अथ षोडशोऽध्यायः
विषयः
मागध-वन्दि-जन-कृतं महाराज-पृथोः स्तवनम् ।
॥ ४.१६.१ ॥
मैत्रेय उवाच—
इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः ।
तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षोडशे सर्व-लोकेशैः सत्-कृतं भार्यया युतम् ।
मुनि-प्रयुक्ताः सूताद्याः स्तुवन्ति स्मेति वर्ण्यते ॥
गायकाः सूतादयः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वेनाङ्गजस्यापीति चकारेण लभ्यते
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
मुनि-प्रयुक्ताः सूताद्याः षोडशे तुष्टुवुः पृथुम् ।
स्वरश् च पृथ्वी-दोहादि भावि तद्-वृत्ति-सूचकः ॥१॥
॥ ४.१६.२ ॥
नालं वयं ते महिमानुवर्णने
यो देव-वर्योऽवततार मायया ।
वेनाङ्ग-जातस्य च पौरुषाणि ते
वाचस्-पतीनाम् अपि बभ्रमुर् धियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नालं न समर्थाः । यो भवान् । अवतारेष्व् अप्य् अस्याधिक्यम् आहुः । वेनस्याङ्गाज् जातस्य ते पौरुषाणि प्रत्य्-अवितर्क्यतया ब्रह्मादीनाम् अपि धियो बभ्रमुः । कुतः ? पुनर् वयं तद्-वर्णने समर्था भवेम ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्वा-मायया कृपया स्वशक्त्यार्चिषा सहेत्य् अर्थः ॥१-२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नालं न समर्थाः । मायया कृपया । यद् वा, स-शक्त्या अर्चिषा सह ते तव पौरुषाणि प्रति ब्रह्मादीनां धियो बभ्रमुः ॥२॥
॥ ४.१६.३ ॥
अथाप्य् उदार-श्रवसः पृथोर् हरेः
कलावतारस्य कथामृतादृताः ।
यथोपदेशं मुनिभिः प्रचोदिताः
श्लाघ्यानि कर्माणि वयं वितन्महि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथापि यथावद् वर्णयितुम् अशक्ता अपि कथामृते सादराः । मुनिभिः कृत उपदेशो । योग-बलेन हृदि प्रकाशनं तद् अनतिक्रम्य । वितन्महि विस्तारयामः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि निवर्ततामित्य् अत्राह—अथापीति । यद्यपि कथामृतादरत्वान्मनो न निवर्तत इत्य् अर्थः । मुनिवचनोल्लङ्घनभियापि यथामति स्तोष्यामः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथोपदेशं मुनिभिर् अस्मद्-अन्तःकरणं प्रविश्य कृतम् उपदेशम् अनतिक्रम्य ॥३॥
॥ ४.१६.४ ॥
एष धर्म-भृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।
गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वयं धर्म-भृतां श्रेष्ठो लोकं च धर्मेऽनुवर्तयंस् तत्-परिपन्थिनां शास्तेति । धर्म-सेतूनां गोप्तेत्य् अर्थः ॥४॥
॥ ४.१६.५ ॥
एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः ।
काले काले यथा-भागं लोकयोर् उभयोर् हितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तनौ स्व-देहे लोक-पालानां तनूर् मूर्तीः काले काले बिभर्ति । यथा-भागं पालन-पोषणानुरञ्जनादि-कार्यानुसारेण यज्ञादि-प्रवर्तनेन स्वर्गस्य हितं वृष्ट्य्-आदिना च भूर्-लोकस्य हितं यथा भवति तथा ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष पृथुः । तत्परिपन्थिनां धर्मसेतुविरोधिनाम् ॥४-५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तनूः शक्तीः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एक एवैषतनौ स्व-मूर्ताव् एव लोक-पालानां तनूर् मूर्तीर् बिभर्ति । काले काले प्रतिसम्यं लोकयोर् इति यज्ञादि-प्रवर्तनेन स्वर्गस्य वृष्ट्य्-आदिना भूर्-लोकस्य च हितं भागं भग-सम्बन्धि यथा स्यात् तथा । भगं श्री-काम-माहात्म्य-वीर्य-यत्नाऽर्क-कीर्तिषु इत्य् अमरः ॥५॥
