त्रयोविंशोऽध्यायः
विषयः
पृथोर् वनं गत्वा तपश्-चरणं योग-धारणया त्यक्त-देहस्य पृथोः, चितायां दग्ध-तनोर् अर्चिषश् च सहैव वैकुण्ठ-प्राप्तिः ।
॥ ४.२३.१ ॥
मैत्रेय उवाच—
दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् ।
आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्रयोविंशे स-भार् यस्य वने नित्य-समाधितः ।
विमानम् अधिरुह्याथ वैकुण्ठ-गतिर् ईर्यते ॥
प्रवयसं वृद्धं दृष्ट्वा तपो-वनम् अगाद् इति तृतीयेनान्वयः । स्व-कृतोऽनुसर्गोऽन्नादि-सर्गः पुर-ग्रामादि-सर्गश् च । वर्धितोऽशेषः स्वानुसर्गो येन ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ नित्यसमाधिकार्त्स्न्येन । आत्मवान् जितमनाः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दृष्ट्वेति त्रिकम् ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रयोविंशे वनं गत्वा तपः कृत्वा हरिं यजन् ।
त्यक्त्वा नृ-लोकं स-स्त्रीको वैकुण्ठम् अगमत् पृथुः ॥
आत्मानं देहं प्रवयसं वृद्धं दृष्ट्वा अद्यापि भगवान् मां साक्षात् सेवअं स्व-पार्श्वं न नयतीत्य् अतोऽनुमीयते—मम तावत्-प्रमाणकं भजनं नाभून् निष्कषायता च न वर्तत इत्य् अतो वानप्रस्थाश्रम-मिषेण वनं गत्वा कीर्तन-स्मरणाभ्याम् अष्टाव् एव यामानयन्न् अस्मत्-पूर्व-पुरुषो ध्रुव इव शीघ्रं भगवत्-प्राप्त्य्-अर्थम् एव तपः कुर्वन् लोके वानप्रस्थ-धर्मं ख्यापयामीति मनसि निश्चित्य तपोवनम् अगाद् इति तृतीयेणान्वयः । आत्मना स्वेनैव वर्धितोऽशेषः स्वीयोऽनुसर्गः अन्नादि-पुर-ग्रामादि-सर्गो येन सः ॥१॥
॥ ४.२३.२ ॥
जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् ।
निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्पादित ईश्वरादेशः प्रजा-पालनादिर् येन । जज्ञिवान् जातः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरादेशः लोकशिक्षणार्थं धर्मज्ञानाद्यनुकरणम् एव । यद्वेश्वरेण मुनिप्रेरितबन्दिजनान्तर्यामिणा य आदिश्यते एष धर्मभृतां श्रेष्ठ इत्य्-आदिना स ईश्वरादेशः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निष्पादितेति । तस्य नित्यं भगवत्-पार्षदत्वं लीला-मात्राङ्गीकृतेन नराकारोपाधित्वं तद्-आदेश-सम्पादनार्थम् एव धर्म-ज्ञानाद्य्-अनुकरणम् । तद्-आदेशश् च साधारण-लोक-शिक्षार्थम् एवेति व्यक्तम् । तद् एवम् अपि शुद्ध-भक्तत्वम् एव स्थापितम् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२३.३ ॥
आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव ।
प्रजासु विमनःस्व् एकः स-दारोऽगात् तपो-वनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-जां पृथ्वीम् । विमनःसु चिन्तातुरासु । स-दारः स-भार्यः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विश्वनाथस्तु—आत्मानं देहं गतायुषं दृष्ट्वाहो अद्यापि भगवान्मां साक्षात्सेवार्थं न नयतीत्यतो\ऽनुमीयते मम तावत्प्रमाणकं भजनं नाभून्निष्कषायता च न वर्तत इत्यतो वानप्रस्थाश्रममिषेण वनं गत्वा कीर्तनश्रवणाभ्यामष्टावेव यामान्नस्मत्पूर्वपुरुषो ध्रुव इव शीघ्रं भगवत्प्राप्त्यर्थम् एव तपः कुर्वन् लोके वानप्रस्थधर्मं स्थापयामीति मनसि निश्चित्य तपोवनमगाद् इति तृतीयेनान्वयः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रोदने लिङ्गं प्रजासु विमनःस्व् इति ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मजां पृथ्वीम् ॥३॥
॥ ४.२३.४ ॥
तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते ।
आरब्ध उग्र-तपसि यथा स्व-विजये पुरा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदाभ्या विघ्नैर् वाशयितुम् अशक्या नियमा यस्य । वानप्रस्थानां सुसंमते उग्रे तपस्यारब्धः प्रवृत्तः । कर्तरि क्तः । यथा स्वस्य धरा-मण्डलस्य विजये पूर्वं महता यत्नेन प्रवृत्तस् तथेति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि यथा गार्हस्थ्ये कर्मकरणं सकर्मजनप्रदर्शनाय तथैव तृतीयाश्रमे\ऽपि वानप्रस्थजनप्रदर्शनायास्य तपश्चरणम् इत्य् आह—वैखानसेति । अदाभ्येति दभ-नोदने धातो रूपम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अदाभ्येति दभ-नोदन इति कल्पद्रुमात् । एतद् बुद्ध्यैव अदाभ्येति गौडाः अध्यात्मेति सम्बन्धोक्तिः । [आत्म]{।मर्क्}-नियमान् इति चित्सुखः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापीति । यथा गार्हस्थ्ये कर्म-करणं कर्मि-जन-प्रदर्शनया तथैव तृतीयाश्रमेऽपि वानप्रस्थ-जन-प्रदर्शयन्न् अस्य तपश्-चरणम् इत्य् आह—वैखानसानां सुसम्मते उग्र-तपसि आरब्धः प्रवृत्तः । तद्-आभा-नियमोऽखण्ड्-व्रतः । दभ् नोदने इति धातोः रूपम् । स्वस्य स्वीयस्य धरा-मण्डलस्य जये यथा पूर्वं यत्नेन प्रवृत्तः ॥४॥
॥ ४.२३.५ ॥
कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् ।
अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उग्रं तपो दर्शयति—कन्द-मूलेति त्रिभिः । क्वचित् कदाचित् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कन्दो विनैव वपनं, वनजो मूलावान्तरभेदः । मूलं तु वपनेनोद्भूतं मूलकादि । यद्वोभयं ग्रामारण्यसाधारणं वपनजम् एव ग्राह्यम् ।
मूलं बीजसमुद्भूतं कन्दः स्वग्रन्थिसंभवः । > मूलकादि भवेन्मूलं कन्दश् च सूरणानिकः ॥ इति कौशिकः ।
ततो भक्षोत्तरम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कन्देति त्रिकम् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२३.६ ॥
ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषाण् मुनिः ।
आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्-दिक्षु चत्वारोऽग्नय उपरि सूर्य इति पञ्चानां तपः सन्तापो यस्य स पञ्च-तपाः । आसारं सहत इत्य् आसारषाट् । शिशिर-र्तौ । स्थण्डिले-शयो भूमि-शयनः सर्वदा ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आसारषाट् निराश्रयतयोग्रवृष्टिसेवी धारासंपात आसारः इत्य् अमरः । शिशिरे माघ-फाल्गुनमासयोः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वीरेत्य् अत्र धीरेति क्वचित् । जितेत्य् अत्र यतेत्य् अत्र यतेर् इति क्वचित् । आरिराधयिषुः कृष्णम् इति । तत्-तत्-प्रचारार्थं तेनावतारितत्वात् तद्-आज्ञा-प्रतिपालन-रूपम् आराधनं कर्तुम् इच्छुर् इत्य् अर्थः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्-दिक्षु चत्वारोऽग्नय उपरि सूर्य इति पञ्च-तपाः, आसार-षाट् धारा-सम्पात-सहः । स्थण्डिले-शयो भूमि-शायी । ननु लोक-प्रदर्शनअकेऽपि तस्मिंस् तावति तपसि तस्य कीदृशं मन आसीत् तत्राह—आविराधयिषुर् इति वैकुण्ठे साक्षात् कृष्णाराधन-कामोऽहं तपश् चरामीति तस्य सङ्कल्प आसीद् इत्य् अर्थः । दृश्यते च रात्मक-भक्तिमतां सिद्धानां श्री-विशाखादि-गोपी-जनानां बृहद्-वामन-दृष्टानां श्रुतीनां च कृष्ण-प्राप्त्य्-अर्थं तपश्-चरणम् इति ॥६॥
॥ ४.२३.७ ॥
तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः ।
आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु लोकप्रदर्शनके\ऽपि तस्मिम्स्तपासि तस्य कीदृङ् मन आसीदित्यत आह—आरिराधेति । वैकुण्ठे साक्षात्कृष्णाराधनकामोहं तपश्चरामीति तस्य सङ्कल्प आसीदित्यथः । दृश्यते च रागात्मकभक्तिमतां सिद्धानां श्रीविशाखादिगोपीजनानां बृहद्वामनदृष्टानां श्रुतीनां च कृष्णप्राप्त्यर्थं तपश्चरणामति ॥७॥
न कतमेनापि व्याख्यातम्।
॥ ४.२३.८ ॥
तेन क्रमानुसिद्धेन1 ध्वस्त-कर्म-मलाशयः ।
प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन तपसा । क्रमानुसिद्धेन शनैः प्राप्तेन । ध्वस्तानि कर्माणि यस्यातोऽमल आशयो यस्य । छिन्नानि बन्धनानि वासना यस्य ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुसिद्धेन परिपक्वेनामलाशयः प्रफुल्लमनाः ध्वस्तकर्मा तु स प्रागेव प्राणायामैर्भङ्गवन्मन्त्रावृत्तिभिरे व भक्तिमार्गविहितैः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेनेति युग्मकम् । सिद्धेनेत्य् अत्राविरुद्धेनेति क्वचित् । ध्वस्त-कर्मेत्य्-आदिकम् अनुकरण-मात्रम् ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेन तपसा । क्रमेणैवानुसिद्धेन परिपाकं प्राप्तेन अमलाशयः प्रफुल्ल-मनाः, ध्वस्त-कर्मा तु स प्राग् एव प्राणायामैर् भगवन्-मन्त्रावृत्तिभिर् एव भक्ति-मार्ग-विहितैः । आत्मनि स्वस्मिन्न् अधिकृतं विनयादित्वात्, स्वार्थे ठक् । आध्यात्मिकं परम् अन्तिमं, यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या [भा।पु। ४.२२.३९] इत्य्-आदि-पद्य-द्वयेनोक्तं शुद्धं भक्ति-योगं, व्याख्यान्तरे आधात्मिकस्य ज्ञान-योगस्य परत्वानुक्तेः श्रेष्ठत्वानुक्तेश् च । तेन च पुरुष-भजनासम्भवाद् उत्तर-श्लोके चानुपपत्तेश् चासङ्गतिर् एव, तादृश-शब्देनोक्तिस् तु भक्ति-योगस्य रहस्यत्व-व्यञ्जिकैव ज्ञेया ॥८-९॥
॥ ४.२३.९ ॥
सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्मवद् ज्ञानम् अपि भगवद्-आराधनायैवानुकृतम् इत्य् आह—सनद् इति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२३.१० ॥
भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा ।
भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव तत्-फलं तथैव जातम् इत्य् आह—भगवद् इति । सद् इत्य् अत्र तदेति क्वचित् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनि स्वस्मिन्नधिकृतं विनयादित्वाट्टक् स्वार्थे-आध्यात्मिकं परमन्तिकं, यत्पादपङ्कजपलाश इत्य्-आदिपद्यद्वयोक्तं शुद्ध-भक्तियोगम् । व्याख्यान्तरे आध्यात्मिकस्य ज्ञानयोगस्य परत्वानुक्तेः श्रेष्ठत्वानुक्तेश् च तेन च पुरुषभजनासंभवादुत्तरश्लोके चानुपपत्तेश्वासङ्गतिरे व तादृशशब्देनोक्तिश् च भक्तियोगस्य रहस्यत्वव्यंजिकैव ज्ञेया ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्
॥ ४.२३.११ ॥
तस्यानया भगवतः परिकर्म-शुद्ध-
सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या ।
ज्ञानं विरक्तिमद् अभून् निशितेन येन
चिच्छेद संशय-पदं निज-जीव-कोशम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
आविर्भाव-तिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु । > अपेक्ष्याज्ञस् तथा ज्ञानम् उत्पन्नम् इति चोच्यते ॥ इति तन्त्र-सारे > ॥११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिकर्मणा परिचर्यया शुद्ध-सत्त्व आत्मा मनो यस्य तस्य ज्ञानम् अभूत् । कीदृशम् ? येन निजम् उपाधिं जीव-कोशं हृदय-ग्रन्थिं संशयानाम् असंभावनादीनां पदम् आश्र् अयं चिच्छेद । कीदृशेन ? अनया भक्त्या निशितेन तीक्ष्णेन । कथं-भूतया ? तस्य भगवतोऽनुसंस्मरणेनानुपूर्तिः संपूर्तिर् यस्यास् तया निशितेन ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततश्च—
हरिभक्तिमहादेव्याः सर्वा मुक्त्यादिसिद्धयः । > भुक्तयश्चाद्भुतास्तस्याश्चेटिकावदनुहुताः ॥
