१९

अथैकोनविंशोऽध्यायः

विषयः

स्वकीये\ऽश्वमेध-यज्ञे विघ्न-कारिणम् इन्द्रं हन्तु-कामस्य पृथोर् ब्रह्म-सान्त्वनया यज्ञाद् विरतिः ।

॥ ४.१९.१ ॥

मैत्रेय उवाच—

अथादीक्षत राजा तु हयमेध-शतेन सः ।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ऊनविंशेऽश्वमेधाङ्ग-हयापहरणात् पृथोः ।

इन्द्रं हन्तुं प्रवृत् तस्य धात्रा वारणम् उच्यते ॥

हय-मेध-शतेन निमित्तेनादीक्षत दीक्षितोऽभूत् शताश्वमेध-सङ्कल्पम् अकरोद् इत्य् अर्थः । ब्रह्मावर्ते—

सरस्वती-दृषद्वत्योर् देव-नद्योर् यद् अन्तरम् । > तं देव-निर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अश्वमेधस्याङ्गभूतो यो हयस्तस्यापहरणात् । अथ प्रजावासोचितनिवासादिकल्पनोत्तरम् । स पृथुः इत्य् अर्थ इति । हयमेधशतीं कर्तुं प्रवृत्तो\ऽभूद् इति भावः । प्राचीमैन्द्रीदिशमुद्दिश्य स्यन्दमाना सरस्वती प्राची सरस्वती ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ऊनविंशेऽश्वमेधस्य हय-हारि हरेर् मुहुः ।

पाषण्ड-सृष्टि-ऋत्विग्भिस् तद्-वधं को न्यवारयत् ॥

सरस्वती-दृषद्वत्योर् देव-नद्योर् यद् अन्तरम् । > तं देव-निर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥

तत्र हयमेध-शतेन निमित्तेन ॥१॥


॥ ४.१९.२ ॥

तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः ।
शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनः स्वस्य कर्मातिशेत इत्य् अतिशयम् अभिप्रेत्य ज्ञात्वा । तद् इति तं पृथोर् यज्ञ-महोत्सवं न ममृषे न सेहे ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनः स्वस्य सकाशात् । अतिशयमधिकमतिक्रामकम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथोस्तद्-यज्ञ-महोत्सव-रूपं कर्म स्वात्मनोऽतिक्रामकं ज्ञात्वा । अत्र टीकायां कर्मातिशयम् इति समस्ते पदे वक्तव्ये अतिशय-मात्रं यदुक्तं तन्नेदं विग्रह-वाक्यं किन्त्वर्थ-दर्शन-मात्रं यथा कर्म-पर्यन्तं पृथग्-योजितमतिशयम् इति च पृथगेव निरुक्तम् । कर्मणोऽतिशयम् इति तु स्वयमूह्यम् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः सकाशात् ॥२॥


॥ ४.१९.३-४ ॥

यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः ।
अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः ॥**

अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः ।
उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिशयम् एव दर्शयति—यत्रेति सप्तभिः । साक्षाद् अन्वभूयत प्रत्यक्षेणादृश्यत ॥३-४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र यज्ञे ॥ निघण्टुवद्यज्ञपतिर् भगवानित्य्-आदिनाम्नां बहुत्वकथनेनैकस्यानेकत्वं न संभवत्यतः किं तेनैकेनागतेन समाजपूर्तिः स्याद् अत आह—अन्वित इति ॥३-४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्रेति युग्मकम् ॥३-४॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**कर्मतिशयम् एव दर्शयति—यत्रेति सप्तभिः ॥३-४॥


॥ ४.१९.५ ॥

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।
सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धादयश् च तं हरिम् अन्वीयुर् इत्य् उत्तरेणान्वयः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निघण्टुवद्यज्ञपतिर् भगवानित्य्-आदिनाम्नां बहुत्वकथनेनैकस्यानेकत्वं न संभवत्यतः किं तेनैकेनागतेन समाजपूर्तिः स्याद् अत आह—अन्वित इति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१९.६ ॥

कपिलो नारदो दत्तो योगेशाः सनकादयः ।
तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः ॥**

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्त्वविदामनुगमनम् एव तन्माहात्म्यद्योतकमित्यत आह—कपिल इति । नित्यविरोधिनां दैत्यादीनामनुगमनं कथं सङ्गच्छते\ऽत आह—भागवता इति । अनेन दैत्यादीनां भागवताभागवतत्वभेदेन द्वैविध्यमुक्तम् । ये तत्सेवनोत्सुका भागवतास्त एवान्वीयुर्नान्य इति भावः ॥६॥


न कतमेनापि व्याख्यातम्।


॥ ४.१९.७ ॥

यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती ।
दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म-दुघा हविर् दोग्ध्री । धेनुः सती ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र धर्मेति । धर्मं धृत-क्षीरादीति कर्म ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१९.८ ॥

ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् ।
तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊहुर् वहन्ति स्म । सर्व-रसान् इक्षु-द्राक्षादि-रसान् । क्षीरं च दधि च अन्नं च पानकादि गो-रसो घृतं तक्रं च तांश् च । भूरीणि विस्तृतानि वर्ष्मानि शरीराणि येषां ते, फलादि प्रासूयन्त । मधु-च्युतो मधु-स्राविणः सन्तः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्मदुघेति । धर्मशब्दो धर्मसाधनपरः, अत एव स्वामिचरणैर्हविर्दोग्ध्रीति व्याख्यातम् । भारतेति । तव वंशकुटीभूतभरतस्य राज्ञो यागे\ऽपीत्थम् एव जातस्तस्यापि दौष्यन्तिरिव यज्वनाम् इति तस्यापि यज्ञे सर्वकामान्दुदुहतुरित्य्-आदिना तथोक्तेर् इति मा विस्मयं कुर्वित्य् अभिप्रायः ॥७-८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूरि-वर्ष्माणो बहु-प्रमाणाः फलादिकं प्रासूयन्त मधूनां च्युत् क्षरणं येषु ते । वर्ष्म देह-प्रमाणयोः इत्य् अमरः ॥८॥


