अथ चतुर्विंशोऽध्यायः
विषयः
पृथु-वंशः, रुद्र-प्राचेतस-समागमः, रुद्र-गीतं च ।
॥ ४.२४.१ ॥
मैत्रेय उवाच—
विजिताश्वोऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः ।
यवीयोभ्योऽददात् काष्ठा भ्रातृभ्यो भ्रातृ-वत्सलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्-विंशे प्रपौत्रात् तु पृथोः प्राचीनबर्हिषः ।
प्रचेतसां जनिस्तेभ्यो रुद्र-गीतं च वर्ण्यते ॥
अधिराज आसीद् इत्य् अर्थः । यवीयोभ्यः कनिष्ठेभ्यः । काष्ठा दिशः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्मध्ये\ऽष्टसु मध्ये । पितुः प्राचीनबर्हिषः जनिरुत्पत्तिः । तेभ्यः प्रचेतोभ्यः । ज्ञानं महेश्वरादिच्छेन्मोक्षमिच्छेज्जनार्दनात् इत्यतो मोक्षसिद्धये रुद्राज्ज्ञानोपदेशप्रकारो ब्रह्मपदयोग्यानामृजूनां देवानामुत्तमाधिकारित्वं चात्राध्याये वर्ण्यते । तत्रादावेतस्योपोद्धातम् आह—अधिराजो महाराजः । इत्य् अर्थ इति । सन्धिरत्रार्ष इति भावः । दिशस्तु ककुभः काष्टाः इत्य् अमरः । कनिष्ठे\ऽनुजो यवीयांश् च इति च ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पृथोः प्रपौत्रात् प्राचीनबर्हिषो ये प्रचेतसः ।
चतुर्विंशे रुद्र-गीतं त आपुर् इति कीर्त्यते ॥ओ॥
अधिराजा अधिराजः । यवीयोभ्यः स्वक-निष्ठेभ्यः ॥१ ॥
॥ ४.२४.२ ॥
हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुर्यां चतुर्थीम् उत्तरां दिशम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभुः समर्थः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.३ ॥
अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः ।
अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शक्राल् लब्ध्वा पृथोर् अश्वमेधेऽश्व-विजयावसरे ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विजिताश्व एवान्तर्द्धानसंज्ञितो जात इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्ध्वा पितुर् अश्वमेधीयाश्व-विजयावसरे इत्य् अर्थः । अन्तर्धान-नामा ॥३ ॥
॥ ४.२४.४ ॥
पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा ।
वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपत्य-त्रयम् एवाह—पावक इति । पुरा यः शापः, तस्मान् मनुष्येष्ऊत्पन्नाः सन्तो योग-गतिम् अग्नित्वं प्राप्ताः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरा पूर्वजन्मनि । कस्मिंश्चित्कारणान्तरे यो वशिष्ठशापस्तस्मात् । योगयुक्ता गतिर्योगगतिर्देवत्वं देवानां नैसर्गिकयोगित्वात् । योगोन्येषां प्रयत्नेन स देवानां निसर्गतः इत्य् उक्तेः । पुराणान्तरगम्यं शापवृत्तम् । यद्वा—अग्निर्हि सप्तर्षिभार्यारूपमोहितस्ताश्चकमे रन्तुं, तदा स्वाहा तत्तद्रूपिणी भूत्वाग्निं सिषेवे । सा महाप्रयत्नेनापि वशिष्ठभार्यारुन्धतीरूपामात्मानं कर्तुन्न प्रबभूव । सो\ऽग्निस्तदा तां तादृशीमदृष्ट्वा पुनस्ताम् एव चकमे । वशिष्ठो योगबलेन तज्ज्ञात्वाग्निमाहूय त्वं यतो मत्पत्न्याः पातिव्रत्यभङ्गमिच्छस्यतस् त्रिविधेनैव रूपेण मनुष्यो भविष्यसीति प्रतीयते श्रीमहाभारतोक्तरीत्येति वा ज्ञेयम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :योग-गतिम् अग्नित्वम् ॥४
॥ ४.२४.५ ॥
अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत ।
य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नभस्वत्याम् अन्यस्यां भार्यायाम् । अन्तर्धानस्य विशेषणं य इति । एतेन शक्राद् अन्तर्धान-गति-लाभे कारणम् उक्तम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेन शक्राहननवचनेन । अहो मामयं यज्ञहनं ज्ञात्वापि यतो न जघानातोस्मै विद्यामन्तर्द्धानाख्यां दास्यामीति प्रसन्नः संस्तां तस्मै ददाव् इति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :नभस्वत्याम् अन्यस्यां भार्यायां, योऽन्तर्धानः । विद्वान् अपि न जघ्निवान् इति शक्राद् अन्तर्धान-गति-लाभे कारणम् ॥५॥
॥ ४.२४.६ ॥
राज्ञां वृत्तिं करादान-दण्ड-शुल्कादि-दारुणाम् ।
मन्यमानो दीर्घ-सत्त्र-व्याजेन विससर्ज ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स चान्तर्धानो राज्ञां वृत्तिङ्करादानादिभिर् दारुणां पर-पीडात्मिकां मन्यमानो विससर्जह ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुल्को घट्टादि-देये स्याद् वरादर्थग्रहे\ऽस्त्रियाम् इति मेदिन्युक्तेः शुल्कं क्रेतृविक्रेतृनद्याद्यवतारकेभ्यो ग्राह्यं किञ्चिद् द्रव्यम् । आदिना युद्धादिग्रहः । साक्षात्त्यागे राजमर्यादालङ्घनं स्याद् इति भावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : राज्ञाम् इति । साक्षात् त्यागे रज-मर्यादा-लङ्घनं स्याद् इति भावः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योऽन्तर्धानो राज्ञां वृत्तिं विससर्ज । कुतः ? कर-दानादिभिर् दारुणां मन्यमानः ॥६॥
॥ ४.२४.७ ॥
तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् ।
यजंस् तल्-लोकताम् आप कुशलेन समाधिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्ति स्वानां क्लेशम् इति हंसस् तं पुरुषं पूर्णम् । कुशलं पुण्यं तद्-रूपेण समाधिना ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि दीर्घसत्रे\ऽपि । कर्म कुर्वन्नपि । समाधिना चित्तैकाग्र्येण । तल्लोकतां तत्साक्षात्कारं प्राप हंसः शुचिषत् इत्य्-आदिश्रुतेः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि दीर्घ-सत्रेऽपि कर्म कुर्वन्न् अपि हंसावतारंयजन् तस्य लोक एव लोको वास-स्थानं यस्य, मृगेक्षणेतिवत् समासः तस्य भावस् तत्ता ताम् ॥७॥
॥ ४.२४.८ ॥
हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विदुरेति । त्वद्वज्ज्ञानिनो\ऽप्य् अनासक्त्या सन्तत्युत्पादनं न दोषायेति भावः ॥८॥
न कतमेनापि व्याख्यातम्।
॥ ४.२४.९-१० ॥
बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः ।
क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह ॥
यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः ।
प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हाविर्धानिर् हविर्धानस्य पुत्रः । योगेषु च प्राणायामादिषु ॥ क्रिया-काण्ड-निष्णातत्वम् आह—यस्येति । इदं वसुधा-तलं देव-यजनं यज्ञ-वाटं वितन्वतः । यत्रैको यज्ञः कृतस् तत्-समीप एव यज्ञान्तरं कुर्वतः सतः । अत एव प्राचीनबर्हिर् इत्य् उच्यते ॥९-१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुरूद्वहेति । कुरुनृपो\ऽपि बहुयज्ञकृद्यथा तथायमपीति त्वं जानास्येवेति भावः ॥ अत एव सर्वत्र कुशैराच्छादनाद् एव । पृथिव्यां तादृशं स्थलं नासीद्यत्र तेन यज्ञो न कृत इति इति भावः । यद्वानुयज्ञं प्रतियज्ञं देवानां सर्वेषां यजनमर्चनं वितन्वतः विस्तार्य मुख्यकल्पेनैव कुर्वतः ॥९-१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्येदं वसुधा-तलं कुशैर् आस्तृतम् आच्छादितम् आसीद् इति । पृथिव्यां तादृशं स्थलं नासीद् यत्र तेन यज्ञः कृतो नासीद् इति । अत एव स प्राचीनबर्हिर् इत्य् उच्यत इति भावः । तत्राप्य् अनुयज्ञं प्रतियज्ञम् एवं देवानां सर्वेषाम् एव यजनं वितन्वतः विस्तार्य मुख्य-कल्पेनैव कुर्वतः ॥९-१०॥
॥ ४.२४.११ ॥
सामुद्रीं देव-देवोक्ताम् उपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् ॥
परिक्रमन्तीम् उद्वाहे चकमेऽग्निः शुकीम् इव ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
राज-पुत्रीं शुकीम् अग्निर् अवयान्तीं प्रदक्षिणम् ।
आदायान्तरधाद् दान-समये मन्मथातुरः ॥ इति ब्राह्मे ॥११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्रस्य कन्यां देव-देवेन ब्रह्मणोपदिष्टां शतद्रुतिं नाम किशोरीं बालां परिक्रमन्तीं प्रदक्षिणं गच्छन्तीम् । शुकीम् इवेति । एवं ह्य् आख्यायते । सप्तर्षीणां सत्रे तद्-भार्या-दर्शनेनाग्निः काम-सन्तप्तोऽभूत् । तं च तद्-भार्या स्वाहा-नाम सप्तर्षि-भार्या-रूप-धारिणी सती रमयामास । रमयित्वा च तद्-रेतः शुकी-रूपेण शर-स्तम्बे निधायागच्छत् । तां यथा सप्तर्षि-भार्या-भ्रान्त्या अग्निः कामितवान्, तद्वद् इति । स्तुकीम् इवेति पाठे स्तोक-घृत-धाराम् इवेत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सार्द्धेन आख्यायते महाभारते । इत्य् अर्थ इति । स्तुक अल्पीभावे अत इगुपधत्वात्कप्रत्यये डीपि च स्तुकीति रूपं प्रकरणाद् घृतधारेति लब्धम् इति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सामुद्रीम् इत्य् अर्धकम् ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्रस्य कन्यां देवदेवेन ब्रह्मणोपदिष्टाम् । शुकीम् इवेत्य् एवं ह्य् आख्यायते । महर्षीणां सत्रे तद्-भार्यादर्शनेनाग्निः कामार्तोऽभूत् । तं च तद्-भार्या स्वाहा-नाम सप्तर्षि-भार्या-रूप-धारिणी सती रमयामास । रमयित्वा च तद्-रेतः शुकी-रूपेण शर-स्तम्बे निधायागच्छत् । तां यथा सप्तर्षि-भार्या-श्रान्त्या अग्निः कामितवान्, तद्वत् । शुकीम् इवेति पाठे स्तोक-घृत-धाराम् इवेत्य् अर्थः ॥११॥
॥ ४.२४.१२ ॥
विबुधासुर-गन्धर्व-मुनि-सिद्ध-नरोरगाः ।
विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्यया नवोढयैव विबुधादयो विजिता अभिभूताः । तच् च नूपुरैः पादौ क्वणयन्त्यैव । तद् ध्वनि-मात्रेणेत्य् अर्थः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । किं पुनर् दर्शनादिनेति भावः । सूर्या स्याद् रविभार्यायामोषधिभिन्नवोढयोः इति स्वामी । सूर्यां वहतुना सह इति श्रुतिर् अपि नवोढाम् एवाह—सूर्यापदेन ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यया नवोढयैव विजिताः । तच् च नूपुरैः पादौ क्वणयन्त्यैव ध्वनि-मात्रेणैव, न तु तां केऽपि द्रष्टुं शेकुर् इति भावः ॥१२॥
॥ ४.२४.१३ ॥
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।
तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुल्यं नाम व्रतम् आचारश् च येषाम् । धर्म-स्नाता धर्म-पारगाः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृष्टे श्री-कृष्णे चेतो येषां ते प्रचेतसः अथ भागवता यूयं प्रियाः स्थ भगवान्यथा । इति रुद्रोक्तेर्ज्ञायते तेषां कृष्णचेतस्त्वम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्म-स्नाता इत्य् अत्र धनुः-स्नाता इति चित्सुखः, धनुर्-वेद-पारगाः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.१४-१५ ॥
पित्रादिष्टाः प्रजा-सर्गे तपसेऽर्णवम् आविशन् ।
दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम् ॥
यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तपसा तपसां पतिं हरिम् अर्चन्न् अर्चयाम् आसुः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजा-सर्गे इति निमित्ते सप्तमी । तपसे तपः कर्तुम् ॥१४-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपसां पतिं हरिम् अर्चन्न् अर्चयामासुः । कीदृशाः ? यद् उक्तं गिरिशेन, तद् एव ध्यायन्तः ॥१४॥
॥ ४.२४.१६ ॥
विदुर उवाच—
प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः ।
यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्*।***
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थवत् प्रयोजनयुक्तम् ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् रहो रहसां प्रीतः सन् वाचा अभिधयैव आह ॥१६॥
॥ ४.२४.१७ ॥
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुनयोऽपि सङ्ग-त्यागेनाप्तुम् इष्टं यं दध्युर् एव केवलं, न तु प्रपुः । तेन शिवेन ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असङ्गात्सङ्गं परित्यज्य ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असङ्गात् सङ्गं परित्यज्य अभि सर्वतो-भावेन ईप्सितं प्राप्तुम् इष्टं यं मुनयोऽपि दध्युर् एव ॥१७॥
॥ ४.२४.१८ ॥
आत्मारामोऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मुनीनां किं तद्-ध्यानेन, घोरत्वात् ? इत्य् आशङ्क्याह—आत्मारामोऽपि लोक-रचनायाः पालनाय ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : घोरया दुष्टं प्रति ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनीनां ध्यान-गम्योऽपि कृपया सकामानाम् अपि कामं दातुं दृश्योऽपि भवतीत्य् आह—आत्मेति । लोक-कल्पस्य राधसे लोक-मनोरथ-कल्पनस्य सिद्धये ॥१८॥
॥ ४.२४.१९ ॥
मैत्रेय उवाच—
प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः ।
दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुर्व्-आज्ञा-कारिणां शिव-दर्शनं स्वत एव भवतीत्य् आशयेनाह—प्रचेतस इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । राधसे सिद्धये । घोरया भयानकया घोरं भीमं भयानकम् इत्य् अमरः । दुष्टानां भय-जननाय तत्-कृतोपद्रवं वारयितुं घोरां शक्तिं गृह्णातीति भावः ॥१८-१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.२०-२२ ॥
स समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः ।
महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम् ॥
नील-रक्तोत्पलाम्भोज-कह्लारेन्दीवराकरम् ।
हंस-सारस-चक्राह्व-कारण्डव-निकूजितम् ॥
मत्त-भ्रमर-सौस्वर्य-हृष्ट-रोम-लताङ्घ्रिपम् ।
