२२

अथ द्वाविंशोऽध्यायः

विषयः

महाराजाय पृथवे सनत्कुमार-कृतो ज्ञानोपदेशः ।

॥ ४.२२.१ ॥

मैत्रेय उवाच—

जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् ।

तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वा-विंशे तु परं ज्ञानं पृथवे हरि-शासनात् ।

सनत्-कुमारो भगवान् उपादिशद् इतीत्यते ॥

मुनयः सनकादयः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परं परत्वापादकम् । पृथुलोधिकं विक्रमो यस्य तम् । तत्र समाजे समाजो हि स च स्वगृहे एव जातो ज्ञेयः । एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् इत्य् उक्तेः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्चिषा कथम्भूतया ? लोकान् अपापान् कुर्वत्येति चित्सुखः । कुर्वाणान् इति क्वचित् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वा-विंशे परमं ज्ञानं ज्ञाप꣡ ततः परम् ।

सनत्-कुमारः पृथवे शुद्धां भक्तिम् उपादिशत् ॥

प्रगृणत्सु स्तुवत्सु ॥१॥


॥ ४.२२.२ ॥

तांस् तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।

लोकान् अपापान् कुर्वाणान् सानुगो ञ्चष्ट लक्षितान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्चिषा लक्षितान् सनकादय इति ज्ञापितान् । अचष्टापश्यत् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सिद्धेश्वरान् मुनीश्वरान् सिद्धो ना व्यासादौ भेदे योगस्य देवयोनेश् च इति मेदिनी ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.२२.३ ॥

तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः ।

स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां दर्शनेनोद्गतान् प्राणान् प्राप्तुम् इच्छुर् इव । अयं भावः—

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥

[मनु २.१२०, मभगवत्-सन्दर्भा। ५.३८.१, १३.१०७.३२] इति स्मृतेः ।

प्राणास् तावत् तत् तेजसाक्षिप्तास् तान् प्रत्युद्गच्छन्ति, अतः स्वयम् अनुद्गच्छतः प्राण-हानिः स्याद् इति भयाद् इव स-सम्भ्रमं प्रत्युद्गमं चकारेति । सह सदस्यैर् अनुगैश् च वर्तमानः । इन्द्रियेशो जीवो गुणान् गन्धादीन् प्रति यथोद्गच्छतीत्य् औत्सुक्ये दृष्टान्तः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रत्यादित्सुर् इति चित्सुखः । प्रत्यापित्सुर् इति क्वचित् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभ्युत्थानम् उत्प्रेक्षते—तेषां दर्शनेन दर्शन-तेजसा उद्गतान् प्राणान् प्रति प्राप्तुम् इच्छुर् इव ।

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥

[मनु २.१२०, मभगवत्-सन्दर्भा। ५.३८.१, १३.१०७.३२]

इति स्मृतेर् अभ्यर्थितान् अभ्युत्थान् अत आयुः क्षयोक्तेः । इन्द्रियेशो जीवो गुणान् गन्धादीन् प्रतीत्यौत्सुको दृष्टान्तः ॥३॥


॥ ४.२२.४ ॥

गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः ।

विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यन्त्रितो वशी-कृतः । गृहीतम् अध्यर्हणम् अर्घ्यम् आसनं च यैस् तान् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशयमनुसंमत्याह—अयं भाव इति । आयति आगते स्थविरे वृद्धे यूनस्तरुणस्य उपलक्षणमतो युवस्थविरशब्दावल्पमहतोः, यतः प्राणहानिः स्याद् अनुत्तिष्ठतो\ऽतो हेतोः । अत्रेदं तत्त्वं वृद्धानादरणादायुः क्षीयते तद्भयात्तदादरो विधेय इति ॥३-४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यन्त्रितः सङ्कुचित-कायिक-वाचिक-वृत्तिः ॥४॥


॥ ४.२२.५ ॥

तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः ।

तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मार्जितं क्षालितम् अलक-बन्धनं यस्य । मानयन्न् इव स्वयं चचार ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां सनकादीनां पादावनेजनांबुभिः तत्र तदा शीलवद्भिरेवं वर्तितव्यम् इति स्वयमाचरन्मानयन्निवात्रैवार्थे ज्ञेयः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शीलवतां वृत्तिम् इति शीलवद्भिर् एवं वर्तितव्यम् इति स्वयम् आचरन् मानयन्न् इव । मन् ज्ञाने ॥५॥


॥ ४.२२.६ ॥

हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान्

श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवस्याप्य् अग्रजत्वेन मान्यान् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हाटकासने काञ्चनपीठे सुवर्णं हाटकं वाह्नं कलधौतं च कांचनम् इति कोशात् । स्वधिष्ण्येषु कुण्डेषु पावकान् सावसथ्यगार्हपत्यादिवह्नित्रयान् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.२२.७ ॥

पृथुर् उवाच—

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।

यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीतः प्राहेत्य् उक्तं तद् एव प्रीति-पूर्वकं वचनम् आह—अहो इति दशभिः । हे मङ्गलायनाः मङ्गलम् अयनं येषाम् । मया किं मङ्गलम् आचरितम् यस्य मे योगिभिर् अपि दुर्दर्शानां वो दर्शनम् आसीत् ? ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मङ्गलं भगवान्विष्णुः इत्य् उक्तेर्विष्णुरेवायनं स्थानं येषां ते हरिः शरणम् एवात्र नित्यं येषां मुखे वचः इति पाद्मोक्तेः, मङ्गल-रूपाणां दर्शनान्ममापि मङ्गलं भविष्यतीति भावः । पूर्वम् अपि मया मङ्गलमवश्यमाचरितमहो तदहं न जाने संप्रत्यपि पापहानिरूपं मङ्गलं जातं महतां दर्शनं त्रिकालसुखदमस्तीति, एतदभिप्रेत्यैव शिशुपालवधे—

हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।

शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये\ऽपि योग्यताम् ॥

इति नारदं प्रति श्री-कृष्णेनोक्तम् ॥७॥


सनातन-गोस्वामी- [ह।भ।वि। १०.३४०] मङ्गलम् अयनं येषां हे मङ्गलायनाः ! मया किं मङ्गलम् आचरितं यस्य मे योगिभिर् अपि दुर्दर्शानाम् ? ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२२.८ ॥

किं तस्य दुर्लभतरम् इह लोके परत्र च ।

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्य सर्वलब्धव्ययोग्यतां सूचयति किम् इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, त्वादृशाश् च विप्राः साधारणा न भवन्तीत्य् अर्थान्तर-न्यासेन व्यनक्ति—किं तस्येति ॥८॥


॥ ४.२२.९ ॥

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।

यथा सर्व-दृशं सर्व आत्मानं येऽस्य हेतवः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्वज्ञाश् च विरिञ्चाद्या न जानीयुर् हरिं परम् ।

हेतवो जगतोऽप्य् अस्य यथासौ वेद केशवः ॥ इति तन्त्र-सारे ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्दर्शत्वम् एवाह—नैवेति । सर्व-दृशम् आत्मानं यथा सर्वे दृश्या न लक्षयन्ते । येऽस्य विश्वस्य हेतवो महद्-आदयो मन्व्-आदयो वा । यद् वा, कथं-भूतान् ? येऽस्य सर्व-दृग्-आत्म-दर्शनस्य हेतवः, तान् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महदादीनां जगद्धेतुत्वस्य विज्ञेयत्वे\ऽप्य् अल्पज्ञबुद्ध्यारोहो न भवति तदर्थम् आह—मन्वादयो वेति । अत्राप्रकृतं महन्मन्वादिग्रहणं यानिति पदापेक्षितसनकादिग्रहणस्यैवौचित्यादत आह—यद्वेति । अस्येति पदादीनामव्यवहितपरामर्शित्वेनात्मग्रहणायेति आत्मपदस्याप्यत्र तात्पर्यानुपपत्त्यात्मदर्शने लक्षणा कार्या आत्मैवेदमग्र आसीत् इति श्रुतेरात्मन एव सर्वहेतुत्वमवसीयते तथा अहं सर्वस्य प्रभवः इति श्रीगीतोक्तेश् च ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : व इति पूर्वोक्तान् विशिनष्टि—नैवेति । आत्मानं परमात्मानम् एवम् अस्य साकारत्वं दर्शितम् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्दर्शत्वम् एवाह—नैव लक्षयते पश्यति यथा सर्व-दृशं सर्व-दर्शिनम् आत्मानं सर्वोऽपि लोको न पश्यति । लोकस्य का वार्ता ? येऽस्य विश्वस्य हेतवो ब्रह्म-मरीचि-प्रभृतयः, तेऽपि न पश्यन्ति ॥९॥


॥ ४.२२.१० ॥

अधना अपि ते धन्याः साधवो गृह-मेधिनः ।

यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येषां साधूनां गृहा अर्हाणां पूज्यानां वर्या वरणीयाः स्वीकारार्हा अम्ब्व्-आदयो येषु तादृशाः । अम्बु च तृणं च भूमिश् च ईश्वरो गृह-स्वामी चावरा भृत्यादयश् च ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्रेदं तत्त्वं भक्ष्यद्रव्याभावे पानार्थेम्बु च तदभावे शय्यार्थं तृणानि च तदभावे आसनार्थं परिष्कृतभूमिश् च तदभावे प्रीतिवागञ्जल्याद्यर्थं गृहस्वामी च तस्याप्य् अभावे अवराः साश्रुप्रणिपाताद्यर्थं तत्पुत्रकलत्रादयश् च येष्वर्हाणां वरणीयास्त इत्य् अर्थः । साधवः सदाचारनिष्ठाः ॥१०॥


सनातन-गोस्वामी- [ह।भ।वि। १०.३४१] येषां साधूनां गृहाः अर्हाणां पूज्यानां वर्या वरणीयाः स्वीकारार्हाः, चर्येति पाठे आचरण-योग्याः अम्ब्व्-आदयो येषु तादृशाः । अम्बु च तृणं च भूमिश् च ईश्वरो गृह-स्वामी च अवराश् च भृत्यादयः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तृण-भूमि-सुवाग्-धारा इति चित्सुखः ।

फल-मूलैस् तृणैर् वापि वाग्भिर् अद्भिर् विलोचनैः ।

पूज्यन्ते तीर्थिनः सद्भिर् विलुप्त-विभवैर् अपि ॥

अत्रेदं पद्यं क्वचित् वर्तते । तत्र वाक्यस्य टीका-मते दश पद्यत्वाविशेष-बोधश् च । किं तस्येत्य्-आदि-पद्याभावात् । किन्त्व् एतन्-मते टीकासंवादिता स्यात् । किन् तस्येत्य्-आदिकम् अयोजयित्वैव दुर्दर्शत्वम् आहेति । सहसा योजनात् शलाकाप्राप्तं तूभयम् एव ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येषां साधूनां गृहा अर्ह-वर्याः अर्हाणां पूज्य-जनानां वर्या वरणीयाः स्वीकारार्हा अम्ब्व्-आदयो येषु, भक्ष्य-द्रव्याभावे पानार्थम् अम्बु च, तद्-अभावे शय्यार्थं तृणानि च, तद्-अभावे आसनार्थं परिष्क्रियमाणा भूमिश् च, तद्-अभावे प्रीति-वाग्-अञ्जल्य्-आद्य्-अर्थम् ईश्वरो गृह-स्वामी च तस्याप्य् अभावे अवराश् च साश्रु-प्रणिपाताद्य्-अर्थं तत्-पुत्र-कलत्रादयश् च येषु ॥१०॥


॥ ४.२२.११ ॥

व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः ।

यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यालानाम् आलया द्रुमा एव ते । अरिक्ताः पूर्णा अखिलाः सम्पदो येषु तादृशा अपि यद् गृहा ये गृहास् तीर्थ-पादीया वैश्णवास् तेषां पाद-तीर्थेन विवर्जिताः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवं ब्राह्मणत्वेन स्तुत्वा वैष्णवत्वेन स्तौति । तत्रैव मुख्यवैष्णवपदस्य स्थितेस्तद् उक्तमादिपुराणे—

ब्राह्मणा वैष्णवा मुख्या यतो विष्णुमुखोद्भवाः ।

अङ्गेषु देवताः सर्वा मुखे वेदा व्यवस्थिताः ॥

विष्णुना समतां नीतास्ते ज्ञेया वैष्णवोत्तमाः ।

विप्रैः कृतास्त्रयो वर्णा वैष्णवाः संभवन्ति हि ॥

इति विप्रैः कृता इत्य् उक्तेर्ब्राह्मणस्यैर्वान्यवर्णानां यथाधिकारं वैष्णवमन्त्रदीक्षाकरणेधिकारः । यो वर्णा विप्रेतरा ये तेषां वैष्णवत्वे\ऽधिकारो न तु दीक्षादान इत्यन्यत्र विस्तरः । व्यालानां व्यालवत्कटुवाग्विषवर्षिणां पुत्रकलत्रादीनामालयो येषु तथाभूता द्रुमा एव ते गृहस्था येषां छायापि कैर् अपि भीत्या न स्पृश्यत इति भावः । वैपदम् एवार्थे पादतीर्थेन पादक्षालनोदकेन ॥११॥


सनातन-गोस्वामी- [ह।भ।वि। १०.३३६] व्यालानाम् आलया द्रुमा एव, अरिक्ताः पूर्णाः अखिलाः सम्पदो येषु तादृशा अपि । यद्-गृहा ये गृहाः तीर्थ-पादीया वैष्णवास् तेषां पाद-तीर्थेन पादोदकेन वा विवर्जिताः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं ब्राह्मणत्वेन स्तुत्वा वैष्णवत्वेन स्तौति—व्यालेति । “द्रुमा ह्य् एते” इति क्वचित् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्याल-तुल्यानाम् कटु-वाग्-विष-वर्षिणां पुत्र-कलत्रादीनाम् आलया येषु तथा-भूता द्रुमा एव, ते गृहस्था येषां छायापि कैर् अपि भीत्या न स्पृश्यत इति भावः । अरिक्ताः पूर्णा अखिलाः सम्पदो येषां तथा-भूताः । तथा-भूता अपि येषां गृहास् तीर्थ-पादीयानां वैश्णवानां पाद-तीर्थेन पाद-क्षालनोदकेन रहिताः ॥११॥


॥ ४.२२.१२ ॥

स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः ।

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वागतं भद्रम् आगमनं जातम् । यद् यस्माद् बाला एव भवन्तो बृहन्ति व्रतानि चरन्ति । यद् वा, येषां वो व्रतान्य् एव बालाश् चरन्ति ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्विजश्रेष्ठा इत्य् उक्तेर्वैष्णवे जातिबुद्धिर्न कर्तव्येत्युक्तवन्तः परास्ताः । ननु तेषां बालवत्प्रतीयमानत्वे\ऽपि न बालशब्दप्रयोग उचितः पञ्चषड्ढायनार्भाभाः पूर्वेषाम् अपि पूर्वजाः इत्य् उक्तेरत आह—यद्वेति । अन्ये बाला अज्ञा मुमुक्षवो मुक्तिकामा यद्व्रतानीति । धीरा धैर्यवन्तः सन्तः बृहन्ति यावदायुर्नैष्ठिकत्वान्महान्ति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथैतान् वैष्णवत्वेऽपि ज्ञान-प्रधानान् ज्ञात्वा तद्-अंशेन स्तौति—स्वागतम् इति त्रिभिः । बाला एव बाल्यावस्थाम् आरभ्यैवेत्य् अर्थः । बृहन्ति सर्वतो महान्ति व्रतानि परिव्राड् उचितानि ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्मात् बृहन्ति व्रतानि ब्रह्मचर्याणि मुमुक्षवः श्रद्धया चरन्ति । भवन्तस् तु बाला एव मुक्ता एवेति ब्रह्मचर्य-कष्टं मुमुक्षा-कष्टं च न जानन्तीति भावः ॥१२॥


