अथ पञ्चविंशोऽध्यायः
विषयः
प्राचीनबर्हिर्-नारद-संवादः पुरञ्जनोपाख्यानारम्भश् च ।
॥ ४.२५.१ ॥
मैत्रेय उवाच—
इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः ।
पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
प्रचेतः सु तपस्यत्सु तत् पित्रे नारदो घृणी ।
प्राचीनबर्हिषेऽध्यात्मं पारोक्ष्येणाह पञ्चभिः ॥
पुरञ्जन-कथा-व्याजात् पञ्च-विंशे तु नारदः ।
आत्मनो बुद्धि-सङ्गेन विविधाम् आह संसृतिम् ॥
प्रचेतः सु तपस् तीव्रं तप्यमानेषु नारदः ।
पुरञ्जन-कथाकूटं प्राह प्राचीनबर्हिषे ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घृणी दयालुः । पारोक्ष्येण गो\ऽप्य् एन पुरंजनकथैव कूटं दुर्लक्ष्यार्थं वाक्यम् । इतीत्थं यत्र सन्दृष्टस् तत्रैव ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्राचीनबर्हिषं कर्म-मग्नं राज-कथा-मिषात् ।
नारदः पञ्चविंशाद्यैः पञ्चभिः प्रत्यबोधयत् ॥
पञ्चविंशे पुरञ्जन्याः सङ्गं प्राप्य पुरञ्जनः ।
नव-द्वारे पुरे तस्या रेमे इत्य् अनुवर्ण्यते ॥१॥
॥ ४.२५.२ ॥
रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।
जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तपोत्र स्तोत्रजप-रूपम् एव ग्राह्यम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जप-रूपम् एव तपश् चक्रुर् इत्य् अर्थः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदैव रुद्रः स्व-गीतं स्तोत्रं प्रचेतस उपदिदेश ॥२॥
॥ ४.२५.३ ॥
प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् ।
नारदोऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रचेतःसु तपश् चरत्सु नारदः प्राचीनबर्हिषं बोधितवान् । अतः प्रचेतसां कथाम् असमाप्यैव तत्-पितुर् वृत्तम् आह—प्राचीनबर्हिषम् इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदैव रुद्रः स्वगीतं प्रचेतोभ्य उपदिदेश तदैव तत्पितरं प्राचीनबर्हिषं नारदो\ऽपि पुरंजनोपाख्यानेन ज्ञानवैराग्यभक्तीरुपदिदेशेति । अतः प्रचेतसां तपोनिष्ठत्वाद् एव । हन्तहन्त । मत्प्रियशिष्यध्रुवस्य वंशो\ऽयं कर्मणि मज्जति तदिममुद्धरामीति कृपालुः । क्षत्तर् इति । यथा मत्प्रियश्रीव्यासोद्भुतत्वात्त्वां क्षत्तारमहमित्य् अभिप्रायः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदैव तत्-पितरं प्राचीनबर्हिषं नारदोऽपि पुरञ्जनोपाख्यानेन ज्ञान-वैराग्य-भक्तीर् उपदिदेशेति । प्रचेतसां कथम् असमाप्यैव तत्-पितुः कथाम् आह—प्राचीनेति । "हन्त हन्त मत्-प्रिय-शिष्यस्य ध्रुवस्य वंशोऽयं कर्मणि निमज्जति, तद् इदम् उद्धरामि" इति कृपालुः ॥३॥
॥ ४.२५.४ ॥
श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे ।
दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
यथावत् कर्म-कर्तुस् तु ज्ञानं साहाय्य-कारकम् ।
अन्यथा कुर्वतः कर्म निरयाय भविष्यति । > अथापि कर्म निन्दन्ति तपतः कर्तुम् अञ्जसा ॥ इति ब्रह्माण्डे > ॥४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रेयः फलम् ईहसे इच्छसि । इह कर्मणि, तद् उभयं नेष्यते विचारकैः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति । ज्ञानवैराग्यभक्तिभिरे व दीप्तिर्भवति न केवलयज्ञैरित्य् अभिप्रायः । नेष्यते न लक्ष्यते । कर्मसंपाद्यसुखस्यापि दुःखसंभिन्नत्वान्नश्वरत्वाच् च न श्रेयस्त्वम् इति भावः । अत्र तीर्थः—पुरुषार्थिना पुरुषेण प्रार्थ्यानि श्रेयांसि बहूनि तेषां कतमच्छ्रेयो दुःखहानिमुत सुखावाप्तिमथ वोभयमथान्यत्सदपत्यादीहसे । इह कर्मणि किम् अपि न नियतं कर्मणां दुःसंपाद्यत्वात् गहना कर्मणो गतिः इत्य् उक्तेः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दुःख-हानिः सुखावाप्तिर् एव श्रेयः पुरुषस्यार्थः । तत् तु इह कर्मणि नेष्यते । कर्म-सम्पाद्यस्य सुखस्यापि दुःख-सम्भिन्नत्वात् सान्तत्वाच् च । "नेह येष्याते" इति चित्सुखः ॥४॥ [प्रीति।सं। ५]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :श्रेयो नेष्यते, इह कर्मणि न लक्ष्यते, कर्म-सम्पाद्यस्य सुखस्यापि दुःख-मिश्रत्वात् नश्वरत्वाच् च ॥४॥
॥ ४.२५.५ ॥
राजोवाच—
न जानामि महा-भाग परं कर्मापविद्ध-धीः ।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : परं श्रेयो मोक्षम् । कर्मभिर् अपविद्धा विक्षिप्ता धीर् यस्य ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र राजा सर्वश्रेयोवाप्तौ मुख्यसाधनं ज्ञानम् एवेति नारदहार्दं विद्वांस्तद् एव भवतोपदेष्टव्यम् इति प्रार्थयते वैराग्यवन्तः खलु भाग्यवन्तः इत्य् अभियुक्तोक्तेस्त्वन्तु भक्ति-ज्ञानाभ्यामधिकाभ्यां तेभ्यो\ऽप्य् अधिकोसीत्यभिप्रायेणाह—महाभागेति । यद्वा—यस्य भाग्येनान्ये\ऽपि भाग्यवन्तो भवेयुः स महाभागः । एतेन यद्यहं त्वद्-उपदेशेन त्वद्वन्निर्बन्धो भवेयं तदैव ते महाभागत्वं सेत्स्यतीत्यभिप्रायः । यद्वा—मह्यते पूज्यते\ऽखिलैर् इति महो विष्णुः भजनं भागः महस्यासमन्ताद्भागो यस्य स तथा तत्संबुद्धौ । तथा अनुग्रहायेह चरन्ति नूनं भव्यानि भूतानि जनार्दनस्य इत्य् उक्तेः सर्वभक्तशिरोमणेस्तव मय्यनुग्रहो न्याय एवेति भावः । विमलम्-अविद्यामलनिवर्त्तकम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्मापविद्ध-धीः सन् परं श्रेयः साधनं श्रेयश् च न जानामि । तस्मात् विमलं ज्ञानं साधन-साध्यान्तर-गतं ब्रूहि ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :कर्मभिर् अपविद्धा विक्षिप्त-बुद्धिः ॥५॥
॥ ४.२५.६ ॥
गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः ।
न परं विन्दते मूढो भ्राम्यन् संसार-वर्त्मसु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, गृहेषु स्थितः । पुत्रादिष्व् एव पुरुषार्थ-धीर् यस्य ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कूटधर्मेषु व्यर्थकृत्येषु । कूटो मिथ्याद्रिशृङ्गयोः इति । यद्यपि गृहस्थकर्मणो\ऽपि ज्ञान-साधनत्वात्कार्यत्वमस्ति तथाप्यासङ्गस्य तथात्वाभावादुक्तं कूटधर्मेष्व् इति । तद् उक्तं तीर्थेन—
यथा बुद्धिकृतं कर्म ज्ञानसाहायकारकम् । > अथ वा तत्कृतं कर्म नरकायैव जायते ॥ इति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहस्थः सर्व एव मादृश इत्य् आह—गृहेष्व् इति ॥६॥
॥ ४.२५.७ ॥
नारद उवाच—
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।
संज्ञापिताऽ जीव-सङ्घान् निर्घृणेन सहस्रशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म-फलेषु वैराग्यम् उत्पाद्य ब्रह्म-विद्याम् उपदेष्टुं योगानुभावेन यज्ञ-पशून् प्रत्यक्षं प्रदर्श्याह—भो भो इति । संज्ञापितान् मारितान् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजापत इति राजन्न् इति संबुद्धिद्वयेन न हि प्रजापालने\ऽधिकृतस्य राज्ञः प्रजान्तर्गतपश्वादीनां मारणमुचितम् इति भावः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-फलेषु वैराग्यम् उत्पादयितुं योग-बलेन यज्ञ-पशून् प्रत्यक्षं प्रदर्श्याह—भो भो इति । संज्ञापितान् मारितान् ॥७॥
॥ ४.२५.८ ॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।
सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एते त्वां संपरेतं मृतं संप्रतीक्षन्ते । वैशसं त्वत्-कृतां पीडां स्मरन्तः । ततश् चायः-कूटैर् लोह-यन्त्र-मयैः शृङ्गैश् छिन्दन्ति छेत्स्यन्ति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संप्रतीक्षते कदायं मरिष्यतीति वांछति । कूटो\ऽस्त्री पुंजमायाद्येष्वद्रिशृङ्गेषुभेदयोः इति यादवोक्तेः । कूटो बाणविशेषः शृङ्गाकारो भवतीति स्वामी च ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदायं मरिष्यति ? इति त्वां प्रतीक्षन्ते । वैशसं त्वत्-कृतां स्व-शरीर-च्छेदम् । ततः संपरेतं त्वाम् अयः-कूटैः लौह-यन्त्र-मयैः शृङ्गैश् छिन्दन्ति । वर्तमान-निर्देशेनाविलम्बत एव छेत्स्यन्ति ॥८॥
॥ ४.२५.९ ॥
अत्र ते कथयिष्येऽमुम् इतिहासं पुरातनम् ।