पद्म-कोश-रजो दिक्षु विक्षिपत् पवनोत्सवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्रम् उप समुद्रात् किञ्चिन् न्यूनम् । उपोऽधिके च इति कर्म-प्रवचनीयः । प्रसन्नाः सलिलाशया मत्स्यादयो यस्मिन् ॥२०॥
नीलोत्पलादीनाम् आकरं जन्म-स्थानम् । उत्पलाम्भोज-कह्लाराणि रात्रि-दिन-सन्ध्या-विकासीनि । इन्दीवरं नीलोत्पलम् । तस्य पुनर् उक्तिः प्राचुर्य-ज्ञापनार्थम् । हंसादिभिर् निकूजितम् ॥२१॥
मत्तानां भ्रमराणां सौस्वर्येण हृष्ट-रोमाणि लताङ्घ्रिपा यस्मिन्, पद्म-कोश-रजो दिक्षु विक्षिपता पवनेनोत्सवो यस्मिन् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सलिल आसमन्ताच् छेरते इति सलिलाशयाः महतां सम-चित्तत्वादि-विशिष्टानां हरि-भक्तानां इवानाविलं महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये [भा।पु। ५.५.२] इत्य् उक्तेः ।
महच्-छब्दस् तत्त्व-भेदे पुंसि कण्वर्षि-कृष्णयोः ।
वीणाभेदे स्त्रियां राज्ये क्लीबे वृद्धे तु वाच्यवत् ॥
इति कोशोक्तेर् महतः कण्वर्षेर् मन इव स्वच्छं कण्व-मनसः स्वच्छत्वं शकुन्तलायाः पुत्रीत्वेन रक्षणात् ॥ नीलं च तद्-रक्तं च नील-रक्तं तथा-भूतं यद् उत्पलं नील-रक्तोत्पलम् । एवं चेन्दीवर-पदेन न पुनर्-उक्तिः । अंभोज-कह्लारेन्दीवर-शब्दाः क्रमेण श्वेत-रक्त-नील-पद्म-वाचकाः । कारण्डवः प्लवो मद्गुः इत्य् अभिधानात् ॥ सौस्वर्येण शोभन-स्वर-परम्परया ॥२०-२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : समुद्रम् इति त्रिकम् । समुद्रम् उप उपसमुद्रं, तत्-समीपम् इत्य् अर्थः । स्वच्छत्वं स्थलस्य, प्रसन्नत्वं सलिलस्य ॥२०॥ किं कुर्वत् ? सरो दिक्षु पद्म-कोश-रजो विक्षिपत् । कीदृशम् ? तद्-रजः-पवनेनौत्सवः उद्रेको तस्य तत् ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्रम् उप समुद्रात् किञ्चिन् न्यूनम् । उपोऽधिके च हीने च इति कर्म-प्रवचनीयः । नीलं च तद् रक्तं चेति तथा-भूतं यद् उत्पलं, अत एव इन्दीवरं नीलोत्पलम् इति न पुनर्-उक्तिः । मत्त-भ्रमराणां सौस्वर्येणहृष्ट-रोमाणि इव मुकुल-युक्ता लता अङ्घ्रिपाश् च यत्र तत् । पद्म-कोश-रजो दिक्षुविक्षिपता पवनेन उत्सवो यत्र तत् ॥२२॥
॥ ४.२४.२३ ॥
तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् ।
विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रमृदङ्ग-पणवादि-वाद्यम् अनु पश्चाद् दिव्यैर् मार्ग-भेदैर् मनोहरं गान्धर्वं गानम् आकर्ण्य विस्मयं प्राप्ताः । पाठान्तरे मृदङ्ग-पणवादि अवत् रक्षत् । तेषां ध्वनिम् अतिरस्कुर्वद् इत्य् अर्थः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सरोवरे । दिव्यैरलौकिकैर्मार्गभेदैर्गानप्रकारैः । यद्वा—दिव्यमार्गा देवास् तेषां मनोहरम् । पाठान्तरे पणवाद्यवद् इति पाठे । इत्य् अर्थ इति । एतादृशगानमस्ति येन मृदङ्गादिध्वनिर्नाच्छाद्यत इति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र गान्धर्वम् इति । पणवाद्यवद् इति पाठे मतुप् ज्ञेयः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गान्धर्वं गानम् मार्गा गान-सम्बन्धिनः । कदा ? **मृदङ्ग-पणवादि-**वाद्यं पश्चात् । पणवाद्यवद् इति पाठे मतुप् ज्ञेयः । यद् वा, मृदङ्ग-पणवादि । कीदृशम् ? अवत् रक्षत् । स तु मूल-ध्वनिभिर् अपि गानम् अतिरस्कुर्वद् इत्य् अर्थः ॥२३॥
॥ ४.२४.२४ ॥
तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् ।
उपगीयमानम् अमर-प्रवरं विबुधानुगैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते च त्रि-लोचनं वीक्ष्य जाताश्चर्याः प्रणेमुर् इत्य् उत्तरेणान्वयः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हीति । हेम-निकायार्णम् इति चित्सुखः । सुवर्ण-राशि-सदृश-वर्णम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.२५ ॥
तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् ।
प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तप्त-हेम-राशि-सदृश-कान्तिम् । शितिर् नीलः कण्ठो यस्य तम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्ह्येव गान्धर्वश्रवणोत्तरम् एव । अमरप्रवरं सर्वदेवश्रेष्ठम् ॥२४-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.२६ ॥
स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः ।
धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शिवः । तान् प्रचेतसः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : “प्रपन्नान् गिरिश” इति क्वचित् ॥२६॥
॥ ४.२४.२७ ॥
श्री-रुद्र उवाच—
यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वेदिषदो बर्हिषदः । चिकीर्षितं भगवद्-आराधनं विदितम् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
वेदिर्विज्ञे बर्हिपुंजे वेदी स्यात्संस्कृतावनौ ।
अङ्गुल्या भूषणे चाथ वेदो वृत्ते श्रुतौ धने ॥ इति कोशात् ।
वो युष्माकमनुग्रहाय एवंविधं भद्रं कल्याण-रूपं मे मया कृतं दत्तं धातूनामनेकार्थत्वात् । यद्वा—वो\ऽनुग्रहाय युष्माननुग्रहीतुं युष्माकं दर्शनं मया कृतम् इत्य् अर्थः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यूयं वेदिषद इत्य्-आदि रुद्र-वाक्यम् । अनुग्रहाय भद्रं व एतन् मे दर्शनं कृतं कारितम् । यद् वा, कृतम् इत्य् अत्रानुग्रह-हेतुः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दर्शनम् इति । हेतु-ण्य्-अन्ताद् भावे युच् दर्शनम् इत्य् अर्थः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिकीर्षितं भगवद्-आराधनम् एव । अत एव वो युष्माकम् अनुग्रहाय । एवं दर्शनं कृतं दत्तम् । यद् वा, वोऽनुग्रहाय युष्मत्-कर्तृकानुग्रह-प्राप्तये मयैवं दर्शनं कृतम् । यद् वा, वोऽनुग्रहाय युष्मान् अनुग्रहीतुं युष्माकं दर्शनं मया कृतम् इत्य् अर्थः ॥२७॥
॥ ४.२४.२८ ॥
यः परं रंहसः1 साक्षात् त्रि-गुणाज् जीव-संज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुग्रह-कारणम् आह—यः साक्षाद्वासुदेवं प्रपन्नः, स हि मे प्रियः । कथं-भूतम् ? रंहसः सूक्ष्मात् त्रि-गुणात् प्रधानाज् जीव-संज्ञितात् पुरुषाच् च परम्, प्रकृति-पुरुषयोर् नियन्तारम् इत्य् अर्थः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । त्वमीशिषे जगतस्तस्थुषश् च इति श्रवणाद् इति भावः । जगत्तस्थिवच्छब्दौ पुरुषप्रकृतिलक्षकौ तौ त्वमीशिषे प्रेरयसीत्य् अर्थः । यद्वा—त्रिगुणान्मायाशक्तेर्जीवसंज्ञिताज्जीवशक्तेश् च रहः सर्वदुर्लक्ष्यं यन्निर्गुणं ब्रह्म तस्माद् अपि परं ब्रह्मणो हि प्रतिष्ठाहम् इति श्रीगीतोक्तेः । यः साक्षात्प्रपन्नः । न तु कर्मार्पणद्वारा नापि देवतान्तरभक्ति-ज्ञानादिव्यवधानेनेत्य् अर्थः । स हि स ह्येव प्रिय इति तेन मद्भक्तो\ऽपि मे तथा न प्रिय इति भावः । तमस इति पाठं चित्सुखादयः पेठुः । तत्र तमसः प्रकृतेरित्य् अर्थः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : य इत्य्-आदि । यो जनः साक्षाद् वासुदेवं प्रपन्नः, स हि निश्चितं प्रियः । वासुदेवं विशिनष्टि—रंहसः सूक्ष्माद् ब्रह्मणोऽपि परं त्रिगुणात् प्रधानाज् जीव-संज्ञितात् पुरुषाच् च, कालस्य ते प्रकृति-पुरुषयोः परस्य [भा।पु। ११.६.१४] इति वक्ष्यमाणत्वाच् च । यद् वा, प्रतिलोमेनान्वयः—कोऽसौ वासुदेवः ? पुरुषो वा ? नहि नहि, तस्माद् अपि परः । तर्हि प्रधानं वा ? नहि नहि, तस्माद् अपि परः । तर्हि रहो ब्रह्म वा ? नहि नहि, तस्माद् अपि परः । अत एव भगवन्तम् अचिन्त्य-महैश्वर्यम् ॥२८॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ८१) : अतो ब्रह्मणः परत्वेन श्री-भगवन्तं कण्ठोक्त्यैवाह—य इति । पित्रानुवर्णित-रहाः [भा।पु। ३.१५.४६] इति श्रवणेनरहो ब्रह्म, तस्माद् अपि परं, ततः सुतरां त्रिगुणात् प्रधानाज् जीव-संज्ञितात् जीवात्मनः परं भगवन्तं यः साक्षात् श्रवणादिनैव, न तु कर्मार्पणादिना प्रपन्न इत्य् अन्वयः ।
तथा च विष्णु-धर्मे नरक-द्वादशी-व्रते श्री-विष्णु-स्तवः—
आकाशादिषु शब्दादौ श्रोत्रादौ महद्-आदिषु ।
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि च स प्रभुः ॥
येनैक एव सर्वात्मा वासुदेवो व्यवस्थितः ।
तेन सत्येन मे पापं नरकार्ति-प्रदं क्षयम् ॥
प्रयातु सुकृतस्यास् तु ममानुदिवसं जयः ॥ इति ॥
अत्र प्रकरणानुरूपेण सर्वात्म-शब्देन चान्यथा समाधानं च पराहतम् । तथा च तत्रोत्तरं क्षत्र-बन्धूपाख्याने—
यन्-मयं परमं ब्रह्म तद्-अव्यक्तं च यन्-मयम् ।
यन्-मयं व्यक्तम् अप्य् एतद् भविष्यामि हि तन्-मयः ॥ इति ॥
तत्रैव मासर्क्ष-पूजा-प्रसङ्गे ततः परत्वं स्फुटम् एवोक्तं—
यथाच्युतस् त्वं परतः परस्मात्
स ब्रह्म-भूतात् परमः परात्मन् ।
तथाच्युत त्वं वाञ्छितं तन्
ममापदं चापहराप्रमेय ॥ इति ॥
श्री-विष्णु-पुराणे च—स ब्रह्म-पारः पर-पार-भूत [वि।पु। १.१५.५५] इति । अक्षरात् ततः परतः पर [मु।उ। २.१.२] इति श्रुतेः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति न्यायात् रहस इति ब्रह्मणोऽपि । यद् वा, रहसः चतुःश्लोकी-प्रोक्तस्य रहस्याख्यस्य प्रेम्णः परं परमाश्रयम् । रंहस इति लेखक-भ्रमः । सूक्ष्माद् इति स्वटीकायाम् अस्वारस्यात् । तमस इति चित्सुखः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुग्रहे कारणम् आह । यः साक्षाद् भगवन्तं वासुदेवं प्रपन्नः, स हि मे प्रियः । कथं-भूतम् ? रंहसः सूक्ष्मात् त्रि-गुणात् प्रधानाज् जीव-संज्ञितात् पुरुषाच् च परम् । प्रकृति-पुरुषयोर् नियन्तारम् इत्य् अर्थः इति स्वामि-चरणैः ।
यद् वा, त्रिगुणान् माया-शक्तेः जीव-संज्ञितात् जीव-शक्तेश् रहः सर्व-दुर्लक्ष्यं यत् निर्गुणं ब्रह्म, तस्माद् अपि परं, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति गीताभ्यः । यः साक्षात् प्रपन्नः, न तु कर्मार्पण-द्वारा, नापि देवतान्तर-भक्ति-ज्ञानादि-व्यवधानेनेत्य् अर्थः । स ह्य् एव प्रिय इति, तेन मद्-भक्तोऽपि न मे तथा प्रिय इति भावः ॥२८॥
॥ ४.२४.२९ ॥
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मां श्रियम् ।
ऋभवो नाम ये देवा योग्या ब्रह्म-पदस्य तु ।
त एव शत-जन्मानि विशेषोपासका हरेः ॥
प्राप्य ब्रह्म-पदं पश्चाच् छिर्यं प्राप्यानुमोदिताः ।
तया ततो हरिं यान्ति वसन्ति हरि-सन्निधौ ॥
अनादि-काल-भक्ताश् च ज्ञानिनस् तेन संशयः ।
विशिष्ट-ज्ञान-भक्त्य्-आदौ सर्व-जीव-निकायतः ॥
सर्वदापि विशेषेण शत-जन्म-प्रयत्नतः ।
स्वपद-प्राप्तिर् उद्दिष्टा ततो मुक्तिर् अवाप्यते ॥
तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः ।
विंशद्भिर् ऐन्द्रं दशभिर् अन्येषाम् अप्य् उदीरितम् ॥ इति षाड्गुण्ये ॥२९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् किं तस्य महत्तमत्वात् ? इत्य् आह । स्व-धर्म-निष्ठः पुमान् बहुभिर् जन्मभिर् विरिञ्चतां प्राप्नोति । ततोऽपि पुण्यातिशयेन माम् एति । भागवतस् त्व् अथ देहान्तेऽव्याकृतं प्रपञ्चातीतं वैष्णवं पदम् एति । यथाहं रुद्रो भूत्वाधिकारिकवद् वर्तमानह्, विबुधा देवाश् चाधिकारिकाः कलात्ययेऽधिकारान्ते लिङ्ग-भङ्गे सत्य् एष्यन्ति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्प्रियत्वं किं कुतः तस्य भगवद्-भक्तस्य । अत्र विश्वनाथः—ब्रह्मविष्णुरुद्राणामस्माकं सुकृतेस्तारतम्यं सम्मुखाद् एव शृणुतेति वदन्विष्णोः सर्वतः श्रेष्ठ्यम् आह—विरिञ्चितां विरिञ्चिपदं तत्राप्यनिष्ठितत्त्वे शतजन्मभिर् अपि न प्राप्नोतीत्य् अर्थः । ततो विरिञ्चितो\ऽपि परं श्रेष्ठं मां ततो\ऽपि पुण्यातिशयैरे व । भागवतस्तु—अथ देहान्त एवाव्याकृतं वैकुण्ठं यथाहमेमि प्रतिक्षणम् एव वैकुण्ठे वसन्नेकेन प्रकाशेन भगवन्तं भजामीत्य् अर्थः । कलालिङ्गं तस्यान्ते भक्तपदेन प्रेमभक्तो ग्राह्यः देहान्ते देवस्तारकं व्याचष्ट इत्य्-आदिश्रुतिः प्रेमभक्तपरैवेति । अत्र तीर्थस्तु—स्वधर्मो वैराग्यभक्ति-ज्ञानादयस्तेषु निष्ठा नितरां स्थितिर् यस्य स तथा ब्रह्मपदमेति । ततः परं ब्रह्मपदानुभवानन्तरं मां श्रियमेति । अथ श्रियं प्रविश्य भागवतो भगवद्भिर्युक्तो वैष्णवं पदमपरिच्छिन्नं भगवत्-स्वरूपम् एतीति । कलात्यये षोडशकलोपलक्षितशरीरलये सति यथाहं हरिप्रसादेन शैवं पदं प्राप्तो\ऽस्मीत्य् आह । तच्चासार्वत्रिकत्वादचारुवद्भाति ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्तस् तम् एव भज, किं स्व-धर्मानुष्ठानेनेति व्यतिरेकेणाह—स्व-धर्म-निष्ठ इत्य्-आदि । शत-शब्दोऽसङ्ख्य-परः, विरिञ्चिताधिगमात् बहु-कालेन माम् एति । मत्-प्राप्तेः परं वैष्णवं पदम् एति ।
ननु भवद्-भाव एव वैष्णवं पदं, विष्णोस् तव चाभेदात्, तत् कथम् इदम् उच्यते ? तत्राह—यथेति । अतोऽस्मद्-आदीनाम् अनीहत्वाद् यथाहम् अन्ये च ब्रह्मादयो देवाः कला हरेर् अंशवस् तद्-अन्ते एष्यन्ति । अतः स्व-धर्म-निष्ठायां यदि निर्बाधता स्यात्, तदा इयता कालेन वैष्णवं पदं प्राप्यते, बाधे सति नैव । तत्-परिहारेण भगवद्-धर्मतश् चेत् क्रियते, तदोक्त-प्रकारं क्रमम् अभिलङ्घ्य तत्-कालम् एव वैष्णव-पद-प्राप्तौ स्व-धर्माचरणाद् भगवद्-धर्माचरणम् एव श्रेय इति भावः ॥२९॥
दिग्दर्शनी (बृ।भा। २.६.१०४): अथ ततः परं भागवतः सन् अव्याकृतं प्रपञ्चातीतं यथाहं रुद्रो भूत्वाधिकारिकवद् वर्तमानः विबुधा देवाश् चाधिकारिकाः कलात्यये\ऽधिकारान्ते लिङ्ग-भङ्गे सत्य् एष्यन्तीति तस्मिन् अनुग्रहे शत-गुणैर् उत्ताने अधिके जाते सति वैकुण्ठम् एति । यथोक्तम् इतिहास-समुच्चये मुद्गलोपाख्याने—
ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदं ।
शुद्धं सनातनं ज्योतिः पर-ब्रह्मेति यद् विदुः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः ।
ध्यान-योग पराश् चैव तत्र गच्छन्ति साधवः ॥
ये\ऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् ।
नारायणम् अजं कृष्णं विष्वक्सेनं चतुर्भुजम् ॥
ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये ।
लभन्ते ते\ऽच्युतं स्थानं श्रुतिर् एषा सनातनी ॥ इति ।
ब्रह्मणः सदनाद् इत्य् अस्य मुक्ति-पदाद् इत्य् अर्थः, सायुज्येन तत्र ब्रह्मानुभवात् । एवं श्री-महेशाद् अपि श्री-वैकुण्ठ-वासिनाम् अधिको महिमा सम्पन्नं । तच् च तस्य भक्तावतारत्वेन विनयोक्ति-मात्रम्, वस्तुतस् तु तस्य श्री-भगवद्-अवतारत्वात् पार्षदैर् अपि पूज्यतैव प्रसज्येत । एतच् च तेषाम् एव वाक्यतो\ऽग्रे व्यक्तं भावि । एवं सर्वेषाम् अपि भगवद्-अवताराणां बोद्धव्यम् । तारतम्यं च यद् दृश्यते, तच् च भगवत्ता-प्रकटनानुसार-मात्रेणैव, न तु वस्तुतः । एतद् अप्य् अग्रे श्री-नारद-वाक्यतो विस्तरेण व्यक्तं भावि ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-धर्मेत्य् अस्य टीकायां “तत् किम् ?” इति “तत्र हेतुः कः ?” इत्य् अर्थः । विबुधा इत्य् अत्र विबुधैर् इति चित्सुखः, विबुधैः कार्यैः सह ॥२९॥
भगवत्-सन्दर्भः (५०): ततोऽपि पुण्यातिशयेन माम् एति, भागवतस् तु अथ देहान्ते अव्याकृतं, नाम-रूपे व्याकरवाणि [छा।उ। ६.३.२] इति श्रुति-प्रसिद्ध-व्याकरणाविषयं प्रपञ्चातीतं वैष्णवं पदं वैकुण्ठम् एति । यथाहं रुद्रो भूत्वाधिकारिकतया वर्तमानः, विबुधा देवाश् चाधिकारिकाः कलात्यये अधिकारान्ते लिङ्ग-भङ्गे सत्य् एष्यन्तीति, यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् [वे।सू। ३.३.३३] इति न्यायेन ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-रुद्र-विष्णूनाम् अस्माकं सुकृतेः प्राप्ति-तारतम्यं मन्-मुखाद् एव यूयं शृणुतेति वदन् विष्णोः सर्वतः श्रैष्ठ्यम् आह—स्व-धर्म-निष्ठः पुमान् शत-जन्मभिर् विरिञ्चतां विरिञ्चि-पदम् एति । तत्राप्य् अनिष्ठितत्वे शत-जन्मभिर् अपि न प्राप्नोतीत्य् अर्थः । ततो विरिञ्चितोऽपि परं श्रेष्ठं मां, ततोऽपि पुण्यातिशयैर् एवेति । भागवतस् त्व् अथ देहान्त एव अव्याकृतं प्रपञ्चातीतं वैष्णवं पदं वैकुण्ठम् एति । यथाहम् एमि प्रतिक्षणम् एव वैकुण्ठे वसन्न् एकेन प्रकाशेन भगवन्तं भजामीत्य् अर्थः । विबुधाश् चाधिकारिका भक्ताः कला लिङ्गं तस्य अत्यये स्व-स्वाधिकारान्तेऽपि लिङ्ग-भङ्गे एवैष्यन्तीति भक्तेः साधन-साध्य-समयानां सुख-लभ्यत्वेनापि सर्वोत्कर्षो दर्शितः ॥२९॥
॥ ४.२४.३० ॥
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद् भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अथ अत एवम् अनादि-भक्तोऽहं यतः अतः प्रिया यूयम् ॥३०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ भागवतत्वाद् यूयं मे प्रियाः स्थ । भवद्भिर् अपि मयि प्रीतिः कार्येत्य् आशयेनाह । मद् अन्यो भागवतानां च प्रेयान् नास्ति ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ हेत्वर्थे तद् एवाह भागवतत्वाद् इति । यथा च यूयं मे प्रियास् तथा भागवतानां सम्मतिः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथेत्य्-आदि । अथानन्तरं यद् ब्रवीमि, तद् अवधाय श्रूयताम् इति । हे भागवता यूयं मे प्रियाः, यथा भगवान् प्रियः । भागवतानां च मत्तो नान्यः प्रियोऽस्ति कर्हिचित् कदाचिद् अपि । अतो भवद्भिर् अपि मयि प्रीतिः कार्येति भावः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ अत एव भागवतानां चेति च-कारेण यथेत्य् अस्यान्वयात् भागवतानां यथा भगवतोऽन्यः प्रेयान् नास्ति, तथा मत् मत्तोऽपीत्य् अर्थः ॥३०॥
॥ ४.२४.३१ ॥
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत इदं जप्तव्यं श्रूयताम् इति । विविक्तम् असङ्कीर्णं यथा भवति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो भगवद्-भक्तत्वात् । इदं वक्ष्यमाणं यत् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्मात् प्रियत्वेनाहम् उपदिशामीत्य् आह—इदम् इत्य्-आदि ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ अत एव भागवतान् चेति च-कारेण यथेत्य् अस्यान्वयात् भागवतानां यथा भगवतोऽन्यः प्रेयान् नास्ति तथा मत् मत्तोऽपीत्य् अर्थः ॥३१ ॥
॥ ४.२४.३२ ॥
मैत्रेय उवाच—
इत्य् अनुक्रोश-हृदयो भगवान् आह ताञ् छिवः ।
बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सृष्ट्य्-आदौ ब्रह्मणा सृष्ट्वा पुत्रेभ्यः प्रोक्तम् इष्ट-दम् । स्तोत्रं प्राह प्रचेतोभ्यः कृपया भगवान् शिवः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुक्रोशो दया हृदये यस्य स तथा कृपा दयानुकंपा स्याद् अनुक्रोशो\ऽपि इत्य् अमरः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुक्रोशः कृपा हृदये यस्य सः ॥३२॥
॥ ४.२४.३३ ॥
श्री-रुद्र उवाच—
जितं त आत्म-विद्-धुर्य2-स्वस्तये स्वस्तिर् अस्तु मे ।
भवता राधसा राद्धं सर्वस्मा आत्मने नमः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सर्वान्तर्यामत्वात् तु सर्व-नामा जनार्दनः ।
न तु सर्व-स्वरूपत्वात् सर्वेशोऽसौ हरिषतः ॥ इति ब्रह्म-तर्के ॥३३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते जितं तवोत्कर्षः । आत्म-विद्-धुर्याणां स्वस्तये शोभन-सत्तायै स्वानन्द-लाभायेत्य् अर्थः । अतो मे स्वस्तिः स्वानन्द-सत्ताऽस्तु । ननु ममोत्कर्षो मद्-अर्थ एव किं न स्यात् ? तत्राह । भवता राधसा स्वानन्द-रूपेण राद्धं सिद्धम् । त्वं परमानन्द-रूपेणैव नित्यं स्थित इत्य् अर्थः । अत एवं-भूतायात्मने तुभ्यं नमः । सर्वस्मै सर्व-रूपाय च ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रेभ्यो भृग्वादिभ्य इत्य् अर्थः । भगवन्तं स्तुवानो भक्तः प्रथमं जयजयेति वदेद् इत्य् आह । जितं त इति । आत्मविद्धुर्योगामात्मारामाणाम् । इत्य् अर्थ इति । इक्श्तिपौ धातुनिर्देशे इति श्तिप् । अस्धातुश् च सत्ताम् एव वदतीति भावः । शोभनसत्ता च भगवद्-गुणमाधुर्याकृष्टतया सायुज्यस्पृहाराहित्येन शुकादीनाम् इव भक्तत्वेन सनातनी स्थितिः । यदुक्तं तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थम् इति कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः इति च । यत आत्मविद्धुर्याणां शोभनसत्तायै तवोत्कर्ष आविष्कृतो\ऽतो हेतोर्मे मम सास्त्वित्य् अर्थः । अत्राक्षिपति—नन्व् इति । इत्य् अर्थ इति । परमानन्द-स्वरूपस्य ते\ऽन्यार्थापेक्षा नास्त्येवेति भावः । अतः सर्वोत्कृष्टत्वात् । चक्रवर्ती तु—भवता प्रयोजकेन यत् आराध आराधनं तेन राद्धं तस्य सिद्धिरस्तु । ननु श्रीगुरुणा मद्भक्तेनान्येन वा मदाराधनं भवति न तु मयेति तत्राह—सर्वस्मै सर्वस्व-रूपायात्मने, त्वम् एव गुरुवैष्णवादिरूपः स्वभजनं कारयसीति भावः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं तज् जप्यम् ? इत्य् आह—जितं त इत्य्-आदि बहुभिः । आत्मविद्-धुर्य-स्वस्तये ते तव जय उत्कर्षः । आत्म-विदाम् आत्मानं भगवन्तं विन्दन्तीति तथा तेषां धुर्याः परम-भक्तास् तेषां स्वस्तये शोभन-सत्तायै शोभना या अस्ति सत्ता तस्यै तवोत्कर्षः । अतो ममापि स्वस्ति भक्ति-रूपेण सत्ता अस्तु
ननु ममोत्कर्षो मद्-अर्थक एव, तत्र हि भगवता राधसा अचिन्त्य-परमैश्वर्येण राद्धं सिद्धं स्वानन्द-परिपूर्ण-भावेन नित्यं सिद्धम् एव । अतः सर्वस्मै भक्ताय सर्व-भक्तार्थं तवोत्कर्षः । आत्मने नमः भक्तानाम् आत्म-स्वरूपाय तुभ्यं नम इत्य् उपक्रम्य, नमः पङ्कज-नाभाय इत्य्-आदि बहुभिर् एव प्रधानं स्तोत्रं प्रपञ्चयति । वासुदेवाय श्री-कृष्णायेति विशेष्य-पदं, अन्यत् सर्वं विशेषणम् । स्तोत्रं हि सर्वम् एव त्वम् असीत्य्-आदि-प्रायम् । तत् तु अन्यत्रौपचारिकम् । श्री-कृष्णे तु यथार्थम् एव, सर्वत्वात् सर्वेश्वरत्वाच् च । इति सर्व-स्वरूपेण नमस्कारः ॥३३-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : “इक् शतिपौ धातु-निर्देशे” असश् चातुश् चात्र सत्ताम् एव वदतीत्य् आत्मविच्-छ्रेष्ठानां स्वस्तये शोभन-स्थित्यै सद्-भक्त-लक्षणायै ते तव जितम् उत्कर्षो गुणादि-प्रकाश इत्य् अर्थः । मुक्तानाम् अपि सिद्धानाम् इत्य् आदेः । यस्माद् एव स एव पुरुषार्थः । तस्मान् ममापि स एव स्वस्तिर् अस्तु प्रार्थनायां लोट् ।
तत्र किं तव साधनम् ? इत्य् आशङ्क्य विभक्ति-परिणामेनाह—ते तुभ्यं नम इति । तत्र च मम न स्वातन्त्र्यं किन्तु तवैवेति । तद् एव नमो विशिनष्टि भवतेति । राधसा सर्व-साधकेन राद्धं सिद्धं सर्व-साधकत्वे हेतुः आत्मने अन्तर्यामिणे सर्वस्मै सर्व-रूपाय चेति ।
यद् वा, स च स्वस्तिर् दीन-मनसो रूप एव योग्य इति तद् एव करोति ते नम इति । अन्यत् समानं वासुदेवादय एते पद्मनाभस्यैवांशाः । न तु महा-वासुदेवादयः निर्विकारयिति व्याख्यायां विकारस् तद्-आभास इति सङ्कर्षणादीनां तद्-आभासत्वं दर्शितम् । धुर्येत्य् अत्र वर्येत्य् अत्र वर्येति क्वचित् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवन्तं स्तुवानो भक्तः प्रथमं जय जयेति वदेद् इत्य् आह—आत्मविद्-वर्याणाम् आत्मारामाणां स्वस्तये शोभन-सत्तायै त्वया जितं स्वोत्कर्ष आविष्कृतः । इक् शतिपौ धातु-निर्देश इति शतिप् । शोभन-सत्ता च भगवद्-गुण-माधुर्याकृष्टया सायुज्य-स्पृहा-राहित्येन शुकादीनाम् इव तद्-भक्तत्वेन सनातनी स्थितिः । यद् उक्तं—
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं [भा।पु। १.८.२०] इति,
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः [भा।पु। १.७.१०] इति च ।
अतो मे मम स्वस्ति शोभन-सत्ता अस्तु । भवता प्रयोजकेन यत् आराधः आराधनं तेन राद्धं तस्य सिद्धिर् अस्तु ।
ननु श्री-गुरुणा मद्-भक्तेनान्येन वा मद्-आराधनं भवति, न तु मयेति, तत्राह—सर्वस्मै सर्व-स्वरूपाय आत्मने त्वम् एव गुरु-वैष्णवादि-रूपः स्व-भजनं कारयसीति भावः ॥३३॥
॥ ४.२४.३४ ॥
नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-रूपत्वं प्रपञ्चयन् प्रणमति सार्धैर् दशभिः । पङ्कजं लोकात्मकं नाभौ यस्य तस्मै कारणात्मने नमः । कारणत्वाद् एव सृज्यानां प्राणिनां ये उपाधयो भूतानि सूक्ष्माणि तन्-मात्राणीन्द्रियाणि च तेषाम् आत्मने नियन्त्रे । अन्तः-करण-चतुष्टयाधिष्ठातृत्वेन प्रणमति चतुर्भिः श्लोकार्धैः । वासुदेवाय चित्ताधिष्ठात्रे । कूट-स्थाय निर्विकाराय, चित्तस्यैक-रूपत्वात् ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, त्वद्-विषयकः सर्वेन्द्रियव्यापार एव त्वद्-भक्तिः । सर्वेन्द्रियाणि च त्वद्-अधीनान्यतः कृपया मदिन्द्रियाणि स्वव्यापारवन्ति संपादयेति प्रणमति—नम इति, पङ्कजनाभायेति । हे पङ्कजनाभ तव नाभिपङ्कजोद्भवाद् ब्रह्मत एव मदीयस्यास्य मर्त्यदेहस्योद्भूतत्वादिमं स्वभक्त्युन्मुखं कुरु । तुभ्यं नम इति भावनाभिप्रेता । एवं भक्त्युपयोगार्थं देहेन्द्रियाणि समासेन संशोध्य पुनः प्रत्येकम् अपि शोधयितुं प्रथमं चित्ताधिष्ठातारं वासुदेवं प्रणमति—वासुदेवायेति । भो वासुदेव मच्चित्तं शान्तं निर्विकारं कृत्वा स्वरोचिषा प्रकाश्य भक्तावेव चेतय तुभ्यं नम इति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तद्-विषयकः सर्वेन्द्रिय-व्यापार एव त्वद्-भक्तिः सर्वेन्द्रियाणि च त्वद्-अधीनान्यतः कृपया मद्-इन्द्रियाणि स्व-विषय-व्यापारवन्ति सम्पादयेति प्रणमति—नम इति । भूत-सूक्ष्माणि शब्दादि-तन्-मात्राणि च इन्द्रियाणि च, तेषाम् आत्मने नियन्त्रे । पङ्कज-नाभायेति हे पङ्कजनाभ ! तव नाभि-पङ्कजोद्भवाद् ब्रह्मत एव मदीयस्यास्य मर्त्य-देहस्योद्भूतत्वादिमं स्व-भक्त्य्-उन्मुखं कुरु तुभ्यं नम इति भावनाभिप्रेता । एवं भक्त्य्-उपयोगार्थं देहेन्द्रियाणि समासेन संशोध्य पुनः प्रत्येकम् अपि शोधयितुम् प्रथमं चित्ताधिष्ठातारं वासुदेवं प्रणमति—वासुदेवायेति । भो वासुदेव, मच्-चित्तं शान्तं निर्विकारं कृत्वा स्व-रोचिषा प्रकाश्य भक्ताव् एव चेतय, तुभ्यं नम इति ॥३४॥
॥ ४.२४.३५ ॥
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कर्षणायाहङ्काराधिष्ठात्रे । सूक्ष्मायाव्यक्ताय । दुरन्तायानन्ताय । अन्तकाय मुखाग्निना लोक-दाहकाय । विश्वस्य प्रकृष्टो बोधो यस्मात् । अन्तरात्मने बुद्ध्य्-अधिष्ठात्रे ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भोः सङ्कर्षण-देव ! ममाहन्ता-ममतयोर् वृत्तीनां देह-गेहादि-निबद्धानाम् अनन्तानां यद् बन्धनं सन्दह्य तास् ततो विच्युतीकृत्य भक्त्याश्रययोर् निबधान । तुभ्यं नमः । भोः प्रद्युम्न मद्-बुद्धिं तथा प्ररोचय यथा सा भक्ताव् एव मां दधाति तुभ्यं नमः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूक्ष्मायाव्यक्ताय । दुरन्तायानन्ताय । अन्तकाय मुखाग्निना लोक-दाहकाय । भोः सङ्कर्षण देव ! ममाहन्ता-ममतयोर् वृत्तीनां देह-गेहादि-निबन्धानाम् अनन्तानां तद्-बन्धनं सन्दह्य तास् ततो विच्युतीकृत्य भक्त्य्-आश्रय-विषययोर् निवधान, तुभ्यं नम इति ॥३५॥
॥ ४.२४.३६ ॥