॥ ४.२२.१३ ॥

कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् ।

व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियार्था विषयास् तान् एवार्थं पुरुषार्थं ये विदन्ति तेषां नः व्यसनान्य् उप्यन्ते यस्मिंस् तस्मिन् संसारे ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां सर्वदानन्दमग्नत्वमालक्ष्य कुशलप्रश्नानौचित्यात्स्वकुशलम् एव पृच्छति व्यसनानि विपद उप्यन्ते बीजवन्निक्षिप्यन्ते\ऽस्मिन्निति—

व्यसनं तु शुभे सक्तौ पानस्त्रीमृगयादिषु ।

दैवानिष्टफले\ऽपाये विपत्तौ निष्फलोद्यमे ॥ इति मेदिनी ॥१३॥

सनातनः (ह।भ।वि। १०.३४२) : हे नाथाः ! कच्चिद् इति प्रश्ने । इन्द्रियार्थं विषयम् एव अर्थं पुरुषार्थं ये विदन्ति तेषां नः व्यसनान्य् उप्यन्ते यस्मिन् संसारे ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियार्थं विषय-सुखम् एव पुरुषार्थं जानताम् अस्माकं, व्यसनान्य् उप्यन्ते यस्मिन्, तस्मिन् संसारे ॥१३॥


॥ ४.२२.१४ ॥

भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते ।

कुशलाकुशला यत्र न सन्ति मति-वृत्तयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अभ्यागतानां कुशलं पृच्छ्यते लोके, न त्व् आत्मनस् तत्राह—भवत्स्व् इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । अभ्यागतेषु कुशलप्रश्नस्योचितत्वे\ऽपि भवत्सु स नोचितस् तत्र हेतुः—आत्मारामेष्व् इति । आत्मना भगवता सह रमणं क्रीडा येषां तेषु । यद् वा, सप्तम्यन्तेन समासः । यत्र येषु बुद्धेर् आत्मा महान्परः इति श्रुतेरात्मारामेषु बुद्धेः परत्रात्मनि रममाणेषु बुद्धिवृत्तिरूपकुशलानि धर्माणां सम्बन्धो न सम्भवतीति भावः ॥१४॥


सनातन-गोस्वामी- [ह।भ।वि। १०.३४३] ननु भागवतानाम् एव कुशलं पृच्छ्यते, न त्व् आत्मनस् तत्राह—भवत्स्व् इति । कुशला अकुशलाश् च मतेर् वृत्तयोऽपि येषां न सन्ति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अभ्यागतानां प्रति कुशल-प्रश्नस् तेषाम् एव क्रियते, न त्व् आत्मन इत्य् अत आह—भवत्स्व् इति । तेनाभ्यागतेषु कुशल-प्रश्नस्यावश्यकत्वात्, युष्मत्-सम्बन्धि-कुशल-प्रश्नस्यानौचित्यात् स्व-सम्बन्ध्य् एव कुशलं पृष्टम् इति भावः ॥१४॥


॥ ४.२२.१५ ॥

तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् ।

सम्पृच्छे भव एतस्मिन् क्षेमः1 केनाञ्जसा भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मात् कृत-विश्वासः संस् तपस्विनां सन्तप्तानां सुहृदो वो युष्मान् पृच्छामि ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, युष्मदागमनमस्मदुद्धारप्रयोजनकम् एव बुद्ध्यते तस्मादात्मकुशलप्रश्न एव मम सम्प्रति युज्यते इत्यत आह—तदहम् इति । यतो यूयं तपस्विनामत्र संसारे सुहृदस्तत्तस्माद्धेतोः केन साधनेनांजसा झटित्यञ्जसाह्नाय इत्य् अमरः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं न कामये नाथ तद् अप्य् अहं क्वचिद् [भा।पु। ४.२०.२४] इत्य्-आदौ शुद्ध-भक्त्य्-एक-निष्ठत्वेन व्यक्तोऽपि स उत्तमः श्लोकेत्य्-आदौ भगवल्-लीला-श्रवण-मात्रेण सम्मतानुषङ्गिक-ज्ञान-प्राप्तिर् अपि स इत्थं लोक-गुरुणेति पूर्वोक्तं श्री-भगवन्-निर्देश-गौरवेण । तत्र शीलवतां वृत्तम् आचरन्न् इत्य् अत्रोक्त-महद्-आदर-स्वभावेन च तद् विवक्षितम् । ज्ञानम् अपि श्रोतुम् अनुमोदते—तद् अहम् इति ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, युष्मद्-आगमनम् अस्मद्-उद्धार-प्रयोजनकम् एव सौभाग्यते, तस्माद् आत्म-कुशल-प्रश्न एव मम सम्प्रति युज्यते इत्य् अत आह—तद् अहम् इति । क्षेमः क्षेमम् ॥१५॥


॥ ४.२२.१६ ॥

व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः ।

स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

हरेस् तु प्रतिमा प्राज्ञास् तत्रस्थः केशवः स्वयम् ।

ददाति ज्ञानम् ईशेशः परमात्मा स्वयं विभुः ॥ इति च ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : न खल्व् अन्य-योगि-तुल्या यूयं, किन्तु साक्षाद् भगवान् एवेत्य् आह । व्यक्तं निश्चितम् आत्मवतां धीराणाम् आत्मा तेष्व् आत्मत्वेन प्रकाशमानः । आत्मानं भावयति प्रकाशयतीति तथा । अजः श्री-नारायणः इमां पृथ्वीं चरति ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां प्रकर्षम् आह—न खल्व् इति । निश्चितं स्पष्टं व्यक्तं स्पष्टे बुधे तु ना इत्य् अभिधानात् । यद्वात्मा स्वयम् एवात्मत्वेन वर्त्तते येषां ते आत्मवन्त आत्मज्ञानिनः तेषामात्म् एव प्रीतिविषयीभूत इत्य् अर्थः । स्वानां स्वेषां सर्वकार्याभावो गणकार् यस्यानित्यत्वाद् इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवत्-तद्-अभेद-निर्देशेन तम् उभयम् अपि हेतुं स्वयम् एव दर्शयति—व्यक्तम् इति ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवन्तं खलु मद्-इष्ट-देवो भगवान् नारायण एवेत्य् अहं जानामीत्य् आह—व्यक्तम् इति । आत्मा स्वयम् एव सेव्यत्वेन वर्तते येषां ते आत्मवन्तो भक्तास् तेषाम् आत्मा आत्म् एव प्रीतिर् विषयी-भूत इत्य् अर्थः । स्वानां स्वेषां भक्तानाम् आत्मानं भावयति प्रकाशयतीति सः । इमां पृथ्वीम् ॥१६॥


॥ ४.२२.१७ ॥

मैत्रेय उवाच—

पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु ।

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूक्तं शोभन-वचनम् । सारं न्याय्यम् । सुष्ठु गम्भीरार्थम् । मितम् अल्पाक्षरम् । मधु श्रोत्र-प्रियम् । मुख-प्रसत्त्या स्मयमान इव प्रतीयमानः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सूक्तम् उत्तम-प्रतिपाद्य-वचनम् ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सारं न्याय्यम् । सुष्ठु गम्भीरार्थम् । मितम् अल्पाक्षरम् । मधु मधुरम् स्मयमान इव प्रसन्न-मुख इत्य् अर्थः ॥१७॥


॥ ४.२२.१८ ॥

सनत्-कुमार उवाच—

साधु पृष्टं महाराज सर्व-भूत-हितात्मना ।

भवता विदुषा चापि साधूनां मतिर् ईदृशी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विदुषा जानतापि । ईदृशी परार्थैक-परा ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महाराजेति । अल्पराजानो\ऽपि लोकहिताचरणं कुर्वन्ति धर्मपालनोपदेशादिना किं पुनस्त्वं महाराजेति भावः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-सनत्-कुमारोऽपि तस्य तथैव सिद्ध-ज्ञानत्वं व्यञ्जयति, तथापि तस्य तत्-पृच्छायां पूर्वोक्तं हेतु-द्वयम् उक्त्वा गौरव-विशेषाय वक्ष्यमाण-भगवद्-अभिप्रेतान्य-हित-रूप-हेत्व्-अन्तरम् एव योजयति च साध्व् इति । अतः प्रकटो ज्ञान-मयोऽर्थोऽन्यान् प्रति प्रतिपाद्यः अप्रकटो भक्तिमयस् तु भवद्-विधान् प्रतीति भावः । तत्र प्रथमं टीकायां स्पष्टः चरमस् त्व् अत्रावगन्तव्यः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२२.१९ ॥

सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः ।

यत्-सम्भाषण-सम्प्रश्नः सर्वेषां वितनोति शम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयम् अपि पृथोः सङ्गमम् अभिनन्दति, सङ्गम इति । उभयेषां वक्तॄणां च । येषां संभाषण-सहितः संप्रश्नः सर्वेषां शं सुखं विस्तारयति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुखं भक्तिनिष्ठात्मकम् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं वक्तव्यं भवादृशां साधूनां सङ्गमः सङ्गः नृणाम् एव सम्मतः परम-सुख-प्रद इति । परं तु तद्-वक्तृ-श्रोतॄणाम् अपि तादृश इत्य् अर्थः । तत्र हेतुः—यद् इति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो राजन् ! यथैवास्मत्-सङ्गो भवद्-अभिवाय्छितस् तथैव भवत्-सङ्गोऽप्य् अस्मद् अभिवाञ्छित इत्य् आह—सङ्गम इति । उभयेषां सङ्गः नृणां सङ्गम्यमानां च सम्मतः अभिलषितः । सर्वेषां श्रोतृ-वक्तृ-सन्निहित-तत्-सन्निहितानाम् अपि ॥१९॥


॥ ४.२२.२० ॥

अस्त्य् एव राजन् भवतो मधुद्विषः

पादारविन्दस्य गुणानुवादने ।

रतिर् दुरापा विधुनोति नैष्ठिकी

कामं कषायं मलम् अन्तर्-आत्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कषणेन गच्छतीति कषायः । पापं तद् उभयम् एव मलम् ॥२०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं सङ्गमं प्रश्नं चाभिनन्द्यानुवाद-मुखेनैव मोक्ष-साधनम् उपदिशति—अस्त्य् एवेति । गुणानाम् अनुवादने प्रश्न-द्वारेणानुवाद-प्रवर्तने श्रवण इत्य् अर्थः । आत्मनो मनसोऽन्तर्-अन्त-स्थं कामात्मकं मलं विधुनोति । कषायं धातु-रागवद् अनिवर्त्यम् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि तव शिक्षणीयांशो नास्ति तथापि लोकहितार्थं तव प्रश्नः । क्षेमः केनांजसेति तत् संश्लाघ्य क्षेमसाधनमनुवदति—इत्य् अर्थ इति । अनुवादयति कथने प्रवर्तयतीत्यनुवादनं तच् च श्रवणार्थम् एव भवतीति भावः । कर्षेण सार्वणादिनिकषणेन न यातीति कषायः कष-निकषणे इति कष्णं कषः भावाद्य्-अर्थको मदाद्यच् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यतोऽस्माभिर् यद् उपदेष्टव्यं ज्ञानं, ततोऽप्य् उत्कृष्टा या श्री-भगवति रतिः सैव त्वय्य् अस्ति । ततस् तत्-साधनाय कामादि-नाशोपदेशस् तु सुतरां पुनर् उक्त एवेत्य् आह—अस्त्य् एवेति ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वम् आत्मनः क्षेमं पृच्छसि, तव तु क्षेमं भगवति नैष्ठिकी रतिर् विराजमानैव दृश्यत इत्य् आह—अस्त्य् एवेति । कषायं धातु-रागवद् अनिवर्त्यम् अपि कामं यथेष्टं निर्मूलम् एव या विधुनोति, सा रतिस् तव सदेति कासायासम्भव उक्तः ॥२०॥


॥ ४.२२.२१ ॥

शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां

क्षेमस्य सध्र्यग्-विमृशेषु हेतुः ।

असङ्ग आत्म-व्यतिरिक्त आत्मनि

दृढा रतिर् ब्रह्मणि निर्गुणे च या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्त-शुद्ध्यैव बहिर् वैराग्यम् आत्म-रतिश् च भवति, न च ततोऽधिकं साधनम् अस्ति, शास्त्रेषु तयोर् एव मोक्ष-हेतुत्व-निश्चयाद् इत्य् आह—शास्त्रेष्व् इति । सध्र्यग्-विमृशेषु सम्यग्-विचारवत्सु शास्त्रेषु क्षेमस्य हेतुर् एतावान् एव सुनिश्चितः । कोऽसौ ? आत्म-व्यतिरिक्ते देहादाव् असङ्गो वैराग्यम् आत्मनि च दृढा रतिः प्रीतिः । आत्मनो विशेषणं निर्गुणे ब्रह्मणीति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावानेवेति । वस्तुप्रत्ययैवकाराभ्यामेतयोरे व सारत्वं सुनिश्चितं न पुनर् एतदर्थं शास्त्राणि द्रष्टव्या नीति सूचितम् । क्षेमशब्देन सायुज्यशान्तरतिप्रेमाणो\ऽधिकारिभेदेन द्रष्टव्याः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव योजयति—शास्त्रेष्व् इति । किम् उताप्राकृतानन्त-परम-कल्याण-गुणाकृष्टात्माराम-गणे भगवतीत्य् अर्थः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि त्वत्-प्रश्नस्योत्तरम् अवश्यं देयम् इति क्षेमस्य हेतुं शृण्व् इत्य् आह—शास्त्रेष्व् इति बहु-वचनेन न कस्याप्य् अत्र विप्रतिपत्तिः सध्रग् विमृशेषु सम्यग् विचारवत्स्व् इति अविचारित-शास्त्रा विप्रतिपद्यन्तां नाम, किं तैर् ? इति । इयान् एवेति वतु-प्रत्यायैव-काराभ्याम् एतयोर् एव सारत्वं सुनिश्चितम् । कोऽसौ ? आत्म-व्यतिरिक्ते देहादाव् असङ्गो वैराग्यम् आत्मनि च दृढा रतिः प्रीतिः । आत्मनो विशेषणं निर्गुणे ब्रह्मणीति ॥२१॥


