अथ अष्टाविंशोऽध्यायः
विषयः
पुर-ध्वंसे पुरञ्जनस्य शोकः, भयादि-कृत-यातनानुभवः, जन्मान्तरे स्त्री-भावापत्तिः, अविज्ञात-नाम्नः सख्युर् उपदेशान् मुक्तिश् च ।
॥ ४.२८.१ ॥
नारद उवाच—
सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः ।
प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टाविंशे तु वैदर्भ्याख्यानेन स्त्री-विचिन्तया ।
स्त्रीत्वं प्राप्तस्य दैवेन कदाचिन् मुक्तिर् उच्यते ॥
इदानीं तु पुरञ्जनस्य पुं-देह-त्याग-पूर्वकं स्त्रीत्व-प्रकारम् आह—सैनिका इत्य्-आदि, राज-सिंहस्य वेश्मनि [भा।पु। ४.२८.२८] इत्य् अन्तेन । दिष्टं दैवं कुर्वन्त्य् अधिकुर्वन्तीति तथा । मृत्योर् आदेश-कारिण इति वा ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दैवं दुरदृष्टफलं दिष्टशब्देन दुर्दैवग्रहणे सुदैवत्यागे च कारणाभावमालक्ष्याह—मृत्योरित्य्-आदि वेति । सैनिका व्याधयः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्यक्त्वा शीर्णां पुरीं स्त्रीत्वं प्राप्तः सत्सङ्गतो हरेः ।
भक्त्या पुरञ्जनो प्राप तम् अष्टाविंशके स्फुटम् ॥ओ॥
इदानीं जीवस्य स्थूल-शरीर-परित्याग-प्रकारम् आह—सैनिक इत्य् आदि पुरीं विहायोपगत इत्य् अन्तेन । सैनिका व्याधयः । दिष्ट-कारिणः दूर-दृष्ट-फलोत्पादकाः ॥१ ॥
॥ ४.२८.२ ॥
त एकदा1 तु रभसा पुरञ्जन-पुरीं नृप ।
रुरुधुर्2 भौम-भोगाढ्यां जरत्-पन्नग-पालिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जरत्-पन्नगेन जीर्ण-प्राणेन3 पालिताम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकदा प्रारब्धकर्मक्षये भौमभोगा अशनपानव सनलक्षणास्तैराढ्यां जरत्पन्नगेन शतवर्षस्थायिना ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जरत्-पन्नगेन जीर्ण-प्राणेन पालिताम् ॥२॥
॥ ४.२८.३ ॥
काल-कन्यापि4 बुभुजे पुरञ्जन-पुरं बलात् ।
ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निः सारतां नैर्बल्यम् । यया कालकन्यया ॥३॥
न कतमेन व्याख्यातम्।
॥ ४.२८.४ ॥
तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् ।
द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वार्भिश् चक्षुरादिभिः रोग-रूपेण प्रविश्य ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यवना व्याधयः । प्रार्दयन्न् इति जराग्रत्तस्याक्षिमान्द्यादयो दृश्यन्त एव ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वार्भिश् चक्षुरादिभिः ॥४॥
॥ ४.२८.५ ॥
तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः ।
अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः5 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिमानीति । ममेयमित्य् अभिमानवान् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिमानीति पूर्याम् अभिमान-वशाद् एव ॥५॥
॥ ४.२८.६-८ ॥
कन्योपगूढो नष्ट-श्रीः कृपणो विषयात्मकः ।
नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर्6 बलात् ॥
विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् ।
पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम् ॥
आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् ।
दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कन्यया जरयोपगूढः संस् तत् प्रतिक्रियां न लेभे इति तृतीयेनान्वयः । हृतैश्वर्य उत्थानादिष्व् अशक्तः । प्रतिकूलान् अनपेक्षित-विषय-प्रापणान् अनादृतान् आदरम् अकुर्वाणान्, स्वाधीनत्वाभावात् । अनुगा इन्द्रियाणि । अमात्या इन्द्रिय-देवाः । गत-सौहृदाम् अध्यवसायाभावात्7 । कन्यया जरया ग्रस्तम् । पञ्चालान् विषयान् । अरिभिर् व्याध्यादिभिर् दूषितान् ॥६-८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कन्येति त्रिकम् ॥ विशीर्णां विशीर्यमाणाम् । प्रतिकूलान् शोकादीन् आदरमकुर्वतः सर्वथा निगिलितुमुपक्रान्तान् इत्य् अर्थः । पुत्रान्विवेकादीन् । पौत्रान् धैर्यगांभीर्यादीन् । चकाराद्गतसौहृदानस्वस्वकृत्यं सम्यगकुर्वाणान् ॥: तत्प्रतिक्रियां तेषां तेषां प्रतिक्रियां मन्त्रौषधादिकृत्यैर् अपि न लेभे ॥६-८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कन्येति त्रिकम् ॥६-८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशीर्णां विशीर्यमानां प्रतिकूलान् शोकादीन् अनादृतान् आदरम् अकुर्वाणान् सर्वथा निर्गिलितुम् उपक्रान्तान् इत्य् अर्थः । पुत्रान् विवेकादीन् पौत्रान् धैर्य-गाम्भीर्यादीन् अनुगान् इन्द्रियाणि अमात्यान् अमात्यान् मन-आद्य्-अधिष्ठातृ-देवांश् चन्द्रादीन्, च-कारात् गत-सौहृदान् स्व-स्व-कृत्यादि सम्यग् अकुर्वाणान् जायां बुद्धिं च गत-सौहृदाम् अध्यवसाय-रहिताम् । कन्यया जरया । पञ्चालान् शब्दादीन् । अरिभी रोगादिभिः । तेषां तेषां प्रतिक्रियां मन्त्रौषधादिभिर् अपि कृतैर् न लेभे ॥६-८॥
॥ ४.२८.९-१० ॥
कामान् अभिलषन् दीनो यात-यामांश् च कन्यया ।
विगतात्म-गति8-स्नेहः9 पुत्र-दारांश् च लालयन् ॥
गन्धर्व-यवनाक्रान्तां10 काल-कन्योपमर्दिताम् ।
हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-कन्यया हेतु-भूतया । यात-यामान् निःसारान् अपि कामान् अभिलषन् । विगता आत्मनो गतिः पारलौकिकी ऐहिकः पुत्रादि-स्नेहश् च यस्य सः । गतिः स्नेहाद् इति वा पाठः । स राजा पुरञ्जनो हातुं प्रचक्रमे उपक्रान्तवान् इति द्वयोर् अन्वयः ॥ अनिकामतोऽनिच्छयापि ॥९-१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामान् मिष्टभोजनादीन् । यातयामान् क्षुन्मान्द्यादिहेतोरित्य् अर्थः । स्नेहाद् इति भिन्नपदपाठः शोभनः प्रतिभाति । स्नेहान्तसमासस्य सापेक्षत्वात् ॥९-१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कामान् इति युग्मकम् । गतीत्य् अत्र सुखीति चित्सुखः । अनिकामत इत्य् अस्य अनिच्छयापीति चित्सुख-व्याख्या च ॥९-१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामान् मिष्ट-भोजनादीन् । यात-यामान् अपि क्षुण्-मान्द्यादि-हेतोर् इत्य् अर्थः । विगता आत्मनो गतिः पारलौकिकी, ऐहिकः पुत्रादि-स्नेहश् च यस्य सः । स्नेहाद् इति च पाठः ॥ अनिकामतोऽनिच्छयापि ॥९-१०॥
॥ ४.२८.११ ॥
भय-नाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।
ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रज्वारो विष्णुज्वरः । भ्रातुर्भयनाम्नः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रज्वारो विष्णु-ज्वरः ॥११॥
॥ ४.२८.१२ ॥
तस्यां सन्दह्यमानायां स-पौरः स-परिच्छदः ।
कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-परिच्छदो भृत्य-वर्ग-सहितः । कुटुम्बेन दीव्यतीति कौटुम्बिकः । कुटुम्बिन्या । सन्धिर् नात्र विवक्षितः । सान्वयः पुत्रादि-सहितः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पौरः । सप्तधातुसहितः सपरिच्छदः सर्वेन्द्रियभृत्यवर्गसहितः । नात्र विवक्षितो विवक्षितः सन्धिर्भवतीति नियमात् । आर्षो वा सन्ध्य्-अभावः । कुटुम्बिन्या बुद्ध्या ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-पौरः सप्त-धातु-सहितः । स-परिच्छदः सर्वेन्द्रिय-भृत्य-वर्ग-सहितः । कुटुम्बेन दीव्यतीति कौटुम्बिकः । कुटुम्बिन्या सौभाग्या सह । सन्ध्य्-अभाव आर्षः । सान्वयः पुत्र-पौत्रादि-युक्तः ॥१२॥
॥ ४.२८.१३ ॥
यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया ।
पुर्यां प्रज्वार-संसृष्टः पुर-पालोऽन्वतप्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यवनैर् उपरुद्धान्य् आयतनानि यस्य स पुर-पालः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यवनैर्व्याधिभिः । रुद्धमायतनं नाडीसंचारनिरोधात् । अनुतापो जीवक्लेशदर्शनात् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुर-पालः प्रजागरः प्राणः ॥१३॥
॥ ४.२८.१४ ॥
न शेके सोऽ11वितुं तत्र12 पुरु-कृच्छ्रोरु-वेपथुः ।
गन्तुम् ऐच्छत् ततो वृक्ष-कोटराद् इव सानलात्13 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरु बहु कृच्छ्रं, तेन उरुर् वेपथुर् यस्य । वृक्ष-कोटराद् इव सर्पः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स पुर-पालः अवितुं रक्षितुं वृक्ष-कोटराद् इव सर्पः ॥१४॥
॥ ४.२८.१५ ॥14
शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः ।
यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कण्ठे उपरुद्धो रुरोद घुर-घुर-ध्वनिं चकार ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुरोद आसन्न-मृत्योर् घुर-घुर-ध्वनिं चकार ॥१५॥
॥ ४.२८.१६-१७ ॥
दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् ।
स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम् ॥
अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुहित्रादीन् दध्याव् इत्य् उत्तरेणान्वयः । जामयोऽत्र स्नुषाः । स्वत्व-मात्रेणावशिष्टम् । भोगस् तु प्राग् एव क्षीणः ॥१६-१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पुरपालः । अवितुं रक्षितुम् । सानलाद्वह्निव्याप्तात् । कोटरं छिद्रम् ॥ प्रमदया स्त्रिया सहति । जीवस्य स्थूलशरीरभङ्गे बुद्ध्या विच्छेदाभावात् । प्रमदेयं च पुरंजनी किन्तु संसारिणो जीवस्य सर्वेन्द्रियैर्भोग्या ममतास्पदीकृता व्यावहारिक्येव भार्या व्याख्येया । दुहित्रादयो\ऽप्य् अत्र तत्सम्बन्धिन्यो न त्वध्यात्मपक्षीया व्याख्येयाः । मरणकाले जीवस्य स्त्रीपुत्रादीनाम् एव स्मरणं सम्भवति न तु बुद्धिविवेकादीनाम् इति केचिदाहुः । अन्ये तु—धर्मवती बुद्धिरे व पुरंजनीत्वेन पूर्वं प्रस्तुतेत्यतो मृत्युसमये धर्मबुद्ध्या विच्छेदो बुध्यन्तरेण संयोगः न मय्यनाशिते भुंक्ते इत्य्-आदिकन्तु सद्बुद्धिविच्छेदात्पूर्वम् एव यदुक्तं तद् एवाग्रे वक्ष्यते । तच् च ममाधुनापि धर्माचरणे तृप्तिर्न जाता किं करोमि मरणमुपस्थितमित्येतस्यैवार्थस्योत्प्रेक्षया विवरणं
