२०

अथ विंशोऽध्यायः

विषयः

भगवतो दर्शनं, भगवत्-पृथु-संवादश् च ।

॥ ४.२०.१ ॥

मैत्रेय उवाच—

भगवान् अपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

विंशे तु विष्णुना साक्षात् पृथोर् यज्ञेऽनुशासनम् ।

वर-दान-प्रसङ्गेन प्रीतिश् चान्योन्यम् ईर्यते ॥

मघवता साकम् इन्द्रेण सह वर्तमानः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्योन्यं पृथुविष्ण्वोः परस्परं प्रीतिः ॥ अपिना ब्रह्मणः समुच्चयः । वैकुण्ठ इति । जगदुत्पत्तौ विश्लिष्टानां भूतानां संयोजकत्वात् । तद् उक्तं शान्तिपर्वणि—

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।

वायुश् च तेजसा सार्द्धं वैकुण्ठत्वं ततो मम ॥ इति ।

विभुरित्यनेन यज्ञस्येन्द्रस्य तद्व्याप्यत्वमुक्तं यज्ञानां पतिर्भोक्ता च अहं हि सर्वयज्ञानां भोक्ता च प्रभुरे व च इति श्रीगीतोक्तेः । तं पृथुम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एष ते ह्यकरोद् इति क्वचित् पाठः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

विंशे प्रीतिं महेन्द्रेण विष्णुना बोधितः पृथुः ।

चकार तुष्टाव च तं स दत्त्वागाद् वरं प्रभुः ॥

ततश् च भगवान् अपि स्वांशम् इन्द्रम् अप्य् अनीय सन्धिं कारयन् पृथुं प्रबोधयामासेत्य् आह—भगवान् अपीति ॥१॥


॥ ४.२०.२ ॥

श्री-भगवान् उवाच—

एष तेऽकार्षीद् भङ्गं हय-मेध-शतस्य ह ।

क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं त्वां क्षमां कारयतोऽमुष्य त्वम् अपि क्षन्तुम् अर्हसि ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हयमेधशतस्तस्येति हयमेधशतस् तस्य ते मत्वर्थीयो\ऽच् । भङ्गमश्वापहरणे नानादरमकार्षीत् । भङ्गो मर्दनरीढयोः इति निरुक्तिः । यद्वा—हयमेधशततमस्येति व्याख्येयं तमप्प्रत्ययलोपस्त्वार्षः । अन्यथा चरमाश्वमेधसिद्व्या तदेकभङ्गाभावेन सर्वभङ्गापत्त्या त्वमेकोनशतक्रतुरित्यनुपपन्नं स्याद् इति भावः । किमत्र कार्यं तदाज्ञापयेति तत्राह—अमुष्येन्द्रस्य ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं त्वां क्षमां कारयतोऽमुष्य ॥२॥


॥ ४.२०.३ ॥

सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यर्हि यस्मात् कलेवरम् आत्मा न भवति, अतस् तद्-अभिमानेन भूतानि नाभिद्रुह्यन्ति ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षमा साधुगुणो न स्याद् इत्य् आह—नरदेवेति । तव तु नरपालकस्य सर्वथा द्रोहो\ऽनुचित इत्य् अभिप्रायः । भूतेभ्य इति चतुर्थी त्वार्षी, क्रुधद्रुहोरुपसृष्टयोः कर्म इत्युपसर्गयोगे कर्मसंज्ञाविधानात् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रथमं ज्ञान-द्वारा तं सान्त्वयति—सुधिय इत्य्-आदिभिः । कलेवरम् अत्र स्थूल-सूक्ष्मात्मकम् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यर्हि यतः कलेवरम् आत्मा न भवति, अतस् तद्-अभिमानेनौचित्यात् कुतो भूत-द्रोहः सम्भवेद् इत्य् अर्थः ॥३॥


॥ ४.२०.४ ॥

पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया ।

श्रम एव परं जातो दीर्घया वृद्ध-सेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवन्मायामोहनाद् एव भवेद् इति चेत्तत्राह—पुरुषा इति । त्वादृशाः कुतस्त्वम् इत्य् अर्थः । वृद्धानां शास्त्रवृद्धानां सेवया ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवन्-मायया महनाद् एव भवेद् इति चेत्, तत्राह—पुरुषा इति ॥४॥


॥ ४.२०.५ ॥

अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः ।

आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविद्या-स्वरूपाज्ञानं, ततः कामः, ततः कर्म, तैर् आरब्ध इति विद्वान् । अत एव प्रतिबुद्ध आत्म-ज्ञोऽस्मिन् नैवानुषज्जते ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो वृद्धसेवयैव मायानावरणात् । ततः स्वरूपाज्ञानात् पुनस्ततः कामात् । अत एव वैदुष्याद् एव । अस्मिन्काये । अनुषज्जति आसक्तो भवति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो वृद्ध-सेवयैव मायानावरणात् प्रतिबुद्धः प्रतिबोधम् एवाह—अविद्ययैव कामः कामाद् एव कर्माणि तैर् आरब्धोऽयम् इति । इमं कायं विद्वान् जानन् ॥५॥


॥ ४.२०.६ ॥

असंसक्तः शरीरेऽस्मिन्न् अमुनोत्पादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि पुत्रादि-ममत्वेन भूत-द्रोहेण च सङ्गो भवेत् तत्राह—असंसक्त इति ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि प्रतिबुद्धो न सज्जते तथापि इति । आदिना स्त्र्यादिग्रहः । अमुना शरीरेण ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२०.७ ॥

एकः शुद्धः स्वयं-ज्योतिर् निर्गुणोऽसौ गुणाश्रयः ।

सर्व-गोऽनावृतः साक्षी निरात्मात्मात्मनः परः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिबोध-क्रमं विवृण्वन् देहेऽनुषङ्गाभावम् आह—एक इति द्वाभ्याम् । असावात्मा आत्मनो देहात् परो भिन्नः । तत्र नवधा वैलक्षण्येन भेदं साधयति—एक इति नवभिः पदैः । देहो हि बाल-युवादि-भेदाद् अनेको मलिनश् च जटश् च स-गुणश् च स्व-कारण-भूत-गुणाश्रितश् च परिच्छिन्नश् च गृहादिभिर् आवृतश् च दृश्यश् च सात्मा च । आत्मा तु नैवम् अतो भिन्नः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रात्मनि यत आत्मा देहवान्नातो भिन्न इत्य् अर्थः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रासंसक्त इत्य्-आदिना देह-द्वय-विलक्षणं शुद्धं जीवात्मानं किञ्चित् प्रतिबोधाय सूचयित्वा सम्यक् प्रतिबोधाय परमात्मानम् उपदिशति—एक इति । असौ जीवादि-शक्त्य्-अगोचर आत्मा परमात्माख्य आत्मा आत्मनः शुद्धात् जीवाद् अपरः, यतोऽसौ एकः । जीवस् तु नाना, असौ शुद्धः असम्भाव्य-दोष-सङ्गः, स त्व् अज्ञान-दोष-लिप्तत्वेन दुष्टः, मण्डल-स्थानीयत्वाद् असौ मुख्यत्वेन स्वयं-ज्योतिः, स तु रश्मि-स्थानीयत्वाद् आपेक्षिकतया । असौ गुणेभ्यो निर्गतः सर्वथैव सिद्धः, स तु अज्ञानेन तद्-अभिमान-सम्बद्धः । असौ सूर्य इवाभासः, वर्णानां गुणानाम् आश्रय एव, न तु तद्-व्याप्यः । असौ विभुः, स त्व् अणुः । असौ देहादि-स्थोऽप्य् अनावृतः, स त्व् आवृतः । असौ साक्षाद् द्रष्टृत्वात् साक्षी, स तु तद्-अनुग्रह-मय-शक्तित्वाद् एव । असाव् एवात्मान्तर-रहितः, स तु तद्-आत्मकः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनासक्तेः कारणम् आत्म-ज्ञानम् अतः परम् आत्म-ज्ञानम् उपदिशति—एक इति । आत्मा परमात्मा आत्मनो देहात् जीवाच् च परो भिन्न एको देहो जीवश् चानेकः । एवम् अशुद्धः प्रकाश-हीनः सगुणः गुण-जन्यत्वात् गुणाधीनत्वाच् च गुणाश्रितः जडत्वाद् अनुरूपत्वाच् च सात्मेति देह-जीवाभ्याम् नवधा वैलक्षण्यं परमात्मन उक्तम् । एतेनैव जीवस्य देहेन सह नवधा वैलक्षण्यं च दर्शितम् इति ॥७॥


॥ ४.२०.८ ॥

य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः ।

नाज्यते प्रकृति-स्थोऽपि तद्-गुणैः स मयि स्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-स्थं स्वस्मिन् स्थितम् । प्रकृति-स्थोऽपि देह-स्थोऽपि तद् विकारैर् न लिप्यते । यतः स मयि ब्रह्मणि स्थितः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस्त्वं देहादात्मान्योस्त्यतो हेतोः । इति भाव इति । आसक्तिरे व बन्धहेतुर्न ह्यनासक्तिरपीत्याशयः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्म-स्थं शुद्ध-जीवान्तर्यामित्वेन स्थितम् । मयि स्थितो मद्-आश्रितत्वेनानुसन्धायी ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स प्रकृतिस्थः देहस्थोऽपि देह-गुणैर् नाजाते इति न देहस्थ इत्य् अर्थः ॥८॥


॥ ४.२०.९ ॥

यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस् तस्य मनो राजन् प्रसीदति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इयम् अवस्था कस्योत्पद्यत इत्य् अपेक्षायाम् आह—यः स्व-धर्मेणेति चतुर्भिः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कस्योत्पद्यते भक्ति-मिश्र-ज्ञानेन यतमानस्येत्याह—य इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयम् उक्त-लक्षणः प्रबोधो भक्ति-मिश्रेण ज्ञानेन यतमानस्य भवतीति तत्-साधनम् आह—य इति ॥९॥


॥ ४.२०.१० ॥

परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः ।

शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतु मनः प्रसन्नम्, ततः किं ? तत्राह । यर्हि विशदाशयः प्रसन्न-मनास् तदा परित्यक्त-गुणः सन् सम्यग् दर्शनो भूत्वा शान्तिम् अश्नुते । शान्तिम् एवाह—मम सम्यग्-औदासीन्येन अवस्थानम् एव ब्रह्म**,** तद् एव कैवल्यम् अश्नुते ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवतु मनः प्रसन्नं ततः किं तत्राह—यर्हीति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मां समवस्थानं शक्त्य्-आद्य्-अविशिष्टतयाविर्भाव-विशेषः, तद् एव ब्रह्म कैवल्यम् अश्नुते अनुभवति ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : [+++]{।मर्क्}


