एकविंशोऽध्यायः
विषयः
स्वकीय-प्रजा-परिषदि महाराज-पृथु-कृत-भगवद्-धर्मोपदेशः ।
॥ ४.२१.१ ॥
मैत्रेय उवाच
मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः ।
महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एक-विंशे तु पृथुना प्रजानाम् अनुशासनम् ।
महा-सत्रे सुरादीनां महा-सदसि वर्ण्यते ॥
पुरं ययाव् इत्य् उक्तं तत् पुरम् अनुवर्णयति—मौक्तिकैर् इति त्रिभिः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मौक्तिकैर् इति त्रिकम् ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एक-विंशे महा-सत्रे सर्व-सौन्दर्य-मण्डितः ।
प्रश्रयाब्धिः पृथुर् भक्तिं स्व-प्रजाः समशिक्षयत् ॥
पुरं ययाव् इत्य् उक्तं तत् पुरम् अनुवर्णयति—मौक्तिकैर् इति त्रिभिः ॥१॥
॥ ४.२१.२ ॥
चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् ।
पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चन्दनागुरु-युक्तैस् तोयैर् आर्द्रा रथ्यादयस् तद् युक्तम् । तोक्मैर् हरित-यवैर् अङ्कुरैर् इति वा । अर्चिभिर् दीपैः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तोक्मैर् इत्य् अत्र स्तोमैर् इति चित्सुखः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मौक्तिकादिभिर् यत् यत् पुरं मण्डितं तत्र तत्र ययाव् इति पूर्वेणैवान्वयः । तोक्मैर् हरित-यवैः अर्चित-दीपैः ॥२॥
॥ ४.२१.३ ॥
सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् ।
तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-वृन्दैः पुष्प-फल-युक्तैः कदली-स्तम्भैः पूगैर् वृक्षैस् तथाविधैः सर्वतः समलङ्कृतं शोभितम् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सवृन्तैः फल-पुष्प-वृन्त-सहितैः पूग-पोतैर् नूतन-गुवाक-वृक्षैः ॥३॥
॥ ४.२१.४ ॥
प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः ।
अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संभृतान्य् अशेषाणि मङ्गलानि दध्यादीनि तैः सहाभिजग्मुः । मृष्टा उज्ज्वलाः कन्याश् च ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महासत्रे दीर्घयज्ञे । तं पृथुम् ॥१-४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्मञ्छनार्थं दीप-बलिभिः सम्पूर्णाशेष-मङ्गलैर् दध्य्-आदिभिः सहिताः । मृष्ट-कन्याः मार्जित-पात्राः कुमारिकाः । मृष्ट-कुण्डलेति तद्-उपलक्षितोज्ज्वल-वस्त्रालङ्कार-युक्ताः ॥४॥
॥ ४.२१.५ ॥
शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् ।
विवेश भवनं वीरः स्तूयमानो गत-स्मयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गत-स्मयो निरहङ्कारः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरहङ्कारस्तादृशमसाधारणमैश्वर्यं स्वस्य वीक्ष्यापि गतगर्वः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गत-स्मयः स्वस्य तादृशम् असाधारणम् ऐश्वर्यं वीक्ष्यापि विगत-गर्व इत्य् अर्थः ॥५॥
॥ ४.२१.६ ॥
पूजितः पूजयाम् आस तत्र तत्र महा-यशाः ।
पौराऽ जानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियान् वरान् प्रददातीति तथा ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूजितः स्वर्णमुद्रानर्ध्य̍नववस्त्राद्युपायनप्रदानेनेत्य् अर्थः । पूजयामास स उष्णीषकंचुकनेपालकंबलादिप्रतिदानेनेत्य् अर्थः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूजितः पौरादिभिः स्वर्ण-मुद्रानर्घ्य-नव्य-वस्त्राद्य्-उपायनार्पणेनेत्य् अर्थः । पूजयामास स उत्तीर्ण-कञ्चुकोष्णीषादि-प्रतिदानेनेत्य् अर्थः ॥६॥
॥ ४.२१.७ ॥
स एवम्-आदीन्य् अनवद्य-चेष्टितः
कर्माणि भूयांसि महान् महत्तमः ।
कुर्वन् शशासावनि-मण्डलं यशः
स्फीतं निधायारुरुहे परं पदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणैर् महान् अत एव महत्तमः पूज्यतमः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव गुणैर्महत्त्वाद् एव ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महान् महत्तम इति उत्तम-मध्यम-कनिष्ठतया त्रिविधेषु महत्तमेषु मध्ये उत्तमो महत्तम इत्य् अर्थः ॥७॥
॥ ४.२१.८ ॥
सूत उवाच—
तद् आदि-राजस्य यशो विजृम्भितं
गुणैर् अशेषैर् गुणवत्-सभाजितम् ।
क्षत्ता महा-भागवतः सदस्पते
कौषारविं प्राह गृणन्तम् अर्चयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणैर् विजृम्भितम् ऊर्जितं गुणवद्भिः सभाजितं सत्-कृतं यशो गृणन्तम् अर्चयन् प्राह । सदसः पते शौनक ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सदसः सभायाः पते सभापतित्वेन पूज्यत्वात्त्वामहमिदं वर्णये । किञ्चेदम् एव सदस्पतेः शोभनम् इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणवद्भिः सभाजितं सत्कृतं यशो गृणन्तम् । हे सदस्पते शौनक ॥८॥
॥ ४.२१.९ ॥
विदुर उवाच—
सोऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः ।
बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लब्धान्य् अशेष-सुराणाम् अर्हणानि येन सः । किम् अकरोद् इति शेषः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैष्णवं तेजः सुदर्शनं त्वं तेजः पौरुषं परम् इत्यंबरीषोक्तेः । विष्णुः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् इत्य् अभिषेकोत्तरमुपायनाख्यानोक्तेः । कदाचिद्वामकरे\ऽपि तद्धारणाद्वाह्वोर् इति द्विवचनम् । अन्यथा बाहावित्य् एवं कथं नावादीति मनीषिभिरेतेन कल्पनान्तरनिवृत्तिरप्यसूचि ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बिभ्रच् च वैष्णवम् इति । गौणपाठः स इत्य् अत्र तु पौनरुक्त्यं लक्ष्यते ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाह्वोर् बिभ्रद् अभूत् ॥९॥
॥ ४.२१.१० ॥
को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो
यद्-विक्रमोच्छिष्टम् अशेष-भूपाः ।
लोकाः स-पाला उपजीवन्ति कामम्
अद्यापि तन् मे वद कर्म शुद्धम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रवणौत्सुक्यम् आविष्कुर्वन् प्रार्थयते—को न्व् इति । यस्य विक्रमः पृथ्वी-दोहनं तस्योच्छिष्ट-तुल्यं कामम् । तत् तस्य कर्म वद ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वकामानां पृथ्वीदुग्धत्वात्पृथ्वीदोहनस्य तद्विक्रमकृतत्वाद् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् विक्रमेति । येन विक्रम्य उपात्तं तद् उच्छिष्टम् एवेत्य् अर्थः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य विक्रमेण उच्छिष्टम् इति सर्वेषां कामानां पृथ्वी-दुग्धत्वात् पृथ्वी-दोहनस्य यद् विक्रम-कृतत्वाद् इत्य् अर्थः ॥१०॥
॥ ४.२१.११ ॥
मैत्रेय उवाच—
गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् ।
आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राचीन-कर्मभिः प्रारब्धान् एव बुभुजे, नतु भोगान्तरार्थं कर्माणि करोति, तद् अपि भोगेन पुण्य-क्षपणेच्छया, नतु सुखासक्त्येत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । वस्तुतस् तु प्रारब्धभोगादिकं लोकदृष्ट्यैव, तस्य भगवतारत्वान्न प्रारब्धभोगादीति भावः । अन्तरा क्षेत्रं मध्यवर्तिदेशम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आरब्धान् एवेति मत्वेति शेषः । यद्यपि भगवद्-अवतारत्वेन भक्तत्वेन च न तस्य प्रारब्धं कर्म, तथापि भक्ति-भूम्नातिदैन्येन प्राकृत-जीव एवाहं सुख-दुःखाभ्याम् पुण्य-पापे जिहासामीति तद्-अभिमानो ज्ञेयः ॥११॥
॥ ४.२१.१२ ॥
सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।
अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्खलितोऽप्रतिहत आदेश आज्ञा यस्य । सप्तसु द्वीपेष्व् एक एव दण्डं धारयतीति तथा । किं सर्वत्र, नेत्य् आह । ब्राह्मण-कुल-व्यतिर् एकेण । अच्युतो गोत्र-प्रवर्तक-तुल्यो येषां वैष्णवानां तद् व्यतिर् एकेण च ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैष्णवानां वर्णाश्रमाभावो ध्वनित इति चक्रवर्ती । ग्रन्थान्तरे तु—
स्त्रीणां स्यात्पतिगोत्रत्वं पाणिग्रहणतो यथा ।
नृणामच्युत गोत्रत्वमच्युताश्रयणात्तथा ॥
सन्त्यज्य विधिवत्सर्वं पुत्रदारगृहादिकम् ।
आत्मानं यद्भजेद्विष्णुमच्युताश्रयणं हि तत् ॥ इति वैष्णवात् ।
विधिवद् इत्य् उक्तेः संन्यासो लक्ष्यते । यद्वा—विधिवच्छास्त्रविहिताचार्ययथाधिकारमन्त्रग्रहणविधिनेत्य् अर्थः । न तु जात्यादिव्युत्क्रमणेन मन्त्रग्रहणादि कार्यम् इति भावः । अस्खलिताज्ञः । यत्तु चक्रवर्तिना वैष्णवानां वर्णाश्रमाभावो ध्वनितस्तन्नारदसनकादिषु विप्रद्विजोत्तमादिशब्दप्रयोगस्य स्वागतं भो द्विजश्रेष्ठाः, यस्य विप्राः प्रसीदन्ति इत्य्-आदिपृथूक्तेः । किञ्चार्जुनादिमहाभागवतेषु क्षत्त्रियबाहुजादिप्रयोगदर्शनाच् च तथा नैष्ठिकाः सनकादयः, तथा वव्रे, बृहद्व्रतं मां तु इति नारदोक्तेः । कर्मभिर्गृहमेधीयैः इत्य्-आदियुधिष्ठिराद्युक्तेश् च वर्णाश्रमाभिमानश्रवणादवैष्णवत्वप्रसक्तेश्चित्यम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युत एव गोत्रं प्रवर्तक-तुल्यो येषां तेभ्यश् चेति वैष्णवाणां वर्णाश्रमाभावो व्यञ्जितः । अन्यत्रेति ब्राह्मणानां शास्त्वत्वे तत्-तद्-वेदाचार्यम् एव वैष्णवानां तु तत्-तन्-मन्त्र-गुरुम् एव शान्त्वत्वे व्यवस्थाप्येत्य् अर्थः । पुत्रांश् च शिष्यांश् नृपो गुरुर् वा
