१३

अथ त्रयोदशोऽध्यायः

विषयः

ध्रुवस्य वंशः, तत्रोत्पन्नस्याङ्गस्य स्व-तनय-वेन-कृत-दुराचारेण निर्वेदाधिक्याद् गृह-त्यागश् च ।

॥ ४.१३.१ ॥

सूत उवाच—

निशम्य कौषारविणोपवर्णितं

ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् ।

प्ररूढ-भावो भगवत्य् अधोक्षजे

प्रष्टुं पुनस् तं विदुरः प्रचक्रमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एवं पञ्चभिर् अध्यायैर् ध्रुव-चर्याऽनुवर्णिता ।

अथैकादशभिश् चित्रं पृथु-चारित्रम् उच्यते ॥

तत्र त्रयोदशे वक्तुं पृथोर् जन्म ध्रुवान्वये ।

अङ्गो वेन-पिता पुत्र-क्रौर्याद् गत इतीर्यते ॥

प्ररूढो भावो भक्तिर् यस्य ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चित्रमद्भुतम् तत्रैकादशसु मध्ये । तं कौषारविम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-सूत उवाच श्री-शुक-देव-वाक् शेषत्वेन स्थितं स्वयम् एवापूरयद् इत्य् अर्थः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयोदशेऽङ्ग-राजस्य पुत्रेष्ट्या यः सुतोऽजनि ।

वेणस् तस्यातिदौरात्म्यान् नृपो निर्विद्य निर्गतः ॥१॥


॥ ४.१३.२ ॥

विदुर उवाच—

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ववाये वंशे ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वादृशां हरिचर्यावर्णनाद्येव व्रतो\ऽस्तीत्याशयेनाह—सुव्रतेति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्रेऽगायत् प्रचेतसाम् इत्य् आकर्ण्य पृच्छति—के ते इति । अन्ववाये वंशे ॥२॥


॥ ४.१३.३ ॥

मन्ये महा-भागवतं नारदं देव-दर्शनम् ।

येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नारदेन प्रचेतसां सत्रे वर्णिताः कथाः प्रष्टुं तन् महिमानम् आह—मन्य इति । देवस्य दर्शनं यस्य । हरेः परिचर्या-प्रकारः क्रिया-योगः पञ्च-रात्रे प्रोक्तः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु महाभागवतेन विदुरेण हरि-कथाप्रश्नं त्यक्त्वा प्रचेतसां प्रश्नः किम् इति कृत इति चेत्तेषां कथापि हरि-कथाविनाभूतैव श्रीनारदेन प्रोच्यमानत्वान्नारदस्त्वन्यकथां न वक्ति भागवतचूडामणित्वाद् इत्य् आह—मन्य इति । देवं श्री-कृष्णं दर्शयत्युपदेशेनेति देवदर्शनः । यद्वा—देवैर्भक्त्या देदीप्यमानैर्दृश्यत इति । तत्र हेतुः—येन नारदेन भगवत्साक्षात्कारार्थम् एव पञ्चरात्रे पूजनविधानं तस्यैव मोक्षहेतुत्वोक्तेः । येन क्रियानैपुणेन । मो यायादमर्त्यताम् इत्युद्धवोक्तेः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महा-भागवतं वैष्णव-सम्प्रदाय-गुरुं देव-दर्शनं श्री-भगवत्-तत्त्व-ज्ञं भगवत्-सर्व-मङ्गल-दर्शनं च । अनुकम्पेषु भगवद्-अनुभव-हेतुं वा ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रिया-योगः परिचर्या-प्रकारः पञ्चरात्रो येन प्रोक्तः ॥३॥।


॥ ४.१३.४ ॥

स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किल ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-धर्म-शीलैः पुरुषैः प्रचेतोभिः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वधर्मेति । अत्रायं भावः—साक्षान्नारायण एव चरुपुरोडाशादिद्रव्यस्वामित्वेन तदभिमान्यग्न्यादिदेवतान्तर्यामित्वेन तच्छब्दप्रवृत्तिनिमित् तस्य मुख्यत्वेन देवतात्वेन च मन्त्रमूर्तित्वेनेज्यमान एव नारदेन प्रतिपादित इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृशेनापि नारदेनेडितः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-धर्म-शीलैः प्रचेतोभिः । इज्यमान ईडित इति इज्यैवेडितेति भावः ॥४॥


