१४

अथ चतुर्दशोऽध्यायः

विषयः

पितू राज्ये\ऽभिषिक्तस्य वेनस्याधर्म-वर्तित्वाद् ऋषिभिर् वधः, तद्-ऊरु-मथनान् निषादोत्पत्तिश् च ।

॥ ४.१४.१-२ ॥

मैत्रेय उवाच—

भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः ।

गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम् ॥

वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः ।

प्रकृत्य्-असम्मतं1 वेनम् अभ्यषिञ्चन् पतिं भुवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्दशे तु दुष्पुत्र- भयाद् अङ्गे गते द्विजैः ।

अभिषिक्तस्य वेनस्य रोषार्तैर् वध उच्यते ॥

क्षेम-दर्शिनः क्षेम-चिन्तकाः । पशु-समान-रूपतां पश्यन्तः ॥१॥ अमात्यादीनां प्रकृतीनाम् असम्मतम् । पाठान्तरे प्रकृत्या स्वभावेनासम्मतम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैर्द्विजैः । पशुसाम्यतां यथा सिंहादयो मेषादीन्स्वार्थे नाशयन्ति तथा दस्यवो नृन्नाशयिष्यन्तीति पश्यन्त इत्य् अर्थः । क्षेमो ना प्राप्तरक्षायाम् इति यादवः ॥ आदिना सुहृदादिग्रहः । स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः इत्य् अमरः । पाठान्तरे प्रकृत्यासंमतम् इति पाठे ॥१-२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भृग्व्-आदय इति युग्मकम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चतुर्दशेऽभिषिक्तस्य वेनस्याधर्म-वर्तिनः ।

प्रबोधित-हतस्योरु-मथनं मुनिभिः पुनः ॥

साम्यताम् इति स्वार्थे ष्यञ् पश्यन् मेषादीन् यथा शृगाल-वृकादयो नाशयन्ति, तथैव नॄन् दस्यव इत्य् अर्थः ॥१॥प्रकृत्य्-असम्मतं प्रकृत्यासम्मतम् इति पाठ-द्वयम् । प्रकृतिर् अमात्यादिः स्वभावश् च तासां तया च असम्मतः ॥२॥


॥ ४.१४.३ ॥

श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् ।

निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चोराः सर्वे लीना बभूवुः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्नभिषिक्ते सत्येको गुणो राज्यस्याभूद् इत्य् आह—श्रुत्वेति । सर्वे इत्य् उक्त्या—

नारायणो नाम नरो नराणां प्रसिद्धचौरः प्रथितः पृथिव्याम् । अनेकजन्मार्जितपापसंचयं हरत्यशेषं स्मृतमात्र एव ॥

इति वचनान्नारायणो\ऽपि कस्यचिच्चेतसि नायातीति भावः । आखुर्मूषिक उन्दरः इति कोशात् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.४ ॥

स आरूढ-नृप-स्थान उन्नद्धोऽष्ट-विभूतिभिः ।

अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आरूढं नृप-स्थानं राजासनं येन । अष्ट-विभूतिभिर् लोक-पालैश्वर्यैः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्वाष्टदिग्वर्तिनीभिः संपद्भिर् इति सप्तद्वीपाधिपत्यं ध्वनितं, स्तब्धो गर्वी स्वतः स्वेनैव संभावितः शूरो\ऽहं पण्डितो\ऽहमित्य् एवं कृतात्मकत्थनः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वतः स्वेनैव सम्भावितः "शूरोऽहं पण्डितोऽहम्" इत्य् एवं कृतात्म-सम्भावनः । "आत्म-सम्भावित" इति चित्सुखः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अष्ट-विभूतिभिर् अष्ट-दिग्-वर्तिनीभिः सम्पत्तिभिर् इति सप्त-द्वीपाधिपत्यं ध्वनितम् । स्तब्धो गर्ववान् । स्वतः स्वेनैव सम्भावितः "शूरोऽहं पण्डितोऽहम्" इति कृतात्म-कत्थनः ॥४॥


॥ ४.१४.५-६ ॥

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः ।

पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी ॥

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।

इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्सिक्त उद्वृत्तः ॥ भेरीघोषेण भेरीवादनपूर्वकं सर्वलोकाञ्श्रावणेन ॥५-६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति युग्मकम् ॥५-६॥