इति नारदपञ्चरात्रोक्तस्तस्यानन्यभक्तिमतो\ऽनाकाङ्क्षतो\ऽपि स्वत एव स्वयं ब्रह्मविद्या तथाणिमाद्यष्टादशसिद्धयश् च मूर्तिमत्य एवागत्य वयं भगवता प्रेषितास्तदर्थम् एवास्मानङ्गीकुर्व् इति वदन्त्यस्तस्याभिमुखे प्रादुरभवन्न् इत्य् आह—तस्येति द्वाभ्याम् । तस्य पृथोर्ज्ञानं ब्रह्मविद्याख्यमभूत्स्वत एव प्रादुरभूत् । यद्यपि शुद्ध-भक्ताश्चातका इव भक्तेरे व माधुर्यास्वादिनः स्वयं प्राप्ताम् अपि ब्रह्मविद्यां नाङ्गीकुर्वन्ति तत्कार्यभूतो लिङ्गदेहध्वंसो भक्त्यैव विनानुसन्धानेनापि भवेत् । तद् उक्तं जरयत्याशु या कोशं निगीर्णमनलो यथा । इति । तदपि यथा कश्चिज्जाठरानलेन जरयिष्यमाणस्यापि निगीर्णान्नस्य शीघ्रपाकार्थं किम् अप्यौषधं पिबति तथैव पृथुर् भगवद्-धाम्नि साक्षात्सेवाप्राप्त्यर्थमत्युत्कण्ठः कालविलम्बासहिष्णुः सोपाधिध्वंसनार्थं ब्रह्मज्ञानमङ्गीचकारेत्याह—निशितेनातितीक्ष्णेन येन ज्ञानेन निजजीवकोशं सोपाधिं चिच्छेद कीदृशं संशयपदं भक्त्यादृष्टसाक्षाद्भगवच्चरणस्य मे जीवकोशो नास्त्यस्ति वेति तदीयसन्देहास्पदं, वस्तुतस् तस्य जीवकोशो नास्त्येव कृष्णस्य पूर्वदेहकथाश्रयम् इति उभावपि च भद्रं ते उत्तमश्लोकविग्रहौ इत्य् उक्तेः । पृथुदेहस्य भगवद्-विग्रहत्वात् । तदपि पृथोस् तस्य योगेन देहत्यागचिकीर्षा तु भक्तिमहिम्ना स्वस्मिन्प्राकृतत्वमननात् देहपातश्रवणं च बहिर्मुखमतोत्थानाभावार्थं भगवद्-अवताराणामिवान्येषां भगवद्-भक्तानाम् इव च माययैव प्रत्यायितं, भगवत्सु श्रीरामस्य भक्तेषु श्रीध्रुवस्य देहपाताभाव एव, तेषां देहपाताभावोपलक्षणार्थे ज्ञेय इति तु भक्तान्प्रति सिद्धान्तो दर्शितो ज्ञेयः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततस् तादृश-भक्त्य्-अङ्गे ज्ञान-वैराग्ये व्यज्योपाधि-परित्यागश् च दर्शित इत्य् आह—तस्यानयेति । पूर्त्येत्य् अत्र पूर्वेति चित्सुखः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च—
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । > भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुद्रुताः ॥
इति नारद-पञ्चरात्रोक्तेस् तस्यानन्य-भक्ति-मतोऽनाकाङ्क्षतोऽपि स्वत एव स्वयं ब्रह्म-विद्या तथा अणिमाद्य्-अष्टादश-सिद्धयश् च मुक्तिमत्य एवागत्य वयं भगवता प्रेषितास् त्वद्-अर्थम् एव अस्मान् अङ्गीकुर्व् इति वदन्त्यस् तस्याभिमुखे प्रादुरभवन्न् इत्य् आह—तस्येति द्वाभ्याम् । परिकर्मणा परिचर्यया शुद्ध-सत्त्व एवात्मा मनो यस्य तस्य पृथोर् अनया भक्त्या ज्ञानं ब्रह्म-विद्याख्यं विरक्ति-युक्तम् अभूत्, स्वत एव प्रादुर्बभूव ।
भक्त्या कीदृश्या ? भगवद्-अनुक्षण-स्मरणेनानुपूर्तिर् यस्यास् तया । यद्यपि शुद्ध-भक्ताश् चातका इव भक्तेर् एव ।मायास्वादिनः, स्वयं प्राप्ताम् अपि ब्रह्म-विद्यां नाङीकुर्वन्ति, तत्-कार्य-भूतो लिङ्ग-देह-ध्वंसो भक्त्यैव विनानुसन्धानेनापि भवेत् । यद् उक्तं—जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३] इति । तद् अपि यथा कश्चित् जाठरानलेन जरयिष्यमाणस्यापि निगीर्णान्नस्य शीघ्र-पाकअं किम् अप्य् औषधं पिबति, तथैव पृथुर् भगवद्-धाम्नि साक्षात् सेवा-प्राप्त्य्-अर्थम् अत्युत्कण्ठः काल-विलम्बासहिष्णुः सोपाधि-ध्वंसनअं ब्रह्म-ज्ञानम् अङ्गीचकारेत्य् आह—निशिएत्नातितीक्ष्णेन येन ज्ञानेन निज-जीव-कोषं सोपाधिं चिच्छेद । कीदृशम् ? संशय-पदं भक्त्या दृष्ट-साक्षाद्-भगवच्-चरणस्य मे जीव-कोषो नास्त्य् अस्ति वेति तदीय-सन्देहास्पदं, वस्तुतस् तस्य जीव-कोषो नास्त्य् एव, कृष्णस्य पूर्व-देह्-कथाश्रयम् इति, उभाव् अपि च भद्रं त उत्तमःश्लोक-विग्रहौ [भा।पु। ४.१९.३३] इत्य्-आद्य्-उक्तेः । पृथु-देहस्य भगवद्-विग्रहत्वात् । तद् अपि पृथोस् तस्य योगेन स्व-देह-त्याग-चिकीर्षा तु भक्ति-महिम्ना स्वस्मिन् प्राकृतत्व-मननात्, देह-पात-चरणारविन्दं तु बहिर्मुख-मतोत्खाताभावअं भगवद्-अवताराणाम् इव अन्येषां भगवद्-भक्तानाम् इव च माययैव प्रत्यायितं, भगवत्सु श्री-रामस्य भक्तेषु श्री-ध्रुवस्य देह-पाताभाव एव तेषां देह-पाताभावोपलक्षणओ ज्ञेय इति तु भक्तान् प्रति सिद्धान्तो दर्शितो ज्ञेयः ॥११॥
॥ ४.२३.१२ ॥
छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस्
तत् तत्यजेऽच्छिनद् इदं वयुनेन येन ।
तावन् न योग-गतिभिर् यतिर् अप्रमत्तो
यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अपरोक्षतया वृत्तिर् ज्ञान-भेद-निरीक्षणम् । > स्वरूप-ज्ञान-संस्थित्या ज्ञान-त्याग उदीर्यते । > स्वरूप-ज्ञानतः सम्यं रतिर् विष्णु-कथासु च ॥ इति ब्रह्म-तर्के > ॥१२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, छिन्ना अन्य-धीर् देहात्म-बुद्धिर् यस्य । यतोऽधिगतात्म-गतिर् अत एव निरीहः प्राप्तासु सिद्धिषु निस्पृहः । येन वयुनेन ज्ञानेनेदं संशय-पदं चिच्छेद तत् तत्यजे त्यक्तवान् । तत् प्रयत्नाद् अप्य् उपररामेत्य् अर्थः । तस्य योग-सिद्धिष्व् अपि निस्पृहत्वं युक्तम् एवेत्य् आह । तावन् नाप्रमत्तः किन्तु प्रमत्तो भवति । तस्य श्री-कृष्ण-कथा-रतत्वान् न तासु लोभो जात इत्य् अर्थः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह—किंचेति । अत एवाधिगतात्मगतित्वाद् एव । इत्य् अर्थ इति । स्वराडिव निपानखनित्रमिन्द्र इति न्यायेन धान्यपलालन्यायेन वेति भावः । प्रमत्तो यथा प्राप्तं वस्तु सुन्दरम् अपि त्यजति यद्वत्स्यात् । इत्य् अर्थ इति । आत्यन्तिकं न गणयन्त्यपि ते प्रसादम् इत्याद्युक्तः। कथाया रसज्ञैर्मोक्षो\ऽपि नाद्रियते कुतः सिद्धय इति भावः । अत्रायमाशयः शुद्धाया भक्तेः फलं द्विविधम् अननुसंहितमनुसंहितञ्च । तत्रानुसंहितं प्रेमभक्तिरे व अननुसंहितं ज्ञानसिद्ध्यादि । तत्र च कस्यचिद्भक्तस्य स्वतः प्राप्त एव तत्र तत्र यद्यादित्सा स्यात्तदा शुद्धाया भक्तेः सङ्कोचः