अथ पञ्चदशोऽध्यायः
विषयः
वेन-भुजाभ्यां पृथोर् अर्चिषश् च प्रादुर्भावः, पृथो राज्याभिषेकश् च ।
॥ ४.१५.१ ॥
मैत्रेय उवाच—
अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः ।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः पञ्चदशे विप्रैर् मन्थनाद् वेन-बाहुतः ।
जातस्य तु पृथोर् उक्तम् अभिषेकार्हणादिकम् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना स्तवनादिग्रहः । अर्हणमुपढौकनम् । अथ मात्रंशनिषादोत्पत्त्यनन्तरम् । पित्रंशो विष्णुयज्ञप्रभावश् च कीदृगभवदित्यपेक्षायाम् आह—अथेति । तस्य वेनस्य ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
तद्-वेण-बाहु-मथन-जन्मनः सार्चिषः पृथोः ।
अभिषेकोपायनाद्य्-आहृतिः पञ्चदशेऽभवत् ॥
अथात्र पित्र्-अंशो विष्णु-यज्ञ-प्रभावश् च कीदृश उद्भवेत् ? इत्य् अपेक्षायां मुनिभिर् मथनम् आह—अथेति ॥१॥
॥ ४.१५.२ ॥
तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः ।
ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम् ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षात्रं तेजो भगवत्प्रभावश् च क्षत्रियस्य बाहोरे व तिष्ठतीत्यभिप्रेत्य बाहुमथनम् इति । कला विभूतिः ॥२॥
न कतमेनापि व्याख्यातम्।
॥ ४.१५.३ ॥
एष विष्णोर् भगवतः कला भुवन-पालिनी ।
इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पृथु-हैहयाद् यो जीवास् तेष्व् आविष्टो हरिः स्वयम् । > विशेषावेशतस् तेषु साक्षाद्-धर्य्-अंशता-वचः ॥ > किन्तु घ्न-व्यास-ऋषभ-कपिला मत्स्य-पूर्वकाः । > आकुतिजैतरेयौ च धर्मजत्रयम् एव च । > धन्वन्तैर् हयग्रीवो दत्तात्रेयश् च तापसः । > स्वयं नारायणस् त्व् एते नाणुमात्र-विभेदिनः । > बलतः स्वरूपतश् चैव गुणैर् अपि कथञ्चन ॥ इति तत्त्व-निर्णये > ॥३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् ऊचुः ? इत्य् अत आह—एष इति चतुर्भिः । लक्ष्म्याः संभूतिः कला ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपायो वियोगस्तद्रहिता । एष पुरुष-रूपो यो मिथुनान्तर्गतः । अनपायत्वे प्रमाणं तु देवत्वे देवता साक्षात्मानुषत्वे तु मानुषी इति पराशरपुराणोक्तिरे व ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ऋषय ऊचुर् इति बहुत्र, किन्तु किम् ऊचुर् इति पौनरुक्त्या स्वाम्य्-असम्मतोऽयम् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्यग् भूतिः सम्पत्तिस् तद्-रूपा लक्ष्मीः ॥३॥
॥ ४.१५.४ ॥
अत्र1 तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।
पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र यः पुमान् स तु महा-राजो भविष्यति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र मिथुने यः पुमान्स तु पुरग्रामादिकल्पकत्वाद्राज्ञा प्रथमायत्तो यशः प्रथयितातः पृथुर् इति प्रसिद्धः पृथुश्रवा महाराजो भविष्यतीति सर्वत्र योजना । अत्रायं तु प्रथमो राज्ञाम् इति प्रचुरः पाठो यद्यपि दृश्यते, तथापि न स श्रीधरसंमतः । अत्र य इत्य्-आदिव्याख्यानात् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अयं राज्ञां भाविनां प्रथमः । तेषां तद्-अनुसारि-चेष्टायां यशः-प्रथयिता चात एव पृथुश्रवाः । अत्र य इति पाठस् तु स्वामि-सम्मतः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाहुभ्याम् इति क्षात्रं तेजो भगवत्-प्रभावश् च क्षत्रियस्य बाह्वोर् एव तिष्ठतीत्य् अभिप्रायेण । अत्र यः पुमान् प्रथमः स प्रथयितेति निरुक्त्या पृथुः ॥४॥