॥ ४.१९.९ ॥

सिन्धवो रत्न-निकरान् गिरयोऽन्नं चतुर्-विधम् ।
उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्-विधं भक्ष्यं भोज्यं चोष्यं लेह्यं च ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्ष्यादिलक्षणं द्वितीय-स्कन्धे वर्णितम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां भक्ष्यं चर्व्यम्, भोज्यं चर्वणादिकं विनाभ्यवहारार्थम् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१९.१० ॥

इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् ।
असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधोक्षज ईशो नाथो यस्य । परम उदयोऽभिवृद्धिर् यस्मिंस् तत् कर्म असूयन्न् असहमानः प्रतिघातं विघ्नं चकोरेत्य् अर्थः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । परोत्कर्षासहिष्णुत्वाद्राज्ञाम् इति भावः । असूयन्नसहमानः । कण्ड्वादियगन्ताच्छतृप्रत्ययः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथोस् त्व् इति, प्र्ठोस् तद् इति पाठ-द्वयम् ॥१०॥


॥ ४.१९.११ ॥

चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् ।
वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैन्ये यजुष्-पतिं विष्णुं यजमाने सति स्पर्धमान इन्द्रस् तिरोहितः सन्न् अश्वम् अपहृतवान् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चरमेण शततमेन अथादीक्षत राजा तु हयमेधशतेन इत्य् उक्तेः । तिरोहितोन्तर्हितः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**यजुष्-पतिं विष्णुम् । अपोवाह अपजहार ॥११॥


॥ ४.१९.१२ ॥

तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा ।
आमुक्तम् इव पाखण्डं योऽधर्मे धर्म-विभ्रमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वरमाणं धावन्तम् ।

आमुक्तः प्रतिमुक्तश् च पिनद्धश् चापिनद्धवत् । > सन्नद्धो वर्मितः सज्जःइत्य् अमर-सिंहः ।

पाखण्डं वेषं कवचम् इव गृहीतवन्तम् इत्य् अर्थः । अधर्मे ध्रम-विभ्रमो धर्मोऽयम् इति भ्रान्ति-करो यस् तम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रिर् ऐक्षद् इति तद्-ईक्षण-भीत्या त्वरमाणं पलाय्य धावन्तं पाषण्डं पाषण्ड-वेशं कवचम् इव आमुक्तं गृहीतवन्तम्—आमुक्तः प्रतिमुक्तश् च पिनद्धश् चैत्य् अमरः । अधर्मेऽपि धर्म इति विशिष्टो भ्रमो यतः स एव यः ॥१२॥


॥ ४.१९.१३ ॥

अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः ।
अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् ॥**

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्किं स केनापि न दृष्ट इत्यत आह—तम् इति । भगवान्सर्वज्ञः । इत्य् अर्थ इति । पाखण्डपदं पाखण्डवेषपरमिहेति भावः ॥१२-१३॥


न कतमेनापि व्याख्यातम्।


॥ ४.१९.१४ ॥

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न मुञ्चति स्म ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तादृशाकृतिम् इति । श्रीशिवादिषु दर्शनात्कस्यचिद्धर्मस्यायम् अपि वेशो भवेद् इति भावनया, वर्तमानसमीपे भूते लट् । मुंचतीति । अत एव स्वामिचरणैः स्म-पदं प्रयुक्तम् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तं तादृशाकृतिम् इति । श्री-शिवादिषु दर्शनात् कस्यचिद्धर्मस्यायम् अपि वेशो भवेद् इति भ्रमाद् इति भावः ॥१४॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**तं तादृशाकृतिम् इति । श्री-शिवादिषु दर्शनात् कस्यचिद्धर्मस्यायम् अपि वेशो भवेद् इति भावनया ॥१४॥


॥ ४.१९.१५ ॥

वधान् निवृत्तं तं भूयो हन्तवेऽत्रिर् अचोदयत् ।
जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्तवे हन्तुम् । यज्ञ-हनं यज्ञं हतवन्तम् ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हन्तवे चौर्यप्रवृत्तवधो न दोषायेति ज्ञानवता प्रेर्यम् एवात एवात्रिः पुनः प्रेरयामास । न हि प्रियः कुकर्मणि योज्येत इत्य् अभिप्रेत्याह—तातेति । विबुधाधम स्पर्द्धालुत्वात् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**हन्तवे हन्तुम् ॥१५॥


॥ ४.१९.१६ ॥

एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा ।
अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-राड् इव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृध्र-राट् जटायुः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृध्रराट् जटायुः । एतच्च भविष्यदपि साक्षान्नारायणावतारत्वेन श्रीव्यासदेवस्य त्रिकालज्ञत्वात्कथनं न विरुद्धम् । सीतां हृत्वा गच्छन्तं रावणं जटायुर्यथान्यद्रवत् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वरमाणम् इन्द्रं गृध्र-राट् जटायुः ॥१६॥


॥ ४.१९.१७ ॥

सोऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् ।
वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