पुरञ्जनस्य चरितं निबोध गदतो मम ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रास्मिन् सङ्कटे निस्तारकम् अमुम् इतिहासं कथयिष्यामि ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैषयिककथाप्रियमिमं वैषयिककथयैव प्रबोधयामीति मनसि विचार्य तस्यैव प्राचीनबर्हिषः कथाम् एव कथान्तरकल्पनयाप्रस्तुतप्रशंसालङ्कारेण तत्प्रबोधे कारणीकुर्वन्नाह—अत्रेति । वस्तुतस् तु-तवैव चरितं कीदृशस्य पुरमेतच्छरीरं स्वकर्मणा जनयतीति तस्य पुरंजनस्य पुरातनं मातृगर्भप्रवेशात्पूर्वमप्यारभ्येत्य् अर्थः । पुरं शरीरमतति सततं विषयीकृत्य वर्तत इति पुरातनमध्यात्मविषयम् इत्य् अर्थः । अन्यथा इतिहासः पुरावृत्तम् इति कोशात्पुनर् उक्तिः स्यात् । अत-सातत्यगमने अतो युच् । अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा इति । यत्राप्रस्तुतप्रशंसाप्रस्तुतकथा प्रस्तुतानुगा प्रस्तुते पर्यवस्यति तत्राप्रस्तुतप्रशंसालङ्कारो भवतीत्य् अर्थः । यथात्रैवाप्रस्तुतकथा राजकथा प्रस्तुते\ऽध्यात्मोपाख्याने पर्यवस्यतीति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तस्य शुद्ध-भक्त्य्-अधिकारित्वम् अमन्वानो मुक्ति-साधन-ज्ञान-मिश्राम् एव भक्तिम् उपदेष्टुं तादृशीम् एव कथाम् अवतारयति अत्रेति । इतिहासं पुरातनम् इति मुनेर्न मिथ्या-वचनम् । पूर्व-वृत्तम् इदम् अध्यात्म-वाद-संवाद्य् अपि प्रायः स्याद् इति । एवम् एव हि तत्-तत्-कथादि-सङ्गतिश् च स्यात् । तथैव वक्ष्यति प्राकारेत्य् आदि ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैषयिक-कथा-प्रियम् इमं वैषयिक-कथयैव प्रबोधयामीति मनसि विचार्य तस्यैव प्राचीनबर्हिषः कृतष्टम् एव कथान्तर-कल्पनया अप्रस्तुत-प्रशंसालङ्कारेण तत्-प्रबोधे कारणीकुर्वन्न् आह—अत्रेति । स्पष्टम् । वस्तुतस् तु ते तवैव चरितं कीदृशस्य पुरम् एतत् शरीरं स्व-कर्मणा जनयतीति तस्य पुरञ्जनस्य पुरातनं मातृ-गर्भ-प्रवेशात् पूर्वम् अप्य् आरभ्येत्य् अर्थः ॥९॥
॥ ४.२५.१० ॥
आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः ।
तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
देव-जीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः । > मनुष्याणां तु जीवानाम् अभिमानी पुरञ्जनः ॥ > स तु राजा हरेः पुत्रश् चासुराणां कलिः स्वयम् । > जीव-संसृतिवत् तस्मात् पुरञ्जन-कथापि तु ॥ > तस्माज् जीव-सृति-ज्ञप्तौ पुरञ्जन-कथां मुनिः । > नारदोऽश्रावयत् तस्मान् नृपं प्राचीनबर्हिषम् ॥ > प्रायस् तु तत्-कथा जीवो स्थिता प्रत्येकशोऽति तु । > प्रत्येकं यत् तु युज्येत तद् उन्नेयं यथा तथा ॥ > उक्तं भागवतेऽप्य् एतं पुराणे यावद् इष्यते । > प्रत्येकशस् तु जीवानां तद् अन्यत् तस्य केवलम् ॥ इति > तन्त्र-भागवते ॥१०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र जीवस्य विषयासक्त्या संसारः स चेश्वरानुग्रहेण निवर्तत इति वक्तुं विपर्यय-गृहीतस्य साक्षाद् बोधयितुम् अशक्ते राज-वृत्तान्तम् इवाह—आसीद् इति । पुरञ्जनादीन् स्वयम् एवेतः पञ्चमेऽध्याये व्याख्यास्यति, तथापि सुख-ग्रहणाय यथोपयोगं किञ्चित् किञ्चिद् व्याख्यास्यामः । तत्र स्व-कर्मभिः पुरं शरीरं जनयतीति पुरञ्जनो जीवः । न विज्ञातं नाम यस्य । न च विज्ञातं चेष्टितं यस्य स ईश्वरस् तस्य सखा । यद् वा, विज्ञातं चेष्टितं जीव-प्रेरणादि-लक्षणं यस्य । जीव-पार-तन्त्र् यस्यानुभव-सिद्धत्वात् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र प्रकृते अध्यात्मादिभी राजमानत्वाद्राजा, पुरं स्वयोग्यानन्दपूर्तिं जनयिष्यति व्यक्तीकरिष्यतीति पुरंजन इति वा । सखेति । द्वासुपर्णा सयुजा सखायौ इत्य्-आदिश्रुतेः । पक्षे विज्ञातचेष्टितो नीतिशास्त्रप्रसिद्धव्यापारः । नाम-रूपादिहीनस्य सखित्वं न संजाघटीति तत्राह—यद्वेति । पृथु पुरु श्रवो यशः दृष्टादृष्टसुखसाधनकर्मादिशुश्रूषुत्वाच्छ्रवः श्रवणं वा श्रवः कीर्तिश्रवणयोः इति निरुक्तिः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अविज्ञात इति नाम यस्य दुर्ज्ञेयत्वाद् इति भावः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसीद् इति पुरञ्जनादीन् स्वयम् एव इतः पञ्चमेऽध्याये व्याख्यास्यते । तद् अपि सुख-ग्रहणाय यथोपस्थितं व्याख्यास्यामः । पुरञ्जनो जीवः, अध्यात्मादिभिर् विराजमानत्वाद् राजा । श्रवो यशः दृष्टादृष्ट-सुख-साधन-कर्मादि-शुश्रूषत्वात्, श्रवः चरणारविन्दं च । अविज्ञातं नाम यस्य, न विज्ञातं चेष्टितं यस्य स ईश्वरः, तस्य सखा । यद् वा, विज्ञातं चेष्टितं जीव-प्रेरणादिकं यस्य, जीव-पारतन्त्र् यस्यानुभव-सिन्द्धत्वात् ॥१०॥
॥ ४.२५.११ ॥
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।
नानुरूपं यदाविन्दद् अभूत् स विमना इव ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शरणं भोगायतनं देहम् । पृथिवीं तद् उपलक्षितं ब्रह्माण्डम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणं वासस्थलं वा । पृथिवीं कर्मभूमिं बभ्रामेति नानाजन्मवत्त्वात् । नानुरूपम् इति । क्वापि जन्मनि स्वाभीप्सितसमस्तसुखप्राप्त्यदर्शनात् इवेति । शूकरादिजन्मन्यपि विषयानन्दाप्राप्या वस्तुतो विमनस्त्वाभावात् । प्रभुः प्रभवन्त्यस्मात्कर्माणीति । पक्षान्तरे परपापमर्दनसमर्थः । यद्वानुरूपं दुःखभोगमन्तरेण सुखभोगयोग्यमन्यत्र दुर्गादिलक्षणम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शरणं वास-स्थलं सुख-भोगायतनं देहम् च । बभ्रामेति नाना-जन्म-वृत्तात् नानुरूपम् इति क्वापि जन्मनि स्वाभीप्सित-समस्त-सुख-प्राप्त्य्-अदर्शनात् । इवेति शूकरादि-जन्मन्य् अपि विषयानन्द-प्राप्त्या, वस्तुतो विमनस्त्वाभावात् ॥११॥
॥ ४.२५.१२ ॥
न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।
कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यावत्यः पुरस् तास् तस्य तस्य कामस्योपपत्तये प्राप्त्यै असौ साधु न मेने । गवादि-देहानाम् ऐहिक-पार-लौकिक-भोग-भोग्यत्वाभावात् । तथा च श्रुतिः—
ताभ्यो गाम् आनयत् ता अब्रुवन् न वै नोऽयम् अलम् इति । > ताभ्योऽश्वम् आनयत् ता अब्रुवन् न वै नोऽयम् अलम् इति ॥ [ऐ।उ। > १.२.२] इति ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रुत्यर्थः—ताभ्यो देवताभ्यः गवादिदेहानामसाधुमननञ्च गर्भदशायाम् एव मृतश्चाहं पुनर् जातः इत्य्-आदिश्रुतेस् तत्रैव ज्ञानोत्पत्तेः । पक्षे शत्रुसाध्यत्वात् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावतीर् यावत्यः सर्वत्र विषयानन्द-प्राप्ताव् अपि तस्य तस्य कामस्य उपपत्तये प्राप्त्यै साधु न मेने गवादि-देहानां भोग-साधन-योग्यत्वाभावात् । तथा च श्रुतिः—
ताभ्यो गाम् आनयत् ता अब्रुवन् न वै नोऽयम् अलम् इति । > ताभ्योऽश्वम् आनयत् ता अब्रुवन् न वै नोऽयम् अलम् इति ॥ [ऐ।उ। > १.२.२] इति ।
तत्-तद्-देहानाम् असाधु-मननं च, गर्भ-दशायाम् एव मृतश् चाहं पुनर् जातः इत्य्-आदि-श्रुतेस् तत्रैव विवेकोत्पत्तेः ॥१२॥
॥ ४.२५.१३ ॥
स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु ।
ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हिमवतो दक्षिणेषु सानुषु । कर्म-क्षेत्रे भारत-वर्षे । पुरं मनुष्य-शरीरम् । लक्षितानि दृष्टानि सर्वाणि लक्षणानि यस्याम् । अन्ध-पङ्गुत्वादि-दोष-रहिताम् इत्य् अर्थः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र हिमवज्जाड्य-रूपं पापं दक्षिणे जाड्यमान्द्यत्वं भवति तेन समपापपुण्येन मानुषं भवतीति भावः । इत्य् अर्थ इति । अङ्गहीनस्यासमर्थत्वेन कर्मयोग्यत्वं म्लेच्छादिदेहस्यापि तथात्वम् इति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स एकदेति चित्सुखः ।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हिमवतो हिमालयस्य दक्षिणेषु सानुषु भारत-भूमौ कर्म-तत्रत्य-मनुष्य-देहस्यैव फल-साधनत्वात्, पुरं मनुष्य-देहम् । लक्षितानि दृष्टानि लक्षणानि यस्याम् इति पङ्ग्व्- अन्धादि-देहस्य म्लेच्छान्त्यजादि-देहस्य च व्यावृत्तिः ॥१३॥
॥ ४.२५.१४ ॥
प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः ।
स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् अनुवर्णयति त्रिभिः । अत्र किञ्चित् किञ्चित् सादृश्यम् अवलम्ब्य कथा-सौन्दर्याय प्राकारादीनि वर्ण्यन्ते । परिखैर् इति पुंस्त्वम् आर्षम् । अक्षाणीन्द्रियाणि गवाक्षाः । त्वग्-आदयः शरीरावयवाः प्राकारादि-पुरावयवत्वेन निरूप्यन्ते । स्वर्णादि-शृङ्गैः शिखरैर् युक्ता ये गृहास् तैः सङ्कुलाम् इति । आधारादि-चक्राणि गृहाः शृङ्गाणि च राजसादि-स्वभावा विवक्षिताः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राकारो दुर्गभित्तिः । उपवनमारामः आरामः स्याद् उपवनम् इति कोशात् । अट्टालो भित्त्यन्तर्भूप्रदेशः । परिखा दुर्गबहिः परितः खाता नदी । पक्षे प्राकारास्त्वचः । उपवनानि बहिर्विषया रोमाणि । अट्टालो मुखमुच्चशिरोनासादिमत्त्वात् । परिखा विरागविवेकादिप्रवेशरोधकजलदुर्गादिरूपा रागादयः गुणा वा । गवाक्षा रोमरन्ध्राणि । तोरणानि पक्ष्माणि । नेत्रादीनि द्वाराणि वा स्वर्गाद्यैः शृङ्गैः पित्तकफवातैर्धातुभी राजससात्त्विकतामसस्वभावैर्वा । आधारादीत्यत्रादिना स्वाधिष्टानमणिपूरकानाहतविशुद्धिब्रह्मरन्ध्राणां ग्रहः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राकारास् त्वचः उपवनानि बहिर् विषयाः अट्टालो मुखं, परिखं गुणाः । परिखैर् इत्य् आर्षम् । अक्षा गवाक्षाः रोम-रन्ध्राणि तोरणानि नेत्रादीनि द्वाराणि स्वर्णाद्यैः शृङ्गैः पित्त-कफ-वातैर् धातुभिः राजस-सात्त्विक-तामसैः स्वभावैर् वा गृहैर् आधार-चक्राद्यैः सङ्कुलां व्याप्ताम् ॥१४॥
॥ ४.२५.१५ ॥
नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः ।