॥ ४.१६.६ ॥
वसु काल उपादत्ते काले चायं विमुञ्चति ।
समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्यादि-तनु-धारणम् एवाहाष्टभिः । वसु धनं करादान-काले आदत्ते, दुर्भिक्षादि-काले विमुञ्चति च । अष्टौ मासान् सूर्यो यथा वसु जलम् आदत्ते वर्षासु विमुञ्चति तद्वत् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसु तोये महाधने इत्य् अभिधानात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यादि-तनु-धारणम् आहाष्टभिः । वसु धनं करादान-काले आदत्ते, दुर्भिक्षादि-काले विमुञ्चति च । अष्टौ मासान् सूर्यो यथा वसु जलम् आदत्ते विमुञ्चति च वर्षासु, तद्वत् ॥६॥
॥ ४.१६.७ ॥
तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि ।
भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मस्तके पादेनाक्रमताम् अप्य् आर्तानां भूतानाम् अतिक्रमं सहिष्यते, क्षितेर् वृत्तिः सर्व-सहनं सा वृत्तिर् यस्यास्ति स तथा ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्रममपराधम् । आर्त्तानां दारिद्र्यादिपीडितानाम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम्भृतात्मेति चित्सुखः, परिपूर्ण-रूप इत्य् अर्थः ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्रमम् अनतिक्रमं तितिक्षति सहते । क्षिति-वृत्तिमान् पृथ्वी-स्वभाव-युक्तः ॥७॥
॥ ४.१६.८ ॥
देवेऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः ।
कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवेऽवर्षति एष कृच्छ्रं गताः प्राणा यासां ताः प्रजाः स्वयं वृष्टिं कृत्वा रक्षिष्यति । अत्र हेतुः, असौ नर-देव-वपुर् हरिर् इति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र वृष्टिकरणे हरिरिन्द्रो विष्णुर्वा कृच्छ्रं कष्टं गता अन्नानाप्त्या प्राणा इन्द्रियाणि शरीरधारकवायवो वा ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रक्षिष्यति स्वयम् एव वृष्टिं दत्त्वा पालयिष्यति ॥८॥
॥ ४.१६.९ ॥
आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना ।
सानुरागावलोकेन विशद-स्मित-चारुणा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वदनम् एवामृत-मूर्तिश् चन्द्रस् तेन । सानुरागोऽवलोको यस्मिन् । विशदं यत् स्मितं तेन चारुणा । अत्र च क्वचिद् वर्तमान-निर्देशो वर्तमान-सामीप्ये वर्तमान-वद् वाइति भूत-निर्देशश् च, आशंसायां भूतवच् चैति द्रष्टव्यः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशदश्वेतपाण्डुराः इत्य् अमरः । अत्र च पृथुवर्णने । अत्र च चन्द्रतनुधारणमुक्तम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वदनम् एवामृत-मूर्तिश् चन्द्रस् तेनेतिचन्द्र-तनु-धारणम् उक्तम् ॥९॥
॥ ४.१६.१० ॥
अव्यक्त-वर्त्मैष निगूढ-कार्यो
गम्भीर-वेधा उपगुप्त-वित्तः ।
अनन्त-माहात्म्य-गुणैक-धामा
पृथुः प्रचेता इव संवृतात्मा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्यक्तं वर्त्म प्रवेश-निर्गम-मार्गो यस्य । निगूढं निष्पत्तेः पूर्वम् अविज्ञातं कार्यं यस्य । तच् च कार्यं गम्भीरं किम् अर्थम् एतत् कृतम् इत्य् अन्यैर् अज्ञाताभिप्रायं विधत्त इति तथा । उपगुपतं सुरक्षितं वित्तं यस्य । अनन्त-माहात्म्यश् चासौ गुणानाम् एकं धाम विष्णुर् यस्मिन् । अनन्त-माहात्म्योपेता गुणा एवैकं धाम स्थानं यस्येति वा । संवृतात्मा संयत-मूर्तिः । समुद्र-चरत्वेन