॥ ४.१३.५ ॥

यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि ॥

न कतमेन व्याख्यातम्।


॥ ४.१३.६ ॥

मैत्रेय उवाच—

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्रुवस्य वंशे ते जाता इति वक्तुं ध्रुवस्य वंशम् अनुक्रामति—ध्रुवस्येत्य्-आदिना । पितुः सार्वभौम-श्रियं नैच्छद् अधिराजासनं च ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः किं फलितमित्य् अत्राह—यास्ता इति । कथनसामर्थ्यं प्रथयन्नाह—ब्रह्मन्न् इति ॥५-६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ध्रुवस्य वंश एव ते जाता इति तद्-वंश-कथायाम् एव प्रचेतसां कथा आयास्यतीत्य् अभिप्रायेणाह ॥६॥


॥ ४.१३.७ ॥

स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः ।

ददर्श लोके विततम् आत्मानं लोकम् आत्मनि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिच्छायां हेतुम् आह—स इति चतुर्भिः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जन्मना जन्मप्रभृति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानम् इति युग्मकम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्मना उत्पत्त्यैव उपशान्तात्मा ज्ञानी ॥७॥


॥ ४.१३.८-९ ॥

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् ।

अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम् ॥

अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः ।

स्वरूपम् अवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वरूपं जीवस्य विश्व-रूपं परमात्मानम् ।

भिन्न-स्वरूपम् अभिदं स्वरूपं तु द्विधा हरेः ।

भिन्न-स्वरूपं ब्रह्माद्या मत्स्याद्य् अभिमुच्यते ॥ इति गारुडे ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानंस्वरूप-भूतं ब्रह्मावरुन्धान आप्नुवन् जानन्न् आत्मनो नान्यं तदैक्षत । स्वयं तु सर्वस्माद् अन्यः सन् । कथं-भूतं ब्रह्म ? निर्वाणं शान्तम् । प्रत्यस्तमितः शान्तो विग्रहो भेदो यस्मिन् । अवबोध-रसेनैकात्म्यं यस्य ॥८॥ कथं-भूतः ? अव्यवच्छिन्नो यो योगः, स एव्आग्निः, तेन दग्धः कर्म-मल आशयो वासना च यस्य ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ददर्श लोके इत्य् अनेन प्रथमं सोपाधिक-ब्रह्म-दर्शनम् उक्तम्, अधुना निरुपाधिक-ब्रह्म-दर्शनम् आह—प्रत्यस्तमितम् इति । निरुपाधिकम् इत्य् अर्थः । अनुसन्ततं सर्वत्रानुस्यूतं स्वरूपं परम-कारण-रूपम् आत्मनो जीववच् छुद्धात् तद्-अन्यन् नैक्षत अभेदांश-मात्रानुसन्धानात् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं जीवं स्वरूपं स्वरूप-भूतं ब्रह्म अवरुन्धानो जानन् निर्वाणं शान्तम् प्रत्यस्तमित-विग्रहं निरस्त-विवादम् ॥८॥ आत्मानं कीदृशम् ? अवबोध-रसेनैक्आत्म्यं यस्य तं, अव्यवच्छिन्नेन निरन्तरेण योगाग्निना दग्धं कर्म-मलं यस्य तथाभूत आशयो यस्य सः । आत्मनः शुद्ध-जीवाद् अन्यत् नैक्षत ॥९॥