मल्-लोक-कामो मद्-अनुग्रहार्थः । इत्थं विमन्युर् अनुशिष्यात् [भा।पु। ५.५.१५] इति ऋषभोक्तेः ॥१२॥
॥ ४.२१.१३ ॥
एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् ।
समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकदा तस्य महा-सत्र-दीक्षा आसीत् तत्र सत्रे देवादीनां समाज आसीद् इत्य् अर्थः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्तमेति । यथा त्वं सत्समाजमीहसे तथा पृथुरप्यासीद् इति भावः । यज्ञे वेषे सदादाने सत्रमाच्छादने नवे इति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकदा तस्य महा-सत्र-दीक्षा आसीत्, तत्र सत्रे देवानां समाज आसीत् ॥१३॥
॥ ४.२१.१४ ॥
तस्मिन्न् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।
उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन् पूज्येष्व् अर्चितेषु सत्सु सदसो मध्ये उत्थितः सन् समन्ततः समैक्षतेति षष्ठेनान्वयः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्सत्रे, अर्हत्सु पूज्येषु अर्हन्तौ जिनसंमान्यौ इति यादवः । उडुराट् चन्द्रः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मिन्न् इति सार्ध-षट्कम् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्हत्सु पूज्येषु ऋष्य्-आदिषु किञ्चिद् विज्ञापनार्थम् उत्थितः सन् समैक्षतेति षष्ठेनान्वयः ॥१४॥
॥ ४.२१.१५ ॥
प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः ।
सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रांशुर् उन्नतः । पीनाव् आयतौ भुजौ यस्य, कञ्ज-वद-रुणे ईक्षणे यस्य, शोभना द्विजाः स्मितं च यस्य ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सामुद्रिकोक्तमहाराजलक्षणवत्त्वेन पृथुं वर्णयति—प्रांशुर् इति । पीनौ पीवरौ । आयतौ लंबौ । द्विजा दन्ताः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रांशुर् उन्नतः ॥१५॥
॥ ४.२१.१६ ॥
व्यूढ-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः ।
आवर्त-नाभिर् ओजस्वी काञ्चनोरुर् उदग्र-पात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यूढं विस्तीर्णं वक्षो यस्य, वलिभिस् तिसृभिर् वल्गु सुन्दरं दलवद् अधोऽग्रम् अश्वत्थ-पत्रम् इव उपरि विस्तृतम् अधस्तात् सङ्कुचितम् उदरं यस्य, आवर्तवन् निम्ना नाभिर् यस्य, काञ्चन-वद्-उज्ज्वलाव् ऊरू यस्य, उदग्राव् उन्नताग्रौ पादौ यस्य ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बृहन्तौ श्रोणीनितम्बौ यस्य स बृहच्छ्रोणिः । अधोग्रमधस्तात्कृताग्रभागं पिप्पलपत्रं यथा तथोदरं यस्य ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : काञ्चनोरुर् इति काञ्चन-स्तम्भोरुर् इत्य् अर्थः । उदग्र-वाग् इति चित्सुखः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यूढं विस्तीर्णं वक्षो यस्य सः । वलिभिस् तिसृभिर् वल्गु सुन्दरं दल-वद् अधोऽग्रम् अश्वत्थ-पत्रम् इवोपरि विस्तृतम् अधस्तात् सङ्कुचितम् उदरं यस्य, दक्षिणावर्तवन् निम्ना नाभिर् यस्य सः । काञ्चन-स्तम्भाव् इवोरू यस्य, उन्नताग्रौ पादौ यस्य सः ॥१६॥
॥ ४.२१.१७ ॥
सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः ।
महा-धने दुकूलाग्र्ये परिधायोपवीय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूक्ष्माश् च ते वक्राश् चासिताश् च स्निग्धाश् च मूर्धजा यस्य, कम्बु-वन् त्रिर् एखाङ्किता कन्धरा यस्य । परिधाय वसित्वा । उपवीयोत्तरीयं कृत्वा ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मूर्द्धजाः केशाः । कंबु शङ्खः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परिवीयोपवीय चेति सम्बन्धोक्तिः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपवीयोत्तरीयं कृत्वा ॥१७॥
॥ ४.२१.१८ ॥
व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः ।
कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नियमे निमित्ते न्यस्तानि त्यक्तानि भूषणानि येन सः । अत एव तैर् अनावृतत्वाद् व्यञ्जिताशेष-गात्रेषु श्रीः स्वाभाविकी शोभा येन । कृतान्य् उचितानि कर्माणि येन ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव न्यस्ताभरणत्वाद् एव । तैर्भूषणैः । उचितान्यावश्यकानि सन्ध्यावन्दनादीनि ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ ४.२१.१९ ॥
शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः ।
ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शिशिरे सन्तापहरे स्निग्धे च तारे ययोः, ते अक्षिणी यस्य, इदं वक्ष्यमाणं वाक्यम् उक्तवांश् च ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तारे कनीनिके ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ ४.२१.२० ॥
चारु चित्र-पदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् ।
सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चारु श्रोत्र-प्रियम्, चित्राणि पदानि यस्मिन्, श्लक्ष्णं प्रशस्तम्, मृष्टं शुद्धम्, गूढं गम्भीरार्थम्, अविक्लवम् अव्याकुलम् । उत्प्रेक्षते स्वयम् अनुभूतम् अनुवदन्न् इव ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चित्राणि सालङ्काराणि, प्रशस्तं मधुराक्षरम् । अव्याकुलं झटित्यर्थबोधकम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चारु-चित्रेति । स्वर-वर्णेच्चार-विशेषेण चारु श्रोत्र-प्रियम् । अनुप्रासादिना चित्र-पदम् । अश्लील-निरासेन स-विनयेनैव सर्व-हिताभिरुचिरार्थोपदेशेन श्लक्ष्णं प्रशस्तं व्याकरणानुगमेन मृष्टं शुद्धम् । सुविचार-लभ्य-तात्पर्यत्वेन गूढं गम्भीरार्थम् । अतित्वराद्य्-अभावेन पूर्व-पराविरोधेन च अविक्लवम् अव्याकुलम् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चारु मनोहरत्वात् सरसम् । चित्र-पदं सालङ्कारं श्लक्ष्णं मधुराक्षरं मृष्टं निर्दोषम् । गूढं स-व्यङ्गम् । अविक्लवम् झटित्य्-अर्थ-बोधकम् ॥२०॥
॥ ४.२१.२१ ॥
राजोवाच—
सभ्याः शृणुत भद्रं वः साधवो य इहागताः ।
सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भाषणे हेतुः, धर्मं जिज्ञासुभिः पुम्भिः सत्सु स्व-मनीषितम् आवेद्यं वक्तव्यम् । अतः प्रजानुशासन-मिषेण जिज्ञासैव क्रियते न युष्मान्प्रति धर्म-प्रवचनम् इति भावः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साधवो य इति । अन्यैरत्रागतैर् अपि मे प्रयोजनं नास्तीति भावः । न च नृपत्वादहं युष्मान् किम् अप्यादिशामि शास्मि वा, किं तु किम् अपि जिज्ञासुरहं युष्माभिरे व शासनीय आदेष्टव्यश्चेत्याह—सत्सु साधुषु भाग्यतः प्राप्तेषु सत्सु धर्मं जिज्ञासुभिः स्वमनीषितं स्वविचारितमावेद्यं ज्ञापयितुमर्हम् एव स्वेषु प्रामाण्याभावाद् इति भावः । स्वामिव्याख्याने अतः स्वमनीषितस्यावेद्यत्वात् । इति भाव इति । मया जिज्ञासयैवोच्यते न तूपदिश्यत इति तात्पर्यम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधवो य इत्य् अन्यैर् अत्रागतैर् अपि मम न प्रयोजनम् इति भावः । न च नृपत्वाद् अहं युष्मान् किम् अप्य् आदिशामि शास्मि वा । किन्तु किम् अपि जिज्ञासुर् अहं युष्माभिर् एव शासनीय आदेष्टव्यश् चेत्य् आह—सत्सु साधुषु भाग्यतः प्राप्तेषु सत्सु धर्मं जिज्ञासुभिः पुम्भिः स्व-मनीषितं स्व-विचारितम् आवेद्यं ज्ञापयितुम् अर्हम् एव स्वेषु प्रामाण्याभावाद् इति भावः ॥२१॥
॥ ४.२१.२२ ॥
अहं दण्ड-धरो राजा प्रजानाम् इह योजितः ।
रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं प्रजाः शिक्षियिष्यन् प्रजा-शिक्षणादिकं, ममावश्यकम् इत्य् आह—अहम् इति त्रिभिः । पृथक् सेतुषु स्थापिता स्थापयिता ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न च त्वं राजास्माकमाराधनीय इति वाच्यं प्रत्युत युष्माकम् एव वृत्त्यादिसाधनलक्षणे आराधने परमेश्वरेणाहं प्रवर्तित इत्य् आह—धात्रा परमेश्वरेण नियोजितः । कुत्र कुत्र कर्मणीति तत्राह—दण्डधर इति । विकर्मरोगोपशमनौषध-रूपे दण्डधर इत्य् अर्थः । रक्षितेति । दस्युचौरादिभ्यो रक्षणे । वृत्तिद इति । जीविकाप्रदाने स्वेषु सेतुषु पृथक् पृथक् स्थापियितेति । प्रतिस्ववर्णाश्रमादिधर्ममर्यादायाः स्थापने इति । युष्माकं बहुविधपरिचरणभावो मन्मूर्ध्नि न्यस्तो वर्तत इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च त्वं राजा अस्माकम् आराधनीय इति वाच्यं, प्रत्युत युष्माकम् एव वृत्त्य्-आदि-साधन-लक्षणे आराधने परमेश्वरेणाहं प्रवर्तित इत्य् आह—अहम् इत् । धात्रा परमेश्वरेण नियोजितः कुत्र कुत्र कर्मणीत्य् अत आह—दण्ड-धर इति । विकर्म-रोगोपशमनौषध-रूपे दण्ड-धर इत्य् अर्थः । रक्षितेति दस्यु-चौरादिभ्यो रक्षणे, वृत्तिद इति जीविका-प्रदाने । स्वेषु सेतुषु पृथक् पृथक् स्थापयितेति प्रति स्व-वर्णाश्रमादि-धर्म-मर्यादायाः स्थापने इति युष्माकं बहु-विध-परिचरण-भारो मन्-मूर्ध्नि न्यस्तो वर्तत इति भावः ॥२२॥