वरुणस्याप्य् एते गुणा द्रष्टव्याः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरुणतनुत्वम् आह अव्यक्तेति ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्यक्तं वर्त्म अन्तः-प्रवेश-निर्गमयोर् मार्गो यस्य सः । निगूढं निष्पत्तेः पूर्वम् अविज्ञातं कार्यं यस्य सः । तच् च कार्यं गम्भीरम् अन्यैरज्ञाताभिप्रायं यथा स्यात् तथा विधत्ते इति वेधाः । उप आधिक्येन गुप्तं वित्तं धनं ज्ञानं यस्य सः । अनन्तस्य विष्णोर् इव माहात्म्यं गुणाश् च एकं मुख्यं धाम प्रभावश् च यस्य सः । संवृतात्मा अन्य-लक्षित-स्वभावः प्रचेता वरुण इवेति समुद्र-चरत्वेन वरुणस्याप्य् एते गुणा द्रष्टव्याः ॥१०॥
॥ ४.१६.११ ॥
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।
नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितोऽनलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुरासदः शत्रोर् मनसापि प्राप्तुम् अशक्यः । दुर्विषहः शत्रुभिः सोढुम् अशक्यः । विदूर-वत् पौरुषेणाभिभवितुम् अशक्यः । वेन एवारणिस् तस्माद् उत्थितः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वह्नितनुत्वं चाह दुरासद इति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुरासदः दुष्टतमैः शत्रु-वर्गैर् अनिकटो दुर्विषहः शत्रु-शार्दूलैः सोढुम् अशक्यः । वेन एवारणिस् तन्-मथनाद् उत्थितः ॥११॥
॥ ४.१६.१२ ॥
अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः ।
उदासीन इवाध्यक्षो वायुर् आत्म् एव देहिनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चारणैर् गुप्त-भृत्यैः पश्यन्न् अपि स्व-स्तुति-निन्दादाव् उदासीन इव वर्तिष्यते यथा देहिनाम् अध्यक्षोऽविकृत आत्म-भूतो वायुः सूत्रात्मा तद्वत् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वायुधर्मम् आह अन्तर् इति वायुर्वै गौतमसूत्रम् इति श्रुतेः सूत्रात्मेति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चारणैश् चेष्टितैश् चरैश् च पश्यन् उदासीनोऽनासक्तः । पृथु-पक्षे—भृत्यामात्यादिष्व् आसक्तेऽपि तैर् उदासीन इव लक्ष्यमाणः । वायुः सूत्रात्म् एव आत्मा अन्तर्यामीव पृथुर् अध्यक्षः ॥१२॥
॥ ४.१६.१३ ॥
नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि ।
दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-द्विषां सुतम् इति सुत-ग्रहणं स्वात्मज-साम्यार्थम् । धर्म-पथे यमस्य वृत्ते स्थितः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्मराजतनुताम् आह नेति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-पथे यमस्य वृत्ते ॥१३॥
॥ ४.१६.१४ ॥
अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् ।
वर्तते भगवान् अर्को यावत् तपति गो-गणैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्रम् आज्ञा सेना वा रथस्य वा चक्रं मानसाचलम् अभिव्याप्य प्रवर्तते । किं पर्यन्तम् इत्य् अत आह । अर्को रश्मि-गणैर् यावत् तपति तावत् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सूर्यतनुताम् आह—अस्येति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**चक्रम् आज्ञा सेना वा रथस्य वा चक्रं वा मानसोत्तर-गिरिम् अभिव्याप्य वर्तते । किं पर्यन्तम् इत्य् अत आह—अर्को यावत् तपतीति ॥१४॥
॥ ४.१६.१५ ॥
रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः ।
अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्माद् रञ्जयिष्यत्य् अथ तस्मान् मनो-रञ्जनैर् हेतुभिर् अमुं राजानम् आहुः । मनो-रञ्जनकैर् इति चेष्टित-विशेषणं वा ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथातः । अन्यस्तु राजतीति निरुक्त्यायं तु रंजयति राजतीति निरुक्तिद्वयेनैव राजेति रजेः कनिर्नलोपवृद्धी च औणादिकौ ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्माद् रञ्जयिष्यत्य् अथ तस्मान् मनो-रञ्जनैर् हेतुभिर् अमुं राजानम् आहुः । मनो-रञ्जनकैर् इति चेष्टित-विशेषणं वा ॥१५॥
॥ ४.१६.१६ ॥
दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः ।
शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्यसन्धः सत्यप्रतिज्ञः सन्धा स्थितिप्रतिज्ञयोः इति मेदिनी । व्रतसन्धयोः शास्त्रीयलौकिकत्वाभ्यां भेदो ज्ञेयः । दीना वत्सलाः प्रिया यस्य सः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्य-सन्धः सत्य-प्रतिज्ञः । व्रत-सन्धयोः शास्त्रीय-लौकिकत्वाभ्याम् भेदो ज्ञेयः ॥१६॥
॥ ४.१६.१७ ॥
मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः ।
प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मातरीव भक्तिर् भजनं यस्य । आत्मनो देहस्यार्ध इव पत्न्यां प्रीतिमान् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्निग्धः स्नेहकरः । ब्रह्मवादिनां वेदार्थानुसन्धानवताम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पत्न्याम् आत्मनो देहस्यार्धे इव प्रीतिमान् इति शेषः ॥१७॥
॥ ४.१६.१८ ॥
देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः ।
मुक्त-सङ्ग-प्रसङ्गोऽयं दण्ड-पाणिर् असाधुषु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्दिं सुखं वर्धयतीति तथा । मुक्त-सङ्गेषु प्रकृष्टः सङ्गो यस्य । दण्ड-पाणिर् इवेत्य् अपराधानुपेक्षणम् उच्यते । नादण्ड्यम् इत्य् अत्र पक्ष-पाताभाव उक्तः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्तसङ्गेषु विरक्तेषु । यद्वा-मुक्तानां ज्ञानिनाम् अपि सङ्ग आसक्तिर्यस्मिन्स मुक्तसङ्गो हरिः ।
प्रायेण मुनयो राजनिवृत्ता विधिषेधतः । > नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ इत्य् उक्तेः । > आत्मारामाश् च मुनयो निर्ग्रन्था अप्युरुक्रमे । > कुर्वन्त्यहैतुकीं भक्तिम् ॥ इत्य् उक्तेश् च ।
तस्मिन्प्रकृष्टः कायवाङ्मनोभिः सङ्गो यस्य स तथा । क्रियाभेदमादाय धर्मराजस्य पुनर् उपादानम् । असाधुषु वेदाननुयायिषु ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्दिं सुखं वर्धयतीति सः मुक्त-सङ्गेषु विरक्तेष्व् एव प्रसङ्गो यस्य सः ॥१८॥
॥ ४.१६.१९ ॥
अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः
कूट-स्थ आत्मा कलयावतीर्णः ।
यस्मिन्न् अविद्या-रचितं निरर्थकं
पश्यन्ति नानात्वम् अपि प्रतीतम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
तत्र सन्निहितः साक्षाद् भगवान् । > ब्रह्मण्य् अन्नते गरुडे रुद्रे कामे शची-पतौ । > अनिरुद्धे मनौ चैव पृथौ च कृत-वीर्यजे ॥ > नारदे चैवम् आद्येषु विशेषात् सन्निधिर् हरेः । > सुदर्शनादिष्व् अस्त्रेषु तथा सन्निहितो हरिः । > नर-लक्ष्मणौ बलश् चैव शेषस्यांशाः प्रकीर्तिताः ॥ > तथा भरत-शत्रुघ्नौ चक्र-शङ्खाव् उदाहृतौ । > प्रद्युम्नश् च कुमारश् च स्कन्दः कामांशजाः स्मृताः ॥ इति स्कान्दे ।