॥ ४.२२.२२ ॥

सा श्रद्धया भगवद्-धर्म-चर्यया

जिज्ञासयाध्यात्मिक-योग-निष्ठया ।

योगेश्वरोपासनया च नित्यं

पुण्य-श्रवः-कथया पुण्यया च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एतद् एवातिदुर्लभम् इत्य् आशङ्क्योत्तमाधिकारिणः श्रवण-मात्रेण भवति, अन्यस्य तु चित्त-शुद्ध्य्-अनुसारेण साधन-तारतम्यतो वर्धमानया भक्त्येत्य् अभिप्रेत्याह—सा इति चतुर्भिः । सा ब्रह्मणि रतिर् असङ्गश्श्रद्धादिभिः स्याद् [२५] इति चतुर्थेनान्वयः । जिज्ञासया तत्-तद्-विशेष-बुभुत्सया पुण्यं श्रवो यशस् तस्य हरेः पुण्यया कथया च ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । एतद् एवात्मेतरासङ्ग-ब्रह्म-रति-रूपं द्वयम् एव अन्यस्य मध्यमाद्य्-अधिकारिणः तत्-तद्-विशेषाणां भक्ति-ज्ञानादि-भेदानां ब्रह्म-रतिर् ब्रह्मेतरासङ्ग-साधन-भेदानां वा बुभुत्सया ज्ञातुम् इच्छयाऽध्यात्म-योगो देवान्तविचारस् तत्र स्थित्या यत्र योगेश्वरः कृष्णः [गीता १८.७२] इत्य्-उक्तेः । श्री-कृष्णोपासनया योगेश्वराणां भक्तानां ज्ञानिनां वोपसनया नित्यम् अविच्छेदेन । नित्यम् इति सर्वत्र सम्बध्यते । पुण्य-श्रवस्त्वाद् एव कथायाः पुण्यत्वं पुनः पुण्यया इति विशेषणात् सर्व-धर्मेभ्यो हरि-कथाया उत्कर्ष-द्योतनाय नैतादृशः परो धर्मो यत् कथा-श्रवणं हरेः इति पाद्मोक्तेः, पुराण-श्रवणं नित्यं सर्व-धर्मात् परं मतम् इति स्कान्दीय-केदार-खण्डोक्तेः ।

आयासः सर्व-धर्मेषु वर्जयित्वा हरेः कथाम् ।

अतः कलौ हरि-कथा-श्रुतिः संसृति-नाशिनी ॥ इति तत्रैवोक्तेः ॥२२॥


कैवल्य-दीपिका : एकोनविंशति-वर्गम् आह—सा छ्रद्धया इति । अत्र प्रथम-श्लोकोक्तं गृहस्थस्य । द्वितीय-श्लोकोक्तं वानप्रस्थस्य । तृतीय-श्लोकोक्तं यतेः । ततः परं नैष्ठिक-ब्रह्मचारिणो विष्णु-भक्ति-वृद्धीकारणम् इति श्लोक-चतुष्टयार्थः । भगवद्-धर्मो वार्ताकू-वर्जनादि । जिज्ञासा अध्यात्म-शास्त्राभ्यासः । अध्यात्मिक-योग-निष्ठा तद्-अर्थानुष्ठानम् । पुण्य-श्रवः-कथा विष्णु-कथा । पुण्या विष्णु-भक्त-कथा ॥२२॥ [मु।फ। ७.४६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : सा इति चतुष्कम् ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रथमं भक्तेः प्राधान्यम् आह—सेति चतुर्भिः । सा रतिः श्रद्धादिभिः स्याद् इति चतुर्थेनान्वयः । पुण्यं श्रवो यशो यस्य तस्य हरेः पुण्यया कथया ॥२२॥


॥ ४.२२.२३ ॥

अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया

तत्-सम्मतानाम् अपरिग्रहेण च ।

विविक्त-रुच्या परितोष आत्मनि

विना हरेर् गुण-पीयूष-पानात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थारामा अर्थ-निष्ठास् तामसाः, इन्द्रियारामाः काम-निष्ठा राजसाः, तैः सह या गोष्ठी, तस्याम् अतृष्णयातेषां च ये सम्मता अर्थाः कामाश् च तेषाम् अपरिग्रहेण अनासक्त्या । विविक्ते विजने या रुचिस् तया । सा चात्मन्य् एव परितोषे सति स्यात् किन्तु हरेर् गुण-पीयूष-पानाद् विना । तस्मिन् सति विविक्ते रुचिर् न कार्या, न चात्मनि परितोषः कार्य इत्य् अर्थः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थ-निष्ठा धन-सङ्ग्रह-तत्पराः । काम-निष्ठा भोग-सक्ताः । यद् वा, अर्थस्य देहस्य इन्द्रियाणां च आरामेषु क्रीडा-वनेषु विषयेष्व् अतृष्णया त्यागेन तत्-संमतानाम् अर्थेन्द्रियारामाणां ये संमताः पुरुषा हेम-रजतादि-स्रक्-चन्दनादयश् च वा तेषाम् अपरिग्रहेण अस्वीकारेण । इत्य् अर्थ इति । हरेः पीयूष-पानं चेल् लभ्यते, तदा विविक्त-रुचिः, ततः परितोषौ विहाय जन-संसद्य् अपि परस्माद् अपि गायकादेः सकाशाद् अपि कृष्ण-लीलास्वादार्थम् आगच्छेद् एवेति भावः ॥२३॥


कैवल्य-दीपिका : अर्थेन्द्रियारामाः अर्थ-काम-लुब्धाः । तैः सह गोष्ठी । समान-सभत्वम् । तत्र अतृष्णा तृष्णाया अप्य् अभावः । किं पुनः ? सेवायाः तत्-सम्मताः स्रक्-चन्दनादयः । विविक्त-रुचिः विजन-प्रीतिः । सा च आत्मनः परितोषे सति । आत्मनि स्वरूपे परितोषः । सुखान्तरानपेक्षत्वं विना विविक्त-रुचेर् मिथ्याचारत्वात् । तद् उक्तं—

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ [गीता ३.६] इति ।

स च परितोषो हरि-कथां विना । हरि-कथाकर्णनापेक्षा त्व् अस्त्य् एवेत्य् अर्थः ॥२३॥ [मु।फ। ७.४७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—विना हरेर् इति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थारामा धन-सङ्ग्रहेच्छवः । इन्द्रियारामा भोगासक्ताः, तैः सह या गोष्ठी, तस्याम् अतृष्णया । विनेति हरेर् गुण-पीयूष-पानं चेल् लभ्यते, तदा विविक्त-रुचि-स्वतः-परितोषौ विहाय जन-संसद्य् अपि परस्माद् अपि गायकादेः सकाशाद् अपि कृष्ण-लीलास्वादार्थम् आगच्छद् इत्य् अर्थः ॥२३॥


॥ ४.२२.२४ ॥

अहिंसया पारमहंस्य-चर्यया

स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना ।

यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया

निरीहया द्वन्द्व-तितिक्षया च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पारमहंस्य-चर्यया उपशमादि-प्रधानया वृत्त्या । स्मृत्या आत्म-हितानुसन्धानेन । मुकुन्दाचरितम् एव आग्र्यं सीधु श्रेष्ठम् अमृतं, तच्-चरित-स्मृति-सुखेनेत्य् अर्थः । मार्गान्तरस्य अनिन्दयानिरीहया योग-क्षेमार्थ-क्रिया-राहित्येन । शीतोष्णादि-द्वन्द्व-सहनेन ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहिंसया सर्व-भूताक्लेश-दानेन । तद् उक्तं—

कर्मणा मनसा वाचा सर्व-भूतेषु सर्वदा ।

अक्लेश-जननं प्रोक्तम् अहिंसा त्व् इह योगिभिः ॥ इति ।

मुकुन्दाचरित- इति पूर्वत्र कथया इत्य्-उक्तेः । कथ वाक्य-प्रबन्धे इति धातोः । भगवद्-गुण-संदृब्ध-शास्त्रेणेत्य् अर्थः । इह तु तत्-कृत-कंस-वधादि-पराक्रम-लक्षण-कर्मामृत-पानेन । इत्य् अर्थः इति । श्री-कृष्ण-लीलामृत-पानज-तत्-स्मृति-सुखेन । मुकुन्देत्य्-आदि-शीध्व्-अन्त-पदे तृतीया हेतौ ज्ञेयेति भावः । शीधु मद्ये\ऽमृते\ऽपि च इति स्वामी । मार्गान्तरस्य शास्त्र-विहितस्य—

अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं दयार्जवम् ।

क्षमा धृतिर् मिताहारः शौचं चैते यमा दश ॥

तपः सन्तोषम् आस्तिक्यं दानम् ईश्वर-पूजनम् ।

सिद्धान्त-श्रवणं चैव ह्रीर् मतिश् च तथा व्रतम् ॥

एते तु नियमाः प्रोक्ता ॥ इति याज्ञवल्क्यः ॥२४॥


कैवल्य-दीपिका : अहिंसया इति । पारमहंस्यं परमहंस-धर्मः । अस्मृत्या वासनोच्छेदकेन । विष्णु-कथा-मद्य-पानेन । मद्यं हि स्मृति-भ्रंश-हेतुः । पूर्वं केवल-कथा-पानं, अत्र तु शास्त्र-द्वारेणेति वा । यम-नियमा व्याख्याताः । अनिन्दा योगान्तरस्य निरीहा योग-क्षेमार्थ-चेष्टा-राहित्यम् ॥२४॥ [मु।फ। ७.४७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनिन्दया शास्त्रीय-मार्गान्तरस्याकुत्सनया । अनिन्दया इति चित्सुखः, ईश्वर-ध्यानेनेति च तद्-व्याख्या ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारमहंस्य-चर्यया उपशम-प्रधान-वृत्त्या । स्मृत्या श्री-गुरूपदिष्टं सदाचार-धारणेन मुकुन्दस्य चरितं चरित्रं तद् एव अग्र्यं सीधु मधु , तेन स्वाद्यमानेनेत्य् अर्थः ॥२४॥


॥ ४.२२.२५ ॥

हरेर् मुहुस् तत्पर-कर्ण-पूर-

गुणाभिधानेन विजृम्भमाणया ।

भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि

स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : रतिः परात्मनि हराव् अन्यत्रा रतिर् एव च ।

पुम्-अर्थ-साधनं ज्ञेयं नातोऽन्यन् मुख्यम् इष्यते ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथया इत्य् अत्रोक्तम् अपि कथनं भक्ताव् अन्तरङ्गत्वेन पुनर् उच्यते । तत्-परा हरि-भक्तास् तेषां कर्ण-पूराः कर्णालङ्कार-भूता ये हरेर् गुणास् तेषाम् अभिधानेनसद्-असति कार्य-कारण-रूपे ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र सन्दर्भः—ननु हरेर् गुणश् चेद् ईदृशः, तर्हि स एव पुरुषार्थः स्यात्, कथं ब्रह्म-ज्ञानं साधनत्वेन निर्दिश्यते ? उच्यते--मुमुक्षूणाम् एव न तु तद्-एक-पुरुषार्थिनाम् इत्य् आह—हरेर् इति । तत्-पराणां तद्-एक-भूषणत्वे कर्णपूर-रूपाः श्लेषेण कर्णौ पूरयतीत्य् अपेक्षान्तर्-अनाशकाश् च ये गुणाः, तेषाम् एवान्य-कर्तृकेन अन्य-विषयेण वा अभिधानेनविजृंभमाणा या भक्तिर् मुमुक्षामयी तयैव केवलया सद्-असतीति कार्योपाधिर् अयं जीवः कारणोपाधिर् ईश्वर इति श्रुत्या कार्य-कारणात्मक-जीवेशोपाधाव् अनात्मन्य् असङ्गो यदा, तदा तद्-वाधेन तद्-विविक्ते प्रत्यग्-रूपे निर्गुणे ब्रह्मणि अञ्जसा स्वाभाविकी रतिः स्याद् इत्य् अर्थः ॥२५॥


कैवल्य-दीपिका : हरेर् इति । तत्पर-कर्ण-पूरा विष्णु-भक्ताः कर्णालङ्कार-भूता ये गुणाः ऐश्वर्यादयः, तेषाम् अभिधानम् । हरेर् गुणाभिधानेन इत्य् असामर्थ्येऽप्य् आर्षत्वात् समासः । विजृम्भमाणया इति सर्वैस् तृतीयान्तैः सम्बध्यते । सद्-असति कार्य-कारण-रूपे । असङ्गो रतिश् चेति अनिष्ट-हानिर् इष्टाप्तिश् चेति द्वयम् उक्तम् ॥२५॥ [मु।फ। ७.४८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु हरेर् गुणश् चेद् ईदृशः, तर्हि स एव पुरुषार्थः स्यात्, कथं ब्रह्म-ज्ञानं साधनत्वेन निर्दिश्यते ? उच्यते, मुमुक्षूणाम् एव, न तु तद्-एक-पुरुषार्थिनाम् इत्य् आह—हरेर् इति । तत्-पराणां तद्-एक-भूषणत्वे कर्ण-पूर-रूपाः । श्लेषेण, कर्णौ पूरयन्तीत्य् अपेक्षान्तरनाश्काश् च ये गुणास् तेषाम् एवान्य-कर्तृकेनान्य-विषयेण वाभिधानेन विजृम्भमाणा या भक्तिर् मुमुक्षा-मयी तयैव के वलया हि निश्चितम् असङ्गो वैराग्यं निर्गुणे ब्रह्मणि च रतिः स्याद् इति योज्यम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथयेत्य् अत्रोक्तम् अपि कथनं भक्ताव् अन्तरङ्गत्वेन पुनर् उच्यते । तत्-परा हरि-भक्ताः, तेषां कर्ण-पुराः कर्णालङ्कार-भूता ये हरेर् गुणास् तेषाम् अभिधानेनअनात्मनि आत्म-व्यतिरिक्ते सद्-असती भद्राभद्रे जगति असङ्गोऽनासक्तिः ॥२५॥


॥ ४.२२.२६ ॥

यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान्

आचार्यवान् ज्ञान-विराग-रंहसा ।

दहत्य् अवीर्यं हृदयं जीव-कोशं

पञ्चात्मकं योनिम् इवोत्थितोऽग्निः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अबीजं हृदयं बीज-हृदयं विना ।

