अथाष्टादशोऽध्यायः
विषयः
पृथिवी-वचनात् पृथक् पृथग् वत्स-पात्रादि-कल्पनया पृथिव्या दोहनम् ।
।। ४.१८.१ ॥
मैत्रेय उवाच—
इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् ।
पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टादशे मही-वाक्याद् वत्स-पात्रादि-भेदतः ।
पृथ्व्-आदिभिस् तु सा दुग्धा स्वं स्वं दुग्धम् इतीर्यते ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना मुन्य्-आदि-ग्रहः । इत्थं पूर्वोक्त-रीत्या आत्मना बुद्ध्या आत्मानं मनः संस्तभ्य निरुध्य ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टादशेऽवनीं कामधेनुं दुग्ध्वा स्वम् ईप्सितम् ।
वत्स-पात्रादि-भेदेन दुग्धं सर्वेऽपि लेभिरे ॥१॥
॥ ४.१८.२ ॥
संनियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
सर्वतः सारम् आदत्ते यथा मधुकरो बुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अभिभो ! प्रभो ! यद् वा, भो देव ! अभि अभयं यथा भवत्य् एवं मन्युं सन्नियच्छ । श्रावितं विज्ञापितम् । न मद्-वाक्येऽनादरः कर्तव्य इत्य् आह । बुधो हि सर्वतः सारम् आदत्ते ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभितो भातीत्यभिभुस्तत्संबुद्धौ तथा अभिभातेः प्रभ्वर्थाप्रसिद्धिमालल्याह—यद्वेति । भो इत्य् उक्तेर्दवेत्याक्षेपलब्धम् एव यद्येनानुपपन्नं तत्तेनाक्षिप्यते इति न्यायात् । मधुकरो भ्रमरः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अभिभो ! हे प्रभो ! सर्वत इति यद्यप्य् अहं निकृष्टा, तद् अपि ममापि वाचं शृणु । मद्-वाचि सारस् तिष्ठति चेत् त्वं गृहाण नान्यथेत्य् अर्थः ॥२॥
॥ ४.१८.३ ॥
अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः ।
दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मयि जीर्णाश् चौषधीर् उपायेन गृहाणेति वक्तुम् उपायेन सर्वं सिद्दृश्ह्यति नान्यथेत्य् आह—अस्मिन्न् इति त्रिभिः । पुंसां श्रेयसः पुरुषार्थस्य प्रसिद्धयेऽस्मिन् लोके कृष्यादयोऽमुष्मिंश् च लोकेऽग्नि-होत्रादयो योगा उपाया दृष्टाः प्रयुक्ता अनुष्ठिताश् च ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योगो\ऽष्टाङ्गाभियोगोपायसंयोगाहवेषु च इति कोशात् । अस्मिन्नित्य्-आदिनिमित्ते सप्तमीद्वयम् । एतल्लोकनिमित्तं परलोकनिमित्तञ्चेत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गवां दुग्ध-पूर्णादे\ऽप्य् आपीनाद् उपायेन दोहनेनैव दुग्धं लभ्यते, न तु मयि जीर्णाश् चौषधीर् उपायेन गृहाणेति वक्तुम् उपायेन सर्वं सिद्दृश्ह्यति नान्यथेत्य् आह—अस्मिन्न् इति त्रिभिः । पुंसां श्रेयसः पुरुषार्थस्य प्रसिद्धयेऽस्मिन् लोके कृष्यादयोऽमुष्मिंश् च लोकेऽग्नि-होत्रादयो योगा उपाया दृष्टाः प्रयुक्ता अनुष्ठिताश् च ॥३॥
॥ ४.१८.४ ॥
तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान्
अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वैर् दर्शितान् । अवरोऽर्वाचीनः ।।४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः किमित्यतोन्वयव्यतिरेकं वाह उपेयान् उपायसाध्यफलानि ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवरोऽर्वाचीनः, उपेयान् साध्य-वस्तूनि ।।४॥
॥ ४.१८.५ ॥
तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम्
तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविद्वान् विद्वान् अपीति वा । व्यभिचरन्ति न सिध्यन्ति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान्पूर्वदर्शितान् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१८.६ ॥
पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते
भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-हेतुकम् उपायनम् आह—पुरेति षड्भिः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असद्भिरकृतपञ्चयज्ञैः यज्ञशिष्टाशिनः सन्तः इत्य् उक्तेरयज्ञशेषभोजिन एवासन्त इति लभ्यते । अधृतव्रतैस्त्यक्ततपोभिः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतम् आह—पुरेति षड्भिः ॥६॥
॥ ४.१८.७ ॥
अपालितानादृता च भवद्भिर् लोक-पालकैः
चोरी-भूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसम् ओषधीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवद्भिर् इति राज-सामान्याभिप्रायेण, वेनादिभिर् इति वा । अपालिता चोराद्य्-अनिवारणात् । अनादृता च यज्ञादि-प्रवर्तनाभावात् । यज्ञार्थे अग्रसं गिलितवती । अन्यथाऽधृत-व्रतैर् भुक्ता न प्रसोष्यन्ते ततश् च यज्ञादयो न सिध्येरन्न् इति भावः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवद्भिर् इति । वेनं मनसि कृत्वा तत्पुत्रे पृथावुपालंभः । वेनमृतौ लोके चौरीभूते चौरप्रचुरे । इति भाव इति । सत्सूत्पन्नेषु यज्ञस्यावश्यंभावित्वनियमेन त्वद्-यज्ञप्रवृत्तये मया सर्वाणि बीजानि प्रस्तानीत्याशयः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवद्भिर् इति वेनं मनसि कृत्वा तत्-पुत्रे पृथाव् उपालम्भः अपालिता यज्ञादि-प्रवर्तनाभावात् । प्रत्युत विधर्म-प्रवर्तनाद् अनादृता । अथ अनन्तरं चौरी-भूते इति वेने मृते सतीत्य् अर्थः । अग्रसम् इति यदि नाग्रसिष्यं तदाहम् अद्य कथं प्राप्स्य इत्य् अर्थः । यज्ञार्थे त्वत्-प्रवर्त्यिष्यमाणानां यज्ञानां कृते ॥७॥
॥ ४.१८.८ ॥
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा
तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षीणा जीऋणाः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीर्णाः सूक्ष्म-रूपेण स्थिताः । तत्र तत्-तत्-कार्यां साधने । दृष्टेन तत्-तच्-छास्त्रोपदिष्टेन, ता आदातुं ग्रहीतुम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नूनम् इति । पूर्व-पूर्व-कल्पेषु पूर्व-पूर्व-पृथुभिर् दृष्टेन शास्त्र-द्वारा ज्ञानेन योगेन उपायेन ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षीणाः सूक्ष्मतया स्थिताः । दृष्टेन योगेन वक्ष्यमाणेन उपायेन ॥८॥
॥ ४.१८.९ ॥
वत्सं कल्पय मे वीर येनाहं वत्सला तव ।
धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥
दोग्धारं च महा-बाहो भूतानां भूत-भावन ।
अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दोहनं दोह-पात्रम् । दोग्धारं चोपकल्पय । धोक्ष्ये प्रपूरयिष्यामि ॥९॥ भूतानाम् अभीप्सितम् अन्नम् । ऊर्जस्वद् बल-प्रदम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वत्सला वत्सप्रिया । क्षीरमयान् क्षीर-स्वरूपान् । वीरेति । भीताया मम रक्षणेनैव तव वीरत्वं स्थास्यति नान्यथेति भावः ॥ महाबाहो इति । युद्धवीरस्य तव मयि भुजबलप्रदर्शनं नोचितम् इति भावः । हे भूतभावनेति । सर्वभूतपालकस्य तव मत्पालनमप्युचितम् एवेत्याशयः । भूतानामूर्जस्वद्बलहेतुभूतमन्नम् । यद्वा—महान्तः श्लाघनीया असङ्गगतित्वाद्वाहा अश्वा यस्य स तथेति भगवद्-विशेषणम् । एतेनेन्द्रलोकं गत्वेन्द्रं जित्वापि वृष्टिं कारयितुं समर्थोसीत्युक्तम् ॥९-१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वत्सम् इति युग्मकम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दोहनं दोह-पात्रं धोक्ष्ये प्रपूरयिष्यामि । ऊर्जस्वत् फल-प्रदम् ॥९-१०॥