ज्ञेयमित्याचक्षते ॥१४-१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दुहितॄर् इति युग्मकम् । अहं-ममेति स्वीकृत्येति क्वचित् ॥१६-१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जामयोऽत्र स्नुषाः । प्रमदया स्त्रिया सह विप्रयोगे उपस्थित इति जीवस्य स्थूल-शरीर-भङ्गे सौभाग्या विच्छेदाभावात् प्रमदेयं न पुरञ्जनी, किन्तु संसारिणो जीवस्य सर्वेन्द्रियैर् भोग्या ममतास्पदीभूता व्यवहारिक्य् एव भार्या व्याख्येया, दुहित्र्-आदयोऽप्य् अत्र तत्-सम्बन्धिन्यो न त्व् अध्यात्म-पक्षीया व्याख्येयाः । मरण-काले च जीवस्य स्त्री-पुत्रादीनाम् एव स्मरणं सम्भवति, न तु बुद्धिर् विवेकादीनाम् इति केचिद् आहुः । अन्ये तु धर्मवती बुद्धिर् एव पुरञ्जनीत्वेन पूर्वं प्रस्तुतेत्य् अतो मृत्यु-समये धर्म-सौभाग्या विच्छेदो सौभाग्य्-अन्तरेण संयोगः । न मय्य् अनाशिते भुङ्क्ते इत्य्-आदिकं तु सद्-बुद्धि-विच्छेदात् पूर्वम् एव यद् उक्तं, तद् एवाग्रे वक्ष्यते । तच् च ममाधुनापि धर्माचरणे तृप्तिर् न जाता, किं करोमि ? मरणम् उपस्थितम् इत्य् एतस्यैवार्थस्योत्प्रेक्षया विवरणं ज्ञेयम् इत्य् आचक्ष्यते ॥१६-१७॥
॥ ४.२८.१८ ॥
लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्यानम् एवाह—लोकान्तरम् इति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रमदया स्त्रिया सहति । जीवस्य स्थूलशरीरभङ्गे बुद्ध्या विच्छेदाभावात् । प्रमदेयं च पुरंजनी किन्तु संसारिणो जीवस्य सर्वेन्द्रियैर्भोग्या ममतास्पदीकृता व्यावहारिक्येव भार्या व्याख्येया । दुहित्रादयो\ऽप्य् अत्र तत्सम्बन्धिन्यो न त्वध्यात्मपक्षीया व्याख्येयाः । मरणकाले जीवस्य स्त्रीपुत्रादीनाम् एव स्मरणं सम्भवति न तु बुद्धिविवेकादीनाम् इति केचिदाहुः । अन्ये तु—धर्मवती बुद्धिरे व पुरंजनीत्वेन पूर्वं प्रस्तुतेत्यतो मृत्युसमये धर्मबुद्ध्या विच्छेदो बुध्यन्तरेण संयोगः न मय्यनाशिते भुंक्ते इत्य्-आदिकन्तु सद्बुद्धिविच्छेदात्पूर्वम् एव यदुक्तं तद् एवाग्रे वक्ष्यते । तच् च ममाधुनापि धर्माचरणे तृप्तिर्न जाता किं करोमि मरणमुपस्थितमित्येतस्यैवार्थस्योत्प्रेक्षया विवरणं
ज्ञेयमित्याचक्षते ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२८.१९ ॥
न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा ।
मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनाशितेऽभोजिते । भर्त्सिते भर्त्सने कृते यत-वाग् भवति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्परा मदेकनिष्ठा । रुष्टे कुपिते । सुसन्त्रस्तात्युद्विग्नचित्ता भवति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनाशितेऽभोजिते । भर्त्सिते भर्त्सनं कृतवति ॥१९॥
॥ ४.२८.२० ॥
प्रबोधयति माविज्ञं15 व्युषिते शोक-कर्शिता ।
वर्त्मैतद् गृहमेधीयं वीरसूर् अपि नेष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविज्ञम् अविवेकिनं माम् । व्युषिते देशान्तरं गते । गृहमेधीयं वर्त्म गृह-धर्मम् । अपि किं नेष्यत्य् अनुवर्तयिष्यति ? युक्तम् एतत् । यतो वीर-सूः पुत्रवती । किं वा, मद्-विरहम् असहमाना मरिष्यत्य् एवेत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अत्यन्तस्नेहाधिकरणवियोगस्य दुःसहत्वाद् इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : माविज्ञम् इत्य् अत्र मां विज्ञम् इति चित्सुखः ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माम् अविज्ञम् । व्युषिते प्रवाषं गते सति । अपि किं नेष्यत्य् अनुवर्तयिष्यति ? युक्तम् एतत्, यतो वीर-सूः पुत्रवती । किं वा, मद्-विरहम् असहमाना मरिष्यत्य् एवेत्य् अर्थः ॥२०॥
॥ ४.२८.२१ ॥
कथं नु दारका दीना दारकीर् वापरायणाः16 ।
वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न विद्यते परम् अयनम् आश्रयो येषां तेऽपरायणाः पुत्राः कन्याश् च । यद् वा, पराश्रयाः कन्याः । भिन्ना नौर् येषाम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दारकीर्दारक्यः परायणाः वृद्धस्य ममातिस्नेहेन प्रतिक्षणम् एवैकनिष्ठाः कथं वर्तिष्यन्ते रुदित्वा रुदित्वैव मरिष्यन्तीत्य् अर्थः । स्वामिचरणोक्तयद्वेतिपक्षस्याप्ययम् एवार्थः । अन्याश्रयत्वे तासां शोकानधिकरणत्वात् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दारिकीर् दारिकाः कन्याः परायणाः वृद्धस्य ममातिस्नेहेन प्रतिक्षण-सेवैक-निष्ठाः कथं वर्तिष्यन्ते ? रुदित्वा रुदित्वैव मरिष्यन्तीत्य् अर्थः । भिन्ना विदीर्णा नौर् येषां त इव ॥२१॥
॥ ४.२८.२२ ॥
एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् ।
ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतद्-अर्हणं वस्तुतस् तस्य ब्रह्मत्वात् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृपणया बुद्ध्येति । अनीशया शोचति मुह्यमानः इति श्रुतेः । तस्य जीवस्य । अतदर्हणं शोकानर्हम् । यद्वा—अतदर्हणं धार्मिकत्वेन भयकर्तृकग्रहणायोग्यम् इत्य् अर्थः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतद्-अर्हणं तस्य चैतन्य-रूप्भागवत् शोकानौचित्यात् । यद् वा, धार्मिकत्वेन भय-कर्तृक-ग्रहणानर्हम् इत्य् अर्थः ॥२२॥
॥ ४.२८.२३ ॥
पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् ।
अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एष यदा क्षयं स्थानं नीयमाणः, तदा अनुपथाः प्राणा इन्द्रियाणि च । तथा च श्रुतिः—तम् उत्क्रामन्तं प्रणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति [बृ।आ।उ। ४.४.२] इति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष जीवः । यवनैर्यवनवन्निर्दयैः स्वकर्मभिर्यमदूतैर्वा स्वकं स्थानं देहान्तरं यमपुरं वा । अत्र प्रमाणम् आह—तथा चेति । तं जीवमनुक्रामन्तं देहं त्यजन्तमनु पश्चात्प्राणो\ऽपि देहं त्यजति तमनु सर्वाणीन्द्रियाणि देहं त्यजन्तीति श्रुतिपदार्थः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चैष पशुवन् नीयमाणोऽभूत् । यवनैर् यम-दूतैः तम् अनुप्राणाद्या अद्रवन् । अनुपथा अनुवर्तिनः । तथा च श्रुतिः—तम् उत्क्रामन्तं प्रणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति [बृ।आ।उ। ४.४.२] इति ॥२३॥
॥ ४.२८.२४ ॥
पुरीं विहायोपगत उपरुद्धो भुजङ्गमः ।
यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकृतिं महा-भूतात्मताम् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महाभूतात्मतां कार्यनाशेन कारणस्यैवावशेषाद् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यवनैर् उपरुद्धः प्रकृतिं महा-भूतात्मताम् ॥२४॥
॥ ४.२८.२५ ॥
विकृष्यमाणः प्रसभं यवनेन बलीयसा ।
नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाविन्दन् न सस्मार । पुरः पूर्वं सखायं सन्तम् ईश्वरम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमसाज्ञानेन व्याप्तः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसा अज्ञानेन नाविन्दत् सखायं पुरः सन्तम् ईश्वरम् ॥२५॥
॥ ४.२८.२६ ॥
तं यज्ञ-पशवोऽनेन संज्ञप्ता येऽदयालुना ।
कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवम् अस्य तत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदयालुना काम्य-कर्मसु ये संज्ञप्ता हताः । अमीवं पापं क्रौर्यं वा ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् पूर्व-कृतम् । अमीवं क्रौर्य-पापयोः इति निरुक्तिः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये संज्ञप्ताः काम्य-कर्मसु खड्गैश् छिन्नास् ते तं कुठारैः ॥२६॥
॥ ४.२८.२७-२८ ॥
अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः ।
शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः ॥
ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शाश्वतीः समा आर्तिम् अनुभूय ॥ अन्त-काले तां भार्याम् एव मनसा गृह्णन् स्मरन्न् अनन्तरं विदर्भस्य वेश्मनि प्रमदोत्तमा बभूव । अतः परम् अस्मिन् प्रकरणे एतावद् एव प्रकृतोपयोगि विवक्षितम् । स्त्री-ध्यानेन स्त्रीत्व-प्राप्ताव् अपि पतिव्रता-ध्यानेन पूर्वादृष्टेन च धार्मिकाद् विदर्भाज् जन्माभूत् । धार्मिक-सङ्गेन च विशुद्धस्य भागवतेन मलयध्वजेन सङ्गोऽभूत् । ततो विष्णु-भक्तिः, ततो वैराग्यं, ततस् तम् एव भर्तृ-रूपं गुरुं पातिव्रत्य-धर्मेण भजतो भगवत्-प्रसाद-लब्ध-ज्ञानेन मोक्ष इति । अन्यत् तु कथालङ्कार-मात्रम् । तथापि किञ्चिद् वृत्ति-सामान्येनेह योजयिष्यामः । विदर्भस्य विशिष्ट-दर्भोपलक्षितस्य कर्मठस्य राज-सिंहस्यधर्मेण हि प्रजा-पालनेन यज्ञादिना च क्षत्रिया राजन्ते, तेषु श्रेष्ठस्य वेश्मनि ॥२७-२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्त-पारे\ऽन्त-पार-शून्ये । तमसि दुःखे ईजे च बहुभिर् यज्ञैः इत्य् उक्तत्वाद् बहु-कालं स्वर्ग-सुखम् अप्य् अनुभूयेत्य् अपि ज्ञेयं, तस्येहानुक्तिस् तु प्राचीनबर्हिषो वैराग्यार्था स्त्री-स्मरणास्त्री बभूव । अध्यात्म-पक्षे दुःखातिशयः प्रयुक्त-मूर्च्छा-वशाद् एव मृत्यु-काले सद्-बुद्धि-त्यागः क्षणिक एवोक्तः । वस्तुतस् तु—स्वर्ग-भोगान्ते पुण्य-क्षयेण तादृश-धर्म-बुद्धि-विशिष्ट एव धार्मिक-गृहे जन्म लेभ इत्य् एतावद् एव विवक्षितं, स्त्रीत्व-पुंस्त्वादिकं त्व् अविवक्षितम् एव । तदृश्यते क्वचित्पुमान्क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः इत्य्-आदिना ॥ वृत्तिसामान्येन प्रकृतिप्रत्ययादिकल्पनासामान्येन कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः इति वैयाकरणाः । तां सद्बुद्धिलक्षणां पुरंजनीं मनसा गृह्णन्स्मरन् ।
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तन्तम् एवैति कौतेय सदा तद्भावभावितः ॥ इति श्रीगीतोक्तेः ॥२७-२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनन्तेति युग्मकम् । ताम् एवेति । अध्यात्म-पक्षे तादृश-धर्म-मय-बुद्धि-तादात्म्यातिशयं प्राप्त इत्य् अर्थः । धार्मिक-गृहे जन्म तथैवेति भावः ॥२७-२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्त-पारे अन्त-पार-शून्ये तमसि दुःखे । इजे च बहुभिर् यज्ञैर् इत्य् उक्तत्वात् बहु-कालं स्वर्ग-सुखम् अनुभूयेति ज्ञेयम् । तस्यानुक्तिः प्राचीनबर्हिषो वैराग्यार्था । स्त्री-सामान्याधिकरण्त् स्त्री बभूव ।
