अथ सप्तदशोऽध्यायः
विषयः
क्षुत्-पीडित-प्रजानाम् अन्न-दानार्थे ग्रस्त-बीजां पृथिवीं हन्तुम् उद्यतस्य पृथोस् तया स्तवनम् ।
॥ ४.१७.१ ॥
मैत्रेय उवाच—
एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः ।
छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः सप्तदशे लोक-क्षुधाः प्रशमयन् पृथुः ।
ग्रस्त-बीजां महीं हन्तुं यत्तो भीत्या तया स्तुतः ॥
छन्दयाम् आस तोषितवान् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः यशोवर्णश्रुत्यनन्तरं, यत्तः सावधानः, तया भूम्या । एवं पूर्वोक्तरीत्या तान्सूतादीन् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेदृश-लोक-साहाय्याय भविष्यामीति सञ्जात-सुखस्य तस्य वृत्तम् आह—एवम् इति ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पृथुः सप्तदशे लोकैः क्षुधार्तैर् अन्नम् अर्थितः ।
धरां ग्रस्त-समस्तानां निघ्नन् भीत्या तया स्तुतः ॥*।
छान्दयामास तोषितवान् ॥१॥
॥ ४.१७.२ ॥
ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः
पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भृत्यान् अमात्यान् पुरोधसः पुरोहितांश् च । श्रेणीस् तैलिक-ताम्बूलिकादीन् पौर-विशेषान् । प्रकृतीर् नियोगिनः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समपूजयत् धन्याः स्थ भो धन्याः स्थ युष्मानहं साधु पालयानीत्येतद् एव मत्कर्तृकं युष्मत्परिचरणं भूयाद् इति मधुरमभाषत । विजयध्वजस्तु राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षका इत्य् आह ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रेणीस् तैलिक-ताम्बूलिकादिन् प्रकृतीर् नियोग-वर्तिनः समपूजयत् । धन्याः स्थ, भो धन्याः स्थ । युष्मान् अहं साधु पालयानीत्य् एतद् एव मत्-कर्तृकं युष्मत्-परिचरणं भूयाद् इति मधुरम् अभ्यभाषत ॥२॥
॥ ४.१७.३ ॥
विदुर उवाच—
कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी ।
यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दोहनं पात्रम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विदुरः सूतादिभिः सूचितं गोदोहनादिपृथुविक्रमं विस्तरतः श्रोतुं लोकोपकाराय पृच्छति कस्माद् इति । तत्र पृथुदोहनावसरे ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.४ ॥
प्रकृत्या विषमा देवी कृता तेन समा कथम् ?
तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मेध्यं यज्ञार्हम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.५ ॥
सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् ।
लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-विज्ञानम् अपरोक्ष-ज्ञान-सहितम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृत्या स्वभावतः । तेन पृथुना । देव इन्द्रः ॥४-५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कां गतिं ब्रह्म-रूपां भगवद्-रूपां वा ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.६ ॥
यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः
श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पूर्वतनानां कथा सम्बन्धेन हरेर् यशः ॥६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्व-देहः पृथ्व्-अवतारस् तत्-कथाश्रयम् । श्रवो यशः । सुष्ठु श्रवो यस्य ॥६॥
जीव-गोस्वामी (कृष्ण-सन्दर्भ ४४) : पूर्व-देहः पृथ्व्-अवतारः । लोक-दृष्टाव् अभिव्यक्ति-रीत्या पूर्वत्वम् । तत्-कथैवाश्रयो यस्य तत्
