२७

अथ सप्तविंशोऽध्यायः

विषयः

पुरञ्जन-पुरे चण्डवेगस्याक्रमणं कालकन्या-चरित्र-वर्णनं च ।

॥ ४.२७.१ ॥

नारद उवाच—

इत्थं पुरञ्जनं सध्र्यग् वशम् आनीय विभ्रमैः ।

पुरञ्जनी महाराज रेमे रमयती पतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-विंशे प्रिया-पुत्राद्य्-आसक्त्या विस्मृतात्मनः ।

काल-कन्याद्य्-उपाख्यानैर् जरा-रोगाद्य् उदीर्यते ॥

तद् एवं जीवस्यानुनयादि-कथा-सौन्दर्येणात्यन्तम् उपाधि-वश्यत्वम् उक्त्वा, तन्-निमित्तां संसार-परम्परां निरूपयितुम् आह—इत्थम् इति । अत्र च प्रतिपदं कथञ्चिद् अध्यात्म-पक्षेऽपि योजयितुं शक्यम् एव । श्री-नारदेन तु जीवस्य स्त्री-पुरुष-वासना-दार्ढ्येन विचित्रा संसृतिर् भवतीत्य् एतावद् एव कथा-तात्पर्यं दर्शितम् ।

क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः ।

देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः ॥ [भा।पु। ४.२९.२९] इति वदता ।

तत्रादौ पुंस्त्वेन संसृतिर् अध्याय-त्रयेणोक्ता । ततश् चैकेनाध्यायेन स्त्रीत्वेन संसृतिं प्रदर्श्येश्वर-प्रसाद-लब्ध-ज्ञानेन मोक्ष इत्य् उक्तम् । ततस् तद् एव यथोपयोगं व्याख्यातम् इति पञ्चाध्याय्यारम्भः प्रतीयते । प्रतिपदम् अध्यात्म-योजना तु दुर्घटा निष्प्रयोजना चेति स्व-प्रौढि-ख्यापनम् अनादृत्य यथोपयोगम् एव व्याख्यास्यामः । सध्र्यक् सम्यक् । विभ्रमैर् विलासैः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना पौत्रस्नुषादिग्रहः । द्वितीयादिना गन्धर्वोपाख्यानादिग्रहः । तृतीयादिना मरणादिग्रहः । तद् एवं तदित्थम् । अनुनयः कुपितप्रसादनम् । आदिना स्वानुकूल्यप्रदर्शनग्रहः । अत्र च पुरंजनोपाख्याने कथंचित्प्रतिभाधिक्यादिना । तत्र श्रीनारदोपदेशकथायां ततो नारदोक्त्यनुरोधाद् एव । स्वप्रौढिप्रख्यापनं निजपाण्डित्याधिक्यद्योतनम् । अत्र विश्वनाथः—तद् एवं धार्मिकस्यापि जीवस्य कदाचिदन्तराये प्राप्ते विविधदुष्कृतदूषितान्तःकरणस्यापि पुनर् लब्धविवेकस्य दानव्रततपःप्रायश्चित्तादिकं कृतवतो\ऽपि मनोमालिन्यानपगमादनुपदमनुतापसहस्रविदीर्णस्य भाग्यवशाद् एव पुनर् अपि सद्बुद्धिप्राप्तिः प्रपञ्चिता । इदानीं पूर्ववद् एव धर्मबुद्धिमतः सदाचारस्य तस्य गार्हस्थ्यम् आह—इत्थम् इति । पक्षे धर्मे मतिं त्यक्त्वा पूर्ववत्कर्मबुद्धावेवासक्तो बभूवेत्य् अर्थः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सद्-बुद्ध्या सहितस्यास्य सुकृतान्य् अपि कुर्वतः ।

सप्तविंशे जरारोगाद् उपाख्यानेन कथ्यते ॥

तद् एवं धार्मिकस्यापि जीवस्य कदाचिद् अन्तराये प्राप्ते विविध-दुष्कृत-दूषितान्तः-करणस्यापि पुनर् लब्ध-विवेकस्य दान-व्रत-तपः-प्रायश्चित्तादिकं कृतवतोऽपि मनो-मालिन्या अपगमाद् अनुपदम् अनुताप-सहस्र-विदीर्णस्य भाग्य-वशाद् एव पुनर् अपि सद्-बुद्धि-प्राप्तिः प्रपञ्चिता । इदानीं पूर्ववद् एव धर्म-बुद्धिमतः सदाचारस्य तस्य गार्हस्थ्यम् आह—इत्थम् इति । सध्र्यक् सम्यक् । विभ्रमैर् विलासैः । पक्षे, अधर्मे मतिं परित्यज्य पूर्ववद् धर्म-बुद्धाव् एवासक्तो बभूवेत्य् अर्थः ॥१॥