अध्यात्म-पक्षे—दुःखातिशय-प्रयुक्त-मूर्च्छा-वशाद् एव मृत्यु-काले सद्-बुद्धि-त्यागः क्षणिक एवोक्तः । वस्तुतस् तु स्वर्ग-भोगान्ते पुण्य-शेषेण तादृश-धर्म-बुद्धि-विशिष्ट एव धार्मिक-गृहे जन्म लेभे इत्य् एतावद् एव विवक्षितं स्त्रीत्व-पुंस्त्वादिकं त्व् अविवक्षितम् एव । यद् वक्ष्यते—
क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः ।
देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः ॥ [भा।पु। ४.२९.२९] इति ॥२८॥
॥ ४.२८.२९ ॥
उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः ।
युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मलयोपलक्षिते दक्षिण-देशे ध्वज इव दर्शनीयः । स हि श्री-विष्णु-भक्त-प्रधानो देशः । तत्र मुख्यो महा-भागवत इत्य् अर्थः । पण्डा निश्चय-बुद्धिस् ताम् अर्हतीति पाण्ड्यः स उपयेमे । पुरञ्जनो भागवत-सङ्गं प्राप्त इत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विश्वनाथस्तु—अथैवं जीवस्य यावद्भक्तिर्न भवेत् तावन्नैव संसारोद्धारः । सा च भक्तिर्यादृच्छिकी यादृच्छिकसाधुसङ्गाद्यादृच्छिक्यैव साधुकृपया भवतीति दर्शयंस्तज्जन्मनि तस्य साधुसङ्गो बभूवेत्याह—उपयेम इति । आदरणीयत्वेन मलयतुल्येषु साधुषु ध्वज इव श्रेष्ठ इति विश्वनाथः । इत्य् अर्थ इति । सर्वभागवतश्रेष्ठ इति भावः । इत्य् अर्थ इति । पूर्वसत्संस्कारवशादिहापि सत्सङ्गम् एव लब्धवानिति भावः । चक्रवर्ती—उपयेमे शिष्यत्वेन कृपया स्वीचकार । वीर्यपणाम् इति । कृपालक्षणः स्वप्रभाव एवात्र हेतुर्न त्वन्यः कश्चिद् इति मद्भक्तिं वा यदृच्छया इत्य् उक्तेः भवापवर्गौ भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युतसत्समागमः इति न्यायेन कस्मिंश्चिज्जन्मनि जीवस्याकस्माद् एव साधुसङ्गमो भवेद् इति विवक्षितम् । राजन्यान्विजित्य तदीयपापापराधकामकर्मादीन्निर्मूलीकृत्य पाण्ड्यः पण्डदेशोद्भवः । पक्षान्तरस्तु—स्वामिभिर्व्याख्यात एव । पक्षे परपुरंजयो मतान्तरोत्थसन्देहच्छेदी ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : युधि वादे राजन्यान् इत्य् अध्यात्म-पक्षे कर्म-काण्डानुगत-न्यायान् ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथैवं जीवस्य यावद् भक्तिर् न भवेत् तावन् नैव संसाराद् उद्धारः । सा च भक्तिर् यादृच्छिकी यादृच्छिक-साधु-सङ्गात् यादृच्छिक्यैव साधु-कृपया भवतीति दर्शयन् तज्-जन्मनि तस्य साधु-सङ्गो बभूवेत्य् आह—उपयेमे इति । आदरणीयत्वेन मलय-तुल्येषु साधुषु ध्वज इव श्रेष्ठः । उपयेमे कृपया शिष्यत्वेनाङ्गीचकार । वीर्य-पणाम् इति कृपा-लक्षणः स्व-प्रभाव एवात्र हेतुर् न त्व् अन्यः कश्चिद् इति । यद् उक्तं—मद्-भक्तिं च यदृच्छया [भा।पु। ११.२०.११] इति, भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत-सत्-समागमः [भा।पु। १०.५१.५३] इति न्यायेन कस्मिंश्चिज् जन्मनि जीवस्याकस्माद् एव साधु-सङ्गमो भवेद् इति विवक्षितम् । राजन्यान् विजित्य तदीय-पापापराध-काल-कर्मादीन् निर्मूलीकृत्य पाण्ड्यः पण्ड-देशोद्भवः । पक्षे सद्-असद्-विवेचना पण्डा, ताम् अर्हतीति पण्ड्यः । पण्ड्य एव पाण्ड्यः । पर-पुरञ्जयः शत्रु-पुर-जेता । पक्षे मतान्तरोत्थ-सन्देह-च्छेदी ॥२९॥
॥ ४.२८.३० ॥
तस्यां स जनयाञ्चक्र आत्मजाम् असितेक्षणाम् ।
यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-जां श्री-कृष्ण-सेवा-रुचिम् । तत् सङ्गेन भगवद्-धर्मे रुचिर् अभूद् इत्य् अर्थः । असितस्य श्री-कृष्णस्येक्षणं यया ताम् । यवीयसः सप्त सुतान् । श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं [भा।पु। ७.५.११] इति भक्ति-प्रकारान् । सख्यात्म-निवेदनयोस् त्वं-पदार्थ-ज्ञानोत्तर-कालत्वात् तस्य च भगवतैवोत्तरत्रोपदेक्ष्यमाणत्वाद् इदानीम् अनुत्पत्तेः सप्तेत्य् उक्तम् । भगवद्-धर्म-रुच्या तच् छ्रवण-कीर्तनादिकं जातम् इत्य् अर्थः । द्रविड-भूमि-पालकान् । द्रविड-भूमिर् हि श्रवणादि-भक्तिभिर् एव सुरक्षितास्तीति प्रसिद्धम् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । सतां प्रसङ्गान्मम वीर्यसंविदः इत्यारभ्य श्रद्धा रतिर् भक्तिरनुक्रमिष्यति इत्य् उक्तन्यायेनेति भावः । यवीयसस्तदुत्तरकालभवान् । इत्य् अर्थ इति । भगवद्-धर्मरुच्यैव तच्छ्रवणादौ प्रवृत्तिर्भवति नान्यथेति भावः । यद्वासितो नित्यमुक्तो हरिस्तस्येक्षणं ययेति ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मनां श्री-कृष्ण-श्रवणादि-भक्ति-रुचिम् । सप्तेति नव-विधेषु सख्यात्म-निवेदनयोः पराकाष्टा-प्राप्त्य्-अनन्तरम् एवाधिकारात् ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असितेक्षणा-नाम्नीं कन्यां, पक्षे असितस्य श्री-कृष्णस्य ईक्षणं यया तां श्री-कृष्ण-सेवा-रुचिम् इत्य् अर्थः । श्रीमद्-गुरु-कृपया जीवस्य तस्य श्री-कृष्ण-सेवा-रुचिर् अभूद् इत्य् अर्थः । यवीयसस् तद्-उत्तर-काल-भवान् सप्त श्रवण-स्मरण-कीर्तन-पाद-सेवार्चन-वन्दन-दास्य-रूपान् । सख्यात्म-निवेदनयोः प्रथमं दुष्करत्वाद् उत्तरत्र स्वत एव जनिष्यमानत्वाच् च नोल्लेखः । कीदृशान् ? द्रविड-भूमि-पालान् । पक्षे, द्रविड-देशे ज्ञान-कर्मादि-सर्व-विजेतृत्वाद् भूभृतो नृपान् इव विराजमानान्, द्रविड-देशस्य श्रवण-कीर्तनादि-भक्ति-प्रधानत्वात् ॥३०॥
॥ ४.२८.३१ ॥
एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् ।
भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्बुदम् इति । श्रवणादीनां प्रत्येकम् अनेके प्रकारा अभवन्न् इत्य् अर्थः । तद् उक्तम्—भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते [भा।पु। ३.२९.७] इति । येषां वंश-धरैर् यतः प्रवृत्तैः संप्रदाय-भेदैः कृत्स्ना मही मन्व्-अन्तरं ततः परं च भोक्ष्यतेऽविद्या-काम-कर्मभ्योऽपि रक्षिष्यते ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । श्रवणादीनां प्रत्येकं नामलीलादि-भेदैर्नामादीनां च प्रत्येकमवतारभेदैस्तेषाम् अपि दास्यसख्याद्यभिरुचितत्त्वभेदैरित्य् एवमसङ्ख्या एव प्रकारा इति भावः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् एकैकस्यार्बुदम् अर्बुदम् इति पुत्र-पौत्रादि-भेदान् । पक्षे, श्रवणादीनां प्रत्येकम् नाम-लीलादि-भेदैर् नामादीनां च प्रत्येकम् अवतार-भेदैस् तेषाम् अपि दास्य-सख्याद्य्-अभिरुचि-तत्त्व-भेदैर् इत्य् एवम् असङ्ख्या एव प्रकारा इत्य् अर्थः । यद् उक्तम्—भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते [भा।पु। ३.२९.७] इति । येषां वंश-धरैर् यतः प्रवृत्तैः संप्रदाय-भेदैः कृत्स्ना मही मन्वन्तरं, ततः परं च भोक्ष्यते अविद्या-काम-कर्मभ्योऽपि रक्षिष्यते ॥३१॥
॥ ४.२८.३२ ॥
अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् ।
यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अगस्त्योऽगानि निष्क्रियाणि गात्राणि स्त्यायति सङ्घातयतीत्य् अगस्त्यो मनः । स प्राक् प्रथम-जातां दुहितरं कृष्ण-सेवा-रुचिम् उपयेमे, तस्य मनः कृष्णे दृढां रतिं बबन्धेत्य् अर्थः । धृतानि शम-दमादीनि व्रतानि यया तां रतिम् । दृढेभ्यः सत्य-लोकादि-भोगेभ्योऽपि च्युतस् तद्-रहितः । कृष्ण-रताव् इहामुत्र भोग-विरागो जात इत्य् अर्थः । स एवोपशमात्मकत्वान् मुनिः । कथम्भूतः ? इध्मवाह आत्मजो यस्य सः ।
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् ।
समित्पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ [मु।उ। १.१.१२]
इत्य्-आदि-श्रुति-प्रसिद्धा समिद्-वहनोपलक्षिता गुरूपसत्तिर् वैराग्याद् अभूद् इत्य् अर्थः । न ह्य् अविरक्तस्य गुरूपसत्तिः सम्भवति । कथा-पक्षे यथा-श्रुतम् एव ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । महत्कृपया जीवस्य मनः कृष्णसेवासक्तं बभूवेति भावः । इत्य् अर्थ इति । वैराग्यं पदार्थानित्यदृष्ट्या जायते तच् च हरिभक्तानां हरिरतिं विना सर्वत्र स्वभावत एवास्ति तावद्भयं द्रविणदेहसुहृन्निमित्तं शोकः स्पृहा परिभवो विपुलश् च लोभः । यावन्न ते\ऽंघ्रिमभयं प्रवृणीत लोकः इत्याद्युक्तर् इति भावः । तस्यात्मनो विज्ञानार्थं स विरक्तः सन् । श्रोत्रियपदार्थमेकादशे निर्णेष्यामः परं ब्रह्म कृष्ण इत्य् अभिधीयते इति श्रुतेः । श्री-कृष्णानुरागिणम् इत्य् अर्थः । इत्य् अर्थ इति । विरक्तेनैव संसारसारासारबोधदार्ढ्या̍य गुरूपसदनं क्रियत इति भावः । यद्वा—दृढेभ्यो ज्ञानादिभ्यस्तत्साध्येभ्यो मोक्षादिभ्यश् च च्युतः मनसः कृष्णसेवारुच्येकतानत्वादन्यसाधनसाध्यस्पृहाराहित्यं जातम् इत्य् अर्थः । कथापक्षे\ऽगस्त्यस्य पुत्रो दृढच्युतस्तस्येध्मवाह इति मलयध्वजस्य कन्यावंशः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अगस्त्योऽपि तत्र-स्थोऽपि महा-भागवतस् तत्-तुल्योऽन्यो वा कश्चित् प्राक् प्रथमजां दुहितरं कृष्ण-सेवा-रतिम् उपयेमे स्वीकृतवान् । स्व-सम्मतत्वेन अनुमोदितवान् इत्य् अर्थः । धृतानि शम-दमादीनि व्रतानि यया तां रतिं यस्यां तत्-स्वीकृतायां दृढो विघ्न-सम्भावना-रहितोऽसौ च्योततीति च्युतः सर्वेन्द्रियासेचकश् च यः स भक्ति-योगो जातः, दृढत्वे हेतुः मुनिर् मनन-सिद्ध इत्य् अर्थः । ततश् च इध्म-वाहः शिष्यी-भूता वैष्णवा एव बहवः आत्मजाः सहाया यत्र तादृशोऽभूत् ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राग् दुहितरं प्रथम-जातां दुहितरम् अगस्त्य उपयेमे । पक्षे, अगानि स्वतो गत्य्-असमर्थानि इन्द्रियाणि स्त्यायति सङ्घातयतीति स्वेन मिलितीकरोतीत्य् अगस्त्यो मनः । स कृष्ण-सेवा-रुचिं स्वीचकार । धृतानि दया-क्षमादीनि व्रतानि यस्यां यतो वा महत्-कृपया जीवस्य मनः कृष्ण-सेवासक्तं बभूवेत्य् अर्थः । यस्याम् असितेक्षणायां दृढेभ्यः सत्य-लोकादिभ्योऽपि च्युतस् तद्-रहितः, इहामुत्र-भोगे विरागो जात इत्य् अर्थः । यद् वा, दृढेभ्यो ज्ञानादिभ्यस् तत्-साध्येभ्यो मोक्षादिभ्यश् च च्युतः । मनसः कृष्ण-सेवा-रुच्य्-एकतानत्वाद् अन्य-साधन-साध्य-स्पृहा-राहित्यं जातम् इत्य् अर्थः । कथम्भूतः ? इध्मवाह आत्मजो यस्य सः ।