जीव-गोस्वामी (क्रम-सन्दर्भः) : यच् चान्यद् इति द्वयेन । श्री-विदुरस्य सर्वत्राप्य् एतद् एव हार्दं व्यक्तं भवेद् इत्य् अत्र भवान् इति क्वचित् चित्सुख-सम्मतोऽयम् । देहत्वम् आवेशावतारत्वं पूर्वत्वं प्राक् प्रकाशापेक्षयैव ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.७ ॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च
वक्तुम् अर्हसि योऽदुह्यद् वैन्य-रूपेण गाम् इमाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदुह्यद् दुग्धवान् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णस्यैव पूर्वदेहः पृथुरयम् अत एव श्रीगर्गमुनिना श्रीनन्दराजाय नामकरणसंस्कारावसरे उक्तम्—
पुरानेन व्रजपते साधवो दस्युपीडिताः ।
अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥
इत्य् उक्तम्, वेने विप्रहते बहवो दस्यवो जाताः पुनर् भगवता तदेहत आविर्भूय ते मारिता इति ध्येयम् ॥६-७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदुह्यद् इत्य् आर्षम् अधोक् ॥७॥
॥ ४.१७.८ ॥
सूत उवाच—
चोदितो विदुरेणैवं वासुदेव-कथां प्रति
प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत ॥
जीव-गोस्वामी (श्री-कृष्ण-सन्दर्भः ४५) : तत्-प्रशंसया प्रीत-मनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते । अत एवात्र वसुदेव-नन्दनत्वेनैव वासुदेव-शब्दः प्रयुक्तः ॥
न कतमेनापि व्याख्यातम्।
॥ ४.१७.९ ॥
मैत्रेय उवाच—
यदाभिषिक्तः पृथुर् अङ्ग विप्रैर्
आमन्त्रितो जनतायाश् च पालः ।
प्रजा निरन्ने क्षिति-पृष्ठ एत्य
क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जनतायास् त्वं पाल इत्य् आमन्त्रितो नियुक्तः । तदा निरन्ने क्षिति-तले सति । क्षुधाक्षामाः क्षीणा देहा यासां ताः प्रजा एत्य पतिं पृथुम् अब्रुवन् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं यथा त्वयाहं चोदितस् तथा विदुरेणेत्य् अर्थः ॥८-९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-प्रेरणया प्रीतमनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते । अत एवात्र वासुदेवः, श्री-वसुदेव-नन्दनः श्री-कृष्ण एव ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनतायास् त्वं पाल इत्य् आमन्त्रितो नियुक्तश् च तदा ॥९॥
॥ ४.१७.१० ॥
वयं राजञ् जाठरेणाभितप्ता
यथाग्निना कोटर-स्थेन वृक्षाः ।
त्वाम् अद्य याताः शरणं शरण्यं
यः साधितो वृत्ति-करः पतिर् नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जाठरेणाग्नि-नाभि-तप्ताः । यः साधितो विप्रैर् मन्थनेन संपादितस् तं त्वां शरणं याताः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कोटरं वृक्षविवरम् । शरण्यं शरणागतपालकम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् त्वं साधितो विप्रैर् मन्थनेन सम्पादितः ॥१०॥
॥ ४.१७.११ ॥
तन् नो भवान् ईहतु रातवेऽन्नं
क्षुधार्दितानां नरदेव-देव
यावन् न नङ्क्ष्यामह उज्झितोर्जा
वार्ता-पतिस् त्वं किल लोक-पालः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मान् नोऽस्माकम् अन्नं रातवे रातुं दातुम् ईहतु ईहतां यत्नं करोतु । उज्झितोर्जास् त्यक्तान्नाः सत्यः । वार्ताया जीविकायाः पतिः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस्त्वं नो वृत्तिकरस्ततो हेतोः । रा-दाने\ऽतस्तुप्रत्ययः । चतुर्थी तुमुन्नर्थे छान्दसी । वस्तुतस् तादर्थ्ये एव सा । ऊर्जः कार्तिक उत्साहबलान्नप्राणनेषु च इति कोशात् । वार्ताया वृत्तेः पतिः कर्त्ता वार्ता कृष्याद्युदन्तयोः इति । ननु वृष्टिहेतुककृष्याद्युत्पादकत्वेनेन्द्र एव वार्तापतिर्नाहम् इति चेदाहुत्वम् इति । किलाश्वेताश् च ये लोका अर्थात्सात्त्विका देवास् तेषां पालः यज्ञादिना पालको वृष्टिहेतुकयज्ञकर्तृत्वेन तवैवेन्द्रकर्मवृष्टिहेतुत्वम् अपि । इन्द्रस्तु-त्वहत्तहविर्द्वारा वृष्टिहेतुत्वान्न मुख्यो वृत्तिकर इत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मान् नोऽस्माकम् अस्मभ्यम् अन्नं रातवे रातुं दातुम् ईहतु ईहतां यत्नं करोतु । अत्र या विलम्ब्यताम् इत्य् आहुः—यावद् इति । उज्झितोर्जास् त्यक्तान्नाः सत्यः । वार्ताया जीविका-कर्ता ॥११॥