॥ ४.१४.७-८ ॥

वेनस्यावेक्ष्य मुनयो दुर्वृत् तस्य विचेष्टितम् ।

विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः ॥

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।

दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्रिणो मिलिताः सन्तः ॥ मूलतश् चाग्रतश् च दीप्ते ज्वलिते काष्ठे तन्-मध्य-वर्तिनां पिपीलिकादीनां यथा उभयतो व्यसनम्, एवं तस्करेभ्यः पालकाच् च दुःखं प्राप्तम् इत्य् अर्थः ॥७-८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सर्वनिग्रहानुग्रहसमर्था मुनयः किमकार्षुर् इति तत्राह—वेनस्येति । मिलिता इत्यार्थिको\ऽयमर्थः । सत्रं यज्ञे सदादानाच्छादनारण्यकैतवे इति मेदिन्युक्तेर्यज्ञो हि मिलितैरे व बहुभिः साध्यते, तेनात्रापि सत्रपदेन मेलनं लक्ष्यते । दुर्वृत् तस्य दुःशीलस्य विरुद्धं चेष्टितं यज्ञदानादिनिवारण-रूपं लोकानां व्यसनं दुःखहेतुं धर्मे निवृत्ते सति सर्वे लोका नश्येयुरित्य् एवं विचार्योचुः ॥ इत्य् अर्थ इति । वनदुर्गादौ गमने तस्करेभ्यो राष्ट्रे स्थितौ पालात् नृपाद्भयम् इति भावः ॥७-८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उभयत इति वन-दुर्गादौ पलायने तस्करेभ्यः राष्ट्रे स्थितौ पालाद् इत्य् अर्थः ॥७-८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :सत्रिणः सत्रित्वावस्थायां मिथो मिलनं भवतीति तदा मिलिताः सन्तीत्य् अर्थः । मूलताश् चाग्रतश् च दीप्ते प्रज्वलिते काष्ठे तन्-मध्य-वर्तिनां पिपीलिकादीनां यथा उभयतो व्यसनम् एवं लोकस्य दुर्गादौ पलायने तस्करात् राष्ट्रे स्थितौ पालकात् राजतो भयम् इत्य् अर्थः ॥७-८॥


॥ ४.१४.९ ॥

अराजक-भयाद् एष कृतो राजातद्-अर्हणः ।

ततोऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाहुः—अराजक-भायाद् इति । अतद्-अर्हणो राज्यानर्हः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवोभयतो दुःखम् एव । अराजके लोके\ऽवृष्टिदस्युरोगादितो महाभयं भारते वर्णितं तन्निवृत्तिहेतोः ततो\ऽपि राजतो\ऽपि ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अराजकेति सार्धकम् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतद्-अर्हणो राज्यानर्हः ॥९॥


॥ ४.१४.१० ॥

अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् ।

वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः ।

निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्माकम् अप्य् अनिष्टं जातम् इत्य् आहुः । अहेर् यथा पयः-पोषः क्षीरेण पोषणं पोषकस्याप्य् अनर्थं बिभर्ति पुष्णाति । तद् एवाहुः—वेन इति ।निरूपितो नियुक्तोऽस्माभिः ॥।१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देहिनां का कथास्माभिरेवायमभिषिक्तः संप्रत्यस्मानेव न यष्टव्यमित्याद्याज्ञया शास्तीत्याहुरस्माकम् इति । तद् एवाहितुल्यत्वम् एव । सुनीथागर्भसंभव इति हेतुगर्भितं विशेषणं सुनीथागर्भसंभवत्वाद् इति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां पुष्णातीत्य् अनन्तरम् । तथा ततोऽप्य् आसीद् भयम् इत्य् अन्वय इति ज्ञेयम् ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहिनाम् अन्येषां का कथम् अस्माभिर् एवायम् अभिषिक्तः सम्प्रत्य् अयम् अस्मान् एव न यष्टव्यम् इत्य्-आद्य् आज्ञया शास्तिट्य् आहुः—अहेर् इति ॥१०॥


॥ ४.१४.११ ॥

तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत् ।

तद्-विद्वद्भिर् असद्-वृत्तो वेनोऽस्माभिः कृतो नृपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सान्त्वयेम उपपत्तिभिः प्रार्थयिष्यामः । तस्य पातकम् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सान्त्वयेम प्रबोधयाम तत् तथा सत्यस्मान्पातकं पापं न स्पृशेदन्यथा तु पापं स्पृशेदेवेत्य् अर्थः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सान्त्वयेम उपपत्तिभिः प्रबोधयाम । तथा सति अस्मान् पापं न स्पृशेत्, अन्यथा तु पापं स्पृशेद् एवेत्य् आहुः—तत्-पातकं विद्वद्भिर् इति ॥११॥


॥ ४.१४.१२ ॥

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत् ।

लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्य तत्-तत्-पातक-स्पर्शे हेतुः । तत् पातकित्वं विद्वद्भिः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नो\ऽस्माकं वाचं सान्त्वन-रूपाम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दहिष्यामो धक्ष्यामः ॥१२॥