॥ ४.२०.११ ॥

उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् ।

कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्यग्-दर्शनम् एवाह—उदासीनम् एवात्मानं द्रव्य-ज्ञान-क्रियात्मनां देह-ज्ञान-कर्मेन्द्रिय-मनसाम् अध्यक्षम् इव स्थितम् आत्मानं यो वेद ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र विश्वनाथः—अध्यक्षं जीवात्मानमुदासीनम् इव तेष्वनासक्तम् इव यो वेद स इमं कूटस्थमात्मानं परमात्मानं वेद यः परमात्मानं वेद सो\ऽभवं मोक्षं प्राप्नोत्यावृत्त्यान्वयः । शोभनम् इति पाठे\ऽपि स एवार्थः । अत्रेवकारेण सम्यगुदासीनत्वाभावे\ऽपि साधनदशायां ज्ञानसिद्धिं सूचयति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : केवलम् एव दर्शयति—उदासीनम् इति । अध्यक्षम् इव स्थितम् अप्य् उदासीनं यो वेदेत्य् अन्वयः, अभवं मोक्षम् इति सम्बन्धोक्तिः, सोऽभयम् इति चित्सुखः, शोभनम् इति गौडीयः पाठः ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्यग्-दर्शनम् एवाह—द्रव्य-ज्ञान-क्रियात्मनाम् अधिभूताधिदैवाध्यात्म-मनसाम् अध्यक्षम् जीवात्मानम् उदासीनम् इव तेष्व् अनासक्तम् इव यो वेद, स इमं कूटस्थम् आत्मानं वेद, यः परमात्मानं वेद, स अभवं प्राप्नोतीत्य् आवृतान्वयः । अत्रेव-कारेण सम्यग्-उदासीनत्वाभावेऽपि साधन-दशायां ज्ञान-सिद्धिं सूचयति ॥११॥


॥ ४.२०.१२ ॥

भिन्नस्य लिङ्गस्य गुण-प्रवाहो

द्रव्य-क्रिया-कारक-चेतनात्मनः ।

दृष्टासु सम्पत्सु विपत्सु सूरयो

न विक्रियन्ते मयि बद्ध-सौहृदाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवाद् भिन्नस्य मनसो गुणाः सत्त्वादयो मताः ।

तज् ज्ञात्वा न विकुर्वीत स्व-स्वरूपं मनस् तथा ॥ इति षाड्गुण्ये ॥१२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : संसारिणः कथं कूटस्थत्वम् ? अत आह—भिन्नस्य लिङ्गस्य देहस्य गुण-प्रवाहः संसारः । भिन्नत्वे हेतुः—द्रव्याद्य्-आत्मकस्य । तत्र चेतना चिद्-आभासः । अतो दृष्टासु प्राप्तासु हर्ष-शोकादिभिर् न विक्रियन्ते ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—संसारिण इत्य्-आदिना । द्रव्याद्यात्मकस्याधिभूताध्यात्माधिदैवबुद्ध्यात्मकस्य । तत्र द्रव्यादिषु चेतनाबुद्धिश्चिदाभासश् च यतो बुद्ध्याद्यात्मलिङ्गदेहस्यैव संसारो\ऽतो हेतोः हर्षशोकादीनामात्मधर्मत्वाभावाद् इत्य् अर्थः । अयमर्थः—लिङ्गदेहस्य खल्वभिमानेनैव जीवस्य संसारो न त्वौदासीन्येनेति । तत्राध्यक्षत्वे\ऽपि न जीवस्य क्षतिर्लिङ्गस्यापि तद् एव लिङ्गत्वम् इति । एवञ्च यः स्वधर्मेण इत्य्-आदिना भक्ति-मिश्रेण ज्ञानेन यतमानानां संसाराभावमुक्त्वाकेषांचित्केवलयैव भक्त्या जरयत्याशु या कोशम् इत्यक्तन्यायेन संसारनिवृत्तये यतमानानाम् अपि संसाराभावम् आह—दृष्टास्व् इति । आसक्त्य्-अभावात्प्राकृतसम्पद्विपदोर्न विक्रियन्ते । आसक्त्य्-अभावे हेतुः—मयि बद्वेति । सौहृदबद्धत्वं तु केवलयैव भक्त्या भवेदित्यापादितं तृतीय-स्कन्धे ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ भक्ति-पक्षेणापि तं सान्त्वयति—भिन्नस्येति ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु द्रव्यादीनाम् अध्यक्षत्वेऽपि जीवस्य तेष्व् एवोदासीन्य-मात्र एव कथं संसाराभाव इत्य् अत आह—भिन्नस्य जीवाद् अन्यस्य लिङ्ग-देहस्यैव गुण-प्रवाहः संसारः । भिन्नत्वे हेतुः—द्रव्याद्य्-आत्मकस्य । अधिभूताध्यात्माधिदैव-बुद्ध्य्-आदि-स्वरूपस्य । अयम् अर्थः—लिङ्ग-देहे खल्व् अभिमानेनैव जीवस्य संसारो, न त्व् औदासीन्येनेति तत्राध्यक्षत्वेऽपि न जीवस्य क्षतिर् लिङ्गस्यापि तत्र चेतना चिद्-आभासः । अतो दृष्टासु प्राप्तासु । हर्ष-शोकादिभिर् न विक्रियन्ते ॥१२॥


॥ ४.२०.१३ ॥

समः समानोत्तम-मध्यमाधमः

सुखे च दुःखे च जितेन्द्रियाशयः ।

मयोपकॢप्ताखिल-लोक-संयुतो

विधत्स्व वीराखिल-लोक-रक्षणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं च सूरिरतः सुखे दुःखे च समः सन् समाना उत्तम-मध्यमाधमा यस्य । जितानीन्द्रियाण्य् आशयश् च येन । स त्वम् अखिल-लोक-रक्षणं विधत्स्व । कथम् एकेन मया रक्षणं कर्तुं शक्यम् ? तत्राह—मयेश्वरेणोपकॢप्ताः संपादिता येऽखिला लोका अमात्यादयस् तैः संयुतः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सूरिर्मयि बद्धसौहृद इत्यतो मन्निदेश एव वर्तस्वेत्याह । अतः सूरित्वात् । कथमित्युपशङ्कते । तत्राशङ्कायाम् । ईश्वरदत्तैश्वर्यो\ऽहमीश्वराज्ञापालन-रूपं प्रजारक्षणं करोमीति बुद्ध्येत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ कर्तव्यम् उपदिशति सम इति । लोकेत्य् अत्र सत्त्वेति चित्सुखः ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं च मयि बद्ध-सौहृद इत्य् अतो मन्-निदेश एव वर्तस्वेत्य् आह—सम इति चतुर्भिः । प्राकृत-सम्पद्-विपदोः सम-बुद्धिः । समानाः सत्त्वादि-गुणैर् उत्तम-मध्यमाधमा यस्य सः । मयेश्वरेणोपकॢप्ताः सम्पादिताः येऽखिल-लोका अमात्यादयस् तैः संयुतः । ईश्वर-दत्तैश्वर्योऽहम् ईश्वराज्ञा-पालन-रूपं प्रजा-रक्षणं करोमीति बुद्ध्येत्य् अर्थः ॥१३॥


॥ ४.२०.१४ ॥

श्रेयः प्रजा-पालनम् एव राज्ञो

यत् साम्पराये सुकृतात् षष्ठम् अंशम् ।

हर्तान्यथा हृत-पुण्यः प्रजानाम्

अरक्षिता कर-हारोऽघम् अत्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु रक्षणं दण्डादि-सापेक्षम्, अतस् तपोऽन्यद् वा पुण्यं करिष्यामीति चेत्, अत आह—श्रेय इति । यद् यस्मात् साम्पराये पर-लोके प्रजाभिः कृतात् सुकृतात् षष्ठम् अंशं हर्ता हरति । अरक्षणे दोषम् आह । अन्यथा प्रजाभिर् हृतं पुण्यं यस्य स प्रजानाम् अघम् अत्ति पापं भुङ्क्ते । अन्यथेत्य् अस्य विवरणम्, कर-हारः सन्न् अरक्षिता चेत् ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति नन्व् इति । आदिना करादिग्रहः । संपरायः समीपे स्याद् आपदुत्तरकाल्योः । परलोके महैश्वर्ये इत्य् अभिधानात् । एवकारेणान्ययोगो व्यवच्छिद्यते ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यस्यापि राज्ञः प्रजा-पालनम् एव धर्म इत्य् आह—साम्पराये पर-लोके प्रजानां सुकृतात् हर्ता गृहीता ॥१४॥


॥ ४.२०.१५ ॥

एवं द्विजाग्र्यानुमतानुवृत्त-

धर्म-प्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान्

द्रष्टासि सिद्धान् अनुरक्त-लोकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं च मोक्षोऽप्य् अनायासेन भविष्यतीत्य् आह—द्विजाग्र्याणाम् अनुमतश् चासाव् अनुवृत्तश् च परम्परा-प्राप्तो यो धर्मः स एव प्रधानम् अर्थ-कामौ तु प्रासङ्गिकौ यस्य । अन्यतमोऽतिशयेनान्यः । धर्मादिष्व् अनासक्त इत्य् अर्थः । ऐकपद्य-पाठे धर्म-प्रधानाव् अन्यतमाव् अर्थ-कामौ यस्येत्य् अर्थः । अस्याः पृथिव्या अविता सन् अल्पेन कालेन गृहागतान् सनकादीन् द्रक्ष्यसि । अनुरक्तो लोको यस्मिन् सः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्विजाग्र्याणां शास्त्राभिज्ञविप्राणामनुमतस्तैरनुज्ञातः । इत्य् अर्थ इति । तमबत्र प्रकृष्टार्थे न तु डतम इति भ्रमितव्यं तस्यानुपयोगाद् इति भावः । इत्य् अर्थ इति । इत्थं बहुव्रीहिं कृत्वा पुनर् द्विजाग्रैरनुमतः स चासौ प्रवृत्तश्चेति धर्मप्रधानान्यतमश्चेति कर्मधारयः कार्य इति भावः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्तर-काले तस्य स्व-भक्ति-निष्ठां स्व-भक्तेषु विख्यापयितुम् इच्छया अन्येषु ज्ञानादि-प्रवर्तनेच्छया च तस्य कर्तव्यं सूचयति—एवम् इति ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विजाग्र्यैः शास्त्राभिज्ञैर् विप्रैर् अनुमतोऽथ चानुवृत्तः परम्परा-प्राप्तो धर्म एव प्रधानं यस्य सः । अन्यतमस् तत्रानासक्तः ऐकपद्य-पाठे कर्मधारयः । अस्याः पृथिव्याः ॥१५॥