कॢप्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नीलादिभिः कॢप्ता हर्म्य-स्थली यस्याम् । अरुणं माणिक्यम् । स्थली हृदयम् । नाड्यो नीलादि-भावेन निरूप्यन्ते तत् तद् विषय-वासना वा । भोगवतीं नागानां पुरीम् इव ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषयवासनानाम् अपि सत्त्वादिगुणवणेस्वभाववत्त्वादनेकविधित्वमालक्ष्योक्तं तत्तद् इति । पक्षे भोगवतीमिवेति वस्तुतस् तत्र भोगा अपि न सन्तीत्य् अर्थः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रनीलादिभी रत्नैः कॢप्ता हर्म्य-स्थल्यो यस्याम् समासान्त-विधेर् अनित्यत्वान् न कप् । अरुण-माणिक्यम् । स्थल्यो हृदय-कण्ठ-भ्रू-मध्य-स्थानानि नीलादयस् तद्-वर्णा नाड्यो ज्ञेयाः । भोगवतीम् इवेति वस्तु-विचारतो भोगा अपि तत्र न सन्तीत्य् अर्थः ॥१५॥
॥ ४.२५.१६ ॥
सभा-चत्वर-रथ्याभिर् आक्रीडायतनापणैः
चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः
श्रीधर-स्वामी (भावार्थ-दीपिका) : सभा समाज-स्थानम् । चत्वरं चतुष्पथः । रथ्या राज-मार्गः । आक्रीडायतनं द्यूतादि-स्थानम् । आपणो हट्टः । तैः । चैत्यं जनानां विश्राम-स्थानम् । ध्वजेषु पताकाः ताभिश् च युक्ताम् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सभा राजोपवेशस्थानं सा चात्र हृदयं तत्रैव राज्ञः पुरंजनस्य जीवस्य स्थितेः । चत्वरं चतुष्पथं । ताल्वधःस्थलं तत्रैव मुखनासानयनकर्णमार्गाश्चत्वारः । यथा राजमार्गः इडापिङ्गलासुषुम्णाः । आयतनानीन्द्रियगोलकाः । आपणो मनोगोलकः । चैत्त्यं चित्तमध्यम् । ध्वजे भगवद्-वैमुख्य-रूपे संयुक्ताः पताकाः पञ्च क्लेशाः । विद्रुमवेदय आधारादिचक्रमध्यस्थलभेदाः । अधरा इति केचित् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सभा राजोपवेश-स्थानम् । सा चात्र हृदयं, तत्रैव राज्ञः पुरञ्जनस्य जीवस्य स्थितेः । चत्वरं चतुष्पथं, तच् चात्र ताल्व्-अधः-स्थलम् । तत्रैव मुख-नासा-नयन-कर्ण-मार्गश् चत्वारः । रथ्या राज-मार्गः । इडा-पिङ्गला-सुषुम्णा । आक्रीडायतन्णै द्यूतादि-स्थानानि इन्द्रिय-गोलकाः । आपणो हट्टो मनो-गोलोकः । चैत्यं विश्राम-स्थानं चित्त-मध्यं ध्वजे भगवद्-वैमुख्य-रूपे संयुक्ताः पताकाः पञ्च-क्लेशाः । विद्रुम-वेदय आधारादि-चक्र-मध्य-स्थल-भेदाः ॥१६॥
॥ ४.२५.१७-२० ॥
पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले ।
नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये ॥**
हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना ।
चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि ॥**
नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः ।
आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः ॥**
यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् ।
भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र च विषय-निष्ठ-बुद्धि-योगेन जीवस्य देह-संबन्ध इति विवक्षया विषय-वर्गं बाह्योपवनत्वेन निरूपयति । तद् विशेषाम् स्रक्-चन्दनादीन् दिव्य-द्रुम-लतादि-भावेन । शेषः कथालङ्कारः । बाह्योपवने प्रमदां ददर्शेति चतुर्थेनान्वयः । नदतां विहङ्गालि-कुलानां कोलाहलो येषु ते जलाशया यस्मिन् ॥१७॥
हिम-निर्झराणां विप्रुषो बिन्दवस् तद्वता कुसुमाकर-सम्बन्धिन वायुना चलन्तः प्रवाला विटपाः शाखाश् च येषां तैर् वृक्षैर् नलिनीनां सरसीनां तटेषु सम्पत्-समृद्धिर् यस्मिन् ॥१८॥
अनाबाधे तत् कृत-बाधारहिते । मुनि-व्रतैर् अहिंस्रैः । आत्मणम् आहूतं मन्यते यत्र ॥१९॥
तत्र प्रमदोत्तमां विषय-विवेकवतीं बुद्धिं ददर्श । यदृच्छयागताम् इति तयोः सम्बन्धस्य दुर्निरूप्यत्वं दर्शयति । ताम् अनुवर्णयति सार्धैश् चतुर्भिः । दशभिर् ज्ञान-कर्मेन्द्रियैः । एकैकं प्रत्य् एकं शतम् अनन्ता वृत्तयास् तासां नायकैः पतिभिः सह । पाठान्तरे नायिकाः स्त्रियो येषां तैः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र च संसारे प्रकृते वा बाह्योपवने प्रमदोत्तमामविद्यावृत्तिं यदृच्छया पुरंजनो राजा ददर्शेति तयोः प्राथमिकसंबन्धस्य निर्हेतुत्वमुक्तम् । तेन कथापक्षे हे राजन् युष्मद्विधैरुपवने प्रमदोत्तमा कदापि नानेतव्या कथंचित् स्वत एव प्राप्ता दृष्टा वा स्याच्चेदात्मधिक्कारः कर्तव्यः । अध्यात्मपक्षे—शब्दस्पर्शादिभोग्यवस्तुषु बुद्धिर्न देया । दैवाद्दत्ता चेदनुतपनीयम् इति विधिर्व्यंजितः ॥ अहिंस्रौर् इति । पक्षे-पुरंजनस्य पुण्यवत्त्वात्पापाभावाच् च भोगा निष्कण्टका एव । आहूतमातिथ्यदानार्थम् । अध्यात्मपक्षे\ऽपि तान्निष्कण्टकान्भोगान्स्वीयकुटुंबबन्धुब्राह्मणातिथ्यादिभ्यो विभज्यैव यत्र भुंक्त । इत्य् अर्थः ॥ तत्रोपवने । पाठान्तरे नायिकैर् इति पाठे नायिकाश् च केचन वृत्तिविशेषाः ॥१७-२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुर्यास् त्व् इति सार्ध-त्रिकम् । यद्यपि बुद्ध्य्-आदि-मय-लिङ्ग-शरीरेण सहैव जीवस्य सर्वदा स्थितिः । तथापि मनुष्य-शरीरे प्राप्ते ते बुद्ध्य्-आदयो विलक्षणा भवन्तीति अपूर्ववत् तत्-प्राप्ति-निर्देश इति ज्ञेयम् ॥१७॥
यदृच्छया दैवतः । भृत्यैर् इति सार्ध-षट्कम् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र च विषय-निष्ठ-बुद्धि-योगेन जीवस्य देह-संबन्ध इति विवक्षया बाह्योपवन-भूतं विषय-वर्गं विशिष्य वर्णयति—पुर्या इति त्रिभिः । बाह्योपवने प्रमदोत्तमाम् अविद्या-वृत्तिं बुद्धिं यदृच्छयैवागतां पुरञ्जनो राजा ददर्शेति तयोः प्राथमिक-सम्बन्धस्य निर्हेतुत्वम् उक्तं तेन ।
कथा-पक्षे—हे राजन् ! युष्मद्-विधरि उपवने प्रमदोत्तमा कदापि नानेतव्या, कथञ्चित् स्वत एव प्राप्त्या दृष्टा स्पृष्टा वा स्याच् चेद् आत्म-धिक्कारः कर्तव्यः ।
अध्यात्म-पक्षे—शब्द-स्पर्शादि-भोग्य-वस्तुषु बुद्धिर् न देया । दैवाद् गता चेद् अनुतपनीयम् इति विधिर् व्यञ्जितः । कीदृशे नदद् इति दिव्य-द्रुमेति रूप-वैचित्र्यं नदद्-विहङ्गेति शब्द-वैचित्र्यम् । हिम-निर्झराणां विप्रुषो बिन्दवस् तद्वता कुसुमाकर-वायुना चलन्तः प्रबाला विटपाः शाखाश् च येषां तैः वृक्षैः, नलिनीनां सरसीनां तटेषु सम्पत् समृद्धिर् यस्मिन् । अत्र, हिम-निर्झरेति रसः । कुसुमाकरेति गन्धः । वायुनेति स्पर्शः । चलत्-प्रवालेति व्यञ्जितस्य पक्षि-पुष्प-फलादि-सद्भावस्यावश्यकत्वात् शब्दादि-विषय-पञ्चक-वैचित्र्यम् एव ज्ञेयम् । अनाबाधे तत्-कृत-बाधा-रहिते । मुनि-व्रतैर् अहिंस्रैः ।
पक्षे—पुरञ्जनस्य पुण्यवत्त्वात् । पापाभावाच् च भोगाः निष्कण्टका एव । कोकिल-कूजितैः पान्थः आत्मानम् आतिथ्य-दानार्थम् आहूतं मन्यते ।
अध्यात्म-पक्षेऽपि—तान् निष्कण्टकान् भोगान् स्वीय-कुटुम्ब-बन्धु-ब्राह्मणातिथ्यादिभ्यः विभज्यैव यत्र भुङ्क्ते इत्य् अर्थः । कूजितैः यशोभिः । कीदृशैः ? दशभिर् ज्ञान-कर्मेन्द्रियैः एकैकं प्रत्येकं शतम् अनन्ता वृत्तयस् तासां नायकैः नायिकैर् इति पाठे नायिकाः स्त्रियो येषां तैः ॥१७-१९॥
॥ ४.२५.२१-२५ ॥
अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।
अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम् ॥**
सुनासां सुदतीं बालां सुकपोलां वराननाम् ।
सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम् ॥**
पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् ।
पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव ॥**
स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गज-गामिनीम् ॥**
ताम् आह ललितं वीरः सव्रीड-स्मित-शोभनाम् ।
स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च-शीर्षाणि वृत्तयो यस्य तेनाहिना प्राणेन प्रतीहारेण पालकेन गुप्ताम् । ऋषभं भर्तारम् । अप्रौढां षोडश-वार्षिकीम् ॥२१॥
गन्ध-ज्ञानादिभिर् बुद्ध्य्-अवयवैः सुनासत्वादि निरूप्यते । समं विन्यस्तौ रचितौ कर्णौ ताभ्यां कुण्डल-शोभां दधतीम् ॥२२॥
अन्न-मयं हि सौम्य मनः इति, यत् कृष्णं तद् अन्नस्य इत्य्-आदि-श्रुत्य्-अनुसारेण श्यामाम् इत्य् उक्तम् । नूपुरैः क्वणद्भ्यम् । नूपुरेण पादाङ्गुलीयकानाम् अप्य् उपलक्षणाद् बहु-वचनम् ॥२३॥
व्यञ्जितं कैशोरं यौवनोपक्रमो याभ्याम् । समौ च वृत्तौ च ॥२४॥
ताम् आहेति तयोः सम्वादोक्तिः सम्बन्ध-दार्ढ्याय । अपाङ्ग एव पुङ्खो मूल-प्रान्तो यस्य कटाक्षस्य बाणस्य तेन स्पृष्टो विद्धः । प्रेम्णा उच्चैर् भ्रमन्ती भ्रूर् धनु-स्थानीया यस्मिंस् तेन ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भर्तारं स्वस्योपभोक्तारं पतिं जीवम् । अप्रौढामपरिगृहीतपाणिम् इव स्थिताम् । यद्वा—यथाप्रौढैव कान्ता पतिं मोहयति तथैवाविद्यावृत्तिबुद्धिर्जीवम् इत्य् अर्थः । काम-रूपिणीं नित्यविविधशृङ्गारधारिणीम् । पक्षे विविधवासनावतीम् ॥ गन्धज्ञानादिभिर्बुद्धिवृत्तिभिरेवावयवैः सुनासत्वादि निरूप्यते । रसास्वादचर्वणासक्तयो दन्ताः । सुकपोलत्वं बुद्धेः स्वच्छता । आननं बुद्धेर् अग्रभागः । समं यथा स्यात्तथा कौशलेन विन्यस्ताविव यौ कर्णौ कुण्डलशोभां प्रवृत्तिनिवृत्तिशास्त्रार्थमवधारयन्तीम् ॥ पिशङ्गनीवीं पीतांबरां रजोगुणमयसमस्तकर्मावृताम् । सुश्रीणीं शोभनविषयोपरक्ताम् । श्यामां तमोगुणप्रचुरत्वात्तच्च तस्या जीवान्प्रति सूर्यस्थानीयेश्वरावरकमेघस्थानीयत्वात् । स्वामिचरणैस्तु—बुद्धिमनसोरैक्यविवक्षयैव श्रुत्यवष्टंभेन व्याख्यातम् इति ज्ञेयम् । क्वणद्भ्याम् इति चलतीमित्याभ्यां बुद्धेर् अस्थैर्यम् एव शास्त्रेषु शब्दितम् इति द्योतितम् ॥ स्तनौ रागद्वेषौ यदुक्तम्—
इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । > तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ इति ।
व्यंजितकैशोरावित्यत एव वृद्धस्यापि रागद्वेषौ नित्यतरुणावेव लोके दृश्येते समौ तुल्यौ वृत्तौ वर्तुलौ च । पक्षे समं तुल्यम् एव वृत्तं पुंमात्रमोहनं चरित्रं ययोस्तौ निरन्तरावतिपीनत्वान्मूलदेशे\ऽवकाशशून्यौ । पक्षे वस्तुतस् तयोरैक्येन निर्भदौ । यदुक्तं—काम एष क्रोध एष रजोगुणसमुद्भवः इति निगूहन्तीम् इति । रागद्वेषावपि शिष्टजनैर्ह्रीविनयाभ्यां निह्नूयेते एव ॥ अविद्यावृत्त्या जीवः स्वमिच्छयैव बध्नाति न तु तमीश्वरो बलात्कारेण तया बध्नातीति वक्तुं तयोः संबन्धस्य प्रकारम् आह—तामाहेति । स्निग्धेन स्निग्धत्वादलब्धभङ्गेनापाङ्ग-रूपेण पुङ्खेन तत्पर्यन्तेनापि कटाक्षशरेण विद्ध इत्य् अर्थः । यतो वीरः वीरत्वाद् एव तदप्युत्क्रान्त इत्य् अर्थः । पक्षे भोगोत्साहवत्त्वाद्वीरः । अयमर्थः—अविद्या खलु भोग्यपदार्थभूतं स्वं दर्शयति जीवस् तत्र सुरसबुद्ध्या भोक्तृत्वमङ्गीकुर्वन्ननुरज्यति ईश्वरस्तु तत्र विरसबुद्ध्या ततो विरज्यतीति ॥२१-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्निग्धेन स्निग्धत्वाद् अलब्ध-भङ्गेनापाङ्ग-रूपेण बाणस्य पुङ्खेन तत्-पर्यन्त-भागेनापि स्पृष्टो विद्ध इत्य् अर्थः ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्च-शीर्षा अहिः पञ्च-वृत्तिः प्राणः, तेन प्रतीहारेण द्वार-पालेन गुप्ताम् रक्षिताम् । ऋषभं स्वस्या उपभोक्तारम् पतिं जीवम् अप्रौढाम् इत्य् अप्रौढैव कान्ता, यथा पतिं मोहयति तथैवाविद्या-वृत्ति-बुद्धिर् जीवम् इत्य् अर्थः । काम-रूपिणीं नित्य-विविध-शृङ्गार-धारिणीम् ।
पक्षे, विविध-वासनावतीं, गन्ध-ज्ञानादिभिर् बुद्धैर् वृत्तिभिर् एवावयवैः सुनासत्वादि रूप्यते । रसास्वाद-चर्वणासक्तयो दन्ताः, सुकपोलत्वं बुद्धेः स्वच्छता, आननं बुद्धेर् अग्र-भागः समं यथा स्यात् तथा धात्रैव कौशलेन विन्यस्ताव् इव यौ कर्णौ ताभ्याम् कुण्डल-शोभां बिभ्रतीं, प्रवृत्ति-निवृत्ति-शास्त्रार्थम् अवधारयन्तीं पिशङ्ग-नीवीं पीताम्बरां रजो-गुण-मय-समस्त-कर्मावृतां श्यामाम् इति बुद्धेः श्यामत्वात्, तच् च तस्या जीवान् प्रति सूर्य-स्थानीयेश्वरावरक-मेघ-स्थानीयत्वात् क्वणद्भ्याम् इति चलन्तीम् इत्य् आभ्याम् बुद्धेर् अस्थैर्याम् एव शास्त्रेषु शब्दितम् इति द्योतितम् ।
नूपुरैर् इति बहु-वचनेन पादाङ्गुलीयादीन्य् अप्य् उपलकितानि । स्तनौ राग-द्वेषौ । यद् उक्तं—
इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । > तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥ [गीता ३.३४] > इति ।
व्यञ्जित-कैशोराव् इत्य् अत एव वृद्धस्यापि राग-द्वेषौ नित्य-तरुणाव् एव लोके दृश्येते । समौ च वृत्तौ वर्तुलौ च ।
पक्षे—समं तुल्यम् एव वृत्तं पुंमात्र-मोहनं चरित्रं ययोस् तौ, निरन्तरावर्ति-पीनत्वान् मूल-देशेऽवकाश-शून्यौ ।
पक्षे—वस्तुतस् तयोर् ऐक्येन निर्भेदौ । यद् उक्तं—काम एष क्रोध एष रजो-गुण-समुद्भवः [गीता ३.३७] इति । निगृहन्तिम् इति राग-द्वेषाव् अपि शिष्ट-जनैर् ह्री-विनयाभ्याम् निह्नुयेते एव ।
अविद्या-वृत्त्या जीवः स्वम् इच्छयैव बध्नाति, न तु तम् ईश्वरस् तया बलात्कारेण बध्नातीति वक्तुं तयोः सम्बन्धस्य प्रकारम् आह—ताम् आहेति । स्निग्धो स्निग्धत्वाद् अलब्ध-भङ्गेन अपाङ्ग-रूपेण पुङ्खेन तत्-पर्यन्तेनापि कटाक्ष-शरेण बिद्ध इत्य् अर्थः ।
पक्षे—भोगोत्साहवत्त्वाद् वीरः । अयम् अर्थः—अविद्या खलु भोग-पदार्थ-भूतं स्वं दर्शयति ।जीवस् तत्र सुरस-बुद्ध्या भोक्तृत्वम् अङ्गीकुर्वन् अनुरज्यति । ईश्वरस् तु तत्र विरस-बुद्ध्या ततो विरज्यतीति ॥२१-२५॥
॥ ४.२५.२६ ॥
का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति ।
इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः स्थानाद् इहागतासि ? हे सति, पुर्याः समीप-स्था उप-पुरी नूस्ताम् आलक्ष्य किं कर्तुम् इच्छसीत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि बुद्ध्यादिभिः सहैव जीवस्य सर्वदा स्थितिः, तथापि मनुष्य-शरीर-सम्बन्धिनो बुद्ध्य्-आदयो विलक्षणा भवन्तीत्य् अनुरागेण च तां बुद्धिम् अपरिचिन्वन्न् इव पृच्छति—का इति । इत्य् अर्थ इति ते वासादि-रुचिस् तर्ह्य् अहम् अपि वास-काम एवैकाकित्वाद् अत्र न विशामीति भावः । कञ्ज-पलाशाक्षि सतीति संबुद्धि-द्वयेन यौवनं मुधा न नेयं सत्यास् ते स्वानुरूपः पतिर् ग्राह्य एवेति ध्वनितम् । भीरु इत्य् अनेन पुर्याम् एकाकिनी कथं तिष्ठेयम् इति मा भैर् द्वितीयो\ऽहम् आगतो\ऽस्मीति ध्वन्यते ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि बुद्ध्य्-आदिभिः सहैव जीवस्य सर्वदा स्थितिः, तथापि मनुष्य-शरीर-सम्बन्धिनस् ते बुद्ध्य्-आदयो विलक्षणा भवन्तीत्य् अनुरागेण च तां बुद्धिम् अपरिचिन्वन्न् इव पृच्छति—का त्वम् ? इति । कुतः स्थानाद् इहागतासि ? हे सति, पुर्याः समीप-स्था उप-पुरी भूमिः, ताम् अवलम्ब्य किं कर्तुम् इच्छसि ? ॥२६॥
॥ ४.२५.२७ ॥
क एतेऽनुपथा ये त एकादश महा-भटाः ।
एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरः-सरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते तव येऽनुपथा अनुवर्तिन एते के । एकादशो महान् भटो बृहद्-बलत्वेन वक्ष्यमाणो येषु दशसु ते । बुद्धेर् मनसः पृथग् उपादाणं बुद्धि-परिचार-केन्द्रिय-सहायतया तत् परिचारकत्व-विवक्षया ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुपथा इत्यनेनैते पतय इति । सुभ्रू इति । ललनाः सविलासा अप्येतास्तदपि त्वम् एव सुभ्रूत्वेन स्वामिनी प्रतीयसे । यस्ते पुरः सरः सो\ऽहिः हिनोति सततं गच्छतीति हिः न हिर्यस्मात्सोहिरस्थिरो\ऽतो नायम् अपि पतित्वेन वरणीय इत्यसूचि ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुपथा अनुवर्तिन एकादशो महा-भटो येष्व् इति बृहद्-बलत्वेन वक्ष्यमाणं मन आलक्ष्य, ललनाश् चेष्ट्य् इतीन्द्रिय-वृत्तीर् आलक्ष्य । अहिः क्रीडोपकरणीभूत इति प्राणम् आलक्ष्य प्रश्नः ॥२७॥
॥ ४.२५.२८ ॥
त्वं ह्रीर् भवान्य् अस्य् अथ वाग्-रमा-पतिं
विचिन्वती किं मुनिवद् रहो वने ।
त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं
क्व पद्म-कोशः पतितः कराग्रात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं ह्रीः किं पतिं धर्मं विचिन्वती, अथवा भवानी पतिं शिवं विचिन्वती, अथवा किं वाक् सरस्वती, पतिं ब्रह्माणम्, रमा-पतिं विष्णुम् । मुनिर् इव संयता सती । कथं-भूतं पतिम् ? त्वद्-अङ्घ्रि-कामेनैव त्वत्-कृतया त्वद्-अङ्घ्रि-कामनयैव प्राप्ताः समस्ताः कामा येन तम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोके ह्यविवेकात्स्वबुद्ध्यत्कर्षाभिमानो\ऽखिलस्यास्तीति पुरंजनवाक्येनाभिव्यंजयति—त्वं ह्रीर् इति । तस्या मुखनेत्राद्यावरणव्यंजितां ह्रियमालक्ष्याह—न त्वं ह्रीमती किं तु साक्षात्स्वयं ह्रीरे व मां मोहयन्ती सती किं पतिं धर्मं विचिन्वती अत्र वने रहो वर्त्तसे इति । स्वबुद्धिवृत्तिमाधुर्यैः स्वमोहनप्रपञ्चैः । भवानीति सौन्दर्यमालक्ष्योक्तिः । वागिति तस्या महाबुद्धिमत्त्वमालक्ष्य । लक्ष्मीर् इति महासंपत्तिमालक्ष्य । त्वद्-अङ्घ्रीति लोके\ऽपि स्वबुद्धिबलाधीनम् एव सर्वमैश्वर्यं सर्वस्येति प्रसिद्धः । क्वेति । पद्मकोशो लीलाकमलं स च जीवस्य विवेक एव तया तदलक्षितम् एव स्वहस्तवशीकृत्य दूरतः क्षिप्त इति ज्ञेयम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोके ह्य् अविवेकात् स्वस्य बुद्धिर् उत्कृष्टेति सर्वस्याभिमतिर् इति पुरञ्जन-वाक्येनाभिव्यञ्जयति । त्वं ह्रीर् इति तस्या मुख-नेत्राद्य्-आवरण-व्यञ्जितां हिर्यम् आलक्ष्य, न त्वं ह्रीमती, किन्तु साक्षात् स्वयं ह्रीर् एव मां मोहयन्ती सती किं-पतिं धर्मं विचिन्वती, अत्र वने रहो वर्तसे इति स्व-बुद्धि-वृत्ति-माधुर्यैः स्व-मोहन-प्रपञ्चः ।
अथवा, भवानीति सौन्दर्यम् आलक्ष्योक्तिः । पतिं शिवं विचिन्वती, किं वाक् सरस्वती तस्या महा-बुद्धिमत्ताम् आलक्ष्य पतिं ब्रह्माणम्, रमा लक्ष्मीर् इति महा-सम्पत्तिम् अभिलक्ष्य पतिं विष्णुम् । मुनिर् इव संयता सती । कथं-भूतं पतिम् ? त्वद्-अङ्घ्रि-कामनयैव प्राप्ताः समस्ताः कामा येन तम् । लोकेऽपि स्व-बुद्धि-बलाधीनम् एव सर्वम् ऐश्वर्यं सर्वस्येति ब्रुवते । क्वेति पद्म-कोशो लीला-कमलं स च जीवस्य विवेक एव, तया तद्-अलक्षितम् एव स्व-हस्त-वशीकृत्य दूरतः क्षिप्त इति ज्ञेयम् ॥२८॥
॥ ४.२५.२९ ॥
नासां वरोर्व् अन्यतमा भुवि-स्पृक्