वैन्ये पृथौ सन्निहितौ राज-रूपी जनार्दनः इति ब्राह्मे । यल् लोके निरर्थकं तद् भगवद्-रूपेषु प्रतीत-नानात्व-दृष्टान्तेन पश्यन्ति सन्तः । मत्स्य-रूपादि-नानात्व-दृष्टिवद् यन् निरर्थकम् इति पाद्मे । एवं धर्मान् पृथक् पश्यन्न् इति च ॥१९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं त्व् इति तु-शब्देन निरूप-मत्वं दर्शयति । कोऽसाव् आत्मा ? तम् आह । यस्मिन् प्रतीतम् अपि नानात्वम् अर्थ-शून्यं पश्यन्ति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु देवमनुजान्तरेष्वप्येते गुणाः सन्तीति न तत्साम्यम् इत्य् आह अयं तु साक्षाद् इति । यतः स एव कलया शक्त्या सहावतीर्णो\ऽस्मिन्प्रविष्टः आत्मा परमात्मा सर्वातिशयगुणत्वम् एवाहुः । यस्मिन्भगवति साक्षात्सति नानात्वं स्वात्मनि देवमनुष्यादि-भेदं निरर्थकं पुरुषार्थशून्यं पश्यन्ति । अविद्याकल्पितत्वेनातितुच्छत्वाद् इति भाव इति सन्दर्भः । विश्वनाथस्तु—यस्मिन्वर्तमाना मुनयो\ऽविद्यया रचितमेकस्यापि जीवस्य स्थूलसूक्ष्मदेहाध्यासान्नानात्वं स्वप्ने च नानात्वं प्रतीतम् अपि निरर्थकमवस्थाम् इव पश्यन्तीत्य् आह । स्वामिव्याख्याने यस्मिन्नात्मनि प्रतीतं जाग्रदाद्यवस्थाभेदेन विश्वादिरूपं नानात्वम् इत्य् अर्थः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एष दोग्धेति पद्यं पुनर् उक्तम् इव परेण । अतः पृथङ् नाङ्गीकृतम् । देव-मनुजान्तरेष्व् अपि ते गुणाः सन्तीति न तत्-साम्यम् इत्य् आह—अयं तु साक्षाद् इति । यतः स एव कलया शक्त्या सह अवतीर्णोऽस्मिन् प्रविष्टः आत्मा परमात्मा, सर्वातिशय-गुणत्वम् एवाहुः यस्मिन् भगवति साक्षात् सति नानात्वं स्वात्मनि देव-मनुष्यत्वादि-भेदं निरर्थकं पुरुषार्थ-शून्यं पश्यन्ति । अविद्या-कल्पितत्वेनातितुच्छत्वाद् इति भावः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मिन् वर्तमाना मुनयोऽविद्यया रचितम् एकस्यापि जीवस्य स्थूल-सूक्ष्म-देहाध्यासात् नानात्वं स्वप्ने च नानात्वं प्रतीतम् अपि निरर्थकम् अवस्त्व् एव पश्यति ॥१९॥
॥ ४.१६.२० ॥
अयं भुवो मण्डलम् ओदयाद्रेर्
गोप्तैक-वीरो नरदेव-नाथः ।
आस्थाय जैत्रं रथम् आत्त-चापः
पर् यस्यते दक्षिणतो यथार्कः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आ उदयाद्रेस् तत् पर्यन्तं गोप्ता गोपायिष्यति तद् अर्थं पर् यस्यते पर्यटिष्यति, प्रदक्षिणीकरिष्यतीत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । यथा सूर्यः सर्वं प्रकाशयन्पर्यटति तथेति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आ उदयाद्रेर् उदयाद्रिम् अभिव्याप्य दक्षिणतः पर् यस्यते प्रादक्षिण्येन पर्यटिष्यति ॥२०॥
॥ ४.१६.२१ ॥
अस्मै नृ-पालाः किल तत्र तत्र
बलिं हरिष्यन्ति सलोक-पालाः ।
मंस्यन्त एषां स्त्रिय आदि-राजं
चक्रायुधं तद्-यश उद्धरन्त्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मै तथा प्रदक्षिणं कुर्वते । मंस्यन्ते ज्ञास्यन्ति । तस्य य्श उद्धरन्त्य उदाहरन्त्यः कीर्तयन्त्यः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मै पृथवे तथार्कवत् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्त्रिय इति ॥ स्त्रियोऽपीत्य् अर्थः । उद्वरन्त्य इत्य् एव पाठः स्वामि-सम्मतः, मध्ये उदाहरन्त्य इति व्याख्यानोपादानात् ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मंस्यन्ते ज्ञास्यन्ति उच्चरन्त्यः कीर्तयन्तः ॥२१॥
॥ ४.१६.२२ ॥
अयं महीं गां दुदुहेऽधिराजः
प्रजापतिर् वृत्ति-करः प्रजानाम् ।