देवाः शक्ताश् च मोहाय दर्शयेयुर् अशक्तवत् ।

ऋषीणां चैव राज्ञां च न हिते देवतासमाः ॥ > आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् ॥ इति गारुडे । > प्रणिपातादिकं देवैर् ऋष्य्-आदिषु जनार्दने । > क्रियतेऽतो न तेषां हि तेजो-भङ्गः कथञ्चन ॥ > अत्युत्तमानाम् अवरे तेजो-भङ्गो न विद्यते । > यथा नराणां तिर्यक्षु प्रायः साम्यो हि स स्मृतः ॥ इति स्कान्दे > ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मै हित्वा तद् अर्थम् उत्सृज्य ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स इन्द्रः तत्पाखण्डं रूपं च तदर्थमुत्सृज्य पृथुपुत्रमन्तर्द्धानविद्यां शिक्षयितुम् इत्य् अर्थः । अन्तर्द्धानगतिं शक्राल्लब्ध्वान्तर्द्धानसंज्ञितः इति वक्ष्यमाणत्वात् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१९.१८ ॥

तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।
नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विचक्ष्य दृष्ट्वा ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य पृथुपुत्रस्य तदश्वानयनलक्षणं, प्रभो इति । यथा त्वया कामक्रोधादयो\ऽश्वा जितास् तथा तेनापीत्य् आह मैत्रेयो विदुरम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मै तं पृथु-पुत्रम् अन्तर्धान-विद्यां शिक्षयितुम् इत्य् अग्रिम-ग्रन्थ-दृष्ट्या व्याख्येयम् ॥१८॥


॥ ४.१९.१९ ॥

उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः ।
चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसृज्य सृष्ट्वा तेन च्छन्नः सन् । चषालो यूपाग्रे निक्षिप्तः काष्ठ-कटकः, तद्-युक्ताद् यूपात् । हिरण्य-निर्मिता रशना यस्य तम् । रशनाया दृढत्वेन च्छेदाशक्या रशना-सहितम् एवोद्धृत्य यूपाग्रान् नीतवान् इत्य् अर्थः । विभुः समर्थः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । यूपाग्रं यूपोपरिभागं तत्र निक्षिप्तचषालसहितम् एव जहारेति भावः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**उपसृज्य तमोऽन्धकारं पाषण्ड-वेशेन च्छन्नः सन् । चषालो यूपाग्रे निक्षिप्तः काष्ठ-कटकः, तद्-युक्ताद् यूपात् । हिरण्य-रशनम् इति रसनाया दृढत्वेन च्छेदाशक्या रशना-सहितम् एवोद्धृत्य यूपाग्रान् नीतवान् इत्य् अर्थः ॥१९॥


॥ ४.१९.२० ॥

अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा ।
कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत ॥**

अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा ।
सोऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट् ॥**

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कपालं नृकपालं खट्वाङ्गं नरमंजरी इत्य् अभिधानात् ॥२०-२१॥


न कतमेनापि व्याख्यातम्।


॥ ४.१९.२२ ॥

वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् ।
तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवद्यं निन्दितं रूपं मन्द-प्रज्ञा जगृहुः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तर्हित इत्यनेन गृहीत-रूपं विसृज्य रूपान्तरेणान्तर्द्धानं गम्यते । तत्र पूर्व-रूपं किमभूदचेतस्य चेतनसंबन्ध एव हानादिक्रियासामर्थ्यमन्यथोच्छूनीभूय नष्टं स्यान्न तदयुक्तं देवकृतस्यान्यथात्वादर्शनादाह—तदवद्यम् इति । ज्ञानदुर्बला मूढाः । अत्र विश्वनाथः—पृथुपुत्रेणावधात्स्वेषामवध्यत्वमभिमन्यमाना ज्ञानदुर्बलाः यज्ञादिदूपकमतप्रवर्तकं स्वसंप्रदायं रचयित्वा परधनाकर्षणान्तर्द्धानादिक्षुद्रसिद्धीरे व साध्यत्वेन निरचैषुरित्य् अर्थः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञान-दुर्बला जगृहुर् इति प्रथमं तादृश-वेशेन यज्ञादि-दूषक-मतेन च परितः स्व-संप्रदायं रचयित्वा पश्चाच् चौर्य-प्रवृत्तेः ॥२२॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**ज्ञान-दुर्बला इति पृथु-पुत्रेणावधात् स्वेषाम् अवध्यत्वम् अभिमन्यमानाः । यज्ञादि-दूषक-मत-प्रवर्तकं स्व-सम्प्रदायं रचयित्वा पर-धनाकर्षणान्तर्धानादि-क्षुद्र-सिद्धीर् एव साध्यत्वेन निरचैषुर् इत्य् अर्थः ॥२२॥


॥ ४.१९.२३ ॥

यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया ।
तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव पाखण्ड-नाम-निरुक्त्या दर्शयति—यानीति । बहु-वचनेन चान्यान्य् अपि गृहीतानीत्य् उक्तम् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव निन्द्य-रूपम् एव । पाखण्डनामनिरुक्त्या पाखण्डशब्दव्युत्पत्त्या । शास्त्रान्तरसिद्धपाखण्डपदं निर्वक्ति—

पालनाच्चैव सर्वेषां पाशब्देन त्रयी मता । > तां खण्डयति मोहाद्यः स पाखण्डः प्रकीर्तितः ॥

किञ्च—

पाशब्दः पापनिकरे खण्डं चिह्नमिहोच्यते । > पापस्य चिह्नं पाखण्डस्तत्सेवी नारकी ध्रुवम् ॥ इति ।

केचित्तु मूर्द्धन्याद्यं पण्डशब्दं पठन्ति, तेन पाषण्ड इत्यपि सिद्धं, तन्मते पां पापनिकरं सनोति ददाति स्वसेविभ्य इति पाषण्ड इति अनुनासिकान्तादुप्रत्ययः पणु-दाने इत्यस्मान्निपातनात्सस्य षः । यद् वा, पापं सनति भजतीति पाषण्डः । पन-संभक्तौ ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**पाषण्ड-नाम-निरुक्तिः—यानीति । बहु-वचनेन बहव एव पाषण्ड-प्रभेदाः प्रवृत्ता इत्य् उक्तम् ॥२३॥


