षड्विंशोऽध्यायः
विषयः
पुरञ्जनस्य मृगया-वर्णनं तत्-प्रियायाः प्रणय-कोपश् च ।
॥ ४.२६.१ ॥
नारद उवाच—
स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् ।
द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षड्-विंशे मृगयाव्याजात् स्वप्न-जागरणोक्तितः ।
सद्-बुद्धि-त्याग-योगाभ्यां संसृतिः सा प्रपञ्च्यते ॥
तद् एवम् आत्मन उपाधि-कृतां सुषुप्तावस्थां जाग्रद्-अवस्थां चोक्त्वेदानीं स्वप्नावस्थाम् आह—स एकदेति दशभिः । महा-निष्वासो धनुः कर्तृत्व-भोक्तृत्वाद्य्-अभिनिवेशो यस्य स रथम् अरुह्य पञ्च-प्रस्थं वनम् अगाद् इति तृतीयेनान्वयः । रथं तदानीम् एव विधृतं स्वप्न-देहम्, जाग्रद्-देहस्य शत-सम्वत्सरोपभोग्य-पुरत्वेनोक्तत्वात् । पञ्च ज्ञानेन्द्रियाण्य् अश्वा यस्य । आशुगं शीघ्र-गतिम् । द्वे अहन्ताम् अमते ईषे दण्डिके यस्य । द्वे पुण्य-पापे चक्रे यस्य । एकं प्रधानम् अक्षो यस्य । त्रयो गुणो वेणवो ध्वजा यस्य । पञ्च प्राणा बन्धु-राणि बन्धनानि यस्य ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा प्रसिद्धा । धार्मिकस्य विवेकिनो\ऽपि जीवस्य कदाचिद् दैववशात्तामसभावोद्गमेनाविवेकतो निषिद्धविषयासक्तिः स्याद् इति दर्शयन्विषयलौल्यातिरेकार्थम् एव देहं रथ-रूपेण वर्णयति स इति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स एकदेति त्रिकम् । टीकायाम् एका बुद्धिर् अविवेकवती । पञ्च-विषया हत-मृग-स्थानीयाः । पूर्वत्र शब्दादयो वासना-मय-विषयाः । अत्र तु तद्-वासना इति भेदः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
धार्मिकस्यापि जीवस्य दैवात् तामस-भावतः ।
षड्-विंशे सद्-धियस् त्यागः पुनः प्राप्तिश् च वर्ण्यते ॥
धार्मिकस्य विवेकिनोऽपि जीवस्य कदाचिद् दैव-वशात् तामस-भावोद्गमेनाविवेकतो निषिद्ध-विषयासक्तिः स्याद् इति दर्शयन् विषय-लौल्यातिरेकार्थम् एव देहं रथ-रूपत्वेन वर्णयति—स एवैकस्मिन् समये रथम् आरुह्य पञ्च-ग्रन्थं वनम् अगात् इति तृतीयेनान्वयः । महा-निष्वासो धनुः कर्तृत्व-भोक्तृत्वाभिनिवेशो यस्य सः । पञ्च-ज्ञानेन्द्रियाण्य् अश्वा यस्य, आशुगं शीघ्र-गतिषु द्वे अहन्ता-ममते ईषे दण्डिके यस्य, द्वे पुण्य-पापे चक्रे यस्य, एकं प्रधानम् अक्षो यस्य, त्रयो गुणा वेणवो ध्वजा यस्य, पञ्च प्राणा बन्धुराणि निबन्धनानि यस्य, एकं मनो रश्मिः प्रग्रहो यस्य सः । एका बुद्धिर् दम्नः सूतो यस्य तं च । एकं हृदयं नीडं रथिन उपवेश-स्थानं यत्र, द्वौ श्लोक-मोहौ कूवरौ युग-बन्धन-स्थानं यस्य, पञ्च इन्द्रिय-व्यापाराः चरणारविन्दादयः, प्रहरणान्य् अस्त्राण्य् यस्य । सप्त-धातवो वरूथा रथ-रक्षार्थं चर्माद्य्-आवरणानि यस्य।
पञ्च-विक्रमं कथा-पक्षे—विस्तृत-विक्रमं, पचि विस्तरे । अध्यात्म-पक्षे—पञ्च कर्मेन्द्रियाणि विक्रमा गमनानि यस्य, हैमोपस्करं स्वर्ण-मय-परिच्छदं, अध्यात्म-पक्षे—हैम हिम-सम्बन्धिन उपस्करा अतिजाड्याद् अस्फूर्तय परिच्छदा यस्य । स्वर्ण-कर्मा रजो-गुण-कवचः अक्षयेषुधिः अनन्त-वासनः । एकादश चमूनाथाः सेनान्यो यस्य सः । पक्षे—एकादशो मनो-रूपश् चमू-पतिर् यस्य सः । वासना-हेतोर् मनसः प्रग्रहत्वं सङ्कल्प-विकल्पात्मकस्य मनसो बृहद्-बलत्वेन वक्ष्यमाणस्य चमू-नाथत्वम् इति विभागः । पञ्च-ग्रन्थं पञ्च-प्रस्थ-संज्ञम् । पक्षे, पञ्च-शब्दादि-मद्-वसुतुनि प्रस्थाः सानवो यत्र तत् ॥१-३॥
॥ ४.२६.२ ॥
एक-रश्म्य् एक-दमनम् एक-नीडं द्वि-कूबरम् ।
पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकं मनो रश्मिः प्रग्रहो यस्य, एका बुद्धिर् दमनः सूतो यस्य तं च तं च । एकं हृदयं नीडं रथिन उपवेश-स्थाणं यस्मिन् । द्वौ शोक-मोहौ कूबरौ युग-बन्धन-स्थानं यस्य । पञ्च शब्दादयो विषयाः प्रह्रियन्ते प्रक्षिप्यन्ते यस्मिन् । अस्य व्याख्यानं भविष्यति पञ्चेन्द्रियार्थ-प्रक्षेप इति । सप्त धातवो वरूथा रक्षार्थं चर्माद्यावरणानि यस्य । पञ्च कर्मेन्द्रियाणि विक्रमा गति-प्रकारा यस्य
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथापक्षे पञ्चविक्रमं विस्तृतविक्रमं पचि-विस्तारे ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथम-श्लोकस्यटीका द्रष्टव्या।
॥ ४.२६.३ ॥
हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः ।
एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हैमोपस्करं सौवर्णाभरणम् । स्वर्ण-वर्मा, वर्म कवचम्, रजो-गुणावृतः । अक्षयेषु-धिः, इषु-धिर् निषङ्गः, अनन्त-वासनाहङ्कारोपाधिः । एकादशो मनो-रूपश् चमू-नाथः सेनापतिर् यस्य । वासना-मयस्य मनसः प्रग्-रहत्वं सङ्कल्प-विकल्पात्मकस्य बृहद्-बलत्वेन वक्ष्यमाणस्य चमू-नाथत्वम् इति विभागः । पञ्च शब्दादयो विषयाः प्रस्थाः सानवो यस्मिंस् तद् वनं भजनीयं देशम् अगात् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्यात्मपक्षे हैमा हिमसम्बन्धिन उपस्करा अतिजाड्यादस्फूर्तय एव परिच्छदा यस्य तम् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथम-श्लोकस्यटीका द्रष्टव्या।
॥ ४.२६.४ ॥
चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः ।
विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्ता गृहीता इषवो रागादि-रूपाः, कार्मुकं च भोगाद्य्-अभिनिवेश-रूपं येन । जायां विवेकवतीं बुद्धिं विहाय । अतद्-अर्हां त्यागान् अर्हाम् । त्यागे हेतुः, मृग्यन्त इति मृगा विषयास् तेषु व्यसनं भोगासक्तिस् तेन लालसाऽतिस्पृहा यस्य ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पञ्चप्रस्थवने मृगयां परदारगमनादिपापम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृगयां पर-दार-गमनादि-पापम् । इषवो राग-द्वेषादयः । कार्मुकं भोगाभिनिवेश-रूपम् । जायां धर्म-शीलां बुद्धिम् ॥४॥
॥ ४.२६.५ ॥
आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः ।
न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बाणै रागादिभिः । वनेषु भजनीय-देशेषु । वन-गोचरान् भजनीय-विषयान् । न्यहनत् आत्म-सात्-कृतवान् । कथा-पक्षे तु स्पष्टम् एव ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घोरात्मा भयङ्करमूर्तिः । निरनुग्रहो निर्दयः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यहनन्न् इति बाणादि-करणक-हिंसादि-पापं कृतवान् इत्य् अर्थः ॥५॥
॥ ४.२६.६ ॥
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।
यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अलुब्धो लोकोपकारार्थं घ्नान्नात्मार्थाद् अधिकम् अपि हन्यात् ॥६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् आसुरीं वृत्तिम् आश्रित्येति किम् इति मृगया निन्द्यते । कथा-पक्षे, तावद् राज्ञो विहितैव सा । अध्यात्म-पक्षेऽपि जीवस्य विषय-भोगो विहित एवेत्य् आशङ्क्याह—तीर्थेष्व् इति त्रिभिः । अयं भावः, न हि मृगया विधीयते राग-प्राप्तत्वात्, किन्तु नियम्यते प्रवृत्तिः सङ्कोच्यते । नियमम् एव षड्-विधं दर्शयति । यद्य् अलम् अत्यर्थं लुब्धो रागी सन् हन्यात्, तर्हि तीर्थेषु श्राद्धादिष्व् एव । तत्रापि श्रुति-दृष्टेषु प्रख्यातेष्व् एव, न नित्य-श्राद्धादिषु । तत्रापि राजैव मेध्यान् एव वन एव यावद् उपयोगम् एवेति । एवं जीवस्य विषय-सेवापि यावद् उपयोगं न यथेष्टम् इति नियम एवेत्य् अर्थः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । अत्राशयं प्रकाशयति—अयं भाव इति । आदिना यागादिग्रहः । तत्रापि श्राद्धादिष्वपि । तत्रापि प्रख्यातेषु महालयादिष्वपि । इत्य् अर्थ इति । नियमं द्वारीकृत्य परिसङ्ख्यैवेयम् इति भातीति भावः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते इति श्रुतेः । मृगया हि केवलं दुष्टनाशजन्यप्रजारक्षार्थं शस्त्राभ्यासदार्ढ्यैव विहिता, तत्रापि विहितयागाद्यवशिष्टमांसाशनमतिरागिणो\ऽभ्यनुज्ञामात्रेण तन्निवृत्तावेव तात्पर्यं, तादृशयागस्य श्रीनारदेन घोरत्वेनोक्तत्वात् क्रतुभिर्घोरैः पशुमारकैः इति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् कथा-पक्षे—राज्ञो मृगया विहितैव । आध्यात्मैव-पक्षे, जीवस्य भोक्तृत्वाद् विषय-भोग उचित एवेति । किम् इति निन्द्यते ? इत्य् अत आह—तीर्थेष्व् इति त्रिभिः । अयं भावः—न हि मृगया विधीयते, राग-प्राप्तत्वात्, किन्तु नियम्यते प्रवृत्तिः सङ्कोच्यते । नियमम् एव षड्-विधं दर्शयति—यद्य् अलम् अत्यर्थं लुब्धो रागी सन् हन्यात्, तर्हि तीर्थेषु श्राद्धादिष्व् एव । तत्रापि श्रुति-दृष्टेषु प्रख्यातेष्व् एव, न नित्य-श्राद्धादिषु । तत्रापि राजैव मेध्यान् एव वन एव यावद् उपयोगम् एवेति । एवं जीवस्य विषय-सेवापि यावद् उपयोगम् एव न यथेष्टम् इत्य् अभ्यनुज्ञा-रूपो नियम एवेत्य् अर्थः ॥६॥