॥ ४.१७.१२ ॥
मैत्रेय उवाच—
पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिदेवितं विलापम् । निमित्तं हेतुम् अन्वपद्यत ज्ञातवान् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हेतुं भूग्रस्तबीजत्वलक्षणम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निमित्तं वक्ष्यमाणानुसारेण पृथिव्या ग्रस्त-बीजत्वम् ॥१२॥
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**निमित्तं हेतुम् ॥१२॥
॥ ४.१७.१३ ॥
इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः ।
सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथिव्या ओषधि-बीजानि ग्रस्तानीति व्यवसितो निश्चितवान् सन् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ममाभिषेके जाते\ऽपि यदियं बीजानि गोपायति तदस्यां चतुर्थमुपायम् एव करवाणीति व्यवसितं निश्चयो यस्येति वा । भूमेर् इति द्वितीयार्थे षष्ठी भूमिं प्रति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इति वक्ष्यमाण-तत्-कर्तव्य-व्यवसितो निश्चितवान् । ममाभिषेके सञ्जातेऽपि बीजानि गोपायतीति क्रुद्धः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथिव्यैव ओषधि-बीजानि ग्रस्तानीति अन्वपद्यत ज्ञातवान् । ममाभिषेके जातेऽपि यदीयं बीजानि गोपायति, तद् अस्यां चतुर्थम् उपायम् एव करवाणीति व्यवसितं निश्चयो यस्य सः । भूमेर् भूमिं प्रति ॥१३॥
॥ ४.१७.१४ ॥
प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।
गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृगयुना द्रुताऽनुगता मृगीव ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निशाम्य दृष्ट्वा । तं पृथुम् । स्वीयमार्तिकबृहद्देहात्स्वल्पं गोरूपं कृत्वा पृथिव्यधिष्ठात्री देवतैवापाद्रवन्न तु सामस्त्येन मार्तिक-रूपेण, देवतां प्रत्येव तेन बाणसन्धानं कृतं न तु जाड्यावच्छिन्नभूमण्डलं प्रतीति ध्येयम् । मृगयुना व्याधेन ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ४.१७.१५ ॥
ताम् अन्वधावत् तद् वैन्यः कुपितोऽत्यरुणेक्षणः ।
शरं धनुषि सन्धाय यत्र यत्र पलायते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्तदा स चासौ वैन्यस्तद्वैन्य इति वा ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति तत्र तत्रेत्य् अर्थः । ताम् एवान्वद्रवद् इति पाठः क्वचित् ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तदा ॥१५॥
॥ ४.१७.१६ ॥
सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रोदसि द्यावापृथिव्यौ तयोर् अन्तरम् अन्तरिक्षं च । अनु पृष्ठतः उद्यतम् आयुधं येन ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एनं पृथुम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रोदसी द्याव्-आपृथिव्यौ तयोर् अन्तरम् अन्तरिक्षम् अनु स्व-पृष्ठ-देशे उद्यतायुधम् एनं पृथुं ददर्श ॥१६॥
॥ ४.१७.१७ ॥
लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः ।
त्रस्ता तदा निववृते हृदयेन विदूयता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवन्भद्राणि पश्यतीति भावेन निवृत्ता । विदूयता उपतापवता ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निववृते पृथोर् अभिमुखी-बभूव ॥१७॥