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नमः परमहंसाय पूर्णाय निभृतात्मने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हृषीकाणाम् ईशं यद् इन्द्रियं मनस् तद्-आत्मने । सूर्य-रूपेण प्रणमति । परम-हंसाय सूर्याय । पूर्णाय तेजसा विश्व-व्यापिने । निभृतात्मने क्षय-वृद्धि-शून्याय ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे अनिरुद्धदेव मन्मनो भक्तावेवानुरंजय तुभ्यं नमः इति । अन्तःकरणचतुष्टयं तदुपास्यवासुदेवादिप्रणतिभिः संशोध्य बहिः करणानि तथा देहारंभकाणि पञ्च भूतानि च शोधयितुमधिष्ठातृरूपत्वेन भूत-रूपत्वेन च प्रणमति—नमः परमहंसेति चतुर्भिः । नितरां भृतो वृष्ट्यादिभिः पालिता आत्मानो जीवा येन तस्मै आदित्याज्जायते वृष्टिः इति स्मृतेः भानुर्हंसः सहस्रांशुः इत्य् अमरः । भोः सूर्यात्मक देव मच्चक्षुः श्रीमूर्तिसौन्दर्यदर्शने एव प्रवर्त्तय देहगतं सूर्यात्मकं तेजश् च शुद्धयतु तुभ्यं नम इति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृषीकाणाम् यद् ईशम् इन्द्रियं मनस् तद्-आत्मने तन्-नियन्त्रे । हे अनिरुद्ध-देव ! मन्-मनो भक्ताव् एवानुरञ्जय, तुभ्यं नम इति । एवम् अन्तःकरण-चतुष्टयं तद्-उपास्य-दैवत-वासुदेवादि-प्रणतिभिः संशोध्य बहिःकरणानि, तथा देहारम्भकाणि पञ्च-भूतानि च शोधयितुम् अधिष्ठातृ-रूपत्वेन भूत-रूपत्वेन च प्रणमति—नमः परमेति चतुर्भिः । परमहंसाय सूर्याय । निभृतात्मने नितरां भृता वृष्ट्य्-आदिभिः पालिता आत्मनो जीवा येन तस्मै ॥३६॥
॥ ४.२४.३७ ॥
स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः ।
नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्गापवर्गयोर् द्वाराय । शुचिन्य् अन्तः-करणे निषीदतीति शुचिषत्, तस्मै । हंसः शुचिषत् [ऋ।वे। ४.४.५] इति श्रुतेः । हिरण्यं वीर्यं यस्य, तस्मै अग्नि-रूपाय । चातुर्-होत्रं कर्म तस्मै तत्-साधनायेत्य् अर्थः । कुतः ? तन्तवे तद्-विस्तारकाय ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो वह्न्यात्मक देव यथान्येषां कर्म प्रवर्त्तयसि तथैव मम वाचं कीर्तनभक्तौ प्रवत्तय वह्न्यात्मकं तेजश् च शुध्यतु तुभ्यं नमः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुचिनि अन्तः-करणे सीदतीति शुचिषत्, हंसः शुचिषत् [ऋ।वे। ४.४.५] इति श्रुतेः, तस्मै । भोः सूर्यात्मकम् एव, यच् चक्षुः श्री-मूर्ति-सौन्दर्य एव प्रवर्तय, देह-गतं सूर्यात्मकं तेजश् च शुध्यतु, तुभ्यं नम इति । हिरण्य-वीर्याय अग्नि-रूपाय चातुर्-होत्र-कर्म-साधनाय । कुतः ? तन्तवे तद्-विस्तारकाय । भो वह्न्य्-आत्मक-देव ! यथान्येषां कर्म प्रवर्तयसि, तथैव मम वाचं कीर्तन-भक्तौ प्रवर्तय । वह्न्य्-आत्मकं तेजश् च शुद्ध्यतु, तुभ्यं नम इति ॥३७॥
॥ ४.२४.३८ ॥
नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे ।
तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सोमत्वम् आह—ऊर्जे पितॄणाम् अन्नाय । इषे देवानाम् अन्नाय । यज्ञ-रेतसे सोमाय । स हि पितॄणां देवानां चान्नम् । एवं रूपाय त्रय्याः पतये हरये नमः । सूर्याग्नि-सोमत्वेनैव तेजस्त्वम् उक्तम् । जलत्वम् आह—सर्व-रसात्मने जल-रूपाय ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भोः सोमात्मक देव मम देवर्ष्यादिऋणं संशोध्य मन्मनो भक्तावेव मज्जय सोमात्मकं तेजश् च शुध्यतु तुभ्यं नमः । पूर्वमुपास्यदैवतप्रणत्या संशोध्यापि मनसो दुर्दमत्वादधिष्ठातृदैवतप्रणत्यापि पुनः संशोधनमिदं ज्ञेयम् । एवं सूर्याग्निसोम-रूपं तेजश् च तद्रूपेण प्रणय संशोध्य रसनेन्द्रियं रसं च संशोधयितुं रस-रूपेण प्रणमति—तृप्तिदायेति । भो रसात्मक देव हरे मम रसनां भवदीयवस्तुमाधुर्य एव स्वादं प्राशय दैहिका आपश् च शुध्यन्तु तुभ्यं नमः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊर्जे पितॄणाम् अन्नाय । इषे देवानाम् अन्नाय । यज्ञ-रेतसे सोमाय । भो सोमात्मक देव ! मम देवर्ष्य्-आदि-ऋणं परिशोध्य मन्-मनो भक्ताव् एव संयोजय, सोमात्मकं तेजश् च शुद्ध्यतु, तुभ्यं नम इति । पूर्वम् उपास्य-दैव-प्रणत्यापि पुनः संशोध्यापि मनसो दुर्दमत्वाद् अधिष्ठातृ-दैवत-प्रणत्या पुनः संशोधनम् इदं ज्ञेयम् । एवं सूर्याग्नि-सोम-रूपं तेजश् च तद्-रूपेण प्रणत्या संशोध्य रसनेन्द्रियं रसं च संशोधयितुम् रस-रूपेण प्रणमति—तृप्तिदाय्अ इति । हे रसात्मक देव ! हरे ! मम रसनां भवदीय-वस्तु-माधुर्य एव स्वादं प्रापय । दैहिका आपश् च शुद्ध्यन्तु, तुभ्यं नम इति ॥३८॥
॥ ४.२४.३९ ॥
सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे ।
नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशेषाय पृथ्वी-रूपाय । सर्वेषां सत्त्वानां प्राणिनां ये आत्मानः, तेषां देहाय स्थवीयसे विराट्-देहाय च । त्रैलोक्य-पालाय वायवे । सह-आदि-रूपाय । स हि प्राण-रूपेन त्रैलोक्यं पालयति सह आदि-धर्मा च ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे पृथिव्यात्मक हरे मम घ्राणेन्द्रियं भवदीयसौरभ्य एव प्रवर्तयन्देहं च स्वीयपरिचर्यादिषु प्रवर्तयेति सहओजोबलायेति मन इन्द्रियदेहेषु सहओजोबल-रूपेण प्रविश्य तत्तत्पाटवं कर्तव्यम् इति । हे वायु-स्वरूप हरे मम त्वगिन्द्रियं त्वदीय-सौकुमार्यादावेवोल्लासयन् देहेन्द्रियमनांस्यपि भजनसामर्थ्यवन्ति कुरु तुभ्यं नमः । भो नभ-स्वरूप हरे मम श्रोत्रं भवत्सौस्वर्य एव प्रवर्त्तय स्वीयनाममन्त्रभक्तिशास्त्रार्थं स्फोरय मम नभस्तत्त्वं च शुद्ध्यतु तुभ्यं नम इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषां सत्त्वानां प्राणिनां ये आत्मानः, तेषां देहाय स्थवीयसे विराड्-देहाय चेति । हे पृथिव्य्-आत्मक हरे ! मम घ्राणेन्द्रियं भवदीय-सौरभ्य एव प्रवर्तयन् देहं च स्वीय-परिचर्यादिषु प्रवर्तयेति । त्रैलोक्य-पालाय प्राण-वायु-स्वरूपाय सह-ओज-बलाय मन-इन्द्रिय-देहेषु सह-ओजो-बल-रूपेण प्रविश्य तत्-तत्-पाटवः कर्तव्य इत्य् अर्थः । हे वायु-स्वरूप हरे ! मम त्वग्-इन्द्रियं त्वदीय-सौकुमार्यादाव् एवोल्लासयन् देहेन्द्रिय-मनांस्य् अपि भजन-सामर्थ्यवन्ति कुरु, तुभ्यं नम इति ॥३९॥
॥ ४.२४.४० ॥
अर्थ-लिङ्गाय नभसे नमोऽन्तर्-बहिर्-आत्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नभसे आकाशायार्थानां लिङ्गाय ज्ञापकाय, शब्द-गुणत्वात् । अन्तर्-बहिर्-आत्मनेऽन्तर्-बहिर्-व्यवहारावलम्बनाय । एवं महा-भूत-रूपत्वम् उक्तम् । अमुष्मै स्वर्गाय भूरि-वर्चसे । एष वै ज्योतिष्मन्तं पुण्यं लोकं याति इति श्रुतेः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं स्वीयभूतेन्द्रियमनांसि भगवद्-उपासनोन्मुखीकृत्योपासनाप्राप्यवैकुण्ठलोक-स्वरूपत्वेन प्रणमति—पुण्याय सर्वोत्तमाय पुण्यं स्यात् सुकृते शुद्धे सुन्दरे च परात्मनि । उत्कर्षे वाच्यवत् इत्य् अभिधानात् । भूरिवर्चस इति । लोकान्तरव्यावृत्तिः, अत्र वैकुण्ठलोके प्रमाणम् आह—एष इति । एष भगवद्-भक्तः ज्योतिस्वतः सिद्धप्रकाशस्तद्विद्यते यत्र स तथा तं यद्भ्राजमानं स्वरुचैव सर्वतः इत्य् उक्तेः । पुण्यमतीव शुद्धं भगवद्-वासत्वात् यच्च व्रजन्यनिमिषामृषभानुवृत्त्या इति यात्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः इत्याद्युक्तेर्भक्तेनैव तत्प्राप्यते नान्येनेति श्रुत्य् अर्थः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थेत्य् अर्धकम् । नम इत्य् अर्धकम् ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थानां लिङ्गाय ज्ञापकाय, शब्द-गुणत्वात् । अन्तर्-बहिर्-आत्मनेऽन्तर्-बहिर्-व्यवहारावलम्बनाय । भोः नभः-स्वरूप-हरे ! मम श्रोत्रं भवत्-सौन्दर्य एव प्रवर्तयन् स्वीय-नाम-मन्त्र-भक्ति-शास्त्रार्थं स्फोरय । मम नभस्त्वं च शुध्यतु । तुभ्यं नम इति । एवं स्वीय-भूतेन्द्रिय-मनांसि भगवद्-उपासनोन्मुखीकृत्य उपासनां प्राप्य वैकुण्ठ-लोक-स्वरूपत्वेन प्रणमति—नम इति । पुण्याय सर्वोत्तमाय, पुण्यस् तु चार्व् अपि इत्य् अमरः । भूरि-वर्चस इति लोकान्तर-व्यावृत्तिः ॥४०॥
॥ ४.२४.४१ ॥
प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे ।
नमोऽधर्म-विपाकाय मृत्यवे दुःख-दाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृत्ताय च निवृत्ताय च कर्मणे । पितृ-देवाय यथा-क्रमं पितृ-देव-प्राप्ति-फलाय । अधर्म-फल-रूपाय च मृत्यवे ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्मान्तरस्यापि प्रयोजकत्वेन प्रणमति—प्रवृत्तायेति । अधर्मफलदातृत्वेन प्रणमति—अधर्मस्य विपाकः फलं यस्मात्तस्मै ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नमो धर्मेत्य् अर्धकम् नमस् त इत्य् अर्धकम् ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मान्तरस्यापि प्रयोजकत्वेन प्रणमति—प्रवृत्तायेति । पितृ-देवाय पितृ-देव-प्रापकाय । निषिद्ध-कर्म-फल-दायित्वेन प्रणमति—नमोऽधर्मेति । अधर्मस्य विपाकः फलं यस्मात् तस्मै ॥४१॥
॥ ४.२४.४२ ॥
नमस् त आशिषाम् ईश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे ईश, आशिषां कारणात्मने सर्व-कर्म-फल-दात्रे । मनवे सर्व-ज्ञाय मन्त्रात्मकायेति वा । विष्णुत्वेन प्रणमति । बृहते धर्माय परम-धर्मात्मने कृष्णाय ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विहितकर्मफलदातृत्वेन प्रणमति—हे आशिषामीश स्वर्गादिफलदायिन् । अथ त्रिदेवीरूपत्वेन स्तुत्येषु विष्णुरूपत्वे पद्मनाभाभेदेनैव स्तौति—नमो धर्मायेति । तत्र पुरुषाय पुराणायेति पद्मनाभ-रूपेण निःश्वासप्रवर्तितवेदद्वारा धर्माय बृहते नमः । स्वयं भगवद्-धर्म-स्वरूपेण तदनुगतसर्व-धर्मप्रवर्त्तनद्वारा साङ्ख्ययोगेश्वरायेति कपिलदत्तात्रेयादिरूपेण तत्तद्धर्मप्रवर्तनद्वारा कृष्णायाकुण्ठमेधस इति । परब्रह्म-रूपेण ज्ञानप्रवर्तनद्वारा विश्वपालकावेत्य् अर्थः । व्यतिक्रमनिर्देशश् च तदिच्छाया अनैयत्यात् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथ त्रि-देवी-रूपत्वेन स्तुतेषु विष्णु-रूपत्वे पद्मनाभाभेदेनैव स्तौति—नमो धर्मायेति । तत्र पुरुषाय पुराणायेति पद्मनाभ-रूपेण निःश्वास-प्रवर्त्ति-वेद-द्वारा धर्माय बृहते नमः । स्वयं भगवद्-धर्म-रूपेण तद्-अनुगत-सर्व-धर्म-प्रवर्त्तन-द्वारा साङ्ख्य-योगेश्वरायेति कपिल-दत्तात्रेयादि-रूपेण तत्-तत्-प्रवर्तन-द्वारा कृष्णायाकुण्ठ-मेधस इति पर-ब्रह्म-रूपेण ज्ञान-प्रवर्तन-द्वारा विश्व-पालकायेत्य् अर्थः । व्यतिक्रम-निर्देशस् तु तद्-इच्छाया अनैयत्यात् ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विहित-कर्म-फल-दायित्वेन प्रणमति—नमस् त इति । हे आशिषाम् ईश ! स्वर्गादि-फल-दायिन् ! मनवे सर्व-मन्त्र-रूपाय कारणात्मने, कर्म-कारक-स्वरूपाय । भक्ति-रूपत्वेन तद्-विषयत्वेन प्रणमति—नमो धर्मायेति । अधिकारि-भेदेषु कपिल-दत्तात्रेयाद्य्-अवतार-भेदेन साङ्ख्य-योगयोर् अपि प्रवर्तकाय ॥४२॥
॥ ४.२४.४३ ॥
पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च ।
शक्ति-त्रय-समेताय मीढुषेऽहङ्कृतात्मने ।
चेत-आकूति-रूपाय नमो वाचो विभूतये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद्र-रूपेण प्रणमति । मीढुषे रुद्राय । अहङ्कृतम् अहङ्कारस् तद्-आत्मने । स च कर्तृ-करण-कर्म-शक्ति-त्रय-समेतस् तस्मै । ब्रह्मत्वेन प्रणमति । चेतो ज्ञानम् आकूतिः क्रिया तद् रूपाय । वाचो विविधा भूतिः सृष्टिर् यस्मात् तस्मै ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहङ्कारस्याधिदैवादि-भेद-त्रयसहितस्य पुनर् अपि तदधिष्ठातृदेवता-स्वरूपप्रणत्या संशोधनम् आह—शक्तीति । भो रुद्र-रूप हरे ममाहन्ताममतयोर्वृत्तयः शुद्ध्यन्तु भक्तिमय्यो भवन्तु तुभ्यं नमः । ज्ञानेन्द्रियकर्मेन्द्रियाणां शुद्धिम् आह—वाचो वेदलक्षणायाः वाच इति तदुपलक्षितानां कर्मेन्द्रियाणां शुद्धिर्व्यञ्जिता ज्ञानेन्द्रियाणाम् अपि शुद्धिः पूर्वमुक्तापि पुनर् अनया प्रणयापि ज्ञेया । हे ब्रह्म-स्वरूप हरे मम बुद्धिप्राणवृत्तीभक्त्युन्मुखीकुरु तुभ्यं नम इति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शिव-ब्रह्म-रूपत्वे तु परिच्छिन्नैश्वर्यतया स्तौति—शक्तीत्य् अर्धकाभ्याम् ।*।*४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहङ्कारस्याधिदैवादि-भेद-त्रय-सहितस्य पुनर् अपि तद्-अधिष्ठातृ-दैवत-स्वरूप-प्रणत्या संशोधनम् आह—शक्तीति कर्तृ-कर्म-करण-शक्ति-त्रय-समेताय । मीढुषे रुद्र-स्वरूपाय । अहङ्कृतम् अहङ्कारस् तद्-आत्मने । भो रुद्र-स्वरूप हरे ! ममाहन्ता-ममतयोर् वृत्तयः शुद्ध्यन्तु, भक्ति-मय्यो भवन्तु, तुभ्यं नम इति । ज्ञानेन्द्रिय-कर्मेन्द्रियाणां शुद्धिम् आह—चेतो ज्ञानम् आकुतिः क्रिया तद्-रूपाय ब्रह्म-स्वरूपाय वाचो वेद-लक्षणाया विविधा भूतिः सृष्टिर् यस्मात् तस्मै , तथा वाच इति तद्-उपलक्षितानां कर्मेन्द्रियाणां शुद्धिर् व्यञ्जिता । ज्ञानेन्द्रियाणाम् अपि शुद्धिः पूर्व-मुक्तापि पुनर् अनया प्रणत्यापि ज्ञेया । हे रुद्र-स्वरूप हरे ! मम बुद्धि-प्राण-वृती भक्त्य्-उन्मुखी कुरु, तुभ्यं नम इति ॥४३॥
॥ ४.२४.४४ ॥