॥ ४.२१.२३ ॥
तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः ।
लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिष्ट-दृक् प्राक्-कर्म-साक्षीश्वरो यस्य तुष्यति तस्य वेद-वादिनो यान् लोकान् आहुः प्रजा-रक्षणाद्य्-अनुष्ठानात् ते लोका मे स्युः । कथं-भूताः ? कामानां सम्यक् दोहः प्रपूरणं येषु ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्याहं प्रतिमासिकं प्रतिवार्षिकं वेतनम् अपि प्राप्नोमीत्य् आह—तस्य मम तत्तत्स्वकर्मानुष्ठानात् यान् लोकान् प्राप्यान्ब्रह्मवादिन आहुस्ते स्युरित्यन्वयः । लोकाः पारत्रिका मदिच्छानुरूपाः । मदभिलषितानां सम्यग्दोहः प्रपूरणं यत्र । यस्य ममेति दिष्टदृक् सर्व-धर्मसाक्षी मत्प्रभुः । यदुक्तं तेनैव श्रेयः प्रजापालनम् एव राज्ञः इत्य्-आदि ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्येति । कामि-नृपाणम् अपि तादृश-भगवद्-आदेश-प्रवर्तनार्थम् एवोक्तं, न तु स्वार्थम् । वास्तवार्थे तु लोका भक्त-जनाः दिष्ट-दिग् इति सम्बन्धः, दिष्टं दिशतीति ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याहं प्रतिमासिकं प्रतिवार्षिकं वेतनम् अपि प्राप्नोमीत्य् आह—तस्य मम तत्-तत्-स्व-कर्मानुष्ठानात् यान् लोकान् प्राप्यान् ब्रह्म-वादिन आहुस् ते स्युर् इत्य् अन्वयः । लोकाः पारत्रिकाः मद्-इच्छानुरूपाः कामानां मद्-अभिलषितानां सम्यग्-दोहः प्रपूरणं यत्र, यस्य ममेति दिष्ट-दृक् सर्व-धर्म-साक्षी मत्-प्रभुः । यद् उक्तं तेनैव—श्रेयः प्रजा-पालनम् एव इत्य्-आदि ॥२३॥
॥ ४.२१.२४ ॥
य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् ।
प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यथा त्व् अनिष्टं स्याद् इत्य् आह—य इति । शमलं पापम् । भगम् ऐश्वर्यम् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च मम सर्वकृत्येषु धर्मप्रवर्त्तनम् एव मुख्यं नित्यं चेत्याह । अन्यथा तु—धर्मप्रवर्तनाद्य्-अभावे ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, मम कृत्येषु मध्ये धर्म-प्रवर्तनम् एव मुख्यं नित्यं च यद्-अभावे ममाप्य् अनिष्टं स्याद् इत्य् आह—य इति । भगम् ऐश्वर्यम् ॥२४॥
॥ ४.२१.२५ ॥
तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः ।
कुरुताधोक्षज-धियस् तर्हि मेऽनुग्रहः कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माद् धे प्रजाः, भर्तुर् मम पिण्डार्थं पिण्ड-दान-वत्-पर-लोक-हितार्थं स्व-कार्यम् एव कुरुत स्व-धर्मम् एवानुतिष्ठत् । अधोक्षजे धीर्येषां तादृशाः सन्तः । वासुदेवार्पण-दृष्ट्येत्य् अर्थः । अनुग्रहः कृतो भवेद् इति शेषः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वेषाम् एवार्थं कार्यं कर्त्तव्यत्वेन विहितं कुरुत युष्माभिः स्वकृत्य एव कृते सति मम कृतार्थता भविष्यतीति नात्र मदर्थे पृथक् को\ऽपि भावो भवताम् इति भावः । स्वार्थम् एव वदन्विशिनष्टि—हे अधोक्षजधिय इति मय्येव मन आधत्स्व मयि बुद्धिं निवेशय इति श्रीगीतोक्तेर् भगवन्तं भजतेत्य् अर्थः । स्वामिचरणैस्तु संबुद्धिर्नाङ्गीकृता तत्रेत्य् अर्थ इति । धर्मोर्पितः कर्हिचिद्घ्रियते न यत्र इति ब्रह्मोक्तेर्भवत्कृतधर्मस्य वासुदेवेर्पणात्तद्वृद्ध्या ममाप्यधिकलाभो भवेद् इति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्माद् हे प्रजाः, भर्तुर् मम पिण्डार्थं पिण्ड-दानवत् पर-लोक-हितार्थं स्वेषाम् एवार्थं कार्यम् कुरुत युष्माभिः स्व-कृत्य एव कृते सति मम कृतार्थता भविष्यतीति नात्र मद्-अर्थे पृथक् कोऽपि भारो भवताम् इति भावः । स्वार्थम् एव वदन् विशिनष्टि हे अधोक्षज-धिय इति । मयि मन आधत्स्व, मयि बुद्धिं निवेशय इति भगवद्-गीता-प्रामाण्याद् भगवन्तं भजतेत्य् अर्थः ॥२५॥
॥ ४.२१.२६ ॥
यूयं तद् अनुमोदध्वं पितृ-देवर्षयोऽमलाः ।
कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शास्तुः शिक्षयितुर् अनुज्ञातुर् अनुमोदितुश् च प्रेत्य पर-लोके यत् फलं तत् तुल्यम् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्यं खलु सर्वानुमोदनेन सिध्यतीत्यत आह—यूयम् इति ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यूयम् इति । तत् पूर्वोक्तं भगवद्-धर्मम् अनुमोदने हेतुः कर्तुस् तत्-कर्मानुष्ठातुः पर-लोके यत् फलं तच् छिक्षयितुर् अनुमोदितुश् च भवतीति ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्यं खलु सर्वानुमोदनेन सिद्ध्यतीत्य् अत आह—यूयम् इति । शास्तुः शिक्षयितुम् अनुज्ञातुर् अनुमोदयितुः प्रेत्य पर-लोके यत् फलं तत्-तुल्यम् ॥२६॥
॥ ४.२१.२७ ॥
अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रकाशवद् भुवो देवा मानुष्याश् चापि केचन इति वाराहे ॥२७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म कर्तव्यम् इत्य् अनुमोदामहे, न तु वासुदेवेऽर्पणीयम् इति वेनादिभिस् तद्-अनङ्गीकाराद् इत्य् एवं-वादिनः शनैः संबोधयन्न् आह—हे अर्ह-सत्तमाः ! यज्ञ-पतिर् नाम परमेश्वरः केषाञ्चिन् मते तावद् अस्ति, तथापि विप्रतिपत्तेर् न तत्-सिद्धिर् इत्य् आशङ्क्य जगद्-वैचित्र्यान्यथानुपपत्तिं प्रमाणयति—इहामुत्र च ज्योत्स्नावत्यः कान्तिमत्यो भुवो भोग-भूमयः शरीराणि च ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदनङ्गीकाराद्वासुदेवानङ्गीकारात् । हे अर्हसत्तमा इति । विपरीतलक्षणया यद्वार्हन्सादयन्ति पूज्यान्भगवद्-अनङ्गीकारेण दुःसहोक्त्या पीडयन्तीत्यर्हसदो\ऽतिशयेन ते\ऽर्हंसत्तमा इति । केषांचित् श्रुत्य्-अर्थतत्त्वविदास्तिकानां तार्किकादीनां, तथापि सत्यपीश्वरे, विप्रतिपत्तेर्विवादात्, तत्सिद्धिरीश्वरसिद्धिः । विप्रतिपत्तिश्चेश्वरसत्त्वे मानं नास्तीत्येवंरूपा जगद्वैचित्र्यान्यथानुपपत्तिरीश्वरानङ्गीकारे एतज्जगति मनुष्याणां द्विपदत्वादि पशूनां चतुष्पदत्वादि पक्षिणां हंसशुकमयूरादीनां श्वेतहरितचित्रितगरुत्त्वादि वृक्षाणामनेकविधफलपुष्पपत्त्रादि पर्वतसागरादि किं च, नृषु मौढ्यपाण्डित्यसुखित्वदुःखित्व-धनिकत्व-दरिद्रत्व-सुरूप-कुरूपादि च न केनापि सुमेधसापीश्वरं विना कर्तुं शक्यते\ऽत एतद्वैचित्र्यसंपादक ईश्वरो\ऽवश्यमङ्गीकर्तव्य एवेत्याह—इह प्रत्यक्षेण अमुत्र शास्त्रेण च ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इन्द्र-पाखण्ड-भ्रंशित-मतीन् प्रति प्रथमम् आह—अस्तीति । हे अर्ह-सत्तमाः! यज्ञ-पतिर् नाम सर्व-कर्म-फल-दातृत्वेन श्रुति-प्रतिपादितः परमेश्वरः केषाञ्चित् श्रुत्य्-अर्थ-तत्त्व-ज्ञानां मते तावद् अस्ति । तथापि विप्रतिपत्तेर् न तत्-सिद्धिर् इत्य् आशङ्क्य तत्र जगद्-वैचित्र्यान्यथानुपपत्ति-प्रमाणम् अभ्युपोद्बलकम् इत्य् आह । इह प्रत्यक्षेण आमुत्र शास्त्रेण तद्वद् इत्य् अनुमानेन ज्योत्स्नावत्यः कान्तिमत्यो भुवो भोग-भूमयो देहाश् च क्वचित् क्वचिद् एवोपलभ्यन्ते,1 न च कर्म-साम्ये फल-तारतम्यम् । क्वचित् क्वचिच् च तद्-असिद्धिश् च भवति । अतः स्वातन्त्र्येण परमेश्वरेण भाव्यम् । केषाञ्चिद् इह सत्तमा इति पाठस् तु स्वाम्य्-अधृतः ॥२७॥ [भक्ति-सन्दर्भ २०४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कुरुताधोक्षज-धिय इत्य् अधोक्षजाराधनं प्रवर्तयितुम् ईहसे, तत् कथं सम्भवेत्, तत् पित्रा वेनेन तद्-उपदेश-कैवल्यैर् अप्य् अङ्गीकृतत्वाद् इत्य् अत आह—अस्तीति । हे अर्ह-सत्तमा इति विपरीत-लक्षणया यज्ञ-पतिर् नाम परमेश्वरः केषाञ्चिन् मते तावद् अस्ति, तथापि विप्रतिपत्तेर् न तत् सिद्धिर् इत्य् आशङ्क्य जगद्-वैचित्र्यान्यथानुपपत्तिं प्रमाणयति—इह प्रत्यक्षेण आमुत्र शास्त्रेण च ज्योत्स्नावत्यः कान्ति-वैचित्रवत्यः क्वचित् इत्य् अज्योत्स्नावत्यश् च अतिशयोक्त्या दृष्टादृष्ट-शुभ-कर्मणा फल-तारतम्यवत्यः फलाभाववत्यश् च । भुवो भोग-भूमयो देहाश् च लक्ष्यन्ते ।
अयम् अर्थः—न तावत् कर्मणः फल-दातृत्वं घटते, जडत्वात् । न चार्वाग् देवतानां स्वातन्त्र्यम् अन्तर्यामि-श्रुतेः । न च तत्-कर्म-साम्ये फल-तारतम्यं क्वचित् तद्-अभावश् च सम्भवति । अतः कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थेन परमेश्वरेण भाव्यं यस्यैवादर-तारतम्ये सति फल-तारतम्यम् आदराभावे फलाभाव ^[३०-तम-श्लोकस्य\ श्रीधरी-तीकेयाम्]^इति ॥२७॥
॥ ४.२१.२८ ॥
मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इदं कर्म-वैचित्र्याद् एव सेत्स्यति, तथापि विद्वद्-अनुभवेनेश्वर-सिद्धिर् इत्य् आह—मनोर् इति त्रिभिः । अस्मत् पितामहस्य अङ्गस्य ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । यद्यपीदं
जगद्वैचित्र्यं तथापि कर्मवैचित्र्येण जगद्वैचित्र्ये सिद्धे\ऽपि विदुषां सर्वज्ञानामाप्तानां मन्वादीनामनुभवेनेत्य् अर्थः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र विद्वद्-अनुभवो हि प्रमाणम् इत्य् आह—मनोर् इति त्रिकेण । अस्मत्-पितामहस्य अङ्गस्य । प्रह्लाद-बली तदानीं शास्त्राद् एव ज्ञातौ गणितौ ॥२८॥ [भक्ति-सन्दर्भ २०४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्वद्-अनुभवेनापीनांशरीर-सिद्ध्म् आह—मनोः स्वायम्भुवस्य अस्मत्-पितुः पितुः पितामहस्येत्य् अर्थः । प्रह्लाद-बली तदानीं शास्त्राद् एव ज्ञात्वा गणितौ ॥२८॥