॥ ४.१३.१० ॥

जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जडादीनाम् इवाकृतिर् यस्य तथाभूतो लक्षितः । अतन्-मतिः न तेषाम् इव मतिर् यस्य सर्व-ज्ञत्वात् । प्रशान्तान्य् अर्चींषि ज्वाला यस्यानलस्य तद्वत् स्थितः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्यस्तमितविग्रहं निरस्तविवादम् ॥८-१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पथि बालैर् जडाद्य्**-**आकृतिर् लक्षितः । अतन्-मतिः न जडादीनाम् इव मतिर् यस्य सः ॥१०॥


॥ ४.१३.११ ॥

मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः ।

वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

कल्पः कल्पाभिमानी सन् शिशुमारानुग-स्थितः ।

वत्सरो राज्यम् अकरोत् पित्रा दत्तं महा-बलः ॥ इति ब्राह्मे ।

चक्रे नारायणः साक्षात् किन्तुघ्नः कल्पम् आत्मजम् ॥ इति पाद्मे ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यवीयांसम् उत्कलात् कनिष्ठम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.१२ ॥

स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इष्टा प्रिया भार्या ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्कलः सर्वापेक्षया ज्येष्ठस्ततः कनीयान्वत्सस्तत्कनीयान्कल्य इति बोध्यमन्यथा कल्यं विहाय वत्सस्याभिषेको\ऽसङ्गतः स्याद् दशमाध्यायारंभे प्रजापतेर्दुहितरम् इत्य्-आदिना पुत्रकथनमात्रं न तु क्रमो विवक्षितः, अन्यथोत्कलस्य सर्वापेक्षया कनिष्ठत्वमापद्येतेति ॥११-१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.१३ ॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः ॥

न कतमेन व्याख्यातम्।


॥ ४.१३.१४ ॥

प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्व-तेजसम् आदधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निशिथो निशीथः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र यं यमादाय कथा प्रवर्तते स स एव वंशहेतुभूतः, अन्ये त्वकृतोद्वाहा योगिनो\ऽप्रजाश्चेति ध्येयम् इति तीर्थः । स्त्रियः सुताश् च कालादितत्तद्वस्त्वभिमानिन एवेति च ॥१३-१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.१५ ॥

स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह ।

मनोर् असूत महिषी विरजान् नड्वला सुतान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स सर्व-तेजाः चक्षुः-संज्ञः मनुं सुतं पुत्रम् अवाप । मनोर् महिषी नड्वला विरजान् शुद्धान् पुरु-प्रमुखान् द्वादश सुतान् असूत ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स चक्षुर् इत्य् अर्धकम् । स चक्षुः-संज्ञः सर्व-तेजाः सुतं चाक्षुषं मनुत्वेनावापेत्य् अर्थः । वक्ष्यते ह्य् अष्टमे—षष्ठश् च चक्षुषः पुत्रश् चाक्षुषो नाम वै मनुः [भा।पु। ८.५.७] इति । तस्मात् टीकायाम् अपि चक्षुः-सञ्ज्ञ इति प्रथमान्त-पाठ एव सम्मतः । मनोर् इति । वैराजम् इति चित्सुखः । वैराजादीन् सुतान् ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स सर्व-तेजा एव चक्षुः चाक्षुषं सूतं मनुम् अवापेति व्याख्येयम् । षष्ठश् च चक्षुषः पुत्रश् चाक्षुषो नाम वै मनुः [भा।पु। ८.५.७] इत्य् अष्टमात् ॥१५॥


॥ ४.१३.१६-१८ ॥

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् ।

अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् ॥

उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् ।

अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् ॥

सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् ।

यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चक्षुःसंज्ञं षष्ठस्तु चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः इत्यष्टमे वक्ष्यमाणत्वात् । अत्र चक्षुः शब्देन चाक्षुष एव ग्राह्यस्तद्धिताभावस्त्वार्ष इति ध्येयम् । मार्कण्डेये\ऽपि अन्यजन्मनि जातो\ऽसौ चक्षुषः परमेष्ठिनः । चाक्षुषत्वमतस् तस्य जन्मान्यस्मिन्नपि द्विजे इति क्रोष्टुकिं प्रति मार्कण्डेयोक्तेः चक्षुःसुतं चक्षुष उद्भूतत्वाच्चक्षुःपुत्रमर्थाच्चाक्षुषं पुत्रं भाविनं मनुमवाप जनयामास । किञ्चायम् एव कारणान्तरेण दक्षवशिष्ठादिवद्वक्ष्यमाणषष्ठस्कन्धीयवसुवंशे\ऽप्य् एतन्नाम्नैव भविष्यतीति ध्येयम् ॥ निर्विण्णो विरक्तः ॥१५-१८॥


