽन्यान्प्रत्युपदेष्टुं सरस्वतीपतयो भवन्ति स्वयं तु शास्त्रार्थं नैव जानन्ति भक्तिं विना व्याख्यानाद् इति भावः । अद्यापीति । तपआदीनां परिपाकश् च ज्ञापितः अज्ञानस्य लक्षणं पश्यन्तो\ऽपि उरुप्रयासेन विचिन्वन्तो\ऽपि यथार्थाज्ञानान्न पश्यन्तीत्य् अर्थः ॥४३-४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् सर्वज्ञः मद्-अन्ता इति न केवलं तान् एव निन्दामि, अपि त्व् आत्मानम् अपि एते तपो-विद्या-समाधिभिर् न पश्यन्तीति भक्त्या तु पश्यन्तीत्य् अर्थः । एतेषां भक्तिमत्त्वस्यापि प्रसिद्धेः । एते वयं भक्त्या विना के वराका इति भावः । वाचस्पतय इति अन्यान् प्रति शास्त्रार्थम् उपदेष्टुं सरस्वती-पतयो भवन्ति, स्वयं तु शास्त्रार्थं नैव जानन्ति, भक्तिं विना व्याख्यानाद् इति भावः । अद्यापीति तप-आदीनां परिपाकश् च ज्ञापितः । अज्ञानस्य लीलं पश्यन्तोऽपि विचिन्वन्तोऽपि न पश्यन्तीति ।
॥ ४.२९.४५ ॥
शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे ।
मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
मन्त्र-लिङ्गैर् व्यवच्छिन्नं वेद-शब्दोक्त-मात्रकम् । > वेदो वदन्न् अपि हरिं न सम्यग् वक्ति कुत्रचित् ॥ > नारोऽयत्य् अनुभवम् अप्रसिद्ध-स्वरूपतः । > तथाप्य् अनुभवारोहः प्रसन्ने केशवे भवेत् । > किञ्चिद् एव सुसम्यक् च स्वय्ं त्व् अनुभवत्य् अमुम् ॥ इति वाराहे > ॥४५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह—शब्द-ब्रह्मणि वेदे उरुर् विस्तरो यस्य । अर्थतोऽपि पार-शून्ये तस्मिन् वर्तमानाः । मन्त्राणां लिङ्गैर् वज्र-हस्तत्वादि-गुण-युक्त-विविध-देवताभिधान-सामर्थ्यैः परिच्छिन्नम् एवेन्द्रादि-रूपं तत् तत् कर्माग्रहेण भजन्तः परं परमेश्वरं न विदुः ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अदर्शने हेतुं पृच्छति—कुत इति । उरुविस्तरे शब्दतो\ऽपि दुर्विज्ञेये वज्रहस्तः पुरन्दरः इत्य्-आदिमन्त्रोक्तलिङ्गैः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं न पश्यन्ति ? तत्राह—शब्द-ब्रह्मणीत्य्-आदि । दुष्पारे शब्द-ब्रह्मणि वेदे चरन्त इतस् ततो भ्रममाणा अस्थिराः परं पुरुषोत्तमं न विदुः । मन्त्रोक्तैर् लिङ्गैः परिच्छिन्नं नाना-देवता-रूपं भजन्तः श्री-कृष्ण-रूपं तु शब्द-विषयत्वाभावान् नान्य-देवता-रूपवन् मन्त्र-कृत्-परिच्छिन्नम् । अतो लोक-वेद-नैरपेक्ष्येण केवलं भगवान् एव भजनीय इत्य् आयातम् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः कर्म-निष्ठास् तु सुतराम् एव न जानन्तीत्य् आह—शब्देति ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मिणस् तु सुतराम् एव न जानन्तीत्य् आह—शब्द-ब्रह्मणि वेदे दुष्पारे अर्थत ऊरु विस्तर इति शब्दतोऽपि दुष्पारे मन्त्र-लिङ्गैर् वज्र-हस्तत्वादि-चिह्नैर् विशिष्टम् इन्द्रादिकं भजन्तः परं परमेश्वरं न विदुः ॥४५॥
॥ ४.२९.४६ ॥6
यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
यदा त्व् अनुभवीभूयाच् छब्द-मात्रानुरोधनम् ।
त्यक्त्वाथ तं विदुः प्राज्ञास् त्यक्त-वेद इति स्म ह । > यदैव त्यक्त-वेदः स्याद् अथास्मान् मुच्यते भयात् ॥ > प्रायस् तु वैदिका एव रुद्राद्या अपि वै पुरा । > वैदिकस् त्यक्त-वेदश् च ब्रह्मैवैकः प्रजापतिः ॥ > ततस् तु केशवं भक्त्या सम्पूज्य बहु-जन्मसु । > त्यक्त-वेदत्वम् आपन्नाः प्रसादात् परमेष्ठिनः ॥ इति > महा-संहितायाम् । > केवलं वेद-शब्देन जानन् वैदिक उच्यते । > वेदं विनाप्य् अनुभवाज् जानंस् तु त्यक्त-वैदिकः ॥ इति अध्यात्मे । > तत्त्वं वेदानुसारेण चिन्तयन् वैदिको भवेत् । > वेद उहामनुसरेद् यस्य स त्यक्त-वैदिकः ॥ इति षाड्गुण्ये > ॥४६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्ह्य् अन्यः को नाम कर्माद्य्-आग्रहं हित्वा परमेश्वरम् एव भजेद् इत्य् अत आह—यदा यम् अनुगृह्णाति । अनुग्रहे हेतुः—आत्मनि भावितः सन् । स तदा लोके लोक-व्यवहारे वेदे च कर्म-मार्गे परिनिष्ठितां मतिं त्यजति ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—तर्हीति । नामेति प्रसिद्धौ । को\ऽन्यः पुरुषो यः सर्वं हित्वा परं भजेदित्यत आह—यदेति । विश्वनाथः—ननु यदि ज्ञानिनः सकर्माणश् च न जानन्ति तदा कस्तं जानाति भक्त एवेति चेत्स भक्त एव कथं स्यात्केन वा चिह्नेन ज्ञेय इत्यत आह—यदेति । आत्मनि मनसि भावितो\ऽर्थाद्भक्तैरे व भगवन्निमं जनं संसारादुद्धरन्नङ्गीकुर्व् इति स्वभक्तैर्मनसि निवेदितो भगवान्यदा यस्य यमनुगृह्णाति तदैव स भक्तो लोके लौकिके व्यवहारे वेदे च कर्मकाण्डे परिनिष्ठितां कृतस्थितिम् अपि मतिं त्यजति ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत् तु यदा भगवद्-अनुग्रहो भवति, तदैव स्यात्—यदा यस्येत्य्-आदि ॥४६॥
सनातन-गोस्वामी : [ह।भ।वि। १०.६४] धर्म-त्यागस् तु कर्म-पर-लोक-वेदापेक्षा-त्यागेनैव स्यात्, स च भगवतोऽनुग्रहेण स्वतः सम्पद्यत इत्य् आशयेन लिखति—यदेति । यस्य समनुग्रहे हेतुः—आत्मनि मनसि भावितो ध्यातः सन् । यद् वा, स तदा आत्म-भावितः शुद्ध-चित्तः सन् भगवद्-भक्ति-युक्तः सन् वा । लोक-व्यवहारे वेदे च कर्म-मार्गे परिनिष्ठितां पूर्व-जन्माभ्यासेन परम-निष्ठां प्राप्ताम् अपि मतिं जहाति । अत एव श्री-भगवद्-गीतासु—त्रैगुण्या विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २.४५] इति ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : महत्सु श्रद्धा-तारतम्यात् तु भगवद्-अनुग्रहः समय-भेदम् अपेक्ष्य प्रवर्तमानः सर्व-निरपेक्षां भक्तिं ददातीत्य् आह—यदा यस्येति । आत्मनि महद्-द्वारा कथा-श्रवणेन शुद्धे चित्ते भावितः सन् यदा यस्यानुगृःणाति, तदा स लोके लौकिक-व्यवहारे वेदे च कर्म-काण्डे परिनिष्ठिताम् अपि मतिं जहाति ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि ज्ञानिनः कर्मिणश् च न जानन्ति तदा कस् तं जानाति ? भक्त एवेति चेत्, स भक्त एव कथं स्यात् ? केन वा चिह्नेन स ज्ञेय इत्य् अत आह—यदेति । आत्मनि मनसि भावितः अर्थाद् भक्तैर् एव हे भगवन्न् इमं जनं संसाराद् उद्दरन्न् अङ्गीकुर्व् इति स्व-भक्तैर् मनसि निवेदितो भगवान् यदा यस्य यम् अनुगृह्णाति तदैव स भक्तः लोके लौकिक-व्यवहारे वेदे च कर्म-काण्डे परिनिष्ठिताम् अपि मतिं त्यजति ॥४६॥
॥ ४.२९.४७ ॥
तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु ।
मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थकाशिषु परमार्थत्वेन प्रकाशमानेषु पुरुषार्थ-बुद्धिं मा कृथाः । प्ररोचनाय केवलं श्रोत्र-प्रियेषु । न स्पृष्टं वस्तु यैः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसंहरति यस्माज्ज्ञानेनैव मोक्षस्तस्माद्धेतोः । अज्ञानाद्भगवत्तत्वापरिज्ञानात् कर्मस्वग्निष्टोमादिषु । तत्प्रवृत्तौ हेतुः—श्रोत्रेति । अपाम सोमम् इत्य्-आदिश्रवणे श्रोत्रं तत्सुखं स्पृशन्ति ददतीति श्रोत्रस्पर्शानि तेषु । हेयत्वे हेतुम् आह—अस्पृष्टेति । परमात्माख्यवस्तुसम्बन्धगन्धरहितेषु ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थकाशिषु अर्थत्वेन प्रतीयमानेषु ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्था इव परमेश्वरन्त इत्य् अर्थ-काशिनस् तेषु अर्थ-दृष्टिं पुरुषार्थ-बुद्धिं प्ररोचनाय केवलं श्रोत्र-प्रियेषु न स्पृष्टं वस्तु यैस् तेषु ॥४७॥
॥ ४.२९.४८ ॥
स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः ।
आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु वेदेन स्वर्गादि-साधनत्वेनोक्तानि कर्माणीति वेद-वादिनो वदन्ति कथम् अस्पृष्ट-वस्तुषु ? इत्य् उच्यते । तत्राह—ये धूम्र-धियो मलिन-बुद्धयः स-कर्मकं कर्म-परं वेदम् आहुः, ते अतद्-विदोऽवेद-ज्ञाः । यतस् ते स्वं स्वरूप-भूतं लोकम् आत्म-तत्त्वं वेद-तात्पर्य-गोचरं न विदुः । यत्र देवोऽस्ति ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । एते मत्पुरोधसः कथं विद्वांसो\ऽपि मां यागादिकमैव कारयन्ति । स्वम् इति । यत्र लोके जनार्दनस्तं लोकं वैकुण्ठं स्वं स्वप्राप्यं स्वीयं न विदुः किं तु स्वर्गम् एव स्वं विदुः । इष्ट्वेह देवता यज्ञैः स्वर्गं प्राप्स्यामहे ध्रुवम् इत्य् उक्तेः । स्वामिव्याख्याने यत्रात्मतत्त्वज्ञाने देवो द्योतनात्मको जनस्याविद्यादेरर्दनः परमात्मैवास्ति स एव भवतीत्य् अर्थः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आहुः अत्र, क इत्था वेद यत्र सः [क।उ। १.२.१५]7 इत्य् अस्याः श्रुतेर् अर्थम् आह—स्वम् इति । ये धूम्र-धियो वेदं स-कर्मकं कर्म-मात्र-प्रतिपादकम् आहुः, ते स्वं जनार्दनस्य स्वं स्वरूपं लोकं वैकुण्ठाख्यं न विदुः, किन्तु स्वर्गादिकम् एव विदुः । यत्र लोके यत्-परं कर्म भगवद्-धर्म-लक्षणं तन् न विदुः ॥४८॥ [।भवतः ६०]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि कथम् एते मत्-पुरोधस्य मुनयो विद्वांसो मां यागादि-कर्मैव कारयन्ति ? इति तत्राह—स्वम् इति । यत्र जनार्दनो देवो वर्तते, तं लोकं वैकुण्ठं स्वं स्वीयं स्व-प्राप्यं न विदुः, किन्तु स्वर्गम् एव स्वं विदुर् इत्य् अर्थः । यतो धूम्र-धियो मलिन-बुद्धयो वेदं स-कर्मकं कर्म-परम् एवाहुः । अतद्-विदः वेदार्थानभिज्ञाः । यद् उक्तं भगवता—
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता । > मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [११.१४.३] इति > ॥४८॥
॥ ४.२९.४९ ॥
आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् ।
स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् ।
तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं तु महा-मूर्ख इत्य् आह—आस्तीर्येति । बृहद्-वधात् बहु-पशु-वधात् । मानी यज्वाहम् इत्य् अहङ्कारी । अतः स्तब्धोऽविनीतः सन् कर्म नावैषि । परं विद्या-स्वरूपं तच् च न वेत्सि । नारदः स्वयं कृपया तद् द्वयं निरूपयति । हरिं तोषयतीति हरि-तोषं यत् तद् एव कर्म । यया तस्मिन् हरौ मतिर् भवति सैव विद्या । महा-फलत्वात् ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वन्तु तैरनभिज्ञैरध्यापितो महामूर्खोसि, अतो\ऽहङ्कारित्वात् प्राचीनाग्रदर्भास्तरणं कृत्वा पशुसंज्ञपनम् एव जानासि न तु कर्म-स्वरूपम् इत्य् अर्थः । कुरु कर्मैव तस्मात्त्वम् इत्य्-आदिना विहितं यत्परं कर्म तन्न जानासीत्युच्यते न तु कर्ममात्रं न वेत्सीति । ननु कल्पोक्तद्रव्यसामग्र्या क्रियमाणस्य कर्मणः कथं परत्वाभावस् तत्राह—तद् इति । ब्रह्मार्पणबुद्ध्या क्रियमाणस्यैव कर्मणः तत्तोषकत्वेन परत्वं न द्रव्यसामग्र्या क्रियमाणस्येति भावः । ननु ममापि क्षत्रियत्वाद्वेदविद्याधिकारित्वेन कर्मानुष्ठानं तत्पूर्वकम् एवास्तीति तत्राह—सेति । महाफलत्वान्मोक्षहेतुत्वात् ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आत्मनि भावितः सन् यस्य यं भगवत्-कर्म विनानान्यत् कार्यम् इत्य् आह—तत् कर्मेत्य्-आदि । हरेस् तोषो यत्र येन वा तद् एव कर्म, सैव विद्या यया तन्-मतिः ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य कर्मत्वं परत्वं च दर्शयति—तद् इति । यद् धरि-तोषं तद्-धेतुकं तद् एव कर्म तस्यैव कर्तव्यत्वाद् इति भावः । तथा सैव च विद्या शास्त्रोत्थं ज्ञानं यया तन्-मतिस् तद्-अनुभवोऽपि भवतीति ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं तु तैर् अनभिज्ञैर् अध्यापितो महा-मूर्ख एवेत्य् आह—आस्तीर्येति । बृहद्-वधात् बृहत्-पशु-वधात् । मानी महा-जज्वाहम् इत्य् अहङ्कारी स्तब्धोऽविनीतः । ननु तर्हि परम् एव कर्म किं? तद् इति कृपया त्वम् एव ब्रूहीत्य् अत आह—तद् इति । अन्यत् पुनः कर्मैव नोच्यत इति भावः । सेति अन्या पुनर् विद्यव नोच्यत इति भावः ॥४९॥
॥ ४.२९.५० ॥
हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः ।
तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत इत्य् अपेक्षायां हरेः परम-फलत्वं दर्शयन्न् आह द्वाभ्याम् । हरिर् देह-भृताम् आत्मा ईश्वरश् च । तत्र हेतुः—स्वयं स्वातन्त्र्येण प्रकृतिः कारणम्, अतस् तेषां तत्-पाद-मूलम् एव शरणम् आश्रयः । यतो यस्मिन् ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महाफलत्वे हेतुं पृच्छति—कुत इति । हरिर् इति अज्ञानतत्कार्यदुरितादिहरणशीलत्वात् । ईश्वरः स्वामी । तत्र आत्मत्वे स्वामित्वे च । अतः स्वामित्वादात्मत्वाच् च । तेषां देहभृताम् । शरणं रक्षिता शरणं गृहरक्षित्रोः इत्य् अमरः । देहभृतामात्मेति । तत्तोषं विना कथं स्वस्य तोषो भवेद् इति भावः । प्रकृतिरीश्वर इति । सर्वजगन्मातापितरावपि हरिरेवेत्य् अर्थ इति चक्रवर्ती ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-भृताम् आत्मेति । तत् तोषं विना स्वस्य कथं सन्तोषो भवत्व् इति भावः । प्रकृतिर् ईश्वर इति प्रकृति-पुरुषौ सर्व-जगन्-माता-पितराव् अपि हरिर् एवेत्य् अर्थः ॥५०॥
॥ ४.२९.५१ ॥
स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि ।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न च तद् भजनेऽन्य-भजन इव दुःखं भयं चेत्य् आह—स वा इति । इति यो वेद स एव हरिश् च ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यभजने देवान्तरभजने पुत्रादिभजने वा यथा दुःखं भयं च दुःखं दैहिकादि भयं मरणादेर् इति । सन्दर्भस्तु—तस्मादेवंभूतो गुरुरेवाश्रयणीय इत्युपदिशन् पुरंजनोपाख्यानादिविवक्षितम् आह—स वा इति सार्द्धेन । वै प्रसिद्धम् । रूपगुणलीलाभिर्मनोरमत्वेन स हरिनामा सर्वेषां प्रियतमः परमप्रीतानां योग्यः । यत एव चात्मा स्वात्मेति पाठे स्वेषां जीवानां रश्मिस्थानीयानां देहभृतां मण्डलस्थानीयः यस्माद् एव च यतः सकाशादण्वपि भयं न जायते इति । य एवं विद्वान् स एव गुरुः य एवंभूतो गुरुः स तु हरिरेवेत्य् अर्थः । विश्वनाथः—स हरिरे व प्रियतम आत्मासौ जीवस्तु प्रिय इत्य् अर्थः । तत्र हेतुः—यतो यद्भजनादस्य जीवात्मनोण्वपि भयं न स्यात् इति यो भेदेनात्मद्वयं वेद य एव त्वया विद्वान् ज्ञेयः स एव विद्वान् स एव त्वया गुरुराश्रयणीयः य एव गुरुः स एव हरिस्त्वयोपासनीय इत्य् अर्थः । अत्र स वै प्रियतमो ह्यस्य इति पाठस्तीर्थसम्मतः ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् एवं-भूतो गुरुर् एवाश्रयणीय इत्य् उपदिशन् पुरञ्जनोपाख्यानादि-विवक्षितम् आह—स वै इति सार्धेन । वै प्रसिद्धे, रूप-गुण-लीलादिभिर् मनोहरत्वेन स हरि-नाम सर्वेषां प्रियतमः परम-प्रीतानां योग्यः, यत एव चात्मा, स्वात्मेति पाठे स्वेषां जीवानां रश्मि-स्थानीयानां देह-भृतां मण्डल-स्थानीयः । यस्माद् एव च यतः सकाशाद् अण्व् अपि भयं न जायते इति यो वेद स एव विद्वान् स एव गुरुः । य एवम्-भूतो गुरुः, स तु हरिर् एवेत्य् अर्थः ॥५१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स हरिर् एव प्रियतम आत्मा । असौ जीवस् तु प्रिय एवेत्य् अर्थः । तत्र हेतुः—यतो यद्-भजनात् अस्य जीवात्मनस् तु स्वर्गादि-भोग-प्रदान-रूप-भजनाद् दुःखम् एव भवतीत्य् अर्थः । इति विभेदेनैवात्म-द्वयं यो वेद, स एव विद्वांस् त्वया ज्ञेयः । य एवं विद्वान् स एव त्वया गुरुर् आश्रयणीयः । य एवं गुरुः, स एव हरिस् त्वयोपासनीय इत्य् अर्थः ॥५१॥
॥ ४.२९.५२ ॥
नारद उवाच—