॥ ४.२०.१६ ॥

वरं च मत् कञ्चन मानवेन्द्र

वृणीष्व तेऽहं गुण-शील-यन्त्रितः ।

नाहं मखैर् वै सुलभस् तपोभिर्

योगेन वा यत् सम-चित्त-वर्ती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मत् मत्तः सकाशात् किञ्चिद् वरं वृणीष्व । गुणाः शमादयः, शीलं निर्मत्सरत्वादि-स्वभावः, तैर् अहं मन्त्रितो वशीकृतः । तद्-रहितैस् मखादिभिर् नाहं सुलभः । यतः समं चित्तं येषां तेष्व् एव वर्तितुं शीलं यस्य सोऽहम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्यनुकम्पाविगतधैर्य आह—वरं चेति । मानवेन्द्रेत्युक्त्या देवेन्द्रत्वं तु यज्ञस्यैव तिष्ठत्वतो\ऽन्यं वरं मत्तः कंचन वृणीष्वेत्यभिप्रायः । समत्वं चात्र—

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥

इत्य् उक्तरीत्या भक्त्युत्थम् एव ग्राह्यं न रोधयति मां योगः इत्याद्युक्तर्योगाद्युत्थम् इति सन्दर्भः । विश्वनाथस्तु—समं तुल्यम् एव सर्वेषां चित्तवर्ती चित्ताधिष्ठाता सर्वत्रोदासीन एव न तु कस्यापि वश इत्य् आह । समे निर्दोषं हि समं ब्रह्म इति श्रीगीतोक्तेर्ब्रह्मणि चित्तं येषां ते समचित्ता ज्ञानिनस् तत्र वर्ती प्रियो हि ज्ञानिनो\ऽत्यर्थमहं स च मम प्रियः इति श्रीमुखोक्तेः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सम्प्रत्य् अपि पूर्वेच्छयाह—वरं चेति । गुण-शीले अत्र भक्त्य्-उत्थे एव ज्ञेये । तत्र गुणाः गुरूपसत्ति-प्राप्ताः पाण्डित्य्-आदयः । शीलं तु सुस्वभावो विनयादिः, समत्वं च, नारायण-पराः सर्वे [भा।पु। ६.१७.२८] इत्य्-आदि-रीत्या तद्-उत्थम् एव, न तु योगाद्य्-उत्थानि तानि । न रोधयति मां योगः [भा।पु। ११.१२.१] इत्य्-आदेः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्यनुकम्पया विगत-गाम्भीर्य आह—वरं चेति । गुण-शीलाभ्याम् ताभ्याम् वशीकारासम्भवाद् अप्राकृते ते भक्त्य्-उत्थे एव ज्ञेये । गुणो दया-क्षमादिः, शीलं विनय-स्नेहादि-मयः स्वभावः । नाहम् इति—न रोधयति मां योगः [भा।पु। ११.१२.१] इत्य्-आदेः । यद् यस्मात् समं तुल्यम् एव सर्वेषां चित्त-वर्ती चित्ताधिष्ठाता सर्वत्रोदासीन एव, न तु कस्यापि वश इत्य् अर्थः ॥१६॥


॥ ४.२०.१७ ॥

मैत्रेय उवाच—

स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् ।

अनुशासित आदेशं शिरसा जगृहे हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं श्री-भगवत आदेश-त्र् अयं जातम् इन्द्रेण प्रीतिः सिद्धानुगमनं यात्रा-स्वीकारश् चेति । तद् एव त्रयम् अपि स्वीचकारेत्य् आह—स इत्थम् इति ॥१७॥


॥ ४.२०.१८ ॥

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।

शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आयास-दुःख-व्रीडादीन् प्रायशः सुखिनोऽपि तु ।

नियमाद् ऋषि-भूतेषु मोहायादर्शयन् सुराः ॥ इति ब्रह्म-तर्के ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षमापयितुं पादयोः स्पृशन्तम् । स्वेन कर्मणाऽश्वापहरणेन व्रीडितम् । प्रेम्णा परिष्वज्य ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विश्वजित्समस्तजेता पृथुः ॥१७-१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रान्तिम-द्वयं स्वानुकूलेन प्रकार-विशेषेण प्रथमं तु यथावद् एव स्वीचकारेत्य् आह—स्पृशन्तम् इति प्रेम्णेति । परम-प्रेमास्पदत्वेन श्री-भगवता स्वयं मेलितत्वाद् इति भावः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वेनाश्वापहरणेन ॥१८॥


॥ ४.२०.१९-२० ॥

भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥

प्रस्थानाभिमुखोऽप्य् एनम् अनुग्रह-विलम्बितः ।

पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवान् प्रस्थानाभिमुखोऽप्य् अनुग्रहेण विलम्बितः सन् न प्रतस्थे प्रयाणं न कृतवान् इति द्वयोर् अन्वयः । कथं-भूतः ? उपहृतम् अर्पितम् अर्हणं यस्मै । समुज्जिहानया समुद्गच्छन्त्या वर्धमानया भक्त्या गृहीते चरणाम्बुजे यस्य ॥१९॥ पद्म-पलाशवद् अक्षिणी यस्य तथाभूतः सन् । एनं पृथुं पश्यन् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ उभयोर् मेलनानन्तरम् ॥ यात्रा प्रयाणं प्रस्थानं गमनं चलनं गतिः इत्य् अभिधानात् ॥१९-२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् प्रस्थानाभिमुखोऽप्य् अनुग्रहेण विलम्बितः सन् न प्रतस्थे प्रयाणं न कृतवान् इति द्वयोर् अन्वयः । कथं-भूतः ? उपहृतम् अर्पितम् अर्हणं यस्मै । समुज्जिहानया समुद्गच्छन्त्या वर्धमानया भक्त्या गृहीते चरणाम्बुजे यस्य ॥१९-२०॥


॥ ४.२०.२१ ॥

स आदि-राजो रचिताञ्जलिर् हरिं

विलोकितुं नाशकद् अश्रु-लोचनः ।

न किञ्चनोवाच स बाष्प-विक्लवो

हृदोपगुह्यामुम् अधाद् अवस्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतस् तत्-कृपातिरेकम् उक्त्वा तस्य भक्त्य्-उद्रेकम् आह—स इति द्वाभ्याम् । बाष्प-विक्लवत्वेन तूष्णीम् अवस्थितः सन्न् अमुं हरिं हृदोपगुह्य अधाद् धृतवान् ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पृथुः वाक्य-भेदात् स इत्य् अस्य पौनरुक्त्यं न ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतः कृपातिरेकम् उक्त्वा तस्य पृथोर् भक्त्य्-अतिशयम् आह—स इति ॥२१॥


॥ ४.२०.२२ ॥

अथावमृज्याश्रु-कला विलोकयन्न्

अतृप्त-दृग्-गोचरम् आह पूरुषम् ।

पदा स्पृशन्तं क्षितिम् अंस उन्नते

विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतृप्तयोर् दृशोर् गोचरं विषय-भूतम् । पदा क्षितिं स्पृशन्तम् इति । अयं भावः—न खलु देवाः पदा भुवं स्पृशन्ति, अतः कृपा-पर-वशो नूनं हरिर् आत्मानं विस्मृतवान् इवेति । अत एव स्खलन-परिहारायैव गरुडस्य [उरङ्ग-विद्विषः] उन्नते -स्कन्धे [अंसे] विन्यस्तं हस्ताग्रं येन तम् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो\ऽत्र । अत एव विस्मृतात्मत्वाद् एव । अथ हृदि धारणोत्तरम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतृप्तयोर् दृशोर् गोचरं विषय-भूतम् । पदा क्षितिं स्पृशन्तम् इत्य् अत्र भावः श्री-स्वामि-चरणैर् व्याख्यातः—न खलु देवाः पदा भुवं स्पृशन्ति, अतः कृपा-पर-वशो नूनं हरिर् आत्मानं विस्मृतवान् इव इति । अत एव स्खलन-परिहारायैव गरुडस्योन्नते -स्कन्धे विन्यस्तं हस्ताग्रं येन तम् इति ॥२२॥


॥ ४.२०.२३ ॥

पृथुर् उवाच—

वरान् विभो त्वद् वरदेश्वराद् बुधः

कथं वृणीते गुण-विक्रियात्मनाम् ।

ये नारकाणाम् अपि सन्ति देहिनां

तान् ईश कैवल्य-पते वृणे न च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वरं वृणीष्व [भ।पु। ४.२०.१६] इति यद् उक्तं तद् असहमान आह—हे विभो ! वरदानां ब्रह्मादीनाम् ईश्वराद् वर-प्रदात् त्वत् त्वत्तः सकाशाद् बुधः कथं वरान् वृणीते ? कीदृशान् ? गुणैर् विक्रियत इति गुण-विक्रियोऽहङ्कारः, स एव आत्मा येषां, तेषां ब्रह्मादीनां सम्बन्धिनः । देहाभिमानिनां भोग्यान् इति वा । तथा चेद् बुध एव न भवतीत्य् अर्थः । जुगुप्सितत्वाद् अपीत्य् आह—ये इति । बुध एवाहम् अपि न वृणे इति समुच्चयाय -कारः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभो इति । न हि विभो वरं वृणीष्व [भा।पु। ४.२०.१६] इति कथनं युक्तं विभुत्व-हानि-प्रसङ्गाद् इति भावः । आत्मात्मत्वेनाभिमतः । कैवल्य-पते इति कैवल्य-कामो\ऽपि यान् न वृणीते, तान् अहं कैवल्यस्याप्य् असहिष्णुः कथं वृणे ? इति भावः । ईश इति स्वाभिमत-दाने सामर्थ्यं द्योतयति ॥२३॥


कैवल्य-दीपिका : वरान् इति । द्वितीयेऽस्मिन् दान-वीर-प्रभेदे पृथुर् भक्त इत्य् अभिप्रेत्याह—पृथुर् इति । वरं च मत् कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुण-शील-यन्त्रितः [भा।पु। ४.२०.१६] इति भगवद्-उक्तिं निशम्याह—वरान् इति । गुण-विक्रियात्मनां गुण-विकार-रूपाणां ब्रह्मादीनां वरान् वरदेश्वरतया त्वत्तः कथं वृणीते ? ब्रह्म-पदादीनां विषय-सुखात्मकत्वात् । विषय-सुखानि च नारकाणां नरक-निवासिनाम् अपि सन्ति । अतस् तान् ब्रह्म-पदादि-रूपान् वरान् नैव वृणेऽहं, यतस् त्वम् ईशः समर्थः । कैवल्य-पतिश् च कैवल्यं च तवाधीनम् ॥२३॥ [मु।फ। १९.३]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ सिद्धोपदेश-स्वीकारे प्रकार-विशेषो दर्शयिष्यते । वरे तु दर्श्यते—वरान् विभो इति । वरदानां ब्रह्मादीनाम् अपि ईश्वरात् सर्वातिशय-वर-दायकाद् अपि त्वत्त इत्य् अर्थः, यो बुधः कथं वृणीते ? -काराद् अहम् अबुधोऽपि न वृणे इत्य् अर्थः ॥२३॥ [प्रीति-सन्दर्भे २७-सङ्ख्यकानुच्छेदः द्रष्टव्यः।]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरं वृणीष्व [भ।पु। ४.२०.१६] एतस्योत्तरम् आह—वरान् बुधः कथं वृणीते, किन्त्व् अबुध एवेत्य् अर्थः । तत्रापि गुणैर् विक्रिया विकारो यस्य तथा-भूत आत्मा मनो येषां कर्मिणां सम्बन्धिनः स्वर्गादीन् इत्य् अर्थः । कैवल्य-पते इति कैवल्य-कामोऽपि यान् न वृणीते, तान् अहं कैवल्य-नामाप्य् असहिष्णुः कथं वृणे ? इति भावः ॥२३॥