॥ ४.१४.१३ ॥

एवम् अध्यवसायैनं मुनयो गूढ-मन्यवः ।

उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गूढो मन्युर् येषाम् । सामभिः प्रियोक्तिभिः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दहिष्यामो धक्ष्यामः । इडागमस्त्वार्षः। स्वतेजसा तपोबलेन दग्धस्य दाहेनापि नास्माकं पापमुत्पत्स्यत इत्य् आह—लोकधिक्कारेति । सान्त्वयित्वा प्रबोध्य ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.१४ ॥

मुनय ऊचुः—

नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः ।

आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तातेति । स्वयङ्कृतत्वेन प्रियत्वमस्ति विषवृक्षो\ऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् इति न्यायेन । किं च, नायं नृपाणाम् अपि धर्मो यं त्वमुपाः से कुतो नृपवर् यस्यात्यन्तधर्मशोलाङ्गात्मजस्य तवेत्यतो\ऽस्मदुक्तं गृह्यतामित्य् अभिप्रायेणाहुर्नृपवर्येति । श्रीः संपत्तिः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मुनय ऊचुर् इति बहुत्र नास्ति ॥१४॥


॥ ४.१४.१५ ॥

धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः ।

लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्कामानाम् आनन्त्यं मोक्षम् अपि ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशोकान्—शोकरहितान् ब्रह्मलोकादीन् । निष्कामानां फलाभिसन्धिशून्यानाम् । मोक्षस्यानन्त्यत्वं तु वक्ष्यते तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते इति सनत्कुमारः । अन्तमतिक्रान्तो\ऽत्यन्तः स एवात्यन्तिकस् तस्य भावस्तत्ता तयेति वक्ष्यमाणात्यन्तिकपदार्थः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असङ्गिनां निष्कामानाम् आनन्त्यं मोक्षम् ॥१५॥


॥ ४.१४.१६ ॥

स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः ।

यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा विनशेन् मा विनश्यतु ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स धर्मः । वीरेति—तद्रक्षणे सामर्थ्यमुद्बोधयति । यस्मिन्धर्मे । अवरोहति अधो याति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.१४.१७ ॥

राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः ।

रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असाधवो ये अमात्यास् तेभ्यः । यथा यथा-शास्त्रम् ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : को\ऽसौ धर्मो यो लोकान्ददाति तत्राहुः—राजन्न् इति । असाधवो ह्यमात्या उत्कोचग्राहिणः, आदिना धाटीग्रहः । परोक्षं लुण्ठकश्चौरो धाटी प्रत्यक्षलुण्ठकः इत्य् उक्तेः । व्यभिचारिणो वादिपदार्थः, ते\ऽपि वर्णसङ्करकारकत्वेन प्रजाधर्मनाशकत्वात्प्रजानाशका एव । यथाशास्त्रं षष्ठांशम् । प्रेत्य लोकान्तरे ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.१८-१९ ॥

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ-पूरुषः ।

इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः ॥

तस्य राज्ञो महा-भाग भगवान् भूत-भावनः ।

परितुष्यति विश्वात्मा तिष्ठतो निज-शासने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वर्णाश्रमेष्वात्मा मनो येषां तैः ॥१८-१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्य राष्ट्रे इति युग्मकम् ॥१८-१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्णाश्रम-धर्मेषु आत्मा मनो येषां, तैः ॥१८-१९॥


॥ ४.१४.२० ॥

तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे ।

लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मै सर्वेश्वराय हरये ॥२०॥


न कतमेनापि व्याख्यातम्।


॥ ४.१४.२१ ॥

तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं

त्रयीमयं द्रव्यमयं तपोमयम् ।

यज्ञैर् विचित्रैर् यजतो भवाय ते

राजन् स्व-देशान् अनुरोद्धुम् अर्हसि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्व-लोकान् सङ्गृह्णातीति तत्सङ्ग्रहः ।

सर्वस्य ग्रहणाद् विष्णुः सर्व-सङ्ग्रह उच्यते ॥

वेदस्य तद्-वक्तृकत्वात् प्राधान्यं तु त्रयी-मयः ।

सर्वं तद्-विषयत्वेन मुख्यं सर्व-मयस् ततः ॥ इति स्कान्दे ॥२१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वान् लोकांश् च तत्-पालान् अमरांश् च तत्-प्रापकान् यज्ञांश् च सङ्गृह्णाति नियच्छतीति तथा तम् । विचित्रैर् द्रव्य-यज्ञादिभिः । भवाय समृद्धये स्व-देशान् तद् वासिनो जनान् । अनुरोद्धुम् अनुवर्तितुम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते भवाय तवैव भूत्यै यजतो यजन-कर्तॄन् स्व-देश-वर्तिनो जनान् अनुरोद्धुं**,** तत्रैव यजने प्रवर्तयितुम् ॥२१॥