पुरीम् इमां वीर-वरेण साकम् ।
अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा
लोकं परं श्रीर् इव यज्ञ-पुंसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वरोरु, आसां मध्ये त्वम् अन्यतमापि न सम्भवसि । यतो भुवि-स्पृक् । नहि देवता भुवं स्पृशन्ति । वीर-वरेण मया । ननु त्वम् अकर्मा कथं त्वया सहालङ्करोमीति चेत् तत्राह । अदभ्रम् अनल्पं कर्म त्वत्-सङ्गाद् यस्य मम तेन स्वतोऽकर्मत्वेन त्वत्-सङ्गात् स-कर्मा भवामीत्य् अर्थः । परं वैकुण्ठम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वद्-अनुरूपो\ऽहम् एवेति वक्तुं स्वकृतं सन्देहं स्वयम् एव निरस्यति—तासाम् इति । हे वरोरु इति पत्नीभावेनोक्तम् । पक्षे किञ्चिद्विवेकप्राप्त्या स्वबुद्धिं न सर्वोत्कृष्टां मन्यते लोकः, किं तु स्वानुरूपाम् एवेति भावः । तद् उक्तम्—
यदा किंचिज्ज्ञोहं द्विप इव मदान्धः समभवं तदा > सर्वज्ञो\ऽस्मीत्यभवदवलिप्तं मम मनः । > यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं तदा मूर्खो\ऽस्मीति ज्वर > इव मदो मे व्यपगतः ॥
इति भर्तृहरिणा । स्वामिव्याख्याने नन्वित्याशङ्क्येत्य् अर्थ इति समाहितम् । तत्रायं भावः—यथा दाहशक्तिरहितम् अपि लोहमग्निसङ्गेन दाहकं भवति तथा ममाकर्मणो\ऽपि विज्ञानं यज्ञं तनुते इत्य्-आदिश्रुतेः क्रियाशक्तिमत्यास्तव सङ्गात्क्रियावत्त्वं नाद्भुतम् इति ज्ञेयम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-अनुरूपोऽहम् एवेति वक्तुं स्व-कृतं सन्देहं स्वयम् एव निरस्यति—नासाम् इति । हे वरोरु, यतस् त्वम् भुवि-स्पृक् । न हि देवता भुवं स्पृशन्ति । वीर-वरेण मया । परं वैकुण्ठम् । पक्षे—किञ्चिद् विवेक-प्राप्त्या स्व-बुद्धिं न सर्वोत्कृष्टां मन्यते लोकः किन्तु स्वानुरूपाम् एवेति भावः ॥२९॥
॥ ४.२५.३० ॥
यद् एष मापाङ्ग-विखण्डितेन्द्रियं
सव्रीड-भाव-स्मित-विभ्रमद्-भ्रुवा ।
त्वयोपसृष्टो भगवान् मनो-भवः
प्रबाधतेऽथानुगृहाण शोभने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्मात् तवापाङ्गेन विखण्डितम् इन्द्रियं मनो यस्य तं मां मनो-भवो बाधते । अथ तस्माद् अनुगृहाण । स-व्रीडं यद् भावेन प्रेम्णा स्मितं तेन विभ्रमन्ती या भ्रूस् तयोपसृष्टः प्रेरितः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इन्द्रियं चक्षुः । पक्षे विखण्डितज्ञानचक्षुपं मनोभवो वैषयिकीवासनोपस्पृष्टः तयैवाधिक्येन निर्मितो मां बाधते\ऽनुगृहाण त्वदीयान् शब्दस्पर्शानुपभोक्तुं लभेयेत्य् अर्थः । वस्तुतो न गृहाण स्वभगिनीं विद्यां दर्शयेति दैवघटितीर्थः । यदेष तेपाङ्गेति अर्थोपस्पृष्ट इति प्रबाधते\ऽथो अनुगृहाणेति प्रथमतृतीयचतुर्थचरणेषु पाठो दृश्यते तत्र त्वयेति चित्सुखसंमतः । किन्तु यदेष ते\ऽपाङ्गेति अथोपसृष्ट इति प्रबाधते मानुगृहाणेत्येव पाठः स्वामिसम्मतो लक्ष्यते । शोभने इति । मदनुग्रहेणैव तव शोभनत्वं सेत्स्यत्यन्यथा नेति भावः । भगवानिति मनोभवस्य दुर्जयत्वं वक्ति ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् एष तेऽपाङ्गेति । अथोपस्पृष्ट इति प्रबाधतेऽथानुगृहाणेति प्रथम-तृतीय-चतुर्थ-चरणेषु पाठा दृश्यन्ते । तत्र त्वयेति चित्-सुख-संमतश् च । किन्तु यद् एष तेऽपाङ्गेति अथोपसृष्टा इति प्रबाधते मानु-गृहाणेत्य् एव पाठाः स्वामि-संमता लक्ष्यन्ते ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्मात् तवापाङ्गेन विखण्डितम् इन्द्रियं चक्षुर् यस्य तं मां मनो-भवो मदनस् त्वया उपस्पृष्टः प्रेरितः सन् बाधते । पक्षे, विखण्डित-ज्ञान-चक्षुषं मनो-भवो वैषयिकी वासना उपस्पृष्टस् त्वयैवाधिक्येन निर्मितो मां बाधते, अतोऽनुगृहाण त्वदीयान् शब्द-स्पर्शादीन् उपभोक्तुं लभेयेत्य् अर्थः । वस्तुतस् तु अनुगृहाण स्व-भगिनीं विद्यां सन्दर्शयेति दैव-घटितोऽर्थः ॥३०॥
॥ ४.२५.३१ ॥
त्वद्-आननं सुभ्रु सुतार-लोचनं
व्यालम्बि-नीलालक-वृन्द-संवृतम् ।
उन्नीय मे दर्शय वल्गु-वाचकं
यद् व्रीडया नाभिमुखं शुचि-स्मिते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् व्रीडया सन्मुखं न भवति तद् आननम् उन्नीय मे दर्शय । शोभने भ्रुवौ यस्मिन् । सुतारे शोभन-कनीनिके लोचने यस्मिन् । व्यालम्बिनो दीर्घा येऽलकास् तेषां वृन्देन संवृतम् । वल्गूनि वाचकणि वाक्यानि यस्मिन् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मृतिभ्रष्टस्य कामिनो जीवस्य वैयग्र्यं दर्शयति—तद् इति । वल्गु मनोहरं यथा स्यात्तथा वक्तीति । तत् यदाननं तवेदं ममाभिमुखं नेति भगवत्यविद्य देवि मदीयचिन्मयज्ञानानन्दभोगादहं त्वया वंचित एव किं तु स्वीयां रूपादिविषयसंपत्तिं संप्रति मद्भोग्यत्वेने पकल्पय अलमेतावता वाक्येन । तवाननमित्य्-आदिना रूपरसगन्धस्पर्शानां वाचकमितिशब्दस्य च भोगप्रार्थनाभिव्यंजिता । शुचिस्मिते इति । शृङ्गारजनकस्मितायास्तव दर्शनेन मम धैर्यं मनोभवेनापनीतम् इति भावः । पक्षे शुचिषु हरिपरायणेषु स्मितमहो एते मत्तो बिभ्यत एव भक्तिरता इत्य् एवंरूपमीषद्धसनं यस्याः सा तथा । यद्वा—शुचीनां स्मितमहो किं कुर्वतीयं लोकं मोहयतीत्येवं यस्यां सा शुचिस्मिता तत्सम्बुद्धौ तथा ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मृति-भ्रष्टस्य कामिनो जीवस्य वैयग्र्यं दर्शयति—त्वद् इति । वल्गु मनोहरं यथा स्यात् तथा वक्तीति तत् । यद्-आननं तद् एवं न ममाभिमुखम् इति भगवत्य् अविद्ये देवि मदीय-चिन्मय-ज्ञानानन्द-भोगाद् अहं त्वया वञ्चित एव, किन्तु स्वीयां रूपादि-विषय-सम्पत्तिं सम्प्रति सद्-भोग्यत्वेनोपकल्पय । अलम् एतावता वाम्येन तत्राननम् इत्य्-आदिना रूप-रस-गन्ध-स्पर्शानां वाचकम् इति शब्दस्य च भोग-प्रार्थआभिव्यञ्जिता ॥३१॥
॥ ४.२५.३२ ॥
नारद उवाच—
इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् ।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर, सापि तं दृष्ट्वा मोहिता सती तम् आह ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधीरवद् इति चिद्रूपत्वात् । वस्तुतो धीर एवायम् इत्य् अर्थः । हे वीरेति । हास्याभिप्रायं नायं वीरधर्मो\ऽस्ति यद्यज्ञे निरपराधान्पशून् हिनः सीति भावः । यद्वा—विदुरं प्रति मैत्रेयामन्त्रणं कामकथा-श्रवणे साकाङ्क्षो मा भूस्त्वं जितेन्द्रियवर्योसीति भावः । यद् वा, वीरेण विशिष्टमीरं ज्ञानं यस्य तेन मोहितेत्य् अर्थः । यथा विषयमाधुर्यैस्तया जीवो\ऽनुरंजितस् तथा चिन्माधुर्यैर्जीवेनापि सानुरंजितेत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधीरवत्, वस्तुतस् तु चिद्-रूपत्वाद् भीरुम् एव । हे वीरेति । तवैव कथेयं कथ्यत इति ध्वनिः । मोहितेति यथा विषय।मायाइस् तया जीवोऽनुरञ्जितस् तथा चिन्-।मायाइर् जीवेनापि सानुरञ्जितेत्य् अर्थः ॥३२॥
॥ ४.२५.३३ ॥
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ ।
आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् पृष्टं कस्यासीत्य् अनेन कस्य पुत्री गोत्र-जेति का त्वम् इति च किं नामासीति तत्राह । आत्मनो मम परस्य तवापि कर्तारं सम्यङ् न विद्मः । गोत्रं नाम च यत् कृतं भवति तं च न विद्मः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्पृष्टं कस्यासीति तत्र नेति । कथापक्षे कस्यचिन्मुनेर्मोहनार्थमायातायाः कस्याश्चिदप्सरस इयं कन्येति राजा जानीते स्म । अध्यात्मपक्षे या जीवज्ञानमावृणीते सा कथमहमीश्वरं जानामीति व्याहर्तुमर्हतु । गोत्रम् इति । किङ्गोत्रजाहं, किंनामेति किन्नाम्नी चाहम् इति न विद्मः । पुरुषर्षभेति । त्वं हि पुरुषश्रेष्ठत्वाज्जानीहीति स्त्रीणां मन्दबुद्धित्वस्य योषाहं मन्दधीर्हरे इति कथं पश्येमहि स्त्रियः इत्यादी प्रसिद्धेर् इति भावः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इतिहास-पक्षे पुरञ्जन-भोगार्थं परोक्षेण काचिद् एवं निर्मितेति न विदामेत्य् उक्तम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् पृष्टं कस्यासीति कासीति, तत्राह— न विदामेति । कथा-पक्षे—कस्यचिन् मुनेर् मोहनार्थमायातायाः कस्याश्चिद् अप्सरस इयं कन्येति वा जानीते स्म । अध्यात्म-पक्षे—या जीव-ज्ञानम् आवृणीते सा कथम् ईश्वरम् अहं जानामीति व्याहर्तुम् अर्हतु । गोत्रम् इति किं गोत्रजाहं नामेति किं नाम्नी चाहम् इति न विदाम ॥३३॥
॥ ४.२५.३४ ॥
इहाद्य सन्तम् आत्मानं विदाम न ततः परम् ।
येनेयं निर्मिता वीर पुरी शरणम् आत्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो मम शरणम् इयं पुरी येन निर्मिता तं च न विद्मः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि किं जानासीत्यत आह—इहेति । कथापक्षे तेनैव केनचिन्मुनिना कर्दमेनेव विषयभोगार्थं पुरीयं योगबलेन निर्मितेति राजा जानीते स्म । अयमाशयः—कालः कर्म स्वभावः प्रकृतिर्गुणा ईश्वरो वा कर्तेत्यहं न जानामि, किं त्वज्ञानेनात्मनि कल्पितम् इति । इह पुरि सन्तं विद्यमानमात्मानम् एव वयं विदाम । ततो मत्तः परमन्यं न विदामेत्यन्वयः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किं जानासीत्य् अत आह—इहाद्येति यनात्मनः स्वस्य मम वा शरणम् आस्पदं पुरी निर्मिता तं न विदामेति । कथा-पक्षे—तेनैव केनचिन् मुनिना कर्दमेनैव विषय-भोगार्थं पूरीयं योग-बलेन निर्मितेति राजा जानीते स्म ॥३४॥