स्यात् । तद् उक्तमेकादशे—अन्तरायान्वदन्त्येतान् इति । किञ्च—तत्तत्त्यागसामर्थ्यं च शुद्ध-भक्त्यभ्यासबलेनैव स्याद् इत्य् आह—तावद् इति चक्रवर्ती ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च छिन्ना अन्यत्र उपाधि-रूपे धीर् दृष्टिर् यस्य अघिगता प्रकटिता आत्मनः पार्षद-रूपस्यागतिर् ज्ञानं येन तथा-भूतः सन्, अत एव निरीहः प्राप्त्य्-अन्तरेच्छा-शून्यः सन् येन वयुनेनेदं संशय-पदम् अच्छिनम् तत् तत्यजे । न चानुष्ठितो ज्ञान-योगः स्व-गति-दानेन तस्य भति-गतिं विहन्तुं शक्नोति, यतः यावद् इति । अत्र तु स्वाभाविक्येव च तत्-कथा-रतिर् इत्य् अपि नासौ प्रभवेद् इति भावः । अत्र वैकुण्ठ-गतिस् तु, न सिद्ध्यन्तरवद् इति टीकाभिप्रायश् च ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च छिन्ना अन्य-धीर् देहात्म-बुद्धिर् यस्य सः । अधिगतात्म-गतिर् अनुभूत-परमात्म-स्वरूपः । निरीहः प्राप्तासु सिद्धिषु निस्पृहः । ननु कथं निस्प्र्ःआत्वं विद्याङ्गीकाराद् इत्य् अत आह—येन वयुनेन ज्ञानेनेदं लिङ्ग-शरीरम् अच्छिनच् चिच्छेद, तत् तत्यजेतत्याज । तावत् प्रयोजनअम् एव तद्-अङ्गीकाराद् अनन्तरं च तज्-ज्ञानं तत्याजैवेति वस्तुतो निस्पृहत्वम् एवेत्य् अर्थः ।
अयम् अत्राशयः—शुद्धाया भक्तेः फलं द्विविधं—अनुसंहितम् अननुसंहितं च । तत्रानुसंहितं प्रेम-भक्तिर् एव, अननुसंहितं ज्ञान-सिद्ध्यादि । तत्र च कस्यचिद् भवतस्य स्वतः-प्राप्त एव तत्र तत्र यद्य् आदित्सा स्यात् तदा शुद्धाया भक्तेः सङ्कोचः स्यात् । यद् उक्तम् एकादशे—अन्तरायान् वदन्त्य् एतान् [भा।पु। ११.१५.३३] इति । तस्य श्री-कृष्ण-कथा-रतत्वान् न तासु लोभो जात इति श्री-स्वामि-चरणाः ॥१२॥
॥ ४.२३.१३ ॥
एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि ।
ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : ब्रह्मणि भूतः ॥१३॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, तासु सिद्धिषु मध्ये स्वच्छन्दमृत्युनाम्नीं सिद्धिं स्वयमुपस्थितामालक्ष्य शीघ्रम् एव भगवत्पार्श्वं जिगमिषोस् तस्य पृथोर्विद्याया इव तस्या अपि यदैवाङ्गीचिकीर्षाजनिष्ट तदैव तया महाकर्मठपुरोधसेव देहत्यागप्रकारं शिक्षयन्त्या पृथुः स्वेच्छया सुखेन देहं त्यक्तुमारेभे इत्य् आह—एवम् इति । वीरप्रवर इति । देहम् एवमधुनैव त्यक्त्वा शुद्धचिन्मयाकारः सन्सम्प्रत्येव वैकुण्ठं गत्वा भगवच्चरणौ परिचराणीति जातमहोत्साह इत्य् अर्थः । आत्मानं मन आत्मनि पार्षद-रूपे देहे अत एव ब्रह्मभूतः शुद्धचिद्रूपः सन् ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च,तासु सिद्धिषु मध्ये स्वच्छन्द-मृत्यु-नाम्नीं सिद्धिं स्वयम् उपस्थिताम् आलक्ष्य शीघ्रम् एव भगवत्-पार्श्वं जिगमिषोस् तस्य पृथोर् विद्याया इव तस्या अपि यदैवाङ्गीचिकीर्षा अजनिष्ट, तदैव तया महा-कर्मठ-पुरोधसेव देह-त्याग-प्रकारं शिक्षयत्या पृथुः स्वेच्छयैव सुखेन देहं त्यक्तुम् आरेभे इत्य् आह—एवम् इति षड्भिः । वीर-प्रवर इति देहम् एवम् अधुनैव त्यक्त्वा शुद्ध-चिन्मयाकारः सन् सम्प्रत्य् एव वैकुण्ठं गत्वा भगवच्-चरणौ परिचराणीति जात-महोत्साह इत्य् अर्थः । आत्मानं मनः आत्मनि पार्षद-रूपे देहे, अत एव ब्रह्म-भूतः शुद्ध-चिद्-रूपः सन् ॥१३॥
॥ ४.२३.१४-१५ ॥
सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः ।
नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि ॥**
उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।
वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : अस्येदं कारणम् इति ज्ञानम् एव विलापनं समाधि-काले विज्ञेयं देहादेर् दर्शनात् पुनः इति च ॥१४-१५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देह-त्याग-प्रकारम् आह—संपीड्येति पञ्चभिः । पायुं गुदं संपीड्येति मुक्तासनं सूचितम्
सम्पीड्य सीरणीं सूक्ष्मां गुल्फेनैव तु सव्यतः । > सव्यं दक्षिण-गुल्फेन मुक्तासनम् इदं तु वा ॥ [व।सं। १.८०] > इति ।
मूलाधाराद् वायुम् उत्सारयन्न् ऊर्ध्वं नयन् नाभ्याम् अवस्थाप्य ततः कोष्ठेष्व् अवस्थाप्य अयूयुजद् इत्य् उत्तरेणान्वयः । हृदादीनां द्वन्द्वैक्यम् । शीर्षं भ्रू-मध्यं तस्मिन् ॥१४॥
तं वायुम् । पाठान्तरे एवम् असून् प्राणान् उत्सर्पयन् क्रमेण मूर्ध्नि ब्रह्म-रन्ध्रे आवेश्य ततो देहारम्भक-पञ्च-भूतानि समष्टि-भूतेषु विलापितवांस् तद् आह—वायुं वयाव् अयूयुजद् एकी-कृतवान् । कायं देह-गतं कठिनांशं क्षितौ ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मूलाधारचक्रात् ऊर्ध्वं स्वाधिष्ठानं नयन् ताभ्यां मणिपूरकचक्रे हृत् अनाहतचक्रम् । उरः कण्ठाधो विशुद्धिचक्रं, कण्ठं तस्यैव चक्रस्याग्रदेशः, शीर्षं भ्रमध्यमाज्ञाचक्रं तस्मिन् ॥ पाठान्तरे उत्सर्पयन्नसून्मूर्ध्नीति पाठे वायुं देहारंभकं वायौ समष्टिवायौ । एवमन्यान्यपि देहारंभकभूतचतुष्टयानि समष्टिभूतेषु विलापितवान् । कायं कायस्थिता पृथ्वी । यद्यपि कायं पांचभौतिकम् एव तथापि पार्थिवांशाधिक्यात्कायशब्दः पृथ्वीपर एव वैशैष्यात्तद्वाद इति न्यायात् ॥१४-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं भावनागतं त्यागमुक्त्वा साक्षादप्याह, एवम् इति । धीरेति क्वचित् । आत्मानं मन आत्मनि पार्षद-रूपे अत एव ब्रह्मभूतः शुद्धचिद्रूपः सन् काले भगवतस् तादृशेच्छावसरे दृढमपुनर् आवृत्तिर्यथा स्यात्तथा स्वं स्वीकृतं कलेवरमुपाधि तत्याज संपीड्येति त्रिकम् । उत्सर्पन्न् इति चित्सुखः ॥१४-१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-त्यागे व्यापारान् स्वयं स्फुरितान् आह—सम्पीड्येति मुक्तासनं सूचितम् ।