जीवोपाधिर् द्विधा प्रोक्तः स्वरूपं बाह्यम् एव च ।

बाह्योपाधिर् लयं याति मुक्ताव् अन्यस्य तु स्थितिः ॥

सर्वोपाधि-विनाशे हि प्रतिबिम्बः कथं भवेत् ।

कथं चात्म-विनाशाय प्रयत्नः सेत्स्यति क्वचित् ॥

अपुमर्थता च मुक्तेः स्याद् अभावात् पुंस एव तु ।

ज्ञान-ज्ञेयाद्य्-अभावाच् च सर्वथा नोपपद्यते ।

तस्माद् एतन्-मतं येषां तमो निष्ठा हि ते मताः ॥ इति स्कान्दे ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भवत्व् अन्यत्रासङ्ग आत्म-रतिश् च, ततः किम् ? अत आह—यदा निष्ठां प्राप्ता रतिर् भवति, तदाचार्यवान् सन् ज्ञान-वैराग्ययोर् वेगेनावीर्यं निर्वासनं सज्-जीवस्य कोशम् आवरकं हृदयं पुमान् दहति । कथं-भूतम् ? पञ्च-महा-भूत-प्रधानम् । यद् वा, अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च, तद्-आत्मकम् । उत्थितः प्रज्वलितोऽग्निर् योनिम् अरणिम् इव । यद् वा, यदा रतिर् आचार्यानुग्रहश् च तदा ज्ञान-विरागयोर् वेगेनोत्थितः साक्षात्कारोऽवीर्यं पुनः प्ररोह-क्षमं यथा न भवति, एवं हृदयं दहति । शेषं समानम् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिप्य समाधत्ते—भवत्व् इति । ततो\ऽन्यत्रासङ्गात्मरतेः । आचार्यवान् गुरुभक्तिमान् । हृदयं लिङ्गशरीरमहङ्कारात्मकं लिङ्गशरीरं जीवस्य गृहस्थानीयं तद्दाहे जीवो\ऽपि दग्धः स्याद् इति चेदाह—पञ्चेति । पञ्चमहाभूतात्मकत्वं स्थूलदेहस्याप्यस्तीत्यत आह—यद्वेति । अविद्याद्यात्मकत्वं त्वहङ्कारस्यैव न तु स्थूलदेहस्येत्य् अर्थः । यथारणाववस्थितोग्निररणिम् एव दहति एवं प्राकृतबुद्धीन्द्रियादावृत्थिता रतिस्तम् एव दहति वह्निना काष्ठं दहतीत्यादौ वह्निरे व काष्ठं दहतीतिवद्दार्ष्टान्तिकसङ्गतिः । पूर्वव्याख्याने पूर्वं रतिः पश्चादाचार्यवान् इत्य् उक्तेर्वैपरीत्यप्रतीतेर्न त्वाचार्यानुग्रहं विना पूर्वम् एव रतिर् उदयते रतिश् च ज्ञात एव वस्तुनि भवति ज्ञानञ्च आचार्यवान्पुरुषो वेद इति श्रुतेराचार्यानुग्रहात्पश्चाद् एव स्याद् अत आह—यद्वेति ॥२६॥


कैवल्य-दीपिका : ॥२६॥ [मु।फ। ७.४७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किं स्यात् ? इत्य् अत आह—यदेति । आचार्यवान् गुरु-भक्तिमान् रत्य्-उत्थयोर् ज्ञान-वैराग्ययोर् वेगेन अवीर्यं निष्प्रभावं जीवस्य कोषम् आवरकं हृदयम् अहङ्कारात्मकं लिङ्ग-देहं पुमान् दहति । कथं-भूतम् ? पञ्चात्मकम् अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः, तद्-आत्मकम् यथा अरणाव् उत्थितोऽग्निः स्व-योनिम् अरणिम् एव दहति । वह्निना काष्ठं दहतीत्य् उक्तौ वह्निर् एव काष्ठं दहतीतिवद् दार्ष्टान्तिक-सङ्गतिः ॥२६॥


॥ ४.२२.२७ ॥

दग्धाशयो मुक्त-समस्त-तद्-गुणो

नैवात्मनो बहिर् अन्तर् विचष्टे ।

परात्मनोर् यद्-व्यवधानं पुरस्तात्

स्वप्ने यथा पुरुषस् तद्-विनाशे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दग्धाशयः । बीजाशय-नाशे तद्-गुणानां ज्ञानादीनाम् अभावान् न किञ्चिद् विचक्षीत । परात्मनोर् यदा व्यवधानं संसारावस्थायां, तदा स्वप्न इवेत्य् एतावत् बीज-हृदय-नाशेत्वपुरुष एव । आत्म-नाश एवेत्य् अर्थः । अतः संसारावस्थैवोत्तमा स्यात् ।

भिदा यदि न दृश्येत जीवात्म-परमात्मनोः ।

मुक्तौ तदा विमोक्षाय को यत्नं कर्तुम् अर्हति ॥ इति ब्रह्माण्डे ।

मग्नस्य हि परेऽज्ञाने किं न दुःख-करं भवेत् ।

प्रवृत्ति-धर्मम् एवाहं मनो भरत-सत्तम ॥ इति मोक्ष-धर्मेषु ॥२७॥2


श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? अत आह—दग्ध आशयो हृदयम् उपाधिर् यस्य । अत एव मुक्ताः समास्तास् तद् गुणाः कर्तृत्वादयो येन आत्मनः सकाशाद् बहिर् घटाद्य् अन्तः सुख-दुःखादिनैव विचष्टे न पश्यत्य् एव । कुत इत्य् अपेक्षायां द्रष्टृ-दृश्य-प्रतीतेर् अन्तः करण-हेतुत्वाद् इत्य् आह । परो दृश्यः आत्मा द्रष्टा तयोर् यद् व्यवधानं भेदकं पूर्वम् आसीत् तस्य विनाशे सति । यथा स्वप्ने राजाऽहम् इत्य् आरोपितं सैन्यादि-द्रष्टारं दृश्यं सैन्यं च स्वप्नावस्थानाशे न पश्यति तद्वत् ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो लिङ्गदेहनाशात् । अत एव दग्धाशयत्वाद् एव । तद्गुणा आशयधर्माः । आदिना भोक्तृत्वादिग्रहः । आदिना पटादिग्रहः । पुनर् आदिना शोकमोहादिग्रहः । अत्र हेतुमाशङ्कते—कुत इति । भेदकमहङ्काराख्यान्तःकरणं यदासीत्तस्यान्तःकरणस्य ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किम् ? अत आह—दग्ध आशयो हृदयम् उपाधिर् यस्य । अत एव मुक्ताः समास्तास् तद् गुणाः कर्तृत्वादयो येन आत्मनः सकाशाद् बहिर् घटाद्य् अन्तः सुख-दुःखादिनैव विचष्टे न पश्यत्य् एव । कुत इत्य् अपेक्षायां द्रष्टृ-दृश्य-प्रतीतेर् अन्तः करण-हेतुत्वाद् इत्य् आह । परो दृश्यः आत्मा द्रष्टा तयोर् यद् व्यवधानं भेदकं पूर्वम् आसीत् तस्य विनाशे सति । यथा स्वप्ने राजाऽहम् इत्य् आरोपितं सैन्यादि-द्रष्टारं दृश्यं सैन्यं च स्वप्नावस्थानाशे न पश्यति तद्वत् ॥२७॥


॥ ४.२२.२८ ॥

आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि ।

सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रष्टृ-दृश्य-भेद-प्रतीतेर् अन्तः करण-हेतुत्वम् अन्वय-व्यतिरेकाभ्याम् उपपादयति—आत्मानम् इति । आत्मानं द्रष्टारम् इन्द्रियार्थं दृश्यम्, उभयोस् तयोः परं सम्बन्ध-हेतुम् अहङ्कारं चाशयेऽन्तः-करणे सत्य् एव जाग्रत्-स्वप्नयोः पश्यत्य् अन्यदा सुषुप्तौ न, तद् उक्तं—

दृश्यानुरञ्जितं द्रष्टृ-दृश्यं द्रष्ट्रनुरञ्जितम् ।

अहं कृत्योभयं रक्तं तन्-नाशेऽद्वैततात्मनः ॥ इति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विश्वनाथः—लिङ्गदेह एव जीवस्योपाधिः स एव व्यवधानशब्दवाच्यस्तत्सत्त्वे तम् एव पश्यति तदभावे परमात्मानम् एव पश्यतीत्य् आह—आत्मानं भोक्तारमुपाधिग्रस्तजीवमिन्द्रियार्थं भोग्यञ्च परं भोगोत्थं सुखदुःखं चाशये लिङ्गदेहे उपाधौ सत्येव पुमान्पश्यति न त्वन्यदा । लिङ्गदेहाभावे तदा तु परमात्मानम् एव पश्यतीति भावः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लिङ्ग-देह एव जीव-सोपाधिः, स एव व्यवधान-शब्द-वाच्यस् तत्-सत्त्वे तम् एव पश्यति तद्-अभावे परमात्मानम् एव पश्यतीत्य् आह—आत्मानं भोक्तारम् उपाधि-धर्म-ग्रस्तं जीवम् । इन्द्रियथार्थं भोग्यं च परं भोगोत्थं सुख-दुःखं च आशये लिङ्ग-देहे उपाधौ सत्य् एव पुमान् पश्यति, न त्व् अन्यदा लिङ्ग-देहाभावे, तदा तु परमात्मानम् एव पश्यतीति भावः ॥२८॥


॥ ४.२२.२९ ॥

निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः ।

आत्मनश् च परस्यापि भिदां पश्यति नान्यदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकस्मिन्न् आत्मनि दृश्यादि-भेद-प्रतीतिर् औपाधिकीति दृष्टान्तेन स्पष्टयति—निमित्त इति । लोकेऽपि च सर्वत्र जल-दर्पणादौ भेद-निमित्ते सत्य् एवात्मनो बिम्ब-भूतस्य परस्य प्रतिबिम्बस्य च भेदं पश्यति, न तु जलाद्य्-अभावे ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, उपाधिसत्त्वे एवौपाधिकधर्माध्यासः स चोपाधिः कर्मवशान्मानुषदेवतिर्यगादिर्भवति । न तु तदभाव इत्य् अत्र दृष्टान्तम् आह—निमित्त इति । जलतैलचक्षुरादौ निमित्त विद्यमान एव पुरुष आत्मनः स्वस्य परस्यान्यस्य च भिदामुपाधेमध्यमोत्तमाधमभेदं पश्यति । तत्र जले चांचल्यं दर्पणे नैर्मल्यं चक्षुषि मालिन्यं च यथा पश्यति तथैव मानुषदेवतिर्यक्शरीरेषु भद्राभद्रं केवलं भद्रं केवलाभद्रञ्च पश्यति नान्यदेति ज्ञानेनोपाधिनाशे तु न तथा पश्यति । किन्तु परमात्मानम् एव पश्यति । भक्त्योपाध्यपगमे तु शुद्धो जीवो रतिमहिम्नैव लब्धचिद्धनानन्दविग्रहः परमात्मन एव तस्य नारायणरामकृष्णादिचिद्धनानन्दाकारस्य षडैश्वर्यमाधुर्यवतः सौन्दर्यादिकं स्वीयनयनादिभिरास्वादयेद् इति मुख्यं फलं द्रष्टव्यं तस्मिन्ययो परमहंसमहामुनीनामन्वेषणीयचरणौ चलयन्सहश्रीः इत्याद्युक्तेः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपाधि-सत्त्व एवोपाधि-धर्माध्यासः । स चोपाधिः कर्म-वशान् मानुष-देव-तिर्यग्-आदिर् भवति , न तु तद्-अभाव इत्य् अत्र दृष्टान्तम् आह—निमित्त इति । जल-तैल-चक्षुर्-आदौ निमित्ते विद्यमान एव पुरुष आत्मनः, स्वस्य परस्यान्यस्य च भिदाम् उपाधेर् मध्यमोत्तमाधम-भेदं पश्यति । तत्र जले चाञ्चल्यं दर्पणे नैर्मल्यं चक्षुषि मालिन्यं च यथा पश्यति, तथैव मानुष-देव-तिर्यक्-शरीरेषु भद्राभद्रं केवल-भद्रं केवलाभद्रं च पश्यति । नान्यदेति ज्ञानेनोपाधि-नाशे तु न तथा पश्यति, किन्तु परमात्मानम् एव पश्यति । भक्त्या उपाध्य्-अपगमे तु शुद्धो जीवो रति-महिम्नैव लब्ध-चिद्-घनानन्द-विग्रहः, परमात्मन एव तस्य नारायण-राम-कृष्णादि-चिद्-घनानन्दाकारस्य षड्-ऐश्वर्य-माधुर्यवतः सौन्दर्यादिकं स्वीय-नयनादिभिर् आस्वादयेद् इति मुख्यं च फलं द्रष्टव्यम्, तस्मिन् ययौ परमहंस-महा-मुनीनाम् अन्वेषाणीय-चरणौ चलयन्न् [भा।पु। ३.१५.३७] इत्य्-आदि-पूर्वोक्तेः ॥२९॥


॥ ४.२२.३० ॥

इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः ।

चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एवं-विधाज्ञान-कारणम् आह—इन्द्रियैर् विषयाकृष्टैर् इत्य्-आदि । बहु-स्मरण-शक्तिस् तु चेतनेत्य् उच्यते बुधैः इति शब्द-निर्णये ॥३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं चतुर्भिर् असङ्गात्म-रत्योर् मोक्ष-हेतुत्वम् उक्तं, इदानीम् अनात्म-रतेः संसार-हेतुत्वम् आह—इन्द्रियैर् इति चतुर्भिः । ध्यायतां गुणारोपेण स्मरतां पुंसाम् इन्द्रियाणि स्मृतैर् विषयैर् आकृष्यन्ते । तैश् च मन आकृष्यते विषयासक्तिं प्राप्यते । तच् च बुद्धेः सकाशात् तद् धर्मः चेतनां विचार-सामर्थ्यं हरति । एतच् चाविवेकिना न लक्ष्यत इति दृष्टान्तेनाह । तीर-जः कुशादि-स्तम्बो यथा मूलैस् तोयं ह्रदाद् अपहरति तद्वत् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्यायतां ध्यातुमनिच्छतामप्यभ्यासपारवश्येन ध्यायतामरण्ये\ऽपि तिष्ठतां पुंसामिन्द्रियाणि पुत्रकलत्रादीनां शब्दस्पर्शादिभिः स्मृत्यारूढः प्रथममाकृष्यन्ते, ततो विषयाकृष्टैरिन्द्रियैराक्षिप्तम् इति विश्वनाथः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीम् आत्म-व्यतिरिक्त-वस्त्व्-आशक्तेः संसार-हेतुत्वम् आह—इन्द्रियैर् इति चतुर्भिः । ध्यातुम् अनिच्छताम् अप्य् अभ्यास-पारवश्येनैव ध्यायताम् अरण्येऽपि तिष्ठतां पुंसाम् इन्द्रियाणि विषयैः पुत्र-कलत्रादीनां शब्द-स्पर्शादिभिः स्मृत्य्-आरूढैः प्रथमम् आकृष्यं ते ततो विषयाकृष्टैर् इन्द्रियैर् मन आक्षिप्तं भवति । तच् च बुद्धेश् चेतनां विचार-सामर्थ्यं हरते । अलक्षित-हरणे दृष्टान्तः—स्तम्बः कुशादि-गुच्छस् तीरजः स्व-मूलैस् तोयं ह्रदाद् अपहरति तद्वत् ॥३०॥


॥ ४.२२.३१ ॥

भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये ।

तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्व-पक्षपातस् त्व् अभ्यासाद् भोगार्थं व्यापृतस्य तु ।

भवेत् ततोऽनेक-शास्त्र-यथार्थ-स्मरणेशिता ।

विनश्येत् तेन चैव स्याद् भवेज् ज्ञान-विपर्ययः ।

न च ज्ञान-विपर्यासाद् अन्यं नाश-करं क्वचित् ॥ इति स्कान्दे ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्तं चेतनाम् अनु तस्याम् अपहृतायां स्मृतिः पूर्वापरानुसन्धानं भ्रश्यति । एवं तद् रोधं ज्ञान-भ्रंशम् आत्मन एव हेतोर् आत्मनोऽपह्नवं नाशं प्राहुः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यां चेतनायाम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च चित्तं चेतनाम् अनु तस्याम् अपहृतायां सत्यां स्मृतिः पूर्वापरानुसन्धानं भ्रश्यति । एवं तद्-रोधं ज्ञान-भ्रंशम् आत्मन एव हेतोर् आत्मनोऽपह्नवं नाशं प्राहुः ॥३१॥