॥ ४.२६.७ ॥
य एवं कर्म नियतं विद्वान् कुर्वीत मानवः ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
उपकारः सत्यं येन तत् कृत्वा नैव दूष्यति ।
अतीव निन्दितम् अपि बहु-हिंसा-युग् एव वा ।
अथवा ज्ञानिनः कर्म न दुष्टम् अपि लिप्यते ॥ इति अध्यात्मे ॥७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो नावश्यकत्वम् इत्य् आह—य इति । एवं नियतं कर्म विद्वान् । तेनेत्य् उप-लक्षणम् । तेनान्येन वा कर्मणैवम् अनुष्ठितेन यज् ज्ञानं भवति तेन ज्ञानेन हेतुना सोऽनुष्ठाता न लिप्यते ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स तेन कर्मणा न लिप्यते ॥ ज्ञानेनेति तत्-कर्म-जन्येन ज्ञानेन हेत्व् अनेनेत्य् अर्थः ॥७॥
॥ ४.२६.८ ॥
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यथा नियमोल्लङ्घनेनान्तः-करण-शुद्ध्य्-अभावात् । कर्तृत्वाभिमानम् आरूढः कर्मभिर् अनुबध्यते, ततश् च गुण-प्रवाहे पतितोऽधो व्रजति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः परिसङ्ख्याविधित्वात् । तेन मृगयादिनान्येन ऋतुकालस्त्रीसङ्गादिरूपादिना ज्ञानेन हेतुना तत्कर्मजन्येन ज्ञानेन हेतुनेत्य् अर्थः । तथा चाध्यात्मपक्षे\ऽपि निषिद्धेतरविषयभोग एव जीवस्य विहित इत्य् अर्थः ॥७-८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यथा नियमोल्लङ्घनेन अन्तः-करण-शुद्ध्य्-अभावात् । कर्तृत्वाभिमानम् आरूढः कर्मभिर् अनुबध्यते, ततश् च गुण-प्रवाहे पतितोऽधो व्रजति । तेनाध्यात्म-पक्षेऽपि निषिद्धेतर-विषय-भोग एव जीवस्योक्त इत्य् अर्थः ॥८॥
॥ ४.२६.९ ॥
तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः ।
विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रासङ्गिकं परिसमाप्य पुनर् मृगयाम् एवानुवर्णयति—तत्रेति । चित्रा वाजाः पक्षा येषां तैः । विप्लवो नाशः करुणात्मनां कृपालूनां दुःसहः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा । शिलीमुखैर्बाणैः अलिबाणौ शिलीमुखौ इति कोशात् । पक्षे विविधदोषयुक्तैरिन्द्रियैः विप्लवो विविधहिंसादिपापम् । करुणात्मनामस्मादृशाम् । अत एव त्वम् एव प्रबोध्यस इति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रासङ्गिकं परिसमाप्य प्रकृतम् आह—तत्रेति । विचित्र-पक्षैः शरैर् विप्लवो नाशः । पक्षे—विविध-दोष-युक्तैर् इन्द्रियैर् विविध-हिंसादि-पापं करुणात्मनां कृपालूनाम् अस्मादृशां दुःसहः । अत एव त्वम् एव प्रबोध्यस इति भावः ॥९॥
॥ ४.२६.१० ॥
शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् ।
मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शशान् विच्छिद्य विच्छिद्य प्राप्तान् शश-प्लुतगतौ । वराहान् श्रेष्टनरैः सर्वतस्त्यक्तान् ओहाक्-त्यागे आपूर्वः । महिषान् प्रतिष्ठाप्रदान् महीं सन्वन्तीति व्युत्पत्तेः षणु-दाने तानादिकः । गवयान् गतवयसो जरसं गतान् गतस्य गादेशे वयसो डप्रत्यये टिलोपे च रूपसिद्धेः । रुरून् रोदनहेतून् प्रियं त्वां रोत्स्यति इति श्रुतेः । शल्यकान् वियोगे शल्यवद् दुःखहेतून् । मेध्यान् संप्राप्तान् मेधृ-सङ्गमे च विनिघ्नन्प्राप्नुवन्भुंजान इत्य् अर्थः । श्रममध्यगाद् इति । धार्मिकजीवो हि कथंचिद् दैववशात्कंचित्कालमधर्मं कृत्वानुतापं प्राप्तः स्याद् इत्य् अर्थः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रमम् अध्यगाद् इति धार्मिक-जीवो हि कथञ्चिद् दैव-वशात् कञ्चित् कालम् अधर्मं कृत्वा अनुतापं प्राप्तः स्याद् इत्य् अर्थः ॥१०॥
॥ ४.२६.११ ॥
ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् ।