न कतमेन व्याख्यातम्।


॥ ४.१३.१९ ॥

यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल ।

गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे विदुर । वाग् एव वज्रं येषाम् ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यं वेनं, गतासोर्मृतस्य, तस्य वेनस्य ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.२० ॥

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मथने हेतुः—अराजक इति । आद्यः पुर-ग्रामादीनां तेन रचितत्वात् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा वेननाशे । यद्वा—प्रचलित राजवंशो हि वेननाशान्नष्ट एव मुनिभिः पृथुमुत्पाद्य पुनः प्रचारितः पृथुतः प्रथमं प्रचलनात्तस्यैवाद्यत्वम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मथने हेतुः—अराजक इति । जातो मथ्यमानात् करात् । आद्यः क्षितीश्वर इति पुर-ग्रामादि-विधायकत्वांशेन ॥२०॥


॥ ४.१३.२१ ॥

विदुर उवाच—

तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यस्याः प्रजाया हेतोर् विमनाः सन्ययौ ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्याङ्गस्य ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यतो विमनाः सन्॥२१॥


॥ ४.१३.२२ ॥

किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् ।

दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं वा, अंहः अपराधं वेने उद्दिश्य आलक्ष्य ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दण्डो\ऽस्त्री शासने राज्ञां हिंसायां लकुटे गुडे इति यादवः । दण्डव्रतधरे शासनाख्यव्रतं बिभ्रति । न तेष्वज्ञानलेशः संभाव्यते इत्य् आह—धर्मकोविदा इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वेणम् उद्दिश्येति चित्सुखस्यासम्मतम् ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च । अंहोऽपराधम् । राज्ञीति राज्ञ एव दण्डोऽधिकारो, न तु राज्ञोऽपि दण्डे मुनीनाम् अधिकार इत्य् अर्थः ॥२२॥


॥ ४.१३.२३ ॥

नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि ।

यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतोऽयम् अधर्म इत्य् आह—नावध्येयोऽवज्ञेयोऽपि न भवति ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.२४ ॥

एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् ।

श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परावर-विदां मध्येऽतिश्रेष्ठः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न कतरेण व्याख्यातम्।


॥ ४.१३.२५ ॥

मैत्रेय उवाच—

अङ्गोऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् ।

नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभावी पुत्रः काम्य-कर्मणा बलादापादितो न सुखाय भवेद् इति द्योतयन्न् अङ्गस्य पुत्रोत्पत्ति-क्रमम् आह—अङ्ग इत्य्-आदिना ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतोयं राजावमानो\ऽधर्मो\ऽतो न कार्य इत्य् आह—अघवान्यापशीलो\ऽपि । लोकपालानामिन्द्रादीनामोजो बलं दीप्तिं वा ओजो दीप्ताववष्टंभे प्रकाशबलयोर् अपि इति मेदिनी । तस्मिन्नवज्ञाते इन्द्राद्यवज्ञा स्याद् इति भावः ॥२३-२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राचिन-बलवत्तरापराध-विशेषेण प्रतिहत-पुत्र-भाग्यत्वेऽपि तस्य श्री-विष्णु-प्रयजन-माहात्म्यात् पुत्रो जातः । तथा तेन दूषित-तद्-भाग्यत्वेऽपि तस्माद् एवासौ वैराग्य-हेतुर् जातः पौत्रश् च तद्-अवतार एवेत्य् आह—अङ्ग इत्य् आदिना ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.२६ ॥