सम्पीड्य सीरणीं सूक्ष्मां गुल्फेनैव तु सव्यतः । > सव्यं दक्षिण-गुल्फेन मुक्तासनम् इदं तु वा ॥ [व।सं। १.८०] > इति ।
मूलाधार-चक्राद् वायुम् उत्सारयन् ऊर्ध्वं स्वाधिष्ठान-चक्रं नयन् नाभ्यां मणिपुर-चक्रे अवस्थाप्य ततः कोष्ठेष्व् अवस्थाप्य अयूयुजत् इत्य् उत्तरेणान्वयः । कोष्ठान्य् एवाह—हृत् अनाहत-चक्रं, ऊरः कण्ठाधो विशुद्धि-चक्रम् । कण्ठस् तस्यैव चक्रस्याग्र-देशः । शीर्षं भ्रू-मध्याज्ञा-चक्रं तस्मिन् । तं वायुम् उत्सर्पयन् । असून् इति पाठे प्राणान् । मूर्ध्नि ब्रह्म-रन्ध्रम् आवेश्य । वायुं देहारम्भकं तं समष्टि-वायौ अयूयुजत् एकीकृतवान् । एवम् अन्यान्य् अपि देहारम्भक-भूत-चतुष्टयानि समष्टि-भूतेषु विलाप्तवान् इत्य् आह—कायं काय-स्थिता क्षितिः क्षितौ एवं काय-स्थितं तेजः ॥१४-१५॥
॥ ४.२३.१६-१७ ॥
खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः ।
क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् ॥**
इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् ।
भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : खानीन्द्रिय-च्छिद्राणि । द्रवांशं तोये । तद् एवं देहं प्रविलाप्याद्वितीयात्म-प्रतिपत्त्य्-अर्थं महा-भूतानाम् अपि लयम् आह । क्षितिम् अम्भस्य् एकी-कृतवान् । तद् अम्भस्-तेजसि । अदस् तेजो वायौ । अमुं वायुं नभसि ॥१६॥
तद् एवं तामसाहङ्कार-कार् यस्याकाश-पर्यन्तस्य लयम् उक्त्वा सात्त्विक-राजसाहङ्कार-कार्याणां लयम् आह—इन्द्रियेष्व् इति । इन्द्रियेषु मन इति देवानाम् अप्य् उत्लक्षणम् । स-विकल्पक-ज्ञाने मनस इन्द्रियैर् आकर्षणात् तेषु लयाभिधानं नतु कार्यत्वात् । यद् उक्तं गीतासु, इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते[भा।पु। २.६४] इति । अत्र च, इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः[भा।पु। ४.२२.३०] इति । “इन्द्रियेषु नभ” इति पाठेऽप्य् अयम् अर्थः । भट्टादीनां मते नभश् चाक्षुषं केषाञ्चिन् मानसम् । आनुमानिकत्व-मतेऽपीन्द्रिय-व्यापारोऽस्त्य् एव । नभो-गुणश् च शब्दः श्रोत्र-ग्राह्योऽत इन्द्रिय-ग्राह्यत्वाद् इन्द्रियेषु नभो विलापितम् इति । तानीन्द्रियाणि यथोद्भवम् । उद्भवोऽत्र वृत्ति-लाभः, स च विषयाधीन इति श्रोत्रादीनां विषयेषु शब्दादिषु लयः । यद् वा, तन्-मात्र-कार्याण्य् एवेन्द्रियाणि मनोऽप्य् अपञ्ची-कृत-तन्-मात्र-कार्यम् । आहङ्कारिकत्वाभिधानं तद् अधीनत्व-विवक्षयेत्य् अविरोधः । भूतादिनाहङ्कारेण प्राग्-अवशिष्ट-नभः सहितानीन्द्रियाण्य् उत्कृष्य परतो नीत्वा भूतादौ क्षिप्त्वा तेन सह महत्-तत्त्वे सन्दध इत्य् अर्थः ॥ सविकल्पकज्ञाने विशेषणवैशिष्ट्यावगाहिज्ञाने घटोयमित्य्-आदिरूपे । तेष्विन्द्रियेषु । मनस इन्द्रियाधीनत्त्वे प्रमाणम् आह—तद् उक्तम् इति । चरतां स्वं स्वं विषयं गच्छतां यदिन्द्रियं मनो\ऽनुविधीयते\ऽनुसरति । किञ्च—आकृष्टमाकर्षितं भवतीति भट्टा मीमांसकाः । आदिना तदेकदेशिनश् च । आनुमानिकस्तार्किकादिः । शब्दो\ऽष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति समवायिकारणकत्वात् । यन्नैवं तन्नैवं यथा रूपम् इति परिशेषानुमानेन तादृशद्रव्यविधयाकाशः सिध्यतीति रूपादिवारणाय सत्यन्तम्, रूपत्वादिवारणाय विशेष्यं, परिशेषश् च प्रसक्तस्य प्रतिषेवेन्यत्राप्रसङ्गात्परिशिष्यमाणे संप्रत्ययः । न च विशेष्यासिद्धिः, शब्दः समवायिकारणकः जन्यगुणत्वात् पृथिवीरूपवदित्यनुमानेन तत्सिद्धेः । न च विशेषणासिद्धिर् अपि शब्दोष्टद्रव्यानाश्रितः श्रोत्रग्राह्यत्वात् शब्दत्ववदित्यनुमानेन तस्यापि सिद्धेरित्यलं प्रसक्तानुप्रसक्त्या । इन्द्रियव्यापारश्चक्षुरिन्द्रियव्यापारो नभसि स्वगुणद्वारास्त्येवेत्याह—नभोगुणश्चेति । अतोस्य नभसः । नन्वेवं राजभृत्यादिष्वतिप्रसङ्गो यथास्थानम् इत्य् उक्तिविरोधः प्रसिद्धार्थपरित्यागश्चेति दोषत्र् अयं स्यादत आह—यद्वेति । शब्दमात्रमभूत्तस्मान्नभः श्रोत्रञ्च शब्दगम् इत्य्-आदिना तन्मात्रेभ्य इन्द्रियाणामुत्पत्तिश्रवणात्तन्मात्रकार्याण्येवेन्द्रियाणीति । इत्य् अर्थ इति । आत्मनीति महत आत्मशक्तित्वेन शक्तिशक्तिमतोरेभेदात्तत्रात्मशब्दप्रयोगो नासङ्गत इति भावः ॥१६-१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथास्थानं यस्य यत उत्पत्तिस् तस्य तत्र स्थान एव लयं संभावयेद् इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२३.१८ ॥
तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् ।
तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् ।
ज्ञान-वैराग्य-वीर्येण स्वरूप-स्थोऽजहात् प्रभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां गुणानां कार्याणां विन्यासः स्थितिर् यस्मिंस् तं महान्तं माया-मये मायोपाधि-प्रधाने जीवे । तं चानुशयम् उपाधिं यः पूर्वम् अनुशयी पुमान् जीवोऽसौ पृथुर् ब्रह्मणि स्थितः सन्न् अजहाद् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् इत्य् अर्धकम् । ज्ञान-वैराग्ययोर् वीर्यं यस्मात् तेन भक्ति-योगेनेत्य् अर्थः । स्व-स्वरूपे पार्षद-लक्षणे स्थितः सन् प्रभुस् त्व् अत्र महा-समर्थः । जहाद् इत्य् अत्राप्य् अधाद् इति क्वचित् । अप्य् अधात् तिरोहितवान् अजहाद् इत्य् अर्थः । इति स्वामि-तात्पर्यादेष एव पाठ इति तज्-ज्ञाः । अजहाद् इत्य् एव पाठः, किन्तु यः पूर्वम् इत्य् अध्याहार-सम्पादनायैव [हेत्य्]{।