॥ ४.१९.२४-२५ ॥

एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया

तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम् ॥

धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : धर्मोपमस् त्व् अधर्मोऽयम् उपधर्मः स उच्यते इति हरि-वंशेषु ॥२४-२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रभृति पाखण्ड-मार्गाः प्रवृत्ता इत्य् आह—एवम् इति । तेन गृहीतेषु पुनर् विसृष्टेषु नग्ना जैनाः । रक्त-पटा बौद्धाः । आदि-शब्देन कापालिकादयस् तेषूपधर्मेषु धर्मोपमेषु धर्म एवायम् इति मतिः सज्जत इति द्वयोर् अन्वयः । पेशलेषु आपाततो रम्येषु । वाग्मिषु हेतूक्ति-चतुरेषु ॥२४-२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तनेन्द्रेण ॥

सर्वेषाम् एव लोकानां त्रयी संवरणं मता ।

तद् उक्तधर्महीना ये नग्नास्ते परिकीर्तिताः ॥ इति ।

तथा युक्तं सर्वदर्शने—

न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः । > नैव वर्णाश्रमादीनां क्रियाश् च फलदायिकाः ॥ > अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । > बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥ > पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । > स्वपिता यजमानेन तत्र कस्मान्न हन्यते ॥ > मृतानाम् अपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । > गच्छताम् इह जन्तूनां व्यर्थं पाथेयकल्पनम् ॥ > स्वर्गस्थिता यदा तृप्तिं गच्छेयुस् तत्र दानतः । > प्रासादस्योपरिष्टानामत्र कस्मान्न दीयते ॥ > यावज्जीवेत्सुखं जीवेदृणं कृत्वा धृतं पिबेत् । > भस्मीभूतस्य देहस्य पुनर् आगमनं कुतः ॥ > यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥ > कस्माद् भूयो न चायाति बन्धुस्नेहसमाकुलः ॥ > ततश् च जीवनोपायो ब्राह्मणैर्निर्मितस्त्विह । > मृतानां प्रेतकार्याणि न त्वन्यद्विद्यते क्वचित् ॥ > त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । > जर्फरीतुर्फरीत्यादिपण्डितानां वचः स्मृतम् ॥ > अश्वस्यात्र हि शिश्नं तु पत्नीग्राह्यं प्रकीर्तितम् । > भण्डैस्तद्वत्परं चैव ग्राह्यजातं प्रकीर्तितम् ॥ > मांसानां खादनं तद्वन्निशाचरसमीरितम् ॥

इत्यलं प्रसक्तानुप्रसङ्गेन । रक्तो रागो\ऽस्ति पटे शून्यादिवादे येषां ते रक्तपटा बौद्धाः । आच्छादने गतौ वृक्षे शून्यवादादिके पटः इति निरुक्तिः । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । ते च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा यथाक्रमं सर्वशून्यत्वबाह्यशून्यत्वबाह्यार्थानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोस्तमर्कः इत्य् उक्ते जारचौरानूचानादयः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिसमयं बुद्ध्यन्ते एवमत्रापि सर्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणं स्वलक्षणं शून्यं शून्यम् इति भावनाचतुष्टयमुपदिष्टं बुद्धेन भगवता, तैः स्वभावनानुसारेण पृथक्पृथग्गृहीतम् । अव वक्तव्यं बह्वस्ति ग्रन्थविस्तरभियोपरम्यते । प्रायेणेत्युक्त्या तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत इति श्रुतेः । तस्य महतो भूतस्य निःश्वसितमिदं यदृग्वेदो यजुर्वेदः सामवेदः इत्य्-आदिश्रुतेश्चेश्वराद् एव वेदाविर्भावमजानन्तो मूढा एव भ्रान्त्या आपाततो\ऽविचारतो रम्येषु सुन्दरेषु हेतूक्तिचतुरेषु पूर्वोक्त—पशुश्चेन्निहतः स्वर्गम् इत्य्-आदिकुतर्कजालोपबृंहितवाग्निपुणेषु । आदिना मैरालकादिग्रहः नृकपाले च यो भुङ्क्ते स हि कापालिको मतः इति निरुक्तिः । उपधर्मस्तु पाषण्ड इति नारदः ॥२४-२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति युग्मकम् ।उपधर्मेष्व् इति । नग्नादय उपधर्मास्तेष्व् इति योज्यम् ॥२४-२५॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**तेनेन्द्रेणासौ गृहीतेषु पश्चाद् विसृष्टेषु । नग्ना जैनाः । रक्त-पटा बौद्धाः । आदि-शब्देन कापालिकादयः । उपधर्मेषु धर्मोपमेषु, न तु धर्मेषु । पेशलेष्व् आपाततो रम्येषु वाग्मिषु हेतूक्ति-चतुरेषु ॥२४-२५॥


॥ ४.१९.२६ ॥

तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः

इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदिन्द्ररचितपाखण्डेनोपसृष्टं यज्ञस्थलमभिज्ञाय ज्ञात्वा । इन्द्रायेन्द्र हन्तुम् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति । अश्वमेधादि-भागेज्यस्यापीन्द्रस्य वधोद्यमोऽयं श्री-भगवच्-छक्ति-विशेषस्यैव मूलेन्द्रत्व-मननात् ॥२६॥