॥ ४.१७.१८ ॥
उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल ।
त्राहि माम् अपि भूतानां पालनेऽवस्थितो भवान् ॥
न कतमेनापि व्याख्यातम्।
॥ ४.१७.१९ ॥
स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् ।
अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यो धर्म-ज्ञ इति मतः, स भवान् योषां मां कथम् अहनिष्यद् धनिष्यति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्मज्ञापन्नवत्सलेति संबुद्धिद्वयेन मां स्त्रियं तत्रापि गोरूपां हन्तुं नार्हसि धर्मज्ञत्वादापन्नवत्सलत्वाच्चेन्याह—भूतानाम् इति । श्लेषेणाहम् अपि पञ्चभूतान्तर्गतत्वेनाभूतमस्मि सर्वभूतधर्माणां मयि विद्यमानत्वेन चाहम् एव सर्वभूतान्यप्यस्मीति अतो विशेषो भावानां भूमावेवोपलक्ष्यते इत्य् उक्तेः ॥१८-१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहनिष्यद् धनिष्यति ॥१९॥
॥ ४.१७.२० ॥
प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः ।
किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जन्तवो\ऽतीव मूढाः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जन्तवः साधारण-जन्तु-तुल्या मूढा अपि मनुष्या इत्य् अर्थः ॥२०॥
॥ ४.१७.२१ ॥
मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।
आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजरां दृढाम् । धास्यसि धारयिष्यसि ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपाट्य विदार्य । अजरां सदा नूतनवस्थितां, यत्र मयि । अंभसीति । मयि मृतायां गर्भोद एव स्थास्यसीति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपाठ्य विदार्य अजरां दृढां, अम्भसीति मयि मृतायां सत्यां गर्भोद एव स्थास्यतीत्य् अर्थः ॥२१॥
॥ ४.१७.२२ ॥
पृथुर् उवाच—
वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् ।
भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बर्हिषि यज्ञे या भवती देवता-रूपेण भागं वृङ्क्ते भजते । वसु धान्यादिकम् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसुधे इति । हेतुगर्भा संबुद्धिः । वसु धान्यादि दधाति स्वस्मिन्निरुणद्धि यतो\ऽतस् त्वां हनिष्यामीत्यभिप्रायः । तद् एवाह—भागमित्य्-आदिना बर्हिः स्यात्कुशयज्ञयोः इति कोशः । भागम् ॐ भूःस्वाहेत्यादिमन्त्रदत्तं हविर्भागम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वसुधेत्य्-आदि वाक्यम् अपि बिभीषिका-मात्रम् ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बर्हिषि यज्ञे या भवती देवता-रूपिणी भागं वृङ्क्ते भजते । वसु धान्यादिकम् ॥२२॥
॥ ४.१७.२३ ॥
यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः ।
तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गो-रूपेण तु यवसं तृणं जग्धि अत्तीत्य् अर्थः । पयस् तु नैव दोग्धि दुग्धं न स्रवति । अत्र अस्मिन्न् अपराधे ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अत्तेर्लटि जघादेशाविधानादार्षो\ऽयं प्रयोग इति भावः । अपराधे निरर्थकभागभक्षण-रूपे नद्वयं प्रकृतार्थं गमयति इति वामनः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गो-रूपेण यवसं तृणं जग्धि अत्ति पयस् तु न दोग्धि, न पूरयति न ददातीति यावत् । काम-पुरोऽस्म्य् अहं नृणाम् इतिवत् । तस्याम् एवम्-भूतायां त्वय्य् अपराधिन्याम् ॥२३॥
॥ ४.१७.२४ ॥
त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा ।
न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनि देहे रुद्धानि ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.२५ ॥
अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् ।
शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-वधे सर्वथा अन्नं न स्याद् इति चेत्, अत आह । अमूषां प्रजानाम् । मेदसा मांसेन ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वद्-अधिकरणकप्रजाजीवनार्थब्रह्मसृष्टौषध्यदानेन तव चौर्यदोषो\ऽप्य् अस्तीति त्वद्-दण्डे न दोष इति भावः । न दास्यामीति दराग्रह एवात्र ममावज्ञा ॥२४-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेदसा मांसेन ॥२५॥
॥ ४.१७.२६ ॥
पुमान् योषिद् उत क्लीब आत्म-सम्भावनोऽधमः ।
भूतेषु निरनुक्रोशो नृपाणां तद्-वधोऽवधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं योषां कथं हनिष्यति ? इति तत्राह—पुमान् इति । तस्य वधोऽवध एव ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधमो भूत्वा य आत्मानं संभावयति सर्वोत्कृष्टं मन्यते स आत्मसंभावनः यदि शूद्रो गैरिकादिरक्तवस्त्रं धृत्वा किञ्चिदधीत्य चात्मानं ब्राह्मणाधिकं मन्येत तदा तद्वधे नृपस्यादोष एव पाखण्डित्वात् तस्य वध्या हि धर्मध्वजिनस्ते हि पातकिनो\ऽधिकाः इति सूतवधोपाख्याने श्रीसङ्कर्षणोक्तेः । निरनुक्रोशो निर्दयः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं योषां कथं हनिष्यसीति ? तत्राह—पुमान् इति । आत्म-सम्भावनो मिथ्याहङ्कार-मत्तः निरनुक्रोशो निर्दयः । तस्य वधोऽवध एव ॥२६॥
॥ ४.१७.२७ ॥
त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः ।
आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चोक्तं कथम् अम्भसि धास्यसि ? इति तत्राह—त्वाम् इति । तिलशस् तिल-प्रमाणानि खण्डानि इत्य् एवं भूताम् अवस्थां नीत्वा ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तब्धामात्मसंभावनावतीम् । ननु मद्वधेन तव गोवधो भावी किं च, गोमांसं कथं भोजयिष्यसीति चेदाह—मायया गां वस्तुतो नेत्यर्थः, आत्म-योगबलेनौत्पत्तिक-स्वरूपया धारणशक्त्या ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् चोक्तं कथम् अम्भसि धास्यसि ? इति तत्राह—त्वाम् इति । तिलशस् तिल-प्रमाणानि खण्डानि इत्य् एवं भूताम् अवस्थां नीत्वा ॥२७॥
॥ ४.१७.२८ ॥
एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् ।
प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्यु-मयीं मूर्तिं बिभ्रतः कृतान्त-तुल्यत्वम् उच्यते, नतु कृतान्तस्य मन्यु-मयी मूर्तिर् इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्यु-मयीं मन्यु-प्रचुरां मूर्तिं बिभ्रतं तन्-मयतया सम्पादयन्तम् इत्य् अर्थः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१७.२९ ॥
धरोवाच—
नमः परस्मै पुरुषाय मायया
विन्यस्त-नाना-तनवे गुणात्मने ।
नमः स्वरूपानुभवेन निर्धुत-
द्रव्य-क्रिया-कारक-विभ्रमोर्मये ॥
**मध्वाचार्यः (भागवत-तात्पर्यम्) :**ब्रह्मादि-जीव-देहास् तु माया-देहाः प्रकीर्तिताः इति वाराहे ॥२९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
शुद्ध-सत्त्व-तनुं देवम् अकस्माद् अति-दारुणम् ।
वीक्षमाणा पृथुं पृथ्वी तुष्टाव करुणोक्तिभिः ॥