॥ ४.२२.३२ ॥

नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः ।

यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतो नाशो भवतु, ततश् च किम् ? इत्य् अत आह । यद्-अधि यम् अधिकृत्यान् यस्य विषयस्य प्रियतमत्वम् । आत्मनस् तु कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इति श्रुतेः । तस्यात्मनः स्वेनैव यो व्यतिक्रमोऽपह्नवस् तस्माद् यः स्वार्थ-नाशोऽतः परतरः स्वार्थ-नाशो नास्ति ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत आत्मनाशात्किमनिष्टम् । यद् वा, कीदृशं प्रेयस्त्वं न धीः परामर्शो यत्रातदधि यद्यत आत्मनोन्यस्य विषयस्य स्त्रीपुत्रादेः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्मात् आत्मनः सकाशात् अन्यस्य देहादेः । प्रेयस्त्वं कीदृशम् ? अधि अधिकम् । यद् वा, न विद्यते धीः परामर्शो यत्र तत् । तच् च स्वेनैव स्वत एव यो व्यतिक्रमः, तस्मात् न त्व् अन्यद् अत्र कारणम् अस्तीत्य् अर्थः । जीवस्य तस्याविद्या-संसर्गोऽनादिर् यादृच्छिक एवेति प्राक् प्रतिपादितम् । तस्माज् जीवाश्रयकः परमात्म-विषयकः प्रीत्य्-अतिशयो युज्यते । तद्-अर्थं भक्तिर् एव कर्तुम् उचितेति भावः ॥३२॥


॥ ४.२२.३३ ॥

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।

भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह । अर्थस्याभिध्यानम् इन्द्रियस्यार्थः कामस् तस्याभिध्यानं सर्वार्थ-नाशः । ज्ञानं विज्ञानं च परोक्षापरोक्षम् । येन ध्यानेन मुख्यतां स्थावरताम् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र हेतुमाशङ्कते अर्थस्य धनादेः कामो विषयः अभिध्यानं सातत्येन चिन्तनं सप्तमो मुख्यसर्गस्तु इत्य् अत्र मुख्यशब्दस्य स्थावरे प्रयुक्तत्वाद् अत्रापि स एवार्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् तु अर्थस्य धनस्य इन्द्रियथार्थआनां विषयाणां च विज्ञानाच् च भ्रंशितो मुख्यतां स्थावरताम् ॥३३॥


॥ ४.२२.३४ ॥

न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः ।

धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्वस्यैतस्य मूलं हि दृष्ट-संसर्ग एव हि ।

दुष्ट-सङ्गो विरक्तस्याप्य् अन्यथा ज्ञान-कारणम् ॥

दुष्ट-सङ्गाद् धि विष्णोश् च स्वात्मत्वं मन्यते बुधः ।

अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निशात्मकम् ॥ इत्य्-आदि स्कान्दे ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अनात्म-रतेर् अनर्थ-हेतुत्वम् उक्तं सङ्गस्याप्य् आह—नेति । यद् वस्तु धर्मादीनां विघातकं तस्मिन् सङ्गम् । तमः संसारम् ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्गमत्र धर्मशास्त्रनिषिद्धेतरम् एव न तु विषयासक्तिमात्रं, निषिद्धेतरविषयासक्तिमताम् एव त्रिवर्गाधिकारित्वाद् इति केचिदाहुः । परन्तु सङ्गं विषयासक्तिमात्रम् एव धर्मादयो\ऽपि मोक्षानुकूला एव ग्राह्याः धर्मस्य ह्यापवर्ग्यस्य इति न्यायेनेत्यन्ये । दुष्टसंसर्गस्यैव विषयाभिध्यानमूलकारणत्वात्तम् एव न कुर्याद् इति भावः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्गं धर्म-शास्त्र-निषिद्धम् एव, न तु विषयासक्ति-मात्रं निषिद्धेतर-विषयासक्ति-मताम् एव त्रिवर्गेऽधिकाराद् इति केचिद् आहुः । सङ्गं विषयासक्ति-मात्रम् एव धर्मादयोऽप्य् अत्र मोक्षस्यानुकूला एव ग्राह्याः । धर्मस्यापवर्गस्य[भा।पु। १.२.८] इति न्यायेन इत्य् अन्ये ॥३४॥


॥ ४.२२.३५ ॥

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रैवर्ग्योर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुल्यवन्-निर्देशात् पुरुषार्थ-साम्य-भ्रान्तिं वारयति—तत्रापीति । कृतान्तः कालः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्मार्थकाममोक्षाणाम् इति तुल्यवन्निर्देशान्मोक्षस्यापि त्रिवर्गसाम्यभ्रान्तिं वारयति । तत्रापि तेषु मोक्षादिष्वपि मध्ये आत्यन्तिकतयान्ताभाववत्तया अर्थः सत्यः अर्थः स्याद् वाच्यसत्ययोः इति निरुक्तिः । त्रैवर्ग्य̍स्त्रिवगसम्बन्धी यो\ऽर्थः पुरुषार्थः । कृतान्तस्य कालात्मनो हरेर्भ्रूविभ्रमजनितनाशलक्षणभयसंयुतो यतो\ऽतो मोक्ष एवेति योज्यम् । भविष्यन्नाशमवलोक्य नित्यम् इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्रांशेनांशि-प्राप्तिश् च द्विधा योजनीया । तत्राद्या ब्रह्म-प्राप्तिर् माया-वृत्त्य्-अविद्या-नाशानन्तरं केवल-तत्-स्वरूप-शक्ति-लक्षण-तद्-विज्ञानाविर्भाव-मात्रम् । सा च स्व-स्थान एव वा स्यात् । क्रमेण सर्व-लोक-सर्वावरणातिक्रमानन्तरं वा स्यात्, उपासना-विशेषानुसारेण । द्वितीया भगवत्-प्राप्तिश् च, तस्य विभोर् अप्य् असर्व-प्रकटस्य तस्मिन्न् एवाविर्भावेन, विभुनापि वैकुण्ठे सर्व-प्रकटेन तेनाचिन्त्य-शक्तिना स्व-चरणारविन्द-सान्निध्य-प्रापणया च ।

तद् एवं स्थिते, सा च मुक्तिर् उत्क्रान्त-दशायां जीव-दशायाम् अपि भवति । उत्क्रान्तस्योपाध्य्-अभावेऽपि तदीय-स्व-प्रकाशता-लक्षण-धर्माव्यवधानस्यैतत्-साक्षात्कार-रूपत्वात् । जीवतस् तत्-साक्षात्कारेण माया-कल्पितस्यान्यथा-भावस्य मिथात्वावभासात् सैषा मुक्तिर् एवात्यन्तिक-पुरुषार्थतयोपदिश्यते—तत्रापीति । श्रुतिश्च—येनाहं नामृतः स्यां किम् अहं तेन कुर्यां [बृ।आ।उ। २.४.३] इति ॥३५॥ [प्रीति-सन्दर्भः १]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि तेष्व् अपि मध्ये त्रैवर्ग्यः त्रिवर्ग-भवः ॥३५॥


॥ ४.२२.३६ ॥

परेवरे च ये भावा गुण-व्यतिकराद् अनु ।

न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भय-संयुतत्वम् एवाह—परे ब्रह्मादयोऽवरेऽस्मद् आदयो गुण-क्षोभाद् अनु पश्चाद् भवन्ति । ईशः कालः, तेन विध्वंसिता आशिषो येषाम् ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणक्षोभात्सर्गादिकालीनगुणव्यतिकरात् । आशिषश्चिन्त्यमानार्थाः । अनेन ब्रह्मलोकादिप्राप्तिलक्षणो\ऽपि पुरुषार्थो न नित्य इत्य् उक्तम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भय-संयुतत्वम् एवाह—परे ब्रह्मादयोऽवरे इन्द्रादयश् च ये गुण-क्षोभाद् अनु पश्चाद् भवन्ति । ईशः कालः ॥३६॥


॥ ४.२२.३७ ॥

तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च

देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् ।

यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः

प्रत्यक् चकास्ति भगवांस् तम् अवेहि सोस्मि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्व-सत्ता-प्रदत्तात् तु सर्व-तत्त्वं हरिः स्मृतः ।

सर्वत्र विततत्वाद् वासोऽहं त्वम् इति चोच्यते ।

सर्वान्तर्यामिकतत्वात् तु न जीवात्मतो हरिः ॥ इत् तत्त्व-निर्णये ।

त्वम् अनयोः स्थावर-जङ्गमयोर् मध्ये एको जीवः विष्वगाधिः । नाना दुःखं सन् । हृदि तम् अवैहि अहं च स जीवोऽस्मि ज्ञानान् महान् भवामि यः क्षेत्रवित् । सर्वस्य प्रत्यक् चकासि भगवान् इति च । व्यवधानेनावयोऽपि योग्यतापेक्षया भवेत् इति शब्द-निर्णये । अभिमानस् त्व् अहङ्कार आत्म-देह्य् अभिधीयते ॥ इति च ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्माद् अनात्म-रतिर् अनर्थ-हेतुः, तत् तस्माज् जगतां जङ्गमानां तस्थुषां स्थावराणां च देहादिभिर् आत्मनाहङ्कारेण चावृतानां हृदि यश् चकास्ति प्रकाशते, तम् अवेहि । कथम् ? सोऽस्मीति । सोऽस्तीति पाठे स एवैकोऽस्ति, ततोऽन्यद् असद् इत्य् अर्थः ।

ननु जीवो हृदि चकास्ति नान्यस् तत्राह—क्षेत्र-विदं जीवं तपति नियमयतीति क्षेत्र-वित्तपस् तस्य भावस् तत् ता तयान्तर्यामि-रूपेण । यद् वा, क्षेत्र-वित्ते अहं ममतास्पदे पातीति क्षेत्र-वित्तपस् तेन रूपेण । जीवस् तु पार-तन्त्र्यान् न पाति ।

ननु कर्म जीवं नियच्छति, न, आविः प्रत्यक्षः । तर्हि बुद्धिः, न, प्रत्यक्-प्रतिलोमं चकास्ति । बुद्धिस् तु पराग्-विषयाकारेण । तर्ह्य् अहङ्कारः, न, विष्वग् व्याप्तत्वेन । स तु परिच्छिन्नः, एवं-भूतो यो भगवांस् तम् अवेहीति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ चार्थे हृदि ह्येष आत्मा इति श्रुतेः । अत्राक्षिपति—नन्व् इति । यद्यपि धातूनामनेकार्थन्त्वमादायायमप्यर्थश्रेयांस्तथापि तस्यागतिकगतित्वादृजुमार्गेण सिध्यतो\ऽर्थस्य वक्रेणादर्शनायोगादाह—यद्वेति । अहन्तास्पदं देहं ममतास्पदं स्त्रीपुत्रधनादि । जीवनियमने शङ्कते—नन्व् इति । नियच्छति नियमनं करोति नेति निषेधे । स्वबुद्धेः प्रत्यक्षत्वे\ऽपि परबुद्धेर् अप्रत्यक्षत्वात् । यद्वा—प्रतिलोमं बाह्यविषयापेक्षयान्तः प्रकाशमानत्वात्, पुनर् आक्षिपति तर्हीति, नेति । एवंभूत उक्तविशेषणविशिष्टः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च केवल-मोक्षो भक्तेर् गुण-भावेऽपि निर्भेद-ब्रह्म-ज्ञान-सिद्ध्या स्याद् इत्य् आह—तत् तस्माज् जगतां जङ्गमानां तस्थूषां स्थावराणां च देहेन्द्रिय-प्राण-बुद्ध्य्-अहङ्कारैर् आवृतानां हृदि यश् चकास्ति प्रकाशते तं परमात्मानम् अवेहि जानीहि । ज्ञान-प्रकारम् आह—सो\ऽस्मीति । भानु-किरणस्यापि भानुत्वम् इव शुद्ध-परमात्म-किरणो\ऽहं परमात्मैव न तु मायेति । सो\ऽस्तीति पाठे स एको\ऽस्ति नान्य इत्य् अर्थः । ननु जीवो हृदि चकास्ति ? तत्राह—विष्वक् सर्वतो भावेन आविः प्रकटम् एव क्षेत्र-विदं जीवं तपति, नियमयतीति क्षेत्र-वित्तपस् तस्य भावस् तत्ता तया अन्तर्यामि-रूपेणेत्य् अर्थः । कीदृशं चकास्ति ? प्रत्यक् प्रतिलोमम् ॥३७॥


॥ ४.२२.३८ ॥

यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति

माया विवेक-विधुति स्रजि वाहि-बुद्धिः ।

तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं

प्रत्यूढ-कर्म-कलिल-प्रकृतिं प्रपद्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तत् स्वरूपतया भातम् अज्ञानां गगनादिकम् ।

विवेक-ज्ञानिना रज्जौ सर्प-भावाद् विधूयते ॥

तन् नित्यमुक्त-भावेन निरस्त-प्रकृतिं भजेत् ॥ इति ज्ञान-विवेके ।

न भ्रान्तिर् जगतो दृष्टिर् न भ्रान्तिर् हरि-दर्शनम् ।

अन्योऽन्यात्मतया दृष्टिर् भ्रान्तिर् इत्य् अवधार्यताम् ॥ इति च ।

मायेति ज्ञानं नाम स्यान् मायेति प्रकृतिस् तथा ।

ज्ञानं स्वरूपं विष्णोस् तु प्रकृतिर् न हरेस् तनुः ।

एवं विवेकिनो विश्वं ब्रह्म-रूपेण नेष्यते ॥ इति वाराहे ।

ज्ञान-प्रकृत्य्-आख्य-माया-द्वयस्य विवेक-ज्ञानात् सद्-असतोर् विष्ण्व्-आत्मतया प्रतीतिः । स्रज्य हि बुद्धिर् इव विधूयते इत्य् अर्थः ।