॥ ४.२५.३५ ॥
एते सखायः सख्यो मे नरा नार्यश् च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत् पृष्टं क एते अनुपथा इति तत्राह—एत इति ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मानदेति । मम मानं त्वया कार्यम् एवेति भावः । सखायः इन्द्रियाणि । सख्यस्तद्वृत्तयः । नागः प्राणः । मयि सपरिकरायां सुप्तायां सत्यां जागर्ति स्वप्ने इन्द्रियाणां लये सुषप्तौ मनोबुद्ध्योर् अपि लये प्राणो विराजत एव ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् पृष्टं क एते अनुपथा इति तत्राह—एत इति । सखाय इन्द्रियाणि सख्यस् तद्-वृत्तयः । नागः प्राणः मयि सपरिकरायां सुप्तायां सत्यां जागर्ति । स्वप्ने इन्द्रियाणां लये सुषुप्तौ मनो-बुद्ध्योर् अपि लये प्राणो विराजत एव ॥३५॥
॥ ४.२५.३६ ॥
दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे ।
उद्वहिष्यामि तांस् तेऽहं स्व-बन्धुभिर् अरिन्दम ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां नाम-गोत्रादि, यद् अत्रागतोऽसि एतद् दिष्ट्या भद्रं तावत् । ग्राम्यान् इन्द्रिय-ग्रामार्हण् । उद्वहिष्यामि सम्पादयिष्यामि । स्व-बन्धुभिः सखिभिः सखीभिश् च ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिष्ट्या भाग्येनैवागतं मनुष्यशरीरं प्राप्नोतीति । अरिं शत्रूं दाम्यतीति तथा । माम् अपि कामोरिः पीडयति तस्य दमनं कुर्व् इति भावः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तांस् तेऽहम् इत्य् अत्र स्नेहान् इति क्वचित् ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्ट्या भाग्येनैव आगतः मनुष्य-शरीरं प्राप्तोऽसीति । उद्वहिष्यामि सम्पादयिष्यामि । स्व-बन्धुभिः सखिभिः सखीभिश् च ॥३६॥
॥ ४.२५.३७ ॥
इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो ।
मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाः संवत्सरान् । मनुष्य-देह-प्रवेशाच् छतम् इत्य् उक्तम् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनुष्यदेहप्रवेशाच्छतम् इत्य् उक्तम् । विभो इति । व्यापकत्वात्त्वं जानीप एव । यद्वा—विशेषेण भातीति व्युत्पत्तेर्न हि नारीं विना नरो भातीत्यतो\ऽहं ते स्वीकार्यैवेति भावः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.२५.३८ ॥
कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् ।
असम्परायाभिमुखम् अश्वस्तन-विदं पशुम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृत्ति-स्वभावत्वान् निवृत्ति-निन्दा-पूर्वकं तत्-सङ्गम् अभिनन्दति, कम् इति पञ्चभिः । त्वत्तोऽन्यं कं नु रमये अरति-ज्ञं नैष्ठिकम् । अकोविदम् अनिषिद्ध-सुख-त्यागिनम् । सम्परायो मृत्युस् तद् अनभिमुखं पर-लोक-चिन्ताशून्यम् । अश्वस्तन-विदं श्व इदं कर्तव्यम् इतीह लोक-चिन्ताशून्यम् । अत एव पशु-तुल्यम् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथापक्षे—सम्प्रति पतिंवरैवाहमकस्मात्प्राप्तं स्वसदृशं त्वां पश्यन्ती नान्यमन्वेषयामीत्य् आह—कम् इति । अध्यात्मपक्षे—बुद्धिरियं राजसी किञ्चित्सत्त्वमिश्रत्वाद्धार्मिकैवेति तामस्या सात्त्विक्या च बुद्ध्या वृतं पुमांसं निन्दति कम् इति पञ्चभिः । स्थावरयोनिगतत्वादरतिज्ञं पश्वादियोनिगतत्वेन रतिज्ञत्वे\ऽप्य् अकोविदं विप्रवणिगादिजातित्वेन कोविदत्वे\ऽपि सम्परायो मृत्युस्तदनभिमुखं शरीरम् इत्य् अर्थः । क्षत्रियत्वेन वीरत्वे\ऽप्य् अश्वस्तनविदं श्वः परश्वो वा मरणानन्तरं मे किं भविष्यतीति ज्ञानशून्यत्वादधार्मिकम् इत्य् अर्थः । पशुतुल्यत्वात्पशुम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथा-पक्षे—सम्प्रति पतिं-वरैवाहम् अकस्मात् प्राप्तं स्व-सदृशं त्वां पश्यन्ती नान्यम् अन्वेषयामीत्य् आह—कम् इति ।
अध्यात्म-पक्षे—तु बुद्धिर् इयं राजसी किञ्चित् सत्त्व-मिश्रत्वाद् धार्मिकैवेति तामस्या सात्त्विक्या च बुद्ध्या आवृतं पुमांसं निन्दति—कम् इति पञ्चभिः । स्थावर-योनि-गतत्वाद् अरतिज्ञं पश्व्-आदि-योनि-गतत्वेन रतिज्ञत्वेऽप्य् अकोविदम् । विप्र-वणिज्-आदि-ज्ञातित्वेन कोविदत्वेऽपि सम्परायो युद्धं तद्-अनभिमुखम् अवीरम् इत्य् अर्थः । क्षत्रिय-जातित्वेन वीरत्वेऽपि अश्वस्तन-विदं श्वः परश्वो वा मरणानन्तरं मे किं भविष्यतीति ज्ञान-शून्यत्वाद् अधार्मिकम् इत्य् अर्थः । पशु-तुल्यत्वात् पशुम् ॥३८॥
॥ ४.२५.३९ ॥
धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दोऽमृतं यशः ।
लोका विशोका विरजा यान् न केवलिनो विदुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र गार्हस्थ्ये । प्रजानन्दः पुत्र-सुखम् । अमृतं मोक्षः । केवलिनो यतयः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिवर्गसाधकं गार्हस्थ्यमभिनन्दति—धर्म इति । प्रजार्थकरत्युत्थ आनन्दः पुत्रपौत्रादिलालन-रूप आनन्दो वा अमृतमदनीयं यज्ञशिष्टा हि अमृतं यज्ञशेषे स्यात्पीयूषे सलिले धृते इति मेदिनी । लोका यागादिप्राप्याः केवलिन उदरम्भरिणो वा । यान्न विदुरित्यतिदुःखप्राप्यस्य चतुर्थपुरुषार्थस्यानभिनन्दनात् सात्त्विकी बुद्धिर् अपि निन्दिता । अध्यात्मपक्षे—त्रिवर्गस्योपपादनमविद्ययैवेत्युक्तम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिवर्ग-साधकं गार्हस्थ्यम् अभिनन्दति—धर्म इति । प्रजार्थको रत्य्-उत्थ आनन्दः पुत्र-पौत्रादि-लालन-रूप आनन्दो वा अमृतम् अदनीयं यज्ञ-शिष्टादि । अमृतं यज्ञ-शेषे स्यात् पीयुषे सलिले घृते इति मेदिनी । लोका यागादि-प्राप्याः । केवलिनो यतयो यान् न विदुर् इत्य् अतिदुःख-प्राप्यस्य चतुर्थ-पुरुषार्थस्यानभिनन्दनात् सात्त्विकी बुद्धिर् अपि निन्दिता । अध्यात्म-पक्षे—त्रिवर्गस्योपपादनम् अविद्ययैवेत्य् उक्तम् ॥३९॥
॥ ४.२५.४० ॥
पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह ।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद् गृहाश्रमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहाश्रम इति यद् एतत् क्षेमार्हं शरणम् आश्र् अयं वदन्ति ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वाश्रमोपजीव्यत्वात् गृहाश्रम एव श्रेयान् इत्य् आह—पित्र् इति । अस्मिन्भवे मनुष्यजन्मनि यत्क्षेमं शरणं वदन्ति स गृहाश्रमः यश् च यज्ञकर्तृत्वेन सर्वसुखदो गृहस्थ इत्य् उक्तमनेन ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहाश्रमस् तु सर्वेषां सुखद इत्य् आह—पित्र् इति । अस्मिन् भवे मनुष्य-जन्मनि यत् क्षेमं शरणम् वदन्ति स गृहाश्रमः ॥४०॥
॥ ४.२५.४१ ॥
का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् ।
न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वदान्यं पुत्र-कलत्राद्य्-अभीष्ट-दान-शीलं गुणवान् दान-शीलश् च वदान्यः पुरुषो मतः इत्य्-उक्तेः । तत्रापि प्रिय-दर्शनं सुन्दरं स्त्री-प्रिय-रति-सुख-साक्षात्-कारकं वा प्राप्तं काक-तालीयेनावाप्तं स्वयं का वीर ति युवावस्थत्वेन काम-रिपु-दलन-समर्थं त्वाम् अहं वृणोमीति भावः ॥४१॥
न कतमेनापि व्याख्यातम्।
॥ ४.२५.४२ ॥
कस्या मनस् ते भुवि भोगि-भोगयोः
स्त्रिया न सज्जेद् भुजयोर् महा-भुज ।
योऽनाथ-वर्गाधिम् अलं घृणोद्धत-
स्मितावलोकेन चरत्य् अपोहितुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोगि-भोगयोः सर्प-देहाकारयोस् तव भुजयोर् यन् न सज्जेद् एवं-भूतं कस्याः स्त्रिया मनः स्यात् ? न कस्या अपि । यो भवान् अनाथ-वर्गा दीन-स्तोमाः, तेषाम् आधिम् अलम् अत्यर्थम् अपोहितुं सर्वत्र चरति । केन अपोहितुम् ? घृणया उद्धतोऽतिशयितो यः स्मित-पूर्वकोऽवलोकः, तेन ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दीन-स्तोमा अस्मद्-आदयः । आधिम् अन्तः-पीडाम् अपोहितुं दूरीकर्तुं । केन ? स्मितावलोकेन । हे घृणोद्धत ! कृपयोज्जृम्भित ! इति वा । महाभुज इति स्वस्यालिङ्गन-सुखम् आह । यद् वा, मत्-सङ्गेन महं कामोत्सवम् आ सर्वतो भोक्ष्यतीति तया असूचि ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोगि-भोगयोः सर्प-शरीराकारयोस् तव भुजयोः कस्याः स्त्रिया मनो न स्यात्, भवच् च सत् कस्या न सज्जेद् इत्य् आवृत्त्या अन्वयः । यो भवान् अनाथ-वर्गाणाम् अस्मद्-आदीनाम् आधिम् अन्तः-पीडाम् अपोहितुं दूरीकर्तुं चरति । केन स्मितावलोकेन ? हे घृणोद्धत! कृपया उद्दण्ड ! अध्यात्म-पक्षे—चैतन्येनैव बुद्ध्य्-आदयः स-नाथा भवन्तीत्य् उक्तम् ॥४२॥
॥ ४.२५.४३ ॥
नारद उवाच—
इति तौ दम्-पती तत्र समुद्य समयं मिथः ।
तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्य समुदीर्य । समाः सम्वत्सरान् ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समयं सङ्केतम्—