मायया विन्यस्ता रचिता नाना-घोरादि-तनवो येन । गुणात्मने गुण-मयत्वेन प्रतीय-मानाय । वस्तुतस् तु निर्धुता निरस्ता द्रव्य-क्रिया-कारकेष्व् अधिभूताध्यात्माधिदैवेषु विभ्रमोऽहङ्कारः, तन्-निमित्ता ऊर्मयो राग-द्वेषादयश् च यस्मिंस् तस्मै ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्यमयीं क्रोधप्रचुराम् ॥२८-२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथिव्य् उवाचेत्य् एव पाठः । पुरुषाय भूयसे विन्यस्त-मायेति सम्बन्धोक्तिः ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विन्यस्ता निर्मिता नाना-भूतास्मद्-आद्यास् तनुर् यस्य तस्मै । यतो गुणात्मने गुण-मयाय । यद् उक्तं – मही-तलं तज्-जघनम् इत्य् आदि । ननु तर्हि स्व-तनुं तां किम् अहं हन्मीति तत्राह । स्वरूपानुभवेनेति यावत् स्वरूप-शक्तेर् अनुभवो न स्यात् तावद् एव माया-शक्तिमतस् तवास्मद्-आद्यास् तनुः । स्वरूपानुभवेन तु विनिर्धूतानि निरस्तानि द्रव्य-क्रिया-कारकाणि अधिभूताध्यात्माधिदैवानि तैर् विभ्रमोर्मिः संसारतरङ्गश् च यस्मात् तस्मै । यद् उक्तं—
यावन् न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्ति-योगः ।
तावत् स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥ [भा।पु। २.२.१४] इति ।
अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ [भा।पु। २.१०.३५] इति च ॥२९॥
॥ ४.१७.३० ॥
येनाहम् आत्मायतनं विनिर्मिता
धात्रा यतोऽयं गुण-सर्ग-सङ्ग्रहः ।
स एव मां हन्तुम् उदायुधः स्वराड्
उपस्थितोऽन्यं शरणं कम् आश्रये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो सर्व-जीवाश्रयत्वेन सृष्टां मां कथं हन्तुं प्रवर्तत इत्य् आह । येन विधात्रात्मनां जीवानाम् आयतनम् अहं निर्मिता । यतो यस्यां मयि गुण-सर्गस्य चतुर्-विध-भूत-ग्रामस्य सङ्ग्रहो धारणम् । स्वराट् स्व-तन्त्रः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयं देवतारूपत्वात्पृथ्वी हरेरन्यस्यैवंविधोक्तिर्न संभवतीति ज्ञाततत्त्वात्तं स्तौति स्म करुणोक्तिभिर्दीनवचनैः आदिना शान्तविमूढयोर्ग्रहः । शान्ता अशान्ता उत मूढयोनयः इत्य् उक्तेः । विधात्रा त्वया, अन्यं त्वद्-इतरम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकं चेत् तर्हि त्वद्-उक्ति-प्रामाण्येनैव त्वयि मम नास्ति ममतेत्य् अतस् त्वां हन्म्य् एवेत्य् अत आह—येनेति । नहि स्व-हस्तेनारोपिता वल्ली स्व-हस्तेनैव छिद्यते इति भावः । तत्राप्य् उपकारिकास्मीत्य् आह—आत्मनां जीवानाम् आयतनं यतो यस्यां मयि गुण-सर्गस्य चतुर्विध-भूत-ग्रामस्य सङ्ग्रहो धारणम् । स्वराट् स्वतन्त्रः ॥३०॥
॥ ४.१७.३१ ॥
य एतद् आदाव् असृजच् चराचरं
स्व-माययात्माश्रययावितर्क्यया ।
तयैव सोऽयं किल गोप्तुम् उद्यतः
कथं नु मां धर्म-परो जिघांसति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सृष्टि-संहार-कारकोऽहम् एवेति चेत् तथापि प्रजा-पालने प्रवृत् तस्य मद्-वधोऽनुचित एवेत्य् आह—य एतद् इति । आत्माश्रयया जीव-विषयिण्या ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवविषयिण्या जीवावरकया तर्कितुमशक्यया ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मयैव जगत् सृज्यते संह्रियते चेति सत्यम् । तद् अपि सम्प्रति पालने प्रवृत् तस्य तव मद्-वधोऽनुचित इत्य् आह—य इति ॥३१॥
॥ ४.१७.३२ ॥
नूनं बतेशस्य समीहितं जनैस्
तन्-मायया दुर्जययाकृतात्मभिः ।
न लक्ष्यते यस् त्व् अकरोद् अकारयद्
योऽनेक एकः परतश् च ईश्वरः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : स परतः ईश्वर इत्य् आक्षेपः ॥