कृत-स्नानोचिताहारः संविवेश गत-क्लमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं स्वप्नावस्था दर्शिता, इदानीं पुनर् अपि विवेकवत्या बुद्ध्या रममाणस्य पुत्रादि-सन्ततिं प्रपञ्चयिष्यन् कथा-सौन्दर्याय तस्याः प्रणय-कुपिताया अनुनयं प्रस्ताव-सहितम् आह—तत इत्य् आरभ्य यावद् अध्याय-समाप्ति । एयिवान् आगतः । कृतं स्नानम् उचित आहारश् च येन । सम्विवेश शय्याम् आश्रितः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मृगयाश्रमोत्तरम् । क्षुत्तृट्परिश्रान्त इति । कृतानां दुष्कृतानां श्रवणेन व्याकुल इत्य् अर्थः । निवृत्तः पापेभ्यो विरतः गृहमेयिवानित्यधर्ममर्यादां विहाय पुनर् धर्ममर्यादायां स्थातुम् इयेषेत्य् अर्थः । कृतस्नान इति । ब्राह्मणानामन्त्र्य पापप्रायश्चित्तं कृतवान् इत्य् अर्थः । उचिताहारः मांसमद्याद्यशुचिभक्षणं तत्त्याजेत्य् अर्थः । संविवेश किंचित्स्थिरीबभूवेत्य् अर्थः । गतक्लमस्त्यक्तविषयपरिश्रमः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षुत्-तृट्-परिश्रान्त इति कृतानां दुष्कृतानां स्मरण-व्याकुल इत्य् अर्थः । निवृत्त इति पापेभ्यो विरत इत्य् अर्थः । गृहम् एयिवान् इत्य् अधर्म-मर्यादां विहाय पुनर् धर्म-मर्यादायां स्थातुम् इयेषेत्य् अर्थः । कृत-स्नान इति ब्राह्मणानाम् आमन्त्र्य पाप-प्रायश्चित्तं कृतवान् इत्य् अर्थः । उचिताहारो मांस-मदिराद्य्-अशुचि-भक्षणं तत्याजेत्य् अर्थः । सम्विवेश किञ्चित् स्थिरीबभूवेत्य् अर्थः ॥११॥
॥ ४.२६.१२ ॥
आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः ।
साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मानमर्हयांचक्रे इति । साधून्मुनीन्विद्विषश् च संमान्यानीय तैः स्वान्तःकरणं शोधयामासेत्य् अर्थः । कैर्धूपादिभिर् इति ज्ञानवैराग्यादिनानोपाख्यानोपदेशैः साध्वलङ्कृतसर्वाङ्गः इति शास्त्रानुसरणीकृतसर्वचित्तवृत्तिक इत्य् अर्थः । महिष्यां पूर्वावस्थाप्राप्तायां धर्मशीलायां स्वबुद्धावित्य् अर्थः ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानम् अर्हयाञ्चक्र इति साधून् मुनीन् विदुषश् च सम्मान्यानीय तैः स्वान्तःकरणं शोधयामासेत्य् अर्थः । कैः धूपादिभिर् इति धर्म-ज्ञान-वैराग्यादि-नानोपाख्यानोपदेशैः साध्व्-अलङ्कृत-सर्वाङ्ग इति शास्त्रानुसरणीकृत सर्व-चित्त-वृत्तिक इत्य् अर्थः । महिष्याम् इति पूर्वावस्था-प्राप्तायां धर्म-शीलायां स्व-बुद्धाव् इत्य् अर्थः ॥१२॥
॥ ४.२६.१३ ॥
तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः ।
न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृह-मेधिनीं सात्त्विकीं बुद्धिं, राजस्यां बुद्ध्यां वर्तमानो नापश्यत् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तृप्त इत्य्-आदिनाधर्मसंस्कारापगम उक्तः । कन्दर्पाकृष्टमानस इति । पूर्वदशावर्तिनीं धर्मनिष्ठावतीं बुद्धिं युवतिम् इव प्राप्तुमत्युत्सुक इत्य् अर्थः । न व्यचष्टेति । कथापक्षे मृगयाव्याजेन वनं गत्वा काम् अपि कामिनीं रमयामासेति पुरंजनी मानिनी बभूवेति हेतोर् इति भावः । अध्यात्मपक्षे—आगन्तुकपापकृतमालिन्यस्य निःशेषानपगमात् प्राक्तनी धर्मप्रयोजिका बुद्धिरीप्सितापि न शीघ्रमाविर्भवेद् इत्य् एव विवक्षितम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृप्त इत्य्-आदिना अधर्म-संस्कारोऽपगम उक्तः । कन्दर्पाकृष्ट-मानस इति पूर्व-दशा-वर्तिनीं धर्म-निष्ठावतीं बुद्धिं युवतिम् इव प्राप्तुम् अत्युत्सुक इत्य् अर्थः । न व्यचष्टेति । कथा-पक्षे—मृगया-व्याजेन वनं गत्वा काम् अपि कामिनीं रमयामासेति पुरञ्जनो मानिनी बभूवेति हेतोर् इति भावः । अध्यात्म-पक्षे—आगन्तुक-पाप-कृत-मनो-मालिन्यस्य निःशेषान् अपगमात् प्राक्तनी धर्म-प्रयोजिका बुद्धिर् ईप्सितापि न शीघ्रम् आविर्भवेद् इत्य् एव विवक्षितम् ॥१३॥
॥ ४.२६.१४ ॥
अन्तःपुर-स्त्रियोऽपृच्छद् विमना इव वेदिषत् ।
अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वेदिषत् हे प्राचीनबर्हिः । अन्तः-पुर-स्त्रियस् तत्-सखीः । सेश्वरीणां स्वामिनी-सहितानाम् । यथा पुरेत्य्-आदि पृथग्-वाक्यम् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षेन्तःपुरस्त्रीरन्तकरणवृत्तीः पूर्वदशावस्था धर्मप्रवर्तिनीर्मनाक् प्रादुर्भूता वीक्ष्य पराममर्श । हन्तैतादृश्य एव मम बुद्धिवृत्तयो यदि साम्प्रतिकपापसंस्कारेणोच्छिद्यमानाः स्थिराः स्युस्तदैव ममोद्धार इति कुशलप्रश्नस्यार्थः । ननु विषयभोगेन सुखी भव किन्ते धर्मेणेत्यत आह—एतर्हि इदानीं निषिद्धविषया न रोचन्ते ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्तर् इति सार्धकम् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेदिषत् हे प्राचीनबर्हिः ! सेश्वरीणां स्वामिनी-सहितानाम् एतर्हि इदानीं तां विनेत्य् अर्थः । पक्षे, अन्तः-पुर-स्त्रीः अन्तःकरण-वृत्तीः पूर्व-दशावस्था धर्म-प्रवर्तनीर् मनाक् प्रादुर्भूता वीक्ष्य पराममर्श । हन्तैतादृश्य एव मम बुद्धि-वृत्तयो यदि साम्प्रतिक-पाप-संस्कारानुच्छिद्यमानाः स्थिराः स्युः, तदैव ममोद्धार इति कुशल-प्रश्नस्यथार्थः ॥१४॥
॥ ४.२६.१५ ॥
न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः ।
यदि न स्याद् गृहे माता पत्नी वा पति-देवता ।
व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यङ्गे चक्रादि-हीने ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माता विष्णुभक्तिः । पत्नी धर्मपत्नी ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विषय-भोगेन सुखी भव, किं ते धर्मेणेत्य् अत आह—एतर्हि इदानीं निषिद्ध-विषया न रोचन्ते । याता विष्णु-भक्तिः । पत्नी धर्म-शीला बुद्धिः । व्यङ्गे चक्रादि-हीने ॥१४॥
॥ ४.२६.१६ ॥
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ॥
या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्व वर्तत इति । बुद्धिवृत्तय एव काश्चन काश्चनानुभूयन्ते न तु वस्तुतः सा बुद्धिर् इति मनसि खिद्यते स्म पदे पदे\ऽनुक्षणं मम प्रज्ञामुद्दीपयन्ती भगवद्-विषयज्ञानमुद्बोधयन्ती या मामुद्धरति संसाराद् इति शेषः । सा ललना शोभना बुद्धिः क वर्तत इत्यन्वयः । उद्धरत इति वर्तमानसमीपे भविष्यति लट् ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्व वर्तते इति बुद्धि-वृत्तयएव काश्चन नानुभूयन्ते, न तु वस्तुतः सा बुद्धिर् इति मनसि खिद्यति स्म ॥१६॥
॥ ४.२६.१७ ॥
रामा ऊचुः—
नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति ।
भूतले निरवस्तारे शयानां पश्य शत्रु-हन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरवस्तारे आस्तरण-रहिते ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे तस्य हृदयम् एव तस्याः पुष्पपर्यंकस्तस्माद्विच्युतिरे व तस्याः सद्बुद्धेर् निरवस्तारे भूतले शयनं, नरैः कामादिविक्षिप्तस्त्वम् एव तन्नाशार्थं नाथ्यसे\ऽतस्तव तस्याः कामादिजिहीर्षावत्या बुद्धेस्त्यागो नोचित इति भावः । अत्र हेतुद्वितीयामन्त्रणं हे शत्रुहन् त्यक्तपापोसीति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरवस्तारे आस्तरण-रहिते । पक्षे, तव हृदयम् एव तस्याः पुष्प-पर्यङ्कस् तस्माद् विच्युतिर् एव तस्याः सद्-बुद्धेर् निरवस्तारे भू-तले शयनम् । शत्रुहन् हे वीर ! पक्षे—त्यक्त-पाप ! ॥१७॥
॥ ४.२६.१८ ॥
नारद उवाच—
पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि ।
तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवधुतां त्यक्त-देहादराम् । तत्-सङ्गेनोन्मथितं व्याकुलं ज्ञानं यस्य ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षे\ऽवधुतां वृक्षे स्वेनैव स्वहृदयाच्च्यावितत्वात्खण्डितां निरीक्ष्य हन्त ममैवायं महापराध इति विचार्य तत्सङ्गेन तस्याः पुनर् आदित्सयोन्मथितज्ञानस्तिरस्कृतस्वबुद्धिक इत्य् अर्थः । वैक्लव्यं दैन्यम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवधुतां त्यक्त-देहादराम् । पक्षे, स्वेनैव स्व-हृदयात् च्यावितत्वात् खण्डितां निरीक्ष्य हन्त ममैवायं महापराध इति विचार्य तत्-सङ्गेन तस्याः पुनर् उदित्सया उन्मथित-ज्ञानः तिरस्कृत-स्व-दुर्बुद्धिक इत्य् अर्थः । वैक्लव्यं दैन्यम् ॥१८॥
॥ ४.२६.१९ ॥
सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।