पञ्च-भूतात्मकं देहं विष्णोः पश्यन्त्य् अयोगिनः ।

तथा न योगि-राद्धान्तो ज्ञानं देहो यतो हरेः ॥ इति षाड्गुण्ये ॥३८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्थावर-जङ्गमादीनां हृदि चकास्तीत्य् उक्ते तेषां सत्त्वं तत् संबन्धाद् ईश्वरस्य मालिन्यं च प्रसक्तं निराकुर्वन्न् उद्रिक्त-भक्त्या तं प्रणमति । यस्मिन्न् इदं विश्वं सद्-असद् आत्मतयोत्कृष्ट-निकृष्ट-भावेन कार्य-कारण-भावेन वा मायैव विभाति तं प्रपद्ये । मायात्वे हेतुः, विवेकेन विधुतिर् निराकृतिर् यस्य तत् । स्रजि वेति वाशब्दो दृष्टान्ते । नित्यम् उक्तम् । यतः परिशुद्धम् । तत् कुतः ? विशुद्धं तत्त्वं सत्यम्, अत एव प्रत्यूढाऽभिभूता कर्मभिः कलिला मलिना प्रकृतिर् येन तम् ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्त्वं पृथक्सत्त्वं विवेकश्चायं विश्वस्य मायिकत्वान्मायात्वेन मायायाश् च परमात्मनो बहिरङ्गशक्तित्वात् । जीवस्य च तत्तटस्थशक्तित्वाच्छक्तिशक्तिमतोर्भेदाभावमननान्निर्भेदात्मज्ञानम् एवेति । तत्परिशुद्धं विबुद्धं ज्ञान-रूपम् । अत एव परिशुद्धविबुद्धतत्त्व स्वरूपत्वाद् एव ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थावर-जङ्गमादीनां हृदि चकास्तीत्य् उक्तेस् तेषां पृथक् सत्त्वं तत्-संबन्धाद् ईश्वरस्यापि मालिन्यं प्रसक्तं निराकुर्वन् प्रणमति । यस्मिन्न् इदं विश्वं सद्-असद्-आत्मतयोत्कृष्ट-निकृष्ट-भावेन कार्य-कारण-भावेन वा स्थितं माया विभाति । मायात्वे हेतुः—विवेकेन विधुतिर् निराकृतिर् यस्य तत् । विवेकश् चायं विश्वस्य मायिकत्वान् मायात्वेन मायायाश् च परमात्मनो बहिरङ्ग-शक्तित्वात् जीवस्य च तत्-तटस्थ-शक्तित्वात् शक्ति-शक्तिमतोर् भेदाभाव-मननात् निर्भेदात्म-ज्ञानम् एवेति । स्रजि अहि-बुद्धिर् वेति वा-शब्देन विवर्त-वादिनां विवर्त-वादेन वा निर्भेदात्म-ज्ञान-सिद्धिर् इति परमतं च दर्शितम् । तं नित्य-मुक्तम् । यतः परिशुद्धम् । तत् कुतः ? यतो विशुद्धं तत्त्वं सत्यम् प्रत्यूढाऽभिभूता भवति कर्मभिः । कलिला मलिना प्रकृतिर् यस्मात् तं प्रपद्य इति प्रपत्ति-रूपया भक्त्या विना मोक्षो न भएद् इति भक्तेर् अङ्गत्वम् अभिव्यज्य गुण-भावो दर्शितः ॥३८॥


॥ ४.२२.३९-४० ॥

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या

कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।

तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध-

स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥

कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां

षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति ।

तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं

कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : द्विमतयः जगति भगवति च प्रतीति-युक्ताः । अपि भक्ति-विशेषात् तत्त्वं न उद्ग्रथयन्ति । प्रति संसारं गुणास् तेषां विरुद्धा एव प्रतीयन्ते । यतः नैजः सर्व-गुणोत्कर्षः सर्वेभ्यो महद् उच्यते ॥ इति शब्द-निर्णये ।

अनाद्य्-अन्तं परं ब्रह्म न देवा ऋषयो विदुः ।

एकस् तद् वेद भगवान् प्रभुर् नारायणः स्वराट् ॥ इति मोक्ष-धर्मेषु ॥३९ ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् अवेहीति ज्ञानम् उपदिष्टम् । तस्य तु दुष्करत्वेन भक्तिम् उपदिशति द्वाभ्याम्—यस्य पाद-पङ्कजयोः पलाशान्य् अङ्गुलयः, तेषां विलासः कान्तिः, तस्य भक्त्या स्मृत्या कर्माशयम् अहङ्कार-रूपं हृदय-ग्रन्थिम् । कर्मभिर् एव ग्रथितम्रिक्ता निर्विषया मतिर् येषाम् । रुद्धं प्रत्याहृतः स्रोतो-गण इन्द्रिय-वर्गो यैः । अरणं शरणम् ॥३९॥

ननु ब्रह्मविद् आप्नोति परं [तै।उ। २.१.१] इति श्रुतेः । कथं यतयो न उद्ग्रथयन्ति इत्य् उच्यते ? तत्राह—कृच्छ्र इति । अप्लवेशां न प्लवस् तरण-हेतुर् ईट् ईशो येषां, तेषाम् इह तरणे महान् कृच्छ्रः क्लेशः । ते ह्य् असुखेन योगादिना इन्द्रिय-षड्-वर्ग-ग्राहं भवार्णवं तितीर्षन्तितत् तस्मात् । उडुपं प्लवम् । दुस्तरार्णं दुस्तरार्णवम् । आर्ण-शब्दे व-काराभाव आर्षः । यद् वा, दुस्तरोदक-रूपं व्यसनम् इत्य् अर्थः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विश्वनाथः—तद् एवं सा श्रद्धया इत्य्-आदिना भक्तेः प्राधान्ये ज्ञान-मिश्रया भक्त्या साध्यां मुक्ति-सहितां शान्त-रतिम् उक्त्वा तत्त्वं नरेन्द्र इति श्लोक-द्वयेन भक्ति-मिश्र-ज्ञान-साध्यां सायुज्य-मुक्तिं च दर्शयित्वा तम् अवेहि सो\ऽस्मीति पदैस् तस्य शुद्ध-दास्य-भक्त्यैक-स्पृहस्य तत्रारुचिम् अभिप्रेत्य भक्तेः कैवल्ये शुद्ध-भक्त्या तद्-अभीष्टया साध्यं प्रेमाणम् आनुषङ्गिक-मुक्तिकं वदंस् ताम् एव भक्तिं सर्वथोत्कर्षयति—यत्-पाद- इति द्वाभ्याम् ।

यस्य हरेः पाद-कमलयोः पलाशान्य् अङ्गुलयस् तेषां विशेषेण लासः प्रतिक्षणं वर्धमाना कान्तिर् यस्यास् तया साधन-रूपया भक्त्या साध्य-रूपया च । यद् वा, विलासयुक्तया भक्त्या विविधाद्भुतशिल्पयाभ्यंजनोद्वर्तनस्नपनसचाकचिक्यप्रसाधनादिसपर्यया । यद्वाङ्गुलीनां विलासः कान्तिस् तस्य भक्त्या स्मृत्यापीत्य् अर्थः । कर्माशयं कर्मवासनामयमहङ्कारं ग्रथितं येनैव स्वकर्मणा तद्विपरीतेन भगवत्कर्मणोद्ग्रथयन्ति सन्तो भक्तास्तद्वद्यतयः संन्यासिनो न । कुतः निर्विषयाविद्यमाना मतिर्येषां ते रिक्तधना इव निर्बुद्धयो\ऽसन्तश्चेत्य् अर्थः । सन्तश् च भगवद्-विषयमतयः सुबुद्धय एवेति भावः । निरुद्धो नद्यादेः स्रोतसामिवेन्द्रियाणां गणो यैः । न हि स्रोतांसि निरोद्धुं शक्यानि भवन्तीति निर्बुद्धित्वचिह्नमेतद् एवेति भावः । सन्तश् च भगवत्सौन्दर्यामृतादिषु प्रसारितचक्षुरादीन्द्रियगणाः सुधियः सुखिनश्चेति भावः । अरणं शरणं वसुदेवनन्दनं नन्दवाचको\ऽपि वसुदेवशब्दः पूर्वमुक्त एव । तेन नन्दनन्दनं भजेत्यप्यर्थः । असङ्ग्रामे च शरणे कंसादावरणध्वनिः इति निरुक्तिः । श्लेषण अरणं निः सङ्ग्रामम् एवान्यथा तवेन्द्रियैः सह सङ्ग्रामो भविष्यति तत्र च त्वम् एव बहुभिस्तैः पराभूतो भविष्यसीति भावः ॥ इहाक्षिपति—नन्व् इति । ईट् समर्थ ईशो वा यतोऽसुखेन तत्तुम् इच्छन्ति न तु तरन्तीत्य् अर्थः । यदि कामदितरंगौर्न हन्यमानः षडिन्द्रियनक्रैर्न चर्व्यमाणः स्वयं च बलिष्ठः श्रान्तो\ऽप्य् अनलसः स्यात्तदा ज्ञानवैराग्याभ्यां दोर्भ्यां चिरेणैव कथंचिद् एव तेषां मध्ये को\ऽपि कष्टेनैव तरतीति भावः । इह—

श्रेयसाम् इह सर्वेषां ज्ञानं निश्रेयसं परम् ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ [भा।पु। ४.२४.७५]

इति रुद्र-गीते वक्ष्यमाणेन सह विरोधस्य कः परिहार इति चेत्तत्रेदमवधेयम् । तत्र ज्ञानशब्देन प्रस्तुतभगवद्-गुणैश्वर्यज्ञानम् एव विवक्षितं, न तु कैवल्योपयोगीति क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् इति श्री-मुखोक्ति-विरोधात् । तस्मात् त्वं हरेरंघ्रिमुडुपं कृत्वा व्यसनं संसारदुस्तरार्णवमुत्तर्ɒ अत्रोडुपं कृत्वेति समाश्रिता ये पदपल्लवप्लवम् इति त्वत्पादपोतेन महत्कृतेन इत्याद्युक्तेर्हरिपदपल्लवाश्रयणमात्रेणैव भवार्णवस्य गोवत्सपदप्रमाणत्वे जाते तत्तरणे खलु कः प्रयास इति प्लवारोहणं नाशंकनीयम् । इत्य् अर्थ इति । दुस्तराण्यर्णांसि तोयानि यस्मिन्स तथा तम् । अत्र समासान्ते टेर्लोपे चेदं रूपम् इति भावः । उडुपेनार्णवतरणस्यासंभवमालक्ष्याह—यद्वेति । इत्य् अर्थ इति । दुस्तरं च तदर्णश्चेति दुस्तरार्णम् इति समासान्तविधेरनित्यत्वमालक्ष्य स्वामिचरणैरार्ष इत्य् उक्तम् । किं च, योगवासिष्ठे अर्णपूरादिवार्णवः इत्यकारान्तो\ऽप्य् अंबुवाच्यर्णशब्दोस्तीति ॥३९-४०॥


कैवल्य-दीपिका : मुक्ति-कामस् तु विशेषतो भक्तिम् एवाद्रियते इत्य् आह—यत्-पाद- इति । पलाशं दलम् । अङ्गुल्या अवयवः । विलासः सौन्दर्यम् । कर्माण्य् आशेरतेऽस्मिन्न् इति कर्माशयश् चित्तम् । ग्रथितं गुम्फितम् । उद्ग्रथयन्ति त्रैगुण्यं ग्रन्थिं भिन्दन्ति । रिक्त-मतयः सोऽस्मीति भावुकाः । स्रोत इन्द्रियम् । तद्वन् नोद्ग्रथयन्ति । यद्वत् पूर्ण-मतयः तं प्रपद्यन्त इति । भावुकाः भेद-भावनायां ज्ञेयं पृथग् अस्तीति मतेः पूर्णत्वम् । अभेद-भावनायां तु ज्ञातैवेति रिक्तताअरणं शरणं ॥३९॥ [मु।फ। ६.३६]


सनातन-गोस्वामी : [ह।भ।वि। ११.५६३] एवं तादृश-ज्ञानेन परम-भक्त्याहङ्कारोन्मूलनं लिखित्वा इदानीं कथञ्चिद् अपि भजनेन तच् च स्याद् इति दर्शयति—यत् पादेति । यस्य पाद-पङ्कजयोः पलाशानि अङ्गुलयः, तेषां विलासः कान्तिः, तस्य भक्त्या स्मृत्या । यद् वा, नृत्य-गीतादि-विलास-रूपस्यापि भक्त्या, कर्माण्य् आशेरते यस्मिन्न् इति कर्माशयोऽहङ्कारः, तद्-रूपं हृदय-ग्रन्थिं कर्मभिर् एव ग्रथितम्, दृढं बद्धम् । सन्तो वैष्णवा उद्ग्रथयन्ति मोचयन्ति । रिक्ता निर्विशेषा सर्व-मूऋधन्या मतिर् येषाम्, निरुद्धः प्रत्याहृतः स्रोतो-गण इन्द्रिय-वर्गो यैः । अरणं शरणम् ।

स्रोतो-गण-शब्देनेदं सूच्यते, यथा गङ्गादि-प्रवाहस्य कथञ्चिद् अपि यत्नान् निरोधः सम्भवेदे एवम् इन्द्रियस्यापि । भवतु वा कस्यचिद् इन्द्रियस्य, सर्वस्य तु न भवत्य् एव । यदि वा कदाचित् कस्यचिद् यतेः सर्व-निरोधो भवतु नाम, तथाप्य् अहङ्कारोन्मूलनं सम्यग् न स्याद् एवेति । अतः श्लेषेण रिक्त-मतयः निर्बुद्धय एवेत्य् उक्तम् । यथा सन्तो भक्त्योद्ग्रथयन्ति, यतयश् च तद्वन् नेति सद्भ्यः पृथक्त्वेन निर्देशाद् भक्ति-विमुखानां यतीनां तद्-इतरत्वम् अप्य् उक्तम् । एवं तेषां भक्त्य्-अनादरेण निन्देति दिक् ॥३९॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४] अत एवात्म-तत्त्वोपासका यतयो भक्तेभ्यो भिन्ना एव । यथोक्तं चतुर्थ-स्कन्धे श्री-पृथुं प्रति सनत्कुमारेण—यत्-पाद-पङ्कज- इति

अस्यार्थः—यस्य पाद-पङ्कजयोः पलाशानि अङ्गुलयः, तेषां विलासः कान्तिः, तस्य स्मृत्या, यद् वा, विलासः श्री-वृन्दावनादि-विषयक-क्रीडा, तस्य भक्त्या श्रवण-कीर्तन-स्मरण-रूपया । तद् उक्तं स्व-मातरं प्रति श्री-कपिल-देवेन सर्व-साधन-वर्ग-कथने सर्व-सारतया तद्-अन्ते वैकुण्ठ-लीलाभिध्यानम् [भा।पु। ३.२८.६] इति । यद् वा, विलासो नाम भगवन्-महा-प्रसादान् न भक्षण-नृत्य-गीतादिस् तद्-रूपयापि भक्त्या ।

कर्माशयम् अहङ्कार-रूप-हृदय-ग्रन्थिं संसार-बन्धं वा कर्मभिर् एव ग्रथितं सन्तः साधवः उद्ग्रथयन्ति मोचयन्ति । यतयः सन्न्यासिनस् तु निरुद्धः स्रोतो-गणः इन्द्रिय-वर्गः यैः, तथा-भूताः सन्तो\ऽपि तद्वद्-भक्तवत् कर्माशयं नोद्ग्रथयन्ति, किन्तु किञ्चिद् एव शिथिलयन्तीत्य् अर्थः ।

यद् वा, सन्त एवोद्ग्रथयन्ति, यतयस् तु नैवेत्य् एष एव तद्वद् इत्य् अस्य तात्पर्यार्थः ।