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रिय-गुणाञ्जनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं नमस्कृत्य दर्शनं प्रार्थयते—दर्शनम् इति नवभिः । भागवतैः सत्-कृतं दर्शनं देहीत्य् अस्य विवरणं रूपम् इत्य्-आदि प्रदर्शयेत्य् अन्तम् । स्वानां भक्तानां प्रियतमं रूपं प्रदर्शयेति नवमेनान्वयः । सर्वेषाम् इन्द्रियाणां ये गुणा विषयास् तेषाम् अञ्जनं व्यञ्जकम् । सर्वेन्द्रिय-विषय-विषयि-रूपम् इत्य् अर्थः । सर्वेन्द्रियाणि स्व-गुणैर् अनक्ति रञ्जयतीति वा ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं स्मरन् प्रणतिभिरे व स्वस्य देहेन्द्रियमनसां शुद्ध्या योग्यतामापाद्य निजाभीष्टं दर्शनं प्रार्थयते । ननु कीदृशं दर्शनं त्वद्-अभिमतं ददानि तत्राह—भागवतैर् भगवद्-अनुरागिभिरर्चितं न तु बौद्धाद्यैरित्य् अर्थः । इन्द्रियगुणा रूपादयः । विषये\ऽपि गुणपदं प्रयुज्यते इति । इत्य् अर्थ इति । दर्शनादियोग्यम् इति भावः । सर्वेषाम् एव रूपं सर्वेंद्रियविषयमस्ति तत्र को विशेष इति चेत्तत्राह—सवेन्द्रियाणीति । स्वगुणैरसाधारणसौन्दर्यमाधुर्यादिभिरित्य् अर्थः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्तोत्र-फलम् आह—दर्शनं नो दिदृक्षूणां देहीत्य्-आदि । ननु दर्शनं ज्ञानं वा येन ब्रह्म-भूतो भविष्यति ? न हि, भागवत्र्चितं भक्तार्चितम् अतः प्रियतमं स्वानां भक्तानां सर्वेन्द्रिय-गुणाभिव्यञ्जकम् । तत्रैव तेषां गुणाभिव्यक्तिर् भवति । रूपं श्री-विग्रहम् । मुमुक्षूणाम् अपि तस्यैतस्य स्तोत्रस्यैतद् एव फलं श्री-विग्रह-साक्षात्कारः, न तु ब्रह्म-साक्षात्कारः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सताम् इत्य् अस्यान्ते स्वानां ज्ञाति-रूपाणां स्व-परिकराणां प्रियतमं सर्वेन्द्रिय-गुणानाम् अञ्जनं च ॥४४-४५॥ तद् एवं सर्व-रूपत्वम् उक्त्वा तद् एतावज् जपेनैव जात-भक्ति-विशेषो विशेषाभिलाषं कुर्वन्न् आत्माभीष्टं रूपं वर्णयति—दर्शनम् इत्य् अर्धकेन ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्मरन् प्रणतिभिर् एव स्वस्य देहेन्द्रिय-मनसां शुद्ध्या योग्यताम् आपाद्य दर्शनं प्रार्थयते—दर्शनम् देहीति । ननु कीदृशं दर्शनं भवद्-अभिमतं ददानि ? तत्राह—भागवतैर् अर्चितं, न तु बौद्धाद्यैर् इत्य् अर्थः । रूपं रूपवत् स्वानां प्रियतमम् इति वैराज्य-दर्शनं व्यावृत्तम् । सर्वेन्द्रिय-गुणै रूपादिभिः अञ्जनं म्रक्षणम् अत्यासक्तिर् यत्र तद् इति ब्रह्म-दर्शनम् अपि व्यावृत्तम् ।
यद् वा, सर्वेन्द्रियाणां गुणाञ्जनं गुण-युक्तं हित-करणम् अञ्जनं मन-आदि सर्वेन्द्रियाणि यत्र दुर्विषय-ग्रहण-रूपम् आन्ध्यं परित्यज्य स्व-स्व-चक्षुः प्राप्नुवन्तीत्य् अर्थः । चक्षुषश् चक्षुः इत्य्-आदि ॥४४॥
॥ ४.२४.४५ ॥
स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् ।
चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्निग्धः प्रावृषि यो घनस् तद्वच् छ्यामम् । सर्वेषां सौन्दर्याणां सङ्ग्रहो यस्मिन् । चारव आयताश् चत्वारो बाहवो यस्मिन् । सुजातं यथोचितं सर्वावयव-रुचिर् अमाननं यस्मिन् ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, स्निग्धेति स्नेहवत्त्वस्नेहजनकत्वचिक्कणत्वान्युक्तानि प्रावृड्घनेति । रसवर्षित्वसर्वतापोपशमकत्वमनश्चातकहर्षकत्वानि श्लेषेण । प्रकर्षेण आ सम्यगेव वर्षति भक्तमनोरथम् इति प्रावृड्घनश्याममतिनिबिडश्यामं सर्वेषाम् एव प्राकृताप्राकृतवस्तुनिष्ठानां सौन्दर्याणां सङ्ग्रहो यत्र तत् । यद्वा—सौन्दर्यकर्तृकं सम्यग्ग्रहणमाकर्षणं यत्र तदित्यत एवान्यत्र तादृशसौन्दर्यं नास्तीत्य् अर्थः । यद्वा—सर्वसौन्दर्येण कर्त्रा सम्यगासक्त्यैव ग्रहणं यस्येति सर्वसौन्दर्यम् अपि स्वं सफलयितुं यद् एव गृह्णातीति भावः । यद्वा—सुन्दरीणां समूहः सौन्दर्यं सर्वं च तत्सौन्दर्यं त्रिलोकीगतस्त्रीसमूहं सर्वसौन्दर्यं तेन सम्यग्गृह्यते यत्तत्तथा दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः इति का स्त्री न चलेत्रिलोक्याम् इत्याद्युक्तेः । चतसृषु दिक्षु भुजा यस्येति पद्मनाभोपासकाः चत्वारो भुजा यस्येति वैकुण्ठोपासकाः । प्रेयसीसाहित्याद् एव चतुर्भुजा इति श्री-कृष्णोपासकाः । सुजातं कोमलं विदुः इत्य् अभिधानात् ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु बहून्य् एव रूपाणि भवन्ति, तत् किं दर्शयिष्येत ? तत्राह—स्निग्ध-प्रावृड्-घन-श्यामम् इत्य्-आदि बहुभिः । अयम् अर्थः—यद्यपि शुक्ल-रक्त-पीतानि नाना-विधान्य् एव ते रूपाणि, तथापि स्निग्ध-जलद-श्यामतैव ते स्वभाव-सिद्धा, ताम् एव दर्शयेति भावः । चार्व्-आयत-चतुर्-बाहुम्—चारवो निर्दोषा आयता नित्याश् चत्वारः पीनत्व-सुवृत्तत्व-दीर्घत्व-भक्ताभिमत-प्रदत्व-रूपा गुणा ययोस् तथा-भूतौ बाहू यस्य तम् । अनपायिन्या तद्वन् नित्य-सिद्धया ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तत्रापि स्निग्धेति स्नेहवत्त्व-स्नेह-जनकत्व-चिक्कणत्वान्य् उक्तानि, प्रावृण् मेघेति, वसवषित्व-सर्व-तापोपशमकत्व-मनश्-चातक-हर्षत्वानि । श्लेषेण—प्रकर्षेण आ सम्यग् एव वर्षति भक्त-मनोरथम् इति प्रावृट् घन-श्यामम् अतिनिविड-श्यामम् । सर्वेषाम् एव प्राकृताप्राकृत-वस्तु-निष्ठानां सौन्दर्याणां सङ्ग्रहो यत्र तत् । यद् वा, सौन्दर्य-कर्तृकं सम्यक् ग्रहणम् आकर्षणं यत्र तद् इत्य् अत एवान्यत्र तादृश-सौन्दर्यं नास्तीत्य् अर्थः । यद् वा, सर्व-सौन्दर्येण कर्त्रा सम्यग्-आसक्त्यैव ग्रहणं यस्येति सर्व-सौन्दर्यम् अपि स्वं सफलयितुम् यद् एव गृह्णातीति भावः । चतसृषु दिक्षु भुजा यस्येति पद्मनाभोपासकाः । चत्वारो भुजा यस्येति वैकुण्ठ-नाथोपासकाः, प्रेयसी-साहित्याद् एव चतुर्भुजत्वम् इति श्री-कृष्णोपासकाः । सुजात-कमलम् इव रुचिरम् आननं यस्य तम् ॥४५॥
॥ ४.२४.४६ ॥
पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पद्मस्य कोशे मध्ये यानि पलाशानि तद्वद् अक्षिणी यस्मिन् । सुकपोलम् आस्यं यस्मिन् । समौ कर्णौ विभूषणं यस्य । कुण्डलयोर् अग्रे वक्ष्यमाणत्वात् ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्वत्कोमले विस्तृते चाक्षिणी यस्य तत् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम-कर्णत्वं यथा-शोभि प्रमाणत्वम् ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पद्म-कोशस्थे कोमले पलाशे इवाक्षिणी यत्र तत् ॥४६॥
॥ ४.२४.४७ ॥
प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् ।
लसत्-पङ्कज-किञ्जल्क-दुकूलं मृष्ट-कुण्डलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीत्या प्रहसिताव् इवापाङ्गौ यस्मिन् ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलकाश्चूर्णकुन्तलाः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रीति-व्यञ्जकं प्रहसितम् अपाङ्गे वाम-नेत्रान्ते यस्येति प्रेयसी-साहित्यं सूचयति ॥४७॥
॥ ४.२४.४८ ॥
स्फुरत्-किरीट-वलय-हार-नूपुर-मेखलम् ।
शङ्ख-चक्र-गदा-पद्म-माला-मण्य्-उत्तमर्द्धिमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्फुरन्ति किरीटादीनि यस्मिन् । शङ्खादि-मत् । उत्तमर्द्धिः लक्ष्मीः । यद् वा, एतैर् उत्तमा ऋद्धिर् उत्कर्षो यस्यास्ति तत् ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रियानपायिन्येत्यनेन पुनर् उक्तिमाशङ्क्याह यद्वेति । उत्तमा उत्कृष्टा, ऋद्धिः शोभा । ऋद्धिः शोभा रमौषधी इति निघण्टुः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शङ्ख-चक्र-गदा-पद्यानि कर-चतुष्टये । कर-तल-द्वये वा रेखा-रूपाणि ज्ञेयानि । मालाश् च आभरणस्था मणयश् च उत्तम-र्द्धिः शोभा-सम्पच् च तद्वत् ॥४८॥
॥ ४.२४.४९ ॥
सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् ।
श्रियानपायिन्या क्षिप्त-निकषाश्मोरसोल्लसत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौभग-युक्ता ग्रीवा येन । सिंहस्य -स्कन्धे परितः प्रसरन्तः केसरा एव त्विषः, तादृशीः सर्वतस् त्विषो बिभ्रच् चासौ सौभग-ग्रीवः कौस्तुभो यस्मिन् । यद् वा, सिंहस्येव स्कन्धौ तयोस् त्विषः कुण्डल-हारादि-दीप्तीर् बिभ्रद् इति पृथग् विशेषणम् । सौभग-युक्ता ग्रीवा येन, स कौस्तुभो यस्मिन् । श्रिया हेतु-भूतया क्षिप्तस् तिरस्कृतो निकषाश्मा स्वर्ण-रेखाङ्कितो निकषण-पाषाणो येन, तादृशेनोरसा उल्लसच् छोभमानम् ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सिंह-स्कन्ध-त्विष इव त्विषः सिंह-स्कन्ध-त्विष इत्य् उपमानोत्तर-पद-लोपो बाहुलकात् । पुनस् ता बिभर्तीति सिंह-स्कन्धे त्विषो बिभ्रत् अलुक्-समासः । पुनः सौभगेत्य्-आदिना कर्मधारय इति ऋजु-मार्गेण सिद्ध्यतोऽर्थस्य वक्रेण दर्शनायोगाद् इति न्यायेन तत्र गौरवम् आलोक्याह—यद् वेति ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्विष इत्य् अत्र तुलाम् इति सम्बन्धोक्ति-पाठान्तरम् । प्रतिसङ्क्रामयत् प्रवेशयत् सौन्दर्येणाकर्षद् इव । यद् वा, सृष्टि-प्रलययोर् निर्गमयन् प्रवेशयंश् चेति प्रभाव-गाम्भीर्ये दर्शिते । „प्रदर्शयद्" इति चित्सुखः ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिंहस्येव यौ स्कन्धौ तयोस् त्विषो हार-कुण्डलादि-दीप्तिर् बिभ्रत् । सौभग-युक्ता ग्रीवा येन तथा-भूतः कौस्तुभो यत्र तत् । अनपायिन्या श्रिया लक्ष्मी-रेखया हेतु-भूतया आक्षिप्तस् तिरस्कृतो निकषाश्मा स्वर्ण-रेखाङ्कितो निकष-पाषाणो येन, तादृशेन उरसा उल्लसच् छोभमानम् ॥४९॥
॥ ४.२४.५० ॥
पूर-रेचक-संविग्न-वलि-वल्गु-दलोदरम् ।
प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्वासोच्छ्वासाभ्यां संविग्नाश् चञ्चला वलयस् ताभिर् वल्गु सुन्दरं दल-वद् अश्वत्थ-पत्र-सदृशम् उदरं यस्मिन् । प्रतिसङ्क्रामयद् यतो निर्गतं तेनैव द्वारेण पुनः प्रवेशयद् इव ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वल्गन्ति चलन्ति दलानि पात्राणि यस्य स वल्गहलो\ऽश्वत्थः बोधिद्रुमश्चलदलो अश्वत्थः कुंजराननः इत्य् अमरः । लेखकप्रमादाद् एव वल्गुशब्द उकारान्तो\ऽत्र प्रतिभाति । स्वामिचरणैरप्यत्र न हि दलशब्देनाश्वत्थो गृहीतः, किन्तु वल्गद्दलशब्देनैव चलदलपदसमानार्थकत्वादेकदेशन्यायस्त्वगतिकगतिक एवेति । आधुनिकैः वल्गुसुन्दरम् इति व्याख्यातं च तदचारु प्रतीयत इति । आवर्तेन दक्षिणावर्तेन गभीरया निम्नया नाभ्या विश्वं प्रतिसङ्क्रामयदित्यन्वयः । तयैवोद्भूतः पुनस्तयैव स्वस्मिन्प्रवेशयदिव स्वसौन्दर्येणाकर्षदिवेत्य् अर्थः ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुरेत्य्-आदि । यस्य निःश्वसितं वेदा इत्य्-आदिना श्री-विग्रहस्य श्वास-रूपिणो ये वेदास् तेषां पूरक-रेचकाभ्याम् ऊर्ध्वाधः शरणाभ्याम् ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर-रेचकाभ्याम् श्वासोच्छ्वासाभ्यां संविग्नाश् चञ्चला वलयस् ताभिर् वल्गु दलवद् अश्वत्थ-पत्र-सदृशम् उदरं यत्र तत् । आवर्तवद् गम्भीरया नाभ्या विश्वं प्रति सङ्क्रामयत्, तयैवोद्भूतं पुनस् तयैव स्वस्मिन् प्रवेशयद् इव स्व-सौन्दर्येणाकर्षद् इव इत्य् अर्थः ॥५०॥
॥ ४.२४.५१ ॥
श्याम-श्रोण्य्-अधि-रोचिष्णु-दुकूल-स्वर्ण-मेखलम् ।
सम-चार्व्-अङ्घ्रि-जङ्घोरु-निम्न-जानु-सुदर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्याम-श्रोण्याधिकं रोचिष्णु यत् पीतं दुकूलं तत्र स्वर्ण-मयी मेखला यस्मिन् । अङ्घ्री च जङ्घे च ऊरू च निम्ने अनुन्नते जानुनी च । समैश् चारुभिर् एतैः शोभनं दर्शनं यस्य । समाश् चारवोऽङ्घ्र्यादयो यस्मिन् । निम्ने जानुनी यस्मिन् । शोभनं दर्शनं यस्येति पद-त्र् अयं वा ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संभवत्वात्पद-त्रयत्वेन व्याख्येयं बहुपदसमासस्य दुरूहत्वात् ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्याम-श्रोण्या अधिकं रोचिष्णु तत्-कान्त्य्-उच्चलन-युक्तं यत् पीत-दुकूलं तत्र स्वर्ण-मयी मेखला यस्मिंस् तत् । समं तुल्य-प्रमाणं च चारु सुन्दरं च अङ्घ्रि-जङ्घोरू यत्र तत् ॥५१॥
॥ ४.२४.५२ ॥
पदा शरत्-पद्म-पलाश-रोचिषा
नख-द्युभिर् नोऽन्तर्-अघं विधुन्वता ।
प्रदर्शय स्वीयम् अपास्त-साध्वसं
पदं गुरो मार्ग-गुरुस् तमो-जुषाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पदा दीप-स्थानीयेन । यद् वा, एवं-भूतेन पदोपलक्षितं रूपं पदं शरणं प्रदर्शयेत्य् अर्थः । शरदि यत् पद्मं तस्य पलाशं तद्वद् रोचिर् यस्य तेन । नख-दीप्तिभिर् अन्तर्-भवम् अघम् अज्ञानं विधुन्वता स्वीयं रूपं पदं शरणं प्रदर्शय । अपास् तं प्रह्लादादीनां साध्वसं येन तत् । हे गुरो, यतस् त्वम् एव तमो-जुषाम् अज्ञानाम् अस्माकं मार्ग-प्रदर्शको गुरुः ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वेन स्वस्य दर्शनस्य हास्योत्पादकत्वादाह यद्वेति । इत्य् अर्थ इति पदं व्यवसितत्राण—इत्य्-आदिकोशाद् इति भावः । यद् वा, हे प्रभो तव सर्वाङ्गलावण्यं प्राप्तं किं तु चरणतलमाधुर्यं नोपलब्धं तत्र यद्यपि महायोगपीठे तिष्ठतस्तव द्वयोः पदयोः सामस्त्येन दर्शनासंभवस्तथाप्येकेन पदा भुवमवष्टभ्यापरं पदं किञ्चिदुन्नमय्य दर्शयेत्याह—पदैव पदं दर्शय वामपदा भुवमवष्टभ्य दक्षिणं पदं किञ्चित्तिरश्चीनीकृतमुन्नमय्य प्रदर्शय यथा चक्रध्वजवज्राङ्कुशादिदर्शनेन संसारभयं निवर्तयेत्याह—अपास्तेति । ननु कथमीदृशी मतिस्तवाजनीति तत्र श्रीगुरुप्रसादाद् इत्य् आह—हे गुरो तमोजुषामज्ञानतिमिरान्धचक्षुषामस्माकं मार्गगुरुभक्तिमार्गोपदेष्टा त्वम् एव गुरुरूपधारीत्य् अर्थ इति विश्वनाथः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु सर्वात्मकत्वे सति नित्यं मम दर्शनं प्राप्नोष्य् एवेत्य् आशङ्कयाह—भागवतैः सात्वतैः सात्वतैर् अर्चितं सर्व-सार-स्वरूपत्वेन सेव्यमानम् इति । रूपम् इति सार्धाष्टकम् ॥५२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नख-द्युतिर् नखानां कान्तिभिर् एव अघम् अन्धकारं दूरीकुर्वता पदा दिव्य-दीपकेनैव स्वीयं पदं स्वरूपं स्थानं वा । यद् वा, हे प्रभो तव सर्वाङ्ग-लावण्य-दर्शनं प्राप्तं, किन्तु चरण-तल-माधुर्यं नोपलब्धं, तत्र यद्यपि महा-योग-पीठे तिष्ठतस् तव द्वयोः पदयोः सामस्त्येन दर्शनासम्भवस् तद् अपि एकेन पदा भुवम् अवष्टभ्यापरं पदं किञ्चिद् उन्नमय्य दर्शयेत्य् आह—पदा एव पदं दर्शय वाम-पदा भुवम् अवष्टभ्य दक्षिण-पदं किञ्चित् तिरश्चिनीकृतम् उन्नमय्य प्रदर्शय । यथा चक्र-ध्वज-वज्राङ्कुशादि-दर्शनेन संसार-भयं निवर्तत इत्य् आह—अपास्तेति ।