यो लीलयाद्रीन् स्व-शरास-कोट्या
भिन्दन् समां गाम् अकरोद् यथेन्द्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्र इवाद्रीन् विभिन्दन् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरासकोट्या शरासनाग्रेण ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां किम् आकारम् एतद् यशः-कीर्तनम् इत्य् आकाङ्क्षायाम् आहुः श्लोक-चतुष्कम् । अयम् इति शरास-कोट्या शरासनाग्रेण इन्द्र इवाद्रीन् भिन्दन् ॥२२॥
॥ ४.१६.२३ ॥
विस्फूर्जयन्न् आज-गवं धनुः स्वयं
यदाचरत् क्ष्माम् अविषह्यम् आजौ ।
तदा निलिल्युर् दिशि दिश्य् असन्तो
लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लाङ्गूलम् उन्नमय्य यथा मृगेन्द्रश् चरति तथा धनुर् विस्फूर्जयन् यदा क्ष्माम् अचरत् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्ग्रामे\ऽसह्यं धनुः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लाङ्गूलम् उन्नमय्य यथा मृगेन्द्रश् चरति तथा धनुर् विस्फूर्जयन् क्ष्माम् अचरत् ॥२३॥
॥ ४.१६.२४ ॥
एषोऽश्वमेधाऽ शतम् आजहार
सरस्वती प्रादुरभावि यत्र ।
अहार्षीद् यस्य हयं पुरन्दरः
शत-क्रतुश् चरमे वर्तमाने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सरस्वती यत्र प्रादुरभावि प्रादुरभूत् । कर्म-कर्तरि चिण् । तत्राहार्षीत् । हरणं करिष्यतीत्य् अर्थः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सरस्वतीप्रादुर्भावस्थले चरमेत्ये\ऽश्वमेधे ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वम् इत्य् अत्र स्वयम् इति क्वचित् । प्रादुरभावि प्रादुर्भविता पृथुनैव ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१६.२५ ॥
एष स्व-सद्मोपवने समेत्य
सनत्-कुमारं भगवन्तम् एकम् ।
आराध्य भक्त्यालभतामलं तज्
ज्ञानं यतो ब्रह्म परं विदन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो ज्ञानात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विदन्तीत्य् अत्र कुर्वन्तीति चित्सुखः ॥२५॥
॥ ४.१६.२६ ॥
तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः ।
श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्रुता विक्रमा यस्य । गाथाः प्रबन्धान् । आत्माश्रिता विष्ण्व्-आश्रिताः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तत्र देशे ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति तत्र तत्र देशे ताभिर् उक्तास् तास् ता लोक-प्रसिद्धा गिरः । गाथाआत्माश्रिताः स्वीय-कवितया वर्णिताः कथाश् च । अत एव दुदुहे इत्य्-आदिवत्भूत-काल-प्रयोगस् तद्-उक्ति-काले तत्-तत्-कर्मणाम् अतीतत्वात् ॥२६॥
॥ ४.१६.२७ ॥
दिशो विजित्याप्रतिरुद्ध-चक्रः
स्व-तेजसोत्पाटित-लोक-शल्यः ।
सुरासुरेन्द्रैर् उपगीयमान-
महानुभावो भविता पतिर् भुवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपगीयमानो महानुभावो यस्य ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अप्रतिरुद्वचक्रो\ऽविहताज्ञः । लोकशल्यः लोकोपद्रवः ॥२७॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे षोडशो\ऽध्यायः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : “भविता पतिर् भुवः” इत्य् अत्र “जयतां पृथुर् भवे” इति चित्सुखः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षोडशोऽयं चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पृथु-चरित-नाम षोडशोऽध्यायः ।
॥ ४.१६ ॥
(४.१७)