प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तम् उपसंहरति, प्रश्न इति । एवं भवतः प्रश्नः सञ्छिन्नः परिहृतः । तद् एवम् आत्मनो बन्ध-मोक्ष-प्रकारे कथा-रूपेण कथितेऽपि नातिनिर्विण्ण-चित्तं पुत्रागमनं प्रतीक्षमाणं सन्तं तत् क्षणम् एव महा-भय-कम्पित-सकल-गात्रं गृहान् निर्वासयितुं हरिण-रूपकम् आह—अत्रेति । वदतो मे वचः शृणु ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुषर्षभेति । पुरुषेणापि स्वहिताय झटिति प्रयत्यते त्वं तु पुरुषर्षभो भूत्वा कथं तत्र विलम्बस इति भावः । अत्र अवसरे । सुनिश्चितं शास्त्रज्ञैर् इति शेषः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रश्नेत्य् अर्धकम् । अत्रेत्य् अर्धकम् ॥५२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थम् उपसंहरति—प्रश्नः संछिन्नः परिहृतः । तद् एवं पुरञ्जनोपाख्यानेन वैराग्य-भक्तिभ्याम् आत्मन उद्धार-प्रकारम् अवगम्यापि प्रस्थाप्यमानैर् दूतैः पुत्रान् आनीय राज्येऽभिषिच्य प्रव्रजिष्यामीति मनसि विचारयन्तं राजानम् अभिमृश्य तं सद्य एव गृहान् निःसारयितुम् पुनर् हरिण-रूपक-कथाम् आह—अत्र वदतो मे गुह्यं वचः शृणु ॥५२॥
॥ ४.२९.५३ ॥
क्षुद्रं चरं सुमनसां शरणे मिथित्वा
रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् ।
अग्रे वृकान् असु-तृपोऽविगणय्य यान्तं
पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुद्रम् अल्पं चरतीति तथा तम् । अलुक् । सुमनसां पुष्पाणां शरणे आश्रमे वाटिकायां मिथित्वा मिथः परस्परं स्त्रिया सह मिलित्वा तत्रैव रक्तम् आसक्तम् । षड् अङ्घ्रयो भ्रमरास् तेषां गणास् तेषां सामसु गीतेषु लुब्धः कर्णो यस्य तम् । परेषाम् असुभिर् हृतैः स्वीयान् असूंस् तर्पयन्तीत्य् असु-तृपः तान् अविगणय्यागणयित्वा । लुब्धकस्य बाणेन भिन्नं मृगं मृगय अन्वेषय ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रैव पुष्पवाटिकायाम् एव । अलुक्समास आर्षो वा मुम्—क्षुद्रंचरम् इति ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षुद्रम् इति । मृगं हरिणं मृगयस्व विपत्तिम् अजानन्तं सद्य एव मरिष्यन्तम् अन्वेषय । कीदृशं क्षुद्रं दूर्वादि यवसं चरतीति तथा तम् । मुम्-आगम आर्षः । सुमनसां पुष्पाणां शरणे उद्याने मिथित्वा स्त्रिया सह मिथुनीभूय रक्तम् आसक्तम् । सामसु सङ्गीतेषु, अग्रे तं भक्षयितुम् एव निलीनान् वृकान् अज्ञानाद् एव अविगणय्य यान्तं पृष्ठे तु निलीय वर्तमानस्य लुब्धकस्य बाणैर् भिन्नं भिन्न-प्रायम् अन्वेषय । तेन शीघ्रम् इमं पुष्पोद्यानाद् अन्यत्र नय, अन्यथा वृका लुब्धकाश् चैनं हनिष्यन्त्य् एवेति भावः ॥५३॥
॥ ४.२९.५४ ॥
[अस्यार्थः] सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतोऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्लोकं प्रस्तुते योजयन् व्याचष्टे । सुमनोभिः समानो धर्मः परिणाम-विरसत्वं यासां स्त्रीणाम् । मिथित्वेत्य् अस्य व्याख्या, मिथुनी-भूय । स्त्रीभिः सहेति शेषः । रक्तम् इत्य् अस्य व्याख्या, तास्व् अभिनिवेशितं मनो येन । असुतृप् इत्य् अस्य व्याख्या, आयुर् हरत इति । यान्तम् इत्य् अस्य व्याख्या, विहरन्तम् इति । अन्तर् नलिकायां गूढेन शरेण पराविध्यति दूराद् एव ताडयति ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तर्नलिकायां गूढेन नलिकामध्यस्थापितेन दर्शनायोग्येन मरणहेतुभूतेन व्यापारेण राजन्न् इति । राज्य एवासक्तिं मा कुर्व् इति भावः ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रश्नेत्य् अर्धकम् । सुमन इत्य्-आदि-गद्यान्ते द्रष्टुम् अर्हसीत्य् अनन्तरं यथा मृगयु-हतं मृगम् इति क्वचिद् अधिकं वर्तते ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्लोकम् इमं प्रस्तुतं योजयन् व्याचष्टे । अत्र सुमनसां शरणे इत्य् अस्य व्याख्या सुमनः-सम-धर्मणाम् इति । परिणाम-विरसत्वात् नव-मालिका-पुष्प-मध्व् इत्य्-आदि । मिथित्वेत्य् अस्य व्याख्या—मिथुनी-भूय स्त्रीभिः सहेति शेषः । रक्तम् इत्य् अस्य व्याख्या तासु स्त्रीष्व् एव अभिन्विवेशितश् चित्तम् । असुतृप् इत्य् अस्य व्याख्या—आयुर् हरत इति । यान्तम् इत्य् अस्य व्याख्या—विहरन्तम् इति । अतितराम् इत्य् अस्यैव विशेषणम् अन्तः-शरेण अन्तर्-नालिकायां गूढेन शरेण अलक्षितेन मर्ण-व्यापारेणेत्य् अर्थः । द्रष्टुम् अर्हसीति दृष्ट्वा च शीघ्रम् इदम् अङ्गनाश्रमाद् बहिष्कुरु । तदैवान्तक-हस्ताद् असौ विच्युतो भविष्यतीति भावः ॥५४॥
॥ ४.२९.५५ ॥
स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनोऽन्तश्
चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते ।
जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं
प्रीणीहि हंस-शरणं विरम क्रमेण ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपदेश-सारम् आह—स इति । विचक्ष्य विचार्य । अन्तर् हृदि चित्तं कर्णयोर् धुनीं नदीम् इव बहिर् वृत्तिं चित्ते नियच्छ । एतच् च सर्वेन्द्रियोपलक्षणार्थम् । अङ्गनाश्रमं गृहाश्रमं च जहि । कीदृशम् ? असत्तमानाम् अतिकामुकानां यानि यूथानि तेषां गाथा वार्ता यस्मिन् । हम्सानां जीवानां शरणम् ईश्वरम् । एवं क्रमेण सर्वतो विरम ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मद्वाक्ये श्रद्धा चेत् तर्हि हितमुपदिशामीत्य् आह—यत्त्वं पूर्वं कर्मठः स एव त्वं मृगस्येव विषयानन्विच्छतो जीवस्य चेष्टितम् । शरणं रक्षितारम् । क्रमेण साधनसामग्र्यनुरोधेन विरम संसाराद्विरतो भूया इत्य् अर्थः ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यञ्जितम् अर्थम् अभिधयापि स्पष्टम् आह—स त्वम् इति । विचक्ष्येत्य् आर्यं विचार्य । अन्तर् हृदि चित्तं मनो नियच्छ कर्णयोर् धुनीं नदीम् इव, अपाम सोमम् अमृता अभूम इत्य्-आदि-फल-श्रुतिं चित्ते नियच्छ लीनीकुर्व् इति फल-श्रुतेर् विचारासहत्वेन वैयर्थ्याद् इति भावः । हंसानां शरणं पर्णशालां भगवन्तं प्रति प्रीणीहि प्रीणयेति वा क्रमेण विषयानन्दाद् विरम ॥५५॥
॥ ४.२९.५६ ॥
राजोवाच—
श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत ।
नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थान्तरं प्रष्टुं पूर्वोक्तम् अर्थम् अनुवदति । श्रुतम् अन्वीक्षितं विचारितं च । ब्रह्मन् हे नारद, एतत् त्वद् उक्तम् आत्म-तत्त्वम् उपाध्याया ये मम कर्मोपदेष्टार आचार्यास् ते न जानन्ति ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न जानन्तीत्यत्र हेतुः किन्नेत्यादि ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् भवान् अभाषत तच्-छ्रुतम् अनु पश्चाद् ईक्षितं विचार्य साक्षात्-कृतं च । ये मुनयोऽत्रत्या मां कर्माध्यापयन्ति ते एतन् न जानन्ति । यदि च जानन्ति तर्हि किं न ब्रूयुर् अतोऽद्यारभ्य त्वम् एव मे गुरुर् अभूर् इति भावः ॥५६॥
॥ ४.२९.५७ ॥
संशयो\ऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् ।
ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तत्-कृत उपाध्याय-कृतस् तद् वक्य-विरोधेनात्म-तत्त्वेऽसंभावनारूपो महान् संशयः सञ्छिन्नस् त्वया । अत्र तु कश्चित् संशयो वर्तते, यत्रेन्द्रिय-वृत्तीनाम् अप्रवृत्तेर् मुह्यन्ति ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस्ते\ऽज्ञा अतो हेतोः । अत्र ब्रह्मणि । महानिति । सूक्ष्मत्वेनाज्ञातविषयत्वान्महत्त्वं न तु स्थूलपरिमाणत्वेनेत्यभिप्रायेणाह—ऋषयो\ऽपि । त्रिकालज्ञा अपि किं पुनर् मादृशा इत्य् अर्थः । अत्र तु कर्ममार्गे तु यत्र कर्मवर्त्मनि । इन्द्रियाणां त्वैहिकम् अपि सर्वं न गोचरीभवति किं पुनः पारलौकिकमत उक्तमिन्द्रियवृत्तीनामप्रवृत्तेर् इति । यद्वा—यत्र येषु इन्द्रियवृत्तयो\ऽपि न प्रभवन्ति । ये जितेन्द्रिया इत्य् अर्थः । ते ऋषयः । हि निश्चितम् । ये मुह्यन्ति मोहाद् एव कर्म कुर्वन्ति मद्विधान्कर्म कारयन्ति च तर्हि मद्विधानां का वार्तेति भावः ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-भगवद्-वर्त्मनि तु संशयः छिन्न एव, किन्तु कर्म-मार्गे त्व् एकः संशयो वर्तते । तच्-छेदनं च संप्रत्य् अनुपादेयम् अपि केवलं मुहुस् तत्-स्मृत्यापात-शान्त्य्-अर्थम् एव मृग्यत इत्य् आशयेनाह द्वाभ्याम् । तत्र कर्माणीति सार्धकं कर्मेत्य् अर्धकं येन देहेनारभते, तेनैव जुष्टानि सेवितानि निर्व्यूढानि कर्माण्य् अमुत्रान्येन देहेन समश्नुते इति हि वेद-विदां वादस् तत्त्व-निर्णयः । कर्म च तत्-क्षणाद् अप्रकटम् एव स्यात्, ततश् च स्नान-भोजनादिवत् संस्कार-रूपत्वेनाग्नि-तन्मात्रादिवत् सूक्ष्म-रूपत्वेन चान्यत्र सञ्चारणासम्भवात् कथम् अन्येन देहेन तत्-तद्-भोगः संभवतीत्य् अर्थः ॥५७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तत्-कृत उपाध्याय-कृतस् तद् वक्य-विरोधेन भक्ति-ज्ञान-वैराग्येष्व् असम्भावना-रूपो यः संशय आसीत् स त्वया विशेषेण प्रकर्षेण सम्यक्-प्रकारेण छिन्नः, यत्र येषु इन्द्रिय-वृत्तयोऽपि न प्रभवन्ति, ये जितेन्द्रिया इत्य् अर्थः । ते ऋषयोऽपि हि निश्चितं मुह्यन्ति मोहाद् एव कर्म कुर्वन्ति मद्-विधान् कर्म कारयन्ति च तर्हि मद्-विधानां का वार्तेति भावः ॥५७॥
॥ ४.२९.५८ ॥
कर्माण्य् आरभते येन पुमान् इह विहाय तम् ।
अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : संशयम् आह द्वाभ्याम् । कर्माणि येन देहेन करोति तम् अत्रैव विहायामुत्र लोकान्तरे कर्मोपस्थापितेनान्येन देहेन जुष्टान्य् उपभुक्तानि जीवोऽश्नुते प्राप्नोति ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, कर्मवर्त्मन्येकः संशयास्ति तम् अपि छिन्धीत्य् आह—कर्माणीति । उपभुक्तानि स्वर्गनरकादीनि ॥५८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कर्म-वर्तमन्य् एकः संशयो वर्तते तम् अपि संछिन्धीत्य् आह—कर्माणि येन देहेन कुरुते पुमान् जीवस् तं देहम् इहैव विहाय अमुत्र लोकान्तरे अन्येन देहेन जुष्टानि उपभुक्तानि स्वर्ग-नरकादीनि अश्नुते प्राप्नोति इति वादः श्रूयते, स कथं सङ्गच्छते? न ह्य् अन्येन क्रियतेऽन्येन भुज्यते इत्य् उचितम् इति भावः ॥५८॥
॥ ४.२९.५९ ॥
इति वेद-विदां वादः श्रूयते तत्र तत्र ह ।
कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : इति वादः श्रूयते “प्राप्य पुण्य-कृताल् लोकान्” इति । “शरीर-जैः कर्म-दोषैर् याति स्थावरतां नरः” इति । त्वया चोक्तं “शाश्वतीर् अनुभूयार्तिम्” इति । एतच् च कर्तृ-भोक्तृ-देह-भेदेन कृत-नाशाकृताभ्यागम-प्रसङ्गान् न सङ्गच्छत इति भवः । संशयान्तरम् आह । प्रोक्तं वेदोक्तं कर्म यत् क्रियते जनैस् तच् चानन्तर-क्षण एव परोक्षम् अदृश्यं सन् न प्रकाशते, अतः कर्मणो नष्टत्वात् तद् भागोऽपि दुर्घट इति भावः ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वादः श्रूयते स कथं सङ्गच्छेत न ह्यन्येन कृतमन्येन भोक्तुं युज्यते इति भावः । एतच्च अन्यकृतान्यभोगलक्षणम् । इति भाव इति । येन देहेन कृतानि स त्वभुक्त्वैव मृतो\ऽतस्तत्कृतकर्मणां नाश एव जातो\ऽन्येन देहान्तरेण तत्फलभोगाङ्गीकारे च तस्य विनैव कर्मकरणं तत्फलावाप्तिरित्यकृताभ्यागम एव जात इत्याशयः । इति भाव इति । यत्तु स्वयम् एव नष्टं तत्फलं कथं दातुं समर्थं भवेत्कर्त्रे इति, न हि मृतः पिता पुत्राय कदलीफलमानीय ददातीति युज्यत इत्याशयः । तज्जन्यादृष्टे प्रमाणाभावात्तदपि न प्रकाशते लोकान्तरे कथं तत्फलभोग इति ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संशयान्तरम् आह—कर्म प्रोक्तं वेदोक्तं क्रियते जनैः । तच् च समनन्त-रक्षण एव परोक्षं स्यात् तज्-जन्यम् अदृष्टं यत् तस्यापि सत्त्वे प्रमाणादर्शनात् तद् अपि न प्रकाशते, अतो लोकान्तरे कथं तत्-फलस्य भोग इति ॥५९॥
॥ ४.२९.६० ॥
नारद उवाच—
येनैवारभते कर्म तेनैवामुत्र तत् पुमान् ।
भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमस्योत्तरम्—येनैवेति । अव्यवधानेन कर्तृ-भोक्तृ-देह-विच्छेदं विना । स्थूल-देह-नाशेऽपि मनः-प्रधणस्य लिङ्ग-देहस्यानाशान् नोक्त-दोष-प्रसङ्ग इत्य् अर्थः ॥६०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । पापपुण्ययोर्मनःप्रधानैरिन्द्रियैरे व करणात्तत्फलयोः स्वर्गनरकयोरपीन्द्रियैरे व भोगात् व्यवधानं न विद्यते यस्य तेनाव्यवधानेन लिङ्गेन स्थूलदेहस्य तत्र व्यवधायकत्वाशक्तः ॥६०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमस्योत्तरम् आह—येनैवेति लिङ्गेन लिङ्ग-देहेन मनसा मनः-प्रधानेन पाप-पुण्ययोर् मनः-प्रधानैर् इन्द्रियैर् एव करणात् तत्-फलयोः स्वर्ग-नरकयोर् अपीन्द्रियैर् एव भोगात् न विद्यते व्यवधानं यस्य तेनाव्यवधानेन लिङ्गेनेति स्थूल-देहस्य तत्र व्यवधायकत्वाशक्तेः ॥६०॥
॥ ४.२९.६१ ॥
शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा ।
कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : लिङ्ग-देह-विशिष्टस्य भोक्तृत्वं स्वप्न-दृष्टान्तेन स्पष्टयति । शयानम् इमं जाग्रद्-देहं श्वसन्तं जीवन्तम् उत्सृज्य तद् अभिमानं त्यक्त्वात्मनि मनसि संस्कार-रूपेणादितं कर्म यथा भुङ्क्ते तादृशेन शयान-देह-सदृशेन कर्मोपस्थापितेन देहेनान्येन वा पश्व्-आदि-देहेन तथा लोकान्तरेऽपीति भावः ॥६१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति । स्थूलदेहस्य शयने स्थितत्वात्स्वप्नभोगनिमित्तकर्मोपार्जितेन देहेन लिङ्गिन एव यथा भोक्तृत्वं तथात्रापीति तात्पर्यम् ॥६१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लिङ्ग-देहेनैव यद्यपि कर्तृत्व-भोक्तृत्वे भवतस् तद् अपि स्थूल-देहं विना न सिद्ध्यत इति चेत्, सत्यं, स तु स्थूल-देहो यः कश्चन कर्मणैवोपस्थाप्यते इति स-दृष्टान्तम् आह—शयानम् इमं जाग्रद्-देहं श्वसन्तं जीवन्तम् उत्सृज्य तद् अभिमानं त्यक्त्वात्मनि मनसि संस्कार-रूपेणोहितं कर्म यथा भुङ्क्ते तादृशेन शयान-देह-सदृशेन कर्मोपस्थापितेन स्थूल-देहेन अन्येन वा पश्व्-आदि-देहेन तथा लोकान्तरेऽपीति भावः ॥६१॥
॥ ४.२९.६२ ॥
ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् ।
गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवतु नाम लिङ्ग-विशिष्ट-स्थानेन दृष्टान्तेन भोक्तृत्वम्, कर्तृत्वं तु दान-प्रतिग्रहादिषु स्थूल-देह-विशिष्टस्यैव दृश्यते तत्राह । ममैते पुत्रादयोऽसाव् अहं ब्राह्मण इति ब्रुवन् मनसा यद् यद् देहं गृह्णीयात् तत् ततो देहाद् राद्धं सिद्धं कर्म पुमान् गृह्णीयात् । येन कर्मणाहङ्कार-गृहीतेन पुनर्-भवो भवति । अन्यथा जन्मानुपपत्तेः । अतोऽभिमन्तुर् मनो-विशिष्टस्यैव कर्तृत्वम् अभिमण-विषयस्य तु देहस्य पुत्रादि-देहवद् द्वार-मात्रत्वम् इति भावः ॥६२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनाक्षिपति—नन्व् इति । ममैते यागाः स्वर्गफला इति अयमहं कर्म करोमीति ब्रुवन्मनसा यद्यत्स्थूलं देहं गृह्णीयादभिमानविषयीकुर्यात्ततो देहाद्राद्धं सिद्धं कर्मैव सलिङ्गो जीवो गृह्णीयान्न तु तत्स्थूलदेहं प्रयोजनाभावाद् इति भावः । ततश् च तेन कर्मणैवाहङ्कारगृहीतेन पुनर् जन्म भवति । अन्यथा कर्मग्रहणाभावे जन्मैव न स्यात् कर्मणा जायते जन्तुः इत्याद्युक्तेः । अतो जन्मानुपपत्तेहेतोः । इति भाव इति । यथा पुत्रादिकृतं कर्म पुत्रादिषु निजाभिमानेन स्वकृतमित्युच्यते तथा स्थूलदेहे\ऽपि निजाभिमानत्वात्तत्कृतं कर्म स्वकृतं मन्यत इत्याशयः । तस्मात्साक्षात्कर्ता भोक्ता च पुरुष एव तत्र मनसोन्तरङ्गत्वाद् इति भावः ॥६२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थूल-देहे केवलम् अभिमान-मात्रं तेन च यत् सहायकं जीवस्य तद् दर्शयति ममैते यागाः स्वर्ग-फला इति । अयम् अहं कर्म करोमीति ब्रुवन् मनसा यद् यद् -विशिष्टस्यैव दृश्यते तत्राह । ममैते पुत्रादयोऽसाव् अहं ब्राह्मण इति ब्रुवन् मनसा यद् यद् देहं स्थूलं गृह्णीयाद् अभिमान-विषयी कुर्यात् । ततो देहाद् राद्धं सिद्धं कर्मैव स-लिङ्गो जीवो गृह्णीयात्, न तु तं स्थूल-देहं प्रयोजनाभावाद् एवेति भावः । ततश् च तेन कर्मणैवम् अहङ्कार-गृहीतेन पुनर् भवो भवति अन्यथा जन्मानुपपत्तेः ॥६२॥