प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्नेह-संरम्भः प्रणय-कोपस् तस्य लिङ्गं कुटिल-दृष्ट्य्-आदि स्वस्मिन् न लब्धवान् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सान्त्वयन्न् इति । मद्भाग्यादियं मे प्राक्तनी बुद्धिः पुनर् अप्याविर्भवति यां विनैव मम दुर्गतिर् इति मनोनुलापः प्रेमसंरम्भस्तु चित्तं नाभ्यगाद् इति । ममाप्येवं पापाचरणं केन कारणेनाभूद् इति क्षणं पराममर्श ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नाभ्यगात् गभीर-कोपत्वात् ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सान्त्वयन्न् इति मद्-भाग्याद् इयं मे प्राक्तनी बुद्धिः पुनर् अप्य् आविर्भवति यां विनैव मम दुर्गतिर् इति मनोऽनुलापः । प्रेम-संरम्भ-चिह्नं नाध्यगाद् इति ममाप्य् एवं पापाचरणं केन कारणेनाभूद् इति क्षणं पराममर्श ॥१९॥
॥ ४.२६.२० ॥
अनुनिन्येऽथ शनकैर् वीरोऽनुनय-कोविदः ।
पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्सङ्गम् आरो\ऽप्य् अ लालिताम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुनिन्य इति ॥ पुनर् अद्यारभ्य दुर्विषयभोगो नैव कार्य इति पस्पर्श पादयुगलम् इति । अहङ्कारत्यागसाधुजनसम्मानावेव तस्याः पादौ पस्पर्श प्राप । उत्सङ्गलालितां स्वहृदयनिकटमानीताम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुनिन्य इति पुनर् उद्यारभ्य दुर्विषय-भोगे बुद्धिर् मया नैव कार्येति । पस्पर्श पाद-युगलम् इति अहङ्कार-त्याग-साधु-जन-सम्मानाव् एव तस्याः पादौ पस्पर्श प्राप । उत्सङ्ग-लालितां स्व-हृदय-निकटम् एवानीताम् ॥२०॥
॥ ४.२६.२१ ॥
पुरञ्जन उवाच—
नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे ।
कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतम् आगोऽपराधो यैस् तेषु । आत्म-सात् कृत्वा अस्मद्-अधीनोऽयम् इति मत्वा शिक्षार्थं दण्डं न कुर्वन्ति ते भृत्या मन्द-भाग्याः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुभे इति । मम दण्डेन त्वं मे शुभदैवेति भावः । कथापक्षे प्रिये मह्यं यत्कोपरूपं दण्डं करो\ऽपि तत्कृपया सापराधम् अपि निजदासमबुधं शिक्षयस्यतस्त्वामेतज्जन्मनि कदापि न त्यक्ष्यामीत्यर्थान्तरन्यासेनाह—नूनम् इति द्वाभ्याम् । आत्मसात्कृत्वास्मदधीनो\ऽयम् इति मत्वा शिक्षार्थं दण्डं येषु न कुर्वन्ति ते भृत्या मन्दभाग्यास्तेन येषु दण्डं कुर्वन्ति ते भूरिभाग्या इत्यहं ते दण्डपात्रीभवन्नात्मानं भूरिभाग्यम् एव । मन्य इति भावः । अध्यात्मपक्षे हन्त हन्त प्रतिष्ठितस्यापि मम कादाचित्कपापाचरणेन सम्प्रति यल्लोके निन्दाचित्ताप्रसादौ दुः सहावभूतां तत्परमेश्वरेणैव मह्यं शिक्षादण्डो दत्तस्तदहमेतज्जन्मनि पुनः कदापि सद्बुद्धिं न त्यक्ष्यामीति तां सद्बुद्धिम् एव मनसा सम्बोध्याह—नूनम् इति द्वाभ्याम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथा-पक्षे, प्रिये ! मह्यं यत् कोप-रूपं दण्डं करोषि, तत् कृपया सापराधम् अपि निज-दासम् अबुधं शिक्षयस्य् अतस् त्वाम् एतज्-जन्मनि कदापि न त्यक्ष्यामीत्य् अर्थान्तर-न्यासेनाह—नूनम् इति द्वाभ्याम् । आत्मसात् कृत्वा अस्मद्-अधीनोऽयम् इति मत्वा शिक्षार्थं दण्डं येषु न कुर्वन्ति, ते भृत्या मन्द-भाग्याः, तेन । येषु दण्डं कुर्वन्ति ते भूरि-भाग्या इत्य् अहं ते दण्ड-पात्री-भवन्न् आत्मानं भूरि-भाग्यम् एव मन्य इति भावः ।
अध्यात्म-पक्षे—हन्त हन्त प्रतिष्ठितस्यापि मम कादाचित्क-पापाचरणेन सम्प्रति यल् लोक-निन्दा-चित्त-प्रसादौ परम-दुःसहावभूतां, तत् परमेश्वरेणैव मह्यं शिक्षा-दण्डो दत्तस् तद् अहम् एतज् जन्मनि पुनः कदापि सद्-बुद्धिं न त्यक्ष्यामीति तां सद्-बुद्धिम् एव मनसा सम्बोध्याह—नूनम् इति द्वाभ्याम् ॥२१॥
॥ ४.२६.२२ ॥
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।
बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः परमोऽनुग्रहो दण्डः, यस् तु दण्डतो विषीदति योऽज्ञ इत्य् आह—बाल इति । बन्धु-कृत्यं शिक्षा-करणम् । अमर्षणः क्रोधी ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्तु दण्डितो विषीदति सो\ऽज्ञ इत्य् आह—बाल इति । अमर्षणः क्रोधी पक्षे सद्बुद्धिं प्रति स्वगतम् आह त्वां सद्बुद्धिं त्यक्तवतो मम यः साम्प्रतिकोनुताप एष एव त्वद्-दत्तो दण्डः परमो ममानुग्रह एव, यतः पुनर् अपि पापासक्तिर्न सम्भाविनीति भावः । तन्वीति । तन्व्यास्ते क्रोवे\ऽपि तनुत्वम् एवोचितम् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् तु दण्डितो विषीदति सोऽज्ञ इत्य् आह—बाल इति । अमर्षणः क्रोधी । पक्षे, सद्-बुद्धिं प्रति स्व-गतम् आह—त्वां सद्-बुद्धिं त्यक्तवतो मम यः साम्प्रतिकोऽनुतापः, एष एव त्वद्-दत्तो दण्डः परमो ममानुग्रह एव यतः पुनर् अपि पापासक्तिर् नामाभाविनीति भावः ॥२२॥