॥ ४.१४.२२ ॥

यज्ञेन युष्मद्-विषये द्विजातिभिर्

वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं

तद्-धेलनं नार्हसि वीर चेष्टितुम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विष्णोः सन्निहितत्वात् सर्वे देवा हरेः कला इति च ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : युष्मद्-विषये त्वद्-देशे । हरेः कला अंशाः सुराः । तेषां सुराणां हेलनम् अवज्ञाम् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नियच्छति नियोजयति पालयति वा, त्रयीमयं त्रयीप्रतिपाद्यं तद्रूपं वा, द्रव्यमयं सर्व-स्वरूपम् । तपोमयं तत्प्राप्यन्ते भवाय यजतः भवो भद्रे हरे प्राप्तौ इति यादवः। अनुवर्तितुं वा ॥२१-२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चेष्टितुं कर्तुम् ॥२२॥


॥ ४.१४.२३ ॥

वेन उवाच—

बालिशा बत यूयं वा अधर्मे धर्म-मानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बालिशाः अज्ञाः । वृत्ति-दम् अन्नादि-प्रदं मां हित्वा ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऋषीणां । वाक्यामृतं शिरसि वज्रपातोपमम् इव मन्वानो गूढाक्षेपाभिसन्धिर्वेनः प्रतिवक्ति वेन उवाचेति । ये भवन्तः वृत्तिदं माम् अद्यैव मया फलमूलादित्रोटने निषिद्धे सद्य एव मरिष्यन्तीति भावः । जारं वयोहरं तत्परिचर्यायां निरर्थं वयो गमयन्तीति भावः । तेनाहम् एव वृत्तेर्दाने निरोधे च प्रभुरतो\ऽहम् एवार्च्य इति ध्वनितम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृत्ति-दम् अन्नादि-प्रदं मां हित्वा ॥२३॥


॥ ४.१४.२४ ॥

अवजानन्त्य् अमी मूढा नृप-रूपिणम् ईश्वरम् ।

नानुविन्दन्ति ते भद्रम् इह लोके परत्र च ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमीति । मुनिवृन्दमुद्दिश्याह ये\ऽमी इह लोके नृपकोपात्तेषामनर्थाप्तिः प्रसिद्धैव परलोके\ऽपि सर्वदेवमयनृपावज्ञातो महानर्थाप्तिः श्रूयत एव—

क्लिश्यन्त्येव महाघोरनरके ह्यनिशं नराः ।

देवब्राह्मणभूपालधेनूनामवहेलनात् ॥ इत्य्-आदिपुराणान्तरात् ॥२४॥


न कतमेनापि व्याख्यातम्।


॥ ४.१४.२५ ॥

को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी ।

भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्तृ-स्नेहो विदूरो येषाम् ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् अपि स्वस्मिञ्छापयोग्यापराधं कर्तुम् आह—क इति । कुयोषितां स्वैरिणीनाम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.२६-२७ ॥

विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः ॥

एते चान्ये च विबुधाः प्रभवो वर-शापयोः ।

देहे भवन्ति नृपतेः सर्व-देवमयो नृपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देहे भवन्ति नृपतेर् अतो नृपतिर् एवेश्वरः, इतरे तद्-अंशा इति भावः ॥२६-२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मद्भक्तिविषयो नाम्ना विष्णुः सृष्ट्यादिकारिणस्तदाज्ञानियता विरिंच्यादयस्तत्परिवारभूता इति भ्रान्तिर्ना भूद्यत एते विष्णुप्रभृतयो मयि संनिहिताः, अतस्तत्तच्छक्तिमत्त्वादहम् एवाखिलोत्तम इत्य् आह—विष्णुरित्य्-आदिना । अपां पतिर्वरुणः । पर्जन्यो धर्मः स च यमाद्भिन्नो देवविशेषः वर्षति निखिलमभीष्टम् इति निरुक्तेः । पृषु-वर्षणे पृषेरन्त्यस्य जो\ऽन्यप्रत्यय श्रोणादौ प्रतिपादितः । यद् वा, पर्जन्य इति सर्वेषां विशेषणम् ॥ अन्ये\ऽश्विन्यादयश् च प्रभवः समर्थाः ॥२६-२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विष्णुर् इति युग्मकम् ॥२६-२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.२८ ॥

तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः ।

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्र-भुक् पुमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बलिं च करादिकम् । अग्र-भुग् आराध्यः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽहं सर्वदेवमयस्तस्माद्धेतोः कर्मभिर्यज्ञाद्यनुष्ठानैः । अस्मत्सदृशो मनुष्योयम् इति मत्सरं परित्यज्येत्य् अर्थः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.२९ ॥