॥ ४.१५.५ ॥
इयं च सुदती देवी गुण-भूषण-भूषणा ।
अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदती शोभन-दन्तवती । गुणानां भूषणानां च भूषण-रूपा । अवरुन्धती भर्तृत्वेन भजन्ती भविष्यति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकदेहोद्भूतयोर्यद्यप्युभयोरुद्वाहो नोचितस्तथापि लक्ष्म्यंशाया अर्चिषो विष्ण्वंशं पृथुं विनान्यायोग्यत्वान्न दोषः । पुरा विमृश्यैव मुनिभिरुभयबाहुभ्यामुभयोत्पादनं कृतम् , अन्यथैकबाहोः पृथुम् एवोत्पादयेयुर् इति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भूषणम् इत्य् एव स्वामि-मतम् । रूपकत्वेन निर्देशात् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणानां भूषणानां च भूषण-रूपा अवरुन्धती भक्त्या वशीकुर्वती भविष्यति ॥५॥
॥ ४.१५.६ ॥
एष साक्षाद् धरेर् अंशो जातो लोक-रिरक्षया ।
इयं च तत्-परा हि श्रीर् अनुजज्ञेऽनपायिनी ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
तत्र सन्निहिता श्रीश् च यत्र सन्निहितो हरिः । > नास्य सन्निधि-मात्रेषु रमा पत्नीत्वम् आव्रजेत् ॥ > साक्षाद् एव तु साक्षाच् च हरेः सन्निधितः क्वचित् । > गो\ऽप्य् -आदि-रूपो भवति विपरीतं न तु क्वचित् ॥ ॥६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुः, एष इति । लोकस्य रिरक्षया रिरक्षयिषया ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र पृथ्ववरोधे ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रिरक्षया रिरक्षिषया ॥६॥
॥ ४.१५.७ ॥
मैत्रेय उवाच—
प्रशंसन्ति सामान्याधिकरण तं विप्रा गन्धर्व-प्रवरा जगुः ।
मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वः-स्त्रियः अप्सरसो नृत्यन्ति सामान्याधिकरण ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रशंसन्ति स्तुवन्ति, तं पृथुं, स्मयोगे लट् । सुमनसां पुष्पाणां धारा इव धाराः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मैत्रेय उवाचेति क्वचिन् नास्ति ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुमनसां पुष्पाणां धारा इव धारा मुमुचुः ॥७॥
॥ ४.१५.८ ॥
शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि ।
तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पृथ्वाविर्भावदेशे ॥८॥
न कतमेनापि व्याख्यातम्।
॥ ४.१५.९ ॥
ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः ।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवैः सहासृत्यागत्य । वैन्यस्य पृथोः । चिह्नं रेखात्मकं चक्रम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मेति सार्धकम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१५.१० ॥
पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् ।
यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रतिहतं रेखान्तरैर् अभिन्नं चक्रं यस्य चिह्नं स परमेश्वरस्यांशः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मेति सार्द्धकम् । गदाभृतो हरेश्चिह्नं गदैव तच्चिह्णं तं वैन्यम् । चिह्नं पाणितल इति शेषः—
यस्य रेखान्तराभिन्नं चक्रं पाणितले भवेत् । > स भवेत्पृथिवीपालो विष्णोरंशसमुद्भवः ॥ इति सामुद्रिकात् > ॥९-१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्रतिहतं रेखान्तरैर् अभिन्नं पाणि-तल इत्य् अर्थः । परमेष्ठिनः परमेश्वरस्य ॥१०॥
॥ ४.१५.११ ॥
तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः ।
आभिषेचनिकान्य् असामान्याधिकरणै आजह्रुः सर्वतो जनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आभिषेचनिकान्य् अभिषेक-साधनानि ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मै पृथवे ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१५.१२-१३ ॥
सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः ।
द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम् ॥**
सोऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः ।
पत्न्यार्चिषालङ्कृतया विरेजेऽग्निर् इवापरः ॥**
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपायनमुपाहार उपढौकनमित्यपि इत्य् अमरः ॥१२-१३॥
न कतमेनापि व्याख्यातम्।
॥ ४.१५.१४-१५ ॥
तसामान्याधिकरणै जहार धनदो हैमं वीर वरासनम् ।
वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम् ॥**
वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् ।
इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीर । वरासनम् उत्तमासनम् । सलिलस्य स्रावो यसामान्याधिकरणात् ।द्वे वाल-व्यजने ॥१४-१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा स सङ्ग्रामवीरत्वात्सर्वैरर्चितस् तथा त्वम् अपि हरिभक्तेष्वर्चितत्वाद्वीरोसीत्य् आह—वीरेति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ४.१५.१६ ॥
ब्रह्मा ब्रह्म-मयं वर्म भारती हारम् उत्तमम् ।
हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-मयं वेद-मयं वर्म । तत्-पत्नी श्रीः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-मयं वेद-मयं वर्म कवचम् । तत्-पत्नी लक्ष्मीः श्रियं सम्पत्तिम् ॥१६॥
॥ ४.१५.१७ ॥
दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका ।
सोमोऽमृतमयान् अश्वांस् त्वष्टा रूपाश्र् अयं रथम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दश-चन्द्राकाराणि बिम्बानि कोशे यस्य तम् । असिं खड्गम् । शत-चन्द्रं चर्म रूपाश्रयम् अतिसुन्दरम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दश-चन्द्राकाराणि बिम्बानि कोशे यस्य तम् । असिं खड्गम् । शत-चन्द्रं चर्म रूपाश्रयम् अतिसुन्दरम् ॥१७॥
॥ ४.१५.१८ ॥
अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् ।
भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजस्य गोश् च शृङ्गाभ्यां निर्मितं चापम् । योग-मय्यौ पाद-स्पर्श-मात्रेणाभीष्ट-देश-प्रापिके ॥१८॥
बालव्यजने चामरयुगलम् । संयम्यन्ते\ऽधर्मिणस्ताड्यन्ते\ऽनेनेति संयमनम् । यमो यमराजः ॥१५-१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अजस्य गोश् च शृङ्गाभ्यां निर्मितं चापम् । योग-मय्यौ पाद-स्पर्श-मात्रेणाभीष्ट-देश-प्रापिके ॥१८॥
॥ ४.१५.१९ ॥
नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः ।
ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाट्यादि-कौशलं खेचराः । आत्मजं स्व-प्रभवम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खेचराः । विद्याधरादयो देवविशेषाः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मजं स्व-भवम् ॥१९॥
॥ ४.१५.२० ॥
सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः ।
सूतोऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तं स्तोतुम् उपस्थिताः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रथवीथी रथमार्गान् । वीथी पङ्क्तौ गृहाङ्गे च रूपकातरवर्त्मनोः इति मेदिनी । महात्मनो महे प्रजापालनोत्सवे आत्मा बुद्धिर् यस्य तस्य । अथोपायनप्रदानोत्तरं, तं पृथुम् । सूतमागधबन्दिन इति । ते च—
पुराणस्थनृपस्तोता सूत इत्य् अभिधीयते । > मृतशूरनृपस्तोता मागधः परिकीर्तितः ॥ > वर्तमाननृपस्तोता बन्दीति प्रोच्यते बुधैः ॥ इति जैमिनिनोक्ताः ।
ते च पृथक्पृथग्जातीयास्त्रिवर्णेतरा एव ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सूत इत्य् अर्धकम् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***
॥ ४.१५.२१ ॥
स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् ।
मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्तावकान् स्तोतुम् उद्यतान् । अभिप्रेत्य ज्ञात्वा ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं वक्ष्यमाणम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्*।***
॥ ४.१५.२२ ॥
पृथुर् उवाच—
भोः सूत हे मागध सौम्य वन्दिन्
लोकेऽधुनास्पष्ट-गुणस्य मे स्यात् ।
किम्-आश्रयो मे स्तव एष योज्यतां
मा मय्य् अभूवन् वितथा गिरो वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोके स्पष्ट-गुणस्य सतो मे स्तुतिः स्यात् । अधुना तु किम् आश्रयो मे स्तवो योज्यताम् । अतो वो गिरोऽधुना मयि वितथा माभूवन् । यद् वा, लोकेऽधुना स्पष्ट-गुणस्य मे किम् आश्रयः स्तवः स्यात् । अत एष क्रियमाणः स्तवो मे मद्-अन्यस्य योज्यताम् । न तु मे वितथाभिधानापत्तेर् इत्य् अर्थः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क आश्रयो यस्य स किमाश्रयः भवद्भिर् इति शेषः । योज्यतां योज्यते लडर्थे लोट् । यद् वा, योज्यतां स्तुतिं प्रंयुजानानां वो युष्माकम् इति योज्यम् । यतोधुना स्तवाश्रयत्वं नास्ति, अतो हेतोः वितथा असत्याः स्पष्टगुणस्य तु स्वत एव स्याद् इति चेदाह—यद्वेति । अत एवास्पष्टगुणत्वाद् एव । किंमाश्रयो मे इहामे इति च्छेदः कार्यस्तेनामे मदन्यस्य इत्य् अर्थ इति । असदभिधानाद्भवत्स्वेव दोषो भविष्यति न मयीति भावः । नमे\ऽमे इति तत्पुरुषे नञो नलोपे विभक्तेरलुगार्ष एवेति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोके अधुना अस्पष्ट-गुणस्य स्तवोऽयं किम् आश्रयः स्यात् ? कं गुणं मे दृष्ट्वा स्तुद्ध्वे इत्य् अर्थः । स्तवं विना स्थातुं न शक्नुम इति चेत्, अ-मे मद्-भिन्नस्य कस्यचिद् योग्य-जनस्य एष क्रियमाणः स्तवो योज्यताम्, न तु मे । ननु कोऽत्र ते दोषस् त्वं किं बिभेषीति तत्र न मे दोषः, किन्तु युष्माकम् एव दोष-प्रसक्तेर् बिभेमीत्य् आह—मेति । मयि विषये वो गिरो मा वितथा भवन्तु ॥२२॥
अन्वयः : श्री-पृथुर् उवाच—भोः सूत ! हे मागध ! हे सौम्य वन्दिन् ! अपि लोके अस्पष्ट-गुणस्य अप्रकटित-पराक्रमस्य मे अधुना आश्रयः स्तवः स्यात् ? एष क्रियमाणः स्तव अ-मे मद्-अन्यस्य सतः मे स्तवः स्यात् । अधुना मे किम्-आश्रय एष स्तवो योज्यतां, नैष योग्यः । मयि मद्-विषये वः युष्माकं गिरः मा वितथा मृषा अभूवन् भवेयुः ॥२२॥
॥ ४.१५.२३ ॥
तसामान्याधिकरणात् परोक्षेऽसामान्याधिकरणद्-उपश्रुतान्य्
अलं करिष्यथ स्तोत्रम् अपीच्य-वाचः ।
सत्य् उत्तमश्लोक-गुणानुवादे
जुगुप्सितं न स्तावयन्ति सभ्याः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तसामान्याधिकरणात् परोक्षे कालान्तरे स्पष्टेषु गुणेषु सत्स्व् असामान्याधिकरणाकम् उपश्रुतानि यशांसि प्रतिस्तोत्रम् अलम् अत्यर्थं करिष्यथ । हे अपीच्य-वाचो मधुर-गिरः । सम्भ्यैः प्रेरिता वयं त्वाम् एव स्तुम इति चेत् तत्राह—उत्तमश्लोकस्य गुणानुवादे कार्ये सति जुगुप्सितम् अर्वाचीनं न स्तावयन्ति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु भो गुणरत्नाकर भवतो निखिला एवैते गुणाः स्पष्टीभविष्यत्येवेति ज्ञात्वैव स्तुम इति चेत्तत्राह—तस्माद् इति । यस्माद् गुणा भविष्यति तस्माद्धेतोः करिष्यत्येव न तु कुरुथ । तदा के युष्मान्निषेत्स्यन्तीति भावः । तदापि परोक्ष एव न तु मत्साक्षात् । न हि स्तव्यः संमुख एव स्तुत्वा ह्रपयितुं युज्यत इति भावः । अपीच्यवाचः मनोज्ञवाक्कौशलाभिज्ञाः, वाचोमनोज्ञत्वं सत्याया एवान्यथा युष्मत्करिष्यमाणस्तुत्यां न कस्याप्यादरो भविष्यतीत्यभिप्रायः । संबुद्धेः अर्वाचीनं मद्विधम् । अत एवोत्तमश्लोकस्तावकत्वाद् एव । इत्य् अर्थ इति । उत्तमश्लोकस्तावकत्वाभाव सभ्यत्वम् एव न सेत्स्यतीति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तसामान्याधिकरणात् परोक्षे कालेन व्यवधाने देशेन वा स्पष्टेषु गुणेषु सत्स्व् असामान्याधिकरणाकम् उपश्रुतानि यशांसि प्रतिस्तोत्रम् अलम् अत्य् अर्थं करिष्यथ । हे अपीव्य-वाचः ! मधुर-गिरः ! अपीड्येति चित्सुखः । इड्याः पूज्या वाचो येषाम् । अथ परोक्षे चापरोक्षे चैतद् एव युक्तम् इत्य् आह—सतीति ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भो गुण-रत्नाकर ! भवतो निखिला एवैते गुणाः स्पष्टीभविष्यन्त्य् एवेति ज्ञात्वैव स्तुम इति चेत् तत्राह—तसामान्याधिकरणाद् इति । यसामान्याधिकरणान् मद्-गुणा भविष्यन्ति तसामान्याधिकरणाद् असामान्याधिकरणद्-उपश्रुतानि यशांसि प्रति स्तोत्रम् अलम् अत्यर्थं करिष्यथैव, न