समयः शपथाचार-सिद्धान्तेषु तथा धियि । > क्रियाकारे च निर्देशे सङ्केते काल-भाषयोः ॥ इति मेदिनी ।
शतं समा इति । शतं वर्षाण्य् अभ्यार्छत् इति श्रुतेः । मुमुदाते इति । मुद-हर्षे हर्षस्य शोकानुयायित्वात् तौ बुद्धि-जीवाव् उभयं क्रमेण प्राप्तवन्ताव् इति भावः ।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । > ते द्वयेन्योन्य-संलग्ने दृश्येते जल-पङ्कवत् ॥ इत्य्-उक्तेः > ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समयं सङ्केतं समुद्य समुदीर्य ॥४३॥
॥ ४.२५.४४ ॥
उपगीयमानो ललितं तत्र तत्र च गायकैः ।
क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र जाग्रद्-अवस्थां सङ्क्षेपेणाह—उपगीयमान इति । सुषुप्तावस्थाम् आह । ह्रदिनीं हृदयाकाशं स्वाप-स्थानम् । शुचौ निदाघे ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र मुमुदाते शतं समाः इत्य् अत्र जाग्रदवस्थायां मोदप्रकारम् आह—जाग्रदवस्थायां तत्र तत्र प्रतीन्द्रियविषयं गायकैस्तल्लक्षितैः शब्दादिभिर्विषयैरुपगीयमानः सेव्यमानः स्वप्नावस्थायां स्त्रीभिः केवलं मनोवृत्तिलक्षणाभिः परिवृतः स्त्रीभिर्वा यानैर्वा इति श्रुतेः । स्वप्ने इन्द्रियाणामवसन्नत्वात्तत्संस्कारेण तद्वृत्तीनाम् एव तत्तत्कार्यकारित्वात्स्त्रीभिरित्य् उक्तं सुषुप्त्यवस्थायां शुचौ तन्निमित्ते शोके प्राप्ते शीतलागाधतोयधाराम् इव सुषुप्तिकाले सच्छब्दवाच्यां ब्रह्मस्थितिमाविशदित्यन्वयः । ललितं यथा तथा अन्यत्र शुचौ ऋतुविशेषे सता सौम्य तदा सम्पन्नो भवति इति श्रुतेः । पुरुषस्त्रीशब्दवाच्यैः सत्सङ्गभक्त्यादिभिः परिवृतः क्रीडन्कालं यापयन् ह्लदिनीं ह्लदिन्यां ब्रह्मनाड्यां हृदयस्थाने\ऽष्टदलपद्मे स्थितं श्रीनारायणमाविशदध्यायद् इति वार्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र मुमुदाते शतं समा इत्य्-आदिना जाग्रद्-अवस्थां सङ्क्षेपेणोक्ता । स्वप्नावस्थाम् आह—क्रीडन्न् इति । स्त्रीभिर् वृत इति स्वप्ने इन्द्रियाणाम् अवसन्नत्वात् तत्-संस्कारेण तद्-वृत्तीनाम् एव तत्-तत्-कार्य-कारित्वात्, सुषुप्त्य्-अवस्थाम् आह—ह्रदिनीं नदीं हृदयाकाशं स्वावस्थानम् । शुचौ निदाघे सुषुप्तौ च ॥४४॥
॥ ४.२५.४५-४६ ॥
सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः ।
पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः ॥**
पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं नव-द्वार-प्रदर्शन-पूर्वकं जाग्रद् अवस्थां प्रपञ्चयति—सप्तेति यावद् अध्यायसमाप्ति । तस्याः पुरः उपरि कृता द्वारः सप्त । वृता इति पाठे सम्वृताः । नेत्रे नासिके श्रोत्रे मुखं चेति सप्त । अधो द्वे द्वारौ गुद-लिङ्गे । यः कश्चनेति आत्मनः सम्यग् अविज्ञानाद् अनियतत्वाच् च ॥४५॥ तासु सप्तसु पञ्च-द्वारः पौरस्त्याः पूर्व-दिग्-भवाः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देहाख्यं पुरं प्रसिद्धपदसाम्येन वर्णयितुम् आह—इदानीम् इति । वृता द्वार इति पाठे संवृताः सम्यग्विभक्ता इत्य् अर्थः । वृङ्-संभक्तौ न त्वाच्छादिता इत्य् अर्थः । कथापक्षे विषया वेशाः पृथग्विषयाः शब्दादयस्तज्ज्ञप्त्यै तस्यां पुरि ॥ अमूषां द्वारा नृपत्वात्त्वं पुरद्वाररचनां जानास्येवेति भावः ॥४५-४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं नव-द्वार-प्रदर्शन-पूर्वकं जाग्रद्-अवस्थां विस्तरेणाह—सप्तेति । तस्याः पुरः पुर्याः उपरि ऊर्ध्व-प्रदेश अट्टे श्रोत्रे नेत्रे नासिके मुखं चेति सप्त-द्वारः । अधो गुद-लिङ्गे इति द्वे द्वारौ । य ईश्वरः पुरञ्जनः, तस्य ॥।४५॥ तासु सप्तसु मध्ये पञ्च-द्वारः पौरस्त्याः पूर्वाभिमुख्यः दक्षिणा एका दक्षिणाभिमुखी दक्षिण-कर्ण-रूपा उत्तराभिमुखी वाम-कर्ण-रूपा ॥४५-४६॥
॥ ४.२५.४७ ॥
खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : खद्योतवद् अल्प-प्रकाशा वाम-नेत्र-रूपा । आविः प्रकटं मुखं यस्याः सा बहु-प्रकाशा दक्षिण-नेत्र-लक्षणा, तस्माद् दक्षिणेर्ध आत्मनो वीर्यावत्तरः इति श्रुतेः । स्वानुभवाच् च तत्र प्रकाशाधिक्यम् । एकत्र सम्लग्ने । विभ्राजितं रूपम् । द्युमत्-सखश् चक्षुः-सहितः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मात्पूर्वोक्ताद्धेतोः । आत्मनो देहस्य दक्षिणो भागो\ऽतिशयेन बलवानिति श्रुतिपदार्थः । द्युमान् आदित्यस् तस्य वासस्थानत्वाच्चक्षुषो\ऽपि तन्नाम । आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् इति श्रुतेः । आदित्यो ह वै चक्षुस्तेनानुगृहीतं रूपं गृह्णाति इति च ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खद्योतवद् अल्प-प्रकाशा वाम-नेत्र-रूपा । आविर्-मुखी बहु-प्रकाशा दक्षिण-नेत्र-रूपा, तस्माद् दक्षिणेर्ध आत्मनो वीर्यावत्तरः इति श्रुतेः । एकत्र सम्लग्ने । विभ्राजितं रूपम् । द्युमत्-सखश् चक्षुः-सहितः ॥४७॥
॥ ४.२५.४८ ॥
नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते ।
अवधूत-सखस् ताभ्यां विषयं याति सौरभम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नल-नाल-शब्दौ छिद्र-वचनौ । तद्वती नलिनी नालिनी च वाम-दक्षिण-नासिके । अत्रापि संज्ञा-भेदाद् एव कार्ये न्यूनाधिक्यं पूर्ववज् ज्ञेयम् । अवधूतो वाय्व्-अधिष्ठितो घ्राणः । सौरभं गन्धम् ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्वागुपरि तिर्यक् च धूनोति कम्पतीत्यवधूतो वायुर्घ्राणेन्द्रियाभिमानी तेन प्रेर्यमाणं घ्राणेन्द्रियम् अपि तच्छब्दवाच्यम् इति । ताभ्यां द्वार्भ्याम् ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नल-नाल-शब्दौ छिद्र-वचनौ तद्वत्यौ वाम-दक्षिण-नासिके प्राङ्-मुखौ अवधूतौ वाय्व्-अधिष्ठितो घ्राणः । कथा-पक्षे—विषयं देशं बहु-सुरभिमत्त्वात् सौरभं, पक्षे गन्धम् ॥४८॥
॥ ४.२५.४९ ॥
मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ ।
विषयौ याति पुर-राड् रसज्ञ-विपणान्वितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वद्वारमुख्यत्वात्सर्वसंजीवकत्वाच् च मुख्या, तयैकयैव द्वौ देशौ याति अन्यत्र द्वाभ्यां द्वाभ्यामेकदेशं यातीत्यपि मुख्यत्वे हेतुः । बह्वोदन इत्य् उक्तौ स्फुटार्थप्रत्यायकत्वात्परोक्षार्थता भज्येतेति भावः ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-द्वार-मुख्यत्वात् सर्व-सञ्जीवकत्वाच् च मुख्या, तया एकयैव आपण-बहूदनौ द्वौ देशौ अन्यत्र द्वाभ्याम् द्वाभ्याम् एक-देशं यातीत्य् अपि मुख्यत्वे हेतुः । पक्षे—मुख्या आस्यम् आपणो भाषणं बहूदनश् चित्रम् अन्नं बह्वोदन इत्य् अनुक्तिः परोक्ष-वादत्वात्, रसज्ञं रसनेन्द्रियं विपणो वाग्-इन्द्रियं ताभ्याम् युक्तः ॥४९॥
॥ ४.२५.५०-५१ ॥
पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः ।
राष्ट्रं दक्षिण-पञ्चालं याति श्रुतधरान्वितः ॥**
देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।
राष्ट्रम् उत्तर-पञ्चालं याति श्रुतधरान्वितः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
दक्षिण-श्रोत्र-मार्गेण देव-लोकं व्रजत्य् असौ । > वाम-श्रोत्रेण पितॄणाम् इति वेद-विदो विदुः ॥ इति प्रवृत्ति-तन्त्रे > ॥५०-५१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दक्षिणेनेति न तृतीया, किन्तु दक्षिणस्यां दिशीत्य् अस्मिन्न् अर्थे तद्धितो\ऽयम् एनप्-प्रत्ययो\ऽव्यय-संज्ञः । एवम् उत्तरेणेति । अयम् अर्थः—पञ्चानां विषयाणाम् अन्यतो\ऽनवगतानां प्रकाशायालम् इति पञ्चालं शास्त्रम् । श्रवण-काले च बलाधिक्याद् दक्षिण-कर्णः प्रथमं प्रवर्तते । शास्त्रे च प्रथमं श्रोतव्यं कर्म-काण्डम् इत्य् एतावता साम्येन प्रवृत्त-संज्ञस्य कर्म-काण्डस्य दक्षिण-कर्णेन श्रवणम् इष्यते । अतस् तद्-अर्थम् अनुष्ठाय पितृभिर् आहूतः पितृ-लोक-प्रापकं पितृ-यानं प्रपद्यते तद् अनेन प्रकारेण पितॄणाम् आह्वानम् अनेन भवतीति पितृहूर् दक्षिणः कर्णः । एवं तद्-वैपरीत्येनोत्तरः कर्णो देवहूः । तथा च व्याख्यास्यति—
पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः । > प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् । > पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् ॥ > [भा।पु। ४.२९.१२-१३]इति ॥५०-५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपेति । यथा त्वं लोकरक्षणार्थं श्रुतिधरैः सह यासि तथायमपीति भावः । अत्राभिप्रायम् आह—अयमर्थ इति । अन्यतो\ऽन्येन्द्रियेणानवगतानामज्ञातानां पञ्चानाम् अपि विषयाणां श्रोत्रेणैव प्रथममवगमात्पञ्चालम् इति संज्ञेति विश्वनाथः । शास्त्रं विना भूतभविष्यद्व्यवहितादिविषयाणां नान्यत्प्रकाशकम् इति स्वाम्यभिप्रायः । एतावता साम्येन प्राथम्यतौल्येन । ततः कर्मकाण्डश्रवणात् । तदर्थं कर्मकाण्डार्थम् । अनुष्टाय कृत्वा । एवं दक्षिणकर्णवत् । तद्वैपरीत्येन । पितृयानवैपरीत्येन । निवृत्तिशास्त्रश्रवणजविचारेण देवैराहूतो देवयानं प्रपद्यते\ऽर्चिरादिमार्गप्रापक उत्तरो वामः देवहूरुच्यत इत्य् अर्थः ॥५०-५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे नृप, दक्षिणेन दक्षिणस्यां दिशि दक्षिण-मुखीत्य् अर्थः । उत्तरेण उत्तरस्यां दिशि श्रुतधरः श्रुतं श्रोत्रेन्द्रियं, दक्षिण-कर्णेन बलाधिक्यात् प्राथम्याच् च कर्म-काण्ड-श्रवणं, वाम-कर्णेन ज्ञान-काण्ड-श्रवणम् इति द्वार-देशयोर् नाम-भेदः कृतः । पञ्चानाम् अपि विषयाणाम् श्रोत्रेणैव प्रथमम् अवगमात् पञ्चालम् इति संज्ञा ज्ञेया ॥५०-५१॥