॥ ४.१८.११ ॥
समां च कुरु मां राजन् देव-वृष्टं यथा पयः
अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपगतेऽपि वर्ष-र्तौ देव-वृष्टम् उदकं यथा मे मयि सर्वतो वर्तेत ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभो इति । मत्समीकरणेन त्वं विशेषतो भास्यसीति भावः । राजनिति । राज्ञः पार्श्वे एव स्वदुःखं निवेद्यत इति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपर्ताव् [अप-ऋतौ] अपगतेऽपि वर्ष-र्तौ ॥११॥
॥ ४.१८.१२ ॥
इति प्रियं हितं वाक्यं भुव आदाय भूपतिः
वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनुं स्वायंभुवम् । ओषधीर् व्रीह्य्-आदीः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सकलौषधीस्तत्तद्बीजमयानि पयांसि यत्सेकमात्रेण सर्वौषधिप्रभवो भवेत् । मनोवत्सत्वं तु सर्वभूभृद्गणमूलत्वात्तत्संबन्धेन तस्य तस्योद्भावनोपपत्तेः । एवमुत्तरत्रापि । पृथुपाणेः पात्रत्वं तत्र तत्पालनशक्तिप्रकाशात् तत्प्रभावात्पयसश्चाक्षयत्वं ज्ञेयम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सकलौषधीस् तत्-तद्-बीज-मयानि पयांसि । तत्-सेक-मात्रेण सर्वौषधि-प्रभावात् मनोर् वत्सत्वं सर्व-भूभृद्-गण-मूलत्वात् तत्-सम्बन्धेन तत् तस्यास् तद्-उद्भावन-भावोत्पत्तेः । एवम् उत्तरत्रापि श्री-पृथु-पाणेः पात्रत्वं तत्र तत्-पालन-शक्ति-प्रकाशात् तत्-प्रभावात् पयसश् चाक्षयत्वं ज्ञेयम् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१८.१३ ॥
तथापरे च सर्वत्र सारम् आददते बुधाः
ततोऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गाद् अर्थान्तरम् आह—तथेति । यथा पृथुर् एवं सर्वत्र वाक्ये परेऽपि सारम् आददते । प्रस्तुतम् अनुवर्तयति । ततोऽन्ये च ऋष्य्-आदयः पञ्चदश दुदुहुः । पृथुना भावितां वशीकृताम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा पृथुः पृथिव्या वाक्यसारं जग्राह गृहीत्वा च स्वकार्यं साधयामास तथापरे च बुधाः सर्वत्र सर्वेषाम् एव सर्ववाक्येषु सारं गृह्णन्तीति नीतिः । ततः पृथुकर्तृकभूदोहनानन्तरं, पञ्चदशसङ्ख्याकाः । वेनराज्ये\ऽराजके च धर्मलोपात्सर्वेषाम् अपि सर्वं हारितं वस्तु सर्व एव पुनः प्रापुरित्य् आह—वशीकृतां सर्वमहं सर्वेभ्यो दास्यामि कामधुक्त्वाद् इत्य् एवं दित्सुताभाववतीं कृतां भाववतीं चकारेति तत्करोति इति करणार्थकणिचि मतुपो विन्मतोर्लुक् णिचीष्टवदित्यतिदेशात् ततो भावीति जातायां धातुसंज्ञायां लिडन्तात् क्तप्रत्यये चिण्वदिटि णेर्लोपे भाविताम् इति रूपम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसङ्गाद् अर्थान्तरम् आह—तथेति । यथा पृथुः पृथिव्या वाक्य-सारं जग्राह गृहीत्वा च स्व-कार्यं साधयामास, तथापरे च बुधाः सर्वत्र सर्वेषाम् एव सर्व-वाक्येषु सारम् गृह्णन्तीति नीतिः । वेन-राजोऽराजके च धर्म-लोपात् सर्वेषाम् अपि सर्वं हारितं वस्तु सर्व एव पुनः प्रापुर् इत्य् आह—तत इति । अन्ये च ऋष्य्-आदयः पञ्चदश दुदुहुः । पृथुना भावितां वशीकृताम् ॥१३॥
॥ ४.१८.१४ ॥
ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम ।
वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवीं पृथ्वीम् । वाङ्-मनः-श्रवणैर् वेद-ग्रहणाद् इन्द्रियाणां पात्रत्वम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा पृथ्व्या गो-रूपत्वं तथा पयसोऽपि साक्षाद् दुग्धत्वम् एव । तस्य छन्दोमयत्वं च तद्-उपलम्भ-मात्रेण छन्दस्यं सहसा प्रादुर्भावात् । तत्-प्रादुर्भाव-योग्यानि तु वाङ्-मनः श्रवण-रूपाणीन्द्रियाणि । तेषां पात्रत्वं तत्-तद्-गोलके सेकेन तत्-प्रादुर्भावात् । तत्र ब्रह्मिष्ठानां बृहस्पतिर् इति न्यायेन प्रथमाधिकारी बृहस्पतिर् इति स एव वत्सः कृत इत्य् आदिकं सर्वत्रानुसन्धेयम् ॥१४॥
॥ ४.१८.१५ ॥
कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् ।
हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : गुणाः स्वरूप-भूताश् च बाह्याश् चेति द्विधा मताः ।
स्वरूप-भूता व्यज्यन्ते हरेर् बाह्यान् दुहुः परः ॥ इति ब्राह्मे ॥१५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सोमम् अमृतम् । वीर्यं मनः-शक्तिम्, ओज इन्द्रिय-शक्तिम्, बलं देह-शक्तिं च तद् एव पयः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ पृथुदोहनोत्तरम् । सत्तमेति । यथा त्वं सत्तमो भगवद्-गुणानुरागवानसि तथर्षयो\ऽपि ब्रह्मावधार्यात्मगुणानुवादम् इति वाराहोपाख्याने वेदस्य भगवद्-गुणानुवाद-रूपत्वोक्तेस्तदनुरागिणः छन्दोमयं वेद-रूपम् एव पयो दुदुहुर् इति भावः । शुचित्वापादकाच्छुचीति । अत्र सन्दर्भः—यथा पृथ्व्या गोरूपत्वं तथा तदभिलषितपयसो\ऽपि साक्षाद्दुग्धत्वम् एव । तस्य छन्दोमयत्वञ्च तदुपलंभमात्रेण छन्दसां सहसा प्रादुर्भावात् । तत्प्रादुर्भावयोग्यानि तु वाङ्मनःश्रवणानीन्द्रियाणि तेषां पात्रत्वं तत्तद्गोलकसेकेन तत्प्रादुर्भावात् । तत्र ब्रमिष्ठानां बृहस्पतिः इति न्यायेन प्रथमाधिकारी बृहस्पतिर् इति स एव वत्सः कृत इत्य्-आदिकं सर्वत्रानुसन्धेयम् ॥१४-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वीर्यादि-हेतुं सोमम् अमृत-रूपं पयः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोमम् अमृतम् । वीर्यं मनः-शक्तिम्, ओज इन्द्रिय-शक्तिम्, बलं शरीर-शक्तिं, तद् एव पयः ॥१५॥
॥ ४.१८.१६ ॥
दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम्
विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रति मन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे इति च ॥१६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुराम् आसवं च तालादि-मद्यम् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुरा त्रिविधां गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा इत्य् उक्तः । आसवम् अपि द्वादशविधं ग्राह्यं तच् च मद्यशब्देनापि क्वचिदुच्यते, तच् च पञ्चम-स्कन्धे व्याख्यास्यामः । प्रह्लादं ब्रह्मजघनोद्भूतं कञ्चिद्दैत्यवर्यं पृथुवंशजदक्षकन्यादितिपौत्रस्य तदानीमभावात् । विजयध्वजस्तु—प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे इति जगाद । सन्दर्भस्तु—श्रीमतः प्रह्लादस्य भावित्वे\ऽपि पृथिव्युपदेशेन सो\ऽयं प्रह्लादो दैत्यानां भावनामयो ज्ञेय इति । अयःपात्र इति । दोह्यस्य निकृष्टापेक्षया ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रीमतः प्रह्लादस्य भावित्वेऽपि पृथिव्य्-उपदेशेन सोऽयं प्रह्लादो दैत्यानां भावना-मयो ज्ञेयः । अयः-पात्र इति दोहस्य निकृष्टत्वापेक्षया । पूर्वस्य दोहस्य प्रकृष्टत्वापेक्षया हिरण्मयेत्य् उक्तम् ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुरैव आसवो मादकः पदार्थस् तम् ॥१६॥
॥ ४.१८.१७ ॥
गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु वाङ्-माधुर्यं सौभगं सौन्दर्यं तत् सहितम् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गान्धर्वं गानं मधुसौभगमित्य् अत्रार्श् आद्यच् । गन्धं मधु ससौभगम् इति पाठे गन्धं सौरभ्यमयम् । मधुवद्रूपं पयः तच् च ससौभगं सौन्दर्यसहितं तत्र ससौभगसौन्दर्याभ्यां तत्तत्प्रकाशो जातः, अधुना गानमाधुर्यम् इति ज्ञेयं, पद्मस्य पात्रत्वं च तत्त्रयास्पदत्वेनोपोद्बलकत्वात् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गन्धं सौरभ्य-मयं मधु तद्-रूपं पयः तच् च स-सौभगं सौन्दर्य-सहितम् । तत्र सौभग-सौन्दर्याभ्यां तत्-तत्-प्रकाशो जातः, अधुना गान-माधुर्यम् इति ज्ञेयं, पद्मस्य पात्रत्वं च तत्-त्रयास्पदत्वेन उपोद्बलकत्वात् ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधु माधुर्यं, गन्धर्वम् इति पाठे गानम् ॥१७॥
॥ ४.१८.१८ ॥
वत्सेन पितरोऽर्यम्णा कव्यं क्षीरम् अधुक्षत
आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कव्यं पितॄणाम् अन्नम् । आमपान्ने अपक्वे मृण्मये । अधुक्षत दुदुहुः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कव्यं स्वधाशब्देन दीयमानम् ।
अपक्वं मृन्मयं पात्रं पितृणां वल्लभं सदा ।
तच् च हस्तेन घटितं ग्राह्यं चक्रोद्भवं न हि ॥ इति ।
कुलालचक्रनिष्पन्नमासुरं दैविकं न तत् ।
तद् एव हस्तघटितं दैविकं पैतृकं तथा ॥ इति छन्दोगपरिशिष्टात् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आम-पात्रस्य पितृ-सन्तर्पण-स्वभावत्वात् तद्-उपयोगः ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कव्यं पितॄणाम् अन्नम् आम-पात्रे अपक्व-मृण्-मये ॥१८॥
॥ ४.१८.१९ ॥
प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम्
सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कल्पना-मयीम् अणिमादि-सिद्धिम् । ये विद्याधरादयस् ते च तम् एव वत्सं प्रकल्प्य नभस्य् एव पात्रे स्वेचरत्वादि-रूपां विद्यां दुदुहुः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना चारणादिग्रहः । सिद्धादयो देवयोनिविशेषाः—
विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
पिशाचो गुह्यकः सिद्धो भूतो\ऽमी देवयोनयः ॥ इत्य् अमरः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्कल्पना-मयीम् अणिमादि-सिद्धिं नभसि पात्रे विद्यां च खेचरत्वादि-रूपाम् ॥१९॥
॥ ४.१८.२० ॥
अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम्
मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ये च किंपुरुषादयोऽन्तर्धानेनाद्भुतात्मनां संबन्धिनीं मायाम् । धारणा-मयीं सङ्कल्प-मात्र-प्रभवाम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्ये च किंपुरुषादयोऽन्तर्धानेनाद्भुतात्मनाम् अद्भुत-स्वभावानां संबन्धिनीं मायाम् । धारणा-मयीं सङ्कल्प-मात्र-प्रभवाम् ॥२०॥
॥ ४.१८.२१ ॥
यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः
भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतेशो रुद्रः स एव वत्सो येषाम् । क्षतजं रुधिरं तद् एवासवम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना किंपुरुषादिग्रहः । अद्भुतात्मनामद्भुतस्वभावानाम् ॥२०-२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतेशो रुद्रः क्षतजं रुधिरं तद् एवासवम् ॥२१॥
॥ ४.१८.२२ ॥
तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् ।
विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहयो निष्फणाः दन्दशूका वृश्चिकादयः । सर्पाः स-फणास् त एव कद्रु-सन्त-जिता नागाः । बिल-पात्रे मुखे ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.१८.२३ ॥
पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् ।
अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यवसं तृणम् । गो-वृषं रुद्र-वाहं वृषभम् । मृगेन्द्रेणेत्य् उत्तरेण अन्वयः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथान्ये दुदुहुस्तथेति ॥२२-२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पश्व्-आदयस् तत्-तद्-देवताः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यवसं तृणम् । गो-वृषं रुद्र-वाहं वृषभम् । मृगेन्द्रेण सिंहेन वत्सीकृतेनेत्य् उत्तरेण अन्वयः ॥२३॥
॥ ४.१८.२४-२५ ॥
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे
सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च ॥
वट-वत्सा वनस्पतयः पृथग् रसमयं पयः
गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रव्यं मांसम् । चरं कीटादि अचरं फलादि ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रव्यमाममांसमदन्तीति क्रव्यादा वृकादयः । दंष्ट्रिणो बृहद्दंष्ट्रावन्तः । स्वे कलेवरे स्वस्वभक्ष्यकलेवर इत्य् अर्थः । स्वपदमत्र स्वीयपरं तच् च स्वीयत्वं भक्ष्यत्वरूपेण ध्येयम् । सुपर्णो गरुडः सो\ऽपि श्रीप्रह्लादवद्भावनामयो बोध्यः । यद्वा—प्रतिमन्वन्तरमधिकारिसुरत्वात्तदुद्भवो ज्ञेयः । सुपर्णादीनाम् अपि पात्रं पूर्वोक्तम् एव । आदिना भृङ्गादिग्रहः, द्वितीयादिना मूलादिग्रहः ॥ रसस्य मधुरादि-भेदेन बहुविधत्वात्पृथगित्य् उक्तं पात्रमत्र स्वकलेवरं बोध्यम् । नानाधातून् हरितालस्वर्णादीन् । स्वसानुषु स्वोर्ध्वविस्तृतदेशेषु ॥२४-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-कलेवरे स्व-स्व-भक्ष्य-कलेवरे इत्य् अर्थः । सुपर्णोऽयं न वैनतेयः, किन्तु श्री-प्रह्लादवद् भावना-मयः ॥२४-२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रव्यं मांसम् । सुपर्णो गरुडः । चरं कीटादि । अचरं फलादि ॥२४॥
॥ ४.१८.२६ ॥
सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः
सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुक्त-सर्व-सङ्ग्रहार्थम् आह—सर्वे इति । सर्वे स्व-जातौ यो मुख्यस् तेन वत्सेन ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वे उक्ता अनुक्ताश् च ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथ्वीं मन्वाधा इति क्वचित् ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुक्त-सर्व-सङ्ग्रहार्थम् आह—सर्वे स्व-जातौ यो मुख्यस् तेन वत्सेन ॥२६॥
॥ ४.१८.२७ ॥
एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः ।
दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—एवम् इति । स्वन्नम् अभीष्टम् अन्नम् । तम् एव क्षीर-भेदं दुदुहुः । दोहः पात्रम् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना दोग्धृग्रहः । कुरूद्वहेति । त्वं साक्षाद्यमो हि सूर्यात्मजो\ऽपि कुरुवंशोद्भूतत्वाद्यथा कुरूद्वहस् तथा दुग्धस्यैकत्वे\ऽपि दोहादि-भेदाद्भेद इति भावः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.१८.२८ ॥
ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः ।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इमां पृथ्वीम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सर्वदोहनोत्तरम् । इमां पृथ्वीम् । दुहितृत्वे इति । स्वहस्तेनैवान्नमयदुग्धादानात्स्त्रीभावस्यानौचित्यं शरहस्तेन स्वेन दण्डकरणान्मातृभावस्याप्यनौचित्यमालक्ष्य पारिशेष्यात्तस्यां वात्सल्योदयाच् च दुहितृत्वम् एव रसावहम् इति ज्ञेयम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इमां पृथ्वीम् । दुहितृत्वे इति स्व-हस्तेनैवान्नमय-दुग्धादानात् स्त्री-भावस्यानौचित्यं शर-हस्तेन स्वेन दण्ड-करणान् मातृ-भावस्याप्य् अनौचित्यम् आलक्ष्य पारिशेष्यात् तस्यां वैराग्य्लक्षणादयाच् च दुहितृत्वम् एव रसावहम् इति ज्ञेयम् ॥२८॥
॥ ४.१८.२९ ॥
चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-राट् ।
भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धनुषोऽग्रेण गिरि-शृङ्गाणि चूर्णयन् । राज-राट् राज्ञां राजा । सर्वेषाम् आजीविका-दानात् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राय इत्य् उक्तेः कुत्रचिद्वैषम्यमप्यस्ति, पर्वतभूमौ तथात्वानुपलब्धेः । कूटानि शृङ्गाणि कूटो\ऽस्त्री पुंजमायाद्येष्वद्रिशृंगेषुभेदयोः इति यादवः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१८.३०-३१ ॥
अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता
निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥
ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च
घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : गोष्ठं घोष इति प्रोक्तो व्रजस् तत्-तत्-पाल-संस्थितिर् इत्य् अभिधानम् ॥३१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रामा हट्टादि-शून्याः । पुरो हट्टादिमत्यः । ता एव महत्यः पत्तनानि । दुर्गाणि विविधानि । यथाह बृहस्पतिः—औदकं पार्वतं वार्क्षम् ऐरिणं धान्वनं तथा इति । घोषान् आभीराणां निवासान् । व्रजान् गवां निवासान् । शिबिरं सेनानिवास-स्थानं तत् सहितान् आकरान् स्वर्णादि-स्थानानि । खेटाः कर्षक-ग्रामाः स्वर्वटाः पर्वत-प्रान्त-ग्रामास् तांश् च ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भूसमीकरणानन्तरम् । अस्मिन्भूमण्डले । पिता पालकः । तत्र तत्र देशे । यथार्हतः यस्मिन्देशे यथा निवासः सुखदः स्यात्तथा कल्पयांचक्रे इत्य् अर्थः ॥ औदकं तन्मध्यगं पार्वतं तन्निखनेन कृतं वार्क्षं बहुवृक्षैः परित आवृतं धान्वनं निरुदकदेशगमैरिणमूषरभूदेशगम् इति विवेकः ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रामा हट्टादि-शून्याः । पुरो हट्टादिमत्यः । ताश् च महतीः पत्तनानि । दुर्गाणि विविधानि । यथाह बृहस्पतिः—औदकं पार्वतं वार्क्षम् ऐरिणं धान्वनं तथा इति । घोषान् आभीराणां स्थानानि व्रजान् गवां शिबिराणि सेनाया आकराः सुवर्ण-रूप्याद्य्-उद्भवस्य खेटाः कर्षकाणां खर्वटाः पर्वत-प्रान्त-वर्तिनाम् ॥३१॥
॥ ४.१८.३२ ॥
प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना
यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरादिकल्पनाप्रयोजनम् आह—यथासुखम् इति । एतेन पृथोः पूर्वराज्ञां साधुत्वे\ऽपि संबाधया प्रजानां निवाससुखं नास्तीति सूचितम् ॥३२॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थस्कन्धे\ऽष्टादशो\ऽध्यायः ॥१८॥
न कतमेनापि व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्थेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पृथ्वी-दोहो नामाष्टादशोऽध्यायः
॥ ४.१८ ॥
(४.१९)