॥ ४.२७.२ ॥

स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।

कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतं स्वस्त्य्-अयनं मङ्गलं कुङ्कुम-सिन्दूरादिभिर् यस्यास् ताम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुस्नातेत्यादिना स्वीयसद्बुद्धेः प्रसन्नतामालक्ष्य विगतमनोमालिन्यः कृतार्थो बभूवेत्युक्तम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुस्नात- इत्य्-आदिना स्वीय-सद्-बुद्धेः प्रसन्नताम् आलक्ष्य विगत-मनो-मालिन्यः कृतार्थो बभूवेत्य् उक्तम् ॥२॥


॥ ४.२७.३ ॥

तयोपगूढः परिरब्ध-कन्धरो

रहोऽनुमन्त्रैर् अपकृष्ट-चेतनः ।

न काल-रंहो बुबुधे दुरत्ययं

दिवा निशेति प्रमदा-परिग्रहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपगूढः परिरब्धः । परिरब्धा कन्धरा तस्या येन । रह एकान्ते । अनुमन्त्रैर् अनुकूलैर् गुह्य-भाषणैः । अपकृष्टा चेतना विवेको यस्य । काल-रंह आयुर्-व्ययम् । प्रमदैव परिग्रहो न ज्ञान-साधनं यस्य ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे धर्मकर्मनिर्वाहमन्त्रणाभिरपकृष्टो विलुप्तीकृता चेतना संसारतरणलक्षणा बुद्धिर् यस्य सः । कालस्य रहो वेगं वैराग्याभावान्न बुबुधे । कीदृशमिदं दिवा गतमियं निशा गतेत्येतत्प्रकारकीर्तित्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुमन्त्रैर् अनुकूलैर् गुह्य-भाषणैः । पक्षे, धर्म-कर्म-निर्वाह-मन्त्रणाभिः । अपकृष्टा विलुप्ती-कृता चेतना संसार-तरण-लक्षणा बुद्धिर् यस्य । कालस्य रंहो वेगं वैराग्याभावान् न बुबुधे । कीदृशम् ? इदं दिवा गतं, इयं निशा आगतेति एतत्-प्रकारकम् इत्य् अर्थः ॥३॥


॥ ४.२७.४ ॥

शयान उन्नद्ध-मदो महा-मना

महार्ह-तल्पे महिषी-भुजोपधिः ।

ताम् एव वीरो मनुते परं यतस्

तमो-\ऽभिभूतो न निजं परं च यत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महार्ह-तल्पे उत्कृष्ट-शय्यायां शयानःमहिष्या भुज उपधिर् उपधानम् उच्छीर्षकं यस्य । अविसर्ग-पाठे शयन-क्रिया-विशेषणम् । तां महिषीम् एव परं पुरुषार्थम् अमन्यत, तु यन् निजं रूपं, ब्रह्म तत् । तमसाऽज्ञानेन अभिभूतो यतः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताम् एव व्यवायतो हेतोर्मनुते स्त्रीसङ्गसुखम् एव पुरुषार्थममन्यत । अमनुतेति स्वामिसंमतः पाठः प्रतिभातीति । न तु निजं स्वीयं परञ्च किम् अपि अमनुतागणयद् इत्य् अर्थः । यद् वा, निजमात्मानं ततः परञ्च परमात्मानम् इत्य् अर्थः । अध्यात्मपक्षे व्यवायतो धर्मपत्नीसङ्गतो धर्मासक्त्या धर्मम् एव पुरुषार्थममन्यत न तु मोक्षं यतो न निजं जीव-स्वरूपं नापि परं परमेश्वर-स्वरूपं, धार्मिक इत्युन्नद्धमदः । महामना दानशीलः । महार्हतल्पे पुण्यकर्मणि शयानो मग्नः । महिषीभुजोपधिरविद्योपाधिः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मनुते इत्य् अत्र “अमनुत” इति स्वामि-सम्मतः पाठः । किं च, सर्वत्रादृष्टः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महिष्या भुज एव उपधिर् उपधानं यस्य सः । अविसर्ग-पाठे शयन-क्रिया-विशेषणम् । ताम् एव व्यवायतो हेतोर् मनुते—स्त्री-सङ्ग-सुखम् एव पुरुषार्थम् अमन्यत । “अमनुत” इति च पाठः । न तु निजं परं किम् अपि अमनुत अगणयद् इत्य् अर्थः । तमसाऽज्ञानेन यतोऽभिभूतः

अध्यात्म-पक्षे—व्यवायतो धर्म-पत्नी-सङ्गतो धर्मासक्त्या धर्मम् एव पुरुषार्थम् अमन्यत, न तु मोक्षं, यतो न निजं जीव-स्वरूपं, नापि परं परमेश्वर-स्वरूपम् । धार्मिक इत्य् उन्नद्ध-मदः, महा-मना दान-शीलः । महार्ह-तल्पे पुण्य-कर्मणि शयानो मग्नः । महिषी-भुजोपधिर् अविद्योपाधिः ॥४॥