॥ ४.१९.२७ ॥

तम् ऋत्विजः शक्र-वधाभिसन्धितं

विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम्

निवारयाम् आसुर् अहो महा-मते

न युज्यतेऽत्रान्य-वधः प्रचोदितात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शक्र-वधेऽभिसन्धितं कृताभिप्रायम् । प्रचोदितात् पशोर् वधाद् अन्यस्य वधस् तव न युज्यते ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राविहितहिंसाप्रवृत्त पृथौ तत्तत्वविदः किं निद्रितास् तत्राह—तम् इति । महामतेरित्यस्य त्वं महामतिः सर्वज्ञशिरोमणिर् भगवद्-अंशत्वादस्यतस् त्वां वयं किं बोधयाम इत्य् अभिप्रायः । प्रचोदिताद्विहितात् । अत्राश्वमेधयागो न युज्यते न युक्तः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**शक्र-वधेऽभिसन्धिः सञ्जातो यस्य तम् । विचक्ष्य दृष्ट्वा प्रचोदितात् शास्त्र-विहितात् पशोर् वधाद् अन्यस्य वधो न युज्यते ॥२७॥


॥ ४.१९.२८ ॥

वयं मरुत्वन्तम् इहार्थ-नाशनं

ह्वयामहे त्वच्-छ्रवसा हत-त्विषम्

अयातयामोपहवैर् अनन्तरं

प्रसह्य राजन् जुहवाम तेऽहितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् वधं तु वयं करिष्याम इत्य् आहुः । वयम् इह यज्ञ-नाशक त्वत्-कात्यव हत-प्रभम् इन्द्रम् आह्वयामहे । कैः ? अयात-यामैर् अगत-वीर्यैर् आह्वान-मन्त्रैः । अनन्तरं च ते तवाहितं जुहवाम होष्यामः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कस् तर्ह्य् अत्र प्रतीकारः ? इति चेद् आह—तद्-वधम् इति । अत्र तदानीम् इन्द्रस्य भगवद्-अवतारत्वे\ऽपि विप्राणां चाबहिर्मुखत्वे\ऽपि तथा-भूतोक्त्या कर्म-मार्गस्य स्वभाव एव तैर् द्योतितो यत् तत्र प्रवृत्ता विवेकिनो\ऽप्य् अन्धा भवन्तीति यथा ब्रह्मणा कामस्य श्री-रुद्रेण क्रोधस्य श्री-विष्णुनापि यज्ञावतारे तस्मिन् मात्सर्य-कौटिल्यादिकम् ईहमानेनेन्द्रस्य स्वभावो द्योतित इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्ह्य् अत्र कः प्रतीकारः ? तत्राहुः—वयम् इति । अयात-यामैर् अगत-वीर्यैर् उपहवैर् आह्वान-मन्त्रैः । अत्र तदानीन्तनस्येन्द्रस्य भगवद्-अवतारत्वेऽपि विप्राणां च तेषाम् अबहिर्मुखत्वेऽपि तथा-भूतोक्त्या कर्म-मार्गस्य स्वभाव एव तैर् द्योतितो यत् तत्र प्रवृत्ता विवेकिनोऽप्य् अन्धा भवन्तीति यथा ब्रह्मणा कामस्य श्री-रुद्रेण क्रोधस्य श्री-विष्णुनापि यज्ञावतारे तस्मिन् मात्सर्य-कौटिल्यादिकम् ईहमानेनेन्द्रत्वस्य स्वभावो द्योतित इति ॥२८॥


॥ ४.१९.२९ ॥

इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्-घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य पृथोः । स्रुक् हस्ते येषां तान् ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्विंद्रे मृते यज्ञ एव कथं स्यान्मन्त्राणां तद्विषयत्वात् मरुत्वन्तं सख्याय हवामहे इत्य्-आदिश्रुतेरतो\ऽत्र धर्मरहस्यवेदी को\ऽपि नाभूद् इति सभादोषं परिहरतो ब्रह्मण उक्तिप्रकारम् आह—इतीति । क्रतुपतिं पृथुम् इति । वयं मरुत्वन्तमित्य्-आदिरीत्यामन्त्र्य पृष्ट्वा रुषा जुह्वतो\ऽस्य पृथोरृत्विजो ब्रह्माभ्येत्य संमुखीभूय । विदुरेति । यथा त्वं विद्वत्त्वाद् दुर्योधनादीन्प्राकृतमार्गप्रवृत्तान्न्यषेध इत्य् अभिप्रायः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रत्यभाषतेति चित्सुखः ॥२९॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**अस्य पृथोः ॥२९॥


॥ ४.१९.३० ॥

न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः ।
यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यम् इन्द्रं यज्ञेन जिघांसथ । यज्ञेनेष्ठाः सर्वे सुरा यस्य तनवः, स इन्द्रो भवतां वधार्हो न भवति । यद् यस्माद् यज्ञो नामाऽयम् इन्द्रो भगवतस् तनुर् अवतारः ।

ततः सप्तम आकूल्यां रुचेर् यज्ञोऽभ्यजायत । > स यामाद् यैः सुर-गणैर् अपात्स्व् आयं भुवान्तरम् ॥[भा।पु। > १.३.१२] इत्य् उक्तत्वात् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किमाकारः प्रतिषेधस् तत्राह—नेति । सन्दर्भस्तु—यद् यस्माद्यज्ञो यागो भगवत्तनुः सुराश्वेन्द्राद्या यस्येष्टाः प्रियास्तनवस्तस्मादेकां तनुं हत्वा नान्यां रक्षितुं युक्ताः । किन्तु द्वयम् अपि रक्षितुं युक्तम् इति भाव इत्य् आह । विश्वनाथस्तु—भगवत्तनुर् इति । न हि भगवद्-विग्रहो विप्रैर्हन्तुमध्यवस्यते भवतां तर्हि विप्रत्वम् एव कुतः यं यज्ञेन जिघांसथेति स खलु यज्ञः कथं यज्ञेन वध्यो भवेद्यथा क्षीराब्धिः क्षीरप्रस्थक्षेपेणेति । किं च, यस्य यज्ञस्येन्द्रस्य च तनवः सुरास्ते च यज्ञेन युष्माभिरिष्टा इज्यन्ते स्मेति कथं स मरिष्यतीत्येतम् अपि विवेकं न कुरुथेति भाव इत्य् आह ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यम् इन्द्रं यज्ञेन जिघांसथ, स इन्द्रो भवतां न वध्यः । कुतः ? यद् यस्मात् यज्ञो यागो भगवतस्तनुः सुराश्चेन्द्राद्या यस्य इष्टास्तनवः । तस्मादेकां तनुं हत्वा नान्या रक्षितुं युक्ता, किन्तु द्वयम् अपि रक्षितुं युक्तम् इति भावः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-तनुर् इति । न हि भगवद्-विग्रहो विप्रैर् हन्तुम् अध्यवस्यते । भवतां तर्हि विप्रत्वम् एव कुतः ? यं यज्ञेन जिघांसथेति स खलु यज्ञः कथं यज्ञेन वध्यो भवेद् यथा क्षीर-प्रस्थ-क्षेपेणेति । किं च, यस्य यज्ञस्य्न्द्रस्य च तनवः सुरास् ते च यज्ञेन युष्माभिर् इष्टा इज्यन्ते स्मेति, कथं स मरिष्यतीत्य् एतम् अपि विवेकं न कुरुष्वेति भावः ॥३०॥