तम् ऊचुर् विस्मितास् तत्र यजमानम् अथ र्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमङ्गम् । अथ देवावाहनोत्तरम् । स्नेहादाह—तातेति । तातः स्याज्जनके प्रिये इति कोशात् ॥२६॥


न कतमेन व्याख्यातम्।


॥ ४.१३.२७ ॥

राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते ।

छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अयात-यामान्य् अगत-वीर्याणि ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्रव्यादिदोषान्न गृह्णन्तीति चेदाह—राजन्न् इति । हवींषि चरुद्रव्याणि । अदुष्टान्यतीव शोभनानि दातुः श्रद्धाराहित्याद् अपि तथा भवति तद् अत्र नास्तीत्याहुः—श्रद्धयेति । निर्बलमन्त्रप्रयोगात्तथात्वम् इति तत्राह—छन्दांसीति—

अस्थानोच्छ्वासविच्छेदघोषणाध्ययनादिकम् ।

प्रमादोपनतं वाथ यातयामत्वकारकम् ॥ इति कात्यायनस्मृतेः ।

अस्यार्थः—उक्तोदात्तादिस्थाने निश्वासस्य विच्छेदेन त्यागेन युक्तं यद् घोषणमध्ययनाध्यापनादि । यद्वा—अध्ययनसमये चांचल्यादिना यथावच्छ्रवणाभावश् च छन्दसां यातयामत्वं निर्बलतां करोतीत्य् अर्थः । एतद्यज्ञगतविप्रैस्तु यथाविहितम् एव तदधीतम् इति न यातयामता छन्दसामस्तीति भावः । किं च—

अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।

क्रीडमानैर् अपि सदा तत्तेषां सिद्धिकारकम् ॥

इत्यपि तेनैवोक्तमतो न ज्ञायते किमत्र कारणं यतो देवा न स्वभागान्स्वीकुर्वन्तीति भावः । दुर्वृत्तविप्रोच्चारणादप्यत्र तथात्वं न संभाव्यते—तत्रव्रतैरिति—

देवपूजापितृपूजानिरताः सर्वदा द्विजाः ।

यथालाभेन सन्तुष्टाते\ऽत्र ज्ञेया धृतवताः ।

अभक्ष्यमक्षकाहिंस्त्राः पैशून्यानृतवादिनः ।

क्रोधेर्ष्यादंभिनो वेदविमुखास्त्वद्-हृतव्रताः ।

पूर्वे योग्याः परे\ऽयोग्याः श्रौते स्मार्ते च कर्मणि ॥ इति वारतान्तविः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्रोपकरणानि तु समीचीनान्य् एवेत्य् आहुः—राजन्न् इति । पौरुषवान् इति । तस्य निरर्गलत्वम् उक्तं, तथापि न गृह्णन्तीति पूर्वेणैवान्वयः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.२८ ॥

न विदामेह देवानां हेलनं वयम् अण्व् अपि ।

यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इह यज्ञकर्मणि । हेलनमवज्ञानम् । यद्यतो हेलनात् ॥२८॥


न कतमेन व्याख्यातम्।


॥ ४.१३.२९ ॥

मैत्रेय उवाच—

अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञे गृहीत-मौनोऽपि वाचं व्यसृजत् प्रायुङ्क्त ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदनुज्ञया ब्राह्मणानुज्ञां प्राप्य । तद्देवानागमनभागाग्रहणवृत्तम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ ४.१३.३० ॥

नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह ।

सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आहुता आहूताः । ग्रहान् सोम-पात्राणि । इह यज्ञे न गृह्णन्ति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ग्रहः सूर्यादिनवके यज्ञपात्रोपरागयोः इति धरणिः । अवद्यमपराधः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रहान् सोम-पात्राणि ॥३०॥


॥ ४.१३.३१ ॥

सदसस्-पतय ऊचुः—

नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् ।

अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अनपत्य त्व् अकर्मासौ बाल-हत्या कृता पुरा ।