मैत्रेय उवाच—

इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः ।

अनुनीयमानस् तद्-याच्ञां न चक्रे भ्रष्ट-मङ्गलः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुनीयमानः प्रबोध्यमानः । तेषामृषीणां, याच्ञां प्रार्थनाम् । यतो भ्रष्टानि मङ्गलानि शुभकर्माणि जीवनादिहेतुभूतानि यस्य स तथा ॥२९॥


न कतमेनापि व्याख्यातम्।


॥ ४.१४.३० ॥

इति तेऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना ।

भग्नायां भव्य-याच्ञायां तस्मै विदुर चुक्रुधुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनासत्-कृताः । भग्नायां याच्ञायां चुक्रुधुः क्रोधं चक्रुः ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पण्डितमानिना मूर्खेण तेन वेनेन ते मुनयः असत्कृता अवमानिताः । भव्या मङ्गल-रूपा या याच्ञा तस्यां भग्नायामगृहीतायां त्वम् अपि दुष्टस्वभावमेतत्तुल्यं दुर्योधनं यथा बोधितवान् इत्य् अभिप्रायेणाह—विदुरेति । यद्वा—भव्येत्यपि संबुद्धिरे व । त्वम् अपि तेषां भव्यहेतुत्वादृषिवद्भव्यो\ऽसीत्यभिप्रायः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेनासत्-कृताः ॥३०॥


॥ ४.१४.३१ ॥

हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः ।

जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुरुते करिष्यते, तस्मादयम् एव भस्मसात्कर्त्तव्य इति एकस्मिन्नस्मिन्हते\ऽनेकेषां रक्षासिद्धेर्नैतद्धनने दोष इति भावः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भस्मसात् कुरुते करिष्यति, तस्माद् अयम् एव भस्मीकर्तव्य इति भावः ॥३१॥


॥ ४.१४.३२ ॥

नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् ।

योऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नरदेवानां वरासनं सिंहासनम् । अधियज्ञो यज्ञाधिष्ठाता स चासौ पतिः पालकस्तम् । न अपत्रपा लज्जा यस्य स यथा लज्जा सापत्रपान्यतः इत्य् अमरः ॥३२॥


न कतमेनापि व्याख्यातम्।


॥ ४.१४.३३ ॥

को वैनं परिचक्षीत वेनम् एकम् ऋतेऽशुभम् ।

प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिचक्षीत निन्देत । अशुभं वेनं विना । कृत-घ्नताम् आहुः—**यद्-**अनुग्रह-विषयः सन्न् ईदृशम् ऐश्वर्यं यः प्राप्तः ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतं विष्णुम् । भाजनशब्दस्य पुंस्त्वमार्षम् । तीर्थस्तु—भाजनमित्य् एव पपाठ । विश्वनाथस्तु—यद् यस्मादीदृशमैश्वर्यं प्राप्तो हि अनुग्रहभाजनं भवति तस्मान्निरनुग्रहादयं हन्तव्य इति भाव इति व्याचख्यौ ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एनं विष्णुं को वा परिचक्षीत निन्देत् ? वेनं विना यद् यस्माद् ईदृशम् ऐश्वर्यं प्राप्तो हि अनुग्रह-भाजनं भवति तस्मान् निरनुग्रहो हन्तव्य एवेति भावः ॥३३॥


॥ ४.१४.३४ ॥

इत्थं व्यवसिता हन्तुम् ऋषयो रूढ-मन्यवः ।

निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अहं ब्रह्मेति वेनस् तु ध्यायन् नापाधरं तमः ।

तद्-राद्धान्तो महीं व्याप्तो भेर्याख्यापयतोऽनिशम् ॥

आसुरा राक्षसाश् चैव पिशाचास् तत् पथि स्थिताः ।

भूमौ तत् पृथुना सर्वं निरस्तं संहितात्मना ॥

पुनः कलि-युगे प्राप्ते अष्टाविंशतिमे मनोः ।

वैवस्वतस्य समये जाताः कोर्ध-वशा भुवि ।

ख्यापयन्ति दुरात्मानो मणिमांस् तत्-पुरःसरः ॥ इति भविष्यत्-पुराणे ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं गूढ-मन्यव इदानीं रूढ-मन्यवः प्रकट-कोपाः । हुङ्कृतैर् हुङ्कारैः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्जघ्नुर्मारयामासुः । तद्धनने दोषाभावम् आह हतम् इति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.३५ ॥

ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् ।

सुनीथा पालयाम् आस विद्या-योगेन शोचती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वाश्रम-पदं प्रति ऋषिभिर् गते गमने कृते सति, विद्या-योगेन मन्त्र-सहितया युक्त्या पालयामास ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युक्त्या औषधिसहिततैलप्रक्षेपाद्युपायेन ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**विद्या-योगेन मन्त्र-सहितया तैलादि-प्रक्षेप-युक्त्या ॥३५॥