ननु कथम् ईदृशी मतिस् तवाजनीति, तत्र श्री-गुरु-प्रसादाद् इत्य् आह—हे गुरो ! तमो-जुषाम् अज्ञान-तिमिरान्ध-चक्षुषाम् अस्माकं मार्ग-गुरु भक्ति-मार्गोपदेष्टा त्वम् एव गुरु-रूप-धारीत्य् अर्थः ॥५२॥
॥ ४.२४.५३ ॥
एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् ।
यद्-भक्ति-योगोऽभयदः स्व-धर्मम् अनुतिष्ठताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिदुर्लभम् इदं मया प्रार्थितम् इति स्तोतैवाह । एतद्-रूपम् अनुध्येयं ध्यानार्हम् एव, न तु प्रत्यक्षतः प्राप्यम् इत्य् अर्थः ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं श्रीमद्दर्शनं, स्तोता रुद्रः । इत्य् अर्थ इति । ध्यानार्हस्य प्रत्यक्षत्वप्रार्थनं दुर्लभम् एवेति भावः । विश्वनाथः—यावद्दर्शनं न लभ्यते साधकभक्तेन तावदेतद्रूपम् एव पुनःपुनर् ध्येयमात्मनो जीवस्य शुद्धिमविद्यामालिन्यक्षालनमिच्छतेति । न तु प्रकारान्तरेण त्वंपदार्थशुद्धिर्भक्तानामुचितेति भावः । यथा वासुदेवादिप्रणतिभिर्देहद्वयशुद्धिरुक्ता तथा स्निग्धप्रावृडित्य्-आदिध्यानपौनःपुन्येन जीवस्य शुद्धिरियमुक्ता ततो दर्शनं ततः पार्षदत्वप्राप्तिर् इति शुद्ध-भक्तमतं दर्शितम् । किमत्र माहात्म्यं वाच्यं यतः स्वस्वधर्ममनुतिष्ठतामाश्रमिणाम् अपि यस्य भक्तियोग एवाभयदो न तु कर्मज्ञानादिरित्य् अर्थः । सन्दर्भस्तु—यद् यस्माद्भक्तियोगः प्रेमा भवति तच् च ध्यानं गाढश्रद्वावत्त्वाभावेन स्वधर्मसापेक्षाणां भक्तियोगाभासं जनयति स च संसारभयत्राणमात्रं करोतीत्य् आह—अभयद इति ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वोक्त-ध्यानस्य फलम् आह—एतद् इति । यद् यस्माद् भक्ति-योगो प्रेमा भवति, तच् च ध्यानं गाढ-श्रद्धावत्त्वाभावेन स्व-धर्म-सापेक्षाणां भक्ति-योगाभासं जनयति । स च संसार-भय-त्राण-मात्रं करोतीत्य् आह—अभयद इति ॥५३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-रुद्र एव विशेषं ज्ञापयितुम् एतद् इति पद्यम् आह—यावत् दर्शनं न लभ्येत साधक-भक्तेन तावद् एतद् रूपम् एव पुनः पुनर् ध्येयम्, आत्मनो जीवस्य शुद्धिम् अविद्या-मालिन्य-क्षालनम् इच्छतेति, न तु प्रकारान्तरेण त्वं-पदार्थ-शुद्धिर् भक्तानाम् उचितेति भावः । यथा वासुदेवादि-प्रणतिभिर् देह-द्वय-शुद्धिर् उक्ता, तथा स्निग्ध-प्रावृड् इत्य्-आदि-ध्यान-पौनःपुन्येन जीवस्य च शुद्धिर् इयम् उक्ता । ततो दर्शनं ततः पार्षदत्व-प्राप्तिर् इति शुद्ध-भक्त-मतं दर्शितम् । अत्र किं माहात्म्यं वाच्यम् ? यतः स्व-स्व-धर्मम् अनुतिष्ठताम् आश्रमिणाम् अपि यस्य भक्ति-योग एवाभयदो न तु कर्म-ज्ञानादिर् इत्य् अर्थः ॥५३॥
॥ ४.२४.५४ ॥
भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् ।
स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किं केनापि न प्राप्यते ? तत्राह—भवान् इति । दुर्लभत्वम् एवाह—स्वर्ग-राज्यं यस्य तस्याप्य् अभिमतः स्पृहणीयः । किं च, एकान्तेन य आत्म-वित् तस्यापि गतिर् गम्यः ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्यानकैवल्यं कुर्वता प्रशस्तभक्तियोगयुजा तु भवानपि लभ्यते इत्य् आह—भवानिति । भवांश् च जीवन्मुक्तपर्यन्तानां दुर्लभः स्वाराज्यस्याप्यभिमतः लब्धे सालोक्यादिके\ऽपि वांछितः एकान्तेन सालोक्यादिसुखनिरपेक्षेण भक्तियोगेन तु आत्मविदां भवदेकज्ञानिनां गतिः परमफल-रूपः । स्वामिचरणाः—यदि सर्वथा दुर्लभस्तर्हि किं शङ्कायां, स्वर्गपदमुपलक्षणं ब्रह्मपदादेर् अपि । तेन ब्रह्मणो\ऽपि वांछनीय एव न तु प्राप्य इत्य् अर्थः । न केवलमिन्द्रादेरे व किं तु ज्ञानिनामपीत्य् आह—किं चेति । एकान्तेन निश्चयेन गम्यो गन्तुमर्ह एव न त्ववगत इति भावः ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भवान् इत्य्-आदि । भवान् भक्तिमतैव लभ्यः, अन्येषां दुर्लभ एव । तं त्वां दुराराध्यम् आराध्य को जनः पाद-मूलं विना बहिर् बाह्यम् अपवर्गादिकं वाञ्छति ? सताम् अपि दुरापया सतां शम-दमादि-सम्पन्नानाम् अपि ॥५४-५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ध्यान-कैवल्यं कुर्वता प्रशस्त-भक्ति-योग-युजा तु भवान् अपि लभ्यत इत्य् आह—भवान् इति । भवांस् तु जीवन्मुक्त-पर्यन्तानां सर्व-देहिनां दुर्लभः । किं च, स्वाराज्यस्याप्य् अभिमतः । लब्ध-सालोक्यादिकस्यापि वाञ्छितः । एकान्तेन सालोक्यादि-सुख-निरपेक्षेण भक्ति-योगेन त्व् आत्म-विदां—भवद्-एक-ज्ञानिनां गतिः परम-फल-रूपः ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अप्य् एवं स्तुवीतेत्य् आह—भवान् इति । स्वर्गेषु राज्यं राजत्वं यस्य तस्य ब्रह्मणोऽप्य् अभिमतः स्पृहणीयः । आत्म-विद्यां सनकादीनाम् अपि गति-रूपः ॥५४॥
॥ ४.२४.५५ ॥
तं दुराराध्यम् आराध्य सताम् अपि दुरापया ।
एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वद्-व्यतिरेकेण न किञ्चिद् वाञ्छामीत्य् आह—तं त्वाम् एकान्त-भक्त्याराध्य । बहिः स्वर्गादि-सुखम् ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः स एव ब्रह्मादिस्पृहणीयो\ऽतो हेतोः तद्व्यतिरेकेण तं विहाय सतां सन्मार्गप्रविष्टानाम् अपि किं पुनर् अन्येषां न कोपीत्यर्थायातम् ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र युक्तम् इत्य् आह—तम् इति । सतां ज्ञानिनाम् अपि । इत्थं सतां [भा।पु। १०.१२.११] इतिवत् । बहिः स्वर्गादि-सुखम् ॥५५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि श्री-रुद्र एव श्लोक-त्रयम् आह—तम् इति । बहिः स्वर्गादि-सुखम् ॥५५॥
॥ ४.२४.५६ ॥
यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्य-शौर्य-विस्फूर्जित-भ्रुवा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः, यत्र पादमूले शरणं प्रविष्टं कृतान्तः कालो ममायं वश्य इति नाभिमानं करोति । किं कुर्वन् ? वीर्यं प्रभावः, शौर्यम् उत्साहः, ताभ्यां विस्फूर्जितया क्षुभितया भ्रुवा विश्वं विध्वंसयन्न् अपि ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पादमूलाङ्गीकारे ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यत्रेति । यत्र त्वय्य् अरणं शरणं निविष्टं जनं कृतान्तः कालोऽपि नाभिभवति ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न च तत्र स्वर्गादाव् इव भयम् अस्तीति वाच्यम् इत्य् आभिप्रेत्याह—यत्रेति । कृतान्तोऽपि मर्त्यो मृत्यु-[भा।पु। १०.३.२७] इत्य् आदेः । अत्र टीकायां—विषयीकरोति इति तु वाच्यम् । विस्फूर्जितेति क्वचित् ॥५६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसार-भयं तु तस्य नास्त्य् एवेति किं तत्-प्रार्थनेनेत्य् आह—यत्र पाद-मूले अरणं शरणं प्रविष्टं जनं कृतान्तं कालो ममायम् इति नाभिमन्यते । वीर्यं प्रभावः शौर्यम् उत्साहः ताभ्याम् विस्फूर्जितया क्षुभितया भ्रुवा विश्वं ध्वंसयन्न् अपि ॥५६॥
॥ ४.२४.५७ ॥
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सङ्गो भागवतैर् भूयान् अपुनर्-भव-मात्रतः ।
यतो विशिष्टम् आनन्दं मुक्तौ जनयति स्फुटम् ॥ इति च ॥५७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वत्-पाद-मूले प्रविष्टस्य कृतान्त-भयाभावः कियान् अयं लाभो यतस् त्वद्-भक्त-सङ्ग एव सकल-पुरुषार्थ-श्रेणि-शिरसि नरीनर्तीत्य् आह । भगवतस् तव सङ्गिनां सङ्गस्य क्षणार्धेनापि स्वर्गं न तुलये समं न गणयामि, न चापुनर् भवं मोक्षम् । मर्त्यानाम् आशिषो राज्याद्याः किम् उत ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षणार्द्धेनेति । किमुत द्वित्रादिक्षणेन किमुततरां तत्फलभूतया भक्त्या किमुततमां भक्तिफलेन प्रेम्णेति कैमुत्यातिशयो द्योतितः । स्वर्गं कर्मफलमपुनर् भवं ज्ञानफलं मोक्षम् अपि न तुलये किमुततरां कर्म किमुततमां राज्याद्या दृष्टा आशिषः अहं न तुलये, गौरवलाघवयोरतिस्पष्टत्वाद् इति भावः ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एषा भक्तिर् विना सत्-सङ्गं न भवतीति दर्शयति—क्षणार्धेनेत्य्-आदिभिः ॥५७॥
सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२८५] भगवद्-सङ्गि-सङ्गस्य क्षणार्धेनापि स्वर्गं न तुलये, समं न पश्यामि, न वा अपुनर् भवम् ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-भगवत्-प्रीत्यान्येषाम् अपवर्गाणां तिरस्कृतिस् तत्-[प्रीति-]कारणेषु महा-भागवत-सङ्ग-द्वाराह—क्षणार्धेनापीति । अहं तु न तुलये गौरव-लाघवातिस्पष्टत्वाद् इति भावः ॥५७॥ (प्रीति-सन्दर्भ ३० दृश्यः।)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्-सङ्गं तु वाञ्छेद् एवेत्य् आह—क्षणार्धेनेति । भगवत्-सङ्गिनां सङ्गस्य क्षणार्धेन, किम् उत द्वित्रादि-क्षणेन, किम् उततरां तत्-फल-भूतया भक्त्या, किम् उततमां भक्ति-फलेन प्रेम्णेति कैमुत्यातिशयो द्योतितः । स्वर्गं कर्म-फलम् अपुनर् भवं मोक्षं ज्ञान-फलम् अपि न तुलये, किम् उत ज्ञानम्, किम् उततरां कर्म, किम् उततमां राज्याद्या दृष्टा आशीषः ॥५७॥
॥ ४.२४.५८ ॥
अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर्
अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् ।
भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां
स्यात् सङ्गमोऽनुग्रह एष नस् तव ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अङ्घ्र्योर् जातयोः कीर्ति-तीर्थयोः ॥५८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ अतो हेतोः, अनघाव् अघ-हराव् अङ्घ्री यस्य तस्य तव कीर्तिर् यशस् तीर्थं गङ्गा, तयोः क्रमेण अन्तर्-बहिः स्नानाभ्यां विधूतः पाप्मा येषाम् । अत एव भूतेष्व् अनुक्रोशः कृपा सु-सत्त्वं च रागादि-रहितं चित्तं शीलं चार्जवादि विद्यते येषां तेषां सङ्गमोऽस्माकं स्यात् । एष एव नस् तवानुग्रहः ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विधूतो\ऽपास्तो\ऽन्येषाम् अपि पाप्मा यैर् इति वा । अत एव विधूतपाप्मत्वाद् एव त्वद्-अनुग्रह इत्यनेनैव वयं कृतार्था इत्य् अर्थः ॥५८॥
सनातन-गोस्वामी : [हरि-भक्ति-विलासः १०.२९१] अथ अतो हेतोः, अनघाव् अघ-हराव् अङ्घ्री यस्य तस्य तव कीर्तिर् यशः, तीर्थं गङ्गा, तयोः क्रमेण अन्तर्-बहिः स्नानाभ्यां विधूतः विनाशितः पाप्मा येषाम्, तेषाम् अपि यैर् इति वा । अत एव भूतेष्व् अनुक्रोशः कृपा सु-सत्त्वं च रागादि-रहितं चित्तं शीलं चार्जवादि, तद्वतां सङ्गोऽस्मासु अस्तु । एष एव नोऽस्मान् प्रति त्वद्-अनुग्रहः ॥५८॥
**सनातन-गोस्वामी (दिग्-दर्षिनी): [**बृ।भा। २.७.१४] अनयोर् अर्थः—भगवत्-साङ्गि-सङ्गस्य क्षणार्धेनापि स्वर्गं न तुलये समं न गणयामि, न च अपुनर् भवं मोक्षम् अपि, मर्त्यानाम् आशिषो राज्याद्याः किम् उत ? अतो भगतद्-भक्त-जन-सङ्ग एव सकल-पुरुषार्थ-श्रेणी-शिरसि नरीनर्तीति भावः । अथ अत एव हेतोः अनघौ पाप-हरौ अघासुर-घातकौ वा अङ्घ्री यस्य, तस्य तव कीर्तिर् यशः तीर्थं गङ्गा, गोपी-गण-वारि-भरण-सम्बन्धि-यमुना-घट्टो वा तयोः क्रमेणान्तर्बहिःस्नानाभ्याम् । यद् वा, अन्तःस्थो वासना-क्षयाद् बहिःस्थश् च नरकादिनिवर्तनात् स्नानेन विधूतो विनाशितः पाप्मा येषाम् । अत एव भूतेषु अनुक्रोशः कृपा सामान्यतः सुसत्त्वं च रागादि-रहित-चित्ततादि । शीलं च आर्जवादि तद्वतां सङ्गमो नो\ऽस्माकं स्यात् । एष एव तवास्मद्-विषयको\ऽनुग्रह इति ॥५७-५८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विधूतो जगतोऽपि पाप्मा यैः । मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इतिवत् ॥५८॥ (भक्ति-सन्दर्भ १८०)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् एवं प्रार्थनया यः स्तुवीतेत्य् आह—अथेति । अनघाङ्घ्रेः पाप-हरण-चरण-कमलस्य तव कीर्तिर् यशस् तीर्थं गङ्गा तयोः क्रमेण अन्तर्-बहिः-स्नानाभ्यां विधूतः पाप्मा येषां, अत एव भूतेष्व् अनुक्रोशः कृपा सुसत्त्वं च शुद्धम् अन्तः-करणं शीलं चार्जवादि विद्यते येषां तेषां सङ्गमो नोऽस्माकं स्यात् । एष एव नस् त्वद्-अनुग्रहः ॥५८॥
॥ ४.२४.५९ ॥
न यस्य चित्तं बहिर्-अर्थ-विभ्रमं
तमो-गुहायां च विशुद्धम् आविशत् ।
यद् भक्ति-योगानुगृहीतम् अञ्जसा