३२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो दुर्ज्ञेयम् ईश्वर-चेष्टितम् इत्य् आह—नूनम् इति । अकृतात्मभिर् विक्षिप्त-चित्तैः । य ईश्वरः स्व-तन्त्रः । अकरोद् ब्रह्माणम् । परत इति तेन ब्रह्मणा चराचरम् अकारयत् । यश् च स्वत एकः परतो माययाऽनेकः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बत खेदे ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नूनम् इति । तच्-छब्द-तद्-उपाधि1-विशिष्टत्वेन स्वयम् एव भगवान् एक एवानेकः सन् जगद् अकरोत् । तद्-असंसर्गित्वेन तु स्वयम् एक एव सन् तत्-तद्-वाराकारयत्, न केवलम् एतावद् एव तद्-ऐश्वर्यम्, परतो जगतः परस्मिन् वैकुण्ठेऽपि ईश्वर इति । अतो युक्तम् एवालक्ष्य-चेष्टितत्वम् इत्य् अर्थः । स्व ईश्वर इति चित्-सुखः2 । स्वं स्वयम् ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि त्वं माम अधर्मिणं ब्रूषे ? तत्र नहि नहि, किन्तु दुर्लक्ष्यम् एतद् ऐश्वर्यम् इत्य् आह—नूनम् इति । अकृतात्मभिर् विक्षिप्त-चित्तैः । य ईश्वरोऽकरोत् सर्गम् अकारयद् विसर्गम् । स्वत एकः परतो मायया अनेकश् च ॥३२॥
॥ ४.१७.३३ ॥
सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्
द्रव्य-क्रिया-कारक-चेतनात्मभिः ।
तस्मै समुन्नद्ध-विरुद्ध3-शक्तये
नमः परस्मै पुरुषाय वेधसे ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विरुद्ध-शक्तयो यस्य नित्या युगपद् एव च ।
तस्मै नमो भगवते विष्णवे सर्व-जिष्णवे ॥ इति वाराहे ॥३३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् अचिन्त्य-शक्तये केवलं नम इत्य् आह । सर्गादि जन्म-स्थिति-भङ्गम् अस्य जगतोऽनुरुणद्ध्य् अनुवर्तते करोति । द्रव्याणि महा-भूतानि । क्रिया इन्द्रियाणि । कारका देवाः । चेतना बुद्धिः । आत्माऽहङ्कारः । तैः स्व-शक्ति-रूपैः समुन्नद्धाः समुत्कटा निरुद्धाः शक्तयो यस्य ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समुत्कटाः प्रबलाः, निरुद्धाः स्वाधीनाः, शक्तयः सृष्ट्यादिविषयाः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कारकाः प्रकृति-प्रवर्तका देवाः ॥३३॥ (भगवत्-सन्दर्भः ११)
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**तस्माद् अचिन्त्य-शक्तये केवलं नम इत्य् आह—अनुरुणद्धि भक्त-जीवस्यानुरोधेन करोति । द्रव्य-क्रिया-कारकाणि भूतेन्द्रिय-देवताः । चेतना बुद्धिः । आत्माऽहङ्कारस् तैः समुन्नद्धाः प्रबलाः परस्पर-विरुद्धाश् च शक्तयो यस्येति पालन-संहार-शक्ती उभे अपि प्रबले इत्य् अतः पालयितुं संहर्तुं च त्वं प्रभुर् यथेच्छसि, तथा कुरु । तुभ्यं नम एवेति भावः ॥३३॥
॥ ४.१७.३४ ॥
स वै भवान् आत्म-विनिर्मितं जगद्
भूतेन्द्रियान्तः-करणात्मकं विभो ।
संस्थापयिष्यन्न् अज मां रसातलाद्
अभ्युज्जहाराम्भस आदि-सूकरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणिनां धारणार्थं मां रसातलाद् उद्धृत्येदानीं प्रजा-रक्षणे प्रवृत् तस्य मद्-वधो न युक्त इति स-करुणम् आह द्वाभ्याम् । हे अज ! यः सृष्टवान्, स एव भवान् स्व-निर्मितं चराचरं जगत् सम्यक् स्थापयितुम् आदि-शूकरः सन् माम् अब्युज्जहार ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे अजेति । त्वं तु नानातनूराविर्भावयस्येव न तु जायस इति भावः । उक्तार्थसमर्थनाय पुनर् आमन्त्रयति—विभो इति । विविधं भातीति विभुर् इति निरुक्तेरेकस्यैव तव बहुरूपतया भानम् इति भावः । रसातलादंभसो गर्भोदसंज्ञाज्जलात् उद्दधार ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्मिन् कारुण्यम् उत्पादयन्ती पूर्व-वृत्तं स्मारयति—स वा इति द्वाभ्याम् ॥३४॥
॥ ४.१७.३५ ॥
अपाम् उपस्थे मयि नाव्य् अवस्थिताः
प्रजा भवान् अद्य रिरक्षिषुः किल ।
स वीर-मूर्तिः समभूद् धरा-धरो