॥ ४.१४.३६ ॥

एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः ।

हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुंवद्-भाव आर्षः । सरस्वत्याः सलिले आप्लुताः कृत-स्नानाः । विष्णु-कथाश् चक्रुः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यैर्भृग्वादिभिर्वेनो मारितस्ते सतो\ऽभ्यर्हितस्य विष्णोः कथाः इत्य् अर्थः । आर्ष इति सरस्वत्पदेन सरसीमद्देशीयजलकृतस्नाना इति भ्रान्तिर्मा भूद् इति भावः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरस्वद् इति पुंवद्-भाव आर्षः ॥३६॥


॥ ४.१४.३७ ॥

वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् ।

अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा तूत्पातान्व्ईक्ष्य भुवोऽभद्रं न भवेत् किम् इत्य् आहुश् च ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा सत्कथावसरे न भवेत्किम् अपि तु भवेदेवेत्य् अर्थः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वीक्ष्येति । तदोत्पातान् इत्य् एव स्वामी ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१४.३८ ॥

एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् ।

पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं मृशन्तस् तर्कयन्त ऋषयः स्थिताः । तदा धावतां चोराणां भूरिः पांसुः समुत्थितः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पांसुर्धूलिः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं मृशन्तोविचारयन्तः ऋषयो यावत् स्थिताः, तावद् एवेति शेषः ॥३८॥


॥ ४.१४.३९-४० ॥

तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् ।

भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् ॥

चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् ।

लोकान् नावारयञ् छक्ता अपि तद्-दोष-दर्शिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तदा तेषां लोकस्य धनं लुम्पतां जिघांसतां चोपद्रवम् आज्ञाय ॥३९॥ तथा चोर-प्रायम् अराजकं हीन-सत्त्वं च जन-पदम् आज्ञाय । शक्ता अप्य् अवारणे दोष-दर्शिनोऽपि जना लुम्पतो लोकान् नावारयन्न् इत्य् अन्वयः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्वेने ॥ शक्ता अपि जनाः क्षत्रादयः समर्था अपि दोषदर्शिनो\ऽपि यद्यधर्मकर्तारं शक्ता न वारयन्ति सो\ऽधर्मस्तानपि स्पृशत्येवेति जानन्तो\ऽपि ॥३९-४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति युग्मकम् । चोरेति । शक्तानाम् अपि तेषां तद्-अनपवारण-हेतुः वर-शापाभ्यां तस्मिन् निवारणे तपः-क्षय-रूप-दोष-दर्शिनः ॥३९-४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तदा तेषां लोकस्य धनं लुम्पतां जिघांसतां चोपद्रवम् आज्ञाय तथा चोर-प्रायं जन-पदं चाज्ञाय ये शक्ता अप्य् अवारणे दोष-दर्शिनोऽपि जनाः क्षत्रिय-लोकाः आत्मन एव रक्षण्तः किम् अस्माकम् अन्यैर् इत्य् उदासीना अन्यान् लुम्पतो लोकान् नावारयन्न् इत्य् अन्वयः ॥३९-४०॥


॥ ४.१४.४१ ॥

ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शक्तानां क्षत्रियाणाम् अवारणे दोष इति किं वक्तव्यम् ? सम-दृग् अपि शान्तोऽपि ब्राह्मणोऽपि यदि दीनानां समुपेक्षको भवेत्, तर्हि तस्यापि ब्रह्म तपः स्रवति ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्म सत्यतपोधर्मपरात्मब्राह्मणेषु च इति कोशात् । तस्यापि ब्राह्मणस्यापि । पयो नीरम् । पयः स्यात्क्षीरनीरयोः इति विश्वः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्ह्युपेक्षन्ताम् एव । तत्राह—ब्राह्मण इति चतुष्कम् ॥४१॥