॥ ४.२५.५२ ॥
आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः ।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असुरा इन्द्रियारामास् तेषाम् इयम् आसुरी शिश्न-द्वाः । ग्रामकं ग्राम-स्थ-जनानां कं सुखं व्यवायम् । दुर्मदेन गुह्येन्द्रियेण ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असुभ्य इन्द्रियेभ्यो रान्ति विषयभोगं ददतीत्यसुरा इन्द्रियारामाः । रातेर्डः, तेषामियमासुरी द्वाः ग्राम्याणां गृहस्थानां कं सुखं येन स ग्राम्यको व्यवायस्तम् ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.२५.५३ ॥
निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः ।
वैशसं नाम विषयं लुब्धकेन समन्वितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरृतिर् नाम गुदो मृत्यु-द्वारत्वात् । वैशसं मल-विसर्गम् । लुब्धकेन पायुना । तेनोत्क्रान्तस्य दुःख-प्राप्तेर् लुब्धक-साम्यम् ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरृच्छति निर्याति पुरीषमस्माद् इति निरृतिः ऋ-गतौ अतः क्तिन्नपादाने बाहुलकात् । गुदच्छिद्रं हिंसालक्षणं नरकं वा वैशसं तेन गुदेनोत्क्रान्तस्य त्यक्तदेहस्य नरकप्राप्तेः—
ऊर्ध्वच्छिद्रगतप्राणाः स्वर्गं यान्ति नरोत्तमाः । > अधश्छिद्रगतप्राणा नरकं भृशदारुणम् ॥
इति गरुडोक्त्या श्रूयमाणत्वाद् इति ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरृतिर् गुदं, मृत्यु-द्वारत्वात् । वैशसं मल-विसर्गम् । लुब्धकेन पायुना । तेनोत्क्रान्तस्य दुःख-प्राप्तेर् लुब्धक-साम्यम् ॥५३॥
॥ ४.२५.५४ ॥
अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ ।
अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमीषां मध्ये निर्वाक् पादः, पेशस्कृत् हस्तः, ताव् उभाव् अन्धौ, छिद्राभावात्, स्वतो ज्ञान-क्रिया-शक्त्य्-अभावाच् च । अक्षण्वताम् इन्द्रियवतां देहानाम् अधिपतिः पुरञ्जनः । त्वग्-इन्द्रियस्यानुक्तिः सर्वेष्व् अन्तर्-भावात् ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्गता वाक् यस्मात् स निर्वाक् । पेशः कोशाकार-गृहं करोतीति पेशस्कृत् । पेश इत्य् उपलक्षणं कर-कार्य-वस्तु-मात्रस्य । यद्यपि निर्वाक्त्वं रसनेतराणां सर्वेषाम् अस्ति, तथाप्य् अत्र वाग् वेद-लक्षणा ग्राह्या । सा च शब्दोपलक्षितस्य पादजस्य शूद्रस्य नेति व्यञ्जितं न केनचिच् छूद्रम् इति श्रुतेस् तस्याः श्रुतिजत्वात् ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्धाव् इति ज्ञान-हीनत्वात् ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमीषां मध्ये निर्वाक् पादः, पेशस्कृत् हस्तः, ताव् उभाव् अन्धौ, छिद्राभावात् । अक्षण्वताम् इन्द्रिय-वतां द्वाराणाम् अधिपतिः ॥५४॥
॥ ४.२५.५५ ॥
स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः ।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तः-पुरं हृदयं गतः । विषुचीनं सर्वतो-मुखं मनः । मोह-प्रसाद-हर्षास् तमः-सत्त्व-रजः-कार्याणि । जाया बुद्धिः । आत्मजा इन्द्रिय-परिणामाः, तद्-उद्भवम् ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषु सर्वतो\ऽञ्चतीति विषूचीनम् । इन्द्रिय-परिणामा दर्शनादयः ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तः-पुरं हृदयं विषु सर्वतोऽञ्चति विषूचीनं मनः, तद्-युक्तः । मोह-प्रसाद-हर्षास् तमः-सत्त्व-रजः-कार्याणि । जाया बुद्धिः । आत्मजाः सामान्य-विशेष-निश्चय-ज्ञानादयः, तद्-उत्थम् ॥५५॥
॥ ४.२५.५६ ॥
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः ।
महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काम्यन्त इति कामा विषयाः, तेष्व् आत्मा मनो यस्य स कामात्मा अबुधः । अन्ववर्तत अन्वसरत् ॥५६॥
न कतमेनान्येन व्याख्यातम्।
॥ ४.२५.५७ ॥
क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः ।
अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : जक्षत्यां भक्षयन्त्याम् ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवस्योपाधि-धर्माध्यासं प्रपञ्चयति—क्वचिद् इत्य्-आदि । यद् उक्तं—प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [गीता ३.२७] इति । जक्षत्यां चर्वन्त्याम् ॥५७॥
॥ ४.२५.५८ ॥
क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।
क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति ॥**
न कतमेनापि व्याख्यातम्।
॥ ४.२५.५९ ॥
क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति ।
अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसतीम् आसीनाम् ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.२५.६०-६१ ॥
क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति ।
क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥**
क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् ।
अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्यायतीव लेलायतीव इत्य्-आदि-श्रुतिम् अनुसृत्याह—क्वचिद् इति । भक्षयन्त्यां चर्वन्त्याम् । स पुरञ्जनः । ह स्फुटम् ॥५७-६१॥
न कतमेनापि व्याख्यातम्।
॥ ४.२५.६२ ॥
विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः ।
नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वासङ्गत्वादि-लक्षणा प्रकृतिः स्वभावो वञ्चितो यस्य । सर्वथा प्रकृत्या वञ्चित इति वा । नेच्छन् अनिच्छन् । क्लैब्यात् पारवश्यात् ॥६२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रिपद-बहुव्रीहेर् असार्वत्रिकत्वात् कर्मधारय-गर्भं तत्पुरुषम् आह—सर्वथेत्य्-आदि-विशेषेण । प्रकर्षेण लब्धः प्राप्तः । महिष्यैवम् अनेन प्रकारेण विप्रलब्धः नेच्छन्न् एकेन स्वभावेन । वस्तुतस् तु तद् अनिच्छन्न् अपि पारवश्य-प्रापकाद् अपरस्मात् स्वभावाद् अनुकरोति तद्-धर्मम् आत्मन्य् अध्यस्यति । तद् उक्तं—प्रकृतेः क्रियमाणानि गुणैर् आत्मनि मन्यते [गीता ३.२७] इत्य्-आदिना सद्-बुद्धि-संयोगे तु महीष्यास्तीति मही तस्मिन् नित्योत्सव-समुद्रे हरौ सीदति विषयीकृत्य वर्तत इति महिषी सद्-बुद्धिः, तया विशेषेण प्रलब्धः प्राप्ताभीष्ट-कार्य-लाभः सर्वस्य स्त्री-जनस्य प्रकृतिः स्वभावः, सर्व-प्रकृतिः सर्व-प्रकृतिर् वञ्चिता येन स तथा वञ्चित-सर्व-स्त्री-जन-स्वभावः । अं विष्णुं जानातीत्य् अज्ञो हरि-भक्तः सद्-बुद्ध्य्-अधीनत्वात् । क्रीडा-मृग इव नेच्छन्न् अपि सांसारिकं कर्मानुकरोति जोषयेत् सर्व-कर्माणि [गीता ३.२६] इत्य्-आदि-श्री-गीतोक्तेर् लोक-सङ्ग्रहार्थं करोतीति भावः ॥६२॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे पञ्चविंशो\ऽध्यायः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विप्रलब्ध इति । महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादि-रूपया वञ्चितः त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः । अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति । अत्र जीवस्य शक्तिमत्तायां, पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ [वे।सू। ३.२.५] इत्य् एतत् सूत्रम् अप्य् अनुसन्धेयम् ॥६२॥ [परमात्म-सन्दर्भ २६]1
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वि-**शेषेण प्र-कर्षेण एवम् अनेन प्रकारेण लब्धः प्राप्तः । सर्वया प्रकृत्या स्वभावेन ज्ञानानन्दादि-रूपया वञ्चितस् त्याजितः । नेच्छन् एकेन स्व-स्वभावेन, वस्तुतस् तत् तद् अनिच्छन्न् अपि क्लैब्यात् पारवश्य-प्रापकाद् अपरस्मात् स्वभावात् अनुकरोति, तद्-धर्मम् आत्मन्य् अध्यस्यति ॥६२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थे पञ्चविंशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः ।
॥ ४.२५ ॥
श्री-मध्वाचार्यानन्द-तीर्थ-पादा अस्मिन् अध्याये अतिरिक्तम् एकं पद्यं पठन्ति, यथा—
तेषां परिवृढो राजन् सर्वेषां बलिम् उद्वहन् ।
स-स्त्रीकानां सखा तस्या बहु-रूपोऽग्रणीः स्त्रियः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ये पुरञ्जन-भृत्याद्या भार्याद्याः सर्व एव च ।
तेऽपि मानुष-सौभाग्य्-आदेर् विज्ञेया अभिमानिनः ॥ > गायत्र्य्-आद्यास् तु देवानां तेऽपि चैतेषु संस्थिताः । > अलक्ष्मी-द्वापराद्यास् तु आसुरास् तेऽपि मानुषाः ॥ इति च ॥
(४.२६)
-
अत्रानुरूपार्थकं १.७.५, ३.७.९, ३.२६.५-६, ६.५.१५, १०.८७.३८ इत्य्-आदि-पद्यं द्रष्टव्यम्। ↩︎