॥ ४.२७.५ ॥

तयैवं रममाणस्य काम-कश्मल-चेतसः ।

क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजेन्द्रेति । त्वं तु यज्ञानुष्ठानरतत्वादव्यर्थमायुर्नयन्नपि वस्तुविचारशून्ययज्ञकार्यनिरतत्त्वात्क्षपयस्येवेति भावः । नवं वयः परिशुद्धं ज्ञानमानन्द-स्वरूपं व्यतिक्रान्तं गतप्रायम् इति केचित् ॥५॥


न कतमेनापि व्याख्यातम्।


॥ ४.२७.६-७ ॥

तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः ।

शतान्य् एकादश विराड् आयुषोऽर्धम् अथात्यगात् ॥

दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः ।

शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रान् इन्द्रिय-परिणामान् । दुहितॄस् तद् अनन्तरं बुद्धि-वृत्तीः । पुत्र-सङ्ख्या च बाहुल्य-मात्र-विवक्षया । दुहितृ-सङ्ख्या तु पुत्रेभ्यो न्यूनत्वेन गार्हस्थ्य-सौन्दर्यार्थम् एव । विराट् सम्राट् । आयुषोऽर्धम् इत्य्-आद्य् अपि कथा-सौन्दर्यार्थम् एव ॥६॥ पुरञ्जन-कन्यात्वात् पौरञ्जन्यः । हे प्रजा-पते ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रान् विवेक-निर्णय-संशयादीन् । दुहितृर् लज्जोत्कण्ठा-चिन्ताद्याः । आयुषोऽर्धम् इति पञ्चाशद्-वर्ष-पर्यन्तं विषय-भोग-लांपट्यम् इति विवक्षया ॥ पितृ-मातृ-यशस्करीर् इति, तासां शीलौदार्य-गुणोपेतत्वेन पुण्य-क्रिया-हेतुत्वात् । प्रजापते इति तम् एव निर्दिश्योक्तं त्वम् एव तासां प्रजानां पतिर् इति भावः ॥६-७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्याम् इति सार्धकम् ॥६॥ मातृ इत्य् अत्र „भ्रातृ" इति क्वचित् । मूल-पाठस् तु न चित्सुख-सम्मतः । शील- इत्य् अर्धकम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रान् विवेक-निर्णय-संशयादीन् ॥६॥ दुहितॄर् लज्जोत्कण्ठा-चिन्त्याद्याः पुत्र-सङ्ख्या-बाहुल्य-मात्र-विवक्षया, दुहितृ-सङ्ख्या तु पुत्रेभ्यो न्यूनत्वेन गार्हस्थ्य-स्मरण-याथार्थ्यं, विराट् सम्राट् जीवश् च । आयुषोऽर्धम् अत्यागाद् इति पञ्चाशद् वर्ष-पर्यन्तं विषय-भोग-लाम्पट्यम् अधिकम् इति विवक्षया, पितृ-मातृ-यशस्करीर् इति तासां पुण्य-क्रिया-हेतु-रूपत्वात् । पुरञ्जन-कन्यात्वात् ताः पौरञ्जन्य उच्यन्ते इति शेषः ॥७॥


॥ ४.२७.८ ॥

स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् ।

दारैः संयोजयामास दुहितॄः सदृशैर् वरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दारैः परिणामानन्तरं हिताहित-चिन्ताभिः । वरैर् उचित-विषय-भोगैः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हिताहित-चिन्ताभिः यथा सौगन्ध्य-सौरूप्यादौ हित-चिन्ता दौर्गन्ध्य-कौरूप्यादौ चाहित-चिन्तेति । विश्वनाथस् तु—दारैर् मति-धृत्य्-आदिभिर् वरैर् नय-प्रणयादिभिर् इत्य् आह ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स पञ्च- इति । टीकायां हिताहित-चिन्तापि यथा सौगन्ध्य-सौरूप्यादौ हित-चिन्ता दौर्गन्ध्य-कौरूप्यादाव् अहित-चिन्तेति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दारैर् मति-धृत्य्-आदिभिः, वरैर् विनय-प्रणयादिभिः ॥८॥


॥ ४.२७.९ ॥

पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।

यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्राणां पुत्राः कर्माणि । पञ्चालेषु शब्दादि-विषयेषु ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्माणि पुण्याचरणादीनि ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्राणां पुत्राः पुण्याचरणादयः । पञ्चालेषु शब्दादिषु ॥९॥


॥ ४.२७.१० ॥

तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु ।

निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषु पुत्रादिषु, तेषाम् अपि ये रिक्थ-हाराः पुत्राः, तेषु च ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषु विवेकादिषु । तस्य पुरंजनस्य । रिक्थहारेषु अभिमानादिधनहर्तृषु । गृहानुजीविषु प्राणेषु कोशानुजीविषु सहओजआदिषु इति चक्रवर्ती ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्वबध्यत इत्य् अत्र “अन्वरुद्ध्यत” इति क्वचित्, किन्तु मूल-पाठ एव चित्सुख-सम्मतः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषु विवेकादिषु पुत्रेषु तस्य पुरञ्जनस्य रिक्थ-हारेषु अभिमानादि-धन-हर्तृषु गृहानुजीविषु प्राणेषु कोषानुजीविषु सह-ओज-आदिषु ॥१०॥