॥ ४.२१.२९ ॥
ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च ।
प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्ऋत्यम् अस्ति । अवश्यं कर्म-फल-दात्रा भाव्यम् इति तेषां मतम् इत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईदृशानामथाग्रे भविष्यतामम्बरीषादीनां प्रह्लादबली तु शास्त्राज्ज्ञात्वेव गणितौ गदाभृता गदाधारणान्मधुरमनोहर-रूपवतेत्य् अर्थः । कृत्यञ्च तेषां निरन्तरं साक्षाच्चरणपरिचरणम् एव ज्ञेयम् । इत्य् अर्थ इति । अन्यथा तेषां तद्भजनादौ प्रवृत्तिर्न सङ्गच्छत इति भावः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गदाभृता परमेश्वरेण कृत्यम् अस्ति हृदये बहिर् अप्य् आविर्भूय तेषां मुहुः कृत्य-सम्पादनात् तेन यत् कृत्यं करणीयं तत् तेषाम् अस्तीत्य् अर्थः । तेषाम् एव तेन कृत्यम् अस्ति नान्येषाम् इत्य् अर्थो वा । तद् अन्यांस् तु निन्दितत्वेनाह । मृत्योर् दौहित्रादीन् वेन-प्रभृतीन् धर्मे विमोहितान् । गदाभृच्-छब्देन तन्-नाम्ना प्रसिद्धात् ॥२९॥ [भक्ति-सन्दर्भ २०४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गदाभृता कृत्यम् अस्ति गदा-धारणान् मधुर-मनोहर-रूपवतेत्य् अर्थः । कृत्यं च तेषां निरन्तर-साक्षात्-तच्-चरण-परिचरणम् एव ज्ञेयम् । तद् अन्यांस् तु निन्द्यत्वेनाह—मृत्योर् दौहित्रादीन् वेनादीन् विना धर्मे विमोहितान्, अत एव शोच्यान् । मृत्योर् इत्य् अनेन ते अद्य यद्य् अत्र मन्-मते विप्रतिपस्यन्ते, तर्हि तन्-मृत्योस् तन्-मातामहस्यैव पुरीं प्रस्थापयिष्याम्य् एवेति द्योत्यते ।
॥ ४.२१.३० ॥
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् ।
वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : एकात्मा हरिर् उद्दिष्टः प्रधानत्वात् समन्तत इति च । प्राय इत्य् अवधारणाक्षेपः । प्रायः पदं स्यात् प्राचूर्ये चाक्षेपात्मावधारणे । अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽवधारणम् इति च ॥३०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृत्योर् दौहित्रान् वेनादीन् विना । धर्मे विमोहितान् । अतः शोच्यान् । ननु कर्मैव फलं दास्यति विध्य्-उद्देश-गता वा देवताः किं परमेश्वरेण ? तत्राह—वर्गेति । वर्गोऽत्र त्रि-वर्गः, स्वर्गो धर्मस्य फलम्, अपवर्गो मोक्षः, तेषाम् ऐकात्म्येन एक-रूप्येण सर्वानुगतेन हेतुना**,** तत्रापि प्रायेण हेतुना ।
अयं भावः—न तावज् जडस्य कर्मणः फल-दातृत्वं घटते, न चार्वाग्-देवतानां स्वातन्त्र्यम्, अन्तर्यामि श्रुतेः । न च तदा कर्म-साम्ये फल-तारतम्यं क्वचित् तद्-असिद्धिश् च संभवति, अतः स्वातन्त्र्येण कर्तुम् अकर्तुम् अन्यथाकर्तुं समर्थेन परमेश्वरेण भाव्यम् इति ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदन्यांस्तु निद्यत्वेनाह—धर्मे वेदविहिते नित्यनैमित्तिकादौ विमोहितान्विचित्तान् । मृत्योरित्यनेन ते\ऽद्य यद्यत्र मन्मते विप्रतिपत्स्यन्ते तर्हि मृत्योस्तन्मातामहस्य पुरीम् एव प्रस्थापयिष्यामीति द्योतितम् । आदिनेन्द्रगृहीतविसृष्टपाखण्डानुगतग्रहः । अत्राक्षिप्य समाधत्ते—नन्व् इति । विधौ स्वर्गकाम इन्द्रं यजेद् इत्य् एवंरूपे वाक्ये उद्दिष्टा देवता चेन्द्रोस्तीत्यतः स एव फलं दास्यतीत्यभिप्रेत्याह—विध्युद्देशेति । यद्वा—एको\ऽसहायश्चासावात्मा स्वरूपं चेत्येकात्मा-स्वार्थे व्यञ्-ऐकात्म्यं तेन वर्गादीनामैकात्म्येनान्यनिरपेक्षेण स्व-स्वरूपेणैव हेतुनेत्य् अर्थः । तथा च वर्गस्वर्गापवर्गकामैर् अपि गदाभृदर्चनीय इति तेषां सकामानां निष्कामानां च गदाभृता कृत्यमस्तीत्यायातम् । अत्र प्रमाणम्—
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ इति ।
यत्कर्मभिर्यत्तपसा इत्यादौ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेजसा इत्य्-आदिकञ्च । अत्र प्रायेणेत्यनेन क्वचित्कर्मज्ञानादिसापेक्षस्व-स्वरूपेणेति । कर्मज्ञानादिमिश्रयापि भक्त्या भक्ति-मिश्रैर् अपि कर्मज्ञानादिभिर्वर्गादिसिद्धिर्न तु भक्त्या विनेति निर्गलितार्थः । स्वामिचरणैर् अपि प्रायेणेत्यस्य मुख्येन हेतुनेत्यर्थोभिप्रेतः । अत्राशयम् आह—अयं भाव इति । अर्वाग्देवतानामीश्वरेतरदेवानाम् । अन्तर्यामिश्रुतेः—यः पृथिवीमन्तरा यमयति पृथिवीयं न वेद इत्य्-आदिश्रुतेरित्य् अर्थः । तदेश्वरस्वीकृतौ तु कर्मानुरूपम् एव फलं कर्तुर्भविष्यति तथा क्वचिदपि कर्मणि फलाभावश् च न भविष्यति, अन्यथा तदुभयं स्याद् एव फलदातुरभावाद् इत्य् अर्थः । यत इत्थमतो हेतोः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-विष्णोर् अन्यत्र परमेश्वरत्वं वारयति । श्रुति-युक्ति-विद्वद्-अनुभवेषु तं गदाभृतं विशिनष्टि—वर्गेति । वर्गोऽत्र त्रिवर्गः, **[स्वर्गो]**धर्मस्य लक्षणतः अपवर्गो मोक्षः, तेषाम् ऐकात्म्येन रूपेण सर्वानुगतेन हेतुना । तद् उक्तं स्कान्दे,
बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।
दौहित्रेत्य्-आदिक-द्वयोः पद्ययोर् गौडीये विपर्ययेण पाठश् चित्सुख-पुण्यारण्ययोर् मतः । मूलं तु स्वाम्य्-असम्मतम् ऐकात्म्येत्य् अत्र एकार्थेति चित्सुखः ॥३०॥ [भक्ति-सन्दर्भ २०४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं गदाभृतं विशिनष्टि—वर्गेति । वर्गोऽत्र त्रि-वर्गः, स्वर्गो धर्मस्य फलम्, अपवर्गो मोक्षः, तेषाम् ऐकट्म्य-हेतुना एकोऽसहायश् चासाव् आत्मा स्वरूपं चेत्य् एकात्मा, स्वार्थे ष्यञ् । ऐकात्म्यं तेन वर्गादीनाम् ऐकात्म्येन अन्य-निरपेक्ष-स्व-स्वरूपेणैव हेतुनेत्य् अर्थः । तेन वर्ग-स्वर्गापवर्ग-कामैर् अपि गदाभृद् अर्चनीय इति तेषां निष्कामानां सकामानां च गदाभृता कृत्यम् अस्तीत्य् आयातम् । तत्र प्रमाणम्—
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इति ।
यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा [भा।पु। ११.२०.३२] इत्य्-आदिकं च । अत्र प्रायेणेत्य् अनेन क्वचित् कर्म-ज्ञानादि-सापेक्ष-स्व-स्वरूपेणेति कर्म-ज्ञानादि-मिश्रयापि भक्त्या भक्ति-मिश्रैर् अपि कर्म-ज्ञानादिभिर् वर्गादि-सिद्धिर् न तु भक्त्या विनेति निर्गलितार्थः भक्तेस् तु तत्-स्वरूपत्वं च तु प्रसिद्धम् ॥२८-३०॥
॥ ४.२१.३१ ॥
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, जीवानां मोक्षदः परमेश्वर एव नार्वाग्-देवताः, तासाम् अपि जीवत्वाविशेषाद् इत्य् आशयेनाह त्रिभिः । यस्य पादयोः सेवायाम् अभिरुचिस् तपस्विनां संसार-तप्तानाम् अशेषैर् जन्मभिः समृद्धं धियो मलं सद्यः क्षपयति**,** तम् एव भजत इति तृतीयेनान्वयः । कथं-भूता ? अहन्य् अहनि वर्धमाना सती सात्त्विकी तत्-पाद-संबन्धस्यैवैष महिमेति दृष्टान्तेनाह—यथा इति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उक्तम् एवार्थं क्रमेण विवृण्वन् भगवतः केवलयैव भक्त्या यथा कृतार्थीभवति, न तु तथा तपो-ज्ञानादिभिः, किम् उत कर्मभिर् इत्य् आशयेनाह—किं च इति । यद् वा, तपस्विनां तपोभिर् अपि बुद्धेर् मालिन्यम् अपाकर्तुम् अशक्नुवताम् इत्य् अर्थः । सद्य इति । यदैव महत्-सेवया पाद-सेवाभिरुचिर् भवेत्, तदैवेत्य् अर्थः । अपरं समानम् ॥३१॥
कैवल्य-दीपिका : तस्मिन्न् इत्य् उक्तं स कः ? इति तम् आह—यत्-पाद- इति । तपस्विनां ताप-त्रयासन्तप्तानां मलं कालुष्यम् । क्षिणोति नाशयति । एधती वर्धमाना विषय-सौन्दर्यात् । सती साध्वी विषय-विशुद्धत्वात् ॥३१॥ [मु।फ। ६.४९]
सनातन-गोस्वामी- [ह।भ।वि। ११.२५६] यस्य मम पादयोः सेवायाम् अभिरुचिर् अपि तपस्विनां संसार-तप्तानाम् । यद् वा, तपः स्व-धर्माचरणं चित्तैकाग्रता वा, तद्-युक्तानाम् अपि अशेष-जन्मभिः संवृद्धं धियो मलं सद्यः क्षपयति । कथं-भूता ? अहन्य् अहनि वर्धमाना सती सात्त्विकी परमोत्तमा वा । एवं मल-क्षपणम् आनुषङ्गिकं, मुख्यं च फलं नित्यम् एधमानोत्तमा वा ।\
तत्-पाद-संबन्धस्यैवैष महिमेति दृष्टान्तेनाह—यथा इति । पदाङ्गुष्ठ-विनिःसृतेत्य् अयं भावः—वाम-पादस्याङ्गुष्ठात् विनिःसृता निर्गत्य भुवं गता, सा च एक-रूपैव, न च नित्यं वर्धमाना, तथाप्य् अनेक-जन्मोपचितं मलं सद्यः क्षपयति । एषा च पादयोः सेवासु अभिरुचिः, तत्र संलग्नो मनसो भावः । तं सद्यः क्षिणोति इति किं चित्रम् ? किन्तु नित्यं वर्धमाना चोत्तमा सती फल-रूपतां प्राप्नोतीत्य् उक्तिम् एवेति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र शुद्ध-भक्तास् तु विशिष्टा इत्य् आह—यद् इति द्वाभ्याम् ॥३१॥ [भक्ति-सन्दर्भ २०५]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं क्रमेण विवृण्वन् भगवतः केवलयैव भक्त्या यथा जनः कृतार्थीभवति, न तु तथा तपो-ज्ञानादिभिः, किम् उत कर्मभिर् इत्य् आह—यद् इति द्वाभ्याम् । तपस्विनाम् इति तपोभिर् अपि बुद्धेर् मालिन्यं दूरीकर्तुम् अशक्नुवताम् इत्य् अर्थः । सद्य इति यदैव महत्-कृपया पाद-सेवाभिरुचिर् भवेत्, तदैवेत्य् अर्थः । ततश् चान्वहं प्रतिदिनं वर्धमानैव स्यात् सती शुद्ध-सत्त्व-स्वरूपा नित्येत्य् अर्थः । तत्-पाद-संबन्धस्यैवैष महिमेति दृष्टान्तेनाह—यथा इति । तं भजतेति तृतीयेनान्वयः ॥३१॥