मुनिर् विचष्टे नन् उ तत्र ते गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्व-ज्ञानं च त्वद्-भक्त-सङ्गाद् एव भवतीत्य् आह—न यस्येति । येषां सतां भक्ति-योगेनानुगृहीतं शुद्धं सद् यस्यचित्तं बाह्यार्थ-विक्षिप्तं न भवति, तमो-रूपायां गुहायां च नाविशत्, लयं न प्राप । तत्र तदा मुनिस् तव गतिं तत्त्वं पश्यति ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चक्रवर्ती तु—त्वदीय-साधुसङ्गाद् एव चित्तं विशेषतः शुद्ध्येत् विशुद्धे च चित्ते त्वद्-रूपलीलालावण्यानुभवः स्याद् इति विशुद्धम् एव चित्तं लक्षयति । यस्य चित्तं बहिरर्थविभ्रमं न त्वदीय-श्रवणादिसमये बाह्यार्थैः स्त्रीपुत्रधनादिचिन्तनैर्विक्षिप्तं न भवति तमोगुहायां सुप्तगह्वरे च न प्रविष्टं त्वदीय-स्मरणश्रवणादिसमये यच्चित्तं लयविक्षेपयुक्तं न भवतीत्य् अर्थः । तत्र हेतुः यत्खलु भक्तियोगेनानुगृहीतं तत् शुद्धं भवति । अयं भावः—दश नामापराधा भक्त्यपराधा एव लयविक्षेपकारकास्तेषामपगमे एव भक्तिदेवी प्रसीदति, प्रसीदन्त्या एव तस्या अनुग्रहः स्यात्स च भक्तिसमयगतलयविक्षेपाभावगम्य इत्यतस् तत्र शुद्धे चित्ते मुनिर्मननशीलः संस्तव गतिं चेष्टां लीलालावण्यादिकं विचष्टे पश्यति ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-भगवतोऽन्तः-साक्षात्कारत्वे योग्यताम् आह—न यस्येति । तत्र तेषां पूर्वोक्तानां सतां भक्ति-योगेनानुगृहीतं विशुद्धं यस्य चित्तं बाह्येष्व् अर्थेषु भ्रान्तं न भवति, तमो-रूपायां गुहायां च न विशति, स मुनिर् गतिं गुण-लीलादि-मयीं स्वरूपावस्थितिम् [विचष्टे पश्यति] ॥५९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वदीय-साधु-सङ्गाद् एव चित्तं विशेषतः शुद्ध्येत् । विशुद्धे च चित्ते त्वद्-रूप-गुण-लीला-लावण्यानुभवः स्याद्, इति विशुद्धम् एव चित्तं लक्षयति—यस्य चित्तं बहिर्-अर्थ-विभ्रमं न, त्वदीय-स्मरण-श्रवणादि-समये बाह्यार्थ-विक्षिप्तं न भवति, तमो-गुहायांनाविशत् सुप्ति-गह्वरेऽप्य् अप्रविष्टं, त्वदीय-श्रवण-स्मरणादि-समये यच् चित्तं लय-विक्षेप-युक्तं न भवतीत्य् अर्थः । तत्र हेतुः—यत् खलु भक्ति-योगेनानुगृहीतं, तत् शुद्धं भवति ।
अयम् आशयः—दश-नामापराधा भक्त्य्-अपराधा एव लय-विक्षेप-कारकाः, तेषाम् अपगमे एव भक्ति-देवी प्रसीदति । प्रसीदन्त्या एव तस्या अनुग्रहः स्यात् । स च भक्ति-समय-गत-लय-विक्षेपाभाव-गम्य इत्य् अतस् तत्र शुद्धे चित्ते मुनिर् मनन-शीलः सन् तव गतिं चेष्टां लीला-लावण्यादिकं विचष्टे पश्यति ॥५९॥
॥ ४.२४.६० ॥
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् ।
तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : विश्वस्मिन् स्थितम् अपि न भात्य् अज्ञानाम् ॥६०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कीदृशं तत्त्वम् ? तद् आह—यत्रेति ॥६०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्राधिष्ठाने तदज्ञानेनेदं विश्वं व्यज्यते । विश्वस्मिन्ननुगतसच्चिद्रूपेण यद्भाति त्वंपदलक्ष्यं प्रत्यक् चैतन्यं त्वम् एव तत् नान्योतो\ऽस्ति द्रष्टा, तत्त्वमसि इति श्रुतेः । सन्दर्भः—त्वदीय-भक्तियोगानुग्रहं विना ब्रह्मत्वभगवत्त्वान्तर्यामित्वकालत्वभेदेनान्तरङ्गबहिरङ्गाविर्भावेषु तवातिदुर्बोधत्वदुराराध्यत्वदुर्वहत्वदुः सहत्वान्येवेत्याशयेनाह—योत्रेति सप्तभिः । अत्र ब्रह्मत्वमाहाद्येन तद्ब्रह्मत्वम् इति योज्यं ततश् च स्वभक्तियोगं विना तदेतदपि दुर्बोधं स्याद् इति भावः । विश्वनाथः—यत्तु कश्चिन्मुनिस्तव ब्रह्म-स्वरूपं विचष्टे तदपि त्वम् एव परममहतस्तन्महिमव्यापकं तेज इत्य् आह—यत्रेति ॥६०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं मध्ये सत्-सङ्गं स्तुत्वा पुनस् तम् एव स्तौति—यत्रेदम् इत्य्-आदि बहुभिः ॥६०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तदीय-भक्ति-योगानुग्रहं विना तु ब्रह्मत्व-भगवत्त्वान्तर्यामित्व-कालत्व-भेदेनान्तरङ्ग-बहिरङ्गाविर्भावेषु तवातिदुर्बोधत्व-दुराराध्यत्व-दुर्वशत्व-दुःसहत्वान्य् एवेत्य् आशयेनाह—यत्रेदम् इति सप्तभिः । तत्र ब्रह्मत्वम् आह । आद्येन तद् ब्रह्मत्वम् इति योज्यम् । ततश् च स्व-भक्ति-योगं विना तद् एतद् अपि दुर्बोधं स्याद् इति भावः ॥६०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् तु कश्चिन् मुनिस् तव ब्रह्म-स्वरूपं विचष्टे, तद् अपि त्वम् एव तवैव परम-महतस् तन्-महिम-व्यापकं तेज इत्य् आह—यत्रेति ॥६०॥
॥ ४.२४.६१ ॥
यो माययेदं पुरु-रूपयासृजद्
बिभर्ति भूयः क्षपयत्य् अविक्रियः ।
यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया
त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यस्य जीवादिभ्यो भेद-बुद्धिः । सा दिवा सम्यग्-ज्ञानं सम्यग्-ज्ञानि-विषयासत्यैवेत्य् अर्थः । रात्रिर् अज्ञानम् उद्दिष्टं सम्यग्-ज्ञानं दिवा स्मृतम् ॥ इति शब्द-निर्णये ।
जीवेभ्यो जडतश् चैव भेद-ज्ञानं हरेः सदा ।
वास्तवं ज्ञानम् उद्दिष्टां तेन मुक्तिर् अवाप्यते ॥ इति षाड्गुण्ये ॥६१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगत उपादानत्वेन तत्त्वं लक्षितं निमित्तत्वेनापि तद् एव लक्षयन्न् आह । य इदं विश्वं सद् इव परमार्थम् इव माययासृजत् । कथं-भूतया ? यया भेद-बुद्धिर् अन्येषां भवति, तया आत्मनि त्वयि दुःस्थया स्व-कार्यं कर्तुम् असमर्थया । तं त्वां निरस्त-भेदं प्रतीमहि जानीमः ॥६१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वकार्यं व्यामोहादिकं कर्तुमसमर्थया विलज्जमानया । यस्येयाद्युक्तेर्यथा ह्यप्रतिबुद्धस्येत्याद्युक्तेश् च । निरस्तभेदमित्यात्मतन्त्रमित्यतः फलितम् । सन्दर्भः—भगवत्त्वम् आह य इति । यदित्यस्यान्ते यद्यया भेदबुद्धिः परमेश्वरात्वत्तो\ऽन्ये स्वतन्त्रसत्ताका इति बुद्धिर्भवति आत्मदुःस्थया त्वयि स्वरूपभूतमहाभगवत्त्व-दर्शनेनात्मनि दुःस्थया स्वं दौस्थ्यं दर्शयन्त्या । विश्वनाथः—वयं तु त्वां भगवत्-स्वरूपम् एवानुभवाम इत्य् आह—यो भवान् इदं पुरुष-रूपेणासृजत् विष्णुरूपेग बिभर्ति पालयति सङ्कर्षण-रूपेण क्षपयति । मायया कीदृश्यात्मनि त्वयि दुस्थया यद्यस्या मायाया भेदे भेदप्रभेद-रूपे जगत्येव बुद्धिर्ज्ञानं लोकानां स्यात् तच् च ज्ञानं सदिव प्रशस्तम् इव न तु प्रशस्तम् इत्य् अर्थः । क्लीबत्वमार्षम् । हे भगवन् श्री-कृष्ण तं त्वात्मतन्त्रं प्रतीमहि साक्षादनुभवेमेति प्रार्थनेयम् ॥६१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवत्त्वम् आह—य इति । यद् इत्य् अस्यान्ते यत् यया भेद-बुद्धिः परमेश्वरात् त्वत्तोऽन्ये स्वतन्त्र-सत्ताका इति बुद्धिर् भवति । आत्म-दुःस्थया त्वयि स्वरूप-भूत-महा-भगवत्त्व-दर्शनेनात्मनि दुःस्थया स्वं दौस्थ्यं दर्शयन्त्या ॥६१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयं तु त्वां भगवत्-स्वरूपम् एवानुबुभूषाम् इत्य् आह—यो भवान् इदं विश्वं पुरुष-रूपेणासृजत्, विष्णु-रूपेण बिभर्ति, सङ्कर्षण-रूपेण क्षपयति । मायया कीदृश्या ? आत्मनि त्वयि दुःस्थया स्वकार्यं कर्तुम् असमर्थया यद् यस्य मायया भेदे भेद-प्रभेद-रूपे भगवत्य् एव बुद्धिर् ज्ञानं लोकानां स्यात्, तच् च ज्ञानं सद् इव प्रशस्तम् इव, न तु प्रशस्तम् इत्य् अर्थः । क्लीब्त्वम् आर्षम् । हे भगवन् श्री-कृष्ण ! तं त्वाम् आत्म-तन्त्रं प्रतीमहि साक्षाद् अनुभवेमेति प्रार्थनेयम् ॥६१॥
॥ ४.२४.६२ ॥
क्रिया-कलापैर् इदम् एव योगिनः
श्रद्धान्विताः साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्तः-करणोपलक्षितं
वेदे च तन्त्रे च त एव कोविदाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : भूतेन्द्रियान्तःकरणैर् उपलक्ष्यते ॥६२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अपि त्वम् एव निर्भेदं ब्रह्म तथापि प्राग् उक्तं साकारम् इदं तव रूपं ये यजन्ति त एव वेदागम-तत्त्व-ज्ञा इत्य् आह—क्रिया-कलापैर् ये कर्म-योगिनः पूजयन्ति, त एव कोविदाः, न त्व् एतद् अनादृत्य केवल-ज्ञाने प्रवृत्ताः । तन्त्रे आगमे । कथं-भूतम् इदम् ? भूतेन्द्रियान्तः-करणैर् अस्व-तन्त्रैर् यद् उपलक्ष्यते नियन्तृ-रूपं तत् ॥६२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्दर्भः—अन्तर्यामित्वम् आह क्रियेति । इदम् एवेति त्रयाणामभेदं दर्शयति कर्ममार्गे ये सर्वान्तर्यामिदृष्टितत्परास्त एव भगवत्तत्वकोविदाः, नान्ये । ततः किं पुनर् भक्तिमार्गे साक्षात्तदुपासका इत्य् अर्थः । यद्वा—सिद्धये बोधदार्ढ्याय इदम् एव ध्याने उक्तम् एव उप समीपे साक्षितया लक्षणया लक्षितं योन्यां देवतामुपास्ते\ऽन्योसावन्योहं न स वेद यथा पशुः इति श्रुतेः ॥६२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्तर्यामित्वम् आह—क्रियेति । इदम् एवेति त्रयाणाम् अभेदं दर्शयति—कर्म-मार्गे ये सर्वान्तर्यामि-दृष्टि-तत्-पराः, त एव भगवत्-तत्त्व-कोविदाः, नान्ये । ततः किं पुनर् भक्ति-मार्गे साक्षात्-तद्-उपासका इत्य् अर्थः ॥६२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचित् कर्म-योगिनो\ऽष्टाङ्ग-योगिनश् च सर्व-भूतान्तर्यामिनं प्रथमं पुरुषं त्वां यजन्तीति तन्त्रेणैवाह—क्रियेति । इदम् एव किम् ? तत्राह—भूतेन्द्रियान्तः-करणैर् अस्वतन्त्रैर् यद् उपलक्ष्यते ज्ञाप्यते । तन्-नियन्तृ-रूपम् । अत एव कर्मिणां योगिनां च मध्ये कोविदाः, नान्ये ॥६२॥
॥ ४.२४.६३ ॥
त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस्
तया रजः-सत्त्व-तमो विभिद्यते ।
महान् अहं खं मरुद् अग्नि-वार्-धराः
सुरर्षयो भूत-गणा इदं यतः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सुप्त-शक्तिः स्वात्मन्य् एवाप्ति-शक्तिः ।
प्रकृतेः स्वाप उदिष्टो हर्य् अन्यस्यत्व-दर्शनम् ।
विशेषेण हरौ चापि रतिर् ज्ञानात्मिका यतः ॥ इति सत्य-संहितायाम् ॥६३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अभिन्ने मयि भेदं कुर्वन्तः सन्तः कथं ते कोविदाः ? नहि तैर् भेदः क्रियते, त्वयैव क्रीडार्थं चेतनाचेतनात्मको भेदः कृत इत्य् आह—त्वम् इति । आद्यस् त्वम् एक एव सुप्ता मायाख्या शक्तिर् यस्य । पश्चात् तया शक्त्या । रजः-सत्त्व-तमसां द्वन्द्वैक्यम् । यतो रज-आदेः महान् अहङ्कारः स्वं च मरुद् अग्निर् वार्-धराश् च । वाः उदकम् । सुराश् चर्षयश् च भूत-गणाश् चैवम् इदं जगद्य् अतो भवति तद् विभिद्यते इत्य् अन्वयः ॥६३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । तैः सद्भिः । तया शक्त्या । उद्बुद्धया मायाशक्त्या । तत् रजआदि त्वत्तो विभिद्यते पृथक् क्रियते इति वा सन्दर्भः । अन्तर्यामित्वम् एव ज्ञापयति त्वमेक इति द्वाभ्यां, तत्र प्रथमेनांशानुवादो द्वितीयेनांशप्रतिपादनम् ॥६३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्तर्यामित्वम् एव स्थापयति—त्वम् एक इति द्वाभ्याम् । तत्र प्रथमेनांश्य्-अनुवादः द्वितीयेनांश-प्रतिपादनम् ॥६३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अभिन्ने मयि भेदं कुर्वन्तः सन्तः कथं ते कोविदाः ? नहि तैर् भेदः क्रियते, त्वयैव क्रीडार्थं चेतनाचेतनात्मको भेदः कृत इत्य् आह—त्वम् इति । आद्यस् त्वम् एक एव सुप्ता मायाख्या शक्तिर् यस्य । पश्चात् तया शक्त्या । रजः-सत्त्व-तमसां द्वन्द्वैक्यम् । यतो रज-आदेः महान् अहङ्कारः स्वं च मरुद् अग्निर् वार्-धराश् च । वाः उदकम् । सुराश् चर्षयश् च भूत-गणाश् चैवम् इदं जगद्य् अतो भवति तद् विभिद्यते इत्य् अन्वयः ॥६३॥
॥ ४.२४.६४ ॥
सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश्
चतुर्-विधं पुरम् आत्मांशकेन ।
अथो विदुस् तं पुरुषं सन्तम् अन्तर्
भुङ्क्ते हृषीकैर् मधु सार-घं यः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अवधारणेऽघ शब्दः स्यात्, सार-मात्रं तु सारघम् इति शब्द-निर्णये ॥६४।
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् उपपादयति—सृष्टम् इति । जरायुजाण्डजस् वेदजोद्भिज्ज-रूपेण चतुर्-विधं स्वांशेन प्रविष्टः । अथो इति हेतोः परस्यान्तः सन्तम् अंशं चिद् आभासं पुरि शयनात् पुरुषं विदुः । तर्हि किम् ईश्वरम् एव संसारिणं विदुः ? नेत्य् आह—सरघा मधुम् अक्षिकास् ताभिः सृष्टं मध्व् इव क्षुल्लकं विषय-सुखम् अविद्यावृतः सन् यो भुङ्क्ते तं जीवं विदुः । तथा च श्रुतिः—तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति[मु।उ। ३.१.१] निर्णीतं च, गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे।सू। १.२.११] इत्य् अत्र ॥६४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद्विभेदनम् एव । श्रुतिस्तु बहुत्र व्याख्याता । इत्य् अत्र सूत्रे जीवपरात्मानावन्तस्थौ द्वावेवेति निर्णीतम् । जीवपरात्मानावेव गुहां हृदयाकाशं प्रविष्टौ न तु बुद्धिजीवौ । ऋतं पिबन्तावियत्र कर्मफलभोगश्रवणे एकस्तावदात्मेति द्वितीयो\ऽप्य् आत्मैव न्याय्यः, कुतस्तदर्शनात् सङ्ख्याश्रवणे हि सङ्ख्यावतोरेक-रूपत्वस्य लोके दर्शनात् । तथाहि—अस्य गोर्द्वितीयोन्वेष्टव्य इत्य् उक्ते गौरे व द्वितीयोन्वेष्टव्यो नाश्वो न मनुष्य इति । एवं चेतनत्वसामान्याज्जीवपरमात्मानावेवेति सूत्रार्थः । किञ्च—सारघदृष्टान्तेन तन्मक्षिकादंशतप्तत्वे\ऽपि तद्भोजनात्यागादासक्तिर्द्योन्तिता । ततश्चातिशयोक्त्यलङ्कारेणाभक्त्या सदुःखं विषयसुखं तुच्छमविद्यावृतो यो भुंक्ते इत्य् अर्थः ॥६४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र “अन्तः सन्तम् अंशम्” इति टीका-सम्मतम् ॥६४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् त्व् अन्तर्यामी सङ्गी पुरुषो जीवः, स तु नोपास्य इत्य् आह—सृष्टम् इति । इदं चतुर्विधं जयायुजाण्डज-स्वेदजोद्भिज्ज-रूपम् आत्मा अन्तर्यामी अंशकेन येन निकृष्टांशेन सह प्रविष्टस् तम् अपि, अन्तः सन्तम् अन्तर् एव, न तु बहिः सन्तं जीवं पुरुषं विदुः । यः सारघं सारघाभिर् मधु-मक्षिकाभिः सृष्टं मधु हृषीकैर् भुङ्क्ते । सारघ-दृष्टान्तेन तन्-मक्षिका-दंश-सन्तप्तत्वेऽपि तद्-भोजनात्यागाद् आसक्तिर् द्योतिता । ततश् चातिशयोक्त्य्-अलङ्कारेणाभक्त्या स दुःखं विषय-सुखं तुच्छम् अविद्यावृतो यो भुङ्क्ते इत्य् अर्थः । तथा च श्रुतिः—तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति[मु।उ। ३.१.१] ॥६४॥