मर्क्} उक्तम् इत्य् अन्ये ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषां गुणानां विन्यासः स्थितिर् यत्र तं माया-मये जीवे जीवोपाधौ मायायाम् इत्य् अर्थः । स जीवो यत् पुनर्-भवः [भा।पु। १.३.३२] इत्य्-आदिषु जीवोपाधाव् अपि जीव-शब्द-प्रयोग-दर्शनात् । तं चानुशयम् उपाधिं यः पूर्वम् अनुशयी पुमान् जीवः । असौ पृथुर् ज्ञान-वैराग्य-रूपाया विद्या-शक्तेर् वीर्येण प्रब्रह्मा स्वस्य रूपे भगवद्-भक्ति-लब्धे पार्षद-देहे स्थितः सन्न् अजहात् । प्रभुः त्यागे परम-समर्थः । पूर्वे चिच्छेद संशय-पदं निज-जीव-कोशम् [भा।पु। ४.२३.११] इति यत् कोष-च्छेदनम् उक्तं, तद् एतत्-प्रकारकम् एव पुनः स्थूल-देह-त्याग-समये पिष्ट-पेष-न्यायेन तथा चक्रे इति । ततश् च भगवत्-प्रेषितं विमानम् आरुह्य वैकुण्ठं जगामेत्य् अग्रिम-वाक्ये व्यक्तं भावि ॥१८॥
॥ ४.२३.१९ ॥
अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् ॥
सुकुमार्य् अतद्-अर्हा च यत् पद्भ्यां स्पर्शनं भुवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वन-प्रवेशम् आरभ्य राज्ञी-कथाम् आह—अर्चिर् नामेति चतुर्भिः । अनुगतानुजगाम । अतद्-अर्हा तद् अपि नार्हति या । किं पद्भ्यां भुवः स्पर्शनम् ? इति यत् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । यत्कृतं जीवत्वं तं मायालक्षणमुपाधिं त्यक्त्वा ब्रह्मभावं प्राप्त इति भावः । विश्वनाथस्तु—स्वस्य रूपे भगवद्-भक्तिलब्धे पार्षददेहे स्थितः सन्नजहात्प्रभुः त्यागे परमसमर्थः पूर्वं चिच्छेद संशयपदं निजजीवकोशम् इति यत्कोशच्छेदनमुक्तं तदेतत्प्रकारकम् एव । पुनः स्थूलदेहत्यागावसरे पिष्टपेषणन्यायेन तथा चक्रे ततश् च भगवत्प्रेषितविमानमारुह्य वैकुण्ठं जगामेत्यग्रिमवाक्ये व्यक्तं भावि ॥१८-१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वन-प्रवेशम् आरभ्य राज्ञाः कथाम् आह—अर्चिर् नामेति चतुर्भिः ॥१९॥
॥ ४.२३.२० ॥
अतीव भर्तुर् व्रत-धर्म-निष्ठया
शुश्रूषया चार्ष-देह-यात्रया ।
नाविन्दतार्तिं परिकर्शितापि सा
प्रेयस्कर-स्पर्शन-मान-निर्वृतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्तुर् व्रतं यद् भूमि-शयनादि तस्मिन् धर्मे या निष्ठा तया । ऋषीणाम् इयम् आर्षी देह-यात्र कन्द-मूलादि-वृत्तिस् तया चार्तिं दुःखं न प्राप । तत्र हेतुः—प्रेयसः करेण स्पर्शनं मानश् च ताभ्याम् निर्वृतिर् यस्याः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र दुःखप्राप्तौ ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रेयसः कर्म-भूतस्य यत् सेवायां करेण स्पर्शनं मानः पूजनं च, ताभ्यां निर्वृतिर् यस्याः । निर्वृतेति चित्सुखः ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रतं भूमि-शयनादि-धर्मः । चरणारविन्द्कृतादिः । आर्ष-देह-यात्रा कन्द-मूलादि-वृत्तिः, तया । प्रेयसः कर्म-भूतस्य यत् सेवायां करेण स्पर्शनं मानः पूजनं च ताभ्याम् एव निर्वृतिर् यस्याः सा ॥२०॥
॥ ४.२३.२१ ॥
देहं विपन्नाखिल-चेतनादिकं
पत्युः पृथिव्या दयितस्य चात्मनः ।
आलक्ष्य किञ्चिच् च विलप्य सा सती
चिताम् अथारोपयद् अद्रि-सानुनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथिव्याः पत्युः । दुहितृत्वं तु तस्या देवता-रूपेण । विपन्नं नष्टम् अखिलं चेतनादिकं यस्मिंस् तथा-भूतं देहम् अऌअक्ष्य तं देहं चिताम् आरोपयत् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनः स्वस्य पत्युः पृथोः दया संजातास्येति दयितस् तस्य पृथिव्यां दुहितृभावात्तस्यां तस्य दयैवोचितेत्य् अर्थः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : किञ्चिद् विलप्येति । स्नेहेन विलप्य विचारेण तु तत् परित्यज्येत्य् अर्थः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः स्वस्य पत्युः पृथोः । दया सञ्जाता अस्येति दयितस् तस्य । पृथिव्यां दुहितृत्-भावात् तस्यां तस्य दयैवेत्य् अर्थः । किञ्चिच् च विलप्येति तत्-कालोचित-क्रियाव्यग्रत्वात् ॥२१॥
॥ ४.२३.२२ ॥
विधाय कृत्यं ह्रदिनी-जलाप्लुता
दत्त्वोदकं भर्तुर् उदार-कर्मणः ।
नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य
विवेश वह्निं ध्यायती भर्तृ-पादौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्यं तत्-कालोचितं विधाय ह्रदिन्या जले आप्लुता स्नाता सती भर्तुर् उदकं दत्त्वा दिव्य्-अन्तरिक्षे स्थितान् देवान् नत्वा वह्निं त्रिः प्रदक्षिणी-कृत्य ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिविस्थितान् स्वर्गाद् आगत्य पृथुं दिदृक्षूंस् तस्या दृग्-गोचर एवान्तरीक्षे स्थितान् । वह्निं त्रिः प्रदक्षिणी-कृत्य ॥२२॥
॥ ४.२३.२३ ॥
विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् ।
तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवैः सहिताः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२३.२४ ॥
कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि ।
नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृणन्ति स्म अभाषन्त ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्कालोचितं मुन्यन्नेन पिण्डदानादि कृत्वा ह्रदिन्या नद्याः । अन्तरिक्षे स्थितान्स्वर्गादागत्य पृथुं दिदृक्षूंस्तस्या दृग्गोचर एवाकाशे स्थितान् । भर्तृपादाव् इति पाठ एव श्रेयान्भाति । एकवचनान्तपाठे तु सामान्यापेक्षं ध्येयम् ॥२२-२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृणन्ति स्म ऊचुः ॥२४॥
॥ ४.२३.२५-२६ ॥
देव्य ऊचुः—
अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥**
सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती ।
पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : अनपेक्षो गुणैः पूर्णो धन्य इत्य् उच्यते बुधैः इति शब्द-निर्णये ॥२५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : असतीनां दुर्विभाव्येन कर्तुम् अशक्येन कर्मणा ॥२५-२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धन्या सर्वगुणैः पूर्णा अनपेक्षो गुणैः पूर्णो धन्य इत्य् अभिधीयते इत्य् अभिधानात् ॥ एषेत्यङ्गुल्या निर्दिशत्यूर्द्ध्वं, किमधश्चिताग्निं पश्यथेत्याशयः । नूनम् इति वितर्के । येयं विमानस्था काचिद्विद्योतिनी दृश्यते सैषार्चिरे व भवेद् इत्य् अर्थः । अनुवैन्यम् इति अग्रे विमानस्थं वैन्यं तत्पश्चादर्चिषम् अपि विमाने पश्यतेत्य् अर्थः । अस्मानतीत्येति वयं देवता भूत्वाप्यस्याः पादतलवर्त्तिन्य एवाभूमेति भावः । दुर्विभाव्येन चिन्तयितुमप्यशक्येन ॥२५-२६॥
जीव-गोस्वामी (प्रीति-सन्दर्भ ५५) : अथ श्री-पृथोर् गतिर् अपि श्री-परीक्षिद्वद् एव व्याख्येया । तस्यापि ब्रह्म-धारणान्तरं ब्रह्म-कैवल्य-विलक्षणां श्री-कृष्ण-लोक-प्राप्तिम् एव तद्-भार्याया अर्चिषो गति-दर्शनया सूचयन्ति—अहो इति द्व्याभ्याम् । एषेत्य् अङ्गुल्या दर्शयन्ति । ऊर्ध्वं श्री-वैकुण्ठ-लोकम् । अनु वैण्यम् इत्य् अग्र-पश्चाद्-भावेन दर्शनात् ॥२५-२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एषा इत्य् अङ्गुल्या दर्शयन्ति । ऊर्ध्वं श्री-वैकुण्ठ-लोकम् अनु वैन्यम् इत्य् अग्र-पश्चाद्-भावेन दर्शनात् ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एषेत्य् अङ्गुल्या दर्शयति—ऊर्ध्वम् इत्य् अधः किं चिताग्निं पश्यथेति भावः । नूनम् इति वितर्के । येयं विमानस्था काचित् विद्योतिनी दृश्यते, सैषा अर्चिर् एव भवेद् इत्य् अर्थः । अनुवैण्यम् इत्य् अग्रे विमानस्थः वैण्यं तत् पश्चाद् अर्चिषम् अपि विमाने पश्यतेत्य् अर्थः । अस्मान् अतीत्येति वयं देवता भूत्वाप्य् अस्याः पाद-तल-वर्तिन्योऽभूमेति भावः ॥२६॥
॥ ४.२३.२७ ॥
तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् ।
भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवान् पद्यते गम्यतेऽनेनेति तथा तन् नैष्कर्म्यं ज्ञानं ये चञ्चलायुषोऽपि साधयन्ति येषाम् अन्यद् देवादि-पदं किम् उ दुर्लभम् । न किञ्चिद् इत्य् अर्थः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हन्त हन्तेदृशा मनुष्या वयम् अपि भूयास्म यदि भाग्यं स्याद् इत्य् आह—तेषाम् इति । नैष्कर्म्यम् इति भक्तियोगाङ्गत्वमुक्तम् । यद्वा—भगवत्पदं वैकुण्ठं नैष्कर्म्यं कर्मभिरप्राप्यम् इत्य् अर्थः । ये पृथ्वर्चिःप्रभृतय एते तेषाम् इत्य् अर्थः । इत्य् अर्थ इति । हस्तिपदन्यायेन तत्रैव सर्वलोकानन्दस्यान्तर्भूतत्वाद् इति भावः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां भगवत्-प्रापकं ज्ञानम् इति भक्ति-योगाङ्गत्वम् उक्तम् । यद् वा, भगवत्-पदं श्री-वैकुण्ठे नैष्कर्म्यं कर्मणा न साध्यम् इत्य् अर्थः । विद्युल्-लोलायुष इति चित्सुख-संमतः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त ईदृश्य एव मानुष्यो वयम् अपि भूयास्म यदि भाग्यं स्यात्, इत्य् आहुः—तेषाम् इति । किम् उ अन्यत् पारमेष्ठ्यादिकं, ये वै निश्चितम् एते पृथ्व्-अर्चिः-प्रभृतयः । भगवतः पदं धाम वैकुण्ठं नैष्कर्म्य-रूपम् ॥२७॥
॥ ४.२३.२८ ॥
स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभक्तं शोचन्ति—स वञ्चित इति । यत आत्मने द्रुह्यति योऽपवर्ग-साधनं मानुष्यं लब्ध्वापि विषयेष्व् आसक्तिं याति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बत खेदे । वञ्चितः प्रलब्धः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आपवर्ग्यं सालोक्यादि-सिद्धिदं भक्ति-योग-सिद्धिदं वा ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभक्तं शोचन्ति—स वञ्चित इति ॥२८॥
॥ ४.२३.२९ ॥
मैत्रेय उवाच—
स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः ।
यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु सहमरणपुण्यलभ्यं पतिलोकं नहि नहि यं लोकं वै निश्चितं वैन्यः प्राप आत्मविदां धुर्य इति न तस्याः प्राकृतः पतिलोकः प्राप्यर्ह इति भावः । अच्युताश्रय इति । नापि सायुज्यं लभ्यं न कामये नाथ इत्य्-आदितदीयप्रार्थनाविरोधात् । अत एव स्वामिचरणैरेतदध्यायार्थावतरणिकाश्लोके उक्तं—
त्रयोविंशे सभार् यस्य वने नित्यसमाधितः । > विमानमधिरुह्याथ वैकुण्ठगतिरीर्यते ॥ इति ।
भक्तभिन्नेष्वेव पतिलोकबलीयस्त्वं ज्ञेयम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पत्युः श्री-पृथोः सम्बन्धिनं लोकम् । तत्-प्राप्त-लोकम् इत्य् अर्थः । तस्य प्रापञ्चिकत्वं निषेधयति । यं वा इति । आत्म-विदां धुर्यः । अच्युताश्रय इति ज्ञान-प्रचारकत्वेनात्म-विदाम् आश्रयः । स्वतस् त्व् अच्युत-मात्र-शरण इत्य् अर्थः ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किं सह-मरण-पुण्य-लभ्यं पति-लोकम् ? नहि नहि, यं लोकं वै निश्चितं वैण्यः प्राप । आत्म-विदां धुर्य इति न तस्य प्राकृतः पति-लोकः प्राप्त्य्-अर्ह इति भावः । अच्युताश्रय इति नापि सायुज्यं लभ्यं, न कामये नाथ तद् अप्य् अहं क्वचिद् [भा।पु। ४.२०.२४] इत्य्-आदि-तदीय-प्रार्थआ-विरोधात् । अतः श्री-स्वामि-चरणै एतद्-अध्यायार्थ उक्तः—
त्रयोविंशे स-भार् यस्य वने नित्य-समाधितः । > विमानम् अधिरुह्याथ वैकुण्ठ-गतिर् ईर्यते ॥ इति ।