तु कुरुथ, तदा के युष्मान् निषेत्स्यन्तीति भावः । तदापि परोक्ष एव, न तु मत्-साक्षात् । हे अपीव्य-वाचः मनोज्ञ-वाक्-कौशलाभिज्ञाः । न हि स्तव्यः संमुख एव स्तुत्वा ह्रेपयितुं युज्यत इति भावः । ननु, किं कुर्मः सभ्यैः प्रेरिता वयम् अधुनारभ्यैव त्वाम् एव स्तुम इति चेन्, मृषैव ब्रूथेत्य् आह—उत्तमः-श्लोकस्य गुणानुवादे सदैव सर्वथैव स्तवनीये सति जुगुप्सितम् अर्वाचीनं मद्-विधं जनं न स्तावयन्ति, सभ्यत्वान्यथानुपपत्तेर् इति भावः ॥२३॥
अन्वयः : हे अपीच्य-वाचः ! मधुर-गिरः ! तसामान्याधिकरणात् मम अस्पष्टत्वात् परोक्ष एव कालान्तरे स्पष्टेषु गुणेषु सत्ः सु असामान्याधिकरणद्-उपश्रुतानि असामान्याधिकरणाकम् उपश्रुतानि यशांसि प्रति अलम् अत्यर्थं स्तोत्रम् करिष्यथ । उत्तमश्लोक-गुणानुवादे उत्तमश्लोकस्य भगवतः गुणानाम् अनुवादे कर्तव्ये सति जुगुप्सितम् अर्वाचीनम् अप्रसिद्ध-गुणकां मां सभ्याः न स्तावयन्ति स्तावयितुं योग्याः न भवन्ति ॥२३॥
॥ ४.१५.२४ ॥
महद्-गुणान् आत्मनि कर्तुम् ईशः
कः स्तावकैः स्तावयतेऽसतोऽपि ।
तेऽस्याभविष्यन्न् इति विप्रलब्धो
जनावहासं कुमतिर् न वेद ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सम्भावितैर् एव गुणैर् आत्मानं जनः स्तावयतीति चेत् तत्राह । महतां गुणानात्मनि सम्पादयितुं शक्तोऽप्य् असतो गुणान् सम्भावना-मात्रेण कः स्तावयते । यद् वा, आदाव् एव सतोऽपि कः स्तावयते, स्वत एव प्रख्याति-सिद्धेः ? अन्यस् तु मिथ्या-गुण-स्तुति-श्लाघी मन्द इत्य् आह—त इति । यद्य् अयं शास्त्राभ्यासादिकम् अकरिष्यत् तर्ह्य् अस्य ते विद्यादयो गुणा अभविष्यन्न् इति क्रियातिपत्त्या विप्रलब्धो जनानाम् अवहासं न वेद ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति नत्व् इति । अकारप्रश्लेषणार्थान्तरम् आह—यद्वेति । क्रियातिपत्त्या स्तुतिकाले विद्याभ्यासादिक्रियाया अनिष्पत्त्या । अत्र विश्वनाथः—ननु स उत्तमश्लोकस्त्वम् एवेति तत्राह—महतो भगवतो गुणान्स्वात्मनि स्वस्मिन्कर्तुं शिरःशेखरीकर्तुमीशः समर्थो\ऽपि कोभिज्ञ आत्मानं स्तावयते न को\ऽपि । सतो वर्तमानानपि किं पुनर् अवर्तमानान् इत्य् आह ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यस् तु सर्वथा तुच्छ इत्य् आह—महद् इति ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स तूत्तमः-श्लोको भवान् एवेति तत्राह—महतो भगवतो गुणान् आत्मनि स्वसामान्याधिकरणिन् कर्तुं शिरः-शेखरीकर्तुम् ईशाः समर्थोऽपि कोऽभिज्ञः आत्मानं स्तावयते ? न कोऽपि । सतो वर्तमानान् अपि किं पुनर् अव्वर्तमानान्, मन्दस् तु अनीशोऽपि अवर्तमानान् अपि स्तावयते एवेति भावः । स च कुमतिर् जनावहासं न वेद । कीदृशः तेऽस्येति यद्य् अयं शस्त्र-शास्त्र-कलाभ्यासादिकम् अकरिष्यत् तदा वीरः पण्डितो विदग्धोऽप्य् अभविष्यद् इति क्रियाभिपत्त्या विप्रलब्धः उपहसितः ॥२४॥