अतो दुष्टोऽभवत् पुत्रो इष्टो विष्णु-रतः पृथुः ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इह जन्मनि न तावन् मनाग् ईषद् अप्य् अघं स्थितम् । कथञ्चिज्जातस्य अघस्य सद्य एव प्रायश्चित्तैः क्षालनात् । किं तु, प्राक्तनम् एकम् अघम् अस्ति । यद् यस्माद् ईदृक् गुणाधिकोऽपि त्वं प्रजा-रहितः ॥३१॥

नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् ।

अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नरदेव! भवतो नावद्यं किञ्चिद् आस्थितं, "अस्त्य् एकं प्राक्तनावद्यम्" इति क्वचित् पाठः चित्सुख-सम्मतश् च, प्राक्तानावद्यं जन्मान्तरीयापराध इति व्याख्यानात् ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.३२ ॥

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो यथा देवा हविर् गृह्णन्ति तथात्मानं सुप्रजं साधय । कथं साधनीयम् ? तद् आहुः—इष्ट इति ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः अप्रजस्य भागाग्रहणात् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.३३ ॥

तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अनपत्योऽपि सद्-धर्मा लोक-जिन् नात्र संशयः ।

देवैस् तु पृथु-जन्मार्थे हरिर् अङ्गस्य नो हृतम् ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा सति स्व-भागान् ग्रहीष्यन्ति । यद्यतो हरिः साक्षाद् वृतः स्यात् । अतस् तेन सह सर्वे देवा आगमिष्यन्तीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाग-धेयानि भाग-रूपाणि धेयानि पात्रेषु धार्याणि हवींषि ॥३३॥


॥ ४.१३.३४ ॥

तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः ।

आराधितो यथैवैष तथा पुंसां फलोदयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अतितुच्छान् कामान् हरिः कथं दद्यात् ? तत्राह—तांस् तान् इति ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा सति पुत्रलाभे सति दिवौकसां भागग्रहणं यज्ञपुरुषवरणस्य हेतुत्वमार्थिकार्थतया व्याचष्टे अत इति ॥३३-३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.३५ ॥

इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजातये पुत्रोत्पत्तये । शिपि-विष्टाय शिपिषु पशुषु यज्ञ-रूपेण प्रविष्टाय । तथा च श्रुतिः—यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रतितिष्ठतिइति ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा च शिपिशब्दस्य पशुवाचकत्वे प्रमाणं श्रुतिः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरोडाशं यज्ञीय-द्रव्यं निरवपन्न् अददुः । शिपिषु पशुषु यज्ञ-रूपेण प्रविष्टाय । तथा च श्रुतिः—यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रतितिष्ठतिइति ॥३५॥


॥ ४.१३.३६ ॥

तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् इति योग्यतयाऽग्नेः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.३७ ॥

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।

अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पत्न्यै प्रादात् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.३८ ॥

सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुमांसं सूतेऽनेनेति तथा तत् प्राश्य पत्युः सकाशाद् गर्भम् आदधे । अप्रजा सती ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्माद् इति । तच्छब्दस्य पूर्वपरामर्शकत्वात् पूर्वत्राग्निशब्दाभावात् अर्थाबाध-रूपा वाक्यार्थहेतुर्योग्यता गृहीता । तच्छब्देनाग्निर्विवक्षितः । यथा सिञ्चति तेनेत्युक्ते तच्छब्देन जलविवक्षणं तद्वद् इत्य् अर्थः ॥३६-३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्


॥ ४.१३.३९ ॥

स बाल एव पुरुषो मातामहम् अनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मृत्युर् देवो यम-भ्राता वेण-मातामहो सूरः ।

पीडां वेगेति च प्राहुर् वेणोऽसौ पीडनाद् अभूत् ॥३९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मातामहं मृत्युम् । मृत्योर् हि पुत्री सुनीथा ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्


॥ ४.१३.४० ॥

स शरासनम् उद्यम्य मृगयुर् वन-गोचरः ।

हन्त्य् असाधुर् मृगान् दीनान् वेनोऽसाव् इत्य् अरौज् जनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृगयुर् लुब्धकः सन् तं दृष्ट्वा वेनोऽसावागच्छतीति जनः सर्वोऽप्य् अरौत् चुक्रोश ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन मृत्य्वनुसरणेन ॥३९-४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं दूराद् एव दृष्ट्वा वेणोऽसाव् अस्मत्-प्राण-घाती समेतीत्य् अरौत् चुक्रोश ॥४०॥