॥ ४.१९.३१ ॥

तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः ।
इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो बलीयसाऽनेन कर्तव्यम्, अन्यथा भूयः पाखण्डं स्रक्ष्यतीत्य् आशयेनाह । तद् इदम् इन्द्रेणानुष्ठितं महद्-अन्याय्यं पश्यत । किम् ?इत्य् अपेक्षायाम् आह । धर्मस्य व्यतिकरं विपर्ययं पाखण्ड-पथम् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस्तद्वेषेणाधर्म एव वर्धिष्यते तं चाधर्ममस्य राज्ञो मूर्तम् एव प्रवृत्तं पश्यतेत्याह—अतो बलीयसेति । तदिदं प्रत्यक्षसिद्धं द्विजा इत्यदीर्घदर्शित्वम् आह ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तद्-वेशेनाधर्म एव वर्धिष्यते, तं चाधर्मम् अस्य राज्ये मूर्त् एव प्रवृत्तं पश्यतेत्य् आह—तद् इदम् इति । धर्मस्य व्यतिकरं पाषण्ड-पथम् ॥३१॥


॥ ४.१९.३२ ॥

पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः ।
अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् अत्र युक्तम् ? इत्य् अत आह—पृथु-कीर्तेर् इति । एकेनोनशतं यस्मिंस् तादृशः क्रतुः क्रतु-प्रयोगः पृथोर् भूयात् । पृथुर् इति पाठे एकोनशतं क्रतवो यस्य तादृशोऽपि महेन्द्रात् पृथु-कीर्तिः भूयाद् इत्य् अर्थः । तद् एवम् ऋत्विजः प्रत्युक्त्वा पृथुं प्रत्य् एवाह—अलम् इति ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । क्रतुभिर्यश एव साध्यं तच् च मदाशीर्वादाद् एव भविष्यतीति भावः । षष्ठ्यन्तपाठे एकत्वं जात्यपेक्षया एकोनशतं क्रतुर् इति पाठे सङ्ख्या वाक्यापेक्षया, पण्ढत्वमेकत्वं च—विंशत्याद्याः सदैकत्वे तासु चानवतेः स्त्रियः । क्लीबे शताद्याः प्रायः स्युः इत्य् अभिधानात् । क्रतुशतस्य सङ्कल्पो\ऽपूर्णो\ऽपि मदाशीर्वादात्पूर्णो भवत्वित्यर्थो व्यंजितः । यद्यतो मोक्षधर्मविद् इति । न चेन्द्रत्वलाभाय तव क्रतुशतकारंभः, किं तु प्रजापालनवदिज्यादेर् अपि राजधर्मत्वेन निजधर्माचरणस्य स्वधर्ममाराधनमच्युतस्य इत्य् उक्त्या मोक्षहेतुहर्याराधनार्थत्वम् एव । मोक्षहेतुत्वं तु स्वधर्मस्य यदीहमानो विजहाति बन्धम् इत्य् उक्तेः । यज्ञस्य राजधर्मत्वं तु गयोपाख्याने स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनोपलक्षणेनेज्यादिना च इत्य् उक्तेरेवावसीयत इति । अत उक्तमलं पूर्णं तिष्ठतु वा । अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे इति यादवः । निवृत्तिमार्गप्रियस्य तव प्रवृत्तिमार्गेहा तु लोकसङ्ग्रहार्थम् एवेति भावः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**तर्हि किं तवाभिप्रेतम् ? इत्य् अत आह—पृथ्व् इति । एकेनोनशत-क्रतुर् अपि पृथुर् अयं शतक्रतोर् इन्द्राद् अपि पृथु-कीर्तिर् विपुल-यशा भूयाद् इति क्रतुभिर् यश एव साध्यम् । तच् च मदाशीर्वादाद् एव भविष्यतीति भावः । पृथु-कीर्तेः पृथोर् इति षष्ठ्य्-अन्त-पाठे एकोनशतम् एव क्रतुर् भूयाद् इत्य् एकत्वं जातापेक्षया सिद्धं क्रतु-शतस्यसङ्कल्पोऽपूर्णोऽपि पूर्णो भवत्व् इत्य् अर्थः । ऋत्विजः प्रत्युक्त्वा पृथुं प्रत्य् एवाह—अलम् इति ॥३२॥