॥ ४.२१.३२ ॥
विनिर्धुताशेष-मनो-मलः पुमान्
असङ्ग-विज्ञान-विशेष-वीर्यवान् ।
यद्-अङ्घ्रि-मूले कृत-केतनः पुनर्
न संसृतिं क्लेश-वहां प्रपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विनिर्धुता अशेषा मनो-मला यस्य । असङ्गो वैराग्यं, तेन विज्ञानस्य विशेषः साक्षात्-कारस् तद् एव वीर्यं यस्य । यस्याङ्घ्रि-मूले कृताश्रयः सन् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विनिर्धुता निरस्ताः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विज्ञानस्य विशेषणत्वं भगवत्-पर्यन्तानुभवात् ॥३२॥ [भक्ति-सन्दर्भ २०५]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चासङ्गो वैराग्यं विज्ञान-विशेषः श्री-मूर्ति-सौन्दर्याद्य्-अनुभवः, ताभ्याम् एव यद् वीर्यं प्रभावस् तद्वान् । केतनाश्रय इति भक्तेः कैवल्यं दर्शितम् ॥३२॥
॥ ४.२१.३३ ॥
तम् एव यूयं भजतात्म-वृत्तिभिर्
मनो-वचः-काय-गुणैः स्व-कर्मभिः ।
अमायिनः काम-दुघाङ्घ्रि-पङ्कजं
यथाधिकारावसितार्थ-सिद्धयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-वृत्तिभिर् अध्यापनादिभिः । मनो-वचः-कायानां गुणैर् ध्यान-स्तुति-सपर्याभिः । अमायिनो निष्कपटाः सन्तः । ननु ब्रह्मादिभिः सेव्ये किम् अस्मद् भक्त्या भविष्यति तत्राह—यथाधिकारम् एवावसिता निश्चिता समाप्ता वाऽर्थ-सिद्धिर् येषाम् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु गार्हस्थ्यकर्मनिमग्ना वयं कथं केवलया भक्त्या भजामस् तत्र कर्ममिश्रां भक्तिमुपदिशन्नाह—तम् इति । अध्यापनादिभिरादिना रक्षणकृष्यादिसेवादीनां ग्रहः । अत्राक्षिपति—नन्व् इति । यथाधिकारं ब्राह्मणादिवर्णधर्ममनतिक्रम्यैव । यद् वा, येषां येष येषु येषु शिल्पेष्वधिकारस्तैरे व भगवद्-अर्थकृतैस्ते ते तैलिकतांबूलिकपर्यन्ता अपि कृतार्था भवन्तीत्य् अर्थः । यद्वात्मनः स्वस्यैव वृत्तिः सत्ता येषु तैः स्वकर्मभिर्वर्णाश्रमधमैर् अपि सहिताः सन्तो भजतेति भक्तेः प्राधान्यमभिहितम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यूयं तु यथाधिकारं भजतेत्य् आह—तम् एवेति । स्व-कर्माभिश् च ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु गार्हस्थ्य-कर्म-निमग्ना वयं कथं केवलया भक्त्या भजामस् तत्र कर्म-मिश्रां भक्तिम् उपदिशन्न् आह—तम् एवेति । स्व-कर्मभिर् याजनादि-रक्षणादि-कृष्यादि-सेवादिभिर् एव वा आत्म-वृत्तयस् ताभिः सहिता अपि मन-आदीनां गुणैः स्मरण-कीर्तन-प्रणत्य्-आदिभिर् भजत ।
यद् वा, मन-आदीनां गुणैर् विद्यादि-गानादि-भार-वहनादिभिः स्व-कर्मभिर् या आत्म-वृत्तयो जीविकाः, ताभिर् एव भजत । स्व-जीविका अपि ता भगवद्-अर्थे वा किञ्चिन्-मात्रापि नित्यं यदि विनियुक्ताः स्युस् तर्हि भक्तिर् एव भवतीत्य् अर्थः । यथाधिकारम् ब्राह्मणादि-वर्ण-धर्मम् अनतिक्रम्यैवावसितो निश्चिता अर्थ-सिद्धिर् यैस् ते ।
यद् वा, यथेति येषां येषां येषु येषु शिल्पेष्व् अधिकार औत्पत्तिकस् तैर् एव भगवद्-अर्थे कृतैस् ते ते तैलिक-ताम्बूलिक-पर्यन्ता अपि कृतार्था भवन्तीत्य् अर्थः । आत्मनः स्वस्यैव वृत्तिः सत्ता येषु तैः स्व-कर्मभिर् वर्णाश्रम-धर्मैर् अपि सहिताः सन्तो भजतेति भक्तेः प्राधान्यम् अभिहितम् ॥३३॥
॥ ४.२१.३४ ॥
असाव् इहानेक-गुणोऽगुणोऽध्वरः
पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः ।
सम्पद्यतेऽर्थाशय-लिङ्ग-नामभिर्
विशुद्ध-विज्ञान-घनः स्वरूपतः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सम्पद्यते प्राप्यते ॥३४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-कर्मभिर् यागादिभिर् भजतेत्य् उक्तम् । तत्र, ब्रह्मार्पणं ब्रह्म हविः[गीता ४.२४] इति न्यायेन सर्वेषु याग-तद्-अङ्ग-तत्-फलेषु भगवद्-दृष्ट्या कर्म कर्तव्यं न भिन्न-दृष्ट्येति वक्तुं तेषां भगवद्-रूपताम् आह द्वाभ्याम् । असौ भगवान् एव स्वरूपतो विशुद्ध-विज्ञान-घनोऽप्य् अगुणो निर्विशेषणोऽपि सन्न् इह कर्म-मार्गेऽनेक-गुणो नाना-विशेषणवान् अध्वरो यज्ञः संपद्यते । यज्ञो वै विष्णुः इति श्रुतेः । अनेक-गुणत्वम् एवाह । पृथग्-विधानि यानि द्रव्यादीनि तैः । तत्र द्रव्याणि व्रीह्य्-आदीनि, गुणाः शुक्लादयः, क्रिया अवघातादयः, उक्तयो मन्त्राः । अर्थोऽङ्ग-साध्य उपकारः, आशयः सङ्कल्पः, लिङ्गं पदार्थानां शक्तिः, नाम ज्योतिष्टोमादि, तैश् चाध्वरः संपद्यते ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्म स्वरूपतो\ऽशुद्धं जडं राजसम् अपि भगवद्-अर्पितं सत् तद्रूपगुणीभूतभक्त्यंशेन विशुद्धं सत्त्वं चैतन्यम् एव भवति फलत इति भक्ति-मिश्रं कर्मोपदिशति द्वाभ्याम्-असाव् इति । तर्जन्या प्रस्तुतमध्वरं दर्शयति, असावध्वरो\ऽनेकगुणो नानाविशेषवान् । राजसो\ऽपि भगवद्-अर्पणरुपभक्तिमाहात्म्यात्तत्फलदशायामगुणो गुणातीतो भवन् स्वरूपतो विशुद्धविज्ञानघनः ब्रह्मानन्द-स्वरूपत्वेन संपद्यते, कर्मणो\ऽस्य मोक्षफलकत्वाद् इति भावः । तेन साक्षात्तदीयश्रवणकीर्तनादिस्तु प्रथमत एव विशुद्धविज्ञानघनः स तु सर्वतो\ऽपि श्रेष्ठ इति द्योतितम् इति चक्रवर्ती । तत्र द्रव्यादिष्वष्टसु पदार्थानां मत्सरादिपदार्थानां यथा गोभिः श्रिणीत मत्सरम् इत्य् अत्र गोपदस्य क्षीरे शक्तिः मत्सरपदस्य सोमे शक्तिस्तज्ज्ञानं विना कथं दुग्धेन सोममिश्रणं कुर्यादित्यर्थलाभो भवेदतः पदार्थशक्तिर् अपि यज्ञहेतुर् इति । तीर्थस्तु—आत्मा वा इदमेक एवाग्र आसीत् इत्य्-आदिश्रुतिप्रसिद्धो योसौ नारायण एकः स एवानेकगुणो\ऽध्वरः संपद्यते । द्रव्यं पुरोडाशादिकल्पोक्तगुणविशिष्टं द्रव्यं गुणानामाधारः इति यादवः । गुणो विशिष्टमातापितृजन्यत्वादिः । क्रिया ऋत्विगादिव्यापारा इन्द्रायाग्नय इत्याद्या उक्तयस्ताभिः अर्थेष यजमानेष्वाशयोन्तःकरणं येषां, लिङ्गानि वज्रधरत्वादीनि नामानीन्द्रादीनि तैः यद्वार्थाशयत्वं मुक्ताश्रयत्वं लिङ्गं चक्रधरत्वादि नाम नारायणादि तैः संपद्यते प्राप्यते विशुद्धविज्ञानघनः स्वरूपतः इत्य् एवं ज्ञानेन प्राप्यते इत्य् अर्थः । अनेन कर्मणा शुद्धान्तःकरणानां जातं ज्ञानं संसारनिवर्तकम् इत्य् उक्तं कर्मणैव हि संसिद्धिमास्थिता जनकादयः इत्य् उक्तेः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अगुणः प्राकृत-गुण-रहितोऽपि ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म स्वरूपतोऽशुद्धं जडं राजसम् अपि अत्वायां-अर्पित सत् । तद्-रूप-गुणीभूत-भक्त्य्-अंशेन विशुद्ध-सत्त्वं चैतन्यम् एव फलतो भवतीति भक्ति-मिश्रं कर्मोपदिशति द्वाभ्याम् । असाव् इति तर्जन्या प्रस्तुतम् अध्वरं दर्शयति—असाव् अध्वरोऽनेक-गुणो नाना-विशेषणवान् राजसोऽपि भगवद्-अर्पण-रूप-भक्ति-माहात्म्यात् तत्-फल-दशायाम् अगुणो गुणातीतो भवन् स्वरूपतो विशुद्ध-विज्ञान-घनो ब्रह्मानन्द-रूपत्वेन सम्पद्यते । कर्मणोऽस्य मोक्ष-फलकत्वाद् इति भावः । तेन साक्षात्-त्वदीय-चरणारविन्द-कीर्तनादिस् तु प्रथमत एव स्व-कर्मभिर् विशुद्ध-विज्ञान-घनः । स तु सर्वतोऽपि श्रेष्ठ इति द्योतितः ।
यद् वा, असौ भगवान् एव स्वरूपतो विशुद्ध-विज्ञान-घनोऽप्य् अगुणोऽपि अस्मिन् कर्म-मार्गेऽनेक-गुणोऽध्वरो यज्ञः सम्पद्यते । अनेक-गुणत्वम् आह—पृथग्-विधानि यानि द्रव्यादीनि तैः । तत्र द्रव्याणि व्रीह्य्-आदीनि, गुणाः शुक्लादयः, क्रिया अवघातादयः, उक्तयो मन्त्राः । अर्थोऽङ्ग-साध्य उपकारः, आशयः सङ्कल्पः, लिङ्गं पदार्थानां शक्तिः, नाम ज्योतिष्टोमादि, तैश् च ॥३४॥
॥ ४.२१.३५ ॥
प्रधान-कालाशय-धर्म-सङ्ग्रहे
शरीर एष प्रतिपद्य चेतनाम् ।
क्रिया-फलत्वेन विभुर् विभाव्यते
यथानलो दारुषु तद्-गुणात्मकः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रधानादीन् गृहीत्वा जीवं प्राप्य पुण्य-कर्मभिर् ज्ञायते । यथा गुणवद्-इन्धनेऽग्निर् मथनादिना ॥३५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : याग-तद्-अङ्गानां भगवद्-रूपत्वम् उक्त्वा याग-फलस्यापि भगवद्-रूपताम् आह—प्रधानेति । एष विभुः परमानन्दोऽपि शरीरे चेतनां विषयाकारां बुद्धिं प्रतिपद्य तद् अभिव्यङ्ग्यानन्द-रूपः सन् क्रिया-फलत्वेन प्रतीयते, एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ।आ।उ। ४.३.३२] इति श्रुतेः । यथाऽनलो दारुषु स्थितस् तद् गुणात्मको दारु-धर्म-दैर् ध्य्-अवक्रत्वादिमांस् तद्वत् । कथं भूते शरीरे । प्रधानम् अव्यक्तम्, कालस् तत् क्षोभकः, आषयो वासना, धर्मोऽदृष्टं, तैः सङ्गृह्यते जन्यत इति तथा तस्मिन् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विश्वनाथः—भगवद्-अर्पितस्य कर्मणस्तन्मिश्रभक्तेश् च फलं भगवत्प्राप्तिरेवेत्याह—चेतनां स्वार्पितकर्म-रूपेण बुद्धिं प्रतिपद्य अन्तर्भावितण्यर्थत्वान्निष्पाद्येत्य् अर्थः । कृपया कर्मफलत्वेन विभुः स्वयम् एव भगवान् विभाव्यते प्रकाशते कर्मकर्तरि प्रयोगः ।
यद् अत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥
इति वचनात्तदर्पितकर्मा भक्ति-मिश्र-ज्ञानद्वारा तम् एव प्राप्नोतीत्य् अर्थः । किञ्च—कर्मार्पणश्रद्धाभक्तितारतम्येन ज्ञानतारतम्येन च भक्तिप्राप्तितारतम्यं भवेद् इत्य् आह यथा चन्दनागुरुधवखदिरादिस्थितोग्निस्तत्तद्गुणानुरूपो भवेत् तथैव भगवानप्युपरासकस्योपासनातारतम्येन फलप्रदो भवेत् । भक्ति-मिश्रकर्मवते निष्कामाय मोक्षं कर्ममिश्रभक्तिमते शान्तरतिं च एवं भक्तितारतम्यवते सालोक्यादिकं च ददातीति भक्तेर्गुणभावप्राधान्यादिकं दर्शितम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चेतनां जीवस्य बुद्धिं प्रतिपद्य नियन्तृ-रूपेण प्रकाशकत्वेन चाविश्य तत्-तादात्म्यापन्न-स्व-शक्त्या स्वयम् एव बहिर् अपि स्वानन्दांश-रूप-क्रिया-फलत्वेन विभाव्यते प्रकाशते । कर्म-कर्तरि प्रयोगः ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-अर्पितस्य कर्मणस् तन्-मिश्र-भक्तेश् च फलं भगवत्-प्राप्तिर् एवेत्य् आह—प्रधानम् अव्यक्तं, कालः क्षोभकः आश्रयो वासना धर्मोऽदृष्टं तैः सङ्गृह्यते जन्यत इति तथा तस्मिन् शरीरे चेतनां स्वार्पित-कर्म-करणे बुद्धिं प्रतिपद्य अन्तर्भावित-ण्य्-अर्थत्वात् निष्पाद्येत्य् अर्थः । कृपया कर्म-फलत्वेन विभुः स्वयम् एव भगवान् विभाव्यते प्रकाशते, कर्म-कर्तरि प्रयोगः ।
यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।
ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् ॥ [भा।पु। १.५.३५]
इति वचनाद् अर्पित-कर्मा भक्ति-मिश्र-ज्ञान-द्वारा तम् एव प्राप्नोतीत्य् अर्थः । किं च, कर्मार्पण-श्रद्धा-भक्ति-तारतम्येन ज्ञान-तारतम्येन च भगवत्-प्राप्ति-तारतम्यं भवेद् इत्य् आह—यथा चन्दनागुरु-धव-खदिरादि-स्थितोऽग्निस् तत्-तद्-गुणानुरूपो भवेत्, तथैव भगवान् अप्य् उपासकस्योपासना-तारतम्येनफल-प्रदो भवेत् । भक्ति-मिश्र-कर्मिणे निष्कामाय मोक्षं कर्म-मिश्र-भक्ति-मते शान्त-रतिं चैवं भक्ति-तारतम्यवते, सालोक्यादिकं च ददातीति भक्तेर् गुण-भाव-प्राधान्यादिकं दर्शितम् ॥३५॥
॥ ४.२१.३६ ॥
अहो ममामी वितरन्त्य् अनुग्रहं
हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् ।
स्व-धर्म-योगेन यजन्ति मामका
निरन्तरं क्षौणि-तले दृढ-व्रताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अप्रवृत्तान् भगवद्-भजने प्रवर्त्य स्वतः-प्रवृत्तानां प्रवृत्तिम् अभिनन्दनेन द्रढयति—अहो इति । वितरन्ति कुर्वन्ति ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो इति । सभ्यान् उन्मुखीकरोति । मम मह्यम् । अमी मामका मदीया अनुग्रहम् । अमी के ? ये हरिं स्वस्य जीवस्य धर्मो भक्तिर् एव स्वधर्मः—
एष मे सर्व-धर्माणां धर्मो\ऽधिकतमो मतः ।
यद्-भक्त्या पुण्डरीकाक्षं स्तवैर् अर्चेन् नरः सदा ॥ [म।भा। १३.१३५.८] इत्य् उक्तेः ।
तेन भक्ति-योगेन यजन्ति त इत्य् अर्थः । यद् वा, ये यजन्ति ते मामकाः । यद् वा, हे मामका इति संबुद्धिः । यद् वा, अमी इति ब्राह्मण-परामर्शनायोक्तम् अनुग्रहे विप्राणाम् एव समर्थत्वात् । तस्यैवानुग्रहेणान्ये भुञ्जते क्षत्रियादयः इति वक्ष्यमाण-सङ्गति-लाभाय तत्-समर्थकं धृत-व्रता इति । सत्रादि-दीक्षितानाम् अन्य-व्यापार-राहित्य-बोधनाय च ॥३६॥
कैवल्य-दीपिका : एवं भक्ति-सामान्यं स्तुत्वा तद्-विशेषान् स्तुवानः सात्त्विकीस् तिस्रस् त्रिभिः स्तौति—अहो इत्य् आदिना । अहो सभ्याः, मम पृथोः । अमी मद्-देश-वासिनो यजन्ति पूजयन्ति । अत्र स्वधर्मोऽपि विधि-सिद्ध्य्-अर्था स्तुता ॥३६॥ [मु।फ। ६.२४]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो महाराजाधिराज प्रभो ! भक्त्य्-उपदेशेन वयं कृतार्थीकृताः, तद् वयं नित्यं भगवन्तं भजाम इत्य् आनन्द-जल्पिनो जनान् लक्षीकृत्याह—अहो इति ॥३६॥
॥ ४.२१.३७ ॥
मा जातु तेजः प्रभवेन् महर्द्धिभिस्
तितिक्षया तपसा विद्यया च ।
देदीप्यमाने ञ्जित-देवतानां
कुले स्वयं राज-कुलाद् द्विजानाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं हरि-भक्ति-दार्ढ्याय ब्राह्मण-भक्तिं विधत्ते—मा जात्व् इत्य् अष्टभिः । महत्यश् च ता ऋद्धयश् च ताभिर् यद् राज-कुलस्य तेजस् तत् तस्मात् सकाशाद् द्विजानां कुलेऽजितो देवता येषा वैष्णवानां तेषां च कुले मा जातु प्रभवेत् कदाचिद् अपि प्रभावं न करोतु । कथं-भूते ? समृद्धिभिर् विनापि स्वयम् एव तितिक्षादिभिर् देदीप्यमाने ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऋद्वयः सेनासंपदादिलक्षणाः । अत्र टीकावतरणिकायां केवलब्राह्मणपदोपादानात् अजितः श्रीनारायणो देवता येषां तेषां द्विजानां विप्राणां कुले विप्राणां देवदेवानां भगवानात्मदैवतम् इत्य् उक्तेश्चकारस्य पुनर् अर्थकस्यानुपादानाच्चेदं व्याख्यानं शोभनं प्रतिभाति । यद्वाजितस्य भक्तगुणेतरापराजितस्य श्रीविष्णोर्देवता ब्राह्मणास् तेषां कुले सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः इति भार्गवीयत्रिदेवीपरीक्षाध्याये श्रीदशमोत्तरार्द्धोक्तेस् तथा ब्रह्म दैवं परं हि मे इति वैकुण्ठोपाख्याने तृतीय स्वयं सनकादीन्प्रति श्रीमुखोक्तेश् च तीर्थेनापीत्थम् एव व्याख्यातम् । क्वचित्पुस्तकान्तरे स्वामिचरणैर्यत्कुल इत्युभयत्र योजितं दृश्यते । तदन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रत इत्य् उक्ताभिप्रायेण ध्येयम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मा जात्व् इत्य् अस्य टीकावतारिकायां ब्राह्मण-भक्तिम् इति वैष्णवामात्रस्यापि ब्राह्मणान्तः-पातोऽङ्गीकृतः, पद्यार्थे द्वयोर् अपि व्याख्यास्यमानत्वात् ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं भक्तेः सुस्थिरत्वार्थं वैष्णव-ब्राह्मणावज्ञां निषिध्यति—मा जात्व् इति । मह-र्द्धिभिर् महा-सम्पत्तिभिर् हेतुभिर् यद् राज-कुलाद् राज-कुलस्य तेजस् तज् जातु कदाचिद् अपि मा प्रभवेत्, प्रभावं मा करोतु । कुत्र ? अजित-देवतानां वैष्णवानां कुले द्विजानां कुले च कीदृशे महर्द्धिभिर् विनापि तितिक्षादिभिः स्वयम् एव देदीप्यमाने ॥३७॥
॥ ४.२१.३८-३९ ॥
ब्रह्मण्य-देवः पुरुषः पुरातनो
नित्यं हरिर् यच्-चरणाभिवन्दनात् ।
अवाप लक्ष्मीम् अनपायिनीं यशो
जगत्-पवित्रं च महत्तमाग्रणीः ॥
यत्-सेवयाशेष-गुहाशयः स्व-राड्
विप्र-प्रियस् तुष्यति कामम् ईश्वरः ।
तद् एव तद्-धर्म-परैर् विनीतैः
सर्वात्मना ब्रह्म-कुलं निषेव्यताम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : हरिर् इन्द्रो यच्-चरणाभिवन्दनाद् अनपायिनीं लक्ष्मीम् आप । सोऽपि विष्णुर् ब्राह्मण-प्रियः ।
मत्-प्रसादेन देवेन्द्रो वेदोदित-यशा अभूत् ।
सोऽपि वैष्णवुर् अमेयात्मा सदा ब्राह्मण-वत्सलः ॥ इति हरि-वंशेषु ॥३८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणां स्तुवन्न् आह । यच् चरणाभिवन्दनाद् धरिर् लक्ष्मीं यशश् चावाप । यत् सेवया चेश्वरस् तुष्यति तद् एव ब्रह्म-कुलं निषेव्यताम् इति द्वयोर् अन्वयः ॥३८॥ तस्य हरेर् लोक-सङ्ग्रह-रूपो यो धर्मस् तत् परैः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं ब्रह्मकुलं नाभिभवनीयं किं तु तत्र भक्तिर् अपि कार्येत्याह—ब्रह्मण्यदेवः ब्राह्मणप्रियो देवः येषां विप्राणां चरणाभिवन्दनात् । तीर्थेन त्वत्र हरिरिन्द्रो यस्य श्रीनारायणस्य चरणाभिवन्दनात् लक्ष्मीं त्रैलोक्यश्रियं यया गुप्तः सहस्राक्षत्रैलोक्या बुभुजे श्रियम् इत्य् उक्तः । जगति पवित्रं शोभनं यशश्चावाप स पुरातनः पुरुषो\ऽपि ब्रह्मण्यदेवो ब्राह्मणभक्तिनिष्ठो देव इत्थं व्याख्यातम् ॥३८-३९॥
भगवन्-महिमत्वात् तादृश्य् उक्तिर् अनुचितेति । तत्राविष्टो हरिर् एव स्वयं लोक-सङ्ग्रहायास्तौद् इत्य् एवं समाधेयम् । यद् वा, यच् चरणाभिवन्दन-लक्षणाद् विनय-गुण-पद् अनपायिनीं लक्ष्ंईं सर्वाश्रयणीयता-लक्षणं सम्पत्तिम् अवाप सर्वेषां लोकानाम् आश्रयणीयो बभूवेति तात्पर्यं भृगु-परीक्षादाव् इत्य् अर्थः । अतो यशश् चेति ॥३८॥ विनीतैर् इत्य् अत्र हितं सदेति क्वचित् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मण्येति स्तुति-मात्रम् इदम् इति टीकाभिप्रायः । तथाप्य् अस्य ज्ञात[+++]{।मर्क्}
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ति-दार्ढ्याय ब्राह्मण-भक्तिं विधत्ते—सप्तभिः । यच् चरणेत्य्-आदिकं लोक-सङ्ग्रहार्थक-भगवद्—वचनानुवाद-मात्रं ज्ञेयम् । तद् एव तस्माद् एव हेतोः ॥३८-३९॥
॥ ४.२१.४० ॥
पुमान् लभेतानतिवेलम् आत्मनः
प्रसीदतोऽत्यन्त-शमं स्वतः स्वयम् ।
यन्-नित्य-सम्बन्ध-निषेवया ततः
परं किम् अत्रास्ति मुखं हविर्-भुजाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तस्मान् मोक्ष-सुखात् परं हरिर् भुजां देवानाम् अप्य् अत्र संसारेऽस्ति किम् ॥४०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ब्रह्म-कुल एव नित्यं सेव्यमाने सर्व-देवता-मुख-भूतेऽग्नौ यज्ञाद्य्-अनुष्ठानं न स्यात् ? न च तेन विन चित्त-शुद्धिः, न च तया विन मोक्षः स्याद् इत्य् आशङ्क्याह—पुमान् इति द्वाभ्याम् । यस्य ब्रह्म-कुलस्य नित्यं सम्बन्धेन निषेवया पुमान् स्वयम् एव ज्ञानाभ्यासादिकं विनाप्य् अत्युत्तमं शमं मोक्षं लभेत । कुतः ? यत् सेवया स्वत एवानतिवेलं शीघ्रं प्रसीदतः शुध्यत आत्मनश् चित्तात् । ततः परं श्रेष्ठं देवानां किं-मुखम् अस्ति ? ब्राह्मण-सेवयैव यज्ञादि-फलं ज्ञान-फलं तत् सर्वं भवतीत्य् अर्थः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः परम् इति तु परेण योजनीयम् ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्म-कुल एव नित्यं सेव्यमाने सर्व-देवता-मुख-भूतेऽग्नौ यज्ञाद्य्-अनुष्ठानं न स्यात् ? न च तेन विन चित्त-शुद्धिः, न च तया विन मोक्षः स्याद् इत्य् आशङ्क्याह—पुमान् इति द्वाभ्याम् । यस्य ब्राह्मण-कुलस्य नित्य-सम्बन्धेन निषेवया आत्मनो मनसः प्रसीदतः क्रमेण प्रसन्नीभवतः अत्यन्त-शमं मोक्षं स्वयं लभेत । अनतिवेलं शीघ्रम् एव, अत एव ततः परं किं हरिर् भुजां देवानां मुखम् अस्ति । ब्राह्मण-सेवयैव यज्ञादि-फलं ज्ञान-फलं च सर्वम् एव सिद्ध्यतीत्य् अर्थः ॥४०॥