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् ।
समित्पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ [मु।उ। १.१.१२]
इत्य्-आदि-श्रुति-प्रसिद्धा समिद्-वहनोपलक्षिता गुरूपसत्तिर् अभूद् इत्य् अर्थः । कथा-पक्षे, अगस्त्यस्य पुत्रो दृढच्युतः तस्य पुत्रो इध्मवाह इति मलयध्वजस्य कन्या-वंश उक्तः ॥३२॥
॥ ४.२८.३३ ॥
विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः ।
आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्ष्मां विभज्य तत्र श्रवणादि-भक्ति-भेदं व्यवस्थाप्य ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुलेन लोकसमूहेनाप्यचलं चालयितुमशक्यमेकान्तस्थलं वेङ्कटादिपर्वतं वा ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आरिराधयिषुः कृष्णम् इत्य् उपरिष्टाद् अस्य तपो-ज्ञानाभ्यासनम् अपि श्री-पृथुवद् एव व्याख्येयं, कुलाचलं मलयम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्ष्मां विभज्य तत्र तत्र श्रवणादि-भक्ति-भेदं प्रवर्तेत्य् अर्थः । कुलाचलम् एकान्त-स्थलं भक्ति-प्रदं व्येङ्कटादि-पर्वतं वा ॥३३॥
॥ ४.२८.३४ ॥
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं पुरञ्जनस्य स्त्री-भावं प्राप्तस्य सर्वतो विरक्तस्य पतिर् एव गुरुः स्त्रीणाम् इति वचनात् पति-सेवया गुरु-शुश्रूषा-प्रकारं दर्शयितुम् आह—हित्वेत्य् आदिना । मनो दध इत्य् अन्तेन ग्रन्थेन । मदयति मदिरम् ईक्षणं यस्याः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुतान् हित्वेति पतिव्रता पत्युरिव गुरोः सेवायां प्रहृष्टः शिष्यः श्रवणकीर्तनादीन्यपि भोगान् तदुत्थान्प्रेमानन्दानपि गृहान् तदुचितविविक्तस्थलम् अपि नैवापेक्षते श्रीगुरुसेवयैव सुखेन सर्वसाध्यसिध्यर्थमित्युद्देशो व्यंजितः । माद्यति यदुक्ताचरणेन सर्वत्र हृष्यतीति मत् इरा वाणी हृष्यन्त्यां वाण्यां वेदलक्षणायाम् एवेक्षणं यस्याः गुरुसेवाया वेदेन सर्वाधिक्येनोक्तत्वाद् इत्य् अर्थः ।
नाहमिज्याप्रजातिभ्यां तपसोपशमेन च ।
तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥
इति साक्षान्नारायण-रूपवेदोक्तेः, यद्वास्य पुराणस्योक्तिरपीयं वेदोक्तिरे व निगमकल्पतरोगलितं फलम् इत्य् उक्तेरस्य वेदफल-रूपत्वाद्यथाम्रवृक्षफलमाम्रं तथा वेदवृक्षफलम् अपि वेद एव पुराणं ब्रह्मसंमितम् इत्य् उक्तेर्वा तथेत्य् अर्थः । मदयतीति मदिरं भगवद्-रूपं तत्रेक्षणं यस्या इति सन्दर्भः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मदयतीति मदिरे श्री-भगवद्-रूपे ईक्षणं यस्याः । पाण्ड्येश-रूपे गुराव् ईश्वर-भावेनेत्य् अर्थः ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुतान् हित्वेति पतिव्रता पत्युर् इव गुरोः सेवायां प्रवृत्तः शिष्यः श्रवण-कीर्तनादीन्य् अपि भोगान् तद्-उत्थान् प्रेमानन्दान् अपि गृहान् तद्-उचित-विविक्त-स्थलम् अपि नैवापेक्षते । श्री-गुरु-सेवयैव सुखेन सर्व-साध्य-सिद्ध्य्-अर्थम् इत्य् उपदेश-व्यञ्जितः । माद्यति हृष्यतीति मदिरा वाणी हृष्यन्त्यां वाण्यां वेद-लक्षणायाम् एव ईक्षणं यस्याः । गुरु सेवाया एव वेदेन सर्वाधिक्यस्योक्तत्वाद् इत्य् अर्थः । मदयति मदिरं श्री-भगवद्-रूपं तत्रेक्षणं यस्याः इति सन्दर्भः । कथा-पक्षे तु, मदिरा ईक्षणयोर् यस्याः सा परम-तारुण्यम् अपीत्य् अर्थः ॥३४॥
॥ ४.२८.३५-३६ ॥
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन् ॥
कन्दाष्टिभिर् मूल-फलैः पुष्प-पर्णैस् तृणोदकैः ।
वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र चन्द्र-वसाद्या नद्यस् तासां पुण्यैः सलिलैर् उभयत्रान्तर् बहिश् चात्मनो मलं क्षालयंस् तप आस्थित इत्य् उत्तरेणान्वयः । अस्यते भूमौ क्षिप्यत इत्य् अष्टिर् बीजम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कुलाचलसमीपे । अध्यात्मपक्षे—तत्रैकान्तस्थले चन्द्रवंशा चन्द्राय ब्रह्मप्रकाशायोष्यते वाञ्छ्यत इति तथा वेदान्तस्मृतिः । वश-कान्तौ ताम्रं रक्तवर्णत्वेन समं रजो रक्तं तमः श्यामं सत्त्वं शुक्लमिहोच्यते इत्य् उक्तेः । रजोगुणं पर्णयत्याच्छादयतीति ताम्रपर्णी सात्त्विकी स्थितिः । पर्ण-आच्छादने । उद्गतमकं दुःखं येन तदुदकं सुखं वटयति वेष्टयति वटं तदुदकं यस्यां सा वटोदका सत्सङ्गतिः । सर्वसुखाच्छादकभगवज्जनसङ्ग इति यावत् । तुलयाम लवेनापि न स्वर्गम् इत्याद्युक्तेः । वट-वेष्टने चौरादिकः । तासां पुण्यानां पुण्यकर्त्रीणां सलिलैः प्राप्तिभिः सल-गतौ अत औणादिक इलच् । आत्मनः स्वस्य अन्तर्मार्जनं कपटादित्यागः बहिर्मार्जनं परापवादादित्यागः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रेति युग्मकम् । चन्द्रवटं नामेति चित्सुखः । कन्दादिभिर् इति चित्सुखः पुणारण्यौ ॥३५-३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयत्र अन्तर् बहिश् चात्मनो मलं क्षलयंस् तप आस्थितः । तस्य तपश् चरणं पृथुवद् अत्युत्कण्ठा-मूलकम् एव व्याख्येयम् ॥३५-३६॥
॥ ४.२८.३७ ॥
शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये ।
सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः ॥
[[+++]{।मर्क्}] मूलं जगदाधारं ब्रह्म फलन्ति निष्पादयन्तीति मूलफलानि तैः । कं सुखं ददातीति कन्दं मिताशनं तदादि येषां मितस्वापादीनां तानि कन्दानि योगसाधनानि नात्यश्नतस्तु योगो\ऽस्ति न चैकान्तमनश्नतः इति श्रीगीतोक्तेः । पुष्पवन्मृदुलैः पर्णैराच्छादनैः स्तीर्यन्त इति स्तृणान्यासनानि तानि चोदकानि सुसुखानि तैः स्थिरसुखासनैरित्य् अर्थः । वर्तमानः शरीरयात्रां कुर्वाणः । गं ज्ञानं न त्रातीति गात्रमज्ञानं तत्कर्शयत्यल्पीकरोतीति गात्रकर्शनं तपः । आलोचनं मननमनुतिष्ठन् शीतोष्णादीन्यजयत् । उपलक्षणत्वाच्छीतादेः कामादीनप्यजयद् इति ज्ञेयम्, उभयेषां शरीराधिकरणत्वात् ॥३६-३७॥
न कतमेनापि व्याख्यातम्।
॥ ४.२८.३८ ॥
तपसा विद्यया पक्व-कषायो नियमैर् यमैः ।
युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्ययोपासनया पक्व-कषायो दग्ध-कामादि-वासनः । युयुजे आत्मनो ब्रह्मतां भावयामास । अक्षाणीन्द्रियाणि । अनिलः प्राणः । आशयश् चित्तम् । विजिता अक्षादयो येन ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मणि उत्तरश्लोकस्पष्टीभूतार्थे वासुदेवे आत्मानं मनः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानं शुद्ध-जीवम् । ब्रह्मणि सर्वाश्रये भगवति युयुजे । तद्-एकाश्रयत्वेन सस्मार । सूर्यैकाश्रयत्वे रश्मि-परमाणुम् इव ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मणि उत्तर-श्लोक-स्पष्टीभूतार्थे वासुदेवे आत्मानं मनः ॥३८॥
॥ ४.२८.३९ ॥
आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः ।
वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्ते स्म वर्ष-शतम् इति ज्ञानस्य दुःसाधनतां दर्शयति । अत एव हरौ भक्तिं दृतवान् इत्य् आह । वासुदेवे रतिम् उद्वहन्न् अन्यद् देहादिकं न वेद ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तादृशस्मरणभक्त्या भगवति रतिर् अव्यवच्छिन्ना जातेत्याह—आस्त इति । अत एव ज्ञानस्य दुःसाध्यत्वाद् एव ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा स्मरणेन च तस्मिन् रतिर् अव्यवच्छ्हिन्ना जातेत्याह । आस्त इति ।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृश-स्मरण-भक्त्या भगवति रतिर् अव्यवच्छिन्नो जातेत्य् आह—आस्त इति ॥३९ ॥
॥ ४.२८.४० ॥
स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि ।
विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह ॥
मध्वः- शारीरम् अभिप्रहत्यासुप्तः सुप्तान् अभिचाकशीति इति श्रुति-प्रसिद्धः । स्वप्न इवेति दृष्टान्तस् तत्त्वेनोच्यते—स्वप्नो हि जीवस्यास्वातन्त्र्यं प्रसिद्धम् । अतस् तत्र परमेश्वराधीनत्वं प्रसिद्धम् एव । अतो जीव-व्यतिरिक्त ईश्वरः सिद्धः ।
यतः स्वप्नो न स्वतन्त्रस् ततस् तद्-दर्शकः परः ।
जीवाद्य्-अन्यस् तु विज्ञेयः स विष्णुर् अवधार्यताम् ॥ इति वाराहे ॥४०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स एवं वर्तमान आत्मन्य् आत्मानं विद्वान् अन्यस्माद् उपरराम । कथं विद्वान् ? व्यतिरिक्ततया देहादि-व्यतिरिक्तत्वेन । कुतः ? व्यापकतया देहादि-प्रकाशकत्वेन । ननु देहाद्य्-आकारो विमर्श एतत् प्रकाशति नतु निराकार आत्माऽत आह । आमर्शस्यापि साक्षिणम् । अयं भावः, आमर्शो नामान्तः करण-वृत्तिः सा च जडत्वाद् आत्म-प्रकाश्यैवेति । यथा स्वप्ने ममेदं शिरश् छिन्नम् इत्य्-आदि-प्रतीतौ तद् व्यतिरिक्तम् आत्माणं वेत्ति तद्वत् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । अत्राशयम् आह—अयं भाव इति । अत्र विश्वनाथः—तादृशस्य च सर्वत्र भगवत्स्फूर्तिरभूद् इत्य् आह—स इति । व्यापकतया जातरतित्वेन सर्वास्वेव दिक्षु स्फुरद्रूपतया विद्वान् जानन् तदप्यात्मनि स्वस्मिन्व्यतिरिक्ततया वियुक्तत्वेनैव जानन् प्रेमोत्कण्ठातापेन विरराम मूर्च्छां प्रापेत्य् अर्थः । विरहोत्थस्फूर्तिजनितभगवद्-दर्शनेन विरहो न शाम्यतीत्यत्र दृष्टान्तः—स्वप्न इव जानन् न हि स्वप्ने भुक्तेनौदनादिना स्वप्नोत्थितस्य जनस्य क्षुधा शाम्यतीत्य् अर्थः । ननु स्फूर्तौ किं प्रमाणमित्यतो विशिनष्टि—आमर्शो नामान्तःकरणवृत्तिः स एव साक्षी न तु लोचनं यत्र तम् । अन्तःकरणवृत्तीनां विरहसन्तापानपगमात् लोचनाभ्यां तद्दर्शनम् अपि तत्स्फूर्तिजनितम् एवम् एवेत्यनुभवाद् इति भावः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च सर्व-वैलक्षण्येन भगवविज्ञानं जातम् इत्य् आह—स इति । आत्मनि शुद्ध-जीवेऽधिष्टाने आत्मानं तद्-अधिष्ठातारं परमात्मानं सर्व-व्यापक-व्यतिरिक्त-स्वरूपतया च विद्वान् जानन् तद्-अर्वाक्-ज्ञेयाद् विरराम । व्यापकत्वेन व्यतिरिक्तत्वेन दृष्टान्तः । स्वप्ने तत्रत्य-सर्व-प्रपञ्च-तद्-द्रष्टारम् इवेति आमर्शेत्य् अत्र आमृश्येति सम्बन्धोक्तिः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृश-रत्या च सर्वत्र भगवत्-स्फूर्तिर् अभूद् इत्य् आह—स इति । व्यापकतया जात-रतित्वेन सर्वास्व् एव दिक्षु स्फुरद्-रूपतया विद्वान् जानन्, तद् अप्य् आत्मनि स्वस्मिन् व्यतिरिक्ततया वियुक्तत्वेनैव जानन् प्रेमोत्कण्ठा-तापेन विरराम, मूर्च्छां प्रापेत्य् अर्थः । विरहोत्थ-स्फूर्ति-जनित-भगवद्-दर्शनेन विरहो न शाम्यतीत्य् अत्र दृष्टान्तः—स्वप्न इव जानन्, न हि स्वप्ने भुक्तेनोदनादिना स्वप्नोत्थितस्य जनस्य क्षुधा शाम्यतीत्य् अर्थः ।