॥ ४.१४.४२ ॥

नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति ।

अमोघ-वीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत उपेक्षा-दोष-परिहाराय नाङ्गस्येत्य्-आदि विनिश्चित्य मही-पतेर् ऊरुं तरसा ममन्थुर् [४३] इत्य् अन्वयः । संस्थातुं नाशं गन्तुम् । यद् वा, ऋषय एव लुम्पतो लोकान् नावारयन् । कथं-भूताः ? हुङ्कारेणैव वेनं निवारयितुं शक्ता अपि । तत् किम् ? तस्मिन् निवारणे तन् मरणादि-दोष-दर्शिनः । न चोदासत । चोरोपद्रुते दीनोपेक्षायां तपो-हानि-प्रसङ्गात् । न चान्यं तन् निवारकं राजानम् अकुर्वन् । अङ्ग-वंशोच्छेदस्यानर्हत्वात् । अतो वेनस्यैव देहं ममन्तुर् इति योज्यम् । बाहुको वामनः ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्वेवं चेत् तर्हि भृग्वादयस्ते मुनयः कथं निश्चिन्ताः स्थिताः, सत्यं, त एव स्वैर्दस्युवधप्रजापालनाभ्यां तपःक्षयविक्षेपादिकमालक्ष्य को\ऽप्येको जनो राजा कर्त्तव्य इति व्यवस्थायां परामृश्याहुर्नाङ्गस्येति । यतो दीनोपेक्षा तपोनाशिकातो हेतोः सा न कार्येति स्वाम्यवतरणिकार्थः । नृपा भविष्यन्तीति शेषः । पूर्वव्याख्याने जनानावारयन्न् इत्य् उक्तं तत्र च तेजोबलादिहीनसामान्यजनस्य प्रबलदस्युवारणासामर्थ्येनास्वारस्यप्रतीतेराह—यद्वेति । हुङ्कारेण वेनम् इव तानपि वारयितुं शक्ताः, तत्तर्हि किन्नावारयन्न् इति चेदाह—तस्मिन्निवारणे हुंकारेण निवारणे तन्मरणादिदोषदर्शिनो लोकानां मरणादिरूपो यो दोषः तं पश्यन्तीत्य् अर्थः । यथा हुङ्कारेण निवारणे वेनो मृतस्तथेमे मा म्रियेरन्न् इति तर्हि किमुदासीना बभूवुर् इति चेदाह—न चेति । तर्हि किं कंचिदन्यं राजानं चक्रुस् तत्राह न चान्यम् इति । तत्र हेतुः—अङ्गवंशेति । वंशानुच्छेदज्ञानं तु तपोयोगबलेनैवेति ज्ञेयं, यतोङ्गवंश उच्छेदानर्हो\ऽतो हेतोः । बाहुको वामनो ह्रस्वः खर्वो\ऽल्पतनुपृश्निकौ इति कोशात् । प्रथमं तद्देहतो मात्रंशः पृथग्भूय प्रकटीबभूवेति चक्रवर्ती । कमूरुमित्याकाङ्क्षाशमनं ग्रन्थान्तरसंमत्या करोति—

अङ्गानुक्तौ दक्षिणं स्याद् दिगनुक्ताविन्द्रदिङ्मता ।

रत्नानुक्तौ सुवर्णं स्याद् अनुक्तौ हविषो धृतम् ॥

इति कात्यायनोक्तेर्दक्षिणमूरुं निर्मथ्य स्वमतप्रवृत्त्यर्थं वेनदेहं योगेन प्रविष्टं पाप-रूपं नास्तिकं निषाद-रूपेण मुनयो निष्कासयामासुर् इति ग्रन्थान्तरे स्पष्टम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हि किं कर्तव्यम् ? तत्राह—नाङ्गस्येत्य्-आदि ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अवञ्चेत् तर्हि भृग्व्-आदयस् ते मुनयः कथं निश्चिन्ताः स्थिताः, सत्यं त एव स्वैर् दस्यु-वध-प्रजा-पालनाभ्याम् तपः-क्षय-विक्षेपादिकम् आलक्ष्य कोऽप्य् एको जनो राजा कर्तव्य इति व्यवस्थायां परामृश्याहुः नाङ्गस्येति संस्थातुं नष्टीभवितुम् ॥४२॥