॥ ४.२१.४१ ॥
अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः
श्रद्धा-हुतं यन्-मुख इज्य-नामभिः ।
न वै तथा चेतनया बहिष्-कृते
हुताशने पारमहंस्य-पर्य-गुः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पारमहंस्य-पर्या गावो यस्य ॥४१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् अपि तद् एव परं मुखम् इत्य् आह—अश्नातीति । इज्यानां पूज्यानाम् इन्द्रादीनां नामभिर् यस्य मुखे श्रद्धया हुतं हविर् अनन्तो यथाश्नाति तथा चेतनया रहिते हुताशने हुतं नाश्नाति । कैर् हुतम् अश्नाति ? तत्त्व-कोविदैः सर्व-देवमयश् चैतन्य-मूर्तिर् अनन्त इति तत्त्वं विद्वद्भिः ।
कुत एवं-भूतोऽसौ ? तत्राह—पारमहंस्यं ज्ञानं तत्-परान् अर्हन्त्य् अधिकुर्वन्तीति पारमहंस्य-पर्यास्ता गावो वाचो यस्मिन् । उपनिषद्भिर् ज्ञान-घनत्वेनोक्त इत्य् अर्थः । यद् वा, परमहंसानां ज्ञान-निष्ठानां गम्यः पारमहंस्यः । परितो न गच्छन्ति गावो वाचो यस्मात् स पर्यगुर् इन्द्रिय-नियन्ता स चासौ स च पारमहंस्य-पर्यगुर् ज्ञान-रूपः सर्वान्तर्यामीत्य् अर्थः ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । तेन यज्ञाद्यनुष्ठानेन । तया चित्तशुद्ध्या । इत्य् अर्थ इति । सर्वे पदा हस्तिपदे निमग्नाः इति न्यायेन ।
यज्ञो दानं तपश्चैव तीर्थानि नियमा यमाः ।
एतत्सर्वं कृतं तेन विप्रो येनात्र सेवितः ॥
इति स्कान्दोक्तेर्विप्रसेवनेन सर्वं सुकृतं कृतं स्याद् इति भावः । असौ हरिरेवंभूतः सर्वदेवमयश्चैतन्यमूर्तिरनन्तः । कुत इति । इत्य् अर्थ इति । एष वै सर्वे देवाः, सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानघनः इत्य्-आदिभिः श्रुतिवचनैरुक्त इति भावः । पूर्वस्मिन्समासे वेदे प्रसक्तिवारणायाह । यद्वेति । इत्य् अर्थ इति । ज्ञानमनन्तं
ब्रह्म, यतो वाचो निवर्तते इत्य्-आदिश्रुतेः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं सुलभः पार्थ इति स्मृतेश्चेति भावः ॥४०-४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुख्यत्व-सिद्धिः पर्यगुर् इति । गाव इन्द्रियाणि । यस्मात् यं परित्यज्य हेतोर् वा पूर्वत्र न गच्छन्ति स्वातन्त्र्येण न तिष्ठन्तीत्य् अर्थः । उत्तरत्र यम् एवालम्ब्य वर्तन्त इत्य् अर्थः ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् अपि तद् एव परं मुखम् इत्य् आह—अश्नातीति । श्रद्धया हुतं दत्तम् इज्यानां नामभिर् इति यथा, इन्द्राय स्वाहा, आदित्याय स्वाहा, इति इज्यानाम् इन्द्रादीनां नाम्ना वह्नाव् आहुतिर् दीयते, तथैव तेषां नाम्ना यदि ब्राह्मण-मुखे पक्वान्नानि समर्पयति, तदा अनन्त एवाश्नाति, तस्मिंश् च भुक्तवति तेषां शाश्वती तृप्तिः प्रीतिश् च स्याद् इत्य् अर्थः । चेतनया बहिष्कृते रहिते पारमहंस्य-परान् ज्ञानिनो भक्ताश् चार्हन्तीति पारमहंस्य-पर्या गावो वेद-वाचोऽङ्ग-किरणाश्द् च यस्य सः ॥४१॥
॥ ४.२१.४२-४३ ॥
यद् ब्रह्म नित्यं विरजं सनातनं
श्रद्धा-तपो-मङ्गल-मौन-संयमैः ।
समाधिना बिभ्रति हार्थ-दृष्टये
यत्रेदम् आदर्श इवावभासते ॥
तेषाम् अहं पाद-सरोज-रेणुम्
आर्या वहेयाधि-किरीटम् आयुः ।
यं नित्यदा बिभ्रत आशु पापं
नश्यत्य् अमुं सर्व-गुणा भजन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं चेतनत्वेन हुताशनाद् विशेषः, किं तु वेद-ज्ञानाद् अपीत्य् आह । यद् इत्य् अव्ययम् । ये ब्रह्म वेदं नित्यं बिभ्रति तेषाम् इत्य् उत्तरेणान्वयः । मङ्गलं नाम—
प्रशस्ताचरणं नित्यम् अप्रशस् तस्य वर्जनम् ।
एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्व-दर्शिभिः ॥
मौनम् अध्ययन-विरोधि-वार्ता-त्यागः । समाधिना चित्त-स्थैर्येण । अर्थ-दृष्टये वेदार्थम् अपि विचार-यन्तीत्य् अर्थः । यत्र वेदे इदं विश्वम् अवभासते यथा आदर्शे मुखम् ॥४२॥
हे आर्याः ! आ आयुर् यावज् जीवम् अधि किरीटं मुकुटस्योपरि वहेयेति प्रार्थनायां लिङ् । यं रेणुम् ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रद्धा आस्तिक्यं, तपः स्वधर्माचरणं तपः इत्य् उक्तेर्नित्यनैमित्तिककर्मनिष्ठत्वं, संयम इन्द्रियनिग्रहः । इत्य् अर्थ इति ॥ पूर्वोक्तसाधनैश्चित्तस्थैर्यं तेन वेदार्थविचार इति खिन्ने चित्ते कुतो बोध इत्याशयः । अत्र मङ्गललक्षणवाक्येनाचार उक्तः आचारहीनं न पुनन्ति वेदाः इत्य् उक्तेः । अत्र ब्रह्मपदेन वेदः परमात्मा चोक्तः । यावद्ब्रह्मविष्टितं तावती वाक् इति श्रुतेर्द्वयोर्लक्षणसाम्यात् । यद्वा—यत्र ब्रह्मकुले इदमुक्तं ब्रह्मद्वयं दर्पणे मुखमिवाभाति दर्पणे मुकुरादर्शौ इति कोशात् ॥ एवं ब्रह्मकुलमभिष्टूयात्मक्रियोपदेशतस् तत्सेवा यावदायुः कर्तव्येति विधत्ते हे आर्या इत्यनेन ब्राह्मणसेवयैवार्यत्वमन्यथा तन्नश्यति म्लेच्छादिदेश तदभावादेवानार्यत्वमत एवैतद्देशस्यार्यावर्त्तम् इति संज्ञापीति भावः । मुकुटस्योपरीत्यस्य शिरः स्युष्णीषं तदपरि मुकुटं तदुपरि विप्रपादरजस्तदुपरि न किञ्चित्कर्त्तव्यं तस्य सर्वोत्कृष्टत्वात् ।
विपद्गणध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः ॥
इति पुराणान्तरे तद् उक्तेः । आशु झटिति पापं नश्यति विप्रपादरजो राजन्हन्ति दारुणदुष्कृतम् इति भीष्मोक्तेः । अमुं विप्रपादरजोधारिणं सर्वसौभगत्वसम्पत्तिमत्त्वादयो भजन्ति सेवन्ते ॥४२-४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् ब्रह्मेति युग्मकम् । यद् इति जसो लुक् छान्दसः, योऽधिकिरीट-मायुर् इति चित्सुखः । यो रेणुः ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चेतनत्वेनैव हुताशनाद् विप्राणां न श्रैष्ठ्यं किन्तु वेद-ज्ञानाद् एवेत्य् आह—यद् यस्माद् ब्रह्म वेदं श्रद्धादिभिर् बिभ्रति । मङ्गलं नाम—
प्रशस्ताचरणं नित्यम् अप्रशस् तस्य वर्जनम् ।
एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्व-दर्शिभिः ॥
मौनम् अध्ययन-विरोधि-वार्ता-त्यागः । समाधिना चित्त-स्थैर्येण । किम्-अर्थम् अर्थानां वस्तु-मात्राणां दृष्टये ज्ञानाय ।
कथम् एवम् ? अत आह—यत्र वेदे इदं जगत् सर्वम् एव अवभासते, ज्ञान-विषयीभवति । आदर्शे दर्पणे इव ॥४२॥
हे आर्याः ! आ आयुर् यावज् जीवम् अधि किरीटं वहेय प्रार्थनायां लिङ् । यं रेणुम् अमुं बिभ्रतं पुमांसम् ॥४३॥
॥ ४.२१.४४ ॥
गुणायनं शील-धनं कृत-ज्ञं
वृद्धाश्र् अयं संवृणतेऽनु सम्पदः ।
प्रसीदतां ब्रह्म-कुलं गवां च
जनार्दनः सानुचरश् च मह्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-भजनस्य फलम् आह । गुणायनम् अन्व् अनु संपदः संवृणते सम्यग् भजन्ति । तस्मात् प्रसीदतां प्रसीदतु । गवां च कुलम् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शील-धनं सुचरितं विद्वान् धर्मज्ञान् न ते वृद्धा ये न वदन्ति धर्मान् इत्य् उक्तेः । यद् वा, कृतं विहितं जानातीति कृतज्ञस् तं विमृश्य-कारिणम् इत्य् अर्थः । कृतं युगे\ऽलम्-अर्थे स्याद् विहिते हिंसिते त्रिषु इति मेदिनी । तद् उक्तं भारविणा—
सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
वृणते हि विमृश्य-कारिणं गुण-लुब्धाः स्वयम् एव संपदः ॥ इति किरातार्जुनीये ।
ब्रह्म-कुल-सेवा गोकुल-सेवा ब्रह्मादि-परिवृत-जनार्दन-सेवा च मुमुक्षूणां यथा-शास्त्रम् अवश्यं कर्तव्येत्य् आह—प्रसीदताम् इति ।
ब्रह्मा रुद्रो महेन्द्राद्या देवाः सर्वे जनार्दनम् ।
अनुगच्छन्ति वै यस्मात् तस्मात् तस्यानुगा हि ते ॥ इत्य्-आदिपुराणात् ।
यद् वानुचरा भक्ताः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वृद्धाश्रयम् इति । तादृशं ब्राह्मणम् एकम् अप्य् आश्रितवन्तम् इत्य् अर्थः । गुणायनम् इत्य्-आदिकम् अधिकारिणो वृद्धाश्रयस्य विशेषणम् । गुणाश् चात्र शान्त्य्-आदयः सम्पदो विद्यादयश् च त एव गुण-शब्देन पूर्वत्रोक्ताः । अत्र ब्राह्मणानाम् एव सर्वोपदेष्टृत्वात् प्रसाद्यत्वेन श्रैष्ठ्यम् अभिप्रेतम् इति । प्रसीदतां ब्रह्म-कुलम् इत्य् अन्तम् उक्त्वैव गवाम् इत्य् उक्तिः ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-भजनस्य फलम् आह—गुणायनम् इति । सम्यक् स्वयम् एव वृणुते पतिंवरा इवेत्य् अर्थः । तस्मात् प्रसीदतां प्रसीदतु ॥४४॥
॥ ४.२१.४५ ॥
मैत्रेय उवाच—
इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः ।
तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साधुवादेन निर्दोषवाक्येन ॥४५॥
न कतमेनापि व्याख्यातम्।
॥ ४.२१.४६ ॥
पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः ।
ब्रह्म-दण्ड-हतः पापो यद् वेनोऽत्यतरत् तमः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : वेणस्थो राजसो जीवः पृथुना स्व-गतिं गतः ।
स्वयं तु तम एवाप सात्त्विकः पृथुताम् अगात् ॥ इति च ॥४६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साधु-वादम् आह—पुत्रेणेति षड्भिः । यद्य् अतो वेनोऽपि तमो नरकम् अत्यतरत् अतिततार ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्रेण सत्पुत्रेण सो\ऽयं मनुष्यलोकः पुत्रेण जयः इति श्रुतेरत्र मनुष्यलोक इत्युपलक्षणं स्वर्गादेर् अपि अत एव श्रीवेदव्यासाचार्येण लोकान् इत्य् उक्तं मूले । तमः श्रीपृथुजन्मनः पूर्वं कतिचिद्दिनानि प्राप्तं नरकम् । यद्वा—ब्रह्मदण्डहतत्वादवश्यं भावि नरकम् । मा क्रुद्धाद् ब्राह्मणात्प्रभो इति स्वपुत्रमृत्युमुद्दिश्य कश्यपं प्रति द् इत्य् उक्तेः । शश्वत्पुत्रेण पितरोत्यायन्बहुलं तमः इति श्रुतेः । शश्वत्पुत्रेण मङ्गलपुत्रेण शश्वत्स्याद् आत्मप्रश्ने च मङ्गले पुराकल्पे सदार्थे च इति मेदिन्युक्तेः । मङ्गलं शुभं तेन सत्पुत्रेणेत्यायातं न तु पुत्रमात्रेण कुपुत्रो नाशयेत्कुलम् इत्य् उक्तिविरोधात् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुत्रेणेति । सत्-पुत्रेणेत्य् अर्थः । तमः श्री-पृथु-जन्मनः पूर्वं कतिचिद् दिनानि प्राप्तं नरकम् । अनुभावतः श्री-नृसिंहादि-प्रादुर्भाव-कारणाद् भक्ति-लक्षणात् प्रभावाद् इत्य् अर्थः । श्री-वाराहाद्य्-अवतारे कारणान्तरम् अप्य् अस्ति । अत्र तु स एव कारणम् इति भावः ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.२१.४७ ॥
हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः ।
विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र प्रमाणान्तरम् आह अनुभावतः श्रीनृसिंहादिप्रादुर्भावकारणाद्भक्तिलक्षणात्प्रभावाद् इत्य् अर्थः ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमो नरकम् ॥४७॥
॥ ४.२१.४८ ॥
वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।
यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशेषेणेरयति कम्पयति पाखण्डिजनान् शत्रुसैन्यं वेति वीर आस्तिकः शूरश् च तेषु वर्य श्रेष्ठेति सन्मार्गोपदेष्दृत्वाद्दस्युनाशकत्वाच्चास्माकमैहिकपारत्रिकसुखकर्ता त्वं चिरं जीवेति भावः । वीरभोग्या वसुन्धरा इत्य् अभिजनोक्तेः । पृथिवीपतित्वमागतं वीरवर्येत्यामन्त्रणेन । ततश् च दुहितृत्वे चकारेमाम् इति पूर्वोक्तिव्याकोपवारणाय पुनर् आमन्त्रयन्ति हे पृथ्व्याः पितर् इति पातृत्वात्पितैव पृथ्वीपदमप्यत्र पृथिवीस्थपरं तात्स्थ्यात्ताच्छब्द्यम् इति न्यायेन यस्य तव सर्वलोकानामेकभर्तरि मुख्यपालके एके मुख्यान्यकेवलाः इत्य् अमरः । ईदृशी अलौकिकी ॥४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे पृथ्व्याः पितः ! ॥४८॥
॥ ४.२१.४९ ॥
अहो वयं ह्य् अद्य पवित्र-कीर्ते
त्वयैव नाथेन मुकुन्द-नाथाः ।
य उत्तमश्लोकतमस्य विष्णोर्
ब्रह्मण्य-देवस्य कथां व्यनक्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्द-नाथाः स्म । त्वन्-नाथत्वम् एव मुकुन्द-नाथत्वे पर्यवसितम् इत्य् अर्थः । तत्र हेतुः—य इति ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे पवित्रकीर्ते भगवद्-भक्तमुख्यत्वाल्लोकपावनकीर्तिमांस्त्वमसीत्यभिप्रायः । मद्भक्तियुक्तो भुवनं पुनाति इत्येकादशे वक्ष्यमाणत्वात् । अहो भाग्यम् । इत्य् अर्थ इति । तवापि मुकुन्दावतारत्वेन सागरतरङ्गन्यायेन मुकुन्दाभिन्नत्वान्मुकुन्दत्वम् एव मुकुन्दभक्तिविधायकत्वाद्वा तथा त्वम् इति भावः । हरिभक्त्युपदेष्टृणां हरिणा साम्यमिष्यते इत्य् उक्तं भक्तितरङ्गिण्यादौ । यद् वा, पवित्राणां पवित्रं यः इत्य् उक्तेः पवित्रस्य हरेः कीर्तनं कीर्तिर् यस्य तत्सम्बुद्धौ । तथा हरिभक्तस्य तव सङ्गाद्वयम् अपि हरिभक्ता जाता इति भावः ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : व्यनक्षीति क्वचित् । व्यनक्षीर् इति चित्सुखः ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुकुन्द-नाथाः अभूम । तवैव मुकुन्दत्वात् मुकुन्द-भक्ति-विधायकत्वाद् वेति भावः । यो भवान् ॥४९॥
॥ ४.२१.५० ॥
नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् ।
प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आजीविनां सेवकानाम् आ सम्यग् अनुशासनम् । प्रजास्व् अनुरागः । प्रकृतिः स्वभावः ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नाथेति । स्वामिनामयम् एव मुख्यो धर्म इत्य् आह महतां लक्षणम् आह—करुणात्मनि येषां तेषाम् ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आजीविनां सेवकानाम् आ सम्यग् अनुशासनम् । प्रजाद्य्-अनुरागः प्रकृतिः स्वभावः ॥५०॥
॥ ४.२१.५१ ॥
अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो ।
भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपासादितः प्रापितः । कर्मभिर् भ्राम्यताम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमोज्ञानमिहोच्यते इत्य् उक्तेस्तमसोज्ञानस्य तत्कार्यीभूतसंसारस्य पारः परमात्मा तमसः परस्तात् इति श्रुतेः । नष्टदृष्टीनां नष्टज्ञानानाम् । प्रभो इति । प्रभुत्वाद् एव त्वया संसारो दर्शितस्तवेतरस्यात्र सामर्थ्यं नास्तीति भावः ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ ४.२१.५२ ॥
नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे ।
यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अहो वयम् इत्य्-आदि तत्-स्थ-परमेश्वर-रूपापेक्षया यो ब्रह्म-क्षत्रम् आविश्य इति वचनात् ॥५२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वर-दृष्ट्या विप्रादयोऽपि प्रणमन्ति--नम इति । ब्रह्माविश्य ब्राह्मण-जातिम् अधिष्ठाय क्षत्रं क्षत्रियं बिभर्ति । क्षत्रं चाविश्य ब्रह्म बिभर्ति । तद् उभयं चाविश्य इदं विश्वं बिभर्ति ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यो ब्रह्म ब्राह्मण-जातिं क्षत्रं क्षत्रिय-जातिम् आविश्य धृत्वेदं विश्वं पाति, तस्मा इति योजना । अत्र ब्रह्म-क्षत्र-शब्दौ भाव-निर्देश-परौ, तेन ब्राह्मणत्वं क्षत्रियत्वं च प्राप्य तत्-कुले\ऽवतीर्येत्य् अर्थः । एवं चेत् कथं नन्द-गृहे भगवद्-अवतारस् तस्य वैश्य-वृत्तिश् चतुर्धेयं [?] वयं गो-वृत्तयो\ऽनिशम् [भा।पु। १०.२४.२१] इति श्री-नन्दराजं श्री-कृष्ण-चन्द्रोक्तेर् वैश्यत्वात् इत्य् उक्ताव् उद्धारम् आह न हि नन्दगृहे भगवद्-अवतारो जातः, किं तु वसुदेवगृहे\ऽवतीर्य तद्द्वारा कंसच्छलनाय भगवानागत इति श्रीदशमे स्फुटतरं वक्ष्यति । एवं चेत् तर्हि कथं परमाप्त-शिरोमणिना यागीन्द्रेण नन्दस्यात्मज उत्पन्ने जातानन्दो महामनाः [१०.५.१] इति मृषोक्तं न हि परमापद्गतो\ऽपि योगी मृषा वदति कुतो योगीन्द्रस् तत्रापि श्री-बादरायणिः । यदि श्री-नन्द-गृहे भगवद्-अवतारो नाभूत्तदा नन्दस् त्व् आत्मज आयात इत्थम् एव किं नावादीद् यतो नोक्तम् अतो नन्दगृहे साक्षाद् एव भगवानवतीर्णः कन्यया साकम् इति अत एव अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा [भा।पु। १०.४.९] इत्य् उक्तम् । वस्तुतस् तु श्री-नन्द-राजो\ऽपि यादवत्वात् क्षत्रिय एव यादवानां हितार्थाय धृतो\ऽद्रि-प्रवरो मया इति हरि-वंशोक्तेः । एतच् चक्रवर्ति-विश्वनाथादिभिर् बहुधोक्तं श्री-दशमे\ऽत उपरम्यते ।
यद् वा, ब्रह्म-क्षत्रेति पदं द्विजाति-परं तेन न श्री-नन्द-नन्दनावतारे को\ऽपि शङ्कावसर इति । यद् वा, वैश्येन सहितं क्षत्रं वैश्य-क्षत्रं ब्रह्मणा सहितं वैश्य-क्षत्रं ब्रह्म-क्षत्रम् अत्र मध्यम-पद-लोपी समासः शाक-पार्थिवादयो न केवलं कर्मधारीयाः किन्तु तत्रादि-शब्दस्य व्यवस्थार्थत्वम् आश्रित्य सर्व-समासजाते मध्यम-पद-लोपी समासो भवतीति ध्येयम् इह तु तत्-पुरुषः सम-स्तुतः कर्मधारय-विशेष एव, इत्थं प्राक्तन-शाब्दिकैर् व्यवस्थापितम् । विवृद्ध-सत्त्वाय रजस्-तमो-नभिभूत-शुद्ध-सत्त्व-स्वरूपाय । यद्वा, यः पृथु-रूपो भवान् क्षत्रं वेनाङ्गजात-देहम् आविश्येदं ब्रह्म-कुलं स्व-तेजसा बिभर्ति पालयति, तस्मै ॥५२॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे एकविंशो\ऽध्यायः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वर-दृष्ट्या विप्रादयोऽपि प्रणमन्ति, नम इति । ब्रह्माविश्य ब्राह्मण-जातिम् अधिष्ठाय क्षत्रं क्षत्रियं बिभर्ति । क्षत्रं चाविश्य ब्रह्म बिभर्ति । तद् उभयं चाविश्येदं विश्वं बिभर्ति ॥५२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पृथु-चरिते प्रजा-वाक्यम् नाम
एकविंशोऽध्यायः ।
॥४.२१ ॥
(४.२२)
-
भक्ति-सन्दर्भ-पाठोऽत्र—\॥।न सर्वत्रेति । अयं भावः—न तावज् जडस्य कर्मणस् तत्-तत्-फल-दातृत्वं घटते—फलम् अत उपपत्तेः [वे।सू। ३.२.३८] इति न्यायात् । न चार्वाग्-देवतानां स्वातन्त्र्यम् अन्तर्यामि-श्रुतिः । न च कर्म-साम्ये फल-तारतम्यं क्वचिच् च तद्-असिद्धिः सम्भवति । अतः स्वतन्त्रेण परमेश्वरेण भाव्यम् । ↩︎