ननु स्फूर्तौ किं प्रमाणम् इत्य् अतो विशिनष्टि—आमर्शो नामान्तःकरण-वृत्तिः । अन्तः-करण-वृत्तीनां विरह-सन्तापान् अपगमात् लोचनाभ्याम् तद्-दर्शनम् अपि तत्-स्फूर्ति-जनितम् एवेत्य् अनुभवाद् इति भावः ॥४०॥
॥ ४.२८.४१-४२ ॥
साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप ।
विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम् ॥
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : केन विद्वान् ? तत्राह । साक्षाद् धरिर् एव यो गुरुः, तेनोक्तेन सर्वतो-मुखं यथा तथा स्फुरताऽनवच्छिन्नेन ज्ञानेन । तद् एवाह—पर इति । ब्रह्मैवाहं न संसारीति ब्रह्मण्य् आत्मन ईक्षणे शोकादि-निवृत्तिः । अहम् एव ब्रह्मेत्य् आत्मनि ब्रह्मण ईक्षणे ब्रह्म-पारोक्ष्य-निवृत्तिः । अतो व्यतिहारेणेक्षमाणोऽस्मात् संसाराद् उपरराम ।
नन्व् एवम् अपि जीवस्य कुतो ब्रह्मत्वापत्तिः ? ईक्षणस्यैव व्यवधायकत्वाद् इत्य् आशङ्क्याह—ईक्षां विहाय दग्धेन्धनानलवत् तस्याः स्वयम् एवोपशान्तेर् इति भावः ॥४१-४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततश् च तस्योत्पन्नप्रेम्णो भगवतः साक्षाद्दर्शनमभूद् इत्य् आह—साक्षाद् एव भगवता हरिणा सन्तापहारिणा विश्वतोमुखं स्फुरता समन्ताद् एव प्रस्फुरत्तेजसा गुरुणा सता उक्त उपदिष्टो ज्ञानदीपः स्वमाधुर्यानुभवप्रकारस्तेन तस्मिन्नेव परे ब्रह्मणि आत्मानमीक्षमाणः वासुदेवे भगवति नान्यद्वेदोद्वत्रतिम् इति पूर्वोक्तेः । भगवति स्वरतिमुद्वहन्तमनुरागिणं पश्यन्न् इत्य् अर्थः । तथैव ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् इति भगवद्-उक्तेः । आत्मनि स्वस्मिंश् च परब्रह्म सानुरागमीक्षमाणः तत्क्षण एव प्रबलितानन्दमूर्च्छावशादीक्षां विहायास्मात्स्थूलसूक्ष्मोपाधिद्वयात् स्पष्टम् एव विरराम । ऐश्वर्यपक्षीयास्तु—श्लोकत्रयमिदम् एवं व्याचक्षते—स मलयध्वज आत्मानं परमेश्वरं सर्वव्यापकतया सर्वस्माच् च व्याप्याज्जगतो व्यतिरिक्ततया चात्मनि स्वस्मिन्नधिष्टातारं विद्वाञ्जानन्विरराम संसाराद् इति शेषः । व्यापकत्वे व्यतिरिक्तत्वे च दृष्टान्तः—आमर्शसाक्षिणं मनआदिद्रष्टारं जीवमध्यात्मादिव्यापकम् । अथ च स्वप्ने सुषुप्तावध्यात्मादिव्यतिरिक्तम् इव सुखमहमस्वाप्सम् इत्य् अत्र तत्तद्व्यतिरिक्तस्य केवलस्यात्मन एवानुभवाद् इति । नन्वेतज्ज्ञानं कुतोसाववापेति तत्राह—साक्षाद् इति ददामि बुद्धियोगं तं येन मामुपयान्ति ते इति भगवद्-उक्तेः । तेनैव ज्ञानदीपेन परे ब्रह्मणि भगवत्याश्रयतत्त्वे आत्मानं शुद्धजीवमाश्रितं प्रेक्षमाणस्तथात्मनि शुद्धजीवे च तम् एव परं ब्रह्म भगवन्तमधिष्ठातारमीक्षमाणः विहायेक्षाम् इति जातप्रेमत्वादन्ते तं परामर्शम् अपि विहायेत्य् अर्थः ॥ स्वामिचरणाः—तद् एव अव्यवच्छिन्नज्ञानम् एव । ब्रह्मणि शोकाद्य्-अभावात्तत्रात्मनो\ऽपि तदभेददृष्ट्या शोकाद्य्-अभाव आयातीति । आदिना मोहादिग्रहः । अतः पारोक्ष्याभावात् । अन्योन्ययोरेकीकरणं व्यतिहारः । पुनर् आशङ्कते—नन्व् इति । इति भाव इति । न हि काष्ठे सर्वथा दग्धे पुनर् अग्निस् तत्र तिष्ठतीत्याशयः । सन्दर्भस्तु—अस्माद् देहद्वयादेवोपरराम न तु तस्मात्तदीक्षाहेतुचिच्छक्त्याविर्भावादपीत्य् अर्थः । अनलादीनां कालवाय्वादिवत्तस्या नाशकाभावादाश्रयस्य विद्यमानत्वाच्चेत्याह ॥४१-४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं येन विज्ञानेन जीवन्-मुक्ति-दशाम् आप तेनात्यन्तिक-मुक्तिम् अप्य् आपेत्य् आह—साक्षाद् इति युग्मकेन । परे ब्रह्मणि भगवति तद्-आश्रयत्वेनेत्य् अर्थः । आत्मनि शुद्धे तद्-अधिष्ठातृत्वेनेत्य् अर्थः । ईक्षां सिद्धेक्षत्वात् तत्-प्रयत्नं विहायेत्य् अर्थः । अस्माद् देह-द्वय-लक्षणोपाधेर् उपरराम, न तु तस्मात् तद्-ईक्षा-हेतु-चिच्-छक्त्य्-आविर्भावाद् अपीत्य् अर्थः, अनलादीनां काल-वाय्व्-आदिवत् तस्या नाशकाभावात् आश्रयस्य विद्यमानत्वाच् च ॥४१-४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तस्योत्पन्न-प्रेम्णो भगवतः साक्षाद्-दर्शनम् अप्य् अभूद् इत्य् आह—साक्षाद् एव भगवता हरिणा सन्ताप-हारिणा विश्वतो मुखं स्फुरता समन्ताद् एव प्रस्फुरत् तेजसा गुरुणा सता उक्त उपदिष्टो यो ज्ञान-दीपः स्व-माधुर्यानुभव-प्रकारत्वः, तेन तस्मिन्न् एव परे ब्रह्मणि आत्मानम् ईक्षमाणम् ईक्षमाणः, वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् [भा।पु। ४.२८.३९]इति पूर्वोक्तेः । भगवति स्व-रतिम् उद्वहन्तम् अनुरागिणं पश्यन्न् इत्य् अर्थः । तथैव, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति भगवद्-उक्तेः ।
आत्मनि स्वस्मिंश् च पर-ब्रह्म सानुरागम् ईक्षमाणः, तत्-क्षण एव प्रवलितानन्द-मूर्च्छा-वशाद् ईक्षां विहाय अस्मात् स्थूल-सूक्ष्मोपाधि-द्वयात् ह स्पष्टम् एव विरराम । ऐश्वर्य-पक्षीयास् तु श्लोक-त्रयम् इदम् एवं व्याचक्षे—स मलयध्वज आत्मानं परमेश्वरं सर्व-व्यापकतया सर्वस्मात् च व्याप्याज् जगतो व्यतिरिक्ततया च आत्मनि स्वस्मिन्न् अधिष्ठातारं विद्वान् जानन् विरराम संसाराद् इत्य् अर्थः ।
व्यापकत्वे व्यतिर्क्तत्वे च दृष्टान्तः—आमर्श-साक्षिणं मन-आदि-द्रष्टारं जीवम् अध्यात्मादि-व्यापकं, अथ च स्वप्ने सुषुप्ताव् अध्यात्मादि-व्यतिरिक्तम् इव सुखम् अहम् अस्वाप्सम् इत्य् अत्र तत्-तद्-व्यतिरिकस्य केवलस्यात्मन एवानुभवाद् इति ।
नन्व् एतज् ज्ञानं कुतोऽसाव् अवाप ? इत्य् तत्राह—साक्षाद् इति । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [गीता १०.१०] इति भगवद्-उक्तेः । तेनैव ज्ञान-दीपेन परे ब्रह्मणि भगवत्य् आश्रय-तत्त्वे आत्मानं शुद्ध-जीवम् आश्रितम् ईक्षमाणः, तथा आत्मनि शुद्ध-जीवे च तम् एव परं ब्रह्म भगवन्तम् अधिष्ठातारम् ईक्षमाणः । विहायेक्षाम् इति जात-प्रेमत्वाद् अन्ते तं परामर्शम् अपि विहायेत्य् अर्थः । श्री-भागवतस्य मोहिनीत्वाद् इतोऽप्य् अन्यथा केचिद् व्याचक्षते, तत् तु एव गृह्णन्ति न सन्तः ॥४१-४२॥
॥ ४.२८.४३ ॥
पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् ।
प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवं श्रीगुरुदेवस्य सिद्धिदशापर्यन्तं शिष्यास्तं परिचरन्त एव वर्त्तन्त इति दर्शयति—पतिम् इति चतुर्भिः । परिचरणं हितप्रेरकत्वं, भोगानिन्द्रियद्वारेण त्यक्त्वा ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैदर्भ्याख्यः पुरञ्जनस् तु तत्-सेवयैव प्राप्यं प्रापेत्य् आह—पतिम् इत्य्-आदिना ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं श्री-गुरु-देवस्य सिद्धि-दशा-पर्यन्तं शिष्यस् तं परिचरन्न् एव वर्तेतेति दर्शयति—पतिम् इति चतुर्भिः ॥४३॥
॥ ४.२८.४४ ॥
चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा ।
बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उप पतिं पत्युः समीपे । यद् वा, पत्युः किञ्चिन् मात्रं न्यूना । तत्-समाना सती बभाव् इत्य् अर्थः । उपोऽधिके च [पा। १.४.८७] इति कर्म-प्रवचनीयस् तद्-योगे च द्वितीया । शान्तम् अङ्गारावस्थम् अनलम् उप शान्ता शुद्धा ज्वाला यथा भवति, तद्वत् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चीर-वासाः चीरवत् स्व-महिम्ना सर्वम् आच्छादयति कायम् आत्मा नभश् छदिः इत्य् उक्तेः अत्यतिष्ठद् दशाङ्गुलम् इति श्रुतेश् च । य आत्मा तत्र वासो विचार-द्वारा यस्याः सा चीर-वासाः । क्षमैव क्षामा स्वार्थिको\ऽण्, टाबार्षः । व्रते तपश्चर्यादि-लक्षणे समर्था । वेणी-भूतानि संयतानि शिरोरुहाणि वृत्ति-समूहा यस्याः सा तथा । अनेन सात्त्विक्यैव बुद्ध्या हरिः प्राप्यते दृश्यते त्व् अग्र्या बुद्ध्या इति श्रुतेः । शान्तम् इत्य् अनेन धूम-राहित्यम् उक्तं, न तु निर्वाणत्वं न हि नष्टस्याग्नेः शिखास्तीति । सामीप्यार्थे तु कुम्भस्य समीप उपकुम्भम् इत्य् आदौ षष्ठी-दर्शनाद् अत्रार्षत्वाश्रयणेन द्वितीय-करणतः सुलभं पन्थानम् आह—यद् वेति । इत्य् अर्थ इति। उपो\ऽधिके च इति सूत्र-बलाद् अयम्-अर्थे इति भावः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पतिम् उप उपोऽधिके हीने च [पा। १.४.८६-८७] इति कर्म-प्रवचनीयस् तद्-योगे द्वितीया । पत्युः सकाशात् किञ्चिन्-मात्र-न्यूनेत्य् अर्थः । शान्तम् अङ्गारावस्थम् निर्धूमम् अनलम् उपशान्ता शुद्धा ज्वाला यथा भवति, तद्वत् ॥४४॥
॥ ४.२८.४५ ॥
अजानती प्रियतमं यदोपरतम् अङ्गना ।
सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदानीम् अपि सुस्थिरम् आसनं यस्य । अत एवाजानती यदा तदा यथा-पूर्वम् असेवत ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्गना अङ्गानि शिक्षादीनि विद्यन्ते यस्याः साङ्गना । प्रियतममत्यन्तप्रियम् । उपरतं जीवन्मुक्त्यवस्थां प्राप्तम् । अङ्गाभ्यासनिष्ठत्वादजानती । सुस्थिरे ब्रह्मण्यासनं स्थितिर् यस्य तं यथापूर्वं साधनावस्थायामिवोपाचरत्तत्रैवातिष्ठद् इत्य् अर्थः । कथापक्षे—तदानीम् अपि देहत्यागावसरे\ऽपि । अत एव सुस्थिरासनत्वाद् एव । यथापूर्वं श्रीभगवत्प्रतिमामिवाचेष्टमानम् अपि पाद्यादिनापाचरदानर्चेति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा-पूर्वं श्री-भगवत्-प्रतिमाम् इवाचेष्टमानम् अपि पाद्यादिनोपाचरत् आनर्च ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२८.४६ ॥
यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती ।
आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पत्युर् अङ्घ्रिम् अर्चयन्ती यदा तस्मिन्न् अङ्घ्राव् ऊष्माणं नापश्यत् ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊष्माणमौष्ण्यम् । पक्षे—पत्युः शुद्धजीवस्याङ्घ्रौ शास्त्रविचारतीर्थगमनादौ सात्त्विके\ऽपि कर्मण्यूष्माणमुत्साहं न लेभे तदा अहो सात्त्विकीम् अपि मामयं त्यक्तुमुद्यत इत्यतः संविग्नहृदयासीत् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्चती अर्चयन्ती नोपलभेत नोपालभेत ॥४६॥
॥ ४.२८.४७ ॥
आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः ।
स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अबन्धुं पति-रहितम् । अश्रुभिर् आसिच्य ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरोः साधकशरीरापगमे सति पत्युर्विच्छेदे पतिव्रतेव शिष्यस्तद्विच्छेदसन्तप्तो विलापमग्नो भवतीत्य् आह—आत्मानं शोचती । अतः परं मां कस्त्रास्यतीति शोकाकुला । अबन्धुं जीवन्मुक्तिदशायां वृत्त्यन्तरानुत्पत्तेः । स्तनौ धर्माधर्मौ । विक्लवाश्रुभिः कर्ममार्गरतैः सह विपिने संसारवने । आसिच्य सुस्वरं प्ररुरोद अहं ब्रह्मास्मि इत्य् एवं रुरोद परिणतवतीत्य् अर्थः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरोः साधक-शरीरापगमे सति, पत्युर् विच्छेदे पति-व्रतेव शिष्यस् तद्-विच्छेद-सन्तप्तो विलाप-मग्नो भवतीत्य् आह—आत्मानं शोचती माम् अतः परं कस् त्रास्यत इत्य् अतः शोकाकुला ॥४७॥
॥ ४.२८.४८ ॥
उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् ।
दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षत्र-बन्धुभ्योऽधार्मिक-क्षत्रियेभ्योऽपि ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे—हे श्रीगुरो इमां पृथ्वीं त्वत्प्रवर्तितश्रवणादिभक्तिमतीं दस्युभ्यो भक्तिविरोधिमतेभ्यो बिभ्यतीम् । तीर्थस्तु—उदधिः कमे तद् एव मेखलास्थानीयं यस्याः सा । तथा दस्युभ्यो\ऽहङ्कारादिभ्यः क्षत्त्रं संसाराद्रक्षकं ज्ञानं बध्नन्ति प्रतिबध्नन्तीति क्षत्रबन्धवो मिथ्याज्ञानादयस्तेभ्यो\ऽपि बिभ्यतीमिमां गां रक्षितुमर्हसि । त्वद्-अनुगृहीतया बुद्ध्याज्ञानादयो निवर्त्तन्त इत्य् अर्थः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्थिष्ठेति । पक्षे, हे श्री-गुरो, इमां पृथ्वीं तत्-प्रवर्तित-चरणारविन्दादि-भक्ति-गतिं दस्युभ्यः भक्ति-विरोधि-मतेभ्यो बिभ्यतीम् ॥४८॥
॥ ४.२८.४९ ॥
एवं विलपन्ती बाला विपिनेऽनुगता पतिम् ।
पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवर्तयत् प्रवर्तयामास ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपिने वासनावने विलपन्ती रुदती स्वामिनं विहाय स्थिताश्रूण्यवर्तयन्मुग्धेवाभवत् ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.२८.५० ॥
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।
आदीप्य चानुमरणे विलपन्ती मनो दधे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यां निधायाग्नि-दानेनादीप्य च ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे—श्रीगुरोर्देहसंस्कारं कृत्वा श्रीमद्गुरुचरणवियुक्तो\ऽहं तदीयगुणानुस्मरणमयशोकदवाग्निदग्धदेहः प्राणं धर्तुमशक्नुवंस्तदुपदिष्टश्रवणकीर्तनादिभक्तो नैव शक्तिं धास्यामि तस्मादद्यैव मरिष्यामीति शिष्यो मनसि निश्चिनोतीति दर्शयामास । तीर्थस्तु—दारुमयीं भेदविषयां चितिं संविदं कृत्वा प्रकाश्य तस्यां संविदि पत्युः कलेवरं संसारकारणमादीप्य दग्ध्वानुमरणे\ऽनुस्यूतदोषनाशे मनो दधे तादृशीं वृत्तिं प्रकाशयन्त्याह ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चितिम् इति । अस्मिन्न् अध्यात्म-पक्षे स्त्रीत्वादिकम् औपचारिकम् एव ॥५०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यां निधाय अग्नि-दानेनादीप्य च । पक्षे—श्री-गुरोर् देह-संस्कारं कृत्वा श्रीमद्-गुरु-चरण-वियुक्तोऽहं तदीय-गुणानुस्मरण-मय-शोक-दावाग्नि-दग्ध-देहो प्राणं धर्तुम् अशक्नुवंस् तद्-उपदिष्ट-श्रवण-कीर्तनादि-भक्तौ नैव शक्तिं धास्यामि । तस्माद् अद्यैव मरिष्यामीति शिष्यो मनसि निश्चिनोतीति दर्शयामास ॥५०॥
॥ ४.२८.५१ ॥
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।
सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वतरोऽनादिर् ईश्वरः सखा, द्वा सुपर्णा इत्य् आदि श्रुतेः । साम्ना प्रिय-वाक्येन बोधयन् ॥ ५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वगुरुविरहव्याकुलीभावदशायाम् इव शिष्यस्य भगवद्-दर्शनं स्याद् इति द्योतयति । तत्र तस्यामवस्थायाम् । ब्राह्मणः ब्राह्मण-रूपधारी साक्षात्स्वीयस्व-रूपदर्शनं प्रेम्णा विना न संभवतीति ज्ञापयति । यद्वा—ब्रह्म ब्राह्मण आत्मना इति श्रुत्यर्थद्योतनाय तथोपदेशे ब्राह्मणस्यैवाधिकार इति द्योतनाय च ब्राह्मण-रूपधारणम् इति ज्ञेयम् । अत एवात्मा स्वरूपं विद्यते यस्य स आत्मवान्स्व--स्वरूप-युक्त इत्य् अर्थः । वल्गुना प्रीतिद्योतकतया सुन्दरेण सामवाक्येन सान्त्वयन्समादधानः ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्राह्मण-रूपो भूत्वा ॥५१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-गुरु-विरह-व्याकुली-भाव-दशायाम् इव शिष्यस्य भगवद्-दर्शनं स्याद् इति द्योतयति—तत्रेति । पूर्वतरः अनादिर् ईश्वरः सखा—द्वा सुपर्णा इत्य् आदि श्रुतेः । ब्राह्मणः ब्राह्मण-वेश-धारीति साक्षात् स्वीय-स्वरूप-दर्शनं प्रेम्णा विना न भवतीति ज्ञापयति स्मेति भावः । आत्मवान् अन्तराच्छन्नीकृत-स्व-स्वरूप-युक्तः ॥५१॥
॥ ४.२८.५२ ॥
ब्राह्मण उवाच
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ॥
जानासि किं सखायं मां येनाग्रे विचचर्थ ह ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य यं शोचसि । अग्रे सृष्टेः पूर्वम् । विचचर्थ ह मयि स्थितत्वेन सख्य-सुखम् अनुभूतवान् असि ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्येति द्वितीयार्थे षष्ठी । का किंजातिविशिष्टासि न कापि किं च, कस्यासि कं पुरुषमाश्रित्य तिष्ठसि न कम् अपि सर्वस्य चेतनानुस्यूतत्वान्न विशिष्टं शक्यते वक्तुं यस्य शोचसि यदीयाहम् इति प्रकाश्य वर्तसे\ऽयं शयानः शरीरलक्षणः पदार्थः कः पांचभौतिकत्वात्तव चानेन न को\ऽपि संबन्धः । त्वं का नामतो गोत्रतो लिङ्गतश् च तवैतत्त्रयम् एव नास्ति कत्यासि पुत्री भार्या वा न कस्यापीति को वायं शयानस्तव निरूपितो यस्य मरणं शोचसि न को\ऽपीति वार्थः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोऽयं शयान इति प्रश्ने मम श्री-गुरुर् अयम् इति । कथा-पक्षे—मम पतिर् अयम् इति चेत्, मां किं जानासीति ? ननु, त्वम् एव विप्रो मम क इत्य् अत आह—सखायम् इति । कथं त्वया सह मम सख्यम् इत्य् अत आह—येन मया सह अग्रे सृष्टेः पूर्वं विचचर्थ । मय्य् एव मिलित्वा मत्-सङ्गेन सुखम् अनुभूतवान् त्वम् एवासीर् इत्य् अर्थः ॥५२॥
॥ ४.२८.५३ ॥
अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे ।
हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नाहम् आवयोः सख्यं सहचरत्वं च जानामीति चेत् तत्राह—यद्यपि मां न जानासि तथाप्य् आत्मानं त्वाम् अविज्ञात-सखम् अविज्ञातः कश्चिन् मे सखासीद् इत्य् एवं किं स्मरसि ? सख इति पुंस्त्व-निर्देशः प्राक्तन-पुंस्त्व-स्मरणाय । सख्यं स्मारयन् स्व-वियोग-कृतम् अनर्थम् आह—हित्वेति सार्धैः षड्भिः । पदं स्थानम् ॥५३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्वहं किम् अपि न जानामीति तत्राह—अपीति । बहुव्रीहावपि टजार्षः । त्वम् एव स्मारयेति चेदाह—हित्वेति । सृष्ट्यारंभे प्राचीनकर्मवशादेवेत्य् अर्थः ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कथा-पक्षे—सखे इति । जीवत्व-मात्र-स्मरणाय ॥५३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अहं किम् अपि जानामीति तत्राह—अपीति । यद्यपि मां न जानासि तद् अप्य् आत्मानं स्वम् अविज्ञात-सखम् अविज्ञातः कश्चिन् मे सखास्तीत्य् एवं किं स्मरसि ? बहुव्रीहाव् अपि ट आर्षः । अविज्ञातस्य सखायम् इति वा । सखीत्य् अप्रयुज्य सखे इति पुंस्त्व-निर्देशः प्राक्तन-पुंस्त्वं स्मारयन् एवम् अग्रेऽपि । त्वम् एव स्मारय चेद् अत आह—हित्वेति । सृष्ट्य्-आरम्भे प्राचीन-कर्म-वशाद् एवेत्य् अर्थः । पदं स्थानम् ॥५३॥
॥ ४.२८.५४ ॥
हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ ।
अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हंसौ शुद्धौ मानसं हृदयम् अयनं ययोः । कथा-पक्षे—मानस-सरसि स्थितौ पक्षिणाव् अभूतां जातौ । ओको गृहम् । अन्तरा विनैव । वा-शब्द एवार्थे । सहस्र-परिवत्सरान् महा-प्रलयो यावत् ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आर्येति । शुद्धकुलोद्भूतत्वेन ज्ञानाधिकारित्वम् आह ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि परमात्म-सन्दर्भे ज्ञानेच्छुर् अयम् अधिकारीत्य् अभेदोपदेश-पर्यवसानत्वं व्याख्यातं, तथाप्य् अपरितोषाद् अत्र भक्ति-पर्यवसानत्वम् एव व्याख्यायते । यथा सख्यम् एव स्थापयति । सृष्टौ मानसायनौ महा-प्रलय-समये तु ओकस् तद्-रूपम् उपधिम् अन्तरिवाभूताम् अभूवेत्य् अर्थः । सहस्र-परिवत्सरान् व्याप्येति महा-प्रलयोपलक्षणम् ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंसौ शुद्धाव् आत्मानौ मानसं हृदयम् अयनं ययोस् तौ । कथा-पक्षे—मानस-सरसि स्थितौ पक्षिणाव् अभूतां जातौ । ओको गृहम् अन्तरा विनैव । वा-शब्द एवार्थे सहस्रं परिवत्सरान् महा-प्रलयो यावद् इत्य् अर्थः ॥५४॥
॥ ४.२८.५५ ॥
स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् ।
विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे बन्धो, ग्राम्ये सुखे मतिर् यस्य । स्त्रिया मायया ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-व्सिमृतौ हेतुम् आह—स त्वम् इति सार्धैः षड्भिः । मन्यसे इत्य् अधिकैः । अत्र स त्वम् इति युग्मकम् । स्थिति-समये तु स तथाविधस् तं मां विहायाहन्ता-ममताभ्यां व्यवधाय महीं स्वप्न-सहित-जाग्रद्-दशां गतः सन् विचरन् पर्यालोचयन्न् इत्य् अर्थः ॥५५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्रिया मायया ॥५५॥
॥ ४.२८.५६-५८ ॥
पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् ।
षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम् ॥
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।
तेजो-\ऽब्-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः ॥
विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया ।
शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते ॥
मध्वः- इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रिय-सङ्ग्रहः ॥५७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च-शब्दादय आरामा उपवनानि यस्मिन् । नव द्वाराणि प्राण-च्छिद्राणि यस्मिन् । एकः प्राणः पालो यस्मिन् । त्रीणि पृथिव्य्-अप्-तेजांसि कोष्ठानि यस्मिन् । षट्-ज्ञानेन्द्रिय-मनांसि कुलान्य् अभीष्ट-विषय-समर्पका वणिजो यस्मिन् । पञ्च विपणा हट्टाः कर्मेन्द्रियाणि यस्मिन् । पञ्च-भूतानि प्रकृतिर् उपादान-कारणं यस्य । स्त्री बुद्धिर् एव धवः पतिः स्वामिनी यस्मिन् ॥५६॥
स्वयम् एवेयं श्लोकं व्याचष्टे—पञ्चेन्द्रियार्था इति । षट्-कुलम् इति षट्त्वम् एक-पालम् इति च स्पष्टत्वान् न व्याख्यातम् ।।५७॥
भूतान्य् एवाव्यया प्रकृतिर् उपादानं यस्य । स्त्री-धवम् इत्य् अस्य व्याख्यानम् । शक्तिर् अधीशा यस्य । तद्-वशः सन्न् इत्य् अर्थः ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बन्धो इति । प्रीतिविषयतां द्योतयंस्तद्धितकर्तृत्वं स्वस्याह ॥ अत्र पदे प्रविष्टः पुमान्मुह्यति इत्य् अर्थ इति । तत्पदं स्त्रीस्वामिकम् इति किं वाच्यम् । तत्र प्रविष्टः पुमानपि स्त्रीस्वामिको भवेद् इति भावः ॥५५-५८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पञ्चेन्द्रिया इति युग्मकम् ॥५६-५८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्च-विषया आरामा उपवनानि यत्र । नव द्वाराणि प्राण-च्छिद्राणि यत्र । एकः प्राण एव पालो यत्र । त्रीणि पृथिव्य्-अप्-तेजांसि कोष्ठानि यत्र । षट्-ज्ञानेन्द्रिय-मनांसि कुलानि वणिजो यत्र तत् । पञ्च महा-भूतानि प्रकृतिर् उपादान-कारणं यस्य तत् । स्त्री बुद्धिर् एव धवः पतिः स्वामिनी यस्मिन् तत् । श्लोकम् इमं स्वयं व्याचष्टे—पञ्च इति । प्राणाः प्राणाच्छिद्राणि नव । कुलम् इति वणिजाम् एवार्थतः प्राप्तं भूतानि पञ्चैव प्रकृतिः कारणम् । तत्र पदे प्रविष्टः पुमान् मुह्यति । कीदृशी शक्तिः ? बुद्धिर् एव अधीशा यस्य स इति स्त्री-धवम् इत्य् अस्य व्याख्यानम् । तत्-पदं स्त्री-स्वामिकम् इति किं वाच्यं तत्र प्रविष्टः पुमान् अपि स्त्री-स्वामिक एव भवेद् इत्य् अर्थस्य द्योतनार्थं पुं-विशेषणत्वेनोपन्यस्तम् ॥५६-५८॥
॥ ४.२८.५९ ॥
तस्मिंस् त्वं रामया स्पृष्टो रममाणोऽश्रुत-स्मृतिः ।
तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पृष्टोऽभिभूतः । अतो न विद्यते श्रुते ब्रह्मत्वे स्मृतिर् यस्य ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्पदे रामया विषयबुद्ध्या । अतो रामास्पृष्टत्वात् । श्रुते सर्ववेदेतिहासपुराणादिवर्णिते जीवस्य ब्रह्मभावे । विश्वनाथस्तु—न श्रुता श्रवगविषयीकृता स्मृतिर्गीतादिज्ञान-साधनशास्त्रं येन स तथेत्याह । तत्सङ्गाद्रामासङ्गात् । ईदृशीं स्त्रीदेहप्राप्तिलक्षणाम् । स्त्रीशरीरस्य बहुदुःखाधिकरणत्वात्पापीयसीम् नारीशरीरं बहु दुःखभाजनम् इति गरुडोक्तेः । प्रभो इति । त्वं तु साक्षात्प्रभुर् अपि सङ्गदोषादेवात्मानमप्रभुं जानासीति भावः ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विभो हे सर्व-साधन-समर्थ ! तथापीत्य् अर्थः ॥५९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न श्रुता न श्रवण-विषयीकृता स्मृतिः स्व-ज्ञानं येन सः ॥५९॥
॥ ४.२८.६० ॥
न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव ।
न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वम् उपदिशति, न त्वम् इति चतुर्भिः । सुहृत् पतिः । नव-द्वारे पुरे यया रुद्धोऽसि तस्याः ॥६०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्त्वं याथार्थ्यम् । पुरंजन्या इति पूर्वजन्माभिप्रायेणोक्तम् । अत्र विश्वनाथः—ननु यद्यहमश्रुतस्मृतिरस्मि तर्हि मत्स्मृतित्वम् एव श्रावयेति चदाह—नेति । त्वं विदर्भस्य प्राकृतजीवस्य कस्यापि न दुहिता नापत्यं किं तु मच्छक्तिरूपो जीवोसीति भावः । अयं वीरो\ऽपि न ते सुहृद्धितकारी, किं त्वहम् एव एतद्रूपेण त्वद्-गुरुर्भूत्वा स्वभक्तिमुपदिश्य सख्यनुरूपं कृत्यमकरवम् इति पक्षद्वयं पृथक्पृथक् । यया नवमुखे पुरे त्वं रुद्धस्तस्याः पुरंजन्यास्त्वं न पतिः किं त्वविद्योपहितं चैतन्यम् अपि । कथापक्षः स्पष्ट एव ॥६०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं यद्य् अहम् अश्रुत-स्मृतिर् एवास्मि, तर्हि मत्-स्मृतिं त्वम् एव श्रावयेत्य् अत आह—नेति । त्वं विदर्भस्य प्राकृत-जीवस्य कस्यापि न दुहिता नापत्यं, किन्तु मच्-छक्ति-रूपो जीवोऽसीति भावः । अयं वीरोऽपि न ते सुहृत् हितकारी किन्त्व् अहम् एव एतद्-रूपेण तद्-गुरुर् भूत्वा स्व-भक्तिम् उपदिश्य सख्यानुरूपं कृत्यम् अकरवम् । इति पक्ष-द्वयं पृथक् पृथक् व्याख्यातं यया नव-मुखे पुरे त्वं रुद्धस् तस्याः पुरञ्जन्यास् त्वं न पतिः किन्तु अविद्योपहितं चैतन्यम् असि । कथा-पक्षे स्पष्टम् एव ॥६० ॥
॥ ४.२८.६१ ॥
माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् ।
मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुमांसं पूर्व-जन्मनि यदमन्यथा इदानीं च सतीं श्रेष्ठां स्त्रियं यन् मन्यसे एषा माया । यत उभयम् अपि वस्तुतो नास्ति । यस्माद् आवां हंसौ शुद्धौ । नौ आवयोर् वक्ष्यमाणां गतिं स्वरूपं पश्य ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु यद्येवं तर्हि कथं मे तथा तथा प्रतीतिस् तत्राह—मायेति । कदाचिन्नोभयं नपुंसकम् इति उपलक्षणमेतत्कदाचिन्मनुष्यदेवतिर्यगादिकं चेति । यद् यस्माद्वै निश्चितमावां हंसाव् इति ॥६१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हंसाव् इत्य् अत्र हंसम् इति चित्सुखः । माम् इति शेषः । पश्यथ नौ इति क्वचित् ॥६१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यद्य् एवं तर्हि कथं मे तथा तथा प्रतीतिस् तत्राह—मायेति । यद् यतः कदाचित् स्वं पुमांसं मन्यसे कदाचित् सतीं स्त्रियं कदाचिन् नोभयं नपुंसकम् इत्य् अर्थः । उपलक्षणम् एतत् कदाचिन् मनुष्यं कदाचिद् देव-तिर्यग् आदिकं च यद् यस्माद् वै निश्चितम् आवां हंसौ शुद्धौ आवयोर् गतिं वक्ष्यमाणं स्वरूपं पश्य ॥६१॥
॥ ४.२८.६२ ॥
अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वं पदार्थयोश् चिद्-अंशेनैक्यम् आह । अहम् एव भवान् । उपचारं वारयति, न चान्य इति । व्यतिहारोपदेश उक्ताभिप्रायः । छिद्रम् अन्तरम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चिदंशेन चिद्रूपत्वेन । उक्ताभिप्रायः परे ब्रह्मणि चात्मानम् इत्य् अत्रोक्ते\ऽभिप्रायो यस्य स तथा । अत्र विश्वनाथः—अहं परमात्मैव भवान् जीवः न चान्यः मत्तश्चैतन्य-स्वरूपान्नभिन्न इत्य् अर्थः । ननु किमेतन्मदसह्यं ब्रूषे तत्राह—भो मच्छुद्धभक्त । अहम्-अकोपं यथा स्यात्तथा त्वम् एव विचक्ष्व सविमर्शं पश्य हं तु कोपे समाख्यातः शिवे च कुक्कुरे\ऽपि च इति मेदिनी । ननु त्वद्-दासस्य मम तथा मत्प्रभोस्तवापि नातः परो\ऽन्यकलङ्को यदावयोरभेद इति तत्राह—नेति । नावावयोश्छिद्रमीदृशं कलङ्कं जातु कदाचिदपि मनागीषदपि कवयो विज्ञा न पश्यति । किं त्वविज्ञा एव भेदं पश्यन्तीत्य् अर्थः ॥६२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सख्योपयोगि शुद्धत्वं प्रतिपादयन् द्वयोर् ऐक्यात्म्यं स्थापयति—नोभयम् इत्य् अधिकेनाहम् इत्य् अर्धकेन ॥६२॥ (परमात्म-सन्दर्भ ४०)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं परमात्मैव भवान् जीवः, न चान्यः मत्तश् चैतन्य-स्वरूपान् न भिन्न इत्य् अर्थः । ननु किम् एतन्-मद-सह्यं ब्रूषे तत्राह—भो मच्-छुद्ध-भक्त अहम् अकोपं यथा स्यात् तथा त्वम् एव विचक्ष्व सविमर्शं पश्य । हन्त कोपे समाख्यातः शिवे च कुक्कुरेऽपि च इति मेदिनी । ननु त्वद्-दासस्य मम तथा मत्-प्रभोस् तवापि नातः परोऽन्यः कलङ्को यद् आवयोर् अभेद इति तत्राह—नेति । नौ आवयोश् छिद्रम् ईदृशं कलङ्कं जातु कदाचिद् अपि मनाग् ईषद् अपि कवयो विज्ञा न पश्यन्ति किन्त्व् अविज्ञा एव भेदं पश्यन्तीत्य् अर्थः ॥६२ ॥
॥ ४.२८.६३ ॥
यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः ।