॥ ४.१३.४१ ॥

आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।

प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आक्रीडे क्रीडास्थान् बालान् पशून् इवामारयत् ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरनुक्रोशो निर्दयः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पशु-मारं पशून् इवामारयत् ॥४१॥


॥ ४.१३.४२ ॥

तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः ।

यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विचक्ष्य दृष्ट्वा ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुदुर्मना अत्याकुलचेताः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ४.१३.४३ ॥

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृह-मेधिनः ।

कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्मनसस् तस्य कुपुत्र-निन्दा-वाक्यान्य् आह—प्रायेणेति त्रिभिः । अप्रजा ये तैर् अभ्यर्चितः । तत्र हेतुः—कुत्सितैर् अपत्यैः संभृतं दुर्भरं धारयितुम् अशक्यं दुःखं ये न विन्दन्ति ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र देवाभ्यर्चने। संभृतं संपूर्णीकृतम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रायेणेति दुःखोक्ति-मात्रम् ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अप्रजा अनपत्यास् तैर् अभ्यर्चितः । तत्र हेतुः—कदपत्येन भृतं पूर्णीकृतं दुर्भरं धारयितुम् अशक्यं दुःखं ये न विन्दन्ति ॥४३॥


॥ ४.१३.४४-४५ ॥

यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिर् अनन्तकः ॥

कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः ।

पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषां सर्वैः सह । आधिर् मानसीव्यथा ॥ तं प्रजापदेशं पुत्र-नाम-मात्रम् अप्य् आत्मनो मोहेन बन्धनम् । यद्-अर्था यन्-निमित्ताः क्लेशदा गृहा भवन्ति ॥४४-४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कदपत्यात् । पापीयसी कीर्तिर्निन्दाहो यस्यायं सुरापो दुर्व्यसनी पुत्रः सो\ऽपि मन्दभाग्य इत्य् एवंरूपा भवतीत्य् अर्थः । पापसङ्गान्महानधर्मो महापातकी च स्यात् तत्संसर्गी च पञ्चमः इति स्मृतेः । ये तं निन्दन्ति तैर्विरोधो\ऽपि अनन्तको यावजीवव्यापी ॥ वस्तुतो दुःखसमुद्रम् एव पुत्रनामधरम् इत्य् अर्थः । तस्माल्लोकलज्जामनस्तापादिबहुलेभ्यो गृहेभ्यो निः सृत्य क्वचिदलक्षिते प्रदेशे शाकमूलादिवृत्तिरष्टावेव यामान्भगवन्तं भजन्नवशिष्टमायुख्यार्थी कुर्वन् कृतार्थीभविष्यामीति निश्चिकाय ॥४४-४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत इति युग्मकम् । गृहाणां दोषम् आह—तद् इति ॥४४-४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजापदेशं नाम्नैव प्रजाम् । वस्तुतस् तु आत्मनो दुःख-समुद्रम् इत्य् अर्थः । तस्माल् लोक-लज्जा-मनस्-तापादि-बहुलेभ्यो गृहेभ्यो निःसृत्य क्वचिद् अलक्षिते प्रदेशे शाक-मूल-फलादि-वृत्तिर् अष्टाव् एव यामान् भगवन्तं भजन्न् अवशिष्टम् आयुर् अव्यर्थीकुर्वन् कृतार्थीभविष्यामीति निश्चिकाय ॥४५॥