॥ ४.१९.३३ ॥

नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि

उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनैवात्मने महेन्द्राय रोषं कर्तुं नार्हसि । तत्र हेतुः—उभाव् अपीति ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फलितम् आह—नैवेति । तत्र रोषाकरणे आत्मन इति हेतुः आत्मने इत्य् अत्रापि हेतुः उभाव् इति । द्वयोर् अपि युवयोर् भगवद्-अवतारत्वाद् इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मनेति । सम्बन्धोक्तिः आत्मना मनसेति व्याख्यानात् । स्वामि-व्याख्यायां सन्देह एव । पूर्व-न्यायेनैवाह—उभाव् अपीति ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मने इत्य् अत्र हेतुः—उभाव् अपीति । द्वयोर् अपि युवयोर् भगवद्-अवतारत्वाद् इत्य् अर्थः ॥३३॥


॥ ४.१९.३४ ॥

मास्मिन् महाराज कृथाः स्म चिन्तां

निशामयास्मद्-वच आदृतात्मा ।

यद् ध्यायतो दैव-हतं नु कर्तुं

मनोऽतिरुष्टं विशते तमोऽन्धम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि क्रतु-समाप्तिम् एव ध्यायन्तं प्रत्य् आह । अस्मिन् यज्ञ-विघ्ने चिन्तां मा स्म कृथाःयद् यस्माद् दैव-हतं कार्यं कर्तुं ध्यायतो मनो नु निश्चितम् अतिरुष्टं सद् अन्धं तमो मोहं विशति, न तु शान्तिं लभते ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथापीत्थं बोधिते\ऽपि ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि क्रत्व्-असमाप्तिं ध्यायन्तं तं प्रत्य् आह—मास्मिन्न् इति । यद् दैव-हतं कर्म, तत् कर्तुं ध्यायतः पुंसः । नु निश्चितं मनोऽतिरुष्टं सत् अन्ध-तमो मोहं विशति, न तु शान्तिं लभते ॥३४॥


॥ ४.१९.३५ ॥

क्रतुर् विरमताम् एष देवेषु दुरवग्रहः ।
धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव तव क्रतुर् विरमतु । नन्व् इन्द्रः किं न निवार्यते ? अत आह—यतो देवेषु दुराग्रहो भवतीति । यत्र क्रतौ ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव मनः-शान्त्य्-अभावाद् एव । अत्राक्षिपति--नन्व् इति । तीर्थस् तु न केवलं क्रतोर् विरामेण पूर्यते, किन्तु देवेषु दुरवग्रहो विरमतां, देवेषु कुपितेषु त्वद्-राष्ट्रे वृष्टि-विघातो\ऽपि स्याद् अतस्तद्दुरवग्रहविरामः कर्त्तव्य इत्य् अर्थः । क्रतोविशेषणं वा कुपितद् एवविषयो दुष्टो\ऽवग्रहो यस्मात्स तथा । देवप्रीत्या सुवृष्ट्यर्थं पुरुषैर्यज्ञोनुष्ठीयते कारीर्या वृष्टिकामो यजेत इति श्रुतेः । तत्र देवप्रतिहते क्रतौ क्रियमाणे तदप्रीत्यानावृष्ट्या ब्रीह्याद्यौषध्यनुत्पत्त्यान्नाभावेन प्राणिनां प्राणधारणोपायाभावेन देहवियोगलक्षणो विनाशः स्याद् इति व्याङपरिभ्यो रमः इति विहितपरस्मैपदप्रयोगं विहाय स्वार्थहानिसूचनाय विरमतामित्यात्मनेपदप्रयोगः । इतो\ऽपि क्रतुर्विरमत्वित्य् आह—यत्र चरमाश्वमेधे क्रियमाणे सति धर्मव्यतिकरः धर्मे\ऽधर्मसंबन्धेन धर्मस्य नाशो जात इति भावः ।

ध्रुवं धर्मः प्रणश्येत तपोयज्ञव्रतादिषु । > दर्शनस्पर्शभाषाभिर्लेच्छपापंषडिदंभिभिः ॥ इति संहितोक्तेः > ।

वृष्टिवर्षं तद्विघाते\ऽवग्राहावग्रहौ समौ इत्य् अमरः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, देवेषु दुरवग्रहो विरोध-हेतुर् अयं क्रतुर् विरमतु । ननु तद्-विरोधे का क्षतिः ? तत्राह—धर्म-व्यतिकरो धर्म-व्याघातः धर्मो दूषितः स्याद् इत्य् अर्थः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव क्रतुर् विरमताम् । नन्व् इन्द्रः किम् इति न निवार्यते ? तत्राह—देवेषु मध्योऽयं दुरवग्रहो भवतीति । यत्र क्रतौ ॥३५॥


॥ ४.१९.३६ ॥

एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् ।
ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मुट् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्र-दुराग्रह-कृतम् अनर्थं पश्येत्य् आह । एभिर् इन्द्रेणोपसंसृष्टैर् अधिष्ठितैर् हारिभिश् चित्ताकर्षकैः । य इन्द्रस् तेऽश्वं मुष्णातीति तथा यज्ञाय द्रुह्यति तथा । तेन सृष्टैः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाखण्डैह्रियमाणं स्वायत्तीकृतं जनं तत्र हेतुर्हारिभिर्मूढजनाकर्षिभिः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पाखण्डानां बलं दर्शयति—एभिर् इति ॥३६॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**इन्द्र-दुरवग्रह-कृतम् अनर्थं दर्शयति—एभिर् इति हारिभिश् चित्ताकर्षकैः । य इन्द्रस् ते अश्वं मुष्णातीति तथा यज्ञाय द्रुह्यतीति तथा तेन सृष्टैः ॥३६॥


॥ ४.१९.३७ ॥

भवान् परित्रातुम् इहावतीर्णो

धर्मं जनानां समयानुरूपम् ।

वेनापचाराद् अवलुप्तम् अद्य

तद्-देहतो विष्णु-कलासि वैन्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो मम किम् ? इति चेत् तत्राह—भवान् इति द्वाभ्याम् । साङ्ख्य-योगादि-नाना-सिद्धान्तानुरूपं धर्मं वेनस्यान्यायाल् लुप्तं परित्रातुं तद्-देहाद् विष्णोः कलैव त्वम् अवतीर्णोऽसि ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पाखण्डहृतजनदर्शनान्मम किं का हानिरित्य् अत्राह ।