द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि कथम् आवयोर् अज्ञत्व-सर्व-ज्ञत्वादि-धर्म-भेदस् तत्राह—यथेति । आत्मणं देहम् आदर्शे निर्मलं महान्तं स्थिरं चावेक्षेत । परस्य चक्षुषि च तद् विपरीतम् । विद्याविद्योपाधि-कृतो धर्म-भेद इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्यर्थं इति । विद्योपाधिप्रधानत्वात्तव सर्वज्ञत्वादिकमविद्योपाधिप्रधानत्वान्ममाज्ञत्वादिकं च न तु स्वाभाविकमतो न चावयोर्भेद इति भावः । अत्र विश्वनाथः—नन्वहं भवानिति त्वद्-उक्तिरेवासह्या तत्र मा कुप्यावधेहीत्य् आह—यथेति । पुरुषो जीव आत्मानं स्वमेकम् अपि मोक्षदशायां बन्धदशायां च क्रमेणादर्शचक्षुषोर्द्विधाभूतम् आदर्शे मणिमयदर्पणे यथोचितप्रमाणं सुवर्णतेजस्कं महान्तमचंचलमीक्षेत चक्षुषि त्वत्यल्पप्रमाणमल्पतेजस्कमतिक्षुद्रं चंचलं चेक्षेत यथेति । एकस्यापि द्विधाभूतत्वमुपाधिधर्मलिप्तत्वालिप्तत्वाभ्यां भेदमीक्षेत, तथैवावयोः परमात्मजीवात्मनोः सदैव द्विधाभूतयोरन्तरं सदैव भेदमीक्षेत । अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थे इत्य् अमरः । अहं देहमध्ये परमात्म-स्वरूपेण वर्ते त्वं च जीवो वर्त्तसे । तत्राह—स्वतो निरुपाधिर् अपि स्वैरतया सकललोकदेहगतः सन्नन्तर्यामी स्वसमुचितप्रमाणः संपूर्णतेजस्को महान्निश्चलो मुक्तजीव इव सदैव निर्लेप एव । त्वं तु जीवो\ऽत्यल्पप्रमाण एवात्यल्पतेजस्को\ऽतिक्षुद्रः सदैवोपाधिधर्मग्रस्तः कदाचिद् एव मुक्तिदशायामलिप्त इति तदैवावयोर्भेदं जानीयाद् इत्य् अर्थः । यदुक्तम् अहं भवान्न चान्यस्त्वम् इति तत् अहं यथा चित्तथा मद्भक्तो भवानपि चिन्न तु जडो माया वेत्य् अर्थः । एतत्पद्ययोरर्थान्तरं तु शास्त्रस्यास्य मोहिनीत्वख्यापकमसुरैरे व ग्राह्यमेकात्मवादस्य भगवद्-अनभिमतत्वात् । यदुक्तं तृतीये भगवतैव—
यथोल्मुल्काद्विस्फुलिङ्गाद्धूमाद्वापि स्वसंभवात् ।
अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मकात् ॥
भूतेन्द्रियान्तः—करणात्प्रधानाज्जीवसंज्ञितात् ।
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः ॥ इति ।
श्रुत्या च यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरान्ति इति । स्मृत्या च—एकदेशे स्थितस्याग्नेर्योत्स्ना विस्फारिणी यथा इति तथा सच्चिदानन्दविग्रहो भगवान्निरुपाधिर् ए व । तस्य विद्योपाधित्वमप्यसुरमतेनैवोक्तम् इति ज्ञेयम् ॥६३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु द्वयोर् अन्तरत्वे सति कथं माया तवाधिकार्या ? मम पुनर् अधिकारिणीति माया ह्य् एषेत्य् अत्र दर्शितं कथं वा सख्यम् ? तत्राह—यथेति । अत्र विज्ञातृ-पुरुषाभिमुखेष्व् आदर्शादिषु स्वच्छेषु चाक्षुषं तेजो लग्नं सत् बलीयसा सौर्येण तेजसा प्रतिश्रान्तः प्रवर्तितं मुख-संयुक्तं सत् तद् एव मुखं ग्राहयन् दोष-वशात् तद्-देशताम् अभिमुखतां च मुखस्याग्राहयत् । पूर्व-दृष्टाभिमुखादर्शस्य दिग्-देशताम् आभिमुख्यं च मुखम् अन्वारोपयतीत्य् एवं ज्ञायते प्रतिबिम्बम् इति ।
केचिन् मन्यन्ते तथा च सति तथैव प्रतीयेत दोष-वशाद् इत्य् आदौ को वा हेतुः ? सूर्यादि-प्रतिबिम्बे च तद्-विरोधि-कल्पनान्तरं मृग्येत तथा सूर्य-प्रतिबिम्बाभासोत्पत्तिर् यत्र दृश्यते तत्र चाभासे यद् औष्ण्यादिकम् अनुभूयते तत्र को वा हेतुः ? तस्माद् अन्यथानुपपत्त्येदम् एव लभ्यते सर्वस्य वस्तुन आकारानुकारिणी च्छटा सर्वत्राव्यवहितं देशे सञ्चरत्य् एव, किन्तु सूक्ष्मत्वान् नोपलभ्यते स्वच्छं वस्त्व्-अन्तरं प्राप्य तु समुद्भवन्ती तत्राक्षर-मुद्रावद् विपरीततयोदयं प्राप्नुवती प्रतिबिम्बम् उच्यते ।
यद् वा, स्वच्छ-वस्तुनस् तथैवेश्वर-दत्ता शक्तिः यद् बिम्बस्य रूपं स्वस्मिन् भासयतीति तत् प्रतिभासितम् एव प्रतिबिम्बत्वं यद् एव बिम्बत्वं व्यवहितेऽपि देशे निजाभासम् उद्गिरतीति ।
तस्माद् अयम् अर्थः—आदर्शे स्वच्छ-वस्तुन्य् आत्मनो निज-देहस्यानन्याकार-च्छटात्वेन स्व-चक्षुषि च बहिर् निःसृत-तद्-इन्द्रिय-मय-केवलं तत्-तेजसि साक्षात्-तद्-रूपात्-मत्वेनात्मानम् एव यथा द्विधा भूतम् एवेक्षते लोकस् तथैवावयोर् अन्तरं भेदांशः मच्-छटांश-रूपस्य शुद्ध-जीवस्यैव प्राकृतोपाधौ प्रतिफलन-प्रायत्वाद् इति भावः । चक्षुषो निकृष्ट-प्रतिबिम्बोपाधितया व्याख्यानं तु विचार्य चक्षुः-शब्देन सन्निहितं स्व-चक्षुः परित्यज्य पर-चक्षुर्-वचनं कष्टं स्व-चक्षुर्-वचनं तु स्पष्टं सति च स्पष्टे तैलादि-दृष्टान्ते तद्-उपादानं नोपदेयम् इति । स एष चाभेदात्मको भेदः सख्य-दार्ढ्यायैव निर्दिष्टः, जानासि किं सखायं माम् इति हंसावहं च त्वं चार्य! सखायाव् इत्य् उपक्रमाभ्यासाद्य्-अनुसारात् ॥६३॥ [परमात्म-सन्दर्भ २९]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अहं भवान् इति त्वद्-उक्तिर् एव सोढुम् अशक्या, तत्र माकुप्यावधेहीत्य् आह—यथेति । पुरुषो जीव आत्मानं स्वम् एकम् अपि मोक्ष-दशायां बन्ध-दशायां च क्रमेण आदर्श-चक्षुषोर् द्विधा-भूतम् आदर्शे मणिमय-दर्पणे यथोचित-प्रमाणं सम्पूर्ण-तेजस्कं महान्तम् अचञ्चलम् ईक्षते, चक्षुषि तु अत्यल्प-प्रमाणम् अल्प-तेजस्कम् अतिक्षुद्रं चञ्चलं च ईक्षते । अन्तरम् अवकाशावधि-परिधानान्तर्धि-भेद-तादर्थ्ये इत्य् अमरः । अहं देह-मध्ये परमात्म-स्वरूपेण वर्ते त्वं च जीवो वर्तसे, तत्राहं स्वतो निरुपाधिर् अपि स्वैरतया सकल-लोक-देह-गतः सन्न् अन्तर्यामी स्व-समुचित-प्रमाणः सम्पूर्ण-तेजस्को महा-निश्चलो मुक्त-जीव इव सदैव निर्लेप एव । त्वं तु जीवः अत्यल्प-प्रमाण एव अत्यल्प-तेजस्कोऽतिक्षुद्रः सदैव उपाधि-धर्म-ग्रस्तः कदाचिद् एव मुक्ति-दशायाम् अलिप्त इति सदैवावयोर् भेदं जानीयाद् इत्य् अर्थः । यद् उक्तं—अहं भवान् न चान्यः इति । तत् खलु अहं यथा चित् तथा मद्-भक्तो भवान् अपि चिन् न तु जडा मायेत्य् अर्थः ।
एतत्-पद्ययोर् अर्थान्तरं तु शास्त्रस्यास्य मोहिनीत्व-ख्यापकम् असुरैर् एव ग्राह्यम् । एकात्म-वादस्य भगवद्-अनैभिमतत्वात् । यद् उक्तं तृतीये भगवतैव—
यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् ।
अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् ॥
भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् ।
आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥ [भा।पु। ३.२८.४०-१] इति ।
श्रुत्या च—यथाग्निः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति इति । स्मृत्या च—एक-देशे स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६] इति । तथा सच्-चिद्-आनन्द-विग्रहो भगवान् निरुपाधिर् एव तस्य विद्योपाधित्वम् अप्य् असुर-मतेनैवोक्तम् इति ज्ञेयम् ॥६३ ॥
॥ ४.२८.६४ ॥
एवं स मानसो हंसो हंसेन प्रतिबोधितः ।
स्वस्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अमुना प्रकारेण स मानसो हंसः क्षेत्र-ज्ञो हंसेन परमात्मना बोधितः सन्, स्व-स्थ आत्मनि स्थितः सन्, चिरं ध्यात्वा तद्-व्यभिचारेणेश्वर-वियोगेन विषयाभिलाष-बुद्ध्या नष्टां स्मृतिम् अहं ब्रह्मास्मीति ज्ञानं पुनः प्राप्तवान् ॥६४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुनिर् अपि तथैवोपसंहरति एवम् इति । स्वस्थः प्राधानिकावेशरहितः । तद्व्यभिचारेण भगवद्-वैमुख्येन । नष्टां स्मृति पूर्वम् एव श्रीगुरुभक्त्या प्राप्ताम् एव पुनः प्राप । अत्रास्यासायुज्यकथनात्सुपर्णश्रुतेर्बलवत्त्वाच् च प्रेमवत्पार्षदत्वप्राप्तिरे व श्रीनारदेन परमपुरुषार्थो\ऽभिमतो ज्ञेयः ॥६४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुनिर् अपि तथैवोपसंहरति—एवम् इति । स्वस्थः प्राधानिकावेश-रहितः सन् तद्-व्यभिचारेण पूर्वम् ईश्वराख्य-हंस-बहिर्मुखतया नष्टां तिरोहितां स्मृतिं जानासि । अपि किं सखायं माम् इति अपि स्मरसि चात्मानम् अविज्ञात-सखम् इत्य् अत्र पूर्वोक्तं सख्यानुसन्धानं पुनर् आप इति । अत्र पुनः-शब्देन स्मृति-शब्देन तद्-विस्मृतेर् नाशादि-खण्डनं विवक्षितम् । किन्तु अनाद्य्-आवृतस्यापि सख्यस्य स्वाभाविकत्वाद् अनादित्वम् इत्य् एव कृत-हान्य्-अकृताभ्यागम-प्रसङ्गात् ॥६४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—एवम् इति । स्वस्थः प्राधानिकावेश-रहितः । तद्-व्यभिचारेण भगवद्-वैमुख्येन नष्टां स्मृतिं पूर्वम् एव श्री-गुरु-भक्त्या प्राप्तम् एव पुनः प्राप । अत्रास्या सायुज्य-कथनात् सुपर्ण-श्रुतेर् बलवत्त्वाच् च प्रेमवत्-पार्षदत्व-प्राप्तिर् एव श्री-नारदेन परम-पुरुषार्थोऽभिमतो ज्ञेयम् ॥६४ ॥
॥ ४.२८.६५ ॥
बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथा-मात्रम् इति बुद्धिं वारयति—बर्हिष्मन्न् इति । पारोक्ष्येण राज-कथा-मिषेण । तत्र हेतुः—यद् यस्मात्, हे बर्हिष्मन् ! प्राचीनबर्हिः ! एतद् राज-कथा-मिषेण आत्म-कथा प्रदर्शिता । यस्माद् देवः श्री-नारायणः परोक्ष-प्रियः । साक्षाद् आत्म-ज्ञान-कथनेन तव चेतसि कथा नायातीति भावः ॥६५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बर्हिष्मन्न् इति । तव कर्म-श्रद्धाक्रान्तत्वात् साक्षात्-कथन-ग्रहणानधिकारित्वम् आह—तत्र पारोक्ष्य-कथने । आत्मानं जीवम् ईश्वरम् अधिकृत्य वर्तत इत्य् अध्यात्मं जीवेश्वर--स्वरूप-विवरणं सर्वस्यास्य प्रसङ्गस्य भगवत्-प्रीति-परत्वम् एव स्पष्टयति--यद् इति । परोक्षत्वेन कयनस्यापीदम् एव तात्पर्यम् इत्य् आह—परोक्ष-प्रिय इति । परोक्ष-प्रिया इव हि देवाः इत्य्-आदि-श्रुतेः ॥६५॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे\ऽष्टाविंशो\ऽध्यायः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्य सर्वस्यापि प्रसङ्गस्य भगवत्-प्रीति-परम् एव स्पष्टयति—यद् इति ॥६५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथ-मात्रम् इदम् इति बुद्धिं मा कृथा इत्य् आह—बर्हिष्मन्न् इति । पारोक्ष्येण राज-कथा-मिषेण । तत्र हेतुः—यद् यस्मात् तवैव त्रैकालिकीयं कथा कथितेति भावः ॥६५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे अष्टाविंशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे पुरञ्जनोपाख्यानेऽष्टाविंशोऽध्यायः ।
॥ ४.२८ ॥
(४.२९)
-
प्रारब्ध-कर्म-क्षये (रा।ते।) ↩︎
-
यौवने इति पाठान्तरम् (रा।ते।) ↩︎
-
शत-वर्ष-स्थायिना। ↩︎
-
जरापि (रा।ते।) ↩︎
-
कुटुम्ब-ममताकुलः (रा।ते। पाठान्तरम्) ↩︎
-
गन्धर्वैर् अहो-रात्रैः । यवनैर् आधिभिश् च । (रा।ते।) ↩︎
-
अध्यवसायो निश्चयः। ↩︎
-
सुखीति चित्सुख इति श्री-जीवः। ↩︎
-
गतिः स्नेहात् इति वा पाठ इति श्रीधरः। ↩︎
-
यवना व्याधयः (रा।ते।) ↩︎
-
स पुरञ्जनः प्राणो वा (रा।ते।) ↩︎
-
न शशाकोषितुं तत्र इति रा।ते। धृत-पाठान्तरम्। ↩︎
-
सोऽहि-राट् इति पाठान्तरं (रा।ते।) ↩︎
-
अत्र भा। ३.३०.१६-पद्यं द्रष्टव्यम्। ↩︎
-
मां विज्ञम् इति चित्सुखः। माम् अज्ञं इति च पाठः (रा।ते।) ↩︎
-
वा परायणा इति चक्रवर्ति-सम्मतः पाठः। ↩︎