॥ ४.२७.११ ॥

ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः ।

देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईज इति । पक्षद्वये साम्यं यथा भवानिति । तवैव कथेयं कथ्यते तव दृष्टान्तत्वं तु सङ्गोपनार्थम् एवेति भावः । सन्दर्भस्तु—यथा भवानिति विभक्तिविपरिणामेन सर्वत्र योज्यम् इत्य् आह ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा भवान् इति । विभक्ति-परिणामेनापि सर्वत्र योज्यम् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईज इति पक्ष-द्वये साम्यम् । यथा भवान् इति तवैव कथेयं कथ्यते, तव दृष्टान्तत्वं तु सङ्गोपनार्थम् एवेति भावः ॥११॥


॥ ४.२७.१२ ॥

युक्तेष्व् एवं प्रमत् तस्य कुटुम्बासक्त-चेतसः ।

आससाद स वै कालो योऽप्रियः प्रिय-योषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तेष्व् आत्म-हितेषु कर्मस्व् अनवहितस्य । स वै कालो जरा-समयः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युक्तेषु भक्तिवैराग्यादिषु । प्रिययोषितां कान्ताजनानामप्रियः संभोगप्रातिकूल्यात् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : युक्तेष्व् इति सार्धकम् । योऽप्रिय इत्य् अत्र “यो वर” इति क्वचित् । “प्रिय-योषिताम्” इति चित्सुखः ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं युक्तेषु भक्ति-वैराग्यादिष्व् आत्म-हितेषु प्रमत् तस्य अनवहितस्य । स कालः जरा-समयः । प्रिय-योषितां कान्ता-जनानाम् अप्रियः सम्भोग-प्रातिकूल्यात् ॥१२॥


॥ ४.२७.१३-१४ ॥

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप ।

गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम् ॥

गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः ।

परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चण्ड-वेगः संवत्सरेण अवर्तमानेनोपलक्षितः । गन्धर्वा दिवसाः । गन्धर्व्यो रात्रयः । तादृशीस् तादृश्यः । मैथुन्यो दिवसैर् मिथुनी-भूय स्थिताः । सिताश् चासिताश् च शुक्ल-कृष्ण-पक्षीयाः परिभ्रमणेन सर्वैः कामैः सह विनिर्मितां पुरीम् अपहरन्ति ॥१३-१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपेति । नृपालनेनात्महितं झटिति कुरु समागतो दुः समय इति भावः ॥ तादृश्यो बलवत्यः । अपहरन्ति जन्मारभ्य प्रतिदिनमायुरपहार एव पुर्या अपहार इत्युपचरितः ॥१३-१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गन्धर्वा इति सार्धकम् । “तादृशी” इत्य् एव पाठः ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, चण्ड-वेगः संवत्सर इति ख्यातो यो गन्धर्वाधिपतिस् तस्य गन्धर्वा दिवसाः पुरीं विलुम्पन्तीत्य् अन्वयः । गन्धर्व्यो रात्रयः । तावतीस् तावत्यः । मैथुन्यो दिवसैर् मिथुनी-भूय स्थिताः । सिताश् चासिताश् च शुक्ल-कृष्ण-पक्षीयाः । परिवृत्त्या परिभ्रमणेन पुरीम् अपहरन्तीति जन्मारभ्य प्रतिदिनम् आयुर् अपहार एव पुर्या अपहार उपचरितः ॥१३-१४॥


॥ ४.२७.१५ ॥

ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा ।

हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजागरः प्राणः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदा पञ्चाशद्वर्षानन्तरं पुरं देहम् अपि हर्तुमारेभिरे तदा प्रजागरः प्राण एव प्रत्यषेधत मा पुरम् एव मयि तिष्ठति लुप्यतेति साटोपमाहेति । पञ्चाशद्वर्षानन्तरम् अपि द्वित्रिवर्षपर्यन्तं बलं नापयातीति भावः प्राणाग्नय एवैतस्मिन्पुरे जाग्रति इति श्रुतेः प्राणबलाद् एव व्यवहारे प्रवर्तत इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२७.१६ ॥

स सप्तभिः शतैर् एको विंशत्या च शतं समाः ।

पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विंशत्या च सह ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युद्धं तु प्रजागरस्य तैः सार्द्धं जन्मारभ्यैवाभूद् इत्य् आह सप्तभिः शतैर्विंशके । न चेति वर्षगतानां दिनानां रात्रीणां च तावत्येव सङ्ख्या दर्शिता । शतं समा इति । यावत्परमायुरित्य् अर्थः । शतार्युर्वै पुरुषः इति श्रुतेः ॥१६॥