॥ ४.२९.६३ ॥
यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः ।
एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं कर्मणो नष्टत्वान् नामुत्र भोगः इति तत्राह—यथेति । उभयैर् ज्ञान-कर्म-रूपैर् इन्द्रियाणाम् ईहितैः कदाचित् कर्म-प्रवृत्तिभिश् चित्तम् अनुमीयते । सत्य् अपि सर्वेन्द्रिय-विषय-संबन्धे युग-पज् ज्ञानानुत्पत्तेः । तद् उक्तम् अक्षपादेन—युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इति । एवं चित्त-वृत्तिभिर् अपि पूर्व-देह-जं कर्म लक्ष्यते । तासाम् अपि युगपद् अनुत्पत्तेः ॥६३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षपादेन गौतमेन । युगपदेककालावच्छेदेन । मनसो लिंगं ज्ञापकम् । तस्माद्यदा येनेन्द्रियेण मनसो योगस्तदा तस्येन्द्रियस्यैव विषयज्ञानम् इति । एवम् एव चित् तस्य सर्वाभिर्वृत्तिभिर्युगपदनुद्भृताभिः पूर्वदेहस्थं कर्म लक्ष्यते । येन येन कर्मणा यदा यदा या या चित्तवृत्तिर्युज्यते सा सैव भद्राभद्रा वाप्युद्भवतीत्य् अर्थः । तेन कर्मणः समनन्तरक्षण एवोपरतत्वे\ऽपि तत्संस्कारस्तद्रूपस्तिष्ठेदेवेति सिद्धान्तो दर्शितः ॥६३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् पृष्टं कर्मणस् तत्-काल एव नष्टत्वान् नामुत्र भोग इति तत्राह—यथेति । उभयैर् ज्ञान-कर्म-रूपैर् इन्द्रियाणाम् ईहितैर् युगपद् अनुत्थितैश् चित्तम् अनुमीयते । सत्य् अपि सर्वेन्द्रिय-विषय-सम्बन्धे युग-पज् ज्ञानानुत्पत्तेः । तद् उक्तम् अक्षपादेन—युग-पज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इति ।
तस्माद् यदा येनेन्द्रियेण मनसा योगस् तदा तस्येन्द्रियस्यैव विषय-ज्ञानम् इति । एवम् एव चित् तस्य सर्वाभिर् वृत्तिभिर् युगपद् अनुद्भूताभिः पूर्व-देहजं कर्म लक्ष्यते । येन येन कर्मणा यदा यदा या या चित्त-वृत्तिर् युज्यते, सा सैव भद्रा अभद्रा व्याप्य् उद्भवतीत्य् अर्थः। तेनकर्मणः समनन्तर-क्षण एवोपरतत्वेऽपि तत्-संस्कारस् तद्-रूपस् तिष्ठेद् एवेति सिद्धान्तो दर्शितः ॥६३॥
॥ ४.२९.६४ ॥
नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् ।
कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : इतोऽपि कर्म लक्ष्यत इत्य् आह—नानुभूतम् इति द्वाभ्याम् । अनेन वर्तमानेन देहेन क्व च कुत्रचिद् अपि यन् नानुभूतम् अननुभूतम् अनुपभुक्तम् अदृष्टं चाश्रुतं च यद् रूपं यद्-आत्मकं यादृक् यत्-प्रकारं च, तत् कदाचित् स्वप्न-मनोरथादिष्व् आत्मनि मनस्य् उपलभ्येत ॥६४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नानुभूतम् इति युग्मकम् ॥६४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स्थूल-देह-नाशेऽपि लिङ्ग-देहो यन् न नश्यतीत्य् एतत् कथं प्रतीमः ? तत्राह—नानुभूतम् इति द्वाभ्याम् । अनेन वर्तमानेन देहेन क्वचित् च कदापि अननुभूतम् अनुपभुक्तम् अदृष्टं चाश्रुतं च पूर्व-देह-गतं वस्तु स्वप्न-मनोरथादौ उपलभ्येते, तच् च यद्-रूपं यादृक् यत् प्रकारकं च आत्मनि मनसि उपलभ्येते ॥६४॥
॥ ४.२९.६५ ॥
तेनास्य तादृशं राजन् लिङ्गिनो देह-सम्भवम् ।
श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुम् अर्हति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन हेतुनास्य लिङ्गिनो वासनाश्रयस्य जीवस्य तादृशं तद्-अनुभवादि-युक्तं पूर्व-देह-संभवं श्रद्धत्स्व, निश्चयेन मन्यस्व । न ह्य् अननुभूतोऽर्थो मनः स्प्रष्टुं मनसि स्फुरितुम् अर्हति ॥६५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतो\ऽपि वक्ष्यमाणहेतुनापि । अत्र विश्वनाथः—ननु स्थूलदेहनाशे\ऽपि लिङ्गदेहो यन्न नश्यतीत्येतत्कथं प्रतीमस् तत्राह—नानुभूतम् इति द्वाभ्याम् । बाल्ये दृष्टं श्रुतं यथा वार्द्धके स्फुरति तथैव पूर्वपूर्वस्थूलदेहगतमेतद्देहे मनसि स्फुरति चेत्तद् एवेदं मनो नान्यद् इति जानीयाद् इति भावः ॥६४-६५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-रूपं तादृग् एव पूर्व-देह-सम्भवं लिङ्गिनोऽस्य जीवस्य श्रद्धत्स्व निश्चयेन मन्यस्व । हे राजन् ! न ह्य् अननुभूतोऽर्थो मनः स्प्रष्टुं मनसि स्फुरितुम् अर्हति, तस्माद् बाल्ये दृष्ट-श्रुतं वस्तु यथा वार्धक्ये स्फुरति, तथैव पूर्व-पूर्व-स्थूल-देह-गतम् एतद् देह-स्थे मनसि स्फुरति चेत् तद् एवेदं मनो नान्यद् इति जानीयाद् इति भावः ॥६५॥
॥ ४.२९.६६ ॥
मन एव मनुष्यस्य पूर्व-रूपाणि शंसति ।
भविष्यतश् च भद्रं ते तथैव न भविष्यतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मनो-वृत्त्यैव पराणि शुभाशुभ-निमित्तानि शरीराणि ज्ञायन्त इत्य् आह—मन एवेति । भद्रं त इति सम्यग् अवधानार्थम् आशिषाभिनन्दति । भविष्यत उद्भवं प्राप्स्यतो न भविष्यतो नीचत्वं प्राप्स्यतोऽपि भावीनि रूपाणि शंसति । मन एवौदार्य-कार्पण्यादि-वृत्तिभिः पूर्वम् अप्य् एवम् एवासीत्, पश्चाद् अप्य् एवम् एव भविष्यतीति ज्ञापयतीत्य् अर्थः ॥६६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह—किं चेति । उद्भवमुत्कर्षम् । उत्कृष्टस्यैव भवनमभवनमधमस्य च यथेन्दोस्तमसश्चैव गण्यते क्रमत उभ इति न्यायमाश्रित्योक्तमुद्भवमित्य्-आदि । मनः कर्तृ उग्रत्वशान्तत्वविमूढत्वज्ञानवैराग्यादीनामादिपदेन ग्रह इत्य् अर्थ इति । अन्यथा सर्वेषां साम्यतैव भवेद् इति भावः । विश्वनाथस्तु—न भविष्यतः पुनर् न जनिष्यमाणस्यास्य मुक्तिर्भविष्यतीति मन एव शुद्धज्ञाननिष्ठं ज्ञापयति । अत एकम् एव मनोमयं लिङ्गशरीरं न पुनः पुनर् जातम् इति । मनसोनेकत्वे तु पूर्वानुभूतहिताहितादिज्ञापनमनुपपन्नं स्याद् इति भावः । रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ हितादिषु इति यादवः ॥६६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, मनो-वृत्त्यैव पूर्वापराण्य् अशुभानि शुभानि च शरीराणि जायन्त इत्य् आह—मन एव । कर्तृ उग्रत्व-शान्तत्वादिभिः कार्पण्यौदार्यादिभिश् च मनुष्यस्य पूर्व-रूपाणि पूर्व-पूर्व-शरीराणि पूर्वम् अप्य् अयम् एवासीद् इति शंसति कथयति । भविष्यतश् च तस्य भावीनि शरीराणि एवम् एवायं भविष्यतीति तथा ज्ञान-वैराग्यादि-दृष्ट्या पूर्वम् अप्य् अस्य शम-दमाद्य् आसीत् न भविष्यत इति पुनर् न जनिष्यमाणस्यास्य मुक्तिर् भविष्यतीति मन एव ज्ञाप्यत्य् अत एकम् एव मनो-मयं लिङ्ग-शरीरं न पुनः पुनर् जातम् इत्य् अर्थः । भद्रं तु इत्य् एतत् त्वं बुद्ध्यस्वेति कृपया आशीर्वादः ॥६६॥
॥ ४.२९.६७ ॥
अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते ।
यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कदाचिद् दर्शनानर्हम् अपि स्वप्ने प्रतीयते यथा पर्वताग्रे समुद्रो दिवा नक्षत्राणि स्व-शिरश्-छेद इत्य्-आदि तत्राह—अदृष्टम् इति । अन्य-देशाश्र् अयं समुद्रादिकं पर्वताग्रे निशाश्र् अयं नक्षत्रादिकं दिवा अभ्यङ्गादि-क्रियाश्र् अयं स्व-शिरश् छेदनाश्रयम् । निद्रादि-दोषेण हि तथा प्रतीयत इत्य् अनुमन्तव्यम् । परस्यापि तद् अनुपपत्तेस् तुल्यत्वाद् इति भावः ॥६७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदवादि पूर्वानुभूतम् एव मनः स्प्रष्टुमर्हति नाननुभूतम् इति तदयुक्तमित्याक्षिपति—नन्व् इति । दर्शनार्हमत्यन्तादृष्टचरम् अपि दृश्यते तत्राह—अदृष्टम् इति । इह जन्मन्यदृष्टमश्रुतम् अपि क्वचिन्मनसि दृश्यते चेत् तर्हि तद्यथा घटते तथानुमन्तव्यं घटनीयं कथमत्राह—देशेत्यादि । अन्यदेशाश्र् अयं किञ्चिद्देशाश्र् अयं मैनाकादिदेशाश्रयमित्यर्थः, मैनाकस्य समुद्रान्तःस्थत्वात्तदुपरिदेशे समुद्रोस्त्येवेत्युक्तं वाल्मीकीये । दिवेति राहुणा रवेः सर्वग्रासे तदपि नासंभवि । तैलमर्दनोत्तरं शयने स्वशिरश्छेद-रूपदुःस्वप्नो\ऽपि नासंभव इत्य् उक्तं चिकित्साशास्त्रे । यद्वा—धातुवैषम्यदोषेण शिरच्छेदो\ऽपि दृश्यते स्वप्न इत्यपि तत्रैव । निद्रादिनेहादिपदार्थो धातुवैषम्यम् एव । इत्थं कुतो मन्तव्यम् इति चेत्तत्राह—परस्य पूर्वपक्षिणो\ऽपि । इति भाव इति । एतदनङ्गीकारे कस्यचिदपि मते पर्वताग्रादौ समुद्रादिस्थित्य्-आदि न सेत्स्यतीत्याशयः ॥६७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कथं कदाचिद् दर्शनानर्हम् अपि स्वप्ने प्रतीयते यथा, पर्वताग्रे समुद्रः, दिवा नक्षत्राणि, स्व-शिरश्-छेद इत्य्-आदीन्य् अत आह—अदृष्टं दर्शनानर्हम्, अश्रुतं चरणारविन्दानर्हं, यथा येन प्रकारेण दृश्यते, तथा तेनैव प्रकारेण देश-काल-क्रियाश्र् अयं तत्-तद्-अनुमन्तवान् । तत्र अन्य-देशाश्रयः समुद्रः पर्वताग्रे । निशाश्र् अयं नक्षत्रादिकं दिवा । अभ्यङ्गादि-क्रियाश्र् अयं शिरः खलु छेदन-क्रियायां धातु-वैषम्य-प्रयुक्तया स्वप्न-गतया भ्रान्त्या प्रतीतम् ॥६७॥
॥ ४.२९.६८ ॥
सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः ।
आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु दरिद्रः क्वचिद् आत्मानं महा-राजं पश्यति, राजा च रङ्कम् आत्मानं पश्यति तत् कथम् असंभावितं सङ्गच्छेत तत्राह—सर्व इति । आयान्ति भोग्यत्वेन प्राप्नुवन्ति । यान्ति च भागान् अन्तरम् । यदि च कश्चिद् अमना भवेत् तर्ह्य् एवं न स्यान् न त्व् एतद् अस्तीत्य् आह—सर्वे स-मनस इति । अतः सर्वेषां स-मनस्कत्वान् मनसि च सर्वार्थानां क्रमेण प्रवेशान् नात्यन्तादृष्ट-चरः कस्यापि कश्चिद् अर्थोऽस्तीत्य् अर्थः ॥६८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । रङ्कं दरिद्रम् । तत् उभयोरुभयत्वम् । इत्य् अर्थ इति । सर्वेषामर्थानां दृष्टानां श्रुतानां च वासनारूपेण स्थितत्वात्समनस्कस्य तन्नाद्भुतम् इति भावः । एकेनैव लिङ्गदेहेन परः सहस्रान्स्थूलदेहान्प्रविश्य कालभेदेनैक एवं यः को\ऽपि जीवः सर्वानेव विषयभोगान्भुङ्क्ते इत्य् आह—सर्व इति । समनसः सलिङ्गदेहा इति चक्रवर्ती ॥६८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकेनैव लिङ्ग-देहेन परः सहस्रान् स्थूल-देहान् प्रविश्य काल-भेदेन एक एव यः कोऽपि जीवः सर्वान् एव विषय-भोगान् भुङ्क्ते इत्य् आह—सर्वे इति । समनसः स-लिङ्ग-देहाः ॥६८॥
॥ ४.२९.६९ ॥
सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि ।
तमश् चन्द्रमसीवेदम् उपरज्यावभासते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं सर्वैर् अपि सर्वेऽर्थाः क्रमेण दृश्यन्त इत्य् उक्तम्, इदानीं युगपद् अपि सर्व-दर्शनं कदाचिद् भवतीत्य् आह । सत्त्वैक-निष्ठे भगवत्-पार्श्व-वर्तिनि भगवद्-ध्यान-परे मनसीदं विश्वम् उपरज्य संयोगम् इव प्राप्यावभासते । प्रतीत्य् अनर्हस्यापि कदाचित् प्रतीतौ दृष्टान्तः, चन्द्रमस्य् उपरज्य तमो राहुर् इव । तद् इदं शुद्धे मनसि सर्व-विषय-स्फुरणं योगि-प्रत्यक्षम् इति प्रसिद्धम् ॥६९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्त्वे शुद्धसत्त्वे । चिद्विभूतावेव निष्ठा स्थितिर् यस्य तथाभूते मनसि यथा भगवान्विश्वं पश्यति तथा तदिच्छावशात्तद्भक्तो\ऽपि पश्यति यथा व्रजेश्वरी मृद्भक्षणलीलायाम् इति ॥६९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सर्वैर् अपि सर्वेऽर्थाः क्रमेण दृश्यन्त इत्य् उक्तम्। इदानीं युगपद् अपि सर्व-दर्शनं कदाचिद् भवतीत्य् आह—सत्त्वे शुद्ध-सत्त्वे चिद्-विभूताव् एव एका निष्ठा नितरां स्थितिर् यस्य तयाभावे मनसि भगवत्-पार्षद्-वर्तिनि सति इदं विश्वम् उपरज्य संयोगम् इव प्राप्यावभासते भगवान् यथा विश्वं पश्यति तदा त्वद्-इच्छा-वशात् त्वद्-भक्तोऽपि पश्यति, यथा व्रजेश्वरी मृद्-भक्षण-लीलायाम् इत्य् अर्थः । प्रतीत्य्-अनर्हस्यापि कदाचित् प्रतीतौ दृष्टान्तः—चन्द्रमस्य् उपरज्य तमो राहुर् इव ॥६९॥
॥ ४.२९.७० ॥
नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।
यावद् बुद्धि-मनो-\ऽक्षार्थ- गुण-व्यूहो ह्य् अनादिमान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं स्थूल-देह-नाशेऽपि लिङ्ग-देहस्यानाशाद् अन्यः कर्ता भोक्तेति दोषो नास्तीत्य् उक्तम् । तत्रैव शङ्कते, ननु लिङ्ग-देहस्य स्थूल-देह-द्वारेणैव कर्तृत्व-भोक्तृत्वे न तु केवलस्य । तत्र कदाचित् स्थूल-देहाभावे जीवस्य कर्तृत्व-भोक्तृत्वाभावान् मुक्तिः प्रसज्येत तत्राह । अहं ममेति भावः स्थूल-देह-संबन्धः पुरुषे जीवे न व्यवधीयते न विच्छिन्नो भवति । किं-पर्यन्तम् ? बुद्ध्य्-आदीनां व्यूहः परिणामो लिङ्गं यावद् अस्ति । अनादिमान् अनादिः सन् ॥७०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्वयं कदारभ्य प्रवृत्तस् तत्राह अनादिमान् अविज्ञातादिकालः ॥७०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं स्थूल-देह-नाशेऽपि लिङ्ग-देहस्यानाशात् कर्तान्यो भोक्तेति दोषो नास्तीत्य् उक्तम् । तथैवं शङ्कते, ननु लिङ्ग-देहस्य स्थूल-देह-द्वारेणैव कर्तृत्व-भोक्तृत्वे दृश्येते, न तु केवलस्य । तत्र कदाचित् स्थूल-देहाभावे जीवस्य कर्तृत्व-भोक्तृत्वाभावान् मुक्तिः प्रसज्येत ? तत्राह—नाहम् इति । अहं ममेति भावः स्थूल-देह-संबन्धः, पुरुषे जीवे न व्यवधीयते न विच्छिन्नो भवति । किं-पर्यन्तम् ? बुद्धि-मनोऽक्षार्थ-रूपो गुण-व्यूहो गुण-परिणामो लिङ्गं यावद् अस्ति । नन्व् अयं कदारभ्य प्रवृत्तः ? तत्राह—अनादिमान् अविज्ञातादि-कालः ॥७०॥
॥ ४.२९.७१ ॥
सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः ।
नेहतेऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वापादाव् अहङ्काराद्य्-अभावात् तद् विच्छेदम् आशङ्क्याह द्वाभ्याम् । सुप्त्य्-आदिषु उपताप इष्ट-वियोगादि-दुःखम् । तेष्व् अहम् इति ज्ञानम् अहङ्कारो नेहते न प्रकाशते । प्राणायनानाम् इन्द्रियाणां विघातात् । इन्द्रियैर् इदं कारास् पद-वस्तु-ग्रहने ह्य् अहङ्कारः स्फुरति नान्यथेत्य् अर्थः ॥७१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु लिङ्ग-देह-सद्-भावे एव परः-सहस्राणां स्थूल-देहानां नाश उद्भवश् च यथा भवति, तथा स्थूल-देह-सद्-भावेऽपि प्रति सुषुप्तिः सूक्ष्म-देहानां नाशं सुषुप्त्य्-अन्ते चोद्भवं च कथं न ब्रूमः ? तत्राह—सुप्तीति द्वाभ्याम् । उपताप इष्ट-वियोगादि-दुःखम् । सुप्तादिषु प्राणानाम् अयनम् इन्द्रियेषु सञ्चलनं तस्य विघातात् विघात-जन्याद् इन्द्रियाणां स्व-स्व-व्यापारसामर्थ्यात् अहम् इति ज्ञानम् अहङ्कारो नेहते न प्रकाशते । तत्र सुषुप्तौ मन-आदि-सर्वेन्द्रियेषु प्राण-सञ्चारणाभावः स्वप्ने बहिर्-ज्ञानेन्द्रियेष्व् एवेति ज्ञेयम् । मृत्यु-प्रज्वाराभ्याम् जनिते कष्टेऽपि सुषुप्त्य्-आदिषु यथा पूर्वं विघाताधिक्यं, न तु लिङ्गस्याभावः ॥७१॥
॥ ४.२९.७२ ॥
गर्भे बाल्येऽप्य् अपौष्कल्याद् एकादश-विधं तदा ।
लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपौष्कल्याद् असंपूर्णत्वात् प्राणायनानाम् इति शेषः । यूनस् तरुणस्य यद् एकादश-विधम् एकादशेन्द्रियैः स्फुटं लिङ्गम् अहङ्करणं तन् न दृश्यते गर्भादाव् इति । सतोऽप्य् अनभिव्यक्तौ दृष्टान्तः, कुह्वाम् अमावास्यायां चन्द्रमसो लिङ्गं रूपम् इव ॥७२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु लिङ्गदेहसद्भाव एव परः सहस्राणां स्थूलदेहानां नाश उद्भवश् च यथा भवति तथा स्थूलदेहसद्भावे\ऽपि प्रतिसुषुप्ति सूक्ष्मदेह नाशं सुषुप्यन्ते तदुद्भवं च कथं न ब्रूम इत्य् अभिप्रेत्याह—स्वापादाव् इति । इत्य् अर्थ इति । स्वापादाविन्द्रियाणां सन्नत्वान्न तथा स्फुरणं न तु लिङ्गाभावेनेति भावः । चक्रवर्ती—प्राणानामयनं देहेन्द्रियेषु संचलनं तस्य विघातात् विघातजन्यादिन्द्रियाणां स्वस्वव्यापारासामर्थ्यादहम् इति ज्ञानमहममुक इति ज्ञानं तत्र सुषुप्तौ मनआदिसर्वेंद्रियेषु प्राणसंचारणाभावः । स्वप्ने बहिर्ज्ञानेन्द्रियेष्वेवेति ज्ञेयम् । मृत्युप्रज्वाराभ्यां जनितकष्टे\ऽपि सुषुप्त्यादिषु यथापूर्वं विधाताधिक्यं न तु लिङ्गाभावः ॥७१-७२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपौष्कल्याद् असम्पूर्णत्वात् इन्द्रियायतानानाम् इति शेषः । यूनस् तरुणस्य यद् एकादश-विधम् एकादशेन्द्रियैः स्फुटं लिङ्ग-देहम् अहङ्कार-कारणं, तन् न दृश्यते । सतोऽप्य् अनभिव्यक्तौ दृष्टान्तः, कुह्वाम् अमावास्यायां चन्द्रमसो लिङ्गं रूपम् इव ॥७२॥
॥ ४.२९.७३ ॥
अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् अहङ्कारास् पदस्य स्थूल-देहस्याविच्छेदाद् वस्तु-भूतार्थाभावेऽपि संसृति-निवृत्तिर् नास्तीत्य् आह—अर्थे हीति ॥७३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो लिङ्गदेहस्य नाशो नास्ति तस्माद्धेतोः । वस्तुभूतार्थाभावे\ऽपि सत्यत्वाभावे\ऽपि । विश्वनाथः—एवं सुषुप्त्यादिषु लिङ्गस्य विघात एव न त्वभावः । ये तु सुषुप्तिप्रलययोर्लिङ्गस्य प्रकृतौ लयादभावमाहुस्तन्मते\ऽपि जीवस्य न मुक्तिः, किन्तु संसार एवेति सदृष्टान्तम् आह—अर्थे लिङ्गशरीरे विषयध्यानादनिवृत् तस्य पुंसः स्वप्ने विषयाभावे\ऽपि विषयग्रहण-रूपस्यानर्थस्य यथागमनं तथैव सुषुप्तौ लिङ्गलये\ऽप्य् अविद्यातत्संस्काराणामनपगमात् मुक्तिर्न किन्तु संसार एवेत्य् अर्थः ॥७३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सुषुप्त्य्-आदिषु लिङ्गस्य विघात एव, न त्व् अभावः । ये च सुषुप्ति-प्रलययोर् लिङ्गस्य प्रकृतौ लयाद् अभावम् आहुस् तन्-मतेऽपि जीवस्य तदा न मुक्तिः, किन्तु संसार एवेति स-दृष्टान्तम् आह—अर्थे लिङ्ग-शरीरे विषय-ध्यानाद् अनिवृत् तस्य पुंसः स्वप्ने विषयाभावेऽपि विषय-ग्रहण-रूपस्यानर्थस्य यथा आगमनं, तथैव सुषुप्तौ लिङ्ग-लयेऽपि अविद्या-तत्-संस्काराणाम् अनपगमात् न मुक्तिः, किन्तु संसार एवेत्य् अर्थः ॥७३॥
॥ ४.२९.७४ ॥
एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् ।
एष चेतनया युक्तो जीव इत्य् अभिधीयते ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
प्राणेन्द्रियान्तः-करण-भेदेन त्रिविधं मतम् । > पञ्च पञ्चैव ते सर्वे प्राणा बुद्धीन्द्रियाणि च ॥ > कर्मेन्द्रियाणि च तथा तस्मात् पञ्च-विधं स्मृतम् । > लिङ्गं षोडशकं प्राहुर् मनसा सह तत् पुनः ॥ इति ब्राह्मे > ॥७४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यावल् लिङ्गं स्थूल-देहाविच्छेदात् संसारानिवृत्तिर् इत्य् एतत् प्रपञ्चयति—एवम् इति सार्धैस् त्रिभिः । पञ्च-विधं पञ्च-तन्-मात्रात्मकम् । त्रि-वृत् त्रि-गुणम् । षोडश-विकारात्मना विस्तृतम् ॥७४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिङ्गशरीरम् एव किं तत्राह—एवम् इति । पञ्च प्राणा विधा विदधतश् चेष्टां कुर्वन्तो यत्र तद् इति वा । त्रिगुणं त्रिगुणकार्यं त्रिभिर्वर्त्तत इति त्रिवृत् एकादशेन्द्रिय-पञ्च-तन्मात्रैः षोडश-विकारात्मना चेतनया बुद्ध्या चिदाभासेन वा प्रतिपज् ज्ञप्ति-चेतनाः इत्य् अमरः । यद्वा—प्राणेन्द्रियान्तःकरण-भेदेन त्रिवृत् त्रिविधं—
प्राणेन्द्रियान्तःकरण-भेदेन त्रिविधं मतम् । > पञ्च पञ्चैव ते सर्वे प्राणा बुद्धीन्द्रियाणि वा ॥ > कर्मेन्द्रियाणि च तथा तस्मात् पञ्च-विधं स्मृतम् । > लिङ्गं षोडशकं प्राहुर् बुद्ध्या च मनसा सह ॥
इति टीकान्तरोक्तेः । जीवः जीवोपाधिः ॥७४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चेतनया जीवाख्य-चिच्-छक्ति-विशेषेण जीवो व्यावहारिकः ॥७४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लिङ्ग-शरीरम् एव किम् ? तत्राह—एवम् इति । पञ्च-विधं पञ्च-प्राणा विधा विदधतश् चेष्टां कुर्वन्तो यत्र तत् । त्रिवृत् त्रि-गुणं षोडश-विकारात्मनो विस्तृतं जीवो लिङ्ग-देहः ॥७४॥
॥ ४.२९.७५ ॥
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।
हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनेन लिङ्ग-देहेन पुरुषो जीवः देहान् स्थूलान् ॥७५॥
न कतमेनापि व्याख्यातम्।
॥ ४.२९.७६-७७ ॥8
यथा तृण-जलूकेयं नापयात्य् अपयाति च ।
न त्यजेन् म्रियमाणोऽपि प्राग्-देहाभिमतिं जनः ॥
यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् ।
मन एव मनुष्येन्द्र भूतानां भव-भावनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यं देहम् । कर्मणां प्राग् देहारम्भकाणां व्यवधानेन विच्छेदेन समाप्त्या । प्रकरणार्थम् उपसंहरति—मन एवेति । भव-भावनं संसार-हेतुः ॥७६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते नन्विति—अदेहता मुक्तिः । तृणजलौका कीटविशेषः । क्वचिज्जलूकेति पाठः । कर्मणामुत्तरदेहारंभकाणां विशेषतो धारणेन यद्वा—कर्मणां प्राचीनानां सत्त्वेन भगवत्प्रसादमन्तरेण विनाशानुपपत्तेः सर्वदेहवियोगासंभवे मुक्त्य्-अभाव इति भावः ॥ मनुष्येंद्रेति । मनुष्यस्यापि देहान्तरापेक्षयाधिकज्ञानवत्त्वेनैतद्विचारे सामर्थ्यं भवति तव तु मनुष्येन्द्रत्वात्कथं न भवेद् इति भावः ॥७६-७७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेति सार्धकम् । नन्व् एकं देहं विसृज्य देहान्तर-प्रवेशात् पूर्वं विदेहता स्याद् एवेत्य् अत आह—यथेति । नापयाति पूर्व-तृणस्यात्यागात् । अपयाति च तृणान्तर-धारणात् । तथा प्राग् देहाभिमतिं न त्यजेन् म्रियमाणोऽपि ॥७६॥ मन इत्य् अर्धकम् ॥७७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-त्याग-देहान्तर-प्रवेशयोर् मध्य-क्षणेऽप्य् अभिमानाविच्छेदम् आह—यथेति । नापयाति पूर्व-तृणस्यात्यागात् अपयाति च तृणान्तर-धारणात्, कर्मणाम् उत्तर-देहारम्भकाणां, व्यवधानेन विशेषतो धारणेन । प्रकरणम् उपसंहरति—मन एवेति । भव-भावनं संसार-हेतुः ॥७६-७७॥
॥ ४.२९.७८ ॥
यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुतेऽसकृत् ।
सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं सति ? तद् आह—यदेति । चरितान् उपभुक्तान् । यतः कर्मणि सति । नन्व् असङ्गस्य कुतः कर्म ? तत्राह । अविद्यायां सत्याम् अनात्मनो देहादेः कर्मणि बन्धो भवति ॥७८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथं सति केन प्रकारेण मनसि सति कीदृशे मनसि सति संसारो भवतीत्य् अर्थः । तद्वन्धहेतुत्वम् अक्षैरिन्द्रियैः । असकृदभीक्ष्णम् । आचिनुते करोति । यतो हेतोः कर्मण्येकस्मिन्नपि बीज-रूपे स्थिते सति । अत्राक्षिपति—नन्व् इति । अविद्यायां विषयेच्छारूपायां कर्मणि बन्ध आसक्तिर्भवति यया संमोहितो जीवः इत्याद्युक्तेः ॥७८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केन प्रकारेणेत्य् अत आह—यदेति । चरितान् उपभुक्तान् पदार्थान् यतः कर्मणि एकस्मिन्न् अपि बीज-रूपे स्थिते सति अविद्यायां सत्याम् अनात्मनो देहादेः कर्मणि बन्धो भवति ॥७८॥
॥ ४.२९.७९ ॥9
अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् ।
पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्व-स्थित्य्-आदयो यतो हरेर् भवन्ति ॥७९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽविद्यासंबन्ध एव बन्धहेतुस्ततो हेतोः । तदपवादार्थमविद्यानिवृत्तये । सर्वात्मना सर्वभावेन अनर्थोपशमं साक्षाद्यतो भक्तिरधोक्षजे इत्य् उक्तेः । तदात्मकं तद्रूपं भयं द्वितीयाभिनिवेशतः स्यात् इत्य् उक्तेः ॥७९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अविद्यायां सत्याम् इति यया सम्मोहितो जीवः [भा।पु।१.७.१०] इति न्यायेन सङ्गमनीयम् । अतस् तद्-अपवादार्थम् इत्य् अत्र भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य [भा।पु। ११.२.५५] इत्य्-आदिकम् उपजीव्यम् ॥७९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२९.८० ॥
मैत्रेय उवाच—
भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् ।
प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततोऽगमत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंसयोर् जीवेश्वरयोः ॥८०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गतिं सच्चिदानन्दलक्षणाम् । अमुं प्राचीनबर्हिषम्, सिद्धलोकं ब्रह्मलोकम् । तत उपदेशानन्तरम् । वर्णाधिक्यमाद्यपादे छान्दसम् ॥८०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.२९.८१ ॥
प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे ।
आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रान् आदिश्येति पुत्राणाम् आदेशं मन्त्रिणाम् अग्रे कथयित्वा । (कपिलाश्रमं गङ्गा-सागर-सङ्गमम्) ॥८१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजासर्गश् च सन्तत्युत्पादनमभिरक्षणं प्रजापालनं चेति द्वन्द्वैक्यम् । यद्वा—प्रजाया ब्राह्मणादिरुपायाः सर्गस्य स्वभावस्य शमदमादेरभिरक्षणे स्थापने तत्परिपन्थिनिरासेनेति शेषः ॥८१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रान् आदिश्येति पुत्राणाम् आदेशं मन्त्रिणाम् अग्रे कथयित्वा पुत्राणां तदा तत्रानागमनात् ॥८१॥
॥ ४.२९.८२ ॥
तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् ।
विमुक्त-सङ्गोऽनुभजन् भक्त्या तत्-साम्यताम् अगात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कपिलाश्रमे । तत्साम्यतां तत्पार्षदत्वम् ॥८२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्-साम्यतां पार्षदत्वम् ॥८२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-साम्यतां तत्-सारूप्यम् ॥८२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साम्यतां साम्यं सारूप्यम् ॥८२॥
॥ ४.२९.८३ ॥
एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ ।
यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् उपाख्यानम् । अध्यात्मस्य जीवस्य । पारोक्ष्यं परोक्षतया वर्णनं पुरंजनराज-रूपतया कथनम् । अनघेति तव त्वविद्यालक्षणो\ऽघो नास्त्यप्यन्येषां तन्निवर्तकस्त्वम् इत्य् आह—लिङ्गेन । लिङ्गयति प्रकाशयति संसारम् इति लिङ्गमज्ञानं तेन त्यज्यते जीवन्मुक्तो भवतीति भावः ॥८३॥
न कतमेनापि व्याख्यातम्।
॥ ४.२९.८४ ॥
एतन् मुकुन्द-यशसा भुवनं पुनानं
देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् ।
यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं
नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-शौचं मनः-शोधकम् । पारमेष्ठ्यं सर्वोत्कृष्ट-फल-दम् ॥८४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुकुन्दयशसा कर्मादिभ्यो भक्त्युत्कर्षवर्णनेन तस्मिन्महन्मुखरिता मधुभिच्चरित्रम् इत्य्-आदिना व्यंजितेन वा । पारमेष्ठ्यं परमेष्ठिकर्म परमेष्ठिनाप्येतन्नित्यं कीर्त्यत इत्य् अर्थः । यद्वा—परमेष्ठिनः सर्वोत्कृष्टलोकवासिनो हरेर्ज्ञप्तौ साधनं पारमेष्ठ्यमधिगच्छति गुरोः सकाशाज्जानाति यस्मिञ्जन्मनि जानाति अस्मिन्न् इत्य् अर्थः । तथा च संसारभ्रम एवानेन निवार्यते न बन्ध इति मन्दाशङ्कां वारयति मुक्तेति । अस्मिन्प्रसिद्धे संसारे वा ॥८४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुकुन्द-यशसा । तस्मिन् महन्-मुखरिता इत्य् आदिना लक्षणेन तद्-यशो-महिम्ना ॥८४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् उपाख्यानं मुकुन्द-यशसा कर्मादिभ्यो भक्त्य्-उत्कर्ष-रूपेण, तस्मिन् महन्-मुखरिता मधुभिच्-चरित्रेत्य्-आदिना व्यञ्जितेन वा । पारमेष्ठ्यं परमेष्ठिनः कर्म, परमेष्ठिनाप्य् एतन् नित्यं कीर्त्यत इत्य् अर्थः । तत्-कृतं वा ॥८४॥
॥ ४.२९.८५ ॥
अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् ।
एवं स्त्रियाश्रमः पुंसश् छिन्नोऽमुत्र च सम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्री बुद्धिस् तत् सहितस्याश्रमोऽहङ्कारश् छिन्नो भवति । अमुत्र कर्म-फल-भोगः कथम् इति संशयश् छिन्नः ॥८५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच्च शिष्टशिरोमणिना मैत्रेयेणाप्यधिगतत्वादन्यैरवश्यमधिगन्तव्यम् इति भावनाह मया मैत्रेयेण । गहनादद्भुतमिदं नारदेन प्राचीनबर्हिष उपदिष्टमध्यात्मपारोक्ष्यमधिकाद् गुरुमुखादधीतम् एव तुभ्यमुपदिष्टमतस्त्वयाप्यतिश्रद्वयाधीत्याभ्यसनीयम् इति शेषः । किं च अस्य फलमप्यद्भुतम् एवेत्याह—एवम् इति । एवमुक्तरीत्या पुंसः स्त्रिया बुद्ध्या सह वर्तमानस्य य आसमन्ताच्छमयति तापयति स्वसंबन्धिनमित्याश्रमोहङ्कारः ।
अहङ्कारो भवेत्पुंसो निखिलानर्थकारणम् । > बुद्धिसङ्गादीशसङ्गिसङ्गात्स च निवर्तते ॥
इत्य्-आदिपुराणोक्तेः । पक्षे गार्हस्थ्यलक्षणः । किञ्चाधिगन्तुः पुंसः पारलौकिकसंशयो\ऽप्य् अनेन निवर्तत इति भावः ॥८५॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे एकोनत्रिंशो\ऽध्यायः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्त्रियाश्रय इति छान्दस इत्य् अङ्-आदेशः ॥८५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्री-बुद्धिस् तत्-सहितस्याश्रयोऽहङ्कारः । पक्षे गार्हस्थ्य-लक्षणः, अमुत्र कर्म-फल-भोगः कथम् इति संशयश् च छिन्नः ॥८५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे एकोनत्रिंशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
प्राचीनबर्हिर्-नारद-संवादो नाम
ऊनत्रिंशोऽध्यायः ।
॥ ४.२९ ॥
(४.३०)
-
च्फ़्। ४.२५.५५। ↩︎
-
संवत्सर-वयो-गतिः इति श्रीधर-धृत-पाठान्तरम्। संवत्सर-रयो गतिः इति विश्वनाथः। ↩︎
-
परिमृग्या परिसृत्या वेति क्वचित्। ↩︎
-
परिमृग्येति पाठान्तरम् । ↩︎
-
शैव-दर्शन-कारिका स्पन्द-दीपिका-व्याख्या च । ↩︎
-
अत्र द्वौ श्लोकौ मध्व-संस्करणे दृष्टौ, यथा—
सर्वेषाम् एव जन्तूनां सततं देह-पोषणे ।
अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् ॥
लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् ।
आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते ॥ ↩︎
-
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ ↩︎
-
मध्व-संस्करणे एतच्-छ्लोकस्य पूर्वे एतौ द्वौ श्लोकौ दृश्येते—
भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि ।
यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः ॥
अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा ।
भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः ॥
अत्र मध्व-भाष्यं, यथा—
देहादिव्यतिरेकेन चिद्-रूपोऽहम् इति स्फुटम् ।
सदैवानुभवो भक्तिर् विष्णौ तद्-दर्शनाद् अनु ।
यस्यासौ मुच्यते क्षिप्रं संसारान् नात्र संशयः ॥ इति हरि-वंशेषु ॥
संसार-स्थम् इदं सर्वम् अनित्यत्वाद् वृथा यतः ।
अतः प्राहुः स्वप्न-समं प्राज्ञा जगद् इदं नृप ॥ इति विष्णु-संहितायाम् ।
सुषुप्ति-स्वप्नयोश् चैव स्वर्ग-व्योम्नोस् तथैव च ।
अन्योऽन्य-नामतो ज्ञेया मनो-बुद्ध्योस् तथैव च ॥ इति शब्द-निर्णये ॥
अतो भूतं भविष्यच् च स्वप्न इत्य् अर्थः । रहो ब्रह्म तथा यज्ञः स्वः सत्यम् इति गीयते इति च ॥ ↩︎
- ↩︎