॥ ४.२६.२३ ॥
सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार-
व्रीडा-विलम्ब-विलसद्-धसितावलोकम् ।
नीलालकालिभिर् उपस्कृतम् उन्नसं नः
स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे सुदति ! हे सुभ्रु ! हे मनस्विनि ! सा त्वम् अस्माकं स्वामिनी, अतः स्वानां मुखं प्रदर्शय । कीदृशम् ? अनुराग-भारेण व्रीडया यो विलम्बो मन्थरता तेन विलसन् हसितावलोको यस्मिन् । नीला अलका एवालयस् तैर् उपस्कृतं भूषितम् । उन्नत-नासिकम् । वल्गु वाक्यं यस्मिंस् तत् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः स्वामिनीत्वात् दण्डस्तु दत्त एव सम्प्रति प्रसीदेत्याह—सा त्वम् इति । प्रसिद्धा त्वमस्माकं स्वामिनी । अध्यात्मपक्षे—सर्वेणैव प्रकारेण सैवेयं मे प्राक्तनी बुद्धिरनुकूलीभूय स्थिरा भवत्व् इति मुहुः प्रार्थना ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दण्डस् तु दण्ड एव सम्प्रति प्रसीदेत्य् आह—सा त्वम् इति । सा प्रसिद्धा त्वम् अस्माकं स्वामिनी । अनुराग-भरेण व्रीडया यो विलम्बो मन्थरता, तेन विलसन् हसितावलोको यस्मिन् । वल्गूनि वाक्यानि यस्मिंस् तत् ।
अध्यात्म-पक्षे—सर्वेणैव प्रकारेण सैवेयं मे प्राक्तनी बुद्धिर् अनुकूलीभूय स्थिरा भवत्व् इति मुहुः प्रार्थना ॥२३॥
॥ ४.२६.२४ ॥
तस्मिन् दधे दमम् अहं तव वीर-पत्नि
योऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् ।
पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम्
अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर-पत्नि, वीरस्य मम भार्ये ! यस् ते कृतापराधस् तस्मिन्न् अहं ब्राह्मण-कुलाद् अन्यत्रान्यस्मिन् मुररि-पुदासाद् इतरत्र च दमं दधे दण्डं करोमि । किन्तु तं विगत-भयम् उच्चैर् मुदितं त्रि-लोक्याम् अन्यत्र वै लोक-त्रयाद् बहिर् अपि न पश्यामि । मद्-भयाद् एवासौ मरिष्यतीत्य् अर्थः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीरपत्नीति । भगवद्-भक्तात्सर्वपापानि बिभ्यतीति भावः । कथापक्षेपीत्य् अर्थ इति स्वामिभिरुक्तं, वीरात्सर्वे कातरा बिभ्यति विना वीरानिति भावः । ब्राह्मणकुलस्य वैष्णवकुलस्य च वीरकुलत्वं भगवत्कलावीरकुलं कदर्थीकृत्य स्वैरं विचरताम् इति भरतोपाख्याने पञ्चम-स्कन्धे वक्ष्यतीति । अध्यात्मपक्षे—यदि प्राचीनदैहिकाद्वा पापाचरणात्तव प्रातिकूल्यं तदा हे सद्बुद्धे दमं तदुपशमकं दानपुण्यव्रतादिकं करोमि, यदि तु ब्राह्मणकोपाद्वैष्णवापराधाद्वा तदा तु तौ दुरुपशमावेवेत्याह—भूसुरकुलादन्यत्रेत्यादि । तद्द्वयापराधस्य तद्द्वयप्रसादादेवोपशान्तिर्नान्यथेति भावः । वीतभयमित्याद्यधर्मनिर्मूलने साटोपोक्तिः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यत्र भूसुर-कुलादिकं धर्म-निष्ठ-जीवम् अधिकृत्य पुरञ्जनाख्यानात् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीर-पत्नि ! वीरस्य मम भार्ये ! यद् अन्यः कश्चिन् मदीयस् तव प्रातिकूल्यम् अकरोत् । तस्मिन् दमं दण्डं दधे करोमि, यतस् तवाहं त्वद्-अधीनत्वात् त्वदीय इत्य् अर्थः । किन्तु ब्राह्मण-कुलाद् अन्यत्र मुर-रिपोर् दासाद् इतरत्र तद्-द्वयोर् मम नास्ति प्रभुतेति पुरञ्जनस्यास्य प्राचीनबर्हिष्ट्वात् प्राचीनबर्हिषश् च पितृ-पैतामह-धर्म-मर्यादान् उल्लङ्घनात् । सा मर्यादा च—अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः इति पृथु-चरितोक्तेर् ब्राह्मण-वैष्णवयोः कर-दण्डाद्य्-अग्रहण-रूपैवेति विवेचनीयम् । अतो ब्राह्मण-वैष्णवाभ्याम् अन्यत्र त्रिलोक्यां त्रिलोकी-मध्ये अन्यत्र त्रिलोक्या बहिर् वा वीत-भयम् विगत-भयम् उत् उच्चैर् मुदितं न पश्यामि । मद्-भयाद् एवासौ मरिष्यतीति भावः ।