यो मां पयस्य् उग्र-शरो जिघांससि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स एव धराधरो वराहोऽद्य अपाम् उपस्थे उपरि मयि नावि आधार-भूतायाम् अवस्थिताः प्रजा रक्षितुम् इच्छुर् वीर-मूर्तिः पृथु-रूपः समभूत् । एवं-भूतो यः स त्वं पयसि निमित्ते मां जिघांससि इति चित्रम् इत्य् अर्थः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पयसि पयüपलक्षिते\ऽन्नादौ निमित्ते स एव मत्स्वामी धराधर आदिवराहस्त्वम् । अत्राशयम् आह—इमास्त्वत्प्रजा मदपत्यान्येव मदुत्सङ्गे स्थितानि नित्यमहं स्तन्यं पयः पाययाम्येव सांप्रतमेतद्दुर्वृत्तमालक्ष्य शीलं शिक्षयन्ती माताप्यहं क्रुद्धा पयो न पाययामीति त्वं गृहपतिर्मां ताडयसीति भाव इति विश्वनाथः । स्वामिव्याख्याने इत्य् अर्थ इति । जले निमित्ते\ऽन्नोत्पादनकारणे सति यन्मत्ताडनं तदद्भुतं न हि केवलाहं बीजोत्पादने हेतुः, किं तु जलम् अपि धरणिसलिलसंयोगस्यैव बीजाङ्कुरोत्पत्तौ हेतुत्वाद् इति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यो माम् इत्य् आदौ गोपायसे अग्रसर इति सम्बन्धः ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्थे उपरि-स्थायां मयि नावि नौका-रूपायां स एव धराधर आदि-शूकरो मत्-स्वामी त्वं यो मां स-भार्यां पयसि निमित्ते जिघांससि । अयम् अर्थः—इमास् त्वत्-प्रजा मद्-अपत्यान्य् एव मद्-उत्सङ्गे स्थितानि नित्यम् अहं स्तनं पयः पाययान्य् एव साम्प्रतम् एतद् दुर्वृत्तम् आलक्ष्य शीलं शीलयन्ती माताप्य् अहं क्रुद्धा पयो न पाययामीति त्वं गृह-पतिर् मां ताडयसीति ॥३५॥
॥ ४.१७.३६ ॥
नूनं जनैर् ईहितम् ईश्वराणाम्
अस्मद्-विधैस् तद्-गुण-सर्ग-मायया
न ज्ञायते मोहित-चित्त-वर्त्मभिस्
तेभ्यो नमो वीर-यशस्-करेभ्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् ईश्वर-चेष्टितं दुर्ज्ञेयम् इति कैमुत्य-न्यायेनोपसंहरति—नूनम् इति । तस्येश्वरस्य गुण-सर्ग-रूपया मायया मोहितं चित्तम् एव वर्त्म येषाम् । मोहितानि चित्त-वर्त्मानि येषाम् इति वा तैर् जनैर् ईश्वराणां हरि-भक्तानाम् एव तावद् ईहितं न ज्ञायते, किं पुनस् तस्य परमेश्वरस्य । अत एव परमेश्वर-वत् तेभ्योऽपि नम एव केवलम् । वीराणां जितेन्द्रियाणां यशः कुर्वन्ति ये तेभ्यः यथा वीराणां यशो वर्धेत तथा चेष्टतां, न तु यथेष्टम् इति भावः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत उभयनिमित्तककार्ये\ऽन्यतरस्यं ताडनं तस्माद् इत्य् अर्थः । चित्तवर्त्मनामनेकत्वात्समासान्तरम् आह—मोहितानीति । ईश्वराणामीश्वरम् अपि वशीकर्तुं समर्थानां वशीकुर्वन्ति मां भक्त्या सस्त्रियः सत्पतिं यथा इति नवमे श्रीमुखोक्तेः । अत एव भगवन्तं वशीकर्तुं समर्थत्वाद् एव वीराणां दयावीराणां चेष्टतां प्रार्थनायां लोट् । भवांस् तथा चेष्टताम् । इति भाव इति । त्वं चेन्मयि न दयसे तदा वीरयशो नश्यतीत्याशयः । एतेन पृथिव्याः पृथोरधिकारिपुरुषत्वमारो\ऽप्य् अ हरिभक्तत्वम् अपि ध्वनितम् ॥३६॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे सप्तदशो\ऽध्यायः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ईश्वराणाम् अन्येषाम् अपि । वीर-यशस्-करेभ्य इति तथापि भद्रम् एव ते करिष्यन्तीति भावः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वं मां हनिष्यसीति विश्व-सत्य् अप्य् अहं न विश्वसिमि । ईश्वराणां खलु का स्त्री, के वा पुत्र-भृत्यादय इत्य् आह—नूनम् इति । तस्येश्वरस्य गुण-सर्ग-मायया गुणेषु देव-मनुष्य-तिर्यग्-योनिषु सर्गा यतस् त्वया मायया अविद्यया मोहितं भ्रमितं चित्त-वर्त्म त्वच्-चरणोन्मुखं येषां तैर् अस्मद्-विधैर् जनैः । वीराणां दया-वीराणां यशः कुर्वन्तीति तेभ्य इति त्वं चेन् मां न दयसे, तदा दया-वीराणां यश एव यास्यतीति भावः ॥३६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्तदशश् चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
धरा-निग्रहो नाम सप्तदशोऽध्यायः ।
॥४.१७॥
(४.१८)