यद् वा, तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः [भा।पु। १०.२.३३] इत्य् अत्र तथा न भ्रश्यन्ति किन्तु किञ्चिद् भ्रश्यन्तीत्य् अर्थो\ऽनुपयुक्तः बद्ध-सौहृदत्वाच् च कदाचिद् अपि न भ्रश्यन्तीत्य् एष एवार्थः सतां संमत इति । स्रोतः-शब्देन यथा गङ्गादि-स्रोतसां निरोधः कदाचिद् अपि न स्यात् । तथा इन्द्रिय-वर्गस्यापीति बोध्यते कथञ्चिद् वा तादृशा अपि भवन्तु, तथापि नोद्ग्रथयितुं शक्नुवन्तीत्य् अत्र हेतुः—रिक्ता निर्विषया । यद् वा, रिक्ते शून्य-रूपे आत्म-तत्त्वे । यथोक्तं श्रुतिभिर् दशम-स्कन्धे ब्रह्मत्वेन भगवत्-स्तुतौ—वियत इवापदस्य तव शून्य-तुलां दधतः [भा।पु। १०.८७.२९] इति । यद् वा, रिक्ता शून्य-मतिर् येषां ते निर्बुद्धय इत्य् अर्थः । श्री-भगवच्-चरणारविन्द-भक्ति-त्यागेनात्मोपासनात् । अत एव प्राक् सन्त इति निर्देशेन सद्-इतरत्वम् अन्येषां ध्वनितम् तं वसुदेव-नन्दनम् अरणं शरणं भज आश्रय । अरणम् इत्य् अनेन च यतीनां शरण-राहित्यं ध्वनितम् विना भगवद्-आश्रयणम् अनाथत्वे पर्यवसानात् । श्री-भगवतो भक्तास् तु तेन सनाथाः परम-निर्भयाः सर्वेन्द्रिय-वृत्ति-विस्तारेण सर्वथा तद्-भजनात् संसार-बन्धं मोचयन्तीति किं वाच्यम् अनुक्षण-नूतन-नूतन-मधुर-मधुरानन्द-पूरं मुक्त-गण-दुर्लभम् एव प्राप्नुवन्ति । एतच् च प्राग् एव स-परिकरं निरूपितम् अस्ति । तत्र च यतिभिर् महा-प्रयत्नेन दुस्तरम् अपि संसार-सागरं श्री-भगवद्-भक्ता हेलयैव सुखं तरन्तीत्य् अभिप्रायेणैव तथोक्तम् इत्य् ऊह्यम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं ज्ञानोपदेशानन्तरं भक्तिम् उपदिशन् त्वद्-अभीष्टा श्री-हरि-भक्तिस् तु सर्वत्र परम-श्रेयो-रूपेत्य् आह—यत्-पादेति द्वाभ्याम् । समास-प्राप्ययोर् अपि पथोर् एकस्य दुर्गमत्व-कथनेनान्यस्याभिधेयत्वं स्वत एव सिध्यति । अत्र तितीर्षन्ति मात्रं, न तु तरन्तीत्य् अर्थोऽपि ज्ञेयः । तद्वन् न तद्-विमतय इति चित्सुखः ॥३९-४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सा श्रद्धयेत्य् आदिना भक्तेः प्राधान्ये ज्ञान-मिश्रया भक्त्या साध्यां मुक्ति-सहितां शान्त-रतिम् उक्त्वा तत् त्वं नरेन्द्र [भा।पु। ४.२२.३७-३८] इति श्लोक-द्वयेन भक्ति-मिश्र-ज्ञान-साध्यां सायुज्य-मुक्तिं च दर्शयित्वा, तम् अवेहि सोऽस्मि इति पदैस् तस्य शुद्ध-दास्य-भक्त्यैक-स्पृहस्य तत्रारुचिम् अभिप्रेत्य भक्तेः कैवल्ये शुद्ध-भक्त्या तद्-अभीष्टया साध्यं प्रेमाणम् आनुषङ्गिक-मुक्तिकं वदंस् ताम् एव भक्तिं सर्वथोत्कर्षयति यत्-पादेति द्वाभ्याम् । यस्य पाद-पङ्कजयोः पलाशाङ्गुलयस् तेषां विलास-भक्त्या विशेषेण लासः प्रतिक्षणं वर्धमाना कान्तिर् यस्यां तया साधन-रूपया भक्त्या साध्य-रूपया च । यद् वा, विलास-युक्तया भक्त्या विविधाद्भुत-शिल्पया अभ्यञ्जनोद्वर्तन-स्नपन-सचाक्चिक्य-प्रसाधनादि-सपर्यया ।

यद् वा, अङ्गुलीनां विलासः कान्तिस् तस्य भक्त्या स्मृत्यापीत्य् अर्थः । कर्माशयं कर्म-वासनामयम् अहङ्कारं ग्रथितम् । येनैव स्व-कर्मणा तद्-विपरीतेन भगवत्-कर्मणा उद्ग्रथयन्ति । सन्तो वैष्णवाः तद्वत् यतयः सन्न्यासिनो न । कुतः ? रिक्ता निर्विषया अविद्यमाना मतिर् येषां ते रिक्त-धना इव निर्बुद्धयोऽसन्तश् चेत्य् अर्थः । सन्तस् तु भगवद्-विषय-मतयः सुबुद्धय एवेति भावः । निरुद्धो नद्यादेः स्रोतसाम् इवेन्दिर्याणां गणो यैः । न हि स्रोतांसि निरोद्धुं शक्यानि भवन्तीति निर्बुद्धित्व-चिह्नम् एतद् एवेति भावः । सन्तस् तु भगवत्-सौन्दर्यामृतादिषु प्रसारित-चक्षुर्-आदीन्द्रिय-गणाः सुधियः सुखिनश् चेति भावः । तम् अरणं शरणं वसुदेव-नन्दनं भज । श्लेषेण अरणं निःसङ्ग्रामम् एव । अन्यथा तव इन्द्रियैः सह सङ्ग्रामो भविष्यति तत्र च त्वम् एव पराभूतो भविष्यसीति भावः ॥३९॥

तैर् यतिभिः संसार-तरणं न सुकरम् इत्य् आह—कृच्छ्र इति । अप्लवेशां न प्लवन्तरण-हेतुः ईट् समर्थः ईशो हरिर् वा येषां महा इह कृच्छ्रः क्लेशः । यतः इन्द्रिय-षड्-वर्ग-नक्रं भवार्णवम् असुखेन तर्तुम् इच्छन्ति, न तु तरन्तीत्य् अर्थः । यदि क्ंआदि-तरङ्गैर् न हन्यमानः षड्-इन्द्रिय-नक्रैश् च न चर्व्यमाणः स्वयं च बलिष्ठः श्रान्तोऽप्य् अनलसः स्यात्, तदा ज्ञान-वैराग्याभ्याम् दोर्भ्यां चिरेणैव कथञ्चिद् एव तेषां मध्ये कोऽपि कष्टेनैव तरतीति भावः । तस्मात् त्वं हरेर् अङ्घ्रिम् उप्डुपं प्लवं कृत्वा व्यसनं संसार-दुस्तरार्णवम् उत्तर । अत्रोडुपं कृत्वेति, समाश्रिता ये पद-पल्लव-प्लवं [भा।पु। १०.१४.५८] इति, त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम् [भा।पु। १०.२.३०] इत्य्-आद्य्-उक्तेर् हरि-पद-प्लवाश्रयण-मात्रेणैव भवार्णवस्य गो-वत्स-पद-प्रमाणत्वे जाते तत्-तरणे खलु कः प्रयास इति प्लवारोहणं नाशङ्कनीयम् ॥४०॥


॥ ४.२२.४१ ॥

मैत्रेय उवाच—

स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा ।

दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-मेधसा ब्रह्म-विदा दर्शिता आत्मनो गतिस् तत्त्वं यस्मै सः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पृथुः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-मेधसा ब्रह्म-विदा ॥४१॥


॥ ४.२२.४२ ॥

राजोवाच—

कृतो मेनुग्रहः पूर्वं हरिणार्तानुकम्पिना ।

तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मन्न् इति सम्बोधनं प्राधान्याद् एकस्य । यूयम् इत्य् उक्तिः सर्वान् प्रति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकस्य सनत्कुमारस्योपदेष्टृत्वेन प्राधान्यात् सर्वांश्चतुःसङ्ख्याकान् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मन्न् इति सनत्कुमारस्यैकस्य प्राधान्याद् यूयम् इति सर्वान् प्रत्युक्तिः ॥४२॥


॥ ४.२२.४३ ॥

निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः ।

साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो देहेन सह सर्वं राज्यादिकं मदीयं साधूच्छिष्टं साधुभिः स्वीयं सन्-मह्यं प्रसाद-रूपेण दत्तम्, अतस् तत्र मम स्वत्वाभावाद् गुरु-दक्षिणार्थं किं ददे । नहि पित्रा दत्तं मोदकादि तस्मै दान-रूपेण प्रत्यर्प्यते ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु साधूनां राज्यादौ कथं स्वत्वं जातं तत्राह—वक्ष्यमाणश्लोकेन प्राणा इत्य्-आदिना अश्वमेधयागान्ते प्राणादिकं सर्वं मया ब्राह्मणेभ्यः पूर्वम् एव दत्तं पुनश् च तैर्निजोच्छिष्टं मह्यम् एव समर्पितम् इति भावः । अत उक्तं साधूच्छिष्टं हीति । निष्पादित इत्यस्यानुग्रह इति शेषः । अतः साधुदत्तत्वाद् एव । तत्र राज्यादौ ॥।४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरु-दक्षिणार्थं दातुं किम् अपि न पश्यामीत्य् आह—साधूच्छिष्टम् इति । साधुभिर् युष्माभिर् एव भृग्व्-आदिभिः स्वीयं राज्यादिकं प्रसादीकृत्य मह्यं दत्तं, कथं पुनर् दास्यामि, पित्रा दत् तस्य ताम्बूल-चर्वितस्य तस्मै प्रतिदानानौचित्यात् ॥४३॥


॥ ४.२२.४४ ॥

प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः ।

राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निवेदनं तु तदीयस्यैव समर्पणं यथा भृत्यो राज्ञे सेवादि-रूपेण ताम्बूलादिकम् अर्पयति तथा मयापि सर्वं निवेदितं स्वीकुरुतेत्य् आह—प्राणा इति ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदीयस्य द्रव्यस्वामिनः । आदिना वस्त्रालङ्कारादिग्रहः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु साधूनां राज्यादिषु कथं सत्त्वं जातम् ? तत्राह—प्राणा इति । अश्वमेध-यागान्ते प्राणादिकं सर्वं मया पूर्वम् एव दत्तं, पुनश् च तैर् निजोच्छिष्टं मह्यम् एव समर्पितम् इति भावः ॥४४॥


॥ ४.२२.४५ ॥

सैनापत्यं च राज्यं च दण्ड-नेतृत्वम् एव च ।

सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनः स्वत्वाभावं प्रपञ्चयति—सैनापत्यं चेति द्वाभ्याम् ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु सैनापत्यादिभिः किं फलं ब्राह्मणस्य मास्तु फलमेतैस् तस्य तदपि तस्यैव दानपात्रत्वात्स एव कृपया ग्रहीतुमर्हतीति भावः । सैनापत्यं सेनाधिपत्वं वेदैः सहितानि शास्त्राणि धर्मशास्त्रादीनि वेत्तीति वेदशास्त्रविद् ब्राह्मण एवार्हति योग्यो भवति, मूर्खस्य सर्वत्रायोग्यत्वाद् इति भावः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सैनापत्यादिभिः किं फलं ब्राह्मणस्य ? इति तत्राह—सैनेति । मास्तु फलम् एतैस् तस्य, तद् अपि तस्यैव दान-पात्रत्वात् स एव कृपया ग्रहीतुम् अर्हति इति भावः ॥४५॥


॥ ४.२२.४६ ॥

स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वस्ते परिधत्ते । अन्न-मात्रं केवलं भुञ्जते, न तु दाने स्वतन्त्राः ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साधुपदं पूर्वब्राह्मणपरम् एवेत्यभिप्रेत्याह—स्वम् इति । दाने स्वतन्त्रता नेति । ब्राह्मणाज्ञयैव सर्वं दातव्यमन्यथा दोषाय तत्स्याद् इति भावः । अत एव गोदानादौ वरणं कृत्वा गां ते ददानीति दात्रोक्ते ददस्वेति ब्राह्मणाज्ञा भवति पश्चात्सा दीयत इति संप्रदायः—

गृहीत्वा ब्राह्मणस्याज्ञां दानं तस्मै निवेदयेत् ।

तेन दातुर्दानफलमन्यथा दोषभाग्भवेत् ॥ इति संहितोक्तेः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् एवं तस्मात् स्वम् एवेत्य् आह—वस्ते परिधत्ते ॥४६॥


॥ ४.२२.४७ ॥

यैर् ईदृशी भगवतो गतिर् आत्म-वाद

एकान्ततो निगमिभिः प्रतिपादिता नः ।

तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं

को नाम तत् प्रतिकरोति विनोद-पात्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्य् अपि स्वत्वे सर्वस्वेनापि न गुरोः प्रत्युपकर्तुं शक्यम् इत्य् आह—यैर् इति । आत्म-वादेऽध्यात्म-विचारे । एकान्ततो निश्चयेन । निगमिभिर् वेद-विद्भिः । ते नित्यम् अनल्प-करुणाः स्व-कृतेनैव दीनोद्धरण-कर्मणा तुष्यन्तु । को नाम तत् कृतम् उपकारं प्रति स्वयम् उपकरोति उद-पात्रम् अञ्जलिं विना । मयाञ्जलिर् एव तेभ्यो बद्ध इत्य् अर्थः । यद् वा, विनोद-पात्रम् उपहासास्पदम् । प्रत्युपकारे प्रवृत्तौ जनानाम् उपहासास्पदं भवेद् इत्य् अर्थः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उदकं पीयते पात्राभावे\ऽनेनेत्युदपात्रम् इति निरुक्तेः । इत्य् अर्थ इति । द्रव्यमात्रस्य ब्राह्मणस्वामिकत्वेन मत्स्वत्वविशिष्टस्य वस्तुनो\ऽभावादंजलिरेवोचित इति भावः । यद्यप्येवं तथापि—

विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्नं मनसा कर्मणा वा ।

तेषां पापं भ्रूणहत्याविशिष्टं तेभ्यो नान्यः पापकर्तास्ति लोके ॥

इति महाभारतोक्तेर्हि गुरुदक्षिणाया आवश्यकत्वम् इति चेत्तत्राह—यद्वेति । इत्य् अर्थ इति । न ह्यमूल्यवस्तुनो मूल्यं दातुं शक्यते, तथात्वे\ऽमूल्यत्वहानेः काकणिकया गजक्रयणे प्रवृत्तवत्तस्योपहास एव जायत इति भावः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्य् अपि सत्त्वे सर्वस्वेनापि नैव गुरोः प्रत्युपकर्तुं शक्यम् इत्य् आह—यैर् इति । आत्म-वादेऽध्यात्म-विचारे । निगमिभिर् वेद-विद्भिः । स्व-कृतेनैव दीनोद्धरण-कर्मणा स्वाभाविकिकेन तत् प्रत्युपकरोति को नाम ? न कोऽपि । उद-पात्रम् अञ्जलिं विनेति मयाञ्जलिर् एव बद्ध इति भावः । यद् वा, विनोद-पात्रम् उपहासास्पदम्, प्रत्युपकारे प्रवृत्तो जनो जनानाम् उपहासास्पदं भवेद् इत्य् अर्थः ॥४७॥


॥ ४.२२.४८ ॥

मैत्रेय उवाच—

त आत्म-योग-पतय आदि-राजेन पूजिताः ।

शीलं तदीयं शंसन्तः खेऽभवन् मिषतां नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : खेऽभूवन् आकाश-मार्गेणोद्गताः ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते मुनयः आत्म-योगस्याध्यात्मिकयोगस्योपदेष्टृत्वेन पतयः पातारः तदीयं पृथुसम्बन्धि सुचरितम् ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खेऽभवन् आकाश-मार्गेण सत्य-लोकं गताः ॥४८॥