भक्त-भिन्नेष्व् एव पति-लोकस्य बलीयस्त्वं ज्ञेयम् ॥२९॥
॥ ४.२३.३०-३१ ॥
इत्थम्-भूतानुभावोऽसौ पृथुः स भगवत्तमः ।
कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते ॥**
य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् ।
श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवत्तमः अतिशयितैश्वर्यवान् ।
भगो योन्यां भगो यत्ने यशोवीर्याभूतिषु । > कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपःसु च ॥ इति हलधरोक्तेः > ।
प्रयत्नादिगुणवतामतिशयेन प्रधानत्वाद्भगवत्तमः । उद्दामचरितस्य वरुणसदृशस्य गुप्तार्थो वरुणो यथा इत्य् उक्तेः । उद्दामो बन्धरहिते स्वतन्त्रे च प्रचेतसि इति मेदिन्युक्तेः । वरुण इत्युपलक्षणमिन्द्रादेर् अपि दधार लोकपालानामेक एव पृथग्गुणान् इत्य् उक्तेश् च ॥ पृथोः पदवीं शुद्ध-भक्तियोगं वैकुण्ठं वा ॥३०-३१॥
न कतमेनापि व्याख्यातम्।
॥ ४.२३.३२ ॥
ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः ।
वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशां पश्व्-आदीनां वैश्यादीनां वा पतिः स्यात् । शूद्रः शृण्वन्न् इति शेषः । तस्य पाठान् अधिकारात् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजावैश्यपशुस्वान्नपुत्रीषु विडितीरितः इत्य् अभिधानचिन्तामणिः । शूद्र इति ।
अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च । > श्रोतव्यम् एव शूद्राणां नाध्येतव्यं कदाचन ॥ > श्रौतं स्मार्तं च वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । > तस्माच्छूद्रैर्विना विप्रं न श्रोतव्यं कदाचन ॥
इति भविष्ये पुराणाधिकारिप्रस्तावे, सत्तमतां श्रेष्ठतां पावित्र्यम् इति यावत् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्राह्मण इति सार्ध-युग्मकम् ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशां पश्व्-आदीनां वैश्यानां वा पतिः स्यात् ॥३२॥
॥ ४.२३.३३-३६ ॥
त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता ।
अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥**
अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः ।
इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम् ॥**
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् ।
धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः ।
श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् ॥**
विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् ।
बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अप्रज इति । समासान्तविधेरनित्यत्वान्नासिच् ॥ एतदनुसारचलनात्सुयशाः । मूर्खो\ऽज्ञः पण्डितो निपुणः ऐहिकपारत्रिककर्त्तव्यज्ञानवान्भवति । अमङ्गल्यं रोगादि ॥ चतुर्णां धर्मादीनां परमुत्कृष्टम् । एतत्पृथुचरितम् ॥ यान् राज्ञस्ते राजानः, तस्मै एतच्छ्रोत्रे, बलिं करम् । भागधेयः करो बलिः इत्य् अमरः ॥३३-३६॥
न कतमेनापि व्याख्यातम्।
॥ ४.२३.३७ ॥
मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् ।
वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्यपि बहूनि फलानि भवन्ति, तथापि मुक्तान्य् असङ्ग एव श्रवणादि कुर्यात् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्तान्यसङ्गः । फलेच्छारहितः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमलां शुद्धाम् भक्तिम् उद्वहन् उद्वोढुस् तु मुक्तान्य-सङ्गः त्यक्तान्य-फल एव शृणुयात् ॥३७॥
॥ ४.२३.३८ ॥
वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् ।
अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : महतो भगवतो माहात्म्यस्य सूचकम् । पार्थवीं पृथु-संबन्धिनीम् । पार्थिवीम् इति वा पाठः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैचित्रवीर्येति । स्वस्यानधिकारं मा शङ्कीर्मनुष्यमात्रस्यात्राधिकारात्त्वं तु विचित्रवीर्यात्मजत्वान्महाकुलप्रसूतोसीत्यभिप्रायः । यद् वा, विचित्रमत्यद्भुतं वीर्यं प्रभावो वेदविभागकर्तृत्वलक्षणो यस्य व्यासस्य तस्यापत्यमसि तत एव तुभ्यं मयेदमुक्तम् इति भावः । पृथुसम्बन्धिनीं पृथौ विद्यमानां भक्ति-ज्ञानादिलक्षणाम् इति यावत् । ननु पृथुकृतपर्वतोद्भदादिरूपा गतिरन्यैः प्राप्तुमशक्येत्यत आह—पार्थिवीम् इति । वेति । पार्थिवीं पार्थिवानां राज्ञामुचितामत्रौचित्ये\ऽण् । मतिम् इति पाठस्तु सुबोध एव ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे विचित्रवीर् यस्य पुत्र ! महतां माहात्म्यस्य सूचकं पृथूपाख्यानम् इदम् अभिहितम् । पार्थवीं पृथु-सम्बन्धिनीम् ॥३८॥
॥ ४.२३.३९ ॥
अनुदिनम् इदम् आदरेण शृण्वन्
पृथु-चरितं प्रथयन् विमुक्त-सङ्गः ।
भगवति भव-सिन्धु-पोत-पादे
स च निपुणां लभते रतिं मनुष्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथयन् कीर्तयन् । भव-सिन्धौ पोतः पादो यस्य ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रथयन्व्याख्यां कुर्वन्वा । निपुणां श्रीहरिप्रसादजननसमर्थाम् ॥३९॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे त्रयोविंशो\ऽध्यायः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मनुष्य इति । मनुष्य-मात्रस्याधिकारिता दर्शिता ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोविंशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायांवैयासिक्यां चतुर्थ-स्कन्धे पृथु-चरितं नाम त्रयोविंशोऽध्यायः ।
॥ ४.२३ ॥
(४.२४)
-
क्रमानुरुद्धेन इति वीरराघवाचार्य-पाठः। ↩︎