॥ ४.१४.४३-४४ ॥

विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः ।

ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः ॥

काक-कृष्णोऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः ।

ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एवाह । काक इव कृष्णः । महत्यौ हनू कपोल-प्रान्तौ यस्य । गिरिः काननं च गोचर आश्रयो नतु परादि-प्रवेशो येशाम् । तत्र हेतुः, येन कारणेन असावहरत् ततस् तस्य वंश्यास् तथा-भूताः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्वेवं चेत् तर्हि भृग्वादयस्ते मुनयः कथं निश्चिन्ताः स्थिताः, सत्यं, त एव स्वैर्दस्युवधप्रजापालनाभ्यां तपःक्षयविक्षेपादिकमालक्ष्य को\ऽप्येको जनो राजा कर्त्तव्य इति व्यवस्थायां परामृश्याहुर्नाङ्गस्येति । यतो दीनोपेक्षा तपोनाशिकातो हेतोः सा न कार्येति स्वाम्यवतरणिकार्थः । नृपा भविष्यन्तीति शेषः । पूर्वव्याख्याने जनानावारयन्न् इत्य् उक्तं तत्र च तेजोबलादिहीनसामान्यजनस्य प्रबलदस्युवारणासामर्थ्येनास्वारस्यप्रतीतेराह—यद्वेति । हुङ्कारेण वेनम् इव तानपि वारयितुं शक्ताः, तत्तर्हि किन्नावारयन्न् इति चेदाह—तस्मिन्निवारणे हुंकारेण निवारणे तन्मरणादिदोषदर्शिनो लोकानां मरणादिरूपो यो दोषः तं पश्यन्तीत्य् अर्थः । यथा हुङ्कारेण निवारणे वेनो मृतस्तथेमे मा म्रियेरन्न् इति तर्हि किमुदासीना बभूवुर् इति चेदाह—न चेति । तर्हि किं कंचिदन्यं राजानं चक्रुस् तत्राह न चान्यम् इति । तत्र हेतुः—अङ्गवंशेति । वंशानुच्छेदज्ञानं तु तपोयोगबलेनैवेति ज्ञेयं, यतोङ्गवंश उच्छेदानर्हो\ऽतो हेतोः । बाहुको वामनो ह्रस्वः खर्वो\ऽल्पतनुपृश्निकौ इति कोशात् । प्रथमं तद्देहतो मात्रंशः पृथग्भूय प्रकटीबभूवेति चक्रवर्ती । कमूरुमित्याकाङ्क्षाशमनं ग्रन्थान्तरसंमत्या करोति—

अङ्गानुक्तौ दक्षिणं स्याद् दिगनुक्ताविन्द्रदिङ्मता ।

रत्नानुक्तौ सुवर्णं स्याद् अनुक्तौ हविषो धृतम् ॥

इति कात्यायनोक्तेर्दक्षिणमूरुं निर्मथ्य स्वमतप्रवृत्त्यर्थं वेनदेहं योगेन प्रविष्टं पाप-रूपं नास्तिकं निषाद-रूपेण मुनयो निष्कासयामासुर् इति ग्रन्थान्तरे स्पष्टम्॥ तं बाहुकनरम् । कपोलौ तत्परा हनुरित्य् अमरः निम्ननासाग्रो\ऽधोनतघ्राणशिराः, ताम्रमूर्द्धजो रक्तकेशः ॥४३-४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाहुको वामन इति प्रथमं तद्-देहान् मात्रांशः पृथग्-भूय प्रकटी-बभूवेत्य् अर्थः ॥४३-४४॥


॥ ४.१४.४५ ॥

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।

निषीदेत्य् अब्रुवंस् तात स निषादस् ततोऽभवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निषीदेति । नासौ राज्ययोग्य इति व्यवसाय तमकथयन्न् इत्य् अर्थः । मातृविकृत्यंशवत्त्वेनात्मनस्तादृशत्वं संचिन्तयानं प्रत्याह—तातेति । त्वं तु साक्षाद्धर्मावतारत्त्वात्सर्वजनद्वेष्यनिषादापेक्षया सर्वोत्तमोसीत्यभिप्रायः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निषीदेति नासौ राज-योग्य इति व्यवसायेत्य् अर्थः ॥४५॥


॥ ४.१४.४६ ॥

तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः ।

येनाहरज् जायमानो वेन-कल्मषम् उल्बणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

त्र्य्-अंशो वेनः समुद्दिष्टः सत्त्वांशः पृथुताम् अगात् ।

राजो हंसश् च दिवं यातो निषादस् तामसोऽभवत् ॥ इति कौर्मे ।

पाप-रूपी पृथग् ऋजातो निषादो वेन-देहतः ।

यस्मात् तस्मात् पृथोः पुत्राद् रजो वेनो दिवं ययौ ॥ इति गारुडे ॥४६॥


श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सपादम् । येन कारणेनासौ जायमानो वेनकल्मषमहरज्जग्राह ततस्तेन हेतुना स निषादो नीचजातिरभवत् । तस्य वंश्याश् च नैषादा अतिनीचा अभवन्नित्यन्वयः । तत्र पुराद्यवेशे—

चाण्डालानां गृहा नैव कार्या ग्रामपुरादिषु ।

अरण्ये पर्वते वापि वसेयुर्नगराद्बहिः ॥ इति स्मृतेः ।

निषादः स्वरभेदे च चाण्डाले धीवरान्तरे इति मेदिनी । तथाभूता गिरिकाननगोचराः । उल्बणमुग्रम् ॥४६॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे चतुर्दशो\ऽध्यायः ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन कारणेनासौ जायमानो वेन-कल्मषम् अहरत् जग्राह, तेन स निषादो नीच-जातिर् अभवत् । तस्य वंश्यास् तु नैषादा अति नीचा अभूवन्न् इत्य् अन्वयः ॥४६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्दशश् चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

पृथु-चरिते निषादोत्पत्तिर् नाम ओऽध्यायः ।

॥ ४.१४ ॥


(४.१५)


  1. प्रकृत्यासम्मतं ↩︎