॥ ४.२४.६५ ॥
स एष लोकान् अतिचण्ड-वेगो
विकर्षसि त्वं खलु काल-यानः ।
भूतानि भूतैर् अनुमेय-तत्त्वो
घनावलीर् वायुर् इवाविषह्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तव तु सर्व-नियन्तुः कुतः संसारः ? इत्य् आह । यः स्व-शक्त्येदं सृष्टवान् स एष त्वं खलु भूतैर् एव भूतानि मेघ-पङ्क्तीर् वायुर् इव कालयन्विचालयन् । लोकान् विकर्षसि संहरति । अनुमेय-तत्त्वोऽलक्ष्य-स्वरूपः ॥६५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्दर्भः कालत्वम् आह द्वाभ्यां—सर्वदुःखहन्तरि सर्वसुखदातरि स्वस्मिन्नुन्मुखं विधातुं दययैव तथा विभीषयस इति भावः । चक्रवर्ती—तम् एव भक्तिहीनं जीवं सपरिच्छेदम् एव काल-स्वरूपस्त्वमाकर्षयसीत्य् आह स एव इति द्वाभ्याम् । चण्ड-वेगो\ऽसह्य-वेगः । भूतानि भूतैर् इति । जीवो जीवस्य जीवनम् इति न्यायेनेत्य् अर्थः ॥६५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कालत्वम् आह—स एष इति द्वाभ्याम् ॥६५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एव भक्ति-हीनं जीवं सपरिच्छेदम् एव काल-स्वरूपस् त्वम् आकर्षसीत्य् आह—स एष इति द्वाभ्याम् । काल-यानश् चालयन् लोकान् भोग-स्थानान्य् अपि, भूतानि भूतैर् इति, जीवो जीवस्य जीवनम् इति न्यायेनेत्य् अर्थः । अनुमेय-तत्त्वोऽलक्ष्य-स्वरूपः ॥६५॥
॥ ४.२४.६६ ॥
प्रमत्तम् उच्चैर् इति-कृत्य-चिन्तया
प्रवृद्ध-लोभं विषयेषु लालसम् ।
त्वम् अप्रमत्तः सहसाभिपद्यसे
क्षुल्-लेलिहानोऽहिर् इवाखुम् अन्तकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विकर्षण-प्रकारम् आह—प्रमत्तम् इति । इति-कृत्यम् एवम् एवम् इदं कर्तव्यम् इति चिन्तयोच्चैः प्रमत्तम् । तत्र हेतुः—विषयेषु लालसम् अतिकामुकम् । प्राप्तेऽपि विषये प्रवृद्ध-लोभम् । अन्तकस् त्वम् अभिपद्यसे आक्रमसि, क्षुधा लेलिहानौ जिह्वयौष्ठ-प्रान्तौ स्पृशन् सर्पो मूषिकम् इव ॥६६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र प्रमत्तत्वे । अत्र कोशगभ्रमरदृष्टान्तो\ऽप्य् अनुसन्धेयः, स च—
रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ इति ॥६६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-दुःख-हन्तरि सर्व-सुख-दातरि स्वस्मिन्न् उन्मुखं विधातुं दययैव तथा विभीषयस इति भावः ॥६६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकर्षण-प्रकारम् आह—प्रमत्तम् इति । इति-कृत्यम् एवम् एवम् इदं कर्तव्यम् इति तच्-चिन्तया प्रमत्तम् । अभिपद्यसे आक्रमसि, क्षुधा लेलिहानो जिह्वयौष्ठ-प्रान्तौ अतिशयेन स्पृशन् सर्प आखुं मूषिकम् इव ॥६६॥
॥ ४.२४.६७ ॥
कस् त्वत्-पदाब्जं विजहाति पण्डितो
यस् तेऽवमान-व्ययमान-केतनः ।
विशङ्कयास्मद्-गुरुर् अर्चति स्म यद्
विनोपपत्तिं मनवश् चतुर्दश ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः कस् तव पदाब्जं त्यजेत्, पण्डितश् चेत् ? कथं-भूतः ? यस् तवावमानोऽनादरस् तेन व्ययमानं केतनं शरीरं यस्य सः । यद् अस्माकं गुरुर् ब्रह्मार्चति स्मेति सर्वेषां स्तोतॄणां वाक्यम् । विशङ्कया नाश-शङ्कया । विनोपपत्तिम् इति दृढ-विश्वासेन । मनवश् चतुर्दशार्चन्ति स्म ॥६७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवंभूतं त्वां निर्बुद्धिरे व भजेद् इत्य् आह—क इति । अतः काल-रूपत्वात्तव दुष्टजनकृतोनादरो\ऽवमानस्तेन व्ययमानं नाशं प्राप्तम् इव भयात्कंपमानमिवेति नाशशङ्कया भवबन्धशङ्कया उपपत्तिं युक्तिं विना स्वभावत एव विश्वासदार्ढ्येन । यद्वा—कामनां विना ॥६७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरति—कस् त्वत्-पादाब्जम् इत्य्-आदि । कः पण्डितस् त्वत्-पादाब्जं विजहाति ? यस् तु विजहाति, स पण्डितो न भवतीति मोक्षाकाङ्क्षिणं प्रत्याक्षेपः ॥६७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तद्-भक्तिर् एव पुरुषार्थ इत्य् उपसंहरति—क इति द्वाभ्याम् । विशङ्कयापि हेतुना को विजहाति अस्मद्-गुर्व्-आदयस् त उपपत्तिं युक्ति विना स्वभावत एवेत्य् अर्थः, तथा मनव इति मन्वन्तरस्य भक्तानाम् उपलक्षणं चेतन इति चित्-सम्बन्धयोः पाठान्तरम् ॥६७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं-भूतं त्वां निर्बुद्धिर् एव न भजेद् इत्य् आह—क इति । अवमानो दृष्ट-जन-कृतोऽनादरस् तेन व्ययमानं केतनं नाशं प्राप्तम् इव शरीरं यस्य सः । यद् अस्मद्-गुरुर् ब्रह्मा अर्चति स्मेति सर्वेषां स्तोतॄणां वाक्यम् । विशङ्कया भव-बन्ध-शङ्कया मनवोऽपि उपपत्तिं युक्तिं विना स्वभावत एव विश्वास-दार्ढ्येन । यद् वा, कामनां विना ॥६७॥
॥ ४.२४.६८ ॥
अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अस्माद् एतद् भगवतीत्य् उपपत्त्य्-अपेक्षां विनापि स्वभावत एव ॥६८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—अथेति । रुद्र-भयेन ध्वस्तम् । अतो न कुतश्चिद् भयं यस्यां तादृशी गतिर् असि ॥६८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो विश्वं रुद्रभयध्वस्तं विश्ववर्तिनो जीवाः कालभयध्वस्ता एव । अथातः हे विपश्चितां परमात्मन् स्वभावतः श्रेष्ठ त्वम् एव कालाद्रक्षक इति भावः । मर्त्यो मृत्युर्व्यालभीतः पलायन् इत्यारभ्य मृत्युरस्मादपैति इत्य् उक्तेः ॥६८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् त्वम् एव नो गतिर् इत्य् आह—अथेत्य्-आदि । त्वम् असि नो गतिः । कीदृशी ? अकुतश्चिद् भया विश्वं हि रुद्र-भय-ध्वस्तं कालाग्नि-रुद्र-प्रभया खण्डितम् ॥६८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हे विपश्चितां परमात्मन् ! स्वभावतः प्रेष्ठत्वम् एवास्माकम् अकुतश्चिद्-भया गतिः, त्वां विना तु विश्वं सर्वम् एव रुद्रात् भयं तेन ध्वस्तम् इति ॥६८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—अथेति । विपश्चितां गतिर् असि, न त्व् अविपश्चितां, यतो विश्वं रुद्र-भय-ध्वस्तम् । विश्व-वर्तिनोऽज्ञा जीवाः काल-भय-ध्वस्ता एवेत्य् अर्थः ॥६८॥
॥ ४.२४.६९ ॥
इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः ।
स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अहरहः क्लेश-मोक्षः सुप्तौ । तावद्-वेदेत्य् आक्षेपो दौर्लभ्य-ज्ञापनार्थम् ॥६९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपनन्दना इति । नरपालकत्वेन लोके भवतामप्यनेन सुखं भविष्यतीति भावः । स्वधर्ममनुतिष्ठन्त इति स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः इति श्रीगीतोक्तेः ॥६९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदं जपतेति श्री-रुद्रोपदेशः ॥६९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्रथमं कर्म-मिश्रां भक्तिम् आह—इदम् इति । ततः शुद्धाम् आह—ममैवेति ॥६९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-धर्मम् अनुतिष्ठन्त इति प्रचेतसां कर्म-मिश्र-भक्तिमत्त्वम् आलक्ष्योक्तिः ॥६९॥
॥ ४.२४.७० ॥
तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् ।
पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥
न कतमेन व्याख्यातम्।
॥ ४.२४.७१ ॥
योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः ।
समाहित-धियः सर्व एतद् अभ्यसतादृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योगादेशं नामैतत् स्तोत्रम् उपासाद्य पाठतः प्राप्य मनसा धारयन्तोऽभ्यासेन जपत ॥७१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्ममिश्रां भक्तिमुक्त्वा शुद्धाम् आह—तम् एवेति ॥७०-७१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगादेशं नामैतत् स्तोत्रण्ट् उपासाद्य पाठतः प्राप्य ॥७१ ॥
॥ ४.२४.७२ ॥
इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः ।
भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वसृजां पतिर् ब्रह्मा ॥७२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माकम् अस्मान् ॥७२॥
॥ ४.२४.७३ ॥
ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः ।
अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सिसृक्ष्मः सृष्टवन्तः ॥७३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं स्तोत्रम् ॥७२-७३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सिसृक्ष्म इति सविसर्गः पाठः । सिसृक्ष्मेति क्वचित् ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.७४ ॥
अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान्।
अचिराच् छ्रेय आप्नोति वासुदेव-परायणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्त एकाग्र-चित्तः ॥७४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथातः वासुदेवैकनिष्ठः ॥७४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ अतः ॥७४॥
॥ ४.२४.७५ ॥
श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानम् एव नौर् यस्य ॥७५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञानं प्रस्तुतत्वाद्भागवतम् एव ज्ञानपदाभ्यां ग्राह्यम् । प्रतिपादितं चैतत् कृच्छो महानिह इत्य् अत्र । व्यसनार्णवं संसारम् ॥७५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् च श्रेयो ज्ञानम् एवेत्य् अभिप्रेत्य ज्ञानं स्तौति—श्रेयसाम् इति । ज्ञानम् अत्र भागवतम् एव ॥७५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानं प्रस्तुतत्वात् भगवद्-रूप-गुणैश्वर्य-सुखं तरतीति ज्ञान-नौर् इत्य् आभ्यां कैवल्योपयोगि-ज्ञानस्य तु क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इति । कृच्छ्रो महान् इह भवार्णवम् अप्लवेशं षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ती [भा।पु। ४.२२.४०] इत्य् आभ्यां दुःख-बहुलत्वस्याप्लवत्वस्य च श्रवणात् ॥७५॥
॥ ४.२४.७६ ॥
य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् ।
अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योऽधीयानो भवत्य् असौ हरिम् आराधयति ॥७६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव भक्तिम् एवाह—य इमम् इति योऽधीयानो भवेद् असौ ॥७६ ॥
॥ ४.२४.७७ ॥
विन्दते पुरुषोऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् ।
मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुष्माद् धरेः । असत्वरन् स्थिरः सन् । मद्-गीतं स्तोत्रं तेन गीतात् स्तुतात् यद् यद् इच्छति तत् तद् विन्दते । एक एव वल्लभः प्रिय आश्रयस् तस्मात् ॥७७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव भक्तिम् एवाह य इति । आराधयति वशीकरोति ॥७६-७७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : असत्वरन्न् इति क्विब् आचारार्थः ॥७७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असत्वरन्न् इति आचर क्विब्-अन्तः । स्थिर इत्य् अर्थः । मद्-गीत-गीतात् यया गीतोऽयं स्तवो यदि गीतः स्यात् तदामुष्मात् शोभनं प्रीणातीति सुप्रीतस् तस्मात् । स्तव एवायं तं प्रति प्रीतो भवतीत्य् अर्थः ॥७७॥
॥ ४.२४.७८ ॥
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।
शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कल्ये उषसि ॥७८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वरया सह वर्तत इति सत्वरस्तमिवाचरतीति सत्वरति सत्वरतीति सत्वरन् न सत्वरन्नसत्वरन् । आचारक्किबन्ताच्छतृप्रत्यये नञा समासे चेदं रूपं सिध्यतीति ॥७८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२४.७९ ॥
गीतं मयेदं नरदेव-नन्दनाः
परस्य पुंसः परमात्मनः स्तवम् ।
जपन्त एकाग्र-धियस् तपो महत्
चरध्वम् अन्ते तत आप्स्यथेप्सितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तपश् चरत तपसोऽन्ते ईप्सितं प्राप्स्यथ ॥७९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वरया सह वर्तत इति सत्वरस्तमिवाचरतीति सत्वरति सत्वरतीति सत्वरन् न सत्वरन्नसत्वरन् । आचारक्किबन्ताच्छतृप्रत्यये नञा समासे चेदं रूपं सिध्यतीति ॥७९॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे चतुर्विंशो\ऽध्यायः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तपश् चात्र भगवद्-आराधन-लक्षणम् एव ॥७९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईप्सितमम् आप्स्यथेति तेषां सकामत्वं व्यञ्जितम् ॥७९ ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्विंशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे रुद्र-गीतं नाम
चतुर्विंशोऽध्यायः ।
॥ ४.२४ ॥
(४.२५)