अन्वयः : महद्-गुणान् महतां गुणान् धार्मिकत्वादीन् आत्मनि कर्तुं सम्पादयित्म् ईशः समर्थोऽपि असतः अविद्यमानान् गुणान् सम्भावना-मात्रेण स्तावकैः सूतादिभिः को वा स्तावयते ? न कोऽपीत्य् अर्थः । स च कुमतिः मन्द-बुद्धिः यदि अयं शास्त्राभ्यासादिकम् अकरिष्यत्, तर्हि ते अस्य विद्यादयः गुणाः अभविष्यन् इति क्रियातिपत्ति-वचनैः स्तावकैः जनैः विप्रलब्ध उपहसितोऽपि जनावहासं तेषां जनानाम् अवहासं कुमतित्वात् न वेद ॥२३॥
॥ ४.१५.२५ ॥
प्रभवो ह्य् आत्मनः स्तोत्रं जुगुप्सन्त्य् अपि विश्रुताः ।
ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रभवोऽपि विश्रुता अपि ह्रीमन्तोऽपि जुगुप्सन्ति । वेति दृष्टान्ते । यथातिस्तुतौ क्रियमाणायां विगर्हितं ब्राह्मण-वधादि-पौरुषं निन्दति तथोचिताम् अपि स्तुतिं न सहन्त इत्य् अर्थः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभवो\ऽप्य् आत्मस्तोत्रं न बहु मन्यन्ते किं पुनर् अहम् इत्य् आह—किं चेति । वाशब्दो दृष्टान्ते इवार्थे । विगर्हितं पौरुषम् इव अहो अयं सतां धर्मध्वंसे परमसमर्थस्तथापि प्रबलगोब्राह्मणहनने\ऽयं शूर इत्य्-आदिलक्षणं पौरुषं विगर्हितम् एव । इत्य् अर्थ इति । यद्यपि प्रबलहननेन मां स्तौति तथापि गोब्राह्मणपदोपादानान्मां निन्दत्येवायम् इति तं वारयस्येवेति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्ये तु प्रभवः स्तावयितुं योग्याः स्व-स्तोत्रं जुगुप्सन्ति । तथापि विश्रुतास् तत्-तद्-गुणैर् विख्याताः । ते के ? तत्राह—ह्रीमन्तः परम-महान्तश् चेति ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे स्व-स्तावकाः प्रभवो न ज्ञेयाः, यतः प्रभवो हीत्य् आदि । वा-शब्द इवार्थे विगर्हितं पौरुषम् इव यथायं सतां धर्म-ध्वंसे परम-समर्थे इत्य्-आदि स्तोत्रं निन्दन्ति ॥२५॥
अन्वयः : परमोदाराः विशद-चित्ताः ह्रीमन्तः लज्जा-युक्ताः विश्रुताः अपि प्रख्याता अपि प्रभवो हि विद्यमान-गुण-सम्पादने समर्था अपि आत्मनः स्तोत्रम् उचितं सत् अपि विगर्हितं निन्दितं पौरुषं वा इव जुगुप्सन्ति निवारयन्त्य् एव ॥२६॥
॥ ४.१५.२६ ॥
वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः ।
कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वरीमभिर् इति दीर्घत्वम् आर्षम् । भवितृ-प्रधानोऽयं निर्देशः । वरिष्ठैः कर्मभिर् अविदिता इत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरस्य भावो वरिमा, तैः । इत्य् अर्थ इति । अत्र भवितुर्वरिष्ठकर्मणः प्राधान्येन निर्देशो न तु भावस्य । तथात्वे तु वरिष्ठत्वैरित्य् अर्थः स्याद् इति भावः ॥२६॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे पञ्चदशो\ऽध्यायः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरीमभिर् इति दीर्घत्वम् आर्षम् । वरिमभिः श्रेष्ठत्वैर् वयम् अविदिता अविख्याताः । अतः कथं कर्मभिर् आत्मानं गापयिष्यामः ॥२६॥
अन्वयः : हे सुत ! वयं तु लोके वरीमभिः वराणां भावाः वरिमाणः तैः वरिमभिः वरिष्ठैः कर्मभिः अद्यापि अविदिताः अप्रसिद्धाः । बालवत् अज्ञवत् कथम् आत्मानं गापयिष्यामः गापयामः ॥२६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चदशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे
पृथु-चरित्रे पञ्चदशोऽध्यायः ।
॥४.१५॥
(४.१६)
-
अयं इति क्वचित् ↩︎