समयः शपथाचारसिद्धान्तेषु तथा धियि । > क्रियाकारे च निर्देशे सङ्केते कालभाषयोः ॥ इति मेदिनी ।

हे वैन्येति । वेनदेहोद्भूतत्वात्तन्मतिं मा गृहाणेति भावः । विरोधे प्रणधित्यक्ते\ऽपचारो\ऽन्यायनिन्दयोः इति निरुक्तिः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हि पाखण्डान्यप्युपेक्षणीयान्येवेत्याह—भवानिति द्वाभ्याम् ॥३७॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**त्वत्तः सकाशात् धर्म एव प्रवर्तितुम् अर्हति न त्व् अधर्म इत्य् आह—भवान् इति ॥३७॥


॥ ४.१९.३८ ॥

स त्वं विमृश्यास्य भवं प्रजापते

सङ्कल्पनं विश्व-सृजां पिपीपृहि ।

ऐन्द्रीं च मायाम् उपधर्म-मातरं

प्रचण्ड-पाखण्ड-पथं प्रभो जहि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे प्रजा-पते ! अस्य विश्वस्योद्भवं विचार्य यैर् उत्पादितोऽसि तेषां विश्व-सृजां सङ्कल्पं पिपीपृहि, आर्षः प्रयोगः, पूरयेत्य् अर्थः । प्रचण्डो यः पाखण्ड-मार्गः सैवैन्द्री मायोपधर्म-जननी तां जहि ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे प्रजापते । प्रजापालनं हि धर्मरक्षयाधर्महत्या च भवतीत्यतः पाखण्डस्य महाधर्मत्वात्तद्धननम् एव युक्तम् इति भावः । इत्य् अर्थ इति । पृ-पालनपूरणयोः इत्यस्य लोटो मध्यमपुरुषैकवचने द्वित्वेत्वयोः पिपृहीति, ततः पुनः पीत्यस्य द्वित्वमुत्तरस्य दीर्घश् च च्छान्दसत्वात् । यद्वा—वष्टि भागुरिः इत्यप्युपसर्गाकारलोपे अभ्यासस्य च्छान्दसे दीर्घ पिपीपृहीति रूपम् इति भावः । प्रचण्डपाखण्डपथमित्याविष्टलिङ्गत्वात्पुंस्त्वम् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**अस्य विश्वस्य भवं कल्याणं, हे प्रजा-पते ! विश्व-सृजां यैर् मन्थनाद् उत्पादितोऽसि तेषां सङ्कल्पनंसङ्कल्पं पिपीपृहि, आर्षः प्रयोगः, पूरयेत्य् अर्थः । उपधर्मस्य मातरं जनयित्रीम् । कीदृशीम् ? प्रचण्डस्य पाषण्डस्यपन्थानम् आविष्ट-लिङ्गत्वाद् युक्तं पुंस्त्वम् ॥३८॥


॥ ४.१९.३९ ॥

मैत्रेय उवाच—

इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः ।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा च कृत्वा यज्ञाग्रहं हित्वा वात्सल्यं स्नेहं कृत्वेन्द्रेण सह सन्धानं च कृतवान् ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पृथुर्लोकगुरुणा ब्रह्मणा ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**च एवार्थे । यथा ब्रह्मण आज्ञा, तथैव वात्सल्यं कृत्वेति यज्ञस्य वयो-वृद्धत्वेऽपि देवेन्द्रत्वेऽपि च ब्रह्मण एवाज्ञया तत्र पृथोर् वात्सल्यं, सा च तयोर् विशुद्ध-सत्त्वेन तुल्यत्वेऽपि पृथोर् भक्त्य्-उत्कर्षेणाभ्यर्हितत्वम् आलक्ष्यैव कृत्वेति ज्ञेयम् । सन्दधे सन्धिं चकार ॥३९॥


॥ ४.१९.४० ॥

कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे

वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतम् अवभृथ-संबन्धि स्नानं येन स तस्मै ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवभृथो यज्ञान्तस्तस्येदमावभृथ्यं तच् च स्नानमावभृथ्यस्नानं कृतमावभृथ्यस्नानं येन तस्मै । तद्बर्हिषि तस्य यज्ञे ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१९.४१ ॥

विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः

आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षत्तर् इति । त्वं जानास्येवैतद् वृत्तं विप्राः पूजिताः सुखायापूजिता दुःखाय । क्षत्तृपदमत्र विद्वत्परमनेन प्राग्भवमाण्डव्यवृत्तं स्मारितम् इति भावः ।

क्षत्ता शूद्राक्षत्रियजे प्रतीहारे च सारथौ । > भुजिष्यातनये\ऽपि स्यान्नियुक्तविदुषोर् अपि ॥ इति मेदिनी ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : चित्सुख-मते त्व् अत्रोनविंशोऽध्यायः । तथा च कृतवान् सर्वम् इति चित्सुखः ॥४१॥


॥ ४.१९.४२ ॥

त्वयाहूता महा-बाहो सर्व एव समागताः

पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुष्टानां वाक्यं त्वयेति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महाबाहो इति । इन्द्रस्यापि भयङ्करौ तव बाहू इति भावः ॥४२॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे एकोनविंशो\ऽध्यायः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**अष्टानां वाक्यं त्वयेति ॥४२॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

ऊनविंशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

पृथु-विजये ब्रह्म-वाक्यम्

नामैकोनविंशोऽध्यायः

॥ ४.१९ ॥


(४.२०)