॥ ४.१३.४६ ॥

कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् ।

निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं निर्वेद-हेतुत्वेन कुत्सितम् एवापत्यम् अभिनन्दति—कद्-अपत्यम् इति । शुचां पदाच् छोकानां स्थानात् । वरत्वे हेतुः—निर्विद्येतेति । तत् कुतः ? यद्यतः कद्-अपत्याद् गृहाः क्लेश-निवहा भवन्ति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निश्चित्य च स्वनिर्वेदामृतप्राप्तिकारणं पुत्रम् एव स्मृत्वा भगवतैव परमकृपया विषयभोगान्धं मां स्वचरणान्तिकं बलान्निनीषुणा पुत्रोयं मह्यं दत्त इत्य् आह—कदपत्यम् इति । शुचां पदाद् गृहाद् इति वा ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निश्चित्य च स्व-निर्वेदामृत-प्राप्ति-कारणं पुत्रम् एव स्मृत्वा भगवतैव परम-कृपया विषय-भोगान्धं मां स्व-चरणान्तिकं बलान् निनीषुणा पुत्रोऽयं मह्यं दत्त इत्य् आह—कदपत्यम् इति ॥४६॥


॥ ४.१३.४७ ॥

एवं स निर्विण्ण-मना नृपो गृहान्

निशीथ उत्थाय महोदयोदयात् ।

अलब्ध-निद्रोऽनुपलक्षितो नृभिर्

हित्वा गतो वेन-सुवं प्रसुप्ताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महताम् उदयानां विभूतीनाम् उदयो यस्मिंस् तस्माद् गृहाद् गतः । या वेनं सूते स्म ताम् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां सुनीथां, प्रसुप्ताम् इति । यदैव सा स्वपिति स्म तदैव स्वस्य वेषान्तरं कृत्वेत्य् अर्थः । निशीथेर्द्धरात्रे\ऽनुपलक्षितो\ऽदृष्टः लक्ष-दर्शनाङ्कनयोः इति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महोदयस्य महा-सम्पत्तेर् उदयो यत्र, तस्मात् । वेनं सूते वेणसूस् तां सुनीथां प्रसुप्ताम् इति यदैव सा प्रकर्षेण स्वपिति सामान्याधिकरण, तदैव स्वस्य वेशान्तरं कृत्वेत्य् अर्थः ॥४७॥


॥ ४.१३.४८ ॥

विज्ञाय निर्विद्य गतं पतिं प्रजाः

पुरोहितामात्य-सुहृद्-गणादयः ।

विचिक्युर् उर्व्याम् अतिशोक-कातरा

यथा निगूढं पुरुषं कुयोगिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजाः पुरोहितादयश् च विचिक्युर् अन्वेषितवन्तः । तं तत्रैव सन्तम् अपि नापश्यन्न् इति दृष्टान्तेनाह—यथेति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नृपं, तत्रैव नगरे एव, निलीय वसन्तम् अपि कुयोगिनो योगच्छद्मनेन्द्रियतर्पणपराः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषं परमात्मानं निगूढम् इति दृष्टान्तेन तस्मिन् दिने तत्रैव स्व-पुर्यां राजा निगूढ एवासीद् इति लभ्यते ॥४८॥


॥ ४.१३.४९ ॥

अलक्षयन्तः पदवीं प्रजापतेर्

हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतान् अभिवन्द्य साश्रवो

न्यवेदयन् पौरव भर्तृ-विप्लवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : साश्रवो रुदन्तः । भर्तुर् विप्लवं नाशम् अदर्शनम् इत्य् अर्थः ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । णशधातोरदर्शनार्थत्वाद् इति भावः । पौरवेति । पूरुर्यथा भवद्वंशप्रवर्तकः स्वभार्यां देवहूतिं राज्येन सह त्यक्त्वा ययौ तथायमपीति नात्र विस्मय इति भावः ॥४९॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे चतुर्थ-स्कन्धे त्रयोदशो\ऽध्यायः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे पौरव ! विदुर ! भर्तुर् विप्लवं नाशम् अदर्शनम् इत्य् अर्थः ॥४९॥


इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदश चतुर्थस्य सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां चतुर्थ-स्कन्धे

अङ्ग-प्रव्रज्या नाम त्रयोदशोऽध्यायः ।

॥ ४.१३ ॥


(४.१४)