अध्यात्म-पक्षे—यदि प्राचीनाद् दैहिकाद् वा पापाचरणात् तव प्रातिकूल्यं, तदा हे सद्-बुद्धे ! दमं तद्-उपशमकं दान-पुण्य-व्रतादिकं करोमि । यदि तु ब्राह्मण-कोपात् वैष्णवापराधाद् वा, तदा तु तौ दुरुपशमाव् एवेत्य् आह—भूसुर-कुलाद् अन्यत्रेत्य् आदि । तद्-द्वयापराधस्य तद्-द्वय-प्रसादाद् एवोपशान्तिर् नान्यथेति भावः । वीत-भयम् इत्य् आद्य्-अधर्म-निर्मूलने साटोपे क्तिः ॥२४॥
॥ ४.२६.२५ ॥
वक्त्रं न ते वितिलकं मलिनं विहर्षं
संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् ।
पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ
बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते वक्त्रम् इतः पूर्वं कदाचिद् अपि वितिलकं न पश्यामि । संरम्भेण कोपावेशेन भीमं भयङ्करम् । अविमृष्टम् अनुज्ज्वलम् । अपेत-रागं स्नेह-शून्यम् । तथा ते सु-जातौ शोभनौ स्तनाव् अपि शोकाश्रुभिर् उपहतौ न पश्यामि । तथा बिम्ब-फलाकारम् अधरं च विगतः कुङ्कुम-पङ्क-तुल्यस् ताम्बूल-रागो यस्मात् तादृशं न पश्यामि । इदानीं कुत एवं जातम् इति शेषः । पाठान्तरे एवं भूतं मुखं स्तनौ च पश्यन् शं न विन्दामीत्य् अन्वयः । विगतः कुङ्कुम-पङ्क-रागो याभ्याम् इति स्तनयोर् विशेषणम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कदापि न पश्यामीदानीं मद्दौर्भाग्याद् एव पश्यामीति भावः । पाठान्तरे पश्यन्स्तनावपि शुचोपहतौ सुजातौ विन्दामि शं विगतकुङ्कुमपङ्करागौ इति पाठे । पक्षे वितिलकत्वादिभिरुपलब्धाया अपि सद्बुद्धेः पूर्ववत्प्रसादाभावो द्योतितः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वक्त्रम् वितिलकं कदापि न पश्यामि । सम्प्रति यद् दौर्भाग्याद् एव पश्यामीति भावः । कुङ्कुम-पङ्कस्येव ताम्बूलस्य रागो यत्र तं बिम्बाधरम् । विन्दामि शम् इति पाठे विगत-कुङ्कुम-पङ्क-रागाव् इति स्तनयोर् विशेषणम् । पक्षे, वितिलकत्वादिभिर् उपलब्धाया अपि सद्-बुद्धेः पूर्ववत् प्रसादाभावो द्योतितः ॥२५॥
॥ ४.२६.२६ ॥
तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य
स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वश-गतं कुसुमास्त्र-वेग-
विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् कृतं किल्बिषम् अपराधो येन तस्य । किल्बिषम् एवाह—स्वैरं स्वातन्त्र्येण त्वाम् अपृष्ट्वा मृगयां गतस्य । देवो देवनं क्रीडा तां राति ददातीति देवरः कान्तस् तम् । काम-वेगेन विस्रस्तं गतं पौंस्नं पौरुषं धैर्यं यस्य तम् । उशती कामयमाना कृत्ये कर्तुं योग्येऽर्थे का न भजेत ? ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽहं त्वद्-अनुवर्त्येवास्मि तत्तस्माद्धेतोः पौस्नं स्वातन्त्र्यधैर्ययोः इति निरुक्तिः । कृत्ये कान्तविषयकस्नेहोचितकर्मणि । पक्षे सद्बुद्धिम् एव साक्षात्कृत्याह—प्रसीद प्रसन्ना भवन्ती मम हृदि विराजस्व । मम कीदृशस्य स्वैरं निरङ्कुशम् एव कृतकिल्बिषस्य मृगयां गतस्य व्याधस्येव पापिन इत्य् अर्थः । व्याधो मृगवधाजीवो मृगयुर्लुब्धको हि सः इत्य् अभिधानात् । सद्बुद्धेः स्वस्मिन्नवस्थितिमर्थान्तरन्यासेनाह—केति । स्त्री यथा कान्तं सापराधम् अपि न जहाति तथैव हे सद्बुद्धे मां त्वं न जहीहीत्य् अर्थः ॥२६॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे षड्विंशो\ऽध्यायः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेयस्याः प्रसादं प्रार्थयते—तन् म इति । किल्बिषम् एवाह—स्वैरम् इत्य्-आदि । देवो देवनं क्रीडा, तां राति ददातीति देवरः कान्तस् तम् । स्मर-शर-वेगेनैव विस्रस्तं पौंस्नं पौरुषार्हं स्वातन्त्र्यं यस्य तम् । उशती कमनीया कृतो कान्त-विषयक-स्नेहोचिते कर्मणि का न भजेत ?
पक्षे, सद्-बुद्धिम् एव साक्षात्कृत्याह—प्रसीद प्रसन्ना भवन्ती मम हृदि विराजस्व । मम कीदृशस्य ? स्वैरं निरङ्कुशम् एव कृत-किल्बिषस्य मृगयां गतस्य व्याधस्यैव पापिन इत्य् अर्थः । व्याधो मृग-वध-जीवो मृगयुर् लुब्धको हि सः इत्य् अभिधानात् । सद्-बुद्धेः स्वस्मिन्न् अवस्थितिम् अर्थान्तर-न्यासेनाह—केति । स्त्री यथा कान्तं सापराधम् अपि न जहाति, तथैव । हे सद्-बुद्धे ! मां त्वं न जहीहीत्य् अर्थः ॥२६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे षड्विंशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पुरञ्जनोपाख्याने षड्विंशोऽध्यायः ।
॥ ४.२६ ॥
(४.२७)