॥ ४.२२.४९ ॥

वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया ।

आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धुर्यो मुख्यः । अध्यात्म-शिक्षया संस्थितिर् एकाग्रता तयात्मन्य् अवस्थितः सन् मेने ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुद्ध-भक्तत्वाद्भगवद्-भक्तिं विनान्यत्र नैव सम्यगाप्तकामत्वमितीवशब्देन द्योतितम् । आप्तकामम् इव न त्वाप्तकामं शुद्ध-भक्तत्वेन भक्त्यैवाप्तनिर्वृतित्वात् । वेदविदां शास्त्रान्तरेष्विवाध्यात्मादिष्वपि पूर्वं तस्य जिज्ञासैवासीत्सा पूर्णेत्येतावन्मात्रमिवकारेणासूचीति । आत्मनि स्वभाव एवावस्थितः आध्यात्मशिक्षयापि शुद्ध-भक्तिस्वभावस् तस्य नापगत इति भावः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यात्म-शिक्षया या सम्यक् स्थितिर् मर्यादा तया आप्त-कामम् इव, न त्व् आप्त-कामं, तस्य शुद्ध-भक्तत्वात् केवलया भक्त्यैवाप्त-निर्वृतित्वात् , वेद-विदां शास्त्रान्तरेष्व् इवाध्यात्मादिष्व् अपि तस्य पूर्वं जिज्ञासैवासीत्, सा पूर्णेत्य् एतावन्-मात्रम् इव-कारेण द्योतितम् । आत्मनि स्वभाव एवावस्थितः, अध्यात्म-शिक्षयापि शुद्ध-भक्ति-स्वभावस् तस्य नापगत इति भावः ॥४९॥


॥ ४.२२.५० ॥

कर्माणि च यथा-कालं यथा-देशं यथा-बलम् ।

यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-सात्-कृतं ब्रह्मण्य् अर्पितं यथा भवति तथा ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्माणि चेति युग्मकम् । चकारेण शुद्धक्तानां कर्मानधिकृतत्वे\ऽपि गृहस्थानां लोकसङ्ग्रहार्थं वा वर्णाश्रममर्यादालोपाभावार्थं वा भक्तिमार्गाकुत्सनार्थं वा रहस्यायाः शुद्ध-भक्तेर्गोपनार्थं वा स्वयं वा प्रतिमूर्त्या वा पूर्वाचारतो\ऽनासक्त्या किञ्चित्कर्मकरणं न दूषणावहमित्यपि सांप्रदायिका आहुः । किञ्च—तेषां कर्मणि श्रद्धाराहित्यादश्रद्धया कृतमकृतम् एवालम् इति शुद्ध-भक्तेर्न क्षतिः । यथाकालयथादेशयथाबलशब्दैः कालदेशपात्रानुसारेणैव करणान्न सामस्त्येन कर्मकरणं तत्रापि यथोचितमित्यनेन शुद्ध-भक्तानां कर्मानौचित्याल्लोकप्रदर्शनायैव कर्मकरणाद्वस्तुतः कर्माकरणम् एवायातम् । ब्रह्मसात्कृतं ब्राह्मणसाद्व्यापारं यथा स्यात्तथाकरोद् इति तस्य कर्मव्यापारान्ब्राह्मणा एव चक्रुर् इति तस्य कर्मविक्षेपाभाव उक्तः—

पाणिग्रहणवर्जं हि सर्वं विप्रेण कारयेत् ।

विप्रैः संपादितं कर्म भवेत्कारयितुर्ध्रुवम् ॥ इति स्मृतेः ।

सन्दर्भस्तु—चकाराद् अत्रापीवशब्दः संबध्यते । ब्रह्मसात्कृतं यथा स्यात्तथाकरोदिवेत्य् अर्थः । ब्रह्मसात्कृतं भगवत्यर्पितं यथा भवेत् तथेति ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्माणि चेति । च-कारेण शुद्ध-भक्तानां कर्मानधिकृतत्वेऽपि, गृहस्थानां लोक-सङ्ग्रहार्थं वा वर्णाश्रम-मर्यादा-लोपाभावार्थं वा भक्ति-मार्गाकुत्सनार्थं वा रहस्यायाः शुद्धाया भक्तेर् गोपनार्थं वा स्वयं वा प्रतिमूर्त्या वा पूर्वाचारतोऽनासक्त्या किञ्चित् कर्म-करणं न दूषणावहम् इत्य् आद्य् अपि साम्प्रदायिका आहुः ।

किं च, तेषां कर्मणि श्रद्धा-राहित्याद् अश्रद्धया कृतम् अकृतम् एवालम् इति शुद्ध-भक्तिर् न क्षतिः, यथा-काल-यथा-देश-यथा-बल-शब्दैः काल-देश-पात्रानुसारेणैव करणान् न सामस्त्येन कर्म-करणम् । तत्रापि यथोचितम् इत्य् अनेन शुद्ध-भक्तानां कर्मानौचित्याल् लोक-प्रदर्शनयैव कर्म-करणाद् वस्तुतः कर्माकरणम् एवायातम् । ब्रह्म-सात्कृतं ब्राह्मण-साद्-व्यापारं यथा स्यात् तथा करोद् इति तस्य कर्म-व्यापारान् ब्राह्मणा एव चक्रुर् इति तस्य कर्म-विक्षेपाभाव उक्तः ॥५०॥


॥ ४.२२.५१-५२ ॥

फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः ।

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥

गृहेषु वर्तमानोऽपि स साम्राज्य-श्रियान्वितः ।

नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्विषङ्गः कर्मस्व् अनासक्तः कर्माध्यक्षं कर्म-साक्षिणम् उदासीनं मन्वानोऽकरोद् इति पूर्वेणैवान्वयः । नासज् जतेत्य् उत्तरेण वा ॥५१-५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्मणामध्यक्षं साक्षिणम् ॥ गृहेष्व् इति सार्द्धमेकं वाक्यं नासज्जतेत्यनेनैव संबन्धात् । एवमित्यर्द्धस्यान्तरेण संबन्धो न युज्यते विजिताश्वस्य प्राक्तनत्वात् । यद्यपि पूर्वं स्वस्योत्तमश्लोकमहन्मुखच्युतः इत्यादौ तल्लीलाश्रवणानुषङ्गेणैव सर्वज्ञानसंपत्तिर्दर्शिता, यद्यपि च यथाचरेद्बालहितं पिता इत्यादौ तदत्तभारेण भगवतापि इत्य्-आदिराजेन इत्यादौ तद् एव दृढीकृतं तथा यद्यपि च यत्पादपङ्कजपलाशविलासभक्त्या इत्यादौ कुमारैर् अपि तद् एवानुमतं तथाप्याध्यात्म-योगविधानमिदमुपाधिमात्रपरित्यागार्थं प्रयुज्य भक्तिश् च यथापूर्वं निष्कामैव रक्षितेत्यग्रे\ऽपि ज्ञेयम् । फलेन तत्कारणानुमानात् । अन्ते हि वैकुण्ठगमनम् एव लक्ष्यते तच् च भक्तस्यैव स्यात् यद्वै व्रजन्त्यनिमिषामृषभानुवृत्त्या इत्यादेः । तद् एवं श्रीभगवद्-अभिमतिः श्रीगुर्वाज्ञया स्वाभिमतिश् च रक्षितेति सन्दर्भः ॥५१-५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्विषङ्गोऽनासक्तः । आत्मानम् अन्तर्यामिणम् ॥५१-५२॥


॥ ४.२२.५३ ॥

एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् ।

पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान् ।

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्चिषि भार्यायाम् ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यात्म-योगेन विनैवासक्त्या कर्माणि कुर्वन् । यद् वा, अध्यात्मेति सप्तम्य्-अर्थेऽव्ययीभावः । आत्मनि स्वतः-सिद्धो यो योग आसक्ति-विनाभूत-विषय-भोग-लक्षणः सिद्धिर् विशेषस् तेनैव पुत्रान् उत्पादयामास । न तु पुत्रोत्पादन-हेतुकः वेगस् तस्य स्त्री-विषयकः कोऽपि काम-विकारोऽस्तीत्य् अर्थः ॥५३॥


॥ ४.२२.५४ ॥

सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान् ।

गोपीथाय जगत्-सृष्टेः काले स्वे स्वेऽच्युतात्मकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्यात्म-योगेन विनैवासक्त्या कर्माणि कुर्वन् । यद्वाध्यात्मेति सप्तम्यर्थे\ऽव्ययीभावः । आत्मनि स्वतः सिद्धो यो योग आसक्तिविनाभूतविषययोगलक्षणः सिद्धिविशेषस्तेनैव पुत्रानुत्पादयामास न तु पुत्रोत्पादनहेतुकः स्त्रीविषयकः को\ऽपि तस्य कामविकारोस्तीत्य् अर्थः । यथा पूर्वं बन्दिभिरेष संस्तुतस्तथैव सर्वदाभूद् इति दर्शयन्नाह—सर्वेषाम् इति । सर्वेषामिन्द्रादीनां गुणान्वर्षणादीन् ॥५३-५४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा पूर्वं वन्दिभिः संस्तुतस् तथैवासौ सर्व-दाभूद् इति दर्शयन्न् आह—सर्वेषाम् इति गोपीथाय पालनाय ॥५४॥


॥ ४.२२.५५ ॥

मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः ।

राजेत्य् अधान् नामधेयं सोम-राज इवापरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपीथो\ऽवनदुर्गयोः इति कोषः ॥५५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोमश् चासौ राजा चेति । स इव ॥५५॥


॥ ४.२२.५६ ॥

सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु ।

दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सोमश् चासौ राजा च स इव । भूवो वसु धनं गृह्णन् विसृजंश् चासौ सूर्यवत् । राज्ञः प्रतपनम् आज्ञा-करणम् ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसु रत्नं जलं रश्मिर्वसुर्देवो विभावसुः इति कोशः ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसु धनं रसं च ॥५६॥


॥ ४.२२.५७ ॥

तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम् ।

वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्निर् इव दुर्धर्षः । द्यौः स्वर्ग इव ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्द्धर्षो\ऽभिभवितुमशक्यः । स्वर्गो यथाभीष्टं ददाति तथेत्य् अर्थः ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्यौः स्वर्ग इव ॥५७॥


॥ ४.२२.५८ ॥

समुद्र इव दुर्बोधः सत्त्वेनाचल-राड् इव ।

धर्म-राड् इव शिक्षायाम् आश्चर्ये हिमवान् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्रो यथा गाम्भीर्येणैतावान् इति न बुद्ध्यते तथासाव् अभिप्रायतो दुर्बोधः । अचलराट् मेरुर् इव ॥५८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर्जन्य इव मेघवत्कामैस्तर्पयन्यथा वर्षति सस्यं पूरयति । यद्वा—यथाश् च ते कामाश्चेति तथा तैः शब्दनिर्देशपक्षे यथाशब्दो विभक्त्यन्तो\ऽपि स्याद् इति ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वेन स्थैर्येण अचल-राट् सुमेरुः ॥५८॥


॥ ४.२२.५९ ॥

कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ।

मातरिश्वेव सर्वात्मा बलेन महसौजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आश्चर्ये\ऽद्भुते\ऽलौकिकवस्तुदर्शने इति यावत्, कोशाढ्यो धनौघपतिः । गुप्तो\ऽर्थो यस्य स तथा । जलान्तर्गतस्य दर्शनायोगात् ॥५९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वात्मा सर्वत्र सञ्चार-शक्तिः ॥५९॥


॥ ४.२२.६० ॥

अविषह्यतया देवो भगवान् भूत-राड् इव ।

कन्दर्प इव सौन्दर्ये मनस्वी मृग-राड् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वात्मा सर्वत्र सञ्चार-शक्तिः । बलादिभिर् मातरिश्वेव । भूत-राट् श्री-रुद्रः ॥६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलादिशब्दा देहेन्द्रियमनोबलवाचकाः क्रमात् । अविषह्यतया युद्धादौ सोढुमशक्यतया ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२२.६१ ॥

वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः ।

बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अजो ब्रह्म् एव ॥६१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कं न स्वावेशेन दर्पयति हर्षयतीति कन्दर्पः कामः दृप् हर्षगर्वयोः । मनस्वी स्वाधिकप्रहर्ता मनस्वी स्थिरचित्ते नोदारे स्वाधिकहर्तरि इति निरुक्तिः । वात्सल्ये प्रीतिकरणे वात्सल्यं गोसमूहे\ऽपि स्नेहे च धेनुदुग्धयोः इति च । मनुः स्वायंभुवः मन्त्रो वा, मन्त्रो\ऽपि यथा जपतां नृणां वात्सल्यं करोतीत्य् अर्थः । प्रभुत्वे आज्ञादाने ब्रह्मण आज्ञां यथा सर्वे गृहन्ति तथा तस्यापीति । अजशब्देन वेदो\ऽपि ग्राह्यस्तस्यापि वेदो नारायणः साक्षात्स्वयंभूर् इति शुश्रुम इत्य् उक्तेः । स्वयंभूत्वेनाजत्वमस्तीति ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अजो ब्रह्मा । आत्मवत्त्वे जितेन्द्रियत्वे ॥६१॥


॥ ४.२२.६२ ॥

भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु ।

ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गुरु-विप्रेषु भक्ता च परेषां हित-कृत्यया ।

प्रश्रयेण च कीर्त्या च पृथु-रामम् अनुव्रतः ॥ इति ब्रह्माण्डे ॥६२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मवत्त्वे जितेन्द्रियत्वे । भक्त्य्-आदिभिः परार्थोद्यमे चात्मनैव तुल्यो निरुपमः ॥६२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मवादे वेदोच्चारणे वेदविचारे वा स्वयं हरिः श्री-कृष्णः जितेन्द्रियत्वं श्री-कृष्णस्य जैमिनीये नागहृतार्जुनशिरानयने तापनीये च गोपीयमुनोल्लङ्घने प्रतिपादितमस्ति ॥६२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्त्य्-आदिभिः परार्थोद्यमेन च आत्मनैव तुल्यो विरुपमः ॥६२॥


॥ ४.२२.६३ ॥

कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह ।

प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

न गुरुर् न च धर्मोऽस्ति राम-देवस्य कुत्रचित् ।

तथापि धर्म-रक्षार्थो गुरु-भक्तिम् अदर्शयत् ॥ इति वाराहे ॥६३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पुम्भिः सत्-पुरुषैः । रामः सीता-पतिर् यथा सतां कर्ण-रन्ध्रेषु प्रविष्टः ॥६३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्त्रीणां सत्स्त्रीभिश्चानसूयादिभिरूर्द्ध्वं गीतया सर्वोर्ध्वत्वेन गीतयेत्य् अर्थः ॥६३॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे द्वाविंशो\ऽध्यायः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र चतुर्थे सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

पृथु-चरिते कुमारोपदेशो नाम द्वाविंशोऽध्यायः ।

॥ ४.२२ ॥


(४.२३)


  1. क्षेमो भगवत्-प्राप्ति-लक्षणः (रा।ते।) ↩︎

  2. प्रवृत्ति-लक्षणं धर्मं पश्यामि परमं नृप ।

    मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ॥ [म।भा। १२.२९०.७९] ↩︎