**जीव-गोस्वामी (क्रम-सन्दर्भः) : “**विंशकेन” इत्य् अत्र “विंशत्या” चेति टीका, “विंशद्भिर्” इति चित्सुखः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युद्धस् तु प्रजागरस्य तैः सार्धं जन्मारभ्यैवाभूद् इत्य् आह—सप्तभिः । शतैर् विंशकेन चेति वर्ष-गतानां दिनानां रात्रीणां च तावत्य् एव सङ्ख्या दर्शिता । शतं समा यावत् परमायुर् इत्य् अर्थः ॥१५॥


॥ ४.२७.१७ ॥

क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा ।

चिन्तां परां जगामार्तः स-राष्ट्र-पुर-बान्धवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-सम्बन्धे स्व-सम्बन्धिनि प्राणे ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिपञ्चाशद् वर्ष-पर्यन्तं प्रजागरस्य प्रायः पराजयो नाभूत् । तद्-अनन्तरं तु तस्योत्तरोत्तरं पराजय एवेत्य् आह—क्षीयमाणे स्व-सम्बन्धे स्व-सम्बन्धिनि प्राणे आर्तः पुरञ्जयः ॥१७॥


॥ ४.२७.१८ ॥

स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः ।

उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स एव मधु-भुक् क्षुद्र-सुख-भोक्ता । स्व-पार्षदैर् इन्द्रियैः । नाविदन् नालोचितवान् ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिपञ्चाशद्वर्षपर्यन्तं प्रजागरस्य प्रायः प्रजागरो नाभूद् इति तदनन्तरं तूत्तरोत्तरं पराजय एवेत्याह—क्षीयमाण इति । बहुभिः कालावयवैः ॥१७-१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधु-भुक् क्षुद्र-सुख-भोक्ता स्व-पार्षदैर् इन्द्रियैः ॥१८॥


॥ ४.२७.१९ ॥

कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती ।

पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालस्य दुहिता जरास्ति, तां न प्रत्यनन्दत नैच्छत् । बर्हिष्मन् ! हे प्राचीनबर्हिः ! ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जराप्रवेशमुपाख्यानेनाह—कालाज्जरा जायत इति कालस्य दुहितेति । नामविशेषाश्रवणात्काचिद् इति । बर्हिष्मन्न् इति । यज्ञादिकर्मकर्तुस्तवापि सा समीपमागता न तु सा कमप्ययं याज्ययं योगी सत्कर्मकर्तायं मया परिहार्य एवेति मनुते इति भावः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकटम् एव जरा-प्रवेशम् उपाख्यानेनाह—कालस्येति । हे बहिर्ष्मन्, कोऽपि न प्रत्यनन्दत् नैच्छत् ॥१९॥


॥ ४.२७.२० ॥

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।

या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूरवे ययाति-पुत्राय । तेन वृता सती वरम् अदात् । ययातिः शुक्र-शापाज् जरां प्राप्य पुत्रान् उवाच “इमां गृह्णीत” इति, तां ज्येष्ठाश् चत्वारो न जगृहुः, पूरुस् तु जगृहे । ततो ययातिस् तस्मै राज्यं ददाव् इति जरैवादाद् इत्य् उक्तम् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनः शरीरस्य दौर्भाग्येण सौन्दर्यनाशकत्वेन दुर्गतो भगो यया सा दुर्भगेति प्रसिद्धा ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूरवे ययाति-पुत्राय । तेन वृता सती वरम् अदाद् इति । ययातिस् तस्मै स्वीय-जरा-ग्राहिणे तुष्टो राज्यम् अदाद् इति जरैवादाद् इत्य् उक्तम् ॥२०॥


॥ ४.२७.२१ ॥

कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् ।

वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सा जरा । बृहद्-व्रतं नैष्ठिकम् ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महीं गतं प्राकृतमनुष्यभ्रान्त्येत्य् अर्थः । बृहद्व्रतं नैष्ठिकब्रह्मचारिणं संन्यासिनं वा महाप्रभाववन्तं वा सा कम् अपि न त्यजतीत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महीं गतम् इति प्राकृत-मनुष्य-भ्रान्त्येत्य् अर्थः । बृहद्व्रतं नैष्ठिक-ब्रह्मचारिणं सन्न्यासिनं वा महा-प्रभाववन्तं वा सा कम् अपि न त्यजतीत्य् अर्थः ॥२१॥


॥ ४.२७.२२ ॥

मयि संरभ्य विपुलम् अदाच् छापं सुदुःसहम् ।

स्थातुम् अर्हसि नैकत्र मद्-याच्ञा-विमुखो मुने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्याख्यातवति मयि संरभ्य क्रोधं कृत्वा, “नैकत्र स्थातुम् अर्हसि” इति शापम् अदात् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे मद्देहस्य कर्मारब्धत्वाभावात् षडूर्मिराहित्येन तस्याः प्रवेशासामर्थ्यम् एव मत्प्रत्याख्यानत्वेन कृपालुत्वेन सर्वत्र मम गमनम् एव तस्याः शापफलत्वेनोत्प्रेक्षितम् इति ज्ञेयम् । मुने इति । स्त्रीणां कामार्तिं जानतापि मुनित्वेन परतापहरणसमर्थेन त्वया नाहं त्यक्तुमुचितेति भावः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि प्रत्याख्यातवति संरभ्य क्रोधं कृत्वा । पक्षे, मद्-देहस्य कर्मारब्धत्वाभावात् षड्-ऊर्मि-राहित्येन तस्याः प्रवेशासामर्थ्यम् एव, मत्-प्रत्याख्यानत्वेन कृपालुत्वेन सर्वत्र मम गमनम् एव, तस्याः शाप-फलत्वेनोत्प्रेक्षितम् इदं ज्ञेयम् ॥२२॥


॥ ४.२७.२३ ॥

ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् ।

मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आधयो व्याधयश् च यवनाः, तेषाम् ईश्वरं भय-नामानं वव्रे ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मत्प्रत्याख्यानानन्तरम् । मयोपदिष्टम् इति । लोकानां भयम् एव जरया जीर्णं भवत्व् इति स्वस्य दयालुत्वं सूचितम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयोपदिष्टम् इति “लोकानां भयम् एव जरया जीर्णं भवतु” इति स्वस्य दयालुत्वं सूचितम् ॥२३॥


॥ ४.२७.२४ ॥

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।

सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर, त्वाम् ईप्सितं पतिं वृणेन रिष्यति न नश्यति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे भूतानां भगवद्-भक्तानां सङ्कल्पो न रिष्यति । लोकानां भयं जीर्णं भवत्व् इति नारदेन यः सङ्कल्पः कृतः सो\ऽन्यथा भवितुं नार्हतीति त्वं मे पतिर्भव यथा त्वामहं भुंक्षे । भूतशब्देन भगवद्-भक्तो\ऽप्युच्यते । यदुक्तं—भूतानि भव्यानि जनार्दनस्य इति । सन्दर्भस्तु—यतो भूतानामन्यैर् अपि भूतैस्त्वयि कृतः सङ्कल्पो मनोरथो न रिष्यति नष्टुं नार्हति मम तु त्वद्-एकशरणायाः सुतरां नार्हतीत्यर्थम् आह । भयस्य यद्बिभेति भयं स्वयम् इत्यादौ कालवाचकत्वोक्तेस्त्वयि काले कृतः भूतानां सङ्कल्पो न नश्यति किं तु फलत्येव अकाले कृतो नश्यति सर्वं कालेन फलति इति शिष्टोक्तेस्त्वम् एव सर्वफलदोसीत्यतस्त्वाम् एवाहं वृण इति भावः । हे वीरेति । विशिष्टानपि त्वमरीयसि कंपयसीति सर्वोत्कृष्टत्वेनापि त्वम् एव योग्यो वर इति भावः । यद्रा वीरायाः सर्वदलनसमर्थाया ममेप्सितं पतिम् इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यतो भूतानाम् अन्यैर् अपि भूतैस् त्वयि कृतः सङ्कल्पो मनोरथो न रिष्यति नष्टुं नार्हति । मम तु त्वद्-एक-परायणायाः सुतरां नार्हतीत्य् अर्थः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यवनानाम् आधि-व्याधीनां न रिष्यति न नश्यति । पक्षे—भूतानां भगवद्-भक्तानां सङ्कल्पो न रिष्यति “लोकानां भयं जीर्णं भवतु” इति नारदेन यः सङ्कल्पः कृतः, सोऽन्यथा भवितुं नार्हतीति “त्वं मे गतिर् भव यथा त्वाम् अहं भुञ्जे ।” भूत-शब्देन भगवद्-भक्तोऽप्य् उच्यते । यद् उक्तं—भूतानि भव्यानि जनार्दनस्य [भा।पु। ३.५.४] इति ॥२४॥


॥ ४.२७.२५ ॥

द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ ।

यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः ।

लोकार्थं शास्त्रहा याति निर् अयं त्व् इतरः सुरान् ॥ इति पाद्मे ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकतो वेदतश् च यद् देयत्वेन ग्राह्यत्वेन चोपनतं प्राप्तं तद् याच्यमानं यो न ददाति यश् च दीयमानं नेच्छति न गृह्णाति इमौ द्वौ कर्म-भूताव् अनुशोचन्ति सन्तः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बालावज्ञौ असन्नवग्रहो हठो ययोस्तावसदवग्रहौ पदविभागे वृष्ट्य्-अभावे हठे\ऽवग्रहो ग्रहः इति धरणिः । नन्वनेन लोकविद्विष्टं चेत् तर्हि शास्त्रीयम् अपि न कर्त्तव्यमित्यायातं समत्वेन सहोक्तेः तथा च—

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ॥

इति श्रीगीतोक्तिर्विस्रस्तेति चेद् ग्रन्थान्तरसंमत्या समादधाति ।

अलौकिकं च शास्त्रीयं कर्त्तव्यं लौकिकं कुतः ।

लोकार्थे शास्त्रहा याति निर् अयं त्वितरः सुरान् ॥ इति ।

तस्माच्छास्त्रानुसारि लौकिकं कर्त्तव्यं नेतरद् इति तात्पर्यम् । इतरः शास्त्रानुकूललौकिकं कुर्वाणः । सुरान्याति स्वर्गादिपुरुषार्थमाप्नोतीति तीर्थः । तथा च कन्याहं स्वयंवराकस्मात् त्वद्-गृहमागता गृहस्थेन त्वया ग्राह्यैवेति भावः । अन्यथा य उद्यन्तमनादृत्य इत्य्-आदिदोषश्रुतेस्तव शोभनं न भावीति । पक्षे लोकेषु कृपालुना नारदेन यदभिलषितं भयं जीर्णं भवत्व् इति तल्लोकशास्त्रोचितम् एवातस्त्वं मा गृहाणेत्य् अर्थः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालाव् अज्ञौ सन्तोऽनुशोचन्ति । लोक-शास्त्रयोर् उपनतम् उचितं वस्तु देयं, ग्राह्यं न गृह्णातीति । तेन कन्याहं स्वयंवरा अकस्मात् त्वद्-गृहम् आगत्य गृहस्थेन त्वया ग्राह्यैवेति भावः । पक्षे, लोकेषु कृपालुना नारदेन यद् अभिलषितं भयं जीर्णं भवत्व् इति तल्-लोक-शास्त्रोचितम् एवातस् त्वं मां गृहाणेत्य् अर्थः ॥२५॥


॥ ४.२७.२६ ॥

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।

एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषेण कर्तव्यो धर्मः पौरुषः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मादिदं मद्ग्रहणं लोकशास्त्रसिद्धमथो अतः सङ्क्षिप्य स्वकार् यस्य कर्तव्यताम् आह—एतावानिति । पक्षे स्वबलं प्रकाश्यापि त्वया जरां न गृह्णामीति वक्तुमशक्यं नारदोक्तिबलादहं त्वां गिलन्ती संहरिष्याम्येवेति स्वगतं वदन्ती बहिर्वक्रोक्त्या सोत्प्रासम् आह—अथो इति । भद्रेति संबुद्धिरभद्रस्यापि न विरुद्धा स्वसमं सर्वो हि भद्रं मनुते इति भावः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पौरुषः पुरुषेण निर्वृत्तः । पक्षे, स्व-बलं प्रकाश्यापि त्वया जरां न गृह्णामीति वक्तुम् अशक्यं नारदोक्ति-बलात् त्वाम् अहं लगन्ती संहरिष्याम्य् एवेति स्वगतं वदन्ती बहिर् वक्रोक्त्या सोत्प्रासम् आह—अथो इति ॥२६॥


॥ ४.२७.२७ ॥

काल-कन्योदित-वचो निशम्य यवनेश्वरः ।

चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-गुह्यं मरणम् । तद् धे प्राणिनां वैराग्यानुदयाय देवैर् गो\ऽप्य् अते ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कालकन्यां देवस्य परमेश्वरस्य गुह्यं रहस्यं संसारचक्रप्रवर्त्तनं चिकीर्षुः । सस्मितम् इति । त्वद्-वचनमिदमप्रत्याख्येयम् इति स्मितेन ज्ञापयन्न् इत्य् अर्थः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवस्य परमेश्वरस्य गुह्यं रहस्यं संसार-चक्र-प्रवर्तनं चिकीर्षुः । स-स्मितम् इति त्वद्-वचनम् इदम् अप्रत्याख्येयम् इति स्मितेन ज्ञापयन्न् इत्य् अर्थः ॥२७॥


॥ ४.२७.२८ ॥

मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना ।

नाभिनन्दति लोकोऽयं त्वाम् अभद्राम् असम्मताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुभ्यं तव । आत्म-समाधिना ज्ञान-दृष्ट्या । याच्यमानोऽयं लोकस् त्वां नेच्छति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, तुभ्यं त्वां भोजयितुम् इत्य् अर्थः । अभद्रामभद्राकाराम्—

गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर्नश्यति वर्द्धते बधिरता वक्त्रं च लालायते ।

वाक्यं नो ब्रुयते च बान्धवजना भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रो\ऽप्य् अमित्रायते ॥

इति भर्तृहर्युक्तेः । अत एवासंमतामननुमताम् । इत्य् अर्थ इति । स्त्रीणां बहुपतित्वमभीप्सितम् एवेति भावः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् इत्य् अर्धकम् । याहीत्य् अर्धकम् । प्रजा-नाशम् इत्य् अत्र प्रज्वारस् त्वाम् इति चित्सुखः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुभ्यं त्वां भोजयितुम् इत्य् अर्थः । आत्म-समाधिना मनसो भावनया अयं भूर्-लोकस्थो लोकः त्वां नेच्छति ॥२८॥


॥ ४.२७.२९ ॥

त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् ।

या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽव्यक्त-गतिः कुतः प्राप्ता ? इत्य् अलक्षित-गतिः सती लोकम् आक्रम्य भुङ्क्ष्व । एवं सर्वोऽपि लोकस् तव पतिः स्याद् इत्य् अर्थः । न चैवं त्वया शङ्कनीयं प्रति-कूलां मां लोको हनिष्यतीति । यस्मात् त्वम् एव प्रजा-नाशं करिष्यसीत्य् आह—या हीति । या मदीया यवन-पृतना तया युक्ता ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजानाशं प्रजानां त्वया भुक्तानां नाशं प्रणेष्यसि त्वं करिष्यसि, कः पुनस् त्वां हन्तुं प्रभवेद् इति भावः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् इत्य् अर्धकम् । याहि इत्य् अर्धकम् । प्रजा-नाशम् इत्य् अत्र “प्रज्वारस् त्वाम्” इति चित्सुखः ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् त्वम् अव्यक्त-गतिः कुतः प्राप्ता ? इत्य् अलक्षित-गतिः सती लोकम् आक्रम्य बलात्कारेण सर्व एव लोकस् तव पतिः स्याद् इत्य् अर्थः । प्रतिकूलां मां लोको हनिष्यतीति बिभेषि चेत् । मत्-पृतना यवन-सेना, तय युक्ता सती या हीति प्रजानां त्वया भुक्तानां नाशं त्वं प्रणेष्यसि, त्वां हन्तुं पुनः कः प्रभवेद् इति भावः ॥२९॥


॥ ४.२७.३० ॥

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।

चराम्य् उभाभ्यां लोकेऽस्मिन्न् अव्यक्तो भीम-सैनिकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रज्वार इति । मारको वैष्णवो ज्वरः, माहेश्वरस्य व्याध्य्-अन्तः-पातित्वात् । भूमा घोराः सैनिका यस्य ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ युक्त्यन्तरेण तदभिलषितम् एवाह—किं चेति भगिनीति । मम भगिनी कापि नास्तीति त्वम् एव भगिनी भव । ननु नारदोक्तं वत्रे नाम्ना भयं पतिम् इत्य् एवंरूपमन्यथा भवितुं नार्हतीति त्वं मे पतिरे व भवेति । सत्यम् । अधर्मवंशोद्भवानामस्माकं भगिन्यपि भार्या स्याद् अतस्तव भ्राताप्यहं पतिस्तस्मान्नारदोक्तम् अपि प्रमाणीकरणीयं भगवद्-भक्तानां निकटमहं न यामीति माम् अपि निर्भरं भुक्त्वा संहर नारदं यथा पतिं नाकृथास्तथान्यम् अपि भगवद्-भक्तं त्वम् अपि पतिं न कुरुष्व । अत एव मयोक्तं त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् इति भक्तानां कर्मविनिर्मितत्वाभावात्ते तव पतयो न भवन्तीति तेषु तेष्वहम् एव पतिर् इति नारदोक्तम् अपि सुसङ्गतमभूद् इति ॥३०॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे सप्तविंशो\ऽध्यायः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रज्वार इतिमारको वैष्णव-ज्वरः माहेश्वरस्य तु व्याध्य्-अन्तः-पातित्वात्, मम भगिनी कापि नास्तीति त्वम् एव भगिनी भव । ननु नारदोक्तम् अन्यथा भवितुं नार्हतीति त्वं मे पतिर् एव भवेति सत्यम् । अधर्म-वंशोद्भवानाम् अस्माकं भगिन्य् अपि भार्या स्याद् अतस् तव भ्राताप्य् अहं पतिस् तस्मान् नारदोक्तम् अपि प्रमाणीकरणीयं भगवद्-भक्तानां निकटम् अहं यामि चेत् माम् अपि निर्भरं भुक्त्वा संहर । नारदं यथा पतिं नाकृथास् तथान्यम् अपि भगवद्-भक्तं त्वम् अपि पतिं न कुरुष्व । अत एव मयोक्तं त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् इति । भक्तानां कर्म-विनिर्मितत्वाभावात् ते तव पतयो न भवन्तीति तेषु तेष्व् अहम् एव ते पतिर् इति नारदोक्तम् अपि सुसङ्गतम् अभूद् इति ॥३०॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्थे सप्तविंशोऽत्र सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः ।

॥ ४.२७ ॥


(४.२८)