॥ ४.२०.२४ ॥

न कामये नाथ तद् अप्य् अहं क्वचिन्

न यत्र युष्मच्-चरणाम्बुजासवः ।

महत्तमान्तर्-हृदयान् मुख-च्युतो

विधत्स्व कर्णायुतम् एष मे वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कैवल्य-पत [२३] इति सम्बोधनात् कैवल्यं वरिष्यतीति माशङ्कीर् इत्य् आह—नेति । महत्तमानाम् अन्तर्-हृदयान् मुख-द्वारेण [च्युतो] निर्गतो भवत्-पदाम्भोज-मकरन्दो [युष्मच्-चरणाम्बुजासवः] यशः-श्रवणादि-सुखं यत्र अस्ति, तादृशं चेत् कैवल्यं, तर्हि तत् क्वचित् कदाचिद् अपि न कामये । तर्हि किं कामयसे ? तद् आह—यशः-श्रवणाय कर्णानाम् अयुतं विधत्स्व । ननु कोऽप्य् एवं न वृतवान् । किम् अन्य-चिन्तया ? इत्य् आह—मम तु एष एव वरः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कैवल्यम् अपि येभ्य एव रोचते, तेभ्य एव तद् दीयताम् इत्य् अभिप्रायेणैव मया तच्-छब्देनामन्त्रितो\ऽसीत्य् आह— इति । वरश् च मत् कञ्चनेति यद् उक्तं तत्र सामान्यतो वरान् अहं एव कामये विशेषतो\ऽपि कञ्चन वरं कैवल्यं तद् अपि न, कुतः ? यत्र कैवल्ये अन्तर् हृदयेन आस्वाद्यानन्दोद्रेकात् कीर्त्यमान इत्य् अर्थः । शुक-मुखाद् अमृत-द्रव-संयुतम् [भा।पु। १.१.३] इतिवन् महद्-आस्वाद्यत्वे सति तस्यापि माधुर्यम् उदयत इति भावः । मधुरम् अपि जलं क्षार-भूमि-प्रतिष्ठं यथा विरसी-भवति, तथैव अवैष्णव-मुख-निर्गतो भगवद्-गुणो\ऽपि न रोचको भवतीति व्यतिरेकश् च गम्यः । महतां गुण-कथानाच् चानन्त्यात् यत्र यत्र यैर् यैर् या या गुण-कथाः कीर्त्यमानाः, तासाम् एकाम् अपि गुण-कथां त्यक्तुं न शक्नोमीत्य् अतिलोभात् कर्णायुत-स्पृहा, तेन कैवल्य-कामा येभ्य इन्द्रियेभ्यो द्रुह्यन्ति, तान् एवाहं कामय इति द्योतितम् ॥२४॥


कैवल्य-दीपिका : तर्हि कैवल्यम् एव वृणीष्व इति चेत् तत्राह—न कामय इति । तद् अपि न कामये यत्र कैवल्ये युष्मच्-चरणाम्बुजस्यासवो मकरन्दः । क्वचिद् एक-देशेऽपि नास्ति भक्ति-सुखं नास्तीत्य् अर्थः । स हि महत्तमानाम् अन्तर्-हृदय अतति सततं गच्छतीति महत्तमान्तर्-हृदयात् । अत क्वी-रूपम् । तद्-धृदयान्तर्-वर्ती तन्**-मुख-च्युतम्** आस्वाद्यन्तेऽन्यैः, अतो बहुभ्यो युगपत् तद्-आकर्णनार्थं कर्णानन्त्यम् एव मे मह्यं विधत्स्वएष एव वरः ॥२४॥ [मु।फ। १९.४]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न कामये इति । तद् अपि कैवल्यम् अपि । कर्णायुत-प्रार्थनम् अत्यासक्ति-परत्वम् ॥२४॥ [प्रीति-सन्दर्भ २७*]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं वा, कैवल्य-पते [२३] इति सम्बोधनात् कैवल्यं वरिष्यतीति मा शङ्किष्ठाः, किन्तु कैवल्यम् अपि येभ्य एव रोचते, तेभ्य एव तद् दीयताम् इत्य् आभिप्रायेणैव तु मया तच्-छब्देनामन्त्रितोऽसीत्य् आह— इति । वरं च मत् कञ्चन वृणुष्व [भा।पु। ४.२०.१६] इति यद् उक्तम्, तत्र सामान्यतो वरान् अहं नैव कामये । विशेषतोऽपि कञ्चन वरं कैवल्यम्, तद् अपि क्वचित् कदाचिद् अतिदुःख-दशायाम् अपि न कामये

कुतः ? यत्र कैवल्ये युष्मच्-चरणाम्बुजस्य आसवो मकरन्दस् तदीय-गुण-कथा-माधुर्य-भरो नास्ति । कीदृशः ? महत्तमानाम् अन्तर् हृदयात् मुख-द्वारा च्युतः अन्तर्-हृदयेनास्वाद्यानन्दोद्रेकात् कीर्त्यमान इत्य् अर्थः । शुक-मुखाद् अमृत-द्रव-संयुतम् [भा।पु। १.१.३] इतिवन् महद्-आस्वाद्यत्वे सति तस्यातिमाधुर्यम् उदयते इति भावः । मधुरम् अपि जलं क्षार-भूमि-प्रविष्टं यथा विरसीभवति, तथैवावैष्णव-मुख-निर्गतो भगवद्-गुणोऽपि नातिरोचक इति व्यतिरेकश् च गम्यः ।

तर्हि किं कामयसि ? इत्य् अत्राह—विधत्स्व इति । महतां गुण-कथां चानान्त्यात् यत्र यत्र यैर् यैर् या या गुण-कथाः कीर्त्यमानाः स्युः, तासाम् एकाम् अपि कथाम् अहं त्यक्तुं न शक्नोमीत्य् अतिलोभात् कर्णानन्त्य-स्पृहा, तेन कैवल्य-कामा येभ्यः श्रोत्रादीन्द्रियेभ्यो प्रियेभ्यो द्रुह्यन्ति, तान्य् एवाहं कामये इति द्योतितम् । ननु कोऽप्य् एवं न वृणीते ? सत्यम् । मम त्व् एष एव वरो, नान्य इति ॥२४॥

[अत्रानुरूपार्थकं १०.५१.५५-तम-पद्ये श्री-मुचुकुन्द-स्तवो द्रष्टव्यः ॥]


॥ ४.२०.२५ ॥

स उत्तमश्लोक महन्-मुख-च्युतो

भवत्-पदाम्भोज-सुधा-कणानिलः ।

स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां

कुयोगिनां नो वितरत्य् अलं वरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि कैवल्याभावे राग-द्वेषाद्य्-आकुलानां भक्ति-सुखम् अपि न स्याद् इत्य् आशङ्क्याह—स इति । भवत्-पदाम्भोज-सुधायाः कणो लेशस् तत्-सम्बन्धी योऽनिलः स एव । दूराद् अपि किञ्चिद् यशः-श्रवण-मात्रम् इत्य् अर्थः । विस्मृतं तत्त्व-वर्त्म यैः कुयोगिभिस् तेषाम् अपि पुनः स्मृतिम् आत्म-ज्ञानं वितरति । अतो न खलु भक्तानां रागादि-संभवः, अतो नोऽस्माकं सार-ग्राहिणाम् अन्यैर् वरैर् अलम् । भक्ताव् एव मोक्षादि-सर्व-सुखान्तर्-भावाद् इति भावः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । इत्य् अर्थ इति । तत्-सम्बन्धी तावद् अनिलो\ऽपि कुतः ? कणः कुतस्तरां ? सा सुधा तद्-गुण-कथा-लेश-प्रसङ्गान् इति भावः, अतः प्राप्त-ज्ञानत्वात् । अतो रागाद्य्-अभावात् । इत्य् अर्थ इति—

या निर्वृतिस् तनुभृतां तव पादपद्म-

ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।

सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् ॥ [भा।पु। ४.९.१०] इत्य्-उक्तेर् इति भावः ॥२५॥


कैवल्य-दीपिका : मुक्ति-सुखे भक्ति-सुखाभावात् भक्ति-सुखे मुक्ति-सुखाभावो नास्तीत्य् आह—स उत्तमेतिसुधा-कणानां अमृत-बिन्दूनाम् अनिलो दूराद् अपि श्रवणम् इत्य् अर्थः । विस्मृतं तत्त्व-वर्त्म यैः, तेषां कुयोगिनाम् अस्माकं तत्-स्मृतिं वितरति स्वरूपानुभव-सुख-रूपां मुक्तिं ददातीत्य् अर्थः । विषय-सङ्गेऽपि मोक्ष-कामत्वात् कुयोगित्वम् । मुक्ति-सुखेन सह भक्ति-सुखं स्व-भक्तानाम् अस्तीत्य् अर्थः ॥२५॥ [मु।फ। १९.५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : यदि च वयं न तादृश-प्रार्थनाधिकारिणः गाढासक्त्य्-अभावात्, तथापि तच्-छ्रवणम् एव स्ताद् इत्य् आह—स इति । तत्त्वम् अत्र तत्-पदाम्भोजम् एव मूलं तद्-अनुगतत्वेन शुद्धात्म-ज्ञानं च ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु महा-तत्त्व-ज्ञैर् अपि दुर्लभं कैवल्यम् अपि कुतो नेच्छसि ? इति तत्र व्याज-स्तुतिम् आश्रित्य् आह—स इति । भवत्-पदाम्भोज-सुधायाः कणो लेशस् तत्-सम्बन्धी तावद् अनिलोऽपि किम् उत तत्-कणः । किम् उततरां सा सुधा । तद्-गुण-कथा-लेश-प्रसङ्गोऽपीत्य् अर्थः । स्मृतिं त्वच्-चरण-स्मरणं वितरति । अत एव विस्मृत-तत्त्व-मार्गाणाम् इति त्वयोपदिष्टं यन् नवधा वैलक्षण्य-सालक्षण्याभ्याम् परमात्म-जीवात्म-देह-तत्त्वं, तद् अधुनैव मया विस्मृतम्, अत एव कुयोगिनाम् इति व्याज-स्तुतिः ।

अस्माकं [नो] वरैर् अलम् । विस्मृत-तत्त्व-वर्त्मत्वात् कैवल्येन त्वत्-कथास्वादैक-व्रतत्वाद् वरान्तरैर् अप्य् अस्माकं प्रयोजनं नास्ति । वयं कुयोगिनो निकृष्टाः खल्व् अभ्यस्त-तत्त्व-वर्त्मानः सुयोगिनो भवितुं न प्रभवामेति कथं कैवल्याय स्पृहयामः ? इति । कथं वा कीट-विशेषा मधुव्रता इव त्वच्-चरण-कमल-मकरन्दास्वाद-मात्रेणैव पूर्णा राज्यादि-सम्पत्तीः प्राप्तुं शक्नुमः ? इति भङ्ग्या स्वेषाम् एवोत्कर्षो ध्वनितः ॥२५॥


॥ ४.२०.२६ ॥

यशः शिवं सुश्रव आर्य-सङ्गमे

यदृच्छया चोपशृणोति ते सकृत् ।

कथं गुण-ज्ञो विरमेद् विना पशुं

श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भक्तिर् मुक्ति-फलैव, अतः फलं विहाय साधने भवतः कोऽयम् आग्रहः ? इत्य् आशङ्क्याह—हे सुश्रवः ! मङ्गल-कीर्ते ! ते शिवं यशः सतां सङ्गमे यः सकृद् अपि यदृच्छया अप्य् उपशृणोति गुण-ज्ञश् चेत्, स पशुं विनाऽन्यः कथं विरमेत् ? गुणातिशयं सूचयति—श्रीर् यद् यश एव प्रकर्षेण वृतवती । गुणानां सर्व-पुरुषार्थानां सङ्ग्रहः स्वस्मिन् समाहारस् तद्-इच्छया ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । यतो मुक्तिर् एव भक्ति-फलम् अतो हेतोः । अत्र विश्वनाथः—ननु मत्-कथास्वादाद् अपि विरम्य योगीन्द्र-स्पृहणीयं कैवल्यम् एव गृहाणेति तत्राह—यश इति । हे सुश्रवः ! मङ्गल-कीर्ते ! यशः-श्रवणेनैव—

कैवल्य-संमत-पथस् त्व् अथ भक्ति-योगः ।

को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ [भा।पु। २.३.१२]

इति न्यायेन न मोक्षार्थं यत्नान्तरं कार्यम् इति भावः । तव यशः यदृच्छया अयत्नतो\ऽकस्मात् प्राप्तम् अपि सकृद् अपि यः शृणोति गुणज्ञश् चेत् स कथं तस्माद् विरमेत् पशुं विना इति यो विरमेत् स मनुष्येषु पशुर्, यो न विरमेत् स पशुष्व् अपि मनुष्य इति ध्वनिः। तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इत्य्-आद्य्-उक्त-लक्षण-लक्षिताद् युष्मद्-यशः-पीयूषाद् विरमते योगिने त्रैवर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायाम् [भा।पु। ३.३२.१८] इत्य्-आद्य्-उक्त-स्वभावाय स-कर्मणे च पशवे पिण्याक-तुषादिकम् इव कैवल्यं देहि, न तु मह्यं मनुष्यायेत्य् अनुध्वनिः ।

ननु मद्-यशः-स्वादाद् अपि कैवल्यादिकम् अधिकं भवेद् इत्य् अत्र योगी स-कर्मा च प्रमाणं कैवल्यादिभ्यो मद्-यशः-स्वादो\ऽधिक इति भवन्-मते कः प्रमाणम् ? इति तत्राह—श्रीर् महा-लक्ष्मीर् ब्रह्मादि-सर्व-जगत्-पूज्या सर्व-गुण-पण्डितापि तद्-यशो वव्रे गुणानां तदीय-रूप-रस-गन्ध-शब्द-स्पर्श-लीला-लावण्य-कारुण्यानां सम्यग्-ग्रहणम् आस्वादन-सामर्थ्यं तद्-इच्छया इति सैवात्र प्रमाणं तद्-उपलक्षिता अन्ये\ऽप्य् आस्वादित-चर-कैवल्य-सुखम् अपि लघूकरिष्णवो यशस्य् एव रममाणाः शुकादयो\ऽपि प्रमाणं घास-बुद्ध्यैवेक्षु-पल्लवानि चरन्न् अप्य् अन्तस् तदीय-काण्डेष्व् अरुचिर् घासम् एवास्वादयन् वृष इव योगी सहकार-पल्लवानि त्यक्त्वा कण्टकम् एवास्वादयन्न् उष्ट्र इव सकर्मा किं प्रमाणं भवेत् ? इति भावः ॥२६॥


कैवल्य-दीपिका : श्रवणस्य दुःसम्पादकत्वात् सुसम्पादकत्वेऽपि परिणति-विरसत्वात् भक्ति-सुखं दुर्लभम् इति चेत्, तत्राह—यश इति । हे सुश्रवः ! सुकीर्ते ! यदृच्छया गुरु-शिष्य-भावं विनापि उपशृणोति । उपश्रोतृतया असकृद् वारं वारम् । -शब्दश् चेद्-अर्थे पशुं विना अन्यः कथं विरमेत् ? यतो गुणज्ञः । मुक्ति-सुखेऽपि गुणाः सन्तीति चेत्, तत्राह—श्रीर् इति । श्रीः भूतिः सुख-स्वामिनी यद् भक्ति-सुखं प्रकर्षेण वव्रे । भक्ति-गुणान् सङ्गृह्य मुक्ति-गुणेष्व् आधातुम् इच्छया । अत्र यशसः शिवत्वात् निर्विघ्नत्वम् । सुश्रव इति निर्देशस्य सम्बोधन-परत्वेऽपि विशेषण-प्रधानत्वात् शोभनत्वेन सुख-ग्राह्यत्वम् । आर्य-सङ्गम-हेतुत्वात् सुलभत्वम् उक्तम् ॥२६॥ [मु।फ। १९.६]


यशः शिवं सुश्रव आर्य-सङ्गमे

यदृच्छया चोपशृणोति ते सकृत् ।

कथं गुण-ज्ञो विरमेद् विना पशुं

श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥

सनातन-गोस्वामी- [ह।भ।वि। १०.४६९] ननु भक्तिर् मुक्ति-फलैव, अतः फलं विहाय साधने कोऽयम् आग्रहः ? इत्य् आशङ्क्याह—यश इति । हे सुश्रवः ! मङ्गल-कीर्ते ! शिवं परम-सुखात्मकं ते यशः सतां सङ्गमे यः सकृद् अपि यदृच्छया अप्य् उप श्रोतॄणां समीपे उपविष्ट-मात्रोऽपि शृणोति गुणज्ञश् चेत् कथा-माहात्म्याभिज्ञश् चेत्, स कथं विरमेत् ? पशुं विना, पशुर् एव विरमति, नान्य इत्य् अर्थः । गुणातिशयं सूचयति—श्रीर् यद् यश एव प्रकर्षेण वृतवतीगुणानां सर्व-पुरुषार्थानां सङ्ग्रहः समाहारः, तद्-इच्छया, अतो यशः-सेवयैव परमानन्दोऽवान्तर-फलत्वेनाखिलार्थ-सिद्धिर् अपीति । किं मूल-परित्यागेन पत्र-मात्र-च्छायाश्रयणेन ? इति दिक् ।

अथवा, मत्-कथा-श्रवण-मात्रेण कृतार्थ एवासि । किं पुनस् तच्-छ्रवणाग्रहेण ? तत्राह—यश इति । अन्यथा गुणज्ञत्वाभावेन पशुत्वापत्तेर् इति भावः । अन्यत् समानम् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यतो यश इति । पशुं विना योऽन्यो गुणज्ञो मनुष्य-मात्रः स कथं विरमेत् ? स मनुष्येष्व् अपि पशुः । यो न विरमेत् स पशुष्व् अपि परम-गुणज्ञ इत्य् अर्थः । गुणानां त्वदीयानां सङ्ग्रहेच्छया आत्मनि प्रतिसङ्क्रमितुम् इच्छया ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मत्-कथास्वादाद् अपि विरम्य योगीन्द्र-स्पृहणीयं कैवल्यम् एव गृहाणेति तत्राह—यश इति । हे सुश्रवः ! मङ्गल-कीर्ते ! तव यशः यदृच्छया अयत्नतोऽकस्मात् प्राप्तम् अपि सकृद् अपि यः शृणोति गुणज्ञश् चेत् स कथं तस्मात् विरमेत् ? पशुं विना इति । यो विरमेत्, स मनुष्येषु पशुः, यो न विरमेत्, स पशुष्व् अपि मनुष्य इति ध्वनिः ।

तच् चापि चित्त-वडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इत्य्-आद्य्-उक्त-लक्षण-लक्षितात् युष्मद्-यशः-पीयूषाद् विरमते योगिने, त्रैवर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायां [भा।पु।३.३२.१८] इत्य्-आद्य्-उक्त-स्वभावाय कर्मिणे च पशवे पिण्याक-तुष-बुषादिकम् इव कैवल्यादिकं देहि, न तु मह्यं मनुष्यायेत्य् अनुध्वनिः ।

ननु मद्-यशः-स्वादाद् अपि कैवल्यादिकम् अधिकं भवेद् इत्य् अत्र योगी कर्मी च प्रमाणम् । इतितत्राह—श्रीर् महा-लक्ष्मीर् ब्रह्मादि-सर्व-जगत्-पूज्या सर्व-गुण-मण्डितापि त्वद्-यशो वव्रे गुणानां त्वदीय-रूप-रस-गन्ध-शब्द-स्पर्श-लीला-लावण्य-कारुण्याणां सम्यक्-ग्रहणम् आस्वादन-सामर्थ्यं तद्-इच्छयेति सैवात्र प्रमाणं, तद्-उपलक्षिता अन्येऽप्य् आस्वादित-चर-कैवल्य-सुखम् अपि लघूकरिष्णवो यशस्य् एव रममाणाः शुकादयोऽपि प्रमाणम् । घास-बुद्ध्यैवेक्षु-पल्लवानि चरन्न् अप्य् अन्ततस् तदीय-काण्डेष्व् अरुचिर् घासम् एवास्वादयन् वृष इव योगी, सहकार-पल्लवानि त्यक्त्वा कण्टकम् एव स्वादयन् उष्ट्र इव कर्मी किं प्रमाणं भवेत् ? इति भावः । भक्ताव् एव मोक्षादि-सर्व-सुखान्तर्भावात्, गुणानां सर्व-पुरुषार्थानां सङ्ग्रहः स्वस्मिन् समाहारस् तद्-इच्छया इति स्वामि-चरणाः ॥२६॥


॥ ४.२०.२७ ॥

अथाभजे त्वाखिल-पूरुषोत्तमं

गुणालयं पद्म-करेव लालसः ।

अप्य् आवयोर् एक-पति-स्प्****ऋधोः कलिर्

न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो लक्ष्मीर् इवान्य-वर-त्यागेन त्वाम् एवाहं भज इत्य् आह—अथ इति । लालस उत्सुकः सन् । कर्मणि क्रियमाणे यथेन्द्रेण सह कलिर् एवं भक्ताव् अपि किं लक्ष्म्या सह कलिः स्यात् ? इति वितर्कयति । एकस्मिन् पत्यौ स्पर्धमानयोर् आवयोर् अपि किं कलिर् न स्याद् ? इति काक्वा वितर्कः । ननु पर्यायेण सेवायां न स्यात् ? नैवम् । कृतस् त्वच्-चरणयोर् एवैकस् तानो मनो-विस्तारो याभ्यां तयोः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो लक्ष्मीस् त्वां भजते\ऽतो हेतोः । अत्र विश्वनाथः—अतः केवलं भजनम् एव वृणे, न तु वरान् इत्य् आह । अथ अतः सम्यक् निष्काम एव केवलाम् एव भक्तिं कुर्वे, न तु ज्ञान-कर्मादि-सिद्ध्य्-अर्थं ज्ञानि-सकर्म-गुणीभूताम् इत्य् अर्थः । तत्रापि न नारदादिर् इव किन्तु पद्म-करा लक्ष्मीर् इव मार्जन-लेपन-पाद-संवाहन-व्यजन-तांबूलार्पणादिभिर् अभीक्ष्णम् एवेत्य् अर्थः । यतो लालसः लालसावान् स महाल् लालसा द्वयोः इत्य् अभिधानाद् अत्यधिकं स्पृह इत्य् अर्थः । न चात्र पृथोर् उज्ज्वल-भाव आशङ्कनीयः, उत्तर-श्लोके जगज्-जनन्याम् इत्य् उक्तेः । जगति च स्वस्यान्तः-पाताल् लक्ष्म्यां जननी-भावेन स्वस्य दास्य-भाव-व्यक्तः । अतः पद्म-करेव इत्य् उपमेयम् । परिचरणांशेनैव भगवच्-चरण-परिचर्यायां तस्या एवातिप्रसिद्धेः लक्ष्म्यां परम-भक्तिमतो\ऽपि स्वस्य वीर-भक्तत्वं वाचैव द्योतयन्न् आह—अपीति । अपरं स्वामि-चरणोक्तिवत् । समाधये शङ्कते—नन्व् इति । परिहरति—नैवम् इति ॥२७॥


कैवल्य-दीपिका : शतक्रतुत्वे शक्रस्य स्पर्धावत् विष्णु-भक्तत्वे लक्ष्मी-स्पर्धा-दोषोऽस्तीत्य् आह—अथ इति । अथ-शब्दः प्रश्ने । अथ कलिर् न स्यात्अभजम् इति । भजनारम्भ-भूतत्वाल् लट्-प्रयोगः। लालस उत्कण्ठावान् । पद्म-करा इति विशेषण-प्रधानो निर्देशः भगवद्-उपायनार्थं लीला-कमल-धारिणीत्य् अर्थः । सा यथा भजति । त्वं हि प्रकृत्या सर्व-पुरुषेषु उत्तमः गुणाढ्यश् च गुणा सौन्दर्यादयः । अपि अहो । अहं च सा च, आवाम् इति विरूपत्वेऽपि त्वद्-आदेर् मिथो द्वन्द्वे यद् यत् परं, तत् स्वस्य इति वार्तिकाद् अस्मच्-छब्दः शिष्यते । यत आवाम् एकस्मिन् वस्तुनि स-स्पृहौ एक-पति-स्पृहत्वेऽपि स्पृहायाः भिन्न-प्रदेश-विषयत्वेन न विरोध इति चेत्, तद् अपि नास्तीत्य् आह—कृत- इति । एक-तानत्वम् अनन्य-वृत्तित्वात् । एवं कलि-विषये संशय्य स्वयम् एव निश्चिनोति ॥२७॥ [मु।फ। १९.७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथाभज इत्य्-आदि-द्वयं न खल्व् अस्य तत्-कान्त-भावाद् वासना जाता, किन्तु भक्ति-वासनैव । दृष्टान्तस् त्व् अत्र तस्या भक्त्य्-अंश एव । तया स्पर्धा तु तत्-परम-कृपोन्नद्धत्वेन वीराख्य-दास्यतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं मन्यन्ते तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स-प्रेम-वचन-विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहं, करोषि इत्य् अनेन स्वस्मिंस् तुच्छत्व-मननात् ।

अथवा अथाभज इति कलहाभाव एव योज्यम् । तत्र हेतुः—त्वच्-चरण- इति । जगज्-जनन्याम् [२८] इति तु कलहे ॥२७॥

[प्रीति-सन्दर्भ १७५] अत्र दास-भावाख्य-भक्ति-मयस्य प्रकृतत्वेन योग्यस्य तद्-अयोग्योज्ज्वल-सङ्गत्याभासितत्वम् । तत्र दास-भावस् तत्-प्रकरण-सिद्ध एव । उज्ज्वल-सङ्गतिश् च पद्म-करा इव लालस इत्य्-आदिनावगम्यते ।

अत्र समाधानं च । न खल्व् अस्य तद्वत् कान्त-भाव-वासना जाता, किन्तु भक्ति-वासनैव । दृष्टान्तस् तत्र तस्या भक्त्य्-अंश एव। तया स्पर्धा तु तत्-परम-कृपोन्नद्धत्वेन वीराख्य-दासतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं मन्यन्ते । तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स्व-प्रेम-वचन-विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहम् । करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः इति स्वस्मिंस् तुच्छत्व-मननात् ।

एवं श्री-त्रिविक्रमेण बलि-शिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [भा।पु। ८.२३.६] इति श्री-प्रह्लाद-वाक्यम् अपि दृष्टम् । श्री-नृसिंह-कृपायां स्वानुकम्पायाम् अपि—

क्वाहं रजः-प्रभव ईश तमोऽधिकेऽस्मिन्

जातः सुरेतर-कुले क्व तवानुकम्पा ।

न ब्रह्मणो न तु भवस्य न वै रमाया

यन् मेऽर्पितः शिरसि पद्म-करः प्रसादः ॥ [भा।पु। ७.९.२६]

अत्र ब्रह्मादेर् अधुना विद्यमानस्यापि ममैव शिरसि इत्य् अर्थः । अत उभयत्रापि तत्-तद्-अवतार-समयापेक्षयैव तादृश-प्रसादाभावो विवक्षित इति ज्ञेयम् ॥२७-२८॥


अथाभजे त्वाखिल-पूरुषोत्तमं

गुणालयं पद्म-करेव लालसः ।

अप्य् आवयोर् एक-पति-स्पृधोः कलिर्

न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः केवलं भजनम् एव वृणे, न तु वरम् इत्य् आह—अथ सम्यक् निष्काम एव कैवल्यम् एव भक्तिं कुर्वे, न तु ज्ञान-कर्मादि-सिद्धं ज्ञानी कर्मीव गुणी-भूताम् इत्य् अर्थः । तत्रापि न नारदादिर् इव, किन्तु पद्म-करा लक्ष्मीर् इव मार्जन-लेपन-पाद-संवाहन-व्यजन-ताम्बूलार्पणादिभिर् अभीक्ष्णम् एवेत्य् अर्थः । यतो लालसः लालसावान्, स महान् लालसा द्वयोः इत्य् अभिधानाद् अत्यधिकं स्पृहे इत्य् अर्थः ।

न चात्र पृथोर् उज्ज्वल-भाव आशङ्कनीयः । उत्तर-श्लोके जगज्-जनन्याम् इत्य्-उक्तेः । जगति च स्वस्यान्तः-पाताल् लक्ष्म्यां जननी-भावेन स्वस्य दास्य-भाव-व्यक्तेः । ततः पद्म-करा इव इत्य् उपमेयं परिचरणांशेनैव भगवच्-चरण-परिचर्यायां तस्या एवातिप्रसिद्धेः । लक्ष्म्यां परम-भक्तिमतोऽपि स्वस्य वीर-भक्तत्वं वा चैव द्योतयन्न् आह—अपि इति । कर्मणि क्रियमाणे यथेन्द्रेण सह कलिः, एवं भक्ताव् अपि लक्ष्म्या सह कलिः स्याद् इति वितर्कयति । एकस्मिन् पत्यौ स्पर्धमानयोर् अपि किं कलिर् न स्यात् ? इति काक्वा वितर्कः ।

ननु पर्यायेण सेवायां न स्यात् ? मैवम् । कृतस् तच्-चरणयोर् एकतानोऽविरामो मनो-विस्तारो याभ्याम् तयोः ॥२७॥


॥ ४.२०.२८ ॥

जगज्-जनन्यां जगद्-ईश वैशसं

स्याद् एव यत्-कर्मणि नः समीहितम् ।

करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः

स्व एव धिष्ण्येऽभिरतस्य किं तया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : धिष्ण्यं तेजश् च सामर्थ्यं महिमा धाम चोच्यते इत्य् अभिधानम् । अल्प-पुण्यत्वान् न मद्-भक्ति-योग्य इति मन्तव्यम् । यतः फल्ग्व् अप्य् उरु करोषि वात्सल्यात् । विना वात्सल्यं श्रियापि किं तया ? ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतु वा कलिः, तथापि भजेयम् एवेत्य् आह—जगज्-जनन्यां वैशसं विरोधः स्याद् एव । तत्र हेतुः—यस्याः कर्मणि नः समीहितम् इच्छा भवति । तथापीन्द्र-विरोधे मत्-पक्ष-पातवद् अत्रापि तव पक्ष-पात एव स्याद् इत्य् आह—फल्गु तुच्छम् अप्य् उरु बहु करोषि । यतो दीनेषु वत्सलो दयावान् । स्वे स्वरूप एव रतस्य तया किं प्रयोजनम् ? तां नाद्रियसे इत्य् अर्थः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र विरोधे । तथापि लक्ष्म्या विरोधे\ऽपि । इत्य् अर्थ इति । तयोपादेयाभावाद् इति भावः । चक्रवर्ती तु—

कृपां तस्य समाश्रित्य प्रौढं नान्यमपेक्षते ।

अतुलां यो वहेत्कृष्णे प्रीतिं वीरः स उच्यते ॥ [भ।र।सि। ३.२.५३]

इति वीर-भक्तोचितं स्व-स्वभावं प्रकटयन्न् आह—जगज्-जनन्यां जगन्-मध्य-वर्तित्वेन ममापि जनन्यां लक्ष्म्यां वैशसं विरोधः स्याद् एव । कुतः ? यस्याः कर्मणि त्वत्-पाद-सेवा-रूपे नो\ऽस्माकम् इच्छा जाता सा खलु युष्मद्-वक्षस्य् आसीना विराजतु, अहं पुत्र एव सर्वं युष्मच्-चरण-परिचरणं करवाणि, तस्याः को\ऽयम् आग्रहो यत् परिचरणं विना न जीवतीति भावः ।

ननु त्वम् अर्वाचीनः सातिप्राचीना । त्वं निकृष्टः सातिमहतीति तया सह किं विरुध्यसे ? सत्यम् । तथापीन्द्र-विरोधे मत्-पक्षपातवद् अत्रापि मयि तव पक्षपातः स्याद् इत्य् आह—फल्गु तुच्छम् अपि त्वम् उरु करोषि यतो दीनेषु वत्सलः

ननु त्वं तस्याः कोपान् न बिभेषि किं ? तत्र सत्यं न बिभेमीत्य् आह—स्व एव धिष्ण्ये स्व-सामर्थ्ये\ऽभिरतस्य मम तया किं किम् अपीत्य् अर्थः । तत्-कृपोद्रेक एव सामर्थ्यं । यद् उक्तं वीर-भक्तोदाहरणेषु—

प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे

कुमार मकर-ध्वजाद् अपि न किंचिद् आस्ते फलम् ।

किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया

प्रिया-परिषद्-अग्रिमां न गणयामि तां माम् अपि ॥ [भ।र।सि। ३.२.५४] इति ।

धिष्ण्यं शक्तौ च पारदे इति पुंस्काण्डे\ऽमर-दत्तः ।

जगदीश इति । पितुस् तव पुरुष-विशेषस्य रक्षकत्वे मातुः स्त्रियाः कोपे\ऽपि न मे हानिर् इति भावः ॥२८॥


कैवल्य-दीपिका : जगद् इति । जगतो जनन्यां मातरि लक्ष्म्याम् । वैशसं चित्त-व्यथा विशसन-तुल्यत्वात् । यस्याः कर्मणि चरण-सेवायां समीहितम् । सम्यग् वाञ्छा । न तु स्वस्याल्पकत्वं मत्वा बलवद् विरोधात् बिभेषि चेत् तर्हि विरम्यताम् अस्माद् इति चेत्, तत्राह—करोषि इति । त्वं हि दीनेषु पक्षपातित्वात् प्रगल्भम् अपि सेवकं स्व-संसर्गात् पृथक् करोषि । श्रीर् एवात्र निदर्शनम् इति भावः । तथापि तस्याः प्रेम-मात्रत्वे नात्यन्तं सुख-साधनत्वात् । तव च भृत्य-मात्रत्वेन बहिरङ्गत्वाद् अयुक्तः । तया सह विरोध इति चेत्, तत्राह—स्व एव इति । स्त्री-प्रमाणेष्व् अन्य-पुरुषेष्व् एषा वार्ता । न तु नित्य-निरतिशयानन्द-घन-ब्रह्म-स्वरूप-सुख-सन्तुष्टे त्वयि इति भावः । धिष्ण्यं पदम् ॥२८॥ [मु।फ। १९.८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : [प्रीति-सन्दर्भ १७५]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते ।

अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते [भ।र।सि। ३.२.५३]

इति वीर-भक्तोचितं स्व-स्वभावं प्रकटयन्न् आह—जगज्-जनन्यां जगन्-मध्य-वित्तत्वेन ममापि जनन्यां लक्ष्म्यां वैशसं विरोधः स्याद् एव । कुतः ? यस्याः कर्मणि नः समीहितम् इच्छा, सा खलु युष्मद्-वक्षस्य् आसीना विराजतु । अहं पुत्र एव सर्वं युष्मच्-चरण-परिचरणं करवाणि, तस्याः कोऽयम् आग्रहो यत् परिचरणं विना न जीवतीति भावः ।

ननु, त्वम् अर्वाचीनः सातिप्राचीना । त्वं निकृष्टः सातिमहतीति तया सह किं विरुद्ध्यसे ? सत्यम्, तथापीन्द्र-विरोधे मत्-पक्षपातवद् अत्रापि मयि तव पक्ष-पात एव स्याद् इत्य् आह—फल्गु तुच्छम् अपि त्वम् उरु करोषि, यतो दीनेषु वत्सलः

ननु, त्वं तस्याः कोपान् न बिभेषि किम् ? तत्र सत्यम्, न बिभेमीत्य् आह—स्व एव धिष्ण्ये स्व-सामर्थ्येऽभिरतस्य मम तया किं? न किम् अपीत्य् अर्थः । तत्-कृपोद्रेक एव मम सामर्थ्यम्। यद् उक्तं वीर-भक्तोदाहरणेषु—

प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे

कुमार-मकर-ध्वजाद् अपि न किञ्चिद् आस्ते फलम् ।

किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया

प्रिया परिषद्-अग्रिमां न गणयामि भामाम् अपि ॥ [भ।र।सि। ३.२.५४] इति ।

धिष्ण्यः शक्तौ च पावके इति पुंस्कान्देऽमर-दत्तः ॥२८॥

विश्वनाथः [भक्ति-रसामृत-सिन्धु ३.२.५५]: जगज्-जनन्याम् इति पृथु-वचनम् । हे जगदीश ! जगज्-जनन्यां लक्ष्म्यां मम वैशसम् अपराधः स्याद् एव । तत्र हेतुः—यस्याः लक्ष्म्याः चरण-सेवा-रूप-कर्मणि नोऽस्माकं समीहितं, अत एव द्रव्याभिलाषित्वात् विरोधो भविष्यत्य् एव । ननु सा भगवत्-प्रेयसी परम-श्रेष्ठा । त्वम् अर्वाचीन-दासः परम-न्यूनः । कथं त्वया सह विरोध-सम्भावनापि ? इत्य् अतः आह—करोषि इति । फल्गु अतितुच्छम् अपि उरु सर्वतोऽधिकं करोषि । अतः त्वं दीन-वत्सलःस्वे स्वरूपे धिष्ण्ये स्थाने अभिरतस्य तव । तया लक्ष्म्या ॥५५॥


॥ ४.२०.२९ ॥

भजन्त्य् अथ त्वाम् अत एव साधवो

व्युदस्त-माया-गुण-विभ्रमोदयम् ।

भवत्-पदानुस्मरणाद् ऋते सतां

निमित्तम् अन्यद् भगवन् न विद्महे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अथान्यच् च । अतः वात्सल्याद् एव ॥२९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यतस् त्वं दीन-वत्सलोऽतः साधवो निष्कामाः, अथ ज्ञानानन्तरम् अपि त्वां भजन्ति । कथं भूतम् ? माया-गुणानां विभ्रमो विलासस् तस्य उदयः कार्यं, स निरस्तो यस्मिंस् तम् । ते किम्-अर्थं भजन्ति ? तत्राह—भवत्-पदानुस्मरणाद् विनाऽन्यत् तेषां निमित्तं फलं न विद्मः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्यं वर-स्पृहा त्वद्-भजनस्यैवायं स्वभावो यद् वर-स्पृहा निवर्तत इति । अनुस्मरणस्यैव सर्व-सुख-चूडामणेस् तद्-इतर-सुख-तिरस्कारकत्वाद् इति भावः ॥२९॥


कैवल्य-दीपिका : अत एव देवतान्तरं हित्वा महान्तस् त्वाम् एव सेवन्त इत्य् आह—भजन्ति इति । भज्याभज्य-निर्धारणानन्तरम् । अत एवेति दीन-वत्सलत्वात् स्वरूप-सुख-सन्तुष्टत्वाच् च तद् एवाह—व्युदस्त- इति । व्युदस्तो दूरीकृतो माया-गुणानां रजः-प्रभृतीनां विभ्रमो विलासो हि कार्यं राग-द्वेषादि, तस्य उदयो ह्य् आविर्भावो येन तम् । किम्-अर्थं भजन्ति ? इति चेत् तत्राह—भवत्-पद- इति । भवत्-पदानुस्मरणम् एव सतां निमित्तं नान्यत् किञ्चित् । नित्य-निरतिशयानन्दानुभव-रूपत्वात् तस्य इति भावः ॥२९॥ [मु।फ। १९.९]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एवेति । दीन-वात्सल्यम् एव मुख्यम् उद्दीपनम् इत्य् अर्थः । साधवः प्रोज्झित-कैतवाः । तद् एवावधारयति—भवद् इति । ऋते इत्य् उक्त्वाप्य् अन्यद् इत्य् उक्तिर् अवधारणार्था ॥२९॥

प्रीति-सन्दर्भ (४२): टीका च—यतस् त्वं दीन-वत्सलः अत एव साधवो निष्कामाः । अथ ज्ञानानन्तरम् अपि त्वां भजन्ति । कथम्-भूतम् ? माया-गुणानां विभ्रमो विलासः तस्य उदयः कार्यं, स निरस्तो यस्मिन्, तम् । ते किम्-अर्थं भजन्ति ? तत्राह—भवत्-पदानुस्मरणाद् विना अन्यत् तेषां निमित्तं फलं न विद्महे ॥ इत्य् एषा ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं न केवलम् अहम् एव, किन्तु सर्व एव त्वद्-भक्ता वरं वृण्वन्तीत्य् आह—भजन्त्य् अथेति । यतस् त्वं दीन-वत्सलः, अत एव भजन्ति, व्युदस्तो निरस्तो भवति माया-गुणानां विभ्रमोदयो विविध-वर-स्पृहा निवर्तत इति

ननु तर्हि भजनस्य किं फलं ? तत्राह—भवद् इति । निमित्तं फलम् अनुस्मरणस्यैव सर्व-सुख-चूडामणेस् तद्-इतर-सुख-तिरस्कारकत्वाद् इति भावः ॥२९॥


॥ ४.२०.३० ॥

मन्ये गिरं ते जगतां विमोहिनीं

वरं वृणीष्वेति भजन्तम् आत्थ यत् ।

वाचा नु तन्त्या यदि ते जनोऽसितः

कथं पुनः कर्म करोति मोहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वरैः कृपालोस् तवानुचितम् इत्य् आशयेनाह—मन्य इति । नु अहो ते वाचा तन्त्या यदि जनोऽयम् असितोऽबद्धः स्यात्, तर्हि पुनः पुनः फलैर् मोहितः सन् कथं कर्म करोति ? ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु तर्ह्य् अहं स्व-भक्तं प्रति वरं वृणीष्व इति कथं ब्रवीमि ? तत्राह—मन्य इति । यदि कश्चिद् अपक्वो भक्तस् त्वत्-प्रलोभनाद् वरं वृणुते, तदैव तस्य भक्ति-रस-वञ्चनात् सर्व-नाश इति भावः । कर्मणा पितृ-लोकः स्वर्ग-कामो यजेत इत्य्-आदि-वेद-लक्षणापि तव वाग् जगन्-मोहिनी इत्य् आह । नु अहो । ते वाचा तन्त्या यदि जनो\ऽयम् असितो\ऽबद्ध इति समानम् ॥३०॥


कैवल्य-दीपिका : एवं प्रसक्तोऽनुप्रसक्त्या निरूप्य प्रकृतम् अनुसन्धत्ते—मन्ये गिराम् इति । भजन्तं भजनाद् एव लब्ध-सर्वोत्कर्षम् । नु अहो ते तव वाचां तन्त्र्या पशु-बन्धनी-तुल्यया जनो यद्य् असितः अबद्धः स्यात् । तर्हि कथं पुनः पुनः कर्म करोति ? दृष्ट-रिपवो हि तद्-भजनं विहाय ॥३०॥ [मु।फ। १९.१०]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्ह्य् अहं स्व-भक्तं प्रति "वरं वृणीष्व" इति कथं ब्रवीमि ? तत्राह—मन्य इति । यदि कश्चिद् अपक्वो भक्तस् त्वत्-प्रलोभनात् कम् अपि वरं वृणुते, तदैव तस्य भक्ति-रस-वञ्चनात् सर्व-नाश इति भावः । स्व-कर्मणा पितृ-लोक इति, स्वर्ग-कामोऽश्वमेधं यजेत इत्य्-आदि-वेद-लक्षणापि तव वाग् जगन्-मोहिनी इत्य् आह—नु अहो, ते वाचा तन्त्र्या यदि जनोऽयम् असितो बद्धः स्यात्, तदा पुनः पुनः फलैर् मोहितः सन् कथं कर्म करोति ? ॥३०॥


॥ ४.२०.३१ ॥

त्वन्-माययाद्धा जन ईश खण्डितो

यद् अन्यद् आशास्त ऋतात्मनोऽबुधः ।

यथा चरेद् बाल-हितं पिता स्वयं

तथा त्वम् एवार्हसि नः समीहितुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वन्-मायया खण्डितस्य त्वया पुनः खण्डनं न कर्तव्यम्, किं तु हितं चेष्टितव्यम् इत्य् आह । त्वन्-मायया ऋताद् आत्मनस् त्वत्तः खण्डितः पृथक् कृतो यद् यतोऽन्यत् पुत्रादिकम् आशास्ते । अतः स्वयम् अविज्ञापित एव हितं चेष्टितुम् अर्हसि ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईशेति । नियन्तुस् तव मम नियोज्यस्य का संमति-ग्रहण-चिन्तेति भावः ॥३१॥


कैवल्य-दीपिका : यत एवं दृष्ट-वाग्-विलासो भवान्, अतो भवता भक्तान् प्रत्य् एवं न वाच्यं किन्तु पितृवद् धितम् एव वाच्यम् इत्य् आह—त्वन्-मायया इति । अद्धा तत्त्वतः । खण्डितः पृथक्-कृतः । ऋतात्मनः सन् पदात्म-रूपाद् बुधः देहेऽहं बुद्धिः सन् नान्यद् विषय-सुखम् आशास्ते वाञ्छति । अतः स्व-हितं न वेत्ति । अतः स्वयम् एव समीहितुं स्व-हिते चेष्टयितुं भवान् अर्हति । सोऽयं प्रसन्नेन भगवता दीयमाने स्वर्गापवर्गादाव् अपि ऊर्जस्वलत्वाद् अनभिरुचेः पृथोर् उत्साह-स्थायि-भावः प्रकरणेनावगम्यते । न हि क्लीब-चेतसा तथा-विधा वराः परिहर्तुं शक्याः ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वन्-मायया खण्डितस्य त्वया पुनः खण्डनं न कर्तव्यम्, किन्तु हितं चेष्टितव्यम् इत्य् आह—त्वन्-मायया ऋताद् आत्मनस् त्वत्तः खण्डितः पृथक् कृतः यद् यतोऽन्यत् पुत्रादिकम् आशास्ते, अतः स्वयम् अविज्ञापित एव हितं चेष्टितुम् अर्हसि ॥३१॥

त्वन्-माययाद्धा जन ईश खण्डितो

यद् अन्यद् आशास्त ऋतात्मनोऽबुधः ।

यथा चरेद् बाल-हितं पिता स्वयं

तथा त्वम् एवार्हसि नः समीहितुम् ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् त्वं वृणीष्वेति प्रलोभनेन स्व-भक्त-परीक्षाम् अपि न कुर्या इत्य् आह—त्वद् इति । जनः सर्व एव यद् यस्मात् ऋतात्मनः सत्य-स्वरूपात् भजनात् वस्तुनः सकाशाद् अन्यदेवाशास्ते नोऽस्माकं तु त्वन्-मते यद् भद्रं भवति, तद् एव समीहितुं चेष्टितुम् अर्हसि । यथेति बालस्य हिताहितं पितैव जानाति, बालस् त्व् अध्ययन-खेलनादिकं स्व-हिताहितं विपर्ययेण जानातीत्य् एवं मह्यं वरस्य प्रदानम् अप्रदानं वा हितं विमृश्य स्व-सम्मतम् एव भद्रं क्रियतां न पुनर् मम सम्मतिर् एव प्रमाणीकर्तव्येति भगवत्य् एव पृथुना विश्रम्भो व्यञ्जितः ॥३१॥


॥ ४.२०.३२ ॥

मैत्रेय उवाच—

इत्य् आदि-राजेन नुतः स विश्व-दृक्

तम् आह राजन् मयि भक्तिर् अस्तु ते ।

दिष्ट्येदृशी धीर् मयि ते कृता यया

मायां मदीयां तरति स्म दुस्त्यजाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति । राज्ञां दुर्लभापि मद्भक्तिर्मत्कृपयास्त्व् इति भावः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मैत्रेय उवाच इति क्वचिन् नास्ति च, यथा पृथोः श्रीमद्-भगवद्-भक्त्य्-एक-निष्ठा तथैव तेनान्यथानुपदेशे विश्वासश् च । तथा श्री-भगवतोऽपि तद्-एक-दित्सैव, तथाप्य् अन्यत्र प्रवर्तनं तु तन्-निष्ठा-प्रकटनार्था, अधिकार्-विशेषे तद्-द्वारैव ज्ञानादि-प्रचारणार्थं चेति स्फुटम् एव दर्शयति इत्य् आदीति । अन्यथा ज्ञानम् अस्तु ते इत्य् एवोच्येतेति भावः । ततरुः सुदुस्तराम् इति क्वचित् पाठः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् अपि तथैवाह—मयि भक्तिर् इत्य् अतो जीवानां सर्वथा किं हितम् इति प्रश्ने सर्वज्ञैर् अपि वेद-वादिभिः प्रत्युक्तं ज्ञान-योगादिकं न विश्वसनीयम् । भगवन्तम् अपेक्ष्य तेषाम् अप्य् अज्ञत्वाद् इति भक्तेर् एव हितत्वं नान्यस्येति सिद्धान्तो निर्धारितः ॥३२॥


॥ ४.२०.३३ ॥

तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते ।

मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजापते इति । राज्ञः प्रजापालनम् एव सर्वेष्टदमतस्तद् एव कार्यम् इति भावः । सर्वत्रेह परत्र च शोभनं सुखम् ॥३३॥


न कतमेनापि व्याख्यातम्।


॥ ४.२०.३४ ॥

मैत्रेय उवाच—

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रे ञ्च्युतो मतिम् ॥

न कतमेनापि व्याख्यातम्।


॥ ४.२०.३५-३६ ॥

देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः ।

किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः ॥

यज्ञेश्वर-धिया राज्ञा वाग्-वित्ताञ्जलि-भक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भूतेषु हरिर् इत्य् एव हर्य्-अर्पण-धिया तया ।

सर्व-भूतेषु च हरेः पूजा कार्यात्म-वेदिभिः ॥ इति पाद्मे ॥३६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वाग्-वित्ताञ्जलिभिर् भक्तितः पूजिताः सन्तः । वैकुण्ठानुगताः पार्षदाश् च ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वचो वरान्विभो त्वद्-वरदेश्वरात् इत्य्-आदिवाक्यजातम् एनं पृथुम् ॥ ततो यज्ञप्रदेशात् ॥३४-३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देवर्षीति युग्मकम् । वैकुण्ठस्यानुगताः सेवायमानाः पार्षदास् तु तेनैव सह गमिष्यन्तीति योग्यत्वात् ॥३५-३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२०.३७ ॥

भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्न् इव मनोऽमुष्य स्व-धाम प्रत्यपद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुष्य राज्ञः । हरन्न् इवेति लोकोक्तिः । वस्तुतस् तस्य मनः सर्व-दैव तद् अधीनम् अस्त्य् एव । स्व-धाम राज्ञो हृदयम् ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वधाम वैकुण्ठम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.२०.३८ ॥

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अदृष्टाय लोचन-पथम् अतिक्रान्ताय । सन्दर्शित आत्मा येन तस्मै । वस्तुतोऽव्यक्ताय ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अदृष्टायान्यैः । पृथुस्तु वैकुण्ठगमनपर्यन्तं तं ददर्शैवेत्य् अर्थः ॥३८॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे विंशो\ऽध्यायः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यैर् अदृष्टाय सन्दर्शितः आत्मा आश्रयो येन तस्मै इति वैकुण्ठ-गमन-पर्यन्तं पृथु-स्तुतं ददर्शैवेत्य् अर्थः ॥३८॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

विंशोऽध्यायश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

पृथु-चरिते पृथु-स्तवो नाम

विंशोऽध्यायः ।

॥ ४.२० ॥

श्री-श्री-मध्वाचार्य-विजय-ध्वज-तीर्थ-वीरराघवाचार्यादीनां पाठानुसारेण श्रीमद्-भागवतस्य अत्राध्याय-शेषे निम्न-लिखित-श्लोकौ अतिरिक्त-पाठ-रूपेण उपलभ्येते—

ते साधु वर्णितं राजन्न् आशाः से यद् आशिषः ।

स्वर्गापवर्ग-नरकान् समः पश्यति मत्-परः ॥

प्रीतोऽहं ते महाराज रोषं दुस्त्यजम् अत्यजः ।

मद्-आदेशं श्रद्दधानास् तन् मह्